शब्दकल्पद्रुमः/प

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३/००१
शब्दकल्पद्रुमः । तृतीयकाण्डम् ।

, पकारः । स तु पञ्चमवर्गस्य प्रथमो व्यञ्जनस्यैक-

विंशतितमो वर्णः । अस्योच्चारणस्थानं ओष्ठः ।
इति व्याकरणम् ॥ (तथा च शिक्षायाम् ।
“कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू” ॥
अस्योच्चारणे आभ्यन्तरप्रयत्नः । ओष्ठेन सह
जिह्वाग्रस्य स्पर्शः ॥) तत्पर्य्यायः । लोहितः २
पार्श्वः ३ शूरः ४ । इति रुद्रयामले वर्णाभि-
धानम् ॥ अस्य तत्त्वं यथा, --
“अतः परं प्रवक्ष्यामि पकाराक्षरमव्ययम् ।
चतुर्व्वर्गप्रदं वर्णं शरच्चन्द्रसमप्रभम् ॥
पञ्चदेवमयं वर्णं स्वयं परमकुण्डली ।
पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा ॥
त्रिगुणावहितं वर्णमात्मादितत्त्वसंयुतम् ।
महामोक्षप्रदं वर्णं हृदि भावय पार्व्वति !” ॥
इति कामधेनुतन्त्रे ५ पटलः ॥
(वङ्गभाषायां) अस्य लेखनक्रमो यथा, --
“कुञ्चिता वामरेखायाः कोणाद्दक्षिणतोऽपरा ।
कुञ्चिता सापि विज्ञेया मात्रा वामोद्गता तथा ॥
शम्भुब्रह्मा भगवती क्रमशस्तासु तिष्ठति” ॥
इति वर्णोद्धारतन्त्रम् ॥
अस्योत्पत्तिप्रकारो यथा, --
“ऋटुरेफषकारञ्च मूर्द्धगो दन्तगस्तथा ।
ऌतवर्गलसानोष्ठ्यानुपूपध्मानस्रंज्ञकान्” ॥
इति प्रपञ्चसारः ॥ तस्य ध्यानं यथा, --
“विचित्रवसनां देवीं द्विभुजां पङ्कजेक्षणाम् ।
रक्तचन्दनलिप्ताङ्गीं पद्ममालाविभूषिताम् ॥
मणिरत्नादिकेयूरहारभूषितविग्रहाम ।
चतुर्व्वर्गप्रदां नित्यां नित्यानन्दमयीं पराम् ॥
एवं ध्यात्वा पकारन्तु तन्मन्त्रं दशधा जपेत्” ॥
इति वर्णोद्घारतन्त्रम् ॥ * ॥ तस्य नामानि यथा ।
“पः पूरप्रियता तीक्ष्णा लोहितः पञ्चमो रमा ।
गुह्यकर्त्ता निधिः शेषः कालरात्रिः सुवाहिता ॥
तपनः पालनः पाता पद्मरेणुर्निरञ्जनः ।
सावित्री पातिनी पानं वीरतत्त्वो धनुर्द्धरः ॥
दक्षपार्श्वश्च सेनानी मरीचिः पवनः शनिः ।
उड्डीशं जयिनी कुम्भोऽलसं रेखा च मोहक ॥
मूलाद्वितीयमिन्द्राणी लोकाक्षी मन आत्मनः” ॥
इति नानातन्त्रशास्त्रम् ॥
(अनुबन्धविशेषः । यथा कविकलपद्रुमे ।
‘नः स्वादिः पो मुचादिर्मः शमादिर्म्मो णिचीण्णमोः’ ।
तेन मुच ऌ श प ञौ मोक्ष इत्यस्य लटि मुञ्चति ॥)

पः, पुं, (पातयति वेगेन वृक्षादीन् । पत् + कर्त्तरि

डः । अन्तर्णिच् ।) पवनः । (पतति वृक्षात् ।
पत् + कर्त्तरि डः ।) पर्णम् । (पीयते इति ।)
पानम । पाता । इत्येकाक्षरकोषः ॥
(यथा, मनुः । २ । १३९ ।
“राजस्नातकयोश्चैव स्रातको नृपमानभाक्” ॥)

पक्कणः, पुं क्लीं, (पचति श्वादिनिकृष्टमांसमिति ।

पच् + क्विप् । पक् शवरः तस्य कणः कलह-
शब्दः कोलाहलशब्दो वा यत्र ।) शवरा-
लयः । इत्यमरः ॥ २ । २ । २० ॥ (यदुक्तम् ।
“मध्येविन्ध्याटवि पुरा पक्वणस्थजनाग्रणीः ।
पल्लीपतिरभूदुग्रः पिङ्गाक्ष इति विश्रुतः” ॥)

पक्तपौडः, पुं, वृक्षविशेषः । पखौडा इति

हिन्दी भाषा । तत्पर्य्यायः । पञ्चकृत्यः २
वर्द्धनः ३ पञ्चरक्षकः ४ । अस्य गुणाः । दृष्ट्य-
ञ्जनविघौ शस्तत्वम् । कटुत्वम् । जीर्णज्वरापह-
त्वञ्च । इति राजनिर्घण्टः ॥

पक्ता, [ऋ] त्रि, (पचतीति । पच पाके +

“ण्वुल्तृचौ” । ३ । १ । १३३ । इति तृच् ।)
पाककर्त्ता ।
(यथा अथर्व्ववेदे । १० । ९ । ७ ।
“ये ते देवि ! शमितारः पक्तारो ये च तेजनाः” ॥)
अग्नौ पुं । यथा । आग्नेये २ अध्यायः ॥
“अन्नस्रष्टा च पक्ता च पचभोक्ता पचे नमः” ॥

पक्तिः, स्त्री, (पच्यते परिणम्यते इति । भावे

क्तिन् ।) गौरवम् । पाकः । इति मेदिनी ॥
(यथा, मनुः । ३ । ६७ ।
“वैवाहिकेऽग्नौ कुर्व्वीत गृह्यं कर्म्म यथाविधि ।
पञ्चयज्ञविधानञ्च पक्तिञ्चान्वाहिकीं गृही” ॥)

पक्तिशूलं, क्ली, (पक्तौ भुक्तस्यान्नादिकस्य परि-

णामे जायते यत् शूलं रोगविशेषः ।) परिणाम-
शूलम् । तत्पर्य्यायः । पाकजम् २ परिणामजम्
३ । इति राजनिर्घण्टः ॥

पक्त्रं, क्ली, (पच्यतेऽनेन । पच् “गृधृवीपचिव-

चीति” । ऊणां ४ । १६६ । इति त्रः ।) गार्ह-
पत्याग्निः । इत्युणादिकोषः ॥

पक्त्रिमं, त्रि, (पाकेन निर्वृत्तम् । डु पच पाके

+ “ड्वितः क्त्रिः” । ३ । ३ । ८८ । इति क्त्रिः ।
“क्त्रेर्मम् नित्यम्” । इति मम् ।) पाकिमम् ।
पाकाज्जातम् । इति त्रिकाण्डशेषः ॥

पक्वं, क्ली, (पच्यते स्म । पच + क्त । “पचो वः” ।

८ । २ । ५२ । इति निष्ठातस्य वः ।) स्विन्न-
तण्डुलादि । तत्र पाकस्य विधिनिषेधादिर्यथा, --
“पूर्ब्बाशाभिमुखो भूत्वा उत्तराशामुखेन वा ।
पचेदन्नञ्च मध्याह्ने सायाह्ने च विवर्ज्जयेत् ॥
अग्न्याशाभिमुखे पक्त्वा अमृतान्नं निबोध च ।
पूर्ब्बमुखो धर्म्मकामः शोकहानिश्च दक्षिणे ॥
श्रीकामश्चोत्तरमुखो पतिकामश्च पश्चिमे ।
ऐशान्याभिमुखे पक्त्वा दरिद्रो जायते नरः” ॥ * ॥
“यदा तु आयसे पात्रे पक्वमश्नाति वै द्बिजः ।
स पापिष्ठोऽपि भुङ्क्तेऽन्नं रौरवे परिपच्यते ॥
ताम्रे पक्त्वा चक्षुर्हानिर्म्मणौ भवति वै क्षयम् ।
स्वर्णपात्रे तु यत् पक्वं अमृतं तदंपि स्मृतम्” ॥ * ॥
“पितृभ्यां पक्वमन्नञ्च पितृव्येण यशस्विनि ! ।
पुण्डरीकस्य यज्ञस्य लभते फलमीप्सितम् ॥
वातुलेन तु यत् पक्वं भगिन्या च कनिष्ठया ।
असगोत्रेण यत पक्वं शोणितं तदपि स्मृतम् ॥
अभक्तेन च यत् पक्वं स्त्रिया पक्वं तथैव च ।
पक्वपात्रे च यत् पक्वं तत् सर्व्वं निष्फलं भवेत्” ॥ * ॥
“उडुम्बरेण काष्ठेन कदम्बस्य दलेन च ।
शालेन करमर्द्देन उदरावर्त्तकेन च ॥
पक्वान्नं नैव भुञ्जीत भुक्त्वा रात्रिमुपावसेत् ।
गर्हितान्नमवीरान्नं भुक्त्वा कृच्छ्रं समाचरेत् ॥
अप्रजा यातु वनिता नाश्नीयादेव तद्गृहे” ॥
“शालकाष्ठस्य पक्वान्नं शिरीषकस्य चैव हि ।
कलिचण्डातकस्यैव वज्रावारुणकस्य च ।
भेरण्डशाल्मलैर्व्वापि पक्वान्नं गर्हितं स्मृतम् ॥ * ॥”
पृष्ठ ३/००२
“यदा मृण्मयपात्रे तु पक्वं वै सार्व्वकालिकम् ।
मासे पक्षे तथाष्टौ च तत् पात्रं विसृजेद्गृही” ॥ *
“धनुःपाके तथा सिंहे मिथुने वा वरानने ।
यः कुर्य्याद्भोजनं देवि ! कृच्छ्रेणैव विशुध्यति” ॥ * ॥
“एकदा तु जलं दद्यात् द्विवारं न प्रदापयेत् ।
त्रिभागं पूरयेत् पात्रं पश्चात्तोयं न दापयेत्” ॥
इति ॥ * ॥
“मोदकं कन्दुपक्वञ्च गव्याढ्यं घृतसंयुतम् ।
पुनः पुनर्भोजने च पुनरन्नं न दुष्यति” ॥
इति च मत्स्यसूक्ते महातन्त्रे ४२ पटलः ॥

पक्वं, त्रि, (पच्यते स्म यत् इति । पच + कर्म्मणि

क्तः । “पचो वः” । ८ । २ । ५२ । इति
निष्ठातस्य वः ।) परिणतम् । पाका इति
भाषा ॥ (यथा, मनुः । ६ । १७ ।
“अग्निपक्वाशनो वा स्याता कालपक्वभुगेव वा” ॥)
निष्ठां प्राप्तम् । सुदृढमिति यावत् । यथा परि-
णता बुद्धिः । विनाशोन्मुस्वम् । प्रत्यासन्नविना-
शम् । अतिपक्वव्यञ्जनदशमूलादौ निष्पक्वं कथि-
तञ्च । क्षीराज्यपयसां पाके शृतम् । ईषत्पक्वे
आपक्वम् । इत्यमरभरतौ ॥ (भावे क्तः । पाकः ।
परिणामः ॥)

पक्वकृत्, पुं, (पक्वं करोति वेदनान्वितस्थलं परि-

णमयति निष्पिष्टपत्रत्वगादिभिरिति । कृ + क्विप्
ततस्तुक् ।) निम्बवृक्षः । इति शब्दचन्द्रिका ॥
(पक्वं करोति पचत्यन्नादिकमित्यर्थः ।) पाक-
कर्त्तरि त्रि ॥

पक्वरसः, पुं, (पक्वस्य गुडान्नादेः रसः ।)

मद्यम् । इति शब्दरत्नावली ॥

पक्ववारि, क्ली, (पक्वस्यान्नादेर्वारि यद्वा, पक्वं वारि

स्विन्नसलिलमिति यावत् ।) काञ्जिकम् । इति
शब्दचन्द्रिका ॥ पङ्कवारि इत्यपि पाठः । पक्वजलञ्च ॥

पक्वान्नं, त्रि, (पक्वमन्नम् ।) कृतपाकतण्डुलादि । यथा-

“आमं शूद्रस्य पक्वान्नं पक्वमुत्सृष्टमुच्यते” ।
इति तिथितत्त्वम् ॥
(“यती च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ” ।
इति सदाचारः ॥)

पक्वाशयः, पुं, (पक्वस्य आमादेराशयः आधानम् ।

यद्वा पक्वं आमादिकं आशेतेऽत्र । पक्व + आ
+ शीङ् + आधारे + अप् ।) नाभ्यधोभागः ।
इति राजनिर्घण्टः ॥
“पक्वाशयस्त्वधो नाभेरूर्द्धमामाशयः स्मृतः” ।
इति वैद्यकम् ॥

पक्ष, क परिग्रहे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) क, पक्षयति । इति दुर्गादासः ॥

पक्ष, त् क परिग्रहे । इति कविकल्पद्रुमः ॥ (अदन्त

चुरां-परं-सकं-सेट् ।) पक्षयति पक्षापयति ।
इति दुर्गादासः ॥

पक्षः, पुं, (पक्ष्यते परिगृह्यते देवपितृकार्य्यार्थं यः ।

यद्वा, पक्ष्यते चन्द्रस्य पञ्चदशानां कलाना-
मापूरणं क्षयो वा येन । पक्ष + घञ् । यद्वा,
पणते इति । पण स्तुत्यादौ “गृधिपण्योर्दकौच” ।
उणां ३ । ६९ । इति सः कश्चान्तादेशः ।) पञ्च-
दशाहोरात्राः । स च द्विविधः । शुक्लपक्षः पूर्ब्ब-
संज्ञः कृष्णपक्षोऽपरसंज्ञः । तद्भेदेन व्यवस्था यथा ।
“शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविः ।
कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितो रविः” ॥
अत्रामावास्यावत्तिथिक्षयवृद्धिभ्यां न व्यवस्था
किन्तु रवेरुदयास्तमयसम्बन्धाच्छुक्लकृष्णपक्षाभ्यां
व्यवस्था सा च युग्माद्यनाघ्राततिथिकर्म्मपरा
सामान्यविशेषन्यायात्” । इति तिथ्यादितत्त्वम् ॥
पक्षिणामवयवविशेषः । पाखा इति भाषा ।
तत्पर्य्यायः । गरुत् २ छदः ३ पत्रम् ४ पतत्रम् ५
तनूरुहम् ६ ॥ शरपक्षः । तीरेर पाखा इति
भाषा । तत्पर्य्यायः । वाजः २ । सहायः ।
कचात् परे समूहार्थः । यथा केशपक्षः । इत्य-
मरः ॥ (महाकालः शिवः । कालोपाधि-
भेदात् पक्षस्य तथात्वम् । यथा महाभारते ।
१३ । शिवसहस्रनामकीर्त्तने । १७ । १३९ ।
“ऋतुः संवत्सरो मासः पक्षः संख्या समापनः ॥”)
पार्श्वः । गृहम् । साध्यम् । (सन्दिग्धसाध्यवान्
पदार्थः । यथा, भाषापरिच्छेदे । ७० । ७१ ।
“सिषाधयिषया शून्या सिद्धिर्यत्र न विद्यते ।
स पक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत्” ॥)
विरोधः । बलम् । (यथा, पञ्चतन्त्रे । ३ । ६६ ।
“यस्तीर्थानि निजे पक्षे परपक्षे विशेषतः ।
गुप्तैश्चरैर्नृपो वेत्ति न स दुर्गतिमाप्नुयात्” ॥)
सखा । चुल्लीरन्ध्रम् । राजकुञ्जरः । इति मेदिनी ॥
विहगः । वलयम् । शुद्धः । इति शब्दरत्नावली ॥
वर्गः । (सजातीयवृन्दम् । यथा, गोः रामायणे ।
२ । १८ । १३ ।
“भरतस्यापि वा पक्षं यो गृह्णीयादचेतनः ।
तं पापमहमद्यैव प्रेषयामि यमक्षयम्” ॥)
पिच्छम् । देहाङ्गम् । इति हेमचन्द्रः ॥

पक्षः, [स्] क्ली, (पचतीति । “पचिवचिभ्यां

सुट् च” । उणां । ४ । २१९ । इति असुन् सुट्
च ।) गरुत् । यथा । पक्षसी च स्मृतौ पक्षौ ।
इति भरतधृतशुभाङ्कः ॥

पक्षकः, पुं, (पक्ष इव प्रतिकृतिः । “इवे प्रति-

कृतौ” । ५ । ३ । ९६ । इति कन् ।) पक्ष-
द्वारम् । पार्श्वद्वारम् । इत्यमरः । २ । २ । १४ ॥
खडकीद्वार इति भाषा । पाश्बमात्रम् । इति
मेदिनी ॥ सहायः । इति शब्दरत्नावली ॥

पक्षघातः पुं, (पक्षस्य देहाद्धस्य घातं विना-

शनं यस्मात् यत्र वा ।) स्वनामख्यात-
वातरोगविशेषः । तल्लक्षणादि यथा, --

पक्षाघातः पुं, (पक्षस्य देहाद्धस्य घातं विना-

शनं यस्मात् यत्र वा ।) स्वनामख्यात-
वातरोगविशेषः । तल्लक्षणादि यथा, --
“गृहीत्वार्द्धं ततो वायुः शिरास्नायू विशोष्य च ।
पक्षमन्यतमं हन्ति सन्धिबन्धान् विमोक्षयन् ॥
कृत्स्नोऽर्द्धकायस्तस्य स्यादकर्म्मण्यो विचेतनः ।
एकाङ्गवातं तं केचिदन्ये पक्षवधं विदुः” ॥
अर्द्धं अर्द्धनारीश्वरवत् । पक्षं बाहुपार्श्वोरु-
जङ्घादिभागम् । अन्यतमं वामं दक्षिणं वा ।
विमोक्षयन् शिथिलीकुर्व्वन् । अकर्म्मण्यः कर्म्मा-
समर्थः । विचेतनः ईषत्र्स्पशादिज्ञानयुक्तः ॥ * ॥
अस्य साध्यासाध्यज्ञानार्थमाह ।
“दाहसन्तापमूर्च्छाः स्युर्व्वायौ पित्तसमन्वित ।
शैत्यशोथगुरुत्वानि तस्मिन्नेव कफावृते” ॥
दाहो वाह्यः । सन्तापः आभ्यन्तरः । एतच्च
लक्षणमन्यत्रापि वातव्याधौ बोद्धव्यम् । सामा-
न्यतो वायाविति निर्दिष्टत्वात् ॥ * ॥
पक्षाघातस्य साध्यत्वादिकमाह ।
“शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः ।
साध्यमन्येन संयुक्तमसाध्यं क्षयहेतुकम्” ॥
शुद्धः केवलः । अन्येन पित्तेन कफेन वा । क्षय-
हेतुकं क्षयो धातुक्षयः । तत्कुपितं वातनिमि-
त्तकम् ॥ * ॥ अपरमसाध्यलक्षणमाह ।
“गर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्क्षये ।
पक्षाघातं परिहरेत् वेदनारहितो यदि” ॥
वेदनारहितो यदीति भिन्नमसाध्यलक्षणम् ॥ * ॥
अथ तस्य चिकित्सा ।
“माषात्मगुप्तावातारिवाट्यालकजटाशृतम् ।
हिङ्गुसैन्धवसंयुक्तं पक्षाघातं विनाशयेत् ।
माषिके हिङ्गुसिन्धूत्थे जरणाद्यास्तु शाणिकाः” ॥
इति माषादिक्वाथः ॥ १ ॥
“ग्रन्थिकाग्निकणाशुण्ठीरास्नासैन्धवकल्कितम् ।
माषक्वाथशृतं तैलं पक्षाघातं व्यपोहति” ॥
इति ग्रन्थिकादितैलम् ॥ २ ॥
“माषात्मगुप्तातिविषारुवूक-
रास्नाशताह्वालवणैः सुपिष्टैः ।
चतुर्गुणे माषवलाकषाये
तैलं शृतं हन्ति हि पक्षघातम्” ॥
इति माषादितैलम् ॥ ३ ॥ इति भावप्रकाशः ॥ * ॥
पक्षाघातस्तु जन्मान्तरीयमहापातकशेषपाप-
चिह्नविशेषः । यथा, --
“पूर्ब्बजन्मकृतं पापं नरकस्य परिक्षये ।
बाधते व्याधिरूपेण तस्य कृच्छ्रादिभिः शमः ॥
कुष्ठञ्च राजयक्ष्मा च प्रमेहो ग्रहणी तथा ।
मूत्रकृच्छ्राश्मरीकाशा अतिसारभगन्दरौ ॥
दुष्टव्रणं गण्डमाला पक्षाघातोऽक्षिनाशनम् ।
इत्येवमादयो रोगा महापापोद्भवा गदाः” ॥ * ॥
तत्प्रायश्चित्तं यथा, --
“लक्षमुच्चावचं पुष्पं प्रदद्यात् केशवार्च्चने ।
दद्यात् द्विजसहस्राय मिष्टान्नं द्बिजभोजने” ॥
इति मलमासतत्त्वम् ॥ किञ्च ।
“कुनखी श्यावदन्तश्चद्वादशरात्रं कृच्छ्रं चरित्वा
उद्धरेयातां तद्दन्तनखाविति । अत्र द्वादशरात्रं
पराकरूपम् । तत्र पञ्च धेनवः । न तु प्राजापत्यं
तद्दाहकर्त्तुर्यतिचान्द्रायणेन विषमशिष्टत्वात् ।
अत्र बहूनामेकधर्म्माणामिति वचनादाकाङ्क्षि-
तत्वात् कुष्ठ्यादीनामपि प्रायश्चित्तम् । अत-
एव प्रायश्चित्तविवेकेऽप्युक्तम् । एवं दुश्चर्म्मादिष्व-
प्यूह्यम्” । इति शुद्धितत्त्वम् ॥

पक्षचरः, पुं, (पक्षे शुक्लपक्षे चरतीति । चर + टः ।)

चन्द्रः । पृथक्चारिगजः । इति मेदिनी ॥

पक्षजः, पुं, (पक्षे शुक्लपक्षे जायते इति । पक्ष +

जन् + ड ।) चन्द्रः । इति त्रिकाण्डशेषः ॥

पक्षजन्मा, [न्] पुं, (पक्षे शुक्लपक्षे जन्म उत्पत्ति-

पृष्ठ ३/००३
र्यस्य ।) चन्द्रः । इति शब्दरत्नावली ॥ पक्ष-
जाते त्रि ॥

पक्षता, स्त्री, (पक्षस्य भावः ।) अनुमित्साविरह-

विशिष्टसिद्ध्यभावः । इत्यमनुमितिकारणम् । तच्च
पर्व्वते वह्न्यनुमितौ अनुमित्साविरहविशिष्ट-
पर्व्वतधर्म्मिकवह्निनिश्चयाभावः । यथा, --
“सिसाधयिषया शून्या सिद्धिर्यत्र न विद्यते ।
स पक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत्” ॥
इति भाषापरिच्छेदे । ७१ ॥

पक्षतिः, स्त्री, (पक्षस्य मूलम् । “पैक्षात्तिः” ।

५ । २ । २५ । इति तिः ।) प्रतिपत्तिथिः । (यदुक्तं
तिथितत्त्वे ।
“पक्षत्याद्यास्तु तिथयः क्रमात्पञ्चदश स्मृताः” ॥)
पक्षमूलम् । इत्यमरः । ३ । ३ । ७२ ॥ डानक्
इति भाषा ॥

पक्षद्वारं, क्ली, (पक्षे पार्श्वे स्थितं द्वारम् ।) पार्श्व-

द्वारम् । इत्यमरः । २ । २ । १४ ॥ खडकीद्वार
इति भाषा ॥

पक्षधरः, पुं, (पक्षं धरति धारयतीति वा । धृ

+ अच् ।) चन्द्रः । इति जटाधरः ॥ पक्षधारण-
कर्त्तरि, त्रि ॥

पक्षपातः, पुं, (पक्षे अन्याय्यसाहाय्ये पातः अभि-

निवेशः । स्नेहसम्बन्धाद्यनुरोधत एकस्मिन्नेव वर्गे
आनुकूल्यप्रयोगचिकीर्षेतिभावः ।) अन्याय्य-
साहाय्यकरणम् । (यथा गोः रामायणे
२ । १०९ । ५७ ।
“क्वच्चिद्विवदतोऽर्थेषु बलिनो दुर्ब्बलस्य च ।
अपक्षपातात् पश्यन्ति कार्य्येष्वधिकृता नराः” ॥)
गणताकरणम् । यथा । “ईश्वरत्वविषये विप-
श्चितां पक्षपातकरणे न कारणम्” । इत्युत्तर-
मीमांसायां संक्षेपशारीरम् ॥ (पक्षाणां गरुतां
पातः पतनं यत्र ।) पक्षिणां ज्वरः । यदुक्तं
“पक्षपातः पतङ्गानाम् । इति विजयरक्षितः ॥

पक्षपातिता, स्त्री, (पक्षपातिनः साहाय्यकारिणो

भावः । पक्षपातिन् + तल् ।) सहायता । यथा, --
“न सुवर्णमयी तनुः परं
ननु किं वागपि तावकी तथा ।
न परं पथि पक्षपातिता
ऽनवलम्बे किमु मादृशेऽपि सा” ॥
इति नैषधे । २ । ५२ ॥ (पक्षयोः पातो विद्यतेऽस्य
इति पक्षपाती खगस्तस्य भावः । पक्षपातनञ्च ॥)

पक्षपालिः, पुं, (पक्षस्य गृहस्य पालिरिव ।) खड-

क्किका । इति शब्दरत्नावली । खडकीद्वार
इति भाषा ॥

पक्षभागः, पुं, (पक्षस्य पार्श्वस्य पक्ष एव वा

भागः ।) हस्तिपार्श्वभागः । इत्यमरः । २ । ८ । ४० ॥

पक्षमूलं, क्ली, (पक्षस्य मूलम् ।) पक्षतिः । इत्य-

मरः । २ । ५ । ३६ । डानक् इति भाषा ॥

पक्षवाहनः, पुं, (पक्षौ वाहनमिव यस्य ।) पक्षी ।

इति शब्दचन्द्रिका ॥

पक्षसुन्दरः, पुं, (पक्षे देहाङ्गे कुसुमे सुन्दरः ।)

लोध्रः । इति हारावली ॥

पक्षान्तः, पुं, (पक्षस्य अन्तो यत्र काले ।) अमा-

वस्या । पूर्णिमा । तत्पर्य्यायः । पञ्चदशी २ ।
इत्यमरः । १ । ४ । ७ ॥ अर्केन्दुविश्लेषः ३ पर्ष्व
४ । इति राजनिर्घण्टः ॥ पक्षावसरः ५ । इति
शब्दरत्नावली ॥ (अस्मिन् यात्रा निष्फला
भवति । यदुक्तं ज्योतिस्तत्त्वे ।
‘पक्षान्ते निष्फला यात्रा मासान्ते मरणं ध्रुवम्’ ॥)

पक्षालुः, पुं, (पक्षौ विद्येते यस्य । पक्ष + अस्त्यर्थे

आलुच् ।) पक्षी । इति शब्दचन्द्रिका ॥

पक्षावसरः, पुं, (पक्षस्यावसरोऽपसरणं यत्र

काले ।) पूर्णिमा । अमावस्या । इति शब्द-
रत्नावली ॥

पक्षिणी, स्त्री, (पक्षौ इव पूर्ब्बापरदिने विद्येते

यस्याः । पक्ष + इति ङीप् च ।) आगामिवर्त्त-
मानाहर्युक्ता रात्रिः । इत्यमरः । १ । ४ । ५ ॥
यथा, शुद्धितत्त्वे ।
“द्वावह्नावेकरात्रिश्च पक्षिणीत्यभिधीयते” ॥
पूर्णिमा ॥ (पक्षौ विद्येते यस्याः । इति ङीप् ।)
विहगी । शाकिनीभेदः । इति मेदिनी ॥

पक्षिपानीयशालिका, स्त्री, (पक्षिणां पानीयस्य

पानार्थजलस्य शालिका शाला ।) चुण्टीवृताल-
वालम् । पक्षिजलपानस्थानम् । इति भूरि-
प्रयोगः ॥

पक्षिलः, पुं, (पक्षयति तत्त्वज्ञानं परिगृह्णातीति ।

पक्ष + बाहुलकादिलच् ।) वात्स्यायनमुनिः । इति
त्रिकाण्डशेषः ॥ (अयं हि गौतमसूत्रभाष्यं कृत-
वान् ॥)

पक्षिशाला, स्त्री, (पक्षिणां शाला गृहम् ।) नीडम् ।

तत्पर्य्यायः । कुलायिका २ । इति त्रिकाण्डशेषः ॥

पक्षिसिंहः, पुं, (पक्षी सिंह इव । उपमितसमासः ।

यद्वा, पक्षिषु सिंहः श्रेष्ठः । “सिंहशार्द्दूल-
नागाद्याः पुंसि श्रेष्ठार्थवाचकाः” । इत्यमरोक्ते-
स्तथात्वम् ।) गरुडः । इति त्रिकाण्डशेषः ॥

पक्षिस्वामी, [न्] पुं, (पक्षिणां स्वामी प्रभुः ।)

गरुडः । इति हेमचन्द्रः ॥

पक्षी, [न्] पुं, (पक्षाः कङ्कादीनां पत्राणि सन्त्यस्य ।

“अत इनिठनौ” । ५ । २ । ११५ । इति इनिः ।)
वाणः । इति धरणिः ॥

पक्षी, [न्] पुं स्त्री, पक्षौ विद्येते यस्य । (पक्ष +

इनिः ।) विहङ्गमः ॥ पाखी इति चिडिया इति
च भाषा ॥ तत्पर्य्यायः । खगः २ विहङ्गः ३
विहगः ४ विहङ्गमः ५ विहायाः ६ शकुन्तिः ७
शकुनिः ८ शकुन्तः ९ शकुनः १० द्विजः ११
पतत्री १२ पत्री १३ पतगः १४ पतन् १५ पत्र-
रथः १६ अण्डजः १७ नगौकाः १८ वाजी १९
विकिरः २० विः २१ विष्किरः २२ पतित्रिः २३
नीडोद्भवः २४ गरुत्मान् २५ पिच्छन् २६ नभ-
सङ्गमः २७ । इत्यमरः । २ । ५ । ३४ ॥ नाडीचरणः
२८ कण्डाग्निः २९ पतङ्गः ३० अगौकाः ३१ चञ्चु-
भृत् ३२ छुरण्डः ३३ सरण्डः ३४ । इति शब्द-
रत्नावली ॥ पिपतिषुः ३५ पत्रवाहः ३६ द्युगः
३७ । इति राजनिर्घण्टः ॥ * ॥ गुरुभक्षबहुभक्ष-
स्थूलकायपक्षिणां पूर्ब्बार्द्धस्य श्रेष्ठत्वं यथा, --
“गुरुभक्षा बहुभुजो ये चोपचितमेदसः ।
एकदेहेऽपि पूर्ब्बार्द्धं मृगाणां पक्षिणां परम्” ॥ * ॥
पक्षिणामङ्गादीनामुत्तरोत्तरं गुरुत्वं यथा, --
“सर्व्वेषाञ्च शिरःस्कन्धप्लीहचर्म्मयकृद्गुदम् ।
पादपुच्छान्त्रमस्तिष्कमुष्कक्रोडाः समेहनाः ।
धातवः शोणिताद्याश्च गुरवःस्युः परस्परम्” ॥
अस्याण्डगुणाः ।
“मत्स्यकूर्म्मखगाण्डानि स्वादुवाजीकराणि च ।
कटुपाकानि रुच्यानि वातश्लेष्महराणि च” ॥
इति राजवल्लभः ॥ * ॥ तेषामुत्पत्तिर्यथा, --
“अरुणस्य भार्य्या श्येनी वीर्य्यवन्तौ महाबलौ ।
सम्पातिश्च जटायुश्च प्रसूतौ पक्षिसत्तमौ ॥
सम्पातिर्जनयन् गृध्रान् काकाः पुत्त्रा जटायुषः ।
भार्य्या गरुत्मतश्चापि भासी क्रौञ्ची शुनी शुकी ॥
धृतराष्ट्री गरुत्मांस्तु शुन्यां जज्ञे च षट् सुतान ।
त्रिशिखञ्च सुनेत्रञ्च सुमुखं सुनसन्तथा ॥
सुरूपन्तु सुपर्व्वाणं तेषां पुत्त्रा अनन्तकाः ।
चतुर्द्दशसहस्राणि क्रूराणां पन्नगाशिनाम् ॥
सप्तद्वीपेष्विमे सन्ति गारुडास्ते महाबलाः ।
भासीपुत्त्रास्तथा भासा उलूकाः काककुक्कुटाः ॥
मयूराः कलविङ्काश्च कपोती चैव तित्तिरी ।
क्रौञ्च्यां वाध्रीणसा आसन् कुरराः सारसा वकाः ॥
धृतराष्ट्री कलहंसान् धार्त्तराष्ट्रांश्च भामिनी ।
चक्रवाकांश्च विहगान् सश्येनानौदकान् द्बिजान् ॥
अन्यानपि द्विजान् जज्ञे पुत्त्रपौत्त्राननन्तकान” ॥
इत्यग्निपुराणे काश्यपीयवंशः ॥ (महादेवः । यथा,
महाभारते १३ । शिवनामकीर्त्तने । १७ । ६९ ।
“पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः” ॥)

पक्ष्णुः, त्रि, पाककर्त्ता । पच + “ग्लाम्लास्थाक्षि-

पचपरिमृजः स्नुः” । इति स्नुप्रत्ययनिष्पन्नः ।
इति मुग्धबोधव्याकरणम् ॥

पक्ष्म, [न्] क्ली, (पक्ष्यते परिगृह्यते आतपतापा-

दिकमनेन । पक्ष + करणे मनिन् ।) अक्षिलोम ।
नेत्रच्छदरोम । (यथा, भागवते । ३ । १ । ३९ ।
“यमायुतस्वित् तनयौ पृथायाः
पार्थैर्वृतौ पक्ष्मभिरक्षिणीव” ॥)
किञ्जल्कः । केशरः । तन्त्वादेरणीयान् । सूत्रादे-
रत्यल्पभागः । इत्यमरभरतौ ॥ गरुत् । पक्षः ।
इत्यमरमाला ॥

पङ्कः, पुं, क्ली, (पच्यत्रे व्याप्यते क्लिद्यते वाऽनेन ।

पच् + घञ् कुत्वं च ।) कर्द्दमः । पाँक् इति
भाषा । (यथा, हितोपदेशे । १ । ६२ ।
“कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे ।
वृद्धव्याघ्रेण संप्राप्तः पथिकः संमृतो यथा” ॥
पच्यते व्यक्तीक्रियते दुःखमनेन । पचि विस्तारे
व्यक्तीकरणेच । पचधातोरिदित्वात् नुम् । “हल-
श्चेति” । ३ । ३ । १२१ । करणे घञ् ततो
घित्त्वात् चस्य कुत्वम् ।) पापम् । इत्यमरः ।
१ । ४ । २३ ॥ (यथा, अम्बाष्टके । ६ । “न्यङ्का-
करे वपुषि कङ्कादिरक्तपुषि कङ्कादिपक्षिविषये
त्वं कामनामयसि किं कारणं हृदय ! पङ्कारि-
पृष्ठ ३/००४
मेहि गिरिजाम् ॥”) पूर्ब्बस्य गुणाः । पित्तास-
दाहनाशित्वम् । भग्नक्षयहितत्वम् । हिमत्वञ्च ।
इतिराजवल्लभः ॥ शोथघ्नत्वम् । सरत्वञ्च । इति
भावप्रकाशः ॥

पङ्कर्व्वटः, पुं, (पङ्केषु कर्व्वटो मनोहरः ।) जल-

युक्तपङ्कम् । यथा, --
“चुलुको घनजम्बाले दलाढ्ये पङ्ककर्व्वटः” ।
इति त्रिकाण्डशेषः ॥

पङ्ककीरः, पुं, (पङ्कप्रियः कीरः पक्षिविशेषः ।)

कोयष्टिपक्षी । इति त्रिकाण्डशेषः ॥ (कादा-
खोँचा इति भाषा ॥)

पङ्कक्रीडः, पुं, (पङ्के पङ्केन वा क्रीडति यः । पङ्क

+ क्रीड + अच् ।) शूकरः । इति कश्चित् ।
कर्द्दमखेलके, त्रि ॥

पङ्कगडकः, पुं, (पङ्के स्थितो गडकः ।) मत्स्य-

विशेषः । पाँकाल इति भाषा । तत्पर्य्यायः ।
ब्रह्मी २ । इति त्रिकाण्डशेषः ॥

पङ्कगतिः, स्त्री, (पङ्के गतिरस्य ।) पङ्कगडक-

मत्स्यः । इति शब्दमाला ॥

पङ्कग्राहः, पुं, (पङ्केस्थितो ग्राहः जलजन्तुभेदः ।)

मकरः । इति हारावली ॥

पङ्कजं, क्ली, (पङ्के पङ्कात् वा जायते इति । पङ्क

+ जन + कर्त्तरि + डः ।) पद्मम् । इति राज-
निर्घण्टः ॥ (यथा रघुः । ३ । ८ ।
“तिरश्चकार भ्रमराभिलीनयोः
सुजातयोः पङ्कजकोषयोः श्रियम्” ॥
अयं हि योगरूढशब्दः । यदुक्तम् ।
“रूढा गष्मदयः प्रोक्ता यौगिकाः पाचकादयः ।
योगरूढाश्च विज्ञेयाः पङ्कजाद्या मनीषिभिः” ॥)

पङ्कजन्म, [न्] क्ली, (पङ्के जन्म यस्य ।) पद्मम् ।

इति त्रिकाण्डशेषः ॥

पङ्कजिनी, स्त्री, (पङ्कजानि सन्त्यस्याम् । “पुष्व-

रादिभ्यो देशे” । ५ । २ । १३५ । इति इनिः ।)
पद्माकरः ।
(यथा, मार्कण्डेये । ७५ । २४ ।
“तस्यर्क्षर्स्य तु या कान्तिर्जाता पङ्कजिनीसरः” ॥)
पद्मसमूहः । इति रत्नमाला हेमचन्द्रश्च ॥

पङ्कणः, पुं, (पङ्के मांसादिनिमित्तके पापाचार-

कर्म्मणि कणः (कलहो यस्य सः । पृषोदरादित्वात्
साधुः ।) पक्वणः । शवरालयः । इति शब्द-
रत्नावली ॥

पङ्कप्रभा, स्त्री, (पङ्कस्य प्रभा प्रकाशो यस्याम् ।)

कर्द्दमयुक्तनरकविशेषः । इति हेमचन्द्रः ॥

पङ्कमण्डूकः, पुं, (पङ्के मण्डूक इव) शम्बूकः । इति

हारावली ॥

पङ्करुट् [ह्] क्ली, (पङ्के रोहतीति । पङ्क

+ रुह + क्विप् ।) पद्मम् । इति राजनिर्घण्टः ॥

पङ्करुहं, क्ली, (पङ्के रोहतीति । पङ्क + रुह् +

“इगुपधज्ञाप्रीकिरः कः” । ३ । १ । १३५ ।
इति कः ।) पद्मम । इति राजनिर्घण्टः ॥

पङ्कवामः, पुं, (पर्ङ्के वासो यस्य सः ।) कर्क्कटः ।

इति राजनिर्घण्टः ॥ (मत्स्यादयोऽप्यत्र ॥)

पङ्कशुक्तिः, स्त्री, (पङ्के स्थिता या शुक्तिः ।) दुर्नामा ।

इति हारावली ॥ झिनुक् इति भाषा ॥

पङ्कशूरणः, पुं, (पङ्के शूरण इव ।) शालूकः । इति

त्रिकाण्डशेषः ॥

पङ्कारः, पुं, (पङ्कमृच्छति पङ्कं प्राप्य वर्द्धते

इति यावत् । पङ्क + ॠ + उपपदे “कर्म्मण्यण्” ।
३ । २ । १ । इति अण् ।) शैवलः । सेतुः ।
सोपानम् । जलकुब्जकः । इति मेदिनी ॥

पङ्किलः, त्रि, (पङ्कोऽस्त्यस्मिन् । “लोमादिपामादि-

पिच्छादिभ्यः शनेलचः” । ५ । २ । १०० । इति
इलच् ।) सकर्द्दमः । तत्पर्य्यायः । सजम्बालः
२ । इत्यमरः । २ । १ । १० ॥ पङ्कयुक्तः ३ । इति
शब्दरत्नावली ॥ कर्द्दमान्वितः ४ । इति जटाधरः ॥
(लक्षणया व्याप्त्यर्थेऽपि । यथा महाभारते ८
पर्व्वणि । “मांसमज्जास्थिपङ्किला मही” ॥)

पङ्केजं, क्ली, (पङ्के जायते इति । “सप्तम्यां जनेर्डः” ।

३ । २ । ९७ । इति डः । “तत्पुरुषे कृतीति” ।
६ । ३ । १४ । इति सप्तम्या अलुक् ।) पद्मम् ।
इति त्रिकाण्डशेषः ॥

पङ्केरुहं, क्ली, (पङ्केरोहतीति । पङ्क + रुह + “इगु-

पधेति” । ३ । १ । १३५ । इति कः । “तत्-
पुरुषे कृति बहुलम्” । ६ । ३ । १४ । इति
सप्तम्या अलुक् ।) पद्मम् । इत्यमरः ॥ १ । १० ।
४० ॥ (यथा, भागवते । ७ । १५ । ६८ ।
“यत्पादपङ्केरुहसेवया भवानहारषीन्निर्जित-
दिग्गजः क्रतून्” ॥) सारसपक्षिणि, पुं ॥

पङ्क्तिः, स्त्री, (पच्यते व्यक्तीक्रियते श्रेणीविशेषे-

णेति यावत् । पचि + व्यक्तीकरणे + भावे +
क्तिन् । इदित्वान्नुम् । यद्वा, पञ्चयति विस्तार-
यति जातिसंस्थानविशेषमिति । पचि + विस्तारे
+ कर्त्तरि + क्तिच् ।) सजातीयसंस्थानविशेषः ।
शारि इति पाँति इति च भाषा । तत्-
पर्य्यायः । वोथी २ आलिः ३ आवलिः ४
श्रेणी ५ । इत्यमरः । २ । ४ । ४ ॥ वीथिः ६
आली ७ आवली ८ पङ्क्ती ९ श्रेणिः १० ।
इति भरतः ॥ शरणिः ११ सन्ततिः १२ ।
इति जटाधरः ॥ विञ्जोली १३ पालिः १४ पाली
१५ वीथिका १६ । इति शब्दरत्नावली ॥
(यथा, मार्कण्डेये । ४३ । ३९ ।
‘विलोक्या विशदा चैषां फलपङ्क्तिः सुभीषणा’ ॥)
पञ्चाक्षरपादच्छन्दोविशेषः । तस्य लक्षणं यथा ।
“भ्गौगिति पङ्क्तिः” ॥ १ ॥ उदाहरणं यथा, --
“कृष्णसनाथा तर्णकपङ्क्तिः ।
यामुनकच्छे चारु चचार” ॥
इति छन्दोमञ्जरी ॥ (पङ्क्तिच्छन्दस उत्पत्ति-
स्थानं यथा, भागवते । ३ । १२ । ४६ ।
“मज्जायाः पङ्क्तिरुत्पन्नावृहती प्राणतोऽभवत्” ॥
पञ्चकद्वयं परिमाणमस्य इति । “पङ्क्ति-
विंशतित्रिंशदिति” । ५ । १ । ५९ । निपातनात्
प्रकृतेः पञ्चन्शब्दस्य टिलोपः तिप्रत्ययश्च ।)
दशाक्षरपादच्छन्दः । दशसंख्या । इति मेदिनी ॥
(यथा, रघुः । १२ । ९९ ।
“तेन मन्त्रप्रयुक्तेन निमेषार्द्धादपातयत् ।
स रावणशिरःपङ्क्तिमज्ञातव्रणवेदनाम्” ॥)
पृथिवी । इति शब्दमाला ॥ गौरवम् । पाकः ।
इति हेमचन्द्रः ॥ * ॥
अथ पङ्क्तिसाङ्कर्य्यदोषाः यथा, --
“न संवसेच्च पतितैर्न चाण्डालैर्न पुक्कशैः ।
न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥
एकशय्यासनं पङ्क्तिर्भाण्डपक्वान्नमिश्रणम् ।
याजनाध्यापने योनिस्तथैव सह भोजनम् ॥
सहाध्यायस्तु दशमः सहयाजनमेव च ।
एकादश समुद्दिष्टा दोषाः साङ्कर्य्यसङ्गिताः ॥
समीपे चाप्यवस्थानात् पापं संक्रमते नृणां ।
तस्मात् सर्व्वप्रयत्नेन साङ्कर्य्यंपरिवर्ज्जयेत्” ॥ * ॥
पङ्क्तिसाङ्कर्य्यदोषनिवारणोपाया यथा, --
“एकपङ्क्त्युपविष्टा ये न स्पृशन्ति परस्परम् ।
भस्मना क्रममर्य्यादा न तेषां सङ्करो भवेत् ॥
अग्निना भस्मना चैव षड्भिः पङ्क्तिर्विभिद्यते” ॥
इति कूर्म्मे १५ अध्यायः ॥

पङ्क्तिग्रीवः, पुं, (पङ्क्तिः दशसङ्ख्यिका ग्रीवा

यस्य ।) रावणः । इति शब्दरत्नावली ॥

पङ्क्तिचरः, पुं, (पङ्क्त्या श्रेणीबद्धः सन् चर-

तीति । पङ्क्ति + चर् + टः ।) कुररपक्षी ।
इति राजनिर्घण्टः ॥

पङ्क्तिदूषकः, पुं, (श्राद्धकाले भोजनार्थमुप-

विष्टानां व्रतस्नातानां ब्राह्मणानां पङ्क्तिं श्रेणीं
दूषयति यः । पङ्क्ति + दूष् + कर्त्तरि ण्वुल् ।)
अपाङ्क्तेयः । श्राद्धभोजनानर्हब्राह्मणः । यथा, --
“अपाङ्क्तेयास्तुयेराजन् ! कीर्त्तयिष्यामि तान् शृणु ।
कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः ॥
ग्रामप्रेष्यो वार्द्धुषिको गायनः सर्व्वविक्रयी ।
अगारदाही गरदः कुण्डाशी सोमविक्रयी ॥
सामुद्रिको राजदूतस्तैलिकः कूटकारकः ।
पित्रा विवदमानश्च यस्य चोपपतिर्गृहे ॥
अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति ।
पर्व्वकारश्च सूची च मित्रध्रुक् पारदारिकः ॥
अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च ।
श्वभिश्च यः परिक्रामेत् यः शुना दष्ट एव च ॥
परिवृत्तिस्तु यश्च स्याद्दुश्चर्म्मा गुरुतल्पगः ।
कुशीलवो देवलको नक्षत्रैर्यश्च जीवति ॥
ईदृशा ब्राह्मणा ये च अपाङ्क्तेयास्तु ते मताः ।
रक्षांसि गच्छते हव्यं यदेषान्तु प्रदीयते” ॥ * ॥
“श्राद्धे भुक्त्रा महाराज ! दुश्चर्म्मा गुरुतल्पगः ।
श्राद्धं नाशयते तस्य पितरोऽपि न भुञ्जते ॥
सोमविक्रयिणे दत्तं विष्ठातुल्यं भवेन्नृप !
भिषजे शोणितसमं नष्टं देवलके तथा ॥
अप्रतिष्ठं वार्द्धुषिके निष्फलं परिकीर्त्तितम् ।
बहुवाणिजके दत्तं नेह नामुत्र तद्भवेत् ॥
भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे ।
ये तु धर्म्मव्यपेतेषु चरित्रापगतेषु च ॥
हव्यं कव्यं प्रयच्छन्ति तेषां तत् परिनश्यति ।
ज्ञानपूर्ब्बन्तु ये तेभ्यः प्रयच्छन्त्यल्पबुद्धयः ॥
पुरीषं भुञ्जते तस्य पितरः प्रेत्य निञ्चितम् ।
पृष्ठ ३/००५
एतान्विद्धि महाबाहो अपाङ्क्तेयान् द्बिजाधमान् ।
शूद्राणामुपदेशन्तु ये कुर्व्वन्त्यल्पबुद्धयः ॥
षष्टिं काणः शतं खञ्जः श्वित्री यावत् प्रपश्यति ।
पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप ! ॥
यद्वेष्टितशिरा भुङ्क्ते यद्भङ्क्ते दक्षिणामुखः ।
सोपानत्कश्च यद्भुङ्क्ते सर्व्वं विद्यात्तदासुरम् ॥
असूयते च यद्दत्तं यच्च श्रद्धादिवर्ज्जितम् ।
सर्व्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत् ॥
श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन् कथञ्चन ॥” * ॥
“तस्मात् परिवृते दद्यात्तिलांश्चान्ने विकीरयेत् ।
तिलैर्विरहितं श्राद्धं कृतं क्रोधवशेन च ॥
यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः ।
अपाङ्क्तेयानतः पङ्क्त्यां भुञ्जानो ननु पश्यति ।
तावत् फलाद्भ्रंशयति दातारं तस्य वाऽनिशम् ॥”
इति पाद्मे स्वर्गखण्डे ३५ अध्यायः ॥

पङ्क्तिपावनः, पुं, (पङ्क्तिं श्राद्धोपलक्षे भोज-

नायोपविष्टानां वेदविद्याविशारदानां ब्राह्म-
णानां श्रेणीं पुनाति पावयति वा स्वोपवेशने-
नेति । पङ्क्ति + पावि + ल्युः ।) श्रेणिपवित्र-
कर्त्ता । श्राद्धभोजनार्हब्राह्मणः । यथा, --
“इमे हि मनुजश्रेष्ठ ! विज्ञेयाः पङ्क्तिपावनाः ।
विद्यावेदव्रतस्नाता ब्राह्मणाः सर्व्व एव हि ॥
सदाचारपराश्चैव विज्ञेयाः पङ्क्तिपावनाः ।
मातापित्रोर्यश्च वश्यः श्रोत्रियो दश पूरुषः ॥
ऋतुकालाभिगामी च धर्म्मपत्नीषु यः सदा ।
वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत ॥
अथर्व्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः ।
सत्रवादी धर्म्मशीलः स्वकर्म्मनिरतश्च यः ॥
ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः ।
मखेषु च समस्तेषु भवन्त्यवभृथप्लुताः ॥
अक्रोधना ह्यचपलाः क्षान्ता दान्ता जितेन्द्रियाः ।
सर्व्वभूतहिता ये च श्राद्धेष्वेतान् निमन्त्रयेत् ॥
एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः ।
यतयो मोक्षधर्म्मज्ञा योगाः सुचरितव्रताः ॥
ये चेतिहासं प्रयताः श्रावयन्ति द्बिजोत्तमान् ।
ये च भाष्यविदः केचिद्ये च व्याकरणे रताः ॥
अधीयते पुराणं ये धर्म्मशास्त्राणि चाप्युत ।
अधीत्य च यथान्यायं विधिवत्तस्य कारिणः ॥
उपपन्नो गुरुकुले सत्यवादी सहस्रदः ।
अग्य्राः सर्व्वेषु वेदेषु सर्व्वप्रवचनेषु च ॥
यावदेते प्रपश्यन्ति पङ्क्त्यां तावत् पुनन्ति च ।
ततो हिपावनात् पङ्क्त्या उच्यन्ते पङ्क्तिपावनाः ॥
अनृत्विगनुपाध्यायः स चेदग्र्यासनं व्रजेत् ।
ऋत्विग्भिरननुज्ञातः पङ्क्त्या हरति दुष्कृतम् ॥
अथ चेद्वेदवित् सर्व्वैः पङ्क्तिदोषैर्व्विवर्ज्जितः ।
न च स्यात् पतितो राजन् ! पङ्क्तिपावन उच्यते ॥”
इति पाद्मे स्वर्गखण्डे ३५ अध्यायः ॥
(पञ्चाग्निर्गृ हस्थः । यथाह हारीतः ।
“पवनः पावनस्त्रेता यस्य पञ्चाग्नयो गृहे ।
सायं प्रातः प्रदीप्यन्ते स विप्रः पङ्क्तिपावनः ॥”)

पङ्क्तिरथः, पुं, (पङ्क्तिषु दशसु दिक्षु गतो रथो

यस्य ।) दशरथराजः । इति शब्दरत्नावली ॥
तथा च ।
“अयोध्यायां महाराजः पुरा पङ्क्तिरथो बली ।
तस्यात्मजो रामचन्द्रः सर्व्वशूरशिरोमणिः ॥”
इति पाद्मे पातालखण्डम् ॥ (तथा, रघुः । ९ । ७४ ।
“नृपतेः प्रतिषिद्धमेव तत्
कृतवान् पङ्क्तिरथो विलङ्घ्य यत् ॥”)

पङ्क्तिवीजः, पुं, (पङ्क्तिभूतानि वीजानि यस्य

सः ।) वर्व्वूरवृक्षः । इति राजनिर्घण्टः ॥

पङ्गुः, पुं, (खञ्जति गतिवैकल्यं प्राप्नोतीति । खजि

गतिवैकल्ये । “बाहुलकात् कुः । खजयोः
पगौ नुमागमश्च ।” उणां । १ । ३७ । इति पगौ
नुमागमश्च । अस्य कक्षाया अत्युच्चतया बहु-
कालेन राशिभागादिभोगात् मन्दगतित्वादस्य
तथात्वम् ।) शनैश्चरः । इति शब्दमाला ॥ (परि-
व्राट् । यथोक्तं चिन्तामणौ ।
“भिक्षार्थं गमनं यस्य विण्मूत्रकरणाय च ।
योजनान्न परं याति सर्व्वथा पङ्गुरेव सः ॥”)

पङ्गुः, त्रि, (खजि गतिवैकल्ये । बाहुलकात् कुः ।

खस्य पत्वे जस्य गादेशः नुम् च । उणां १ । ३७ ।)
जङ्घावैकल्येन चलनाक्षमः । तत्पर्य्यायः । श्रोणः
२ । इत्यमरः । २ । ६ । ४८ ॥ जङ्घाहीनः ३ । इति
शब्दरत्नावली ॥ (यथा, महाभारते २ । ५ । १२५ ।
“कञ्चिदन्घांश्च मूकांश्च पङ्गून् व्यङ्गानबान्धवान् ।
पितेव पासि धर्म्मज्ञ ! तथा प्रव्रजितानपि ॥”
यानहरणेनैव लोकः पङ्गुर्भवति । यथा, मार्क-
ण्डेये । १५ । ३१ ।
“पुष्पापहृद्दरिद्रश्च पङ्गुर्यानापहृन्नरः ॥”)
अस्य लक्षणं खञ्जशब्दे द्रष्टव्यम् ॥

पङ्गुलः, पुं, सितकाचाभघोटकः । इति हेमचन्द्रः ॥

पङ्गुल्यहारिणी, स्त्री, (सेवनेन पङ्गुल्यं पङ्गुत्वं

हरति या । पङ्गुल्य + हृ + णिनि + ङीप् ।)
शिमृडीक्षुपः । इति राजनिर्घण्टः ॥

पच, इ क ततौ । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् । इदित् ।) ततिरिह विस्तार-
वचनम् । इ क, पञ्चयति धीरो ग्रन्थार्थम् । इति
दुर्गादासः ॥ (यथा, गीतगोविन्दे । १० । १३ ।
“व्यथयति वृथा मौनं तन्वि ! प्रपञ्चय पञ्चमम् ।
तरुणि ! मधुरालापैस्तापं विनोदय दृष्टिभिः ॥”)

पच, इ ङ व्यक्तीकारे । (भ्वां-आत्मं-सकं-सेट् ।)

इ, कर्म्मणि पञ्च्यते । ङ, पञ्चते स्वगुणं भिक्षुकः ।
इति दुर्गादासः ॥

पच, ङ औ व्यक्तीकारे । इति कविकल्पद्रुमः ॥

(भ्वां-आत्मं-सकं-अनिट् ।) औ, पक्ता ।
ङ, पचते स्वगुणं भिक्षुकः । इति दुर्गा-
दासः ॥

पच, डु ञ औ ष पाके । इति कविकल्पद्रुमः ॥

(भ्वां-उभं-द्विकं-अनिट् ।) पाको विक्लित्यनु-
कूलव्यापारः । डु, पक्त्रिमम् । ञ, पचति पचते
तण्डुलानोदनं लोकः । औ, पक्ता । ष, पचा ।
इति दुर्गादासः ॥

पचः, त्रि, पचति यः । (पच् + “नन्दिग्रहिपत्ता-

दिभ्यो ल्युणिन्यचः ।” ३ । १ । १३४ । इति अच् ।)
पाककर्त्ता । इति व्याकरणम् ॥ स्वार्थे कनि पच-
कश्च ॥

पचतः पुं, (पचतीति । “भृमृदृशियजिपर्व्वि-

पच्यमितमिनमिहर्य्योऽतच् ।” उणां । ३ । ११० ।
इति अतच् ।) सूर्य्यः । अग्निः । इन्द्रः ।
इत्युणादिकोषः ॥ (परिपक्वे, त्रि । यथा,
ऋग्वेदे । १ । ६१ । ७ । “पचतं सहीयान्
विध्यद्बराहं तिरो अद्रिमस्ता ॥”)

पचतिकल्पं क्ली, (ईषदूनं पचतीति तिङन्तात्

कल्पप् ।) ईषदूनस्य पाकस्य कर्त्ता । इति
व्याकरणम् ॥

पचत्पुटः, पुं, (पचत् पुटमस्य ।) सूर्य्यमणि-

वृक्षः । इति शब्दचन्द्रिका ॥

पचन्, [त्] त्रि, (पचति यः । “लटः शत्रिति ।”

२ । २ । १२४ । इति शतृप्रत्ययः ।) पाक-
कर्त्ता । इति व्याकरणम् ॥

पचनं, क्ली, (पच्यते इति । पच् + भावे ल्युट् ।)

पाकः । (यथा, भागवते । ३ । २६ । ४० ।
“द्योतनं पचनं पानमदनं हिममर्द्दनम् ॥”
पच्यतेऽनेन् इति पचेः करणे ल्युट् । पाकसाध-
नम् । यथा, ॠग्वेदे । १ । १६२ । ६ । “ये
चार्वते पचनं संभरन्त्युतो तेषामभिगूतिर्न
इन्वतु ॥”)

पचनः, पुं, (पचत्यसौ इति । पच् + कर्त्तरि

ल्युः ।) अग्निः । इति शब्दचन्द्रिका ॥ पाक-
कर्त्तरि, त्रि ॥

पचनी, स्त्री, (भुक्तमजीर्णादिकं पच्यतेऽनया ।

पच् + करणे ल्युट् स्त्रियां ङीप् ।) वनवीज-
पूरकः । इति राजनिर्घण्टः ॥

पचन्ती, स्त्री, (ओदनादीन् पचति या । पच् +

शतृ + स्त्रियां ङीप् ।) पाककर्त्री । इति व्याक-
रणम् ॥

पचमानः, त्रि, (पचतेऽसौ इति । “लटः शतृ-

शानचौ” । २ । २ । १२४ । इति शानच् ।)
पाककर्त्ता । इति व्याकरणम् ॥ (पुं, वह्निः ॥)

पचम्पचा, स्त्री, (पचं पच्यं पचति । पचेः खश

ततो मुम् । स्त्रियां टाप् ।) दारुहरिद्रा ।
इत्यमरः । २ । ४ । १०२ ॥

पचा, स्त्री, (पच्यते इति पचेः षित्वादङ् तत-

ष्टाप् ।) पाकः । इत्यमरः । ३ । २ । ८ ॥ (पच-
त्यसौ इति पचाद्यच् स्त्रियां टाप् । पाक-
कर्त्री ॥)

पचिः, पुं, (पचतीति । पच् + “सर्व्वधातुभ्यः इन् ।”

उणां । ४ । ११७ । इति इन् ।) अग्निः । इति
त्रिकाण्डशेषः ॥ पचनम् । इति संक्षिप्तसार-
व्याकरणम् ॥

पचेलिमः, पुं, (पचत्यसौ इति । “पच एलि-

मच् ।” उणां । ४ । ३७ । इति एलिमच् ।)
सूर्य्यः । अग्निः । इत्युणादिकोषः ॥ कर्त्तुरना-
यासेन स्वयं पक्वं त्रि । (स्वयमेव पच्यते पचः
कर्म्मकर्त्तरि केलिमप्रत्ययः ।) यथा पचीलिमा-
स्तण्डुलाः । इति मुग्धबोधव्याकरणम् ॥ (यथा च
पृष्ठ ३/००६
मनौ । ४ । १७२ । श्लोकस्य टीकायां कुल्लूक-
भट्टः । “यथा भूमिरुप्तवीजमात्रा तदैव प्रचुर-
पचेलिमफलव्रीहिस्तवकसम्बलिता न भवति ॥”)

पचेलुकः पुं, (पचत्योदनादीन् । पचो बाहु-

लकादेलुकः ।) सूदः । पाचकः । इति
त्रिकाण्डशेषः ॥

पच्छः, [स्] व्य, (वीप्सार्थे पादं पादमिति पद्भावः

ततः शस् ।) पादं पादम् । इति संक्षिप्तसार-
व्याकरणम् ॥

पच्यमानः, त्रि, (पच्यतेऽसौ इति । पच् + कर्म्मणि

शानच् ।) वर्त्तमानपचनकर्म्मताश्रयः । वर्त्त-
मानपाकविशिष्टतण्डुलादि । इति व्याकरणम् ॥

पज, इ रोधे । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-सेट्-इदित् ।) रोध आवरणम् ।
पञ्जरः । सौत्रधातुरयम् । इति दुर्गादासः ॥

पज्जः, पुं, (पद्भ्यां जातः । पद् + जन् + कर्त्तरि

डः ।) शूद्रः । इति हेमचन्द्रः ॥ (शूद्रस्य
पदजातत्वमुक्तं शुतौ यथा, --
“ब्राह्मणोऽस्य मुखमासीत् बाहू राजन्यः कृतः ।
उरू तदस्य यत् वैश्यः पद्भ्यां शूद्रो व्यजायत ॥”)

पज्झटिका, स्त्री, (छन्दोविशेषः । तल्लक्षणं यथा,

“प्रतिपदयमकितषोडशमात्रा
नवमगुरुत्वविभूषितगात्रा ।
पज्झटिका पुनरत्र विवेकः
क्वापि न मध्यगुरुर्गण एकः ॥”
उदाहरणं यथा, --
“तरलवतंसाश्लिष्टस्कन्ध-
श्चलतरपज्झटिकाकटिबन्धः ।
मौलिचपलशिखिचन्द्रकवृन्दः
कालियशिरसि ननर्त्त मुकुन्दः ॥”
इति छन्दोमञ्जर्य्यां मात्रावृत्ताख्यः ५ स्तवकः ॥
(तथा च भगवच्छङ्कराचार्य्यकृतमोहमुद्गरे ४ ।
“मा कुरु धनजनयौवनगर्व्वम्
हरति निमेषात् कालः सर्व्वम् ।
मायामयमिदमखिलं हित्वा
ब्रह्मपदं प्रविशाशु विदित्वा ॥” * ॥)
क्षुद्रघण्टिका । इति छन्दोमञ्जरीटीका ॥

पञ्च, [न्] त्रि, संख्याविशेषः । पाँच इति भाषा ।

बहुवचनान्तोऽयम् । इत्युणादिकोषः ॥ (यथा,
मनुः । ११ । १६५ ।
“पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनम् ॥”)
तद्वाचकानि यथा । पाण्डवः १ शिवास्यम् २
इन्द्रियम् ३ स्वर्गः ४ व्रताग्निः ५ महापापम् ६
महाभूतम् ७ महाकाव्यम् ८ महामखः ९
पुराणलक्षणम् १० अङ्गम् ११ प्राणाः १२ वर्गः
१३ इन्द्रियार्थः १४ वाणः १५ । इति कविकल्प-
लता ॥ पञ्चसंख्याविशिष्टे, त्रि । यदुक्तम् । “संख्या-
संख्येये ह्यादश त्रिषु ।” इत्यमरः । २ । ९ । ८३ ॥

पञ्चकं, त्रि, (पञ्चैव इति स्वार्थे कन् ।) पञ्च ।

यथा, भाषापरिच्छेदे । ३३ । “संख्यादि-
पञ्चकं कालदिशोः शब्दश्च ते च खे ।” इति ॥
(पञ्च संख्यापरिमाणमस्य । “तदस्य परि-
माणम् ।” ५ । १ । ५७ । इत्यनुवृत्तौ “संख्यायाः
संज्ञा संङ्घसूत्राध्ययनेषु ।” ५ । १ । ५८ । इति
पञ्चसङ्ख्यापरिमिति संघार्थे कन् प्रत्ययः । धनि-
ष्ठादि पञ्चनक्षत्रम् । यथाह चिन्तामणिः ।
“अग्निचौरभयं रोगो राजपीडा धनक्षतिः ।
संग्रहे तृणकाष्ठानां कृते वस्वादिपञ्चके ॥”
पञ्चभिः क्रीतम् । “संख्याया अतिशदन्तायाः
कन् ।” ५ । १ । १२ । इति कन् । पञ्चभिः क्रीते
द्रव्यविशेषे ॥)

पञ्चकपालः, पुं, पञ्चसु कपालेषु संस्कृतः पुरो-

डाशः । (“संस्कृतं भक्षाः ।” ४ । २ । १६ । इत्यण्
ततो “द्विगोर्लुगनपत्ये ।” ४ । १ । ८८ । इत्यणो
लुक् ।) स तु यज्ञविशेषः । यथा । “परा वा
एष यज्ञं पशून् वपति योऽग्निमुद्वासयते पञ्च-
कपालः पुरोडाशो भवति ।” इत्यादि यजुर्वेदीय-
श्रुतिः ॥ (पञ्चानां कपालानां समाहारः । पर-
निपातः ।) कपालपञ्चके, क्ली ॥

पञ्चकर्म्म, [न्] क्ली, (पञ्चानां कर्म्मणां समा-

हारः ।) पञ्चप्रकारशारीरिकचिकित्साविशेषः ।
यथा, --
“वमनं रेचनं नस्यं निरूहश्चानुवासनम् ।
पञ्चकर्म्मेदभन्यच्च कर उत्क्षेपणादिकम् ॥”
इति शब्दचन्द्रिका ॥ (भाषापरिच्छेदोक्तानि
पञ्चकर्म्माणि । यथा, तत्रैव ६ ।
“उत्क्षेपणं ततोऽवक्षेपणमाकुञ्चनं तथा ।
प्रसारणञ्च गमनं कर्म्माण्येतानि पञ्च च ॥”)

पञ्चकषायः, पुं, (पञ्चविधः कषायः । अथवा

पञ्चानां वृक्षाणां कषायः वल्कलरसः । क्वचित्त्वयं
बहुवचनान्तोऽपि दृश्यते । तत्र तु पञ्च च ते
कषायाश्चेति एवमेव ।) महास्नानीयपञ्चप्रकार-
कषायद्रव्यम् । यथा, --
“जम्वुशाल्मलिवाट्यालं वकुलं वदरं तथा ।
कषायाः पञ्च विज्ञेया देव्याः प्रीतिकराः शुभाः ॥”
इति दुर्गोत्सवपद्धतिः ॥

पञ्चकृत्यः, पुं, (पञ्चं विस्तृतं कृत्यं शाखापल्लवा-

दिकं यत्र ।) पक्तपौडवृक्षः । इति राजनिर्घण्टः ॥
(क्ली, पञ्चं प्रपञ्चितं कृत्यं कार्य्यं सृष्ट्यादिकम् ।
सृष्टिस्थितिध्वंसविधानानुग्रहात्मकं कार्य्यम् इति
भावः । यथाह चिन्तामणिः ।
“यस्मिन् सृष्टिस्थितिध्वंसविधानानुग्रहात्मकम् ।
कृत्यं पञ्चविधं शश्वद्भासते तं नुमः शिवम् ॥”)

पञ्चकोलं, क्ली, पाचनविशेषः । यथा, --

“पञ्चकोलं कणामूलं कृष्णाचव्याग्निनागरैः ।”
इति शब्दचन्द्रिका ॥ अस्य गुणाः ।
“पञ्चकोलं रसे पाके कटुकं रुचिकृन्मतम् ।
तीक्ष्णोष्णं पाचनं श्रेष्ठं दीपनं कफवातनुत् ।
गुल्मप्लीहोदरानाहशूलघ्नं पित्तकोपनम् ॥”
इति भावप्रकाशः ॥ अपि च ।
“पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् ।
दीपनीयः शृतो वर्गः कफानिलगदापहः ॥”
इति चक्रपाणिदत्तः ॥ (पञ्चकोलघृतमुक्तं चरके
चिकित्सितस्थाने १८ अध्याये ।
“पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ।
सक्षारैरर्द्धपलिकैर्द्विः प्रस्थं सर्पिषः पचेत् ॥
कल्कैर्द्बिपञ्चमूलस्य तुलार्द्धस्य रसेन च ।
दधिमण्डातकोपेतं तत्सर्पिर्जठरापहम् ।
श्वयथुं वातविष्टम्भं गुल्मार्शांसि च नाशयेत् ॥”)

पञ्चकोषाः, पुं, (पञ्च च ते कोषाश्चेति ।) कोषा

इवात्माच्छादकत्वेन कोषाः । ते च पञ्चविधाः ।
यथा । अन्नविकारत्वात् स्थूलशरीरं अन्नमय-
कोषः १ ॥ पञ्चकर्म्मेन्द्रियसहितप्राणपञ्चकं प्राण-
मयकोषः २ ॥ पञ्चज्ञानेन्द्रियसहितं मनः मनो-
मयकोषः ३ ॥ पञ्चज्ञानेन्द्रियसहिता बुद्धिः
विज्ञानमयकोषः ४ ॥ अहङ्कारात्मकोऽविद्या-
त्मको वा आनन्दमयकोषः ५ ॥ इति शिव-
गीतामतम् ॥ * ॥ अपि च ।
“पितृभुक्तान्नजाद्वीर्य्याज्जातोऽन्नेनैव वद्धते ।
देहः सोऽन्नमयो नात्मा प्राक् चोर्द्ध्वं तदभावतः ॥”
इत्यन्नमयकोषः १ ॥
“पूर्णो देहे वलं यच्छन्नक्षाणां यः प्रवर्त्तकः ।
वायुः प्राणमयो नासावात्मा चैतन्यवर्ज्जनात् ॥”
इति प्राणमयकोषः २ ॥
“अहन्तां ममतां देहे गृहादौ च करोति यः ।
कामाद्यवस्थया भ्रान्तो नासावात्मा मनोमयः ॥”
इति मनोमयकोषः ३ ॥
“लीना सुप्तौ वपुर्बोधे व्याप्नुयादानखाग्रगा ।
चिच्छायोपेतधीर्नात्मा विज्ञानमयशब्दभाक् ॥”
इति विज्ञानमयकोषः ४ ॥
“काचिदन्तर्मुखावृत्तिरानन्दप्रतिविम्बभाक् ।
पुण्यभोगे भोगशान्तौ निद्रारूपेण लीयते ॥
कादाचित्कत्वतो नात्मा स्यादानन्दमयोऽप्ययम् ॥”
इत्यानन्दमयकोषः ५ ॥ इति पञ्चदशी ॥

पञ्चक्षारगणः, पुं, (पञ्चानां क्षाराणां गणः ।)

क्षारपञ्चकम् । पञ्चलबणम् । यथा, --
“क्षारैस्तु पञ्चभिः प्रोक्तः पञ्चक्षाराभिधो गणः ।
काचसैन्धवसामुद्रविट्सौवर्च्चलकैः समैः ॥
स्यात् पञ्चलवणं तच्च मृज्जोपेतं षडाह्वयम् ॥”
इति राजनिर्घण्टः ॥

पञ्चखट्वं, क्ली स्त्री, (पञ्चानां खट्वानां समाहारः ।)

पञ्चखट्वाः समाहृताः । इति व्याकरणम् ॥

पञ्चगणयोगः, पुं, (पञ्चानां गणो यत्र स एव

योगः ।) विदारी गन्धा वृहती पृश्निपर्णी
निदिग्धिका श्वदंष्ट्रा एता मिलिताः । इति
राजनिर्घण्टः ॥

पञ्चगवं, क्ली स्त्री, पञ्चानां गवां समाहारः ॥

(समासे टच् ।) पञ्चगावः समाहृताः । इति
व्याकरणम् ॥

पञ्चगवधनः, त्रि, पञ्च गावो धनं यस्य । इति

मुग्धबोधव्याकरणम् ॥

पञ्चगव्यं, क्ली, (गोर्विकारः गव्यम् । पञ्चगुणितं

गव्यम् ।) गोसम्बन्धिपञ्चप्रकारद्रव्यम् । (यथा,
मनुः । ११ । १६५ ।
“भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ।
पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनम् ॥”)
पृष्ठ ३/००७
तत्तु गोमयगोमूत्रदुग्धदधिघृतरूपम् । यथा, --
“पञ्चगव्यं दधिक्षीरघृतगोमूत्रगोमयैः ।” इति
शब्दचन्द्रिका ॥ * ॥ तत्परिमाणं यथा, --
“पलमात्रं दुग्धभागं गोमूत्रं तावदिष्यते ।
घृतञ्च पलमात्रं स्यात् गोमयं तोलकत्रयम् ॥
दधि प्रसृतमात्रं स्यात् पञ्चगव्यमिदं स्मृतम् ।
अथवा पञ्चगव्यानां समानो भाग इष्यते ॥”
इति गौतमीयतन्त्रम् ॥ * ॥ अपि च ।
“गोशकृद्द्विगुणं मूत्रं पयः स्यात्तच्चतुर्गुणम् ।
घृतं तद्द्विगुणं प्रोक्तं पञ्चगव्यं तथा दधि ॥” * ॥
तस्य पानफलं यथा, --
“पञ्चगव्येन पूतन्तु वाजिमेधफलं लभेत् ।
गव्यन्तु परमं मेध्यं गव्यादन्यन्न विद्यते ॥
सौम्ये मुहूर्त्ते संयुक्ते पञ्चगव्यन्तु यः पिबेत् ।
यावज्जीवकृतात् पापात् तत्क्षणादेव मुच्यते ॥”
गव्यानां देवप्रीतिकरत्वं यथा, --
“दध्ना हि त्रिदशाः सर्व्वे क्षीरेण च महेश्वरः ।
घृतेन पावको नित्यं पायसेन पितामहः ॥
सकृद्दत्तेन प्रीयन्ते वर्षाणाञ्च त्रयोदश ।
तां दत्त्वा चैव पीत्वा च प्रेतो मेध्यस्तु जायते ॥”
इति वराहपुराणम् ॥ * ॥
तस्य विशेषो यथा, --
“पयः काञ्चनवर्णायाः श्बेतवर्णोत्थगोमयम् ।
गोमूत्रं ताम्रवर्णाया नीलवर्णाभवं घृतम् ॥
दधि स्यात् कृष्णवर्णाया दर्भोदकसमायुतम् ।
गोमूत्रमाषकाण्यष्टौ गोमयस्य चतुष्टयम् ॥
क्षीरस्य द्बादश प्रोक्ता दध्नस्तु दश उच्यते ।
घृतस्य माषकाः पञ्च पञ्चगव्यं मलापहम् ॥”
इति गारुडे प्रायश्चित्तप्रकरणम् ॥

पञ्चगुः, त्रि, पञ्चभिर्गोभिः क्रीतः । इति मुग्ध-

बोधव्याकरणे द्बिगुसमासः ॥

पञ्चगुप्तः, पुं, (पञ्चानामिन्द्रियाणां चापल्यं गुप्तं

यत्र । यद्वा पञ्चानां पदार्थानां गुप्तः गोपनं
यत्र ।) चार्व्वाकदर्शनम् । (करौ चरणौ शिर-
श्चेति पञ्चाङ्गानि गुप्तानि अस्य ।) कच्छपः ।
इति मेदिनी ॥

पञ्चगुप्तिरसा, स्त्री, (पञ्चधा गुप्तौ रसोऽस्याः ।)

स्पृक्का । इति राजनिर्घण्टः ॥

पञ्चचामरं, क्ली, षोडशाक्षरपादच्छन्दोविशेषः ।

यथा, --
“प्रमाणिकापदद्वयं वदन्ति पञ्चचामरम् ॥”
इति छन्दोमञ्जरी ॥ ४ ॥ (अस्योदाहरणमाह तत्रैव ।
“सुरद्रुमूलमण्डपे विचित्ररत्ननिर्म्मिते
लसद्वितानभूषिते सलीलविभ्रमालसम् ॥
सुराङ्गनाभवल्लवीकरप्रपञ्चचामर-
स्फुरत्समीरवीजितं सदाच्युतं भजामि तम् ॥”)

पञ्चचीरः, पुं, (पञ्च चीराण्यस्य । बौद्धधर्म्माव-

लम्बि-जिनभेदः । पञ्च चीराणि स्वरभेदा अस्य ।)
मञ्जुघोषः । इति त्रिकाण्डशेषः ॥

पञ्चचूडा, स्त्री, (पञ्चसङ्खकाः चूडाः शिरोरत्नानि

यस्याः ।) अप्सरोविशेषः । इति पुराणम् ॥
(यथा, रामायणे । ६ । ९२ । ७१ ।
“उर्व्वशी मेनका रम्भा पञ्चचूडा तिलोत्तमा ।
उपानृत्यंस्तु काकुत्स्थं प्रहृष्टा रक्षसो वधात् ॥”)

पञ्चजनः, पुं, (पञ्चभिर्भूतैर्जन्यतेऽसौ । पञ्च +

जन् + कर्म्मणि घञ् । “जनिवध्योश्च” । ७ । ३ । ३५ ।
इति न वृद्धिः ।) पुरुषः । इत्यमरः । २ । ६ । १ ॥
(यथा, राजतरङ्गिण्याम् । ३ । ३५५ ।
“सद्भावश्र्यादिका देव्यस्तेन श्रीशब्दलाञ्छिताः ।
पञ्च पञ्चजनेन्द्रेण पुरे तस्मिन् निवेशिताः ॥”)
दैत्यविशेषः । स च संह्रादस्य कृतौ पत्न्यां जातः ।
(यथा, श्रीभागवते । ६ । १८ । १४ ।
“संह्रादस्य कृतिर्भार्य्याऽसूत पञ्चजनं ततः ॥”
अपरो दैत्यभेदः । श्रीकृष्णः एनं हत्वा सान्दी-
पनिमुनये अस्य मृतं पुत्त्रं गुरुदक्षिणास्वरूपं
ददौ । यथा, भागवते । ३ । ३ । २ ।
“सान्दीपनेः सकृत् प्रोक्तं ब्रह्माधीत्य सविस्तरम् ।
तस्मै प्रादात् वरं पुत्त्रं मृतं पञ्चजनोदरात् ॥”)
अस्यास्थ्ना पाञ्चजन्यनामा शङ्खो जातः । सच
श्रीकृष्णस्य । यथा, --
“पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ॥”
इत्यादि श्रीभगवद्गीतायाम् । १ । १५ ॥ (प्रजा-
पतिः । यथा, भागवते । ६ । ४ । ५१ ।
“एषा पञ्चजनस्याङ्ग ! दुहिता वै प्रजापतेः ।
असिक्नी नाम पत्नीत्वे प्रजेश ! प्रतिगृह्यताम् ॥”
सगरराजपुत्त्रः । यथा, हरिवंशे । १५ । ६ ।
“केशिन्यसूत सगरादसमञ्जसमात्मजम् ।
राजा पञ्चजनो नाम बभूव स महाबलः ॥”
गन्धर्ब्बाः पितरो देवा असुरा रक्षांसि पञ्चजन-
पदवाच्यानि भवन्ति । इति चिन्तामणिः ॥)

पञ्चजनी, स्त्री, पञ्चानां जनानां समाहारः ततो

ङीप् । इति व्याकरणम् ॥ (विश्वरूपकन्या ।
यथा, भागवते । ५ । ७ । १ । “तदनुशासनपरः
पञ्चजनीं विश्वरूपदुहितरमुपयेमे ॥”)

पञ्चजनीनः, पुं, (पञ्चसु जनेषु व्यापृतः । दिक्-

संख्ये संज्ञायामिति समासः । पञ्चजने हितम् ।
पञ्चजनादुपसङ्ख्यानमितिखः । पां । ५ । १ । ९ ।
वार्त्तिके ।) भण्डः । इति हलायुधः ॥ पञ्च-
जनसम्बन्धिनि पञ्चजन्याः प्रभौ च त्रि ॥

पञ्चज्ञानः, पुं, (पञ्चानां पदार्थानां ज्ञानमस्य ।)

बुद्धः । इति हेमचन्द्रः ॥

पञ्चतक्षं, क्ली, स्त्री, पञ्चानां तक्ष्णां समआहारः ।

इति व्याकरणम् ॥

पञ्चतत्त्वं, क्ली, (पञ्चानां तत्त्वानां समाहारः ।)

पञ्चभूतम् । इति स्वरोदयः ॥ पञ्चमकारः । मद्य-
मांसमत्स्यमुद्रामैथुनरूपम् । यथा, --
“मद्यं मांसं तथा मत्स्यं मुद्रां मैथुनमेव च ।
पञ्चतत्त्वमिदं देवि ! निर्व्वाणमुक्तिहेतवे ॥
मकारपञ्चकं देवि ! देवानामपि दुर्लभम् ॥”
इति कैवल्यतन्त्रे प्रथमपटलः ॥ वैष्णवानां यथा, --
“तत्त्वज्ञानमिदं प्रोक्तं वैष्णवे शृणु यत्नतः ।
गुरुतत्त्वं मन्त्रतत्त्वं मनस्तौत्त्वं सुरेश्वरि ! ॥
देवतत्त्वं ध्यानतत्त्वं पञ्चतत्त्वं वरानने ! ।
तत्रादौ श्रीगुरोस्तत्त्वं स्नेहाद्वक्ष्यामि पार्व्वति ! ॥
सतैलं वर्त्तिकायुक्तं देहस्थं ब्रह्मतेजसम् ।
गुरुणा मन्त्रदानेन तत्सूत्रं दीपितं भवेत् ॥
देवतायाः शरीरं हि मन्त्रादुत्पद्यते ध्रुवम् ।
अत एव हि तस्यात्मा देवरूपो न संशयः ॥
ईश्वरस्य तु यद्बीर्य्यं तदेव अक्षयात्मकम् ।
तेन वर्णात्मकं देहं जन्तोरेव न संशयः ॥
मन्त्रवर्णे सर्व्ववर्णमयास्ते परमेश्वरि ! ।
वर्णतत्त्वमिदं देवि ! सर्व्वस्वं मम यद्भवेत् ॥
स्वयं देवो न चान्योऽस्मि निर्म्मलो देवरूपकः ।
सर्व्वत्र देवतां ध्यायेत् तृणगुल्मलतादिषु ॥
ध्यानेन लभते सर्व्वं ध्यानेन विष्णुरूपकः ।
ध्यानेन सिद्धिमाप्नोति विना ध्यानं न सिध्यति ॥
इति ते कथितं तत्त्वं वैष्णवस्य सुरेश्वरि ! ।
यज्ज्ञानादमरत्वञ्च विष्णुरूपो भवेन्नरः ॥
ते नरा नहि गच्छन्ति कदाचिद्यममन्दिरम् ॥”
इति निर्व्वाणतन्त्रे १२ पटलः ॥

पञ्चतपाः, [स्] त्रि, (अग्न्यादिभिः पञ्चभिस्तेजः-

पदार्थैस्तपति यः । पञ्च + तप् + असुन् ।)
अग्निचतुष्टयसूर्य्यपञ्चकसाध्यतपोविशिष्टः । यथा,
“तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते ।
पञ्चमः पञ्चतपसस्तपनो जातवेदसाम् ॥”
इति माघे । २ । ५२ ॥

पञ्चतयं, त्रि, (पञ्च अवयवा यस्य । अवयवे

तयप् ।) पञ्चावयवम् । इति व्याकरणम् ॥

पञ्चतन्मात्रं, क्ली, (पञ्चगुणितं शब्दादिभूतसूक्ष्मा-

त्मकं तन्मात्रम् ।) तामसाहङ्कारोत्पन्नमहा-
भूतोपादानकारणशब्दस्पर्शरूपरसगन्धाः । तदा-
श्रयद्रव्याणि च । इति सांख्यभाष्यम् ॥

पञ्चता, स्त्री, (पञ्चानां भूतानां भावः । पाञ्चभौति-

कस्य शरीरस्य पञ्चधाभावे आरम्भकाणां भूतानां
तद्भावापत्तौ सत्यां औपचारिकत्वात् ।) मृत्युः ।
इत्यमरः । २ । ८ । ११६ ॥ (यथा, भागवते ।
७ । ८ । ५२ ।
“स तु जनपरितापं तत्कृतं जानता ते ! ।
नरहर उपनीतः पञ्चतां पञ्चविंश ॥”)
देहारम्भकाणां पृंथिव्यादिपञ्चमहाभूतानां
स्वांशसंक्रमणात् पृथक्त्वम् । इति भरतः ॥ पञ्च-
भावः । इति मेदिनी ॥ (यथा, मनुः । ८ ।
१५१ ।
“धान्येसदेलवे वाह्ये नातिक्रामति पञ्चताम् ॥”)

पञ्चतिक्तं, क्ली, (पञ्चगुणितं तिक्तम् ।) तिक्तद्रव्य-

पञ्चकम् । यथा । निम्बामृतावृषपटोलनिदि-
ग्धिकाः । इत्यादि चक्रपाणिदत्तः ॥

पञ्चतीर्थी, स्त्री, (पञ्चानां तीर्थानां समहारः ।

ङीप् ।) तीर्थपञ्चकम् । यथा । “विषुवद्दिवसे
प्राप्ते पञ्चतीर्थीविधानतः ।” इति तिथितत्त्वम् ।
पञ्चतीर्थान्याह । (तानि च भिन्नदेशे भिन्न-
रूपाणि, तत्र काशीस्थानि । यथा, काशीखण्डे ।
१०० । ३९ -- ४० ।
“ज्ञानवापीमुपस्पृश्य नन्दिकेशं ततोऽर्चयेत् ।
तारकेशं ततोऽभ्यर्च्य महाकालेश्वरं ततः ॥
ततः पुनर्दण्डपाणिमित्येषा पञ्चतीर्थिका ॥”)
पृष्ठ ३/००८
पुरुषोत्तमस्थानि यथा, --
“मार्कण्डेये वटे कृष्णे रौहिणेये महोदधौ ।
इन्द्रद्युम्नसरः स्नात्वा पुनर्जन्म न विद्यते ॥”
इति तीर्थतत्त्वम् ॥ * ॥ अपि च । नाना-
स्थानस्थानि यथा, --
“पृथिव्यां यानि तीर्थानि सर्व्वाण्येवाभिषेचनात् ।
तत्पञ्चतीर्थस्नानेन समं नास्त्यत्र संशयः ॥
एकादश्याञ्च विश्रान्तौ द्वादश्यां शौकरे तथा ।
त्रयोदश्यां नैमिषे च प्रयागे च चतुर्द्दशी ॥
कार्त्तिक्यां पुष्करे चैव कार्त्तिकस्य सितासिते ।
कालेष्वेषु नरः स्नात्वा सर्व्वं पापं व्यपोहति ॥”
इति वराहपुराणम् ॥

पञ्चत्वं, क्ली, (पञ्चानां क्षित्यादिभूतानां भावः ।)

मरणम् । पञ्चानां भावः । इति हेमचन्द्रः ॥
(“पञ्चधासम्भृतः कायो यदि पञ्चत्वमामतः ।
पञ्चभिः स्वशरीरोत्थैस्तत्र का परिवेदना” ॥
तथा, भागवते । १ । १५ । ४१ ।
“मृत्यावपानं सोत्सर्गं तं पञ्चत्वे ह्यजोहवीत् ॥”)

पञ्चदशः, त्रि, पञ्चदशानां पूरणः । (पूरणे डट् ।

पञ्चाधिका दश यत्र वा ।) पोनेर इत्यादि
भाषा । तत्संख्यामात्रवाचित्वे नान्तबहुवच-
नान्तोऽयम् । इति व्याकरणम् ॥ तद्वाचकशब्दः ।
(यथा, अथर्व्ववेदे । ११ । १ । १९ । “पितामहाः
पितरः प्रजोपजाहं पक्त्वा पञ्चदशस्ते अस्मि ॥”)
तिथिः । इति कविकल्पलता ॥

पञ्चदशी, स्त्री, (पञ्चदशानां पूरणी । डट् ।

ङीप् ।) पूर्णिमा । अमावास्या । इति
मेदिनी ॥ (यथाह याज्ञवल्क्यः । १ । १४६ ।
“पञ्चदश्यां चतुर्द्दश्यामष्टम्यां राहुसूतके ।
ऋतुसन्धिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥”
(पञ्चदशप्रकरणानि सन्त्यस्याम् ।) श्रीमद्भारती-
तीर्थविद्यारण्यमुनीश्वरकृतो वेदान्तग्रन्थविशेषः ॥

पञ्चदीर्घं, क्ली, (शरीरस्य स्मृतिशास्त्रोक्तलक्ष-

णकपञ्चस्थलं दीर्घं पञ्चसु अवयवेषु दीर्घलक्ष-
णकमित्यर्थः ।) शरीरपञ्चावयवलक्षणविशेषः ।
यथा, --
“बाहू नेत्रद्बयं कुक्षिर्द्वे तु नासे तथैव च ।
स्तनयोरन्तरञ्चैव पञ्चदीर्घं प्रशस्यते ॥”
इति सामुद्रकम् ॥

पञ्चधा, व्य, (पञ्चन् + “संख्यायाविधार्थे धा ।”

५ । ३ । ४२ । इति धा ।) पञ्चप्रकारम् । इति
व्याकरणम् ॥ (यथा, भागवते । ८ । १९ । ३७ ।
“धर्म्माय यशसेऽर्थाय कामाय स्वजनाय च ।
पञ्चधा विभजन् वित्तमिहामुत्र च मोदते ॥”)

पञ्चनखः, पुं, (पञ्च नखा यस्य ।) हस्ती । कूर्म्मः ।

इति हेमचन्द्रः ॥ व्याघ्रः । इति राजनिर्घण्टः ॥ * ॥
भक्षणीयपञ्चनखा यथा, --
“शशकः शल्लकी गोधा खड्गी कूर्म्मश्च पञ्चमः ॥”
इति स्मृतिः ॥
(तथाच याज्ञवल्क्यः । १ । १७७ ।
“भक्ष्याः पञ्चनखाः सेघागोधाकच्छपशल्लकाः ।
शशश्च मतस्येय्वपि हि सिंहतुण्डकरोहिताः ॥”)
“पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृतजैर्द्विजैः ।
कौशल्याज ! शशादीनां तेषां नैकोऽप्यहं कपिः ॥”
इति भट्टिः । ६ । १३१ ॥

पञ्चनदः, पुं, (पञ्च पञ्चसङ्ख्याकाः नद्यः सन्त्यत्र ।

समासे टच् ।) पञ्चनदीयुक्तदेशविशेषः ।
पञ्जाव इति पारस्यभाषा । तस्यनामान्तरम् ।
वाह्लीकः मद्रदेशश्च । ता नद्यो यथा । शतद्रुः
१ विपाशा २ इरावती ३ चन्द्रभागा ४ वितस्ता
५ । इति पुराणम् ॥
(यथा, राजतरङ्गिण्याम् । ४ । २४८ ।
“रुद्धः पञ्चनदे जातु दुस्तरैः सिन्धुसङ्गमैः ॥”)
पञ्चानां नदीनां समाहारे क्ली ॥ (यथा,
रामायणे । ३ । ४३ । २१ ।
“ततः पञ्चनदं कृत्स्नं विचेतव्यं समन्ततः ॥”
तच्च काशीस्थनदीपञ्चकरूपं तीर्थम् । यथा,
काशीखण्डे । ५९ । ११३ -- ११६ ।
“किरणाधूतपापे च तस्मिन् धर्म्मनदे शुभे ।
स्रवन्त्यौ पापसंहर्त्त्र्यौ वाराणस्यां शुभद्रवे ॥
ततो भागीरथी प्राप्ता तेन दैलीपिना सह ।
भागीरथी समायाता यमुना च सरस्वती ॥
किरणाधूतपापा च पुण्यतोया सरस्वती ।
गङ्गा च यमुना चैव पञ्चनद्योऽत्र कीर्त्तिताः ।
अतः पञ्चनदं नाम तीर्थं त्रैलोक्यविशुतम् ॥”
तीर्थविशेषः । यथा, महाभारते । ३ । ८२ । ७९ ।
“अथ पञ्चनदं गत्वा नियतो नियताशनः ।
पञ्चयज्ञानवाप्नोति क्रमशो येऽनुकीर्त्तिताः ॥”
असुरभेदः । यथा, हरिवंशे । १२० । ८८ ।
“हत्वा पञ्चनदं नाम नरकस्य महासुरम् ॥”)

पञ्चनिम्बं, क्ली, (पञ्चानां स्वीयपुष्पमूलादि-

रूपाणां निम्बानां समाहारः ।) निम्बवृक्षस्य-
पत्रत्वक्पुष्पफलमूलानि । इति राजनिर्घण्टः ॥
“पञ्चनिम्बन्तु तत्पुष्पमूलवल्कफलच्छदैः ॥”
इति शब्दचन्द्रिका ॥

पञ्चनी, स्त्री, (पञ्च्यते प्रपञ्च्यते पाशक्रीडा-

नियमो यत्र । पचि विस्तारे + ल्युट् स्त्रियां
ङीप् ।) शारिशृङ्खला । इति शब्दरत्नावली ॥
(पाशार छक् इति भाषा ॥)

पञ्चनीराजनं, क्ली, पञ्चानां नीराजनानां समा-

हारः । पञ्चप्रकारारात्रिकम् । इति कालोत्तर-
तन्त्रम् ॥ अस्य विवरणं नीराजनशब्दे द्रष्टव्यम् ॥

पञ्चपक्षी, [न्] पुं, (अकारादि-ओकारान्ताः

ऐउएओरूपाः पञ्चस्वराः पक्षिणः पक्षि-
स्वरूपा यत्र ।) पारिभाषिकपक्षिपञ्चकद्वारा
त्रिकालबोधकप्रश्नग्रन्थः । यथा, --
“प्रणम्य श्रीमहादेबं सर्व्वशास्त्रविशारदम् ।
भविष्यदर्थबोधाय पप्रच्छुर्म्मुनयो मुदा ॥
तेषां वचनमाकर्ण्य निजगाद महेश्वरः ।
त्रिकालज्ञानबोधार्थं पञ्चपक्षी प्रदर्श्यते ॥
अनेन शास्त्रसारेण लोकैः कालत्रयं प्रति ।
बलाबलानि दृश्यन्ते सर्व्वकार्य्येषु निश्चितः ॥
आगतं प्रच्छकं दृष्ट्वा दैवज्ञः सावधानतः ।
यद्यत् करोति कर्म्माणि तस्मात् सर्व्वं विचारयेत् ॥
ऊर्द्ध्वावलोकने जीवस्त्वधोदृष्टौ तु मूलकम् ।
समदृष्टौ भवेद्ध्वातुरेताश्चिन्ताप्रभेदतः ॥”
तत्र ।
“ललाटे पुत्त्रचिन्ता स्यात् कामचिन्ता च कण्ठके ।
बाहुभ्यां वस्तुचिन्ता च व्याधिचिन्ता तथोदरे ॥
कटौ विच्छेदचिन्ता च शत्रुचिन्ता च गुह्यके ।
दुःखचिन्ता भवेत् पादे एते चिन्ताप्रभेदकाः ॥” * ॥
अपरञ्च ।
“अक्षरं पक्षिभुक्तञ्च दिग्दैवतदिनानि च ।
कालं वर्णं बलं मित्रं धातुमूलादिकं क्रमात् ॥
आरूढप्रश्नलग्नेभ्यः प्रथमाक्षरतोऽपि वा ।
प्रच्छकस्य वचः शुत्वा ग्र्याह्यो वर्णः स्वरस्तथा ॥ * ॥
स्वरेण कल्पयेदवारं वारात् पक्षी प्रजायते ।
पक्षिणो जायते वाक्यं वाक्याच्च फलसम्भवः ॥” * ॥
“अकारादिओकारान्ताः स्वराः पञ्च प्रकीर्क्षिताः ।
भुक्त्यर्थं कल्पयेद्रूपं स्वरास्ते पक्षिरूपिणः ॥
अकारः श्येन आख्यात इकारः पिङ्गलस्तथा ।
उकारो वायसश्चैव एकारस्ताम्रशेखरः ।
ओकारो नीलकण्ठश्च स्वरास्ते पक्षिसंज्ञकाः ॥
अकारः पूर्ब्बदिग्भागे इकारश्चैव दक्षिणे ।
उकारः पश्चिमे ज्ञेय एकारश्चोत्तरे तथा ॥
शेषस्थानेषु सर्व्वेषु ओकारस्तु प्रकीर्त्तितः ।
शकुनानां क्रियागत्या द्यूते युद्धे जयाजयौ ॥
प्राक्श्येनः पिङ्गलोयाम्ये पश्चिमे काक उच्यते ।
उत्तरे ताम्रचूडश्च कलापी मध्यगः स्मृतः ॥
ङञणाक्षरकैर्हीनान् ककारादींस्तु विन्यसेत् ।
अकारादिषु हान्तांस्तानेकैकं षट् परिक्रमात् ॥
अस्वरे कछडा वर्णा धभवाश्च भवन्ति हि ।
खजढा नमशा वर्णा इकारे परिकीर्त्तिताः ।
गझताः पयषा वर्णा उस्वरे स्युर्यथाक्रमम् ॥
घटथाः फरसा एते वर्णा एस्वरमात्रगाः ।
चठदा वलहा वर्णा ओस्वरे परिकीर्त्तिताः ॥ * ॥
प्रथमे रविभौमौ च द्वितीये चन्द्रचन्द्रजौ ।
तृतीये जीववारश्च चतुर्थे भृगुवासरः ॥
पञ्चमे मन्दवारश्च पक्षिणां क्रमशो लिखेत् ।
नन्दा भद्रा जया रिक्ता पूर्णा च तिथयः क्रमात् ॥
अकारे मेषसिंहालिः इः कन्यायुग्मकर्क्कर्टाः ।
उकारे चापमीनौ च एकारे च तुलावृषौ ॥
ओकारे मृगकुम्भौ च एवं राशिञ्च संलिखेत् ।
स्वराधः स्थापयेत् खेटान् राशेर्योयस्य नायकः ॥
अकारे सप्त ऋक्षाणि रेवत्यादिक्रमेण च ।
पञ्च पञ्च इकारादावेवमृक्षं स्वरोदये ॥ * ॥
प्रथमे चाश्विनी पूर्ब्बं पञ्चनक्षत्रमुच्यते ।
अतः क्रमात् द्बिषट्चैव पञ्च पञ्च च तारकाः ॥ *
स्वराणाञ्च क्रमेणैव देवताः परिकीर्त्तिताः ।
ईश्वरः पवनश्चैव इन्द्राकाशः सदाशिवः ॥ * ॥
प्राच्यां पृथ्वी गुरुश्चैव याम्यां शुक्रो जलं तथा ।
अङ्गारकः पश्चिमेऽग्निर्बुधो वायुस्तथोत्तरे ॥
सूर्य्यपुत्त्रस्तथाकाशे ऊर्द्ध्वमेवं लिखेत्ततः ।
क्षितौ ब्रह्मा जले विष्णुस्तथा रुद्रो हुताशने ॥
ईश्वरः पवने चैव तथाकाशे सदाशिवः ।
भूतो मयूरः कुब्जश्च कुक्कुटो वर्त्तमानकः ॥
पृष्ठ ३/००९
बलिभुक्श्येनकौ ख्यातौ भविष्यन्तौ सुनिश्चितम् ।
श्येनो हिरण्यवर्णश्च पिङ्गलः शुक्लवर्णकः ॥
काको रक्तोऽसितश्चित्रः कुक्कुटः श्यामलः शिखी ।
काको बलीयान् सर्व्वेभ्यस्तस्मात् श्येनो हि
दुर्ब्बलः ॥
कुक्कुटो दुर्ब्बलस्ताभ्यां पिङ्गलस्तेभ्य ऊनकः ।
सर्व्वेभ्यो दुर्ब्बलः पक्षी नीलकण्ठो न संशयः ॥
बली मयूरात् कुब्जस्तु ताम्रचूडस्तयोर्ब्बली ।
एतेभ्यो बलवान् श्येनश्चतुर्णां वायसो बली ॥ * ॥
मित्रं मयूरः श्येनस्य मयूरस्य च पिङ्गलः ।
ताम्रचूडस्य सुहृदौ मयूरपिङ्गलौ तथा ॥
वायसस्यापि मित्रं स्यात् शिखी भवति सर्व्वदा ।
सुहृदौ पिङ्गलश्येनौ मयूरारुणशेखरौ ॥ * ॥
काककुक्कुटश्येनाश्च पिङ्गलस्य च विद्विषः ।
मयूरस्य रिपू नित्यं सर्व्वदा श्येनवायसौ ॥
भवतः श्येनकाकौ द्बौ ताम्रचूडस्य विद्बिषौ ।
काकस्य शत्रवो नित्यं पिङ्गलश्येनकुक्कुटाः ॥ * ॥
ऊर्द्ध्वदृष्टिर्भवेत् जीवो ह्यधोदृष्टिस्तु मूलकम् ।
समदृष्टिर्भवेद्धातुरेते चिन्ताप्रभेदकाः ॥ * ॥
श्येनो मूलं तथा कुब्जो जीवो धातुश्च वायसः ।
कुक्कुटो मूलजीवौ च मूलधातू शिखण्ड्यपि ॥ * ॥
श्येनो नरो बधूः कुब्जः पुरुषो वायसस्तथा ।
कुक्कुटः स्त्री पुमांश्चैव शिखी नपुंसकस्तथा ॥ * ॥
श्येनकुब्जौ द्विजश्रेष्ठौ महीपालस्तु वायसः ।
ताम्रचूडो वणिक् शूद्रो नीलकण्ठस्तथान्त्यजः ॥ * ॥
चतुष्पात् पिङ्गलो ज्ञेयो द्बिपदौ श्येनवायसौ ।
ताम्रचूडो नखी शृङ्गी शिखण्डी पक्षिजीवकः ॥ * ॥
श्येनो मुखं कण्ठबाहू कुब्जो वक्षस्तु वायसः ।
कुक्कुटः पृष्ठभागः स्यात् शिखी पादयुगं क्रमात् ॥ *
श्येनो भूम्यां धनं ज्ञेयं पिङ्गलो जलपङ्कयुक् ।
वायसस्तृणसङ्घाते कुक्कुटो भस्मनावृतम् ॥
श्येनः शिखी गृहानर्थं बन्धुस्थानेषु निश्चितम् ।
स्वग्रामे श्येनकुब्जौ तु वायसो बन्धुमाप्नुयात् ॥
कुक्कुटः परदेशे च परग्रामे तथा शिखी ।
कुब्जस्तु दशहस्ते च त्वर्द्धक्रोशे तु कुक्कुटः ॥
द्विक्रोशे तु तथा काकः श्येनः क्रोशे तु पूर्ब्बतः ।
मयूरो योजने चेति तथैवं दूरनिश्चयः ॥ * ॥
भुक्तौ च मासो गमने च पक्षो
राज्ये दिनानि त्वयनन्तु सुप्ते ।
मृते च वर्षं शकुनस्य चर्य्या
कालप्रमाणं मुनयो वदन्ति ॥
शुक्रे चन्द्रे गुल्मवल्ली लताकन्दौ बुधे तथा ।
पत्रं गुरौ फलं सूर्य्ये मूलञ्च रविजे कुजे ॥ * ॥
शुक्रे चन्द्रे भवेद्रौप्यं बुधे स्वर्णमुदाहृतम् ।
गुरौ रत्नयुतं हेम सूर्य्ये मौक्तिकमेव च ॥
भौमे ताम्रं शनौ लौहं राहावस्थीनि कीर्त्तयेत् ।
एतेषां धातुभेदञ्च वाराणामुदयक्रमात् ॥ * ॥
शुक्रे चन्द्रे जलाधारो देवतावसतिर्गुरौ ।
रवौ चतुष्पदस्थानमिष्टकानिलयो बुधे ॥
दग्धस्थानं कुजे प्रोक्तं शनौ राहौ च वाह्यभूः ।
अमीभिर्हिवुके स्थाने नष्टभूमिं विलोकयेत् ॥ * ॥
रवौ भौमे च भेरुण्डो मयूरो वायसः शनौ ।
पादायुधः शिखी शुक्रे काक कुब्जौ गुरौ तथा ॥
कुब्जकुक्कुटाविन्दुज्ञौ क्रमोऽयं शुक्लकृष्णयोः ।
यस्य वारस्य यः पक्षी तदादिं गणयेद्बुधः ॥
दिनपक्षी कार्य्यरूपी प्रश्नपक्षी फलप्रदः ।
दिनेषु शुक्लपक्षे यत् कृष्णे रात्रिषु तत्तथा ॥
कृष्णे दिनेषु यद्यत्तत् शुक्ले रात्रिषु योजयेत् ।
बालः कुमारस्तरुणो वृद्धो मृत इति क्रमात् ॥
घटिका षट् षडेवं हि फलमेषामुदीरितम् ।
किञ्चिल्लाभकरो बालः कुमारस्त्वर्द्धलाभदः ॥
तरुणो राज्यदो वृद्धो हानिदो मृत्युदो मृतः ।
भोजनं गमनं राज्यं निद्रा मरणमेव च ॥
एकान्तरे भवेत् कृष्णे शुक्ले स्यात् क्रमशो विदुः ।
पक्षिणां क्रमशो ज्ञात्वा फलं ब्रूयात् यथा तथा ॥
गणयेत् पञ्चपक्ष्यादौ जातभूतगणाद्यपि ॥”
शुक्लपक्षे ॥ * ॥ ततः कृष्णपक्षे ।
“भोजनं मरणञ्चैव निद्रा राज्यं तथैव च ।
गमनं पञ्चपक्षाणां कृष्णपक्षे क्रमो दिवा ॥ * ॥
राज्यं सुभिक्ष्यमक्षोभं नष्टलाभं सदा जयम् ।
रोगमुक्तं महालाभं पक्षिणां भुक्तिलक्षणम् ॥ * ॥
अनायासेन दृष्टिः स्याददृष्टधनसञ्चयः ।
भूलाभो रोगनाशश्च यात्रासिद्ध्वी रणे जयः ॥
दूरादागमनं योगः प्रयाणे पक्षिलक्षणम् ।
राज्योदये यदि प्रश्नो लाभार्थे स्वल्पलाभदः ॥
रुजानां चिररोगः स्यात् याने हानिः क्षयो रणे ।
पुरग्रामप्रवेशञ्च गमनं कलहं तथा ।
मनश्चञ्चलमारोग्यं गमनेषु विचारयेत् ॥ * ।
राज्यलाभो जयं सौख्यमक्षोभं रोगनाशनम् ।
सुभिक्षं बहुवृष्टिश्च पक्षिणां राज्यलक्षणम् ॥ * ॥
यात्राहानिरनावृष्टिः कार्य्यहानिरदर्शनम् ।
व्याधिश्च दीर्घरोगश्च पक्षिणां सुप्तिलक्षणम् ॥
अपमृत्युभयञ्चैव सर्व्वकार्य्यविनाशनम् ।
एतदेव फलं ब्रूयात् पक्षिणां मृत्युलक्षणम् ॥ * ॥
श्येने भोक्तरि काकस्तु पान्थो राजा भुजङ्गभुक् ।
स्वप्नावस्थां गतः कुब्जः परासुस्ताम्रशेखरः ॥ * ॥
काके भोक्तरि केकी तु पान्थः स्यात् पिङ्गलो नृपः ।
ताम्रचूडस्तथा स्वापी श्येनः कालवशं गतः ॥ * ॥
मयूरे भोक्तरि तथा कुब्जो यात्रावशं गतः ।
महीपः कुक्कुटः श्येनः स्वापी काको वशं गतः ॥
कुब्जे भोक्तरि पान्थस्तु कुक्कुटः श्येनको नृपः ।
काको निद्रावशं यातो मयूरो मरणं गतः ॥ * ॥
कुक्कुटे भोक्तरि श्येनः पान्थो राजा तु वायसः ।
शिखी निद्रावशं यातः पिङ्गलः कालमाप्नुयात् ॥”
इति कृष्णपक्षस्य दिवाक्रमः शुक्लपक्षस्य रात्रिक्रम-
श्च ॥ स्वरोऽपि यथा । अनुमोदिते । उन्मोदितेन ।
ओमित्येवायुः । इत्येव जुहो । एवमुक्तोऽसि ॥ * ॥
“श्येने भोक्तरि कुब्जः स्यात् पान्थः काकोमही-
पतिः ।
ताम्रचूडो निद्रितश्च शिखी कालवशं गतः ॥ * ॥
मयूरे भोक्तरि श्येनः पान्थः कुब्जोमहीपतिः ।
स्वप्नावस्थां गतः काकस्ताम्रचूडो मृतस्तथा ॥ * ॥
कुक्कुटे भोक्तरि शिखी सदा गमनमाप्नुयात् ।
श्येनो महीपतिः कुब्जः स्वापी काको मृतिं गतः ॥ * ॥
काके भोक्तरि यात्रायां ताम्रचूडः शिखी नृपः ।
निद्रायां रमते श्येनः कुब्जः कालवशं गतः ॥ * ॥
कुब्जे भोक्तरि यात्रायां वायसः कुक्कुटो नृपः ।
नीलकण्ठस्तथा स्वापी श्येनो मृत्युवशं गतः ॥”
इति शुक्लपक्षस्य दिवाक्रमः कृष्णपक्षस्य रात्रि-
क्रमश्च ॥ * ॥ स्वरोऽपि यथा । अहिपुरेभोः ।
गोकरिपुरे । एकोनरिपुः । उपेन्द्रो हरिः ।
विष्णुस्ते लोकः ॥ * ॥
“इत्युक्तं पक्षिणां कार्य्यं लाभालाभं शुभाशुभम् ।
येन विज्ञानमात्रेण त्रिकालज्ञो भवेन्नरः ॥
तावद्गर्ज्जन्ति शास्त्राणि शकुनानामनेकशः ।
यावन्न श्रूयते पक्षिशकुनं शङ्करोदितम् ॥”
इति श्रीमहादेवविरचितं पञ्चपक्षिशाकुनं
समाप्तम् ॥

पञ्चपर्णिका, स्त्री, (पञ्च पञ्च पर्णान्यस्याः । ततः

कप् कापि अतः इत्वम् ।) गोरक्षीक्षुपः ।
इति राजनिर्घण्टः ॥

पञ्चपल्लवं, क्ली, (पञ्चानां पल्लवानां समाहारः ।)

आम्रादिपत्रपञ्चकम् । यथा, --
“आम्रजम्वूकपित्थानां बीजपूरकविल्वयोः ।
गन्धकर्म्मणि सर्व्वत्र पत्राणि पञ्चपल्लवम् ॥”
इति शब्दचन्द्रिका ॥
वैदिककर्म्मणि घटोपरिदेयपञ्चपल्लवं यथा, --
आम्राश्वत्थवटपर्कटीयज्ञोडुम्बराणि । तान्त्रिक-ः
कर्म्मणि पञ्चपल्लवं यथा, --
“पनसाम्रं तथाश्वत्थं वटं वकुलमेव च ।
पञ्चपल्लवमुक्तञ्च मुनिभिस्तन्त्रवेदिभिः ॥”
इति तन्त्रसारः ॥

पञ्चपात्रं, क्ली, पञ्चानां पात्राणां समाहारः । इति

व्याकरणम् ॥ पञ्चपात्रकरणकपार्व्वणविधिक-
श्राद्धम् । तत्तु अन्वष्टकाश्राद्धम् । अमावस्या-
मृतप्रेतपक्षमृतसाम्बत्सरिकं सपिण्डीकरणञ्च ।
इति लोकप्रसिद्धम् ॥

पञ्चपित्तं, क्ली, (पञ्चविधं पित्तम् ।) पित्तपञ्च-

कम् । यथा, --
“वराहच्छागमहिषमत्स्यमायूरपित्तकम् ।
पञ्चपित्तमिति ख्यातं सर्व्वेष्वेव हि कर्म्मसु ॥”
इति वैद्यकम् ॥

पञ्चप्रदीपः, पुं, (पञ्चसंख्यकाः प्रदीपा यत्र ।)

पञ्चदीपयुक्तारात्रिकम् । यथा, --
“कुर्य्यात् सप्तप्रदीपेन शङ्खघण्टादिवाद्यकैः ।
हरेः पञ्चप्रदीपेन बहुशो भक्तितत्परः ॥”
इति पाद्मोत्तरखण्डे १०७ अध्यायः ॥

पञ्चप्रासादः, पुं, (प्रसीदन्ति मनांसि अत्र ।

प्र + सद + अधिकरणे घञ् । “उपसर्गस्य
दीर्घत्वं क्विप्घञादौ क्वचिद्भवेत् ।” इति
वचनात् दीर्घः । पञ्चचूडान्वितः प्रासादः ।
मध्यपदलोपिकर्म्मधारयः ।) देवगृहविशेषः ।
पञ्चरत्न इति ख्यातः । यथा, --
“पक्वेष्टकचितं रम्यं पञ्चप्रासादसंयुतम् ।
कारयित्वा हरेर्धाम धूतपापो व्रजेद्दिवम् ॥”
इत्यग्निपुराणम् ॥
पृष्ठ ३/०१०

पञ्चबन्धः, पुं, (पञ्चमः वन्धः भागो यत्र ।) नष्ट-

द्रच्यस्य पञ्चमांशदण्डः । यथा, --
“आंगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा ।
पञ्चनन्धो दमस्तस्य राज्ञे तेनाविभाविते ॥”
आगमेन रिक्थक्रयादिना । उपभोगेन च
मदीयमिदं द्रव्यं तच्चैवं नष्टमपहृतं वेत्यपि ।
भाव्यं साधनीयं तत् स्वामिना । अतोऽन्यथा
तेन स्वामिना अविभाविते । पञ्चबन्धो नष्ट-
द्रव्यस्य पञ्चमांशो दमो नाष्टिकेन राज्ञं देयः ।
इति मिताक्षरा ॥

पञ्चभद्रः, पुं, (पञ्चसु अङ्गभेदेषु भद्रः शुभः

पुष्पितत्वात् ।) पञ्चस्थानेषु पुष्पितोऽश्व-
विशेषः । यथा, --
“पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ॥”
इति हेमचन्द्रः ॥ पाचनविशेषः । यथा, --
“छिन्नोद्भवापर्पटवारिवाह-
भूनिम्बशुण्ठीजनितः कषायः ।
समीरपित्तज्वरजर्ज्जराणां
करोति भद्रं खलु पञ्चभद्रः ॥”
इति शार्ङ्गधरः ॥

पञ्चभूतं, क्ली, पञ्चानां भूतानां क्षित्यप्तेजोमरु-

द्व्योम्नां समाहारः । (केचित्तु संज्ञाप्रयुक्तत्वात्
पञ्च च तानि भूतानि चेति कर्म्मधारयसमास-
माहुस्तत्र तु एकवचनञ्चिन्तनीयम् ।)
अस्योत्पत्तिर्यथा ।
“अभूत्तस्मादहङ्कारस्त्रिविधः सृष्टिभेदतः ।
वैकारिकादहङ्काराद्देवा वैकारिका दश ॥
दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रकाः ।
तैजसादिन्द्रियाण्यासंस्तन्मात्रा क्रमयोगतः ।
भूतादिकादहङ्कारात् पञ्चभूतानि जज्ञिरे ॥”
इति शारदायां प्रथमपटलः ॥ * ॥
“सोऽहङ्कारस्त्रिभेदः स्यात् सत्त्वादिगुणयोगतः ।
वैकारः सात्त्विको नाम तैजसो राजसः स्मृतः ॥
भूतादिस्तामसस्ते च पृथक्तत्त्वाद्यवासृजन् ।
वैकारिकाद्दिगाद्याश्च चन्द्रेणैकादश स्मृताः ॥
इन्द्रियाणामधिष्ठातृदेवास्ते परिकीर्त्तिताः ।
यच्चापरं मनस्तत्त्वं ससङ्कल्पविकल्पकम् ॥
तैजसादेव तज्जातमिन्द्रियाणि तथा दश ।
भूतादेः पञ्चतन्मात्राण्यासन् भूतमतः परम् ॥”
इति राघवभट्टधृतम् ॥ * ॥
“शब्दाद्व्योमस्पर्शतस्तेन वायु-
स्ताभ्यां रूपाद्वह्निरेतै रसाच्च ।
अम्भांस्येतैर्गन्धतो भूर्धराद्या
भूताः पञ्च स्युर्गुणोनाः क्रमेण ॥”
इति प्रपञ्चसारे प्रथमपटलः ॥ * ॥
“आकाशाज्जायते वायुर्वायोरुत्पद्यते रविः ।
रवेरुत्पद्यते तोयं तोयादुत्पद्यते मही ॥”
(तथा च श्रुतिः ।
“तस्मादेतस्मादाकाशः सम्भूतः । आकाशाद्वायुः
वायोरग्निरग्नेरापोऽद्भ्यः पृथ्वी समजायत ॥”
एतच्छ्रु त्यवलम्बनेन मनुनाप्युक्तम् । १ । २० ।
यथा, --
“आद्याद्यस्य गुणन्त्वेषामवाप्नोति परःपरः ।
यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः ॥”
अत्र कुल्लूकभट्टः ।
“आद्याद्यस्याकाशादेर्गुणं शब्दादिकं वाय्वादिः
परः परः प्राप्नोति । एतदेव स्पष्टयति यो यः
इति येषां मध्ये यो यो यावतां पूरणा याव-
तिथः वतोरिथुक् स स द्बितीयादिः द्बितीयो
द्विगुणः तृतीयस्त्रिगुणः इत्येवमादिर्मन्वादिभिः
स्मृतः । एतेनैतदुक्तं भवति । आकाशस्य शब्दो
गुणः वायोः शब्दस्पर्शौ तेजसः शब्दस्पर्श-
रूपाणि अपां शब्दस्पर्शरूपरसाः भूमेः शब्द-
स्पर्शरूपरसगन्धा इति ॥)
तस्य लयप्रकारो यथा, --
“मही संलीयते तोये तोयं संलीयते रवौ ।
रविः संलीयते वायौ वायुर्नभसि लीयते ।
पञ्चतत्त्वाद्भवेत् सृष्टिस्तत्त्वे तत्त्वं विलीयते ॥”
इति ब्रह्मज्ञानतन्त्रनिर्ब्बाणतन्त्रे ॥ * ॥
तदुद्भवास्थ्यादि यथा, --
“अस्थिमांसनखाश्चैव नाडी त्वक् चेति पञ्चमः ।
पृथ्वीपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥
मलं मूत्रं तथा शुक्रं श्लेष्मा शोणितमेव च ।
तोयपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥
हासो निद्रा क्षुधा चैव भ्रान्तिरालस्यमेव च ।
तेजःपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥
धारणं चालनं क्षेपः सङ्कोचः प्रसरस्तथा ।
वायुपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥
कामक्रोधस्तथा लोभस्त्रपा मोहश्च पश्चमः ।
नभःपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥”
इति ब्रह्मज्ञानतन्त्रे प्रथमपटलः ॥ * ॥
पञ्चभूतनक्षत्राणि यथा, --
“धनिष्ठा रेवती ज्येष्ठानुराधा श्रवणा तथा ।
अभिजिच्चोत्तराषाढा पृथ्वीतत्त्वमुदाहृतम् ॥
पूर्ब्बाषाढा तथाश्लेषा मूलार्द्रा चैव रोहिणी ।
उत्तरभाद्रपदा तोयं आपस्तत्त्वन्त्वभीष्टदम् ॥
भरणी कृत्तिका पुष्या मघा पूर्ब्बा च फल्गुनी ।
पूर्ब्बभाद्रपदा स्वाती तेजस्तत्त्वमिति प्रिये ॥
विशाखोत्तरफल्गुन्यौ हस्ता चित्रा पुनर्व्वसुः ।
अश्विनी मृगशीर्षा च वायुस्तत्त्वमुदाहृतम् ॥”
इति सूक्ष्मस्वरोदयः ॥

पञ्चमं, क्ली, मैथुनम् । यथा, --

“भगलिङ्गस्य योगेन मैथुनं यद्भवेत् प्रिये ।
तस्य नाम भवेद्देवि पञ्चमं परिकीर्त्तितम् ॥”
इति समायाचारतन्त्रे द्वितीयपटलः ॥

पञ्चमः, त्रि, पञ्चानां पूरणः । (पूरणे डट

ततः नान्तादिति मट् ।) पाँच इत्यादि
भाषा । इति मेदिनी ॥ (यथा, मनुः ।
८ । १२५ ।
“उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥”)
रुचिरः । दक्षः । इति हेमचन्द्रः ॥

पञ्चमः, पुं, पञ्चानां स्वराणां पूरणः । तन्त्री-

कण्ठोत्थितस्वरविशेषः । इत्यमरः ॥ स तु षड्-
जादिसप्तस्वराणां पञ्चमः स्वरः । तस्योत्-
पत्तिर्यथा, --
“वायुः समुद्गतो नाभेरुरोहृत्कण्ठमूर्द्धसु ।
विचरन् पञ्चमस्थानप्राप्त्या पञ्चम उच्यते ॥”
इति तट्टीकायां भरतः ॥ अपि च ।
“प्राणोऽपानः समानश्च उदानो व्यान एव च ।
एतेषां समवायेन जायते पञ्चमः स्वरः ॥”
इति सङ्गीतदामोदरः ॥ अस्य जातिः औडवः ।
पञ्चस्वरमिलित इति यावत् । अस्य कूटतानाः
विंशत्यधिकशतम् १२० प्रत्येकताने चत्वारिंशत्
४० । समुदायेन चतुःसहस्राष्टशतानि ४८००
ताना भवन्ति । अस्योच्चारणजातिः पिकः ।
उच्चारणस्थानं उरः गलः शिरश्च । व्याकरण-
मते अधरः । अयं विप्रवर्णः । इति शुद्ध-
तानविवेकलक्षणम् ॥ अस्य रूपं इन्द्ररूप-
तुल्यम् । वर्णः श्यामः । स्थानं क्रौञ्चद्वीपम् ।
देवता महादेवः । वारो बृहस्पतेः । समय-
श्चतुस्त्रिंशत्पलाधिकाष्टौ घटिकाः । श्रुतय-
श्चत्वारः क्षितिः रक्ता सन्दीपनी आलापिनी
च । मूर्च्छनास्तिस्रः यमली निर्म्मली कोमली
च । इति नादपुराणम् ॥ * ॥ रागभेदः । इति
मेदिनी ॥ अयं कल्लिनाथमते सोमेश्वरमते च
षड्रागाणां मध्ये तृतीयरागः । सोमेश्वरमते
अस्य गानसमयः शरदृतुः प्रातःकालश्च । कल्लि-
नाथमते अस्य रागिण्यः षट् । यथा, त्रिवेणी
१ स्तम्भतीर्था २ आभीरी ३ कुकभ् ४ वरारी
५ सावीरी ६ । सोमेश्वरमते तु विभासा १
भूपाली २ कार्णाटी ३ वडहंसिका ४ मालश्रीः
५ पटमञ्जरी ६ । अस्मिन्रागे गान्धार-
स्वरस्तीव्रः । ॠषभपञ्चमौ स्वरौ लुप्तौ । षड्ज-
स्वरः गृहांशन्यासाः । स च हनूमन्मते भरत-
मते च भैरवरागस्याष्टमपुत्त्रः । इति सङ्गीत-
शास्त्रम् ॥

पञ्चमकारं, क्ली, (पञ्चसंख्यकं मकारं तत्त्वं यत्र । मद्यं

मांसमित्यादिषु आदौ मकारस्थितेस्तथात्वम् ।)
मकारपञ्चकम् । पञ्चतत्त्वम् । तत्तु मुद्रामैथुन-
मद्यमांसमत्स्यरूपम् । यथा, --
“मद्यं मांसं तथा मत्स्यो मुद्रा मैथुनमेव च ।
पञ्चतत्त्वमिदं देवि ! निर्व्वाणमुक्तिहेतवे ।
मकारपञ्चकं देवि ! देवानामपि दुर्लभम् ॥”
इति गुप्तसाधनतन्त्रे ७ पटलः ॥ * ॥
“मद्यैर्मांसैस्तथा मत्स्यैर्मुद्राभिर्मैथुनैरपि ।
स्त्रीभिः सार्द्धं महासाधुरर्च्चयेद्जगदम्बिकाम् ॥
अन्यथा च महानिन्दा गीयते पण्डितैः सुरैः ।
कायेन मनसा वाचा तस्मात्तत्त्वपरो भवेत् ॥”
इति कामाख्यातन्त्रे ५ पटलः ॥ * ॥
“या सुरा सर्व्वकार्य्येषु कथिता भुवि मुक्तिदा ।
तस्या नाम भवेद्देवि ! तीर्थं पानं सुदुर्लभम् ॥
शूद्राणां भक्ष्ययोग्यानां यन्मांसं देवनिर्म्मितम ।
वेदमन्त्रेण विधिवत् प्रोक्ता सा शुद्धिरुत्तमा ॥
भक्ष्ययोग्याश्च कथिता ये ये मत्स्या वरानने ! ।
ते रहस्ये मया प्रोक्ता मीनाः सिद्धिप्रदायकाः ॥
पृष्ठ ३/०११
पृथुकास्तण्डुला भृष्टा गोधूमचणकादयः ।
तस्य नाम भवेद्देवि ! मुद्रा मुक्तिप्रदायिनी ॥
भगलिङ्गस्य योगेन मैथुनं यद्भवेत् प्रिये ! ।
तस्य नाम भवेद्देवि ! पञ्चमं परिकीर्त्तितम् ॥
प्रथमन्तु भवेन्मद्यं मांसञ्चैव द्बितीयकम् ।
मत्स्यश्चैव तृतीयं स्यान्मुद्रा चैव चतुर्थिका ॥
पञ्चमं पञ्चमं विद्यात् पञ्च ते नामतः स्मृताः ॥”
इति समयाचारतन्त्रे २ पटलः ॥ * ॥
अथ मत्स्यादिव्युत्पत्तिः ।
“मायामलादिशमनान्मोक्षमार्गनिरूपणात् ।
अष्टदुःखादिविरहान्मत्स्येति परिकीर्त्तितः ॥
माङ्गल्यजननाद्देवि ! सम्बिदानन्ददानतः ।
सर्व्वदेवप्रियत्वाच्च मांस इत्यभिधीयते ॥
पञ्चमं देवि ! सर्व्वेषु मम प्राणप्रियं भवेत् ।
पञ्चमेन विना देवि ! चण्डीमन्त्रं कथं जपेत् ॥
यदि पञ्चमकारेषु भ्रान्तिञ्चेत् कुरुते प्रिये ! ।
तस्य सिद्धिः कथं देवि ! चण्डीमन्त्रं कथं जपेत् ॥
आनन्दं परमं ब्रह्म मकारास्तस्य सूचकाः ॥”
इति कुलार्णवतन्त्रे पञ्चमखण्डे १७ उल्लासः ॥ * ॥
तेषां शोधनादिकं बाहुल्यभिया लोकमोह-
भयाच्च नोक्तम् ॥

पञ्चमहायज्ञाः, पुं, (पञ्चविधा महायज्ञाः ।)

गृहस्थकर्त्तव्यपञ्चप्रकारनित्यकर्म्माणि । यथा, --
“पाठो होमश्चातिथीनां सपर्य्या तर्पणं वलिः ।
एतैः पञ्च महायज्ञा ब्रह्मयज्ञादिनामकैः ॥”
इत्यमरः । २ । ७ । १४ ॥
(तथा च मनुः । ३ । ६८-७० ।
“पञ्चसूना गृहस्थस्य चूल्लीपेषण्युपस्करः ।
कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन् ॥
तासां क्रमेण सर्व्वासां निष्कृत्यर्थं महात्मभिः ।
पञ्चकॢप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् ॥
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो वलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥”)

पञ्चमारः, पुं, (पञ्चसु इन्द्रियेषु म्रियते आसक्तो

भवतीति । पञ्च + मृ + कर्त्तरि घञ् ।) बल-
देवपुत्त्रः । इति शब्दमाला ॥

पञ्चमास्यः, पुं, (पञ्चमो रागः स्वरो वा आस्ये

यस्य । “कोकिलो पञ्चमं वदेत् ।” इत्युक्तेरस्य
तथात्वम् ।) कोकिलः । इति शब्दरत्नावली ॥

पञ्चमी, स्त्री, (पञ्चानां पाण्डवानां इयम् । अथवा

पञ्च पतीन् मिनोति सेवास्नेहादिभिर्बध्नाति या ।
पञ्च + मी + क्विप् । मीधातुरत्र बन्धार्थः ।)
पाण्डवपत्नी । द्रौपदी । इति मेदिनी ॥ (पञ्चानां
पूरणी डट् ततो मट् स्त्रियां ङीप् ।) शारि-
शृङ्खला । पाशार छक् इति भाषा । इति भूरि-
प्रयोगः ॥ * ॥ तिथिविशेषः । सा च चन्द्रस्य
पञ्चमकलाक्रियारूपा तदुपलक्षितकालश्च ।
पञ्जिकाकारसङ्केतेन शुक्लपक्षे ५ कृष्णपक्षे २०
एतदङ्कबोधिता ॥ * ॥ अथ पञ्चमीव्यवस्था ।
सा च चतुर्थीयुता ग्राह्या युग्मात् ।
“पञ्चमी च प्रकर्त्तव्या चतुर्थीसहिता विभो ! ॥”
इति स्कन्दपुराणाच्च ॥ * ॥
अथ नागपञ्चमी । यथा, -- देवीपुराणे ।
“सुप्ते जनार्द्दने कृष्णे पञ्चम्यां भवनाङ्गने ।
पूजयेन्मनसादेवीं स्नुहीविटपसंस्थिताम् ॥
पद्मनाभे गते शय्यां देवैः सर्व्वैरनन्तरम् ।
पञ्चम्यामसिते पक्षे समुत्तिष्ठति पन्नगी ॥”
देवैरिति सहार्थे तृतीया । तथा, --
“देवीं संपूज्य नत्वा च न सर्पभयमाप्नुयात् ।
पञ्चम्याम्पूजयेन्नागाननन्ताद्यान्महोरगान् ।
क्षीरं सर्पिस्तु नैवेद्यं देयं सर्व्वविषापहम् ॥”
एवं गारुडे तथैव नागानाह ।
“अनन्तं वासुकिं पद्मं शङ्खं कम्बलमेव च ।
तथा कर्कोटकं नागं धृतराष्ट्रञ्च शङ्खकम् ॥
कालीयं तक्षकञ्चैव पिङ्गलं मासि मासि च ।
यजेत्तानसिते नागान् दष्टमुक्तो दिवं व्रजेत् ॥”
पुराणान्तरेऽपि ।
“अनन्तो वासुकिः पद्मो महापद्मोऽथ तक्षकः ।
कुलिकः कर्कटः शङ्खो ह्यष्टौ नागाः प्रकीर्त्तिताः ॥”
पुराणान्तरेऽपि ।
“शेषः पद्मो महापद्मः कुलीरः शङ्खपालकः ।
वासुकिस्तक्षकश्चैव कालीयो मणिभद्रकः ।
ऐरावतो धृतराष्ट्रः कर्कोटकधनञ्जयौ ॥”
अत्र च ।
“योऽसौ चानन्तरूपेण ब्रह्माण्डं सचराचरम् ।
पुष्पवद्धारयेन्मूर्द्ध्नि तस्मै नित्यं नमो नमः ॥”
इत्यनेन ओंकारपूर्ब्बेण मत्स्यपुराणोक्तेनानन्तं
पूजयेत् । रत्नाकरे ।
“पिचुमर्द्दस्य पत्राणि स्थापयेद्भवनोदरे ।
स्वयञ्चापि तदश्नीयाद्ब्राह्मणांश्चैव भोजयेत् ॥” * ॥
अथ श्रीपञ्चमी । भविष्योत्तरे । माघशुक्लपक्ष-
मधिकृत्य, --
“चतुर्थी वरदा नाम तस्यां गौरी प्रपूजिता ।
सौभाग्यमतुलं कुर्य्यात् पञ्चम्यां श्रीरपि श्रियम् ॥”
सम्बत्सरप्रदीपे ।
“पञ्चम्यां पूजयेल्लक्ष्मीं पुष्पधूपान्नवारिभिः ।
मस्याधारं लेखनीञ्च पूजयेन्न लिखेत्ततः ॥
माघे मासि सिते पक्षे पञ्चमी या श्रियः प्रिया ।
तस्याः पूर्ब्बाह्ण एवेह कार्य्यः सारस्वतोत्सवः ॥”
इत्युपादानात् श्रियः स्वरसत्याः । तथा च व्याडिः ।
“लक्ष्मीसरस्वतीधीत्रिवर्गसम्पद्विभूतिशोभासु ।
उपकरणवेशरचनाविधासु च श्रीरितिप्रथिता ॥”
ध्यानं यथा, --
“तरुणशकलमिन्दोर्ब्रिभ्रती शुभ्रकान्तिः
कुचभरनमिताङ्गी सन्निषण्णा सिताब्जे ।
निजकरकमलोद्यल्लेखनीपुस्तकश्रीः
सकलविभवसिद्ध्व्यै पातु वाग्देवता नः ॥”
इति शारदोक्तं ध्यायेत् । पाद्यादिभिः पूजयित्वा ।
“भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः ।
वेदवेदान्तवेदाङ्गविद्यास्थानेभ्य एव च ॥”
स्वाहेति ब्रह्मपुराणीयेन त्रिः पूजयेत् । मत्स्य-
सूक्ते । बन्धुजीवञ्च द्रोणञ्च सरस्वत्यै न दापयेत् ।
सरस्वतीं संपूज्य, --
“यथा न देवो भगवान् ब्रह्मा लोकपितामहः ।
त्वां परित्यज्य सन्तिष्ठेत्तथा भव वरप्रदा ॥
वेदाः शास्त्राणि सर्व्वाणि नृत्यगीतादिकञ्च यत् ।
न विहीनं त्वया देवि ! तथा मे सन्तु सिद्धयः ॥
लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टिः प्रभा धृतिः ।
एताभिः पाहि तनुभिरष्टाभिर्म्मां सरस्वति ! ॥”
इति मत्स्यपुराणीयैः प्रार्थयेत् ॥ * ॥
अथ पञ्चमीव्रतम् ।
तच्च शुद्धकाले माघशुक्लपञ्चम्यामारभ्य षड्वर्ष-
पर्य्यन्तं प्रतिमासीयशुक्लपञ्चम्यां कार्य्यम् । यथा, --
“क्षीरोदे च पुरा सुप्तं लक्ष्मीसमन्वितं हरिम् ।
प्रणम्य परिपप्रच्छ नारदो मुनिसत्तमः ॥
नारद उवाच ।
केनोपायेन देवेश ! नारीणाञ्च सुखं भवेत् ।
सौभाग्यमतुलं याति तन्मे त्वं वक्तुमर्हसि ॥
श्रुत्वा तद्वचनं देवो नारदस्य महात्मनः ।
संप्रेक्ष्य कमलां सव्ये ब्रूहि देवि शुभानने ! ॥
इङ्गितं पत्युरालोक्य पद्मपत्राक्षवल्लभा ।
वल्लभं तं पुरस्कृत्य प्रीत्या व्रतमुवाच ह ॥
देव्युवाच ।
अस्ति श्रीपञ्चमीनाम व्रतं परमदुर्लभम् ।
यत् कृत्वा प्राप्यते लोकैः सुखं सौभाग्यमुत्तमम् ॥”
तत्र मां पूजयेद्भक्त्या माधवञ्च प्रयत्नतः ।
गन्धैः पुष्पैश्च वस्त्रैश्च धूपैर्नानाविधैः फलैः ॥
श्रद्धया पूजयेद्भक्त्या माघादौ पञ्चमीदिने ।
इमां ब्रह्मपुराणोक्तां या करोति च पञ्चमीम् ॥
लक्ष्मीसमा भवेन्नारी इह लोके परत्र च ।
विधानं शृणु धर्म्मज्ञ ! यादृशी पञ्चमी मम ॥
वर्षाणि षट् प्रकर्त्तव्या परमप्रीतिमानसा ।
शुद्धकाले तु संप्राप्ते पञ्चमी या शुभा भवेत् ॥
तस्यामारभ्य कर्त्तव्यं व्रतं पापप्रणाशनम् ।
स्वयं यतात्मा भूत्वा च आरभेद्व्रतमुत्तमम् ॥
आद्यद्वयमलवणेन हविष्येण द्वयं तथा ।
फलेनैकन्तु कर्त्तव्यमुपवासैः प्रतिष्ठयेत् ॥
प्रतिष्ठाया विधिरयं काञ्चनस्य श्रियं हरिम् ।
ब्राह्मणञ्च सपत्नीकं पूर्ब्बेद्यु रधिवासयेत् ॥
पञ्चम्यामृत्विजं विप्रमाचार्य्यञ्च द्धिजोत्तमम् ।
पूजा च विविधा कार्य्या मूलमन्त्रेण भक्तितः ॥
होमञ्च तिललाजानां शतं कुर्य्यात् पृथक् पृथक् ।
नैवेद्यं विविधं कुर्य्यात् लड्डुक पूपमुत्तमम् ॥
आसनं पाद्यमर्ध्यञ्च तथाप्याचमनीयकम् ।
वासौ यज्ञोपवीतञ्च गन्धपुष्पफलं तथा ॥
छत्रं धूपः प्रदीपश्च ताम्वूलं फलमेव च ।
गौः शय्या कम्बलञ्चैव हिरण्यं रजतं तथा ॥
ब्राह्मणेभ्यः प्रदेयानि दक्षिणासंयुतानि च ।
यथोक्तेन विधानेन या कुर्य्यात् पञ्चमीव्रतम् ॥
आसप्तकुलमुद्धृत्य विष्णुलोकमवाप्नुयात् ।
शचीव पुरुहूतस्य रतीव मदनस्य च ॥
शङ्करस्य यथा गौरी तथा भवति सा शुभा ।
मासि मासि सिते पक्षे पञ्चमी या प्रकीर्त्तिता ॥
तस्यां पूज्या सदा देवी भक्तितः कमलोद्भवा ।
लक्ष्मीसमा भवेन्नारी षट्पञ्चमीव्रतेन वै ॥
पृष्ठ ३/०१२
श्रीपञ्चमीव्रतं रम्यं या करोति पतिव्रता ।
तस्याहं स्थिरतां यामि यथा नारायणे स्थिरा ॥
मत्प्रसादान्मुनिश्रेष्ठ ! सर्व्वसौभाग्यमाप्नुयात् ॥”
इति ब्रह्मपुराणोक्तषट्पञ्चमीव्रतकथा समाप्ता ॥
अथ पञ्चमीजातफलं यथा ।
“भूपालमान्यो मनुजः सुगात्रः
कृपासमेतो विदुषां वरेण्यः ।
वाग्मी गुणी बन्धुजनैकमान्यः
प्रसूतिकाले यदि पञ्चमी स्यात् ॥”
इति कोष्ठीप्रदीपः ॥
विद्याविशेषः । तद्विवरणं यथा, --
“कामं विष्णुयुतं देवि ! शक्तिभायेन्द्रमेव च ।
महामायां ततः पश्चात् वाग्भवं बीजमुद्धरेत् ॥”
विष्णुयुतं अकारयुक्तमित्यर्थः । शक्तिरेकारः ।
माया ईकारः ।
“वियच्चन्द्रस्ततः पश्चात् कलौ नकुलिरेव च ।
मायास्वरेण संयुक्तं नादबिन्दुकलान्वितम् ॥
प्रथमं कामराजस्य बीजं परमदुर्लभम् ।
वियद्विष्णुयुतं कामो हंसः शक्रस्ततः परम् ॥
महामाया ततः पश्चात् स्वप्नावतीति कथ्यते ॥”
हंसो हकारः । एतद्द्वितीयं कामकूटम् ॥ * ॥
“मादनं शिववीजञ्च वायुबीजं ततः परम् ।
इन्द्रबीजं ततः पश्चात् महामायां समुद्धरेत् ॥”
इति तृतीयम् । इयं मधुमती ॥ * ॥
“शिवबीजं तथा कामं इन्द्रं देवीं नियोजयेत् ।
महामायां ततः पश्चात् शक्तिकूटं समुद्धरेत् ॥”
देपीं सकारम् ।
“वाग्भबं प्रथमं कूटं शक्तिकूटन्तु पञ्चमम् ।
मध्यकूटत्रयं देवि ! कामराजं मनोहरम् ।
कथिता पञ्चमी विद्या त्रैलोक्यसुभगोदया ॥” * ॥
ईश्वर उवाच ।
“शृणु देवि ! महाभागे शक्तिकूटं सुदुर्लभम् ।
वाग्भवं प्रथमं कूटं कामराजं त्रिकूटकम् ॥
शक्तिकूटं प्रवक्ष्यामि तव स्नेहात् विशेषतः ।
जीवप्राणौ महादेवि ! मादनं तदनन्तरम् ॥
इन्द्रबीजं ततः पश्चात् भुवनेशी तु पञ्चमम् ॥”
जीवः सकारः । प्राणो हकारः । इति वा शक्ति-
कूटम् ॥ * ॥
“अथवा देवदेवेशि ! सौभाग्यायाश्च वाग्भवम् ।
कूटत्रयं कामराजं शक्तिबीजञ्च पूर्ब्बवत् ।
एषा शाक्ता महादेवि ! पञ्चमी परमेश्बरी ॥”
अस्या वाग्भवं कूटं हित्वा सौभाग्यायाः प्रथम-
कूटं वाग्भवं कूटमित्यर्थः । कामराजकूटत्रयं
पञ्चम्या एव ।
“वामनेत्रादिकूटं वा भगादिकूटमेव वा ।
अरिहा सिद्धिदा विद्या सर्व्वदोषविवर्ज्जिता ॥”
भग एकारः । एतेनाष्टधा पञ्चमी वाम्भवशक्ति-
कूटभेदेन ॥ * ॥ यामले ।
“द्विविधा पञ्चमी विद्या पञ्चपञ्चाक्षरी परा ।
मध्ये षडक्षरी चैव शक्तिश्च चतुरक्षरी ॥”
षडिति कामराजविद्याया मध्यकूटमित्यर्थः ।
शक्तिरिति कामराजस्य शक्तिकूटमित्यर्थः ।
एषा चतुर्द्धा वाग्भवकूटमेदात् । एतयोः काम-
राजस्य तृतीयकूटन्तु तत्रैव ॥ * ॥
“कामबीजं महेशानि ! शिवबीजं ततः परम् ।
तदधो हंसबीजन्तु इन्द्रबीजं विचिन्तयेत् ॥
महामायां ततः पश्चात् कूटं परमदुर्लभम् ॥”
एषा पूर्ब्बवदष्टधा । अन्या चतुर्द्धा ॥ * ॥
तथा तत्त्वबोधे ।
“कामाकाशपरा शक्र संस्थानकृतरूपिणी ॥”
परा सकारः । संस्थानकृतरूपिणी महामाया ॥ * ॥
तथा च तन्त्रे ।
“कामबीजं महेशानि ! शम्भुबीजं ततः परम् ।
तदधश्चन्द्रबीजन्तु पृथ्वीबीजं ततो लिखेत् ।
तदन्ते च महामाया कूटं परमदुर्लभम् ॥”
एषा पूर्ब्बवदष्टधा । अन्या चतुर्द्धा । तेन षट्-
त्रिंशद्रूपिणी पञ्चमी ॥ * ॥ हंसमाहेश्वरे ।
“वामकेश्वरविद्यायाः कूटं वाग्भवमुत्तमम् ।
एकारादि वागभवन्तु कूटं वाग्भवमुत्तमम् ॥
एकारादि वाग्भवन्तु सौभाग्यायाश्च वाग्भवम् ।
एषा च पञ्चमी विद्या त्रैलोक्यवशकारिणी ॥” * ॥
श्रीक्रमे ।
“एतासां चैव विद्यानां प्राणं शृणु वरानने ! ।
रमां मायां हंसबीजं वाग्भवाद्ये नियोजयेत् ॥
शक्त्यन्ते तु महादेवि ! हंसं मायां रमां तथा ।
एभिर्युक्तेन देवेशि ! विद्याजपनमाचरेत् ॥”
जपश्च सप्तवारमेव दीपन्यां तथा दर्शनात् ।
एतासां पूर्ब्बोक्तश्रीक्रमोक्तविद्यानाम् ॥ * ॥
पञ्चम्यान्तु विशेषो यथा ।
“रमां मायां हंसबीजं वाग्भवाद्ये नियोजयेत् ।
शक्त्यन्ते तु महेशानि ! हंसं मायां रमां तथा ॥
कामराजत्रये देवि ! ककारं शक्रसंयुतम् ।
मायाबिन्द्वीश्वरयुतं सूर्य्यकोटिसमप्रभम ॥
प्रथमं कामकूटस्य चाद्ये नियोजयेदिदम् ॥
वान्तं वह्निंसमायुक्तं वामनेत्रविभूषितम् ॥
नादबिन्दुसमायुक्तं श्रियो बीजमुदाहृतम् ।
द्वितीयं कामबीजन्तु जपेदुक्त्वा च सुन्दरि ! ॥
गगनं वह्निसंयुक्तं वामनेत्रविभूषितम् ।
नादबिन्दुसमायुक्तं मायाबीजं प्रकीर्त्तितम् ॥
मधुमतीं जपेच्चापि सर्व्वकामफलप्रदाम् ॥”
इति तन्त्रसारः ॥ * ॥ * ॥ रागिणीविशेषः । सा
च वसन्तरागस्य प्रिया । यथा, --
“वसन्ती पञ्चमी दौली वहारी रूपमञ्जरी ।
रागिण्य ऋतुराजस्य वसन्तस्य प्रिया इमाः ॥”
अस्या ध्यानं यथा, --
“सङ्गीतगोष्ठीषु गरिष्ठभावं
समाश्रिता गायनसम्प्रदायैः ।
खर्व्वाङ्गिणी नूपुरपादपद्मा
सा पञ्चमी पञ्चमवेदवेत्त्री ॥”
इति सङ्गीतदर्पणः ॥
(नदीविशेशः । यथा, महाभारते । ६ । ९ । २६ ।
“वरां वीरकराञ्चापि पञ्चमीञ्चमहानदीम् ॥”)

पञ्चमीव्रतं, क्ली, (पञ्चम्यां माघशुक्लपञ्चमीमारभ्य

षड्वर्षं यावत् प्रतिमासीयशुक्लपञ्चम्यां स्त्रिया
कर्त्तव्यं व्रतम् नियमविशेषः ।) माघशुक्लपञ्चमी
मारभ्य षड्वर्षपर्य्यन्तं प्रतिमासीयशुक्लपञ्चम्यां
स्त्रीकर्त्तव्यनियमविशेषः । तत्प्रयोगो यथा, तत्रादौ
कृतनित्यक्रिया यजमाना कुशहस्ताचम्य स्वस्ति-
वाचनपूर्ब्बकं सङ्कल्पं कुर्य्यात् । विष्णुर्नमोऽद्य माघे
मासि शुक्ले पक्षे पञ्चम्यां तिथौ अमुकगोत्रा श्री-
अमुकी पुत्त्रपौत्त्राद्यनवच्छिन्नसन्ततिमहदैश्वर्य्य-
सौभाग्यारोग्यसौन्दर्य्यावैधच्यप्राप्तिपूर्ब्बकविष्णुलो-
कप्राप्तिकामा अद्यारभ्य षड्वर्षपर्य्यन्तं प्रतिमा-
सीयशुक्लपञ्चम्यां गणपत्यादिनानादेवतासलक्ष्मी-
कवासुदेवपूजापूर्ब्बकभविष्यपुराणोक्तकथाश्रवण-
रूपषट्पञ्चमीव्रतमहं करिष्ये । इति सङ्कल्प्य
सूक्तं पाठयेत् । ततः सामान्यार्घ्यादि आसनशुद्धि-
भूतशुद्धिमातृकान्यासकराङ्गन्यासान्तं कृत्वा गणे-
शादीन् संपूज्य लक्ष्मीं नारायणञ्च यथाशक्ति
पूजयेत् । ततो भोज्योत्सर्गं कृत्वा प्रणमेत् ॥ * ॥
अथ कथा ।
“शेषशय्यासमासीनं लक्ष्मीधृतपदाम्वुजम् ।
योगनिद्रान्वितं कृष्णं नारदः परिपृच्छति ॥
केनोपायेन भगवन्नारी दुःखं न विन्दति ।
सौ भाग्यारोग्यसौन्दर्य्यपुत्त्रपौत्त्रादिकं लभेत् ॥
इत्युक्तो माधवश्चक्रे लक्ष्मीमुखनिरीक्षणम् ।
इङ्गिताकारतत्त्वज्ञा पद्मा पद्माक्षवल्लभा ।
वल्लभाज्ञां पुरस्कृत्य प्रीता वचनमब्रवीत् ॥
श्रीरुवाच ।
षट्पञ्चमीव्रतं सम्यक् श्रूयतां पापनाशनम् ।
सौभाग्यारोग्यसौन्दर्य्यपुत्त्रपौत्त्रधनप्रदम् ॥
माघे मासि सिते पक्षे पञ्चमी या शुभा भवेत् ।
तस्यामारभ्य कर्त्तव्यं षडब्दं व्रतमुत्तमम् ॥
प्रतिमासि च पञ्चम्यां लक्ष्मीं संपूज्य केशवम् ।
पूजयेद्गन्धपुष्पाद्यैर्न्यैवेद्यैश्च पृथग्विधैः ॥
कुर्य्याद्धोमञ्च विधिवत् गणेशस्य ग्रहस्य च ।
विष्णोर्लक्ष्म्याश्च वाग्देव्या दुर्गाया विभवक्रमात् ॥
अन्येषाञ्च यथाशक्ति तिलाज्ययवधान्यकैः ।
ततोऽश्नीयादलवणमादौ संवत्सरद्वयम् ॥
तृतीये च चतुर्थे च हविष्यान्नञ्च भोजयेत् ।
पञ्चमे फलमश्नीयात् षष्ठेकुर्य्यादुपोषणम् ।
षष्ठे प्रतिष्ठा कर्त्तव्या भोजयेद्द्वादश द्बिजान् ॥
तत्र षोडशदानानि हेमशृङ्गीमलङ्कृताम् ।
दक्षिणासहितां दद्यादाचार्य्याय मुनीश्वर ! ॥
ततः षड्डल्लकं दद्यात् सर्व्वालङ्कारभूषितम् ।
काञ्चनप्रतिमायुग्मलक्ष्मीनारायणान्वितम् ॥
विधिनानेन या कुर्य्यात् पञ्चमीव्रतमुत्तमम् ।
स्ववंशांस्तु समुद्धृत्य विष्णुलोकमवाप्नुयात् ॥
एतत्ते कथितं विप्र ! मर्त्यलोके प्रकाशितम् ।
शोकसन्तापहानिश्च वृथादुःखं न जायते ॥
धर्म्म्यं यशस्यमायुष्यमैश्वर्य्यञ्चापि वर्द्धयेत् ।
याश्च कुर्व्वन्ति भूर्लोके तासां सर्व्वं षुखावहम् ॥
श्रीरुवाच ।
शृणु सत्यं मुनिश्रेष्ठ ! देव्या यत् कथितं मयि ।
तदनुष्ठानसर्व्वन्तु प्रतिष्ठाञ्च द्बिजोत्तम् ! ॥
या करोति व्रतं साध्वी सर्व्वकामफलं लभेत् ।
पृष्ठ ३/०१३
तस्याः श्रीर्निश्चला गेहे सत्यं सत्यं हि नारद ! ॥
यथेन्द्राणी महेन्द्रस्य लक्ष्मीर्लक्ष्मीपतेर्यथा ।
शङ्करस्य यथा गौरी सापि भर्त्तुर्भवेत्तथा ॥
या पञ्चमीव्रतं कुर्य्यात् सा भवेच्च पतिव्रता ।
यथोक्तविधिना या तु कुर्व्वीत व्रतमुत्तमम् ॥
पुत्त्रपौत्त्रधनैश्वर्य्यं पञ्चमीकरणादपि ।
एतत्ते कथितं सर्व्वं तत्त्वं कमललोचन ! ॥
नारद उवाच ।
केनापि कथितं पूर्ब्बं कृतं केनापि वा पुनः ।
प्राप्तं कुत्र त्वया देवि ! श्रोतुमिच्छामि तद्बद ॥
श्रीरुवाच ।
माघे मासि सिते पक्षे पञ्चम्याञ्च महामुने ! ।
निशावसानसमये चन्द्रभागां महानदीम् ॥
हंससङ्घैः समाकीर्णां नलिनीपुलिनोज्ज्वलाम् ।
तत्र गौरी शची मेधा सावित्री चोर्व्वशी परा ॥
नारायणं समारोप्य कुर्व्वन्ति व्रतमुत्तमम् ।
काम्यव्रतमिदं पद्मे ! लभते फलमुत्तमम् ॥
हर्षवतीञ्च तां वीक्ष्य प्रोवाच कमलालया ।
पुष्पञ्च देहि मे धूपं दीपं नैवेद्यडल्लकम् ॥
मया तव प्रसादेन क्रियते व्रतमुत्तमम् ।
ततस्तासां फलैः पुष्पैर्नैवेद्यैश्च व्रतं कृतम् ॥
ततस्तासां प्रसादेन वल्लभाहं जनार्द्दन ! ।
त्वयि देव जगन्नाथ ! नरनारीगणेन च ॥
भक्त्या मया ते कथितं मर्त्यलोके प्रकाशितम् ।
या करोति व्रतं ह्येतत् यथाविधिविधानतः ॥
इह लोके सुखं भुक्त्वा नारायणपुरं व्रजेत् ।
श्रुत्वा व्रतस्य माहात्म्यं व्रतमेतत् चरन्ति याः ॥
न किञ्चिद्दुष्कृतं लोके तासां सत्यं वदाम्यहम् ।
हरन्ति तासां पापानि याश्च शृण्वन्त्यहर्निशम् ॥
नारायणं नमस्कृत्य प्रपूज्य च विसर्ज्जयेत् ॥”
इति भविष्यपुराणोक्ता षट्पञ्चमीव्रतकथा
समाप्ता ॥

पञ्चमुखः, पुं, (पञ्चं विस्तृतं मुखं यस्य सः ।) सिंहः ।

इति राजनिर्घण्टः ॥ (पञ्च मुखानि यस्य सः ।)
शिवः । इति हेमचन्द्रः ॥ तस्य नामवर्णादि
यथा, देवीपुराणे ।
“शिवस्तत्र स्थितः साक्षात् सर्व्वपापहरः शुभः ।
स तु पञ्चमुखः ख्यातो लोके सर्व्वार्थसाधकः ।
पञ्चब्रह्मात्मको यस्मात्तेन पञ्चमुखः स्मृतः ॥
पश्चिमे तु मुखे सद्यो वामदेवस्तथोत्तरे ।
पूर्ब्बे तत्पुरुषं विद्यादघोरञ्चापि दक्षिणे ॥
ईशानः पञ्चमो मध्ये सर्व्वेषामुपरि स्थितः ।
एते पञ्च मुखा वत्स ! पापघ्ना ग्रहनाशनाः ॥
सद्योजातं भवेच्छुक्लं वामदेवन्तु पीतकम् ।
रक्तस्तत्पुरुषो ज्ञेयोऽघोरः कृष्णः स एव च ॥
ईशानः पश्चिमस्तेषां सर्व्ववर्णसमन्वितः ।
कामदः कामरूपी स्यात् ज्ञानाधारः शिवात्मकः ॥
(रुद्राक्षविशेषः । अस्य धारणतः शुभं भवति ॥
पञ्च मुखानि यस्य इति विग्रहे वाच्यलिङ्गत्वम् ।
यथा, रामायणे । ५ । ४१ । २३ ।
“तस्य पञ्चायसांस्तीक्ष्णान् शितान् पञ्चमुखान् ततः ।
शिरस्युत्पलपत्राभान् दुर्धर्षः संन्यवेशयत् ॥”)

पञ्चमुखी, स्त्री, (पञ्चमुखानीव सन्त्यस्याः ।) वासकः ।

इति राजनिर्घण्टः ॥ जवापुष्पविशेषश्च ॥ (पञ्चं
विस्तृतं मुखमस्याः । सिंहस्त्री ॥ सृष्टिकाले पञ्च-
महाभूतान्येव पञ्चमुखानीव यस्याः शक्ते-
रित्यर्थः । शिवपत्नी । इति शब्दाम्बुधिः ॥)

पञ्चमुद्रा, स्त्री, (पञ्चविधा मुद्रा ।) पूजायां कर्त्तव्या

पञ्चप्रकारमुद्रा । तस्या अनुष्ठानं यथा, --
“सम्यक् प्रपूरितः पुष्पैः कराभ्यां कल्पितोऽञ्जलिः ।
आवाहनी समाख्याता मुद्रा देशिकसत्तमैः ॥ १ ॥
अधोमुखी त्वियञ्चेत् स्यात् स्थापनी मुद्रिका
भवेत् । २ ।
उच्छ्रिताङ्गुष्ठमुष्ट्यो स्तु संयोगात् सन्निधापनी ॥ ३ ॥
अन्तःप्रवेशिताङ्गुष्ठा सैव सम्बोधनी मता । ४ ।
उत्तानमुष्टियुगला संमुखी करणी मता ॥” ५ ॥
इति पूजाप्रदीपः ॥

पञ्चमूत्रं, क्ली, (पञ्चविधं मूत्रम् ।) गवाजामेषी-

महिषीगर्द्दभीमूत्रम् । इति राजनिर्घण्टः ॥

पञ्चमूलं, क्ली, (पञ्चप्रकारं पञ्चगुणितं वा मूलम् ।)

स्वनामख्यातपाचनम् । तत् त्रिविधं वृहत् स्वल्पं
तृणाख्यञ्च । आद्यं यथा, --
“विल्वश्योणाकगाम्भारीपाटला गणिकारिका ।
कफवातहरं श्रेष्ठं पञ्चमूलमिदं महत् ॥”
द्वितीयं यथा, --
“शालपर्णी पृश्निपर्णी बृहतीद्वयगोक्षुरम् ।
वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम् ॥”
तृतीयं यथा, --
“कुशः काशः शरो दर्भ इक्षुश्चेति तृणोद्भवः ।”
इति चक्रपाणिदत्तः ॥
अपि च ।
“विल्वाग्निमन्थश्योणाककाश्मर्य्यः पाटला तथा ।
ज्ञेयं बृहत् पञ्चमूलं पञ्चमूलमिति स्मृतम् ॥
शरेक्षदर्भ काशानां नलस्य मूलमेव च ।
सौश्रुतञ्चारकञ्चैव तृणाख्यं पञ्चमूलकम् ॥”
इति शब्दचन्द्रिका ॥
(पञ्चानां मूलानां समाहारः । इति विग्रहे
मूलपञ्चकम् ॥)

पञ्चमूली, स्त्री, (पञ्चानां मूलानां समाहारः ।

“द्विगोः ।” ४ । १ । २१ । इति ङीप् ।) स्वल्प-
पञ्चमूलपाचनम् । यथा, --
“शालपर्णी पृश्निपर्णी बृहती कण्टकारिका ।
तथा गोक्षुरकञ्चैव पञ्चमूली कनीयसी ॥”
इति शब्दचन्द्रिका ॥

पञ्चयज्ञाः, पुं, (पञ्चविधा यज्ञाः ।) गृहस्थकर्त्तव्य-

पञ्चप्रकारयज्ञविशेषाः । यथा, --
“ब्रह्मयज्ञो नृयज्ञश्च दैवयज्ञश्च सत्तम ! ।
पितृयज्ञो भूतयज्ञः पञ्चयज्ञाः प्रकीर्त्तिताः ॥”
इति पाद्मे क्रियायोगसारे १६ अध्यायः ॥
शूद्रमधिकृत्य, --
“नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत् ।”
इति तिथ्यादितत्त्वम् ॥
अस्य विवरणं पञ्चमहायज्ञशब्दे द्रष्टव्यम् ॥

पञ्चरक्षकः, पुं, (पञ्चगुणितानि रक्षका इव कण्ट-

कानि यस्मिन् ।) पक्तपौडवृक्षः । इति राज-
निर्घण्टः ॥

पञ्चरत्नं, क्ली, पञ्चानां रत्नानां समाहारः । (यद्बा

पञ्चविधं पञ्चगुणितं वा रत्नम् ।) तद्यथा,
कनकम् १ हीरकम् २ नीलमणिः ३ पद्मरागः ४
मुक्ता ५ । यथा, --
“कनकं हीरकं नीलं पद्मरागञ्च मौक्तिकम् ।
पञ्चरत्नमिदं प्रोक्तमृषिभिः पूर्ब्बदर्शिभिः ॥
रत्नानाञ्चाप्यभावे तु स्वर्णं कर्षार्द्धमेव वा ।
सुवर्णस्याप्यभावे तु आज्यं ज्ञेयं विचक्षणैः ॥”
इति हेमाद्रिः ॥
कनकरजतप्रवालमौक्तिकराजपट्टात्मकमिति
गौडाः ॥

पञ्चरसा, स्त्री, (पञ्चः विस्तीर्णो रसोऽस्याम् ।)

आमलकी । इति हारावली शब्दमाला च ॥

पञ्चरात्रं, क्ली, (पञ्चविधानि रात्राणि ज्ञानानि

यत्र । समासे अच् ।) ग्रन्थविशेषः ।
यथा, --
“रात्रञ्च ज्ञानवचनं ज्ञानं पञ्चविधं स्मृतम् ।
तेनेदं पञ्चरात्रञ्च प्रवदन्ति मनीषिणः ॥
प्रथमं सात्विकं ज्ञानं द्वितीयन्तु तदेव च ।
नैर्गुण्यञ्च तृतीयञ्च ज्ञानञ्च सर्व्वतः परम् ॥
चतुर्थञ्च राजसिकं भक्तस्त न्नाभिवाञ्छति ।
पञ्चमं तामसं ज्ञानं विद्वांस्तन्नाभिवाञ्छति ॥
ज्ञानं पञ्चविधं प्रोक्तं पञ्चरात्रं विदुर्बधाः ॥”
तत् सप्तविधं यथा, --
“पञ्चरात्रं सप्तविधं ज्ञानिनां ज्ञानदं परम् ।
ब्राह्मं शैवञ्च कौमारं वाशिष्ठं कापिलं परम् ॥
गौतमीयं नारदीयमिदं सप्तविधं स्मृतम् ॥”
इति नारदपञ्चरात्रे प्रथमरात्रम् ॥
अपि च ।
“पञ्चकं पञ्चरात्राणां कृष्णमाहात्म्यपूर्ब्बकम् ।
वाशिष्ठं नारदीयञ्च कापिलं गौतमीयकम् ।
परं सनतकुमारीयं पञ्चरात्रञ्च पञ्चकम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३२ अध्यायः ॥
एतदतिरिक्तानिहयशीर्षपृथुध्रुवादिपञ्चरात्राणि-
सन्ति ॥ (पञ्चानां रात्रीणां समाहारः ।) पञ्च
निशाः । यथाह चक्रपाणिदत्तः ।
“त्रिरात्रं पञ्चरात्रं वा दशरात्रमथापि वा ।
लङ्घनं सन्निपातेषु कुर्य्यादाराग्यदर्शनात् ॥”

पञ्चलक्षणं, क्ली, (सर्गादि पञ्चविधानि लक्षणानि

यत्र ।) पुराणम् । यथा, --
“सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितञ्चैव पुराणं पञ्चलक्षणम् ॥”
इत्यमरभरतौ ॥
(पञ्चानां लक्षणानां समाहारः । इति विग्रहे
पश्चलक्षणानि ॥)

पञ्चलवणं, क्ली, पञ्चानां लवणानां समाहारः ।

(पञ्चगुणितं लवणमिति केचित् ।) तद्यथा, --
काचम् । सैन्धवम् । सामुद्रम् । विडम् ।
सौवर्च्चलम् । इति राजनिर्घण्टः ॥

पञ्चलाङ्गलकं, क्ली, (मुक्तादिविभूषितदशवृष-

पृष्ठ ३/०१४
युक्तानि सारदारुनिर्म्मितानि पञ्च लाङ्गलकानि
यस्मिन् ।) महादानभेदः । यथा, --
“अथातः संप्रवक्ष्यामि महादानमनुत्तम् ।
पञ्चलाङ्गलकं नाम महापातकनाशनमम् ॥
पुण्यां तिथिं समासाद्य युगादिग्रहणादिकम् ।
भूमिदानं ततो दद्यात् पञ्चलाङ्गलकान्वितम् ॥
कर्व्वटं खेटकञ्चापि ग्रामं वा शस्यशालिनम् ।
निवर्त्तनशतं वापि तदर्द्ध्वं वापि शक्तितः ॥
सारदारुमयान् कृत्वा हलान् पञ्च विचक्षणः ।
सर्व्वोपकरणैर्युक्तानन्यान् पञ्च च काञ्चनान् ॥
वृषलक्षणसंयुक्तान् दशैव तु धुरन्धरान् ।
सुवर्णशृङ्गाभरणान् मुक्तालाङ्गूलभूषितान् ॥
रौप्यपादाग्रतिलकान्रक्तकौशेयभूषणान् ।
स्रग्दामचन्दनयुतान् शालायामधिवासयेत् ॥
पर्ज्जन्यादित्यरुद्रेभ्यः पायसं निर्व्वपेत् चरुम् ।
एकस्मिन्नेव कुण्डे तु गुरुर्यस्मिन्निवेदयेत् ॥
पालाशाः समिधस्तद्वदाज्यं कृष्णतिलांस्तथा ।
तुलापुरुषवत् कुर्य्यात् लोकेशावाहनं बुधः ॥
ततो मङ्गलशब्देन युक्तमाल्याम्बरो बुधः ।
आहूय द्विजदाम्पत्यं हेमसूत्राङ्गरीयकैः ॥
कौशेयवस्त्रकटकैर्मणिभिश्चापि पूजयेत् ।
शय्यां सोपस्करां तद्बद्धेनुमेकां पयस्विनीम् ॥
तथाष्टादश धान्यानि समन्तादधिवासयेत् ।
ततः प्रदक्षिणं कृत्वा गृहीतकुसुमाञ्जलिः ॥
इममुच्चारयेन्मन्त्रमथ सर्व्वं निवेदयेत् ।
यस्माद्देवगणाः सर्व्वे स्थावराणि चराणि च ॥
धुरन्धराङ्गे तिष्ठन्ति तस्माद्भक्तिः शिवेऽस्तु मे ।
यस्माच्च भूमिदानस्य कलां नार्हन्ति षोडशीम् ॥
दानान्यन्यानि मे भक्तिर्धर्म्म एव दृढा भवेत् ।
दण्डन सप्तहस्तेन त्रिंशद्दण्डान्निवर्त्तनम् ॥
त्रिभागहीनं गोचर्म्ममानमाह प्रजापतिः ।
मानेनानेन यो दद्यात् निवर्त्तनशतं बुधः ॥
विधिनानेन तस्याशु क्षीयते पापसंहतिः ।
तदर्द्धमथवा दद्यादपि गोचर्म्ममात्रकम् ।
भवनस्थानमात्रं वा सोऽपि पापैः प्रमुच्यते ॥
यावन्ति लाङ्गलकमार्गमुखानि भूमे-
स्तासां पतिर्दुहितुरङ्गजरोमकाणि ।
तावन्ति शङ्करपुरे वर्षाणि तिष्ठे-
द्भूमिप्रदानमथ यः कुरुते मनुष्यः ॥
गन्धर्व्वकिन्नरसुरासुरसिद्धसंघै-
राधूतचामरमुपेत्य महाद्बमानम् ।
सम्पूज्यते पितृपितामहबन्धुयुक्तः
शम्भोः पुरं व्रजति चामरनायकः सन् ॥
इन्द्रत्वमप्यधिगतं क्षयमभ्युपैति
गोभूमिलाङ्गलधुरन्धरसंप्रदानात् ।
तस्मादघौघपटलक्षयकारिभूमे-
र्द्दानं विधेयमिति भूतिभवाभवाय ॥”
इति मात्स्ये २५७ अध्यायः ॥

पञ्चलोहं, क्ली, (पञ्चं विस्तीर्णं लोहम् ।) सौराष्ट्रक-

लोहम् । इति हेमचन्द्रः ॥ (पञ्चगुणितं लोहम् ।
सुवर्णरजतताम्रसीसकरङ्गाणि ॥)

पञ्चलोहकं, क्ली, पञ्चानां लोहकानां धातूनां समा-

हारः । तद्यथा । सुवर्णरजतताम्ररङ्गनागानि ।
इति राजनिर्घण्टः ॥

पञ्चवक्त्रः, पुं, (पञ्च वक्त्राणि यस्य ।) शिवः । (“विश्वाद्यं

विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥”
इति शिवध्यानम् ॥)
अस्य मन्त्रा यथा, --
“समस्तानां स्वराणान्तु दीर्घाः शेषाः सबिन्दुकाः ।
ॠनॄकशून्याः सार्द्धचन्द्रा उपान्ते नाभिसंहिताः ॥
एभिः पञ्चाक्षरैर्म्मन्त्रं पञ्चवक्त्रस्य कीर्त्तितम् ।
क्रमात् सम्मदसन्दोहमादगौरवसंज्ञकाः ॥
प्रासादन्तु भवेत् शेषं पञ्चमन्त्राः प्रकीर्त्तिताः ।
एकैकेन तथैवैकं वक्त्रं मन्त्रेण पूजयेत् ॥
एकं समुदितं कृत्वा पञ्चभिर्व्वा प्रपूजयेत् ।
प्रासादेनाथवा पञ्चवक्त्रं देवं प्रपूजयेत् ॥
सम्मदादिषु मन्त्रेषु प्रासादन्तु प्रशस्यते ।
शम्भोः प्रसादनेनैव यस्मादवृत्तस्तु मन्त्रकः ॥
तेन प्रासादसंज्ञोऽयं कथ्यते मुनिपुङ्गवैः ।
तस्मात् सर्व्वेषु मन्त्रेषु प्रासादः प्रीतिदः प्रभोः ॥
आमोदकारकः शम्भोर्म्मन्त्रः सम्मद उच्यते ।
मनःप्रपूरणश्चापि सन्दोहः परिकीर्त्तितः ॥
आकर्षको भवेन्मादो गुरुत्वाद्गौरवाह्वयः ।
एतद्व्यस्तं समस्तञ्च मन्त्रं शम्भोः प्रकीर्त्तितम् ॥
पञ्चाक्षरञ्च यन्मन्त्रं पञ्चवक्त्रस्य कीर्त्तितम् ।
स्वयन्तेनैव मन्त्रेण आराधयतमीश्वरम् ॥ * ॥
ध्यानञ्च शृणु वक्ष्यामि सम्यग्वेतालभरवौ ।
पञ्चवक्त्रं महाकायं जटाजूटविभूषितम् ॥
चारुचन्द्रकलायुक्तं मूर्द्ध्नि व्यालौघसंगतम् ।
बाहुभिर्द्दशभिर्युक्तं व्याघ्रचर्म्मास्वराम्बरम् ॥
कालकूटधरं कण्ठे नागहारोपशाभितम् ।
कोटीरबन्धनं बाहुभूषणञ्च भुजङ्गमाः ॥
विभूतिं सर्व्वगात्रेषु ज्योत्स्नार्पितस्वरोचिषम् ।
भूतिसंलिप्तसर्व्वाङ्गमेकैकत्र त्रिभिस्त्रिभिः ॥
नेत्रैस्तु पञ्चदशभिर्ज्योतिष्मद्भिर्विभूषितम् ।
वृषभोपरि संस्थन्तु गजकृत्तिपरिच्छदम् ॥
सद्योजातं वामदेवमघोरञ्च ततः परम् ।
तत्पुरुषं यथेशानं पञ्चवक्त्रं प्रकीर्त्तितम् ॥
सद्योजातं भवेद्बक्त्रं शुद्धस्फटिकसन्निभम् ।
पीतवर्णं तथा सौम्यं वामदेवं मनोहरम् ॥
नीलवर्णमघोरन्तु दंष्ट्राभीतिविवर्द्धनम् ।
रक्तं तत्पुरुषं देवं दिव्यमूर्त्तिं मनोहरम् ॥
श्यामलञ्च तथेशानं सर्व्वदैव शिवात्मकम् ।
चिन्तयेत् पश्चिमे त्वाद्यं द्वितीयञ्च तथोत्तरे ॥
अघोरं दक्षिणे देवं पूर्ब्बे तत्पुरुषन्तथा ।
ईशानं मध्यतो ध्येयं चिन्तयेद्भक्तितत्परः ॥
शक्तित्रिशूलखट्वाङ्गवरदाभयदं शिवम् ।
दक्षिणेष्वथ हस्तेषु वामेष्वपि ततः शृणु ॥
अक्षसूत्रं बीजपूरं भुजगं डमरूत्पलम् ।
अष्टैश्वर्य्यसमायुक्तं ध्यायेत्तु हृद्गतं शिवम् ॥”
इति कालिकापुराणे ५० अध्यायः ॥ * ॥
पञ्चमुखरुद्राक्षः । यथा स्कान्द्रे, --
“पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः ।
अगम्यागमनाच्चैव अभक्ष्यस्य च भक्षणात् ।
मुच्यते सर्ब्बपापेभ्यः पञ्चवक्त्रस्य धारणात् ॥”
इति तिथितत्त्वम् ॥
(पञ्चं विस्तृतं वक्त्रं वदनं यस्य । इति विग्रहे ।
सिंहः ॥)

पञ्चवटः, पुं, (पञ्चो विस्तीर्णो वटः ।) उरस्कटः ।

तत्पर्य्यायः । जोटिङ्गः २ महाव्रती ३ बाल-
यज्ञोपवीतकम् ४ । इति त्रिकाण्डशेषः ॥ (पञ्च-
संख्यका वटा अश्बत्थविल्ववटधात्त्र्य शोक-
रूपा वृक्षा यस्मिन् । पञ्चवटीवनम् । यथा
रामायणे । १ । ३ । १३ ।
“समागमं विराधेन वासं पञ्चवटे तथा ॥”)

पञ्चवटी, स्त्री, (पञ्चानां वटानां समाहारः ।

तद्धितार्थेति तत्पुरुषः संख्यापूर्ब्बोद्बिगुरुरिति
द्विगुसंज्ञायां “द्विगोः” । ४ । १ । २१ । इति ङीष् ।
द्विगुरेकवचनमिति एकवचनम् ।) पञ्चप्रकार-
वृक्षविशेषः । यथा, --
“अश्वत्थविल्ववृक्षञ्च वटधात्रीअशोककम् ।
वटीपञ्चकमित्युक्तं स्थापयेत् पश्चदिक्षु च ॥
अश्वत्थं स्थापयेत् प्राचि विल्वमुत्तरभागतः ।
वटं पश्चिमभागे तु धात्रीं दक्षिणतस्तथा ॥
अशोकं वह्निदिक्स्थाप्यं तपस्यार्थं सुरेश्वरि ।
मध्ये वेदीं चतुर्हस्तां सुन्दरीं सुमनोहराम् ॥
प्रतिष्ठां कारयेत्तस्याः पञ्चवर्षोत्तरं शिवे ! ।
अनन्तफलदात्री सा तपस्याफलदायिनी ॥ * ॥
इयं पञ्चवती प्रोक्ता बृहत्पञ्चवटीं शृणु ।
विल्ववृक्षं मध्यभागे चतुर्द्दिक्षु चतुष्टयम् ॥
वटवृक्षं चतुष्कोणे वेदसंख्यं प्ररोपयेत् ।
अशोकं वत्तुलाकारं पञ्चविंशतिसम्मितम् ॥
दिग्विदिक्ष्वामलकीञ्चैव एकैकं परमेश्वरि ।
अश्वत्थञ्च चतुर्द्दिक्षु बृहत्पञ्चवटी भवेत् ॥
यः करोति महेशानि ! साक्षादिन्द्रसमी भवेत् ।
इह लोके मन्त्रसिद्धिः परे च परमा गतिः ॥”
इति हेमाद्रीयव्रतखण्डधृतस्कन्दपुराणवचनानि ॥
(स्वनामख्यातः प्रदेशविशेषः । यथा, रामायणे ।
१ । १ । ४५ ।
“देशः पञ्चवटीनाम तत्र वासं स कल्पयत् ॥”)

पञ्चवल्कलं, क्ली, (पञ्चानां वल्कलानां समा-

हारः ।) वल्कलपञ्चकम् । यथा, --
“न्यग्रोधोडुम्बराश्वत्थप्लक्षवेतसवल्कलैः ।
सर्व्वैरेकत्र संयुक्तैः पञ्चवल्कलमुच्यते ॥”
अपि च ।
“न्यग्रोधोडुम्बराश्वत्थप्लक्षपिप्पलपीतनाः ।
क्षीरिवृक्षाश्च पञ्चैषां वल्कलं पञ्चवल्कलम् ॥”
इति शब्दचन्द्रिका ॥
अस्य गुणाः ।
“पञ्चैते क्षीरिणो वृक्षास्तेषां त्वक् पञ्चलक्षणम् ।
त्वक्पञ्चकं हिमं ग्राहि व्रणशोथविसर्पजित् ॥”
इति राजनिर्घण्टः ॥

पञ्चवाणः, पुं, (पञ्च वाणाः शरा यस्य सः ।)

कामदेवः । इति हेमचन्द्रः ॥ पञ्चानां वाणानां
समाहारे क्ली । (कामस्य पञ्च वाणा यथा, --
“द्रवणं शोषणं वाणं तापनं मोहनाभिधम् ।
पृष्ठ ३/०१५
उन्मादनञ्च कामस्य वाणाः पञ्च प्रकीर्त्तिताः ॥”
पञ्चपुष्पवाणा यथा, --
“अरविन्दमशोकञ्च चूतञ्च नवमल्लिका ।
नीलोत्पलञ्च पञ्चैते पञ्चवाणस्य सायकाः ॥”)
पञ्चवाणविशिष्टे त्रि ॥

पञ्चशरः, पुं, (पञ्च शरा यस्य सः ।) कन्दर्पः ।

इत्यमरः । १ । १ । २६ ॥ अस्य पञ्च शराणि
यथा, ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३२ अध्याये ।
“सम्मोहनं समुद्वेगबीजं स्तम्भनकारणम् ।
उन्मत्तबीजं ज्वलनं शश्वच्चेतनहारकम् ॥”
अपि च ।
“सम्मोहनोन्मादनौ च शोषणस्तापनस्तथा ।
स्तम्भनश्चेति कामस्य पञ्च वाणाः प्रकीर्त्तिताः ॥”
पञ्च इन्द्रियार्थाः शरा अस्येत्यन्ये । इति भरतः ॥
(यथा, कुमारे । ७ । ९२ ।
“शापावसाने प्रतिपन्नमूर्त्ते-
र्ययाचिरे पञ्चशरस्य सेवाम् ॥”)

पञ्चशस्यं, क्ली, (पञ्चानां शस्यानां समाहारः ।)

शस्यपञ्चकम् । तत्तु धान्यमुद्गतिलयवश्वेतसर्षप-
रूपम् । सर्षपस्थाने माषोऽपि । इति दुर्गोत्-
सवपद्धतिः ॥

पञ्चशाखः, पुं, (पञ्च शाखा इवाङ्गुलयो यस्य ।)

हस्तः । इत्यमरः । २ । ६ । ८१ ॥ पञ्चानां
शाखानां समाहारे क्ली । पञ्चशाखाविशिष्टेत्रि ॥

पञ्चशिखः, पुं, (पञ्चा विस्तीर्णा शिखा केश-

रादिर्यस्य ।) सिंहः । इति हेमचन्द्रः ॥
धर्म्मस्य हिंसाभार्य्यायां जातो मुनिविशेषः ।
यथा, --
“धर्म्मस्य भार्य्या हिंसाख्या तस्यां पुत्त्रचतुष्टयम् ।
सम्प्राप्तं मुनिशार्द्दूल ! योगशास्त्रविचारकम् ॥
ज्येष्ठः सनत्कुमारोऽभूद्द्विर्तीयश्च सनातनः ।
तृतीयः सनको नाम चतुर्थश्च सनन्दनः ॥
सांख्यवेत्तारमपरं कपिलं वोढुमासुरिम् ।
दृष्ट्वा पञ्चशिखं श्रेष्ठं योगयुक्तं तपोनिधिम् ॥
ज्ञानयोगं न ते दद्युर्ज्यायांसोऽपि कनीयसाम् ॥”
इति वामने ५० अध्यायः ॥
(अस्य अन्यप्रकारोत्पत्तिर्नामनिरुक्तिश्च उक्ता
महाभारते । १२ । २१८ । ६ -- १९ ।
“तत्र पञ्चशिखो नाम कापिलेयो महामुनिः ।
परिधावन् महीं कृत्स्नां जगाम मिथिलामथ ॥
सर्व्वसन्न्यासधर्म्माणां तत्त्वज्ञानविनिश्चये ।
सुपर्य्यवसितार्थश्च निर्द्वन्द्वो नष्टसंशयः ॥
ऋषीणामाहुरेकं यं कामादवसितं नृषु ।
शाश्वतं सुखमत्यन्तमन्विच्छन्तं सुदुर्ल्लभम् ॥
यमाहुः कपिलं सांख्याः परमर्षि प्रजापतिम् ।
स मन्ये तेन रूपेण विस्मापयति हि स्वयम् ॥
आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम् ।
पञ्चस्रोतसि यः रात्रमास्ते वर्षसहस्रिकम् ॥
यत्र चासीनमागम्य कापिलं मण्डलं महत् ।
पुरुषावस्थमव्यक्तं परमार्थं न्यवेदयत् ॥
इष्टसत्रेण संपृष्ठो भूयश्च तपसासुरिः ।
क्षेत्रक्षेत्रज्ञयोर्व्व्यक्तिं बुबधे देवदर्शनः ॥
यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते ।
आसुरिर्म्मण्डले तस्मिन् प्रतिपेदे तदव्ययम् ॥
तस्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः ॥
ब्राह्मणी कपिला नाम काचिदासीत् कुटुम्बिनी ।
तस्याः पुत्त्रत्वमागम्य स्त्रियाः स पिबति स्तनौ ॥
ततः स कापिलेयत्वं लेभे बुद्धिञ्च नैष्ठिकीम् ।
एतत्ते भगवानाह कापिलेयस्य सम्भवम् ॥
तस्य तत् कापिलेयत्वं सर्व्ववित्त्वमनुत्तमम् ॥
सामान्यं जनकं ज्ञात्वा धर्म्मज्ञो ज्ञानमुत्तमम् ।
उपेत्य शतमाचार्य्यान्मोहयामास हेतुभिः ॥
जनकस्त्वभिसंरक्तः कापिलेयानुदर्शनात् ।
उत्सृज्य शतमाचार्य्यान् पृष्ठतोऽनुजगाम तम् ॥
पञ्चस्रोतसि निष्णातः पञ्चरात्रविशारदः ।
पञ्चज्ञः पञ्चकृत् पञ्चगुणः पञ्चशिखः स्मृतः ॥”
गायत्रीस्वरूपायां शक्त्यां स्त्री । यथा, देवी-
भागवते । १२ । ६ । १०५ ।
“पानप्रिया पञ्चशिखा पन्नगोपरिशायिनी ॥”)

पञ्चशूरणः, पुं, (पञ्च शूरणा यत्र ।) पञ्चप्रकार-

शूरणः । तद्यथा । अत्यम्लपर्णी काण्डीरः
मालाकन्दः शूरणः श्बेतशूरणश्च । तथाहि ।
“अत्यम्लपर्णीकाण्डीरमालाकन्दद्बिशूरणैः ।
कॢप्तो भवति योगोऽयं पञ्चशूरणसंज्ञकः ॥”
इति राजनिर्घण्टः ॥

पञ्चशैरीषकं, क्ली, (शिरीषवृक्षस्य इदम् शैरी-

षकम् । पञ्चसंख्यकं शैरीषकम् ।) शिरीष-
वृक्षस्य कुसुममूलफलपत्रत्वचः । इति राज-
निर्घण्टः ॥

पञ्चषाः, त्रि, पञ्च वा षड्वा परिमाणं येषां ते ।

बहुवचनान्तोऽयं शब्दः । इति मुग्धबोध-
व्याकरणम् ॥

पञ्चसिद्धौषधिः, पुं, (पञ्च सिद्धा औषधयो यस्मिन् ।)

पञ्चप्रकारौषधिविशेषः । यथा, --
“तैलकन्दसुधाकन्दक्रोडकन्दरुदन्तिकाः ।
सर्पनेत्रयुताः पञ्चसिद्धौषधिकसंज्ञकः ॥”
इति राजनिर्घण्टः ॥

पञ्चसुगन्धकं, क्ली, (पञ्च सुगन्धा यत्र । ततः कप् ।)

पञ्चप्रकारमुगन्धिद्रव्यम् । यथा, --
“कुसुमानि लवङ्गस्य तथा कक्कोलकाण्डयोः ।
जातीफलानि कर्पूरमेतत् पञ्चसुगन्धकम् ॥”
इति शब्दचन्द्रिका ॥
अपि च ।
“कर्पूरकक्कोललवङ्गपुष्प-
गुवाकजातीफलपञ्चकेन ।
समांशभागेन च योजितेन
मनोहरं पञ्चसुगन्धकं स्यात् ॥”
इति राजनिर्घण्टः ॥

पञ्चसूना, स्त्री, (पञ्चगुणिता सूना प्राणिवध-

स्थानम् ।) पञ्चप्रकारप्राणिवधस्थानम् । यथा, --
“पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः ।
कण्डनी चोदकुम्भश्च बध्यते याश्च वाहयन् ॥”
इति शुद्धितत्त्वम् ॥
तज्जन्यपापं गृहस्थस्य प्रतिदिनं भवति तस्य
प्रायश्चित्तं वैश्यदेवः । यथा, --
“लौकिके वैदिके वापि हुतोच्छिष्टे जले क्षितौ ।
वैश्वदेवन्तु कुर्व्वीत पञ्चसूनापनुत्तये ॥”
इति आह्निकतत्त्वधृतशातातपवचनम् ॥
अशौचकालोत्पन्नपञ्चसूनादिजन्यपापस्य दाना-
दिनाश्यत्वं यथा, --
“दशाहात्तुपरं सम्यक् विप्रोऽधीयीत धर्म्मवित् ।
दानञ्च विधिना देयमशुभात्तारकं हि तत् ॥”
इति शुद्धितत्त्वधृतसम्बर्त्तवचनम् ॥

पञ्चस्वरा, स्त्री, (पञ्च स्वरा यत्र ।) प्रजापति-

दासवैद्यकृतशिशुरिष्टमातृरिष्टपितृरिष्टस्त्रीपुंन- ।
पुंसकज्ञानसुखदुःखरिष्टच्छेदादियोगमृत्युज्ञान-
निर्णय इति सप्ताध्यायात्मकज्योतिर्ग्रन्थविशेषः
यथा । तत्रैव ।
“पञ्चस्वराभिधानञ्च ग्रन्थं निदानसम्मतम् ।
किञ्चिदुद्देशगम्यञ्च स्वल्यं वक्ष्यामि शाश्वतम् ॥”

पञ्चस्वरोदयः, पुं, (पञ्चानां स्वराणामुदयो यत्र ।)

ज्योतिःशास्त्रविशेषः । यथा, --
“कालं वक्ष्यामि संसिद्ध्यौ रुद्र पञ्चस्वरोदयात् ।
राजा माजा उदासा च पीडा मृत्युस्तथैव च ॥
आ इ ऊ ऐ औ स्वराश्च लिखेत् पञ्चाग्निकोष्ठके ।
ऊर्द्धतिर्य्यग्गतैरेखैः षड्वह्निक्रममागतैः ॥
तिथी एकाग्निकोष्ठेषु त्रयो राजाथ माजया ।
उदासा पीडा मृत्युश्च कुजः सोमसुतः क्रमात् ॥
गुरुशुक्रशनैश्चररविचन्द्रा यथोदितम् ।
रेवत्यादिशिवान्ताश्च ॠक्षाश्च प्रथमाः कलाः ॥
पञ्चपञ्चान्यत्र भानि चैत्राद्य उदयस्तथा ।
द्वादशाहा द्वयो मासा नाम्न आद्यक्षरं तथा ॥
कला लिङ्गञ्च या तिष्ठेत् पञ्चमस्तस्य वैमृतिः ।
लका तिथिस्तथा वारनक्षत्रं मासमेव च ॥
नामोदयस्य पूर्ब्बञ्च तथा भवति नान्यथा ॥”
इति गरुडपुराणम् ॥

पञ्चाग्नि, क्ली, पञ्चानामग्नीनां समाहारः । अस्य

विंवरणं पञ्चातपाशब्दे द्रष्टव्यम् ॥ शरीरस्थ-
पञ्चाग्नयो यथा, --
“उदरे गार्हपत्याग्निर्मध्यदेशे तु दक्षिणः ।
आस्य आहवनोऽग्निश्च सत्यः पर्व्वा च मूर्द्धनि ।
यः पञ्चाग्नीनिमान् वेद आहिताग्निः स उच्यते ॥”
इति गरुडपुराणम् ॥
(पञ्चाग्नयो गृहे यस्य । इति विग्रहे वाच्य-
लिङ्गत्वम् । यथा मनुः । ३ । १८५ ।
“त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णषडङ्गवित् ॥”)

पञ्चाङ्गं, क्ली, पञ्चानां अङ्गानां एकवृक्षस्य त्वक्-

पत्रपुष्पमूलफलानां समाहारः । यथा, --
“त्वक्पत्रकुसुमं मूलं फलमेकस्य शाखिनः ।
एकत्र मिलितञ्चैतत् पञ्चाङ्गमिति संज्ञितम् ॥”
इति राजनिर्घण्टः ॥
पुरश्चरणविशेषः । यथा, --
“जपहोमौ तर्पणञ्चाभिषेको विप्रभाजनम् ।
पञ्चाङ्गोपासनं लोके पुरश्चरणमिष्यते ॥”
इति तन्त्रसारः ॥
वारतिथिनक्षत्रयोगकरणात्मकपञ्जिका । यथा, --
पृष्ठ ३/०१६
“तिथिर्वारश्च नक्षत्रं योगः करणमेव च ।
पञ्चाङ्गस्य फलं श्रुत्वा गङ्गास्नानफलं लभेत्” ॥
इति ज्योतिषम् ॥

पञ्चाङ्गः, पुं, (पञ्चाङ्गाणि यस्य ।) कमठः । इति

शब्दमाला ॥ अश्वविशेषः । तत्पर्य्यायः । पञ्च-
भद्रः २ पुष्पिततुरङ्गमः ३ । इति शब्दरत्नावली ॥
प्रणामविशेषः । यथा, --
“बाहुभ्याञ्चैव जानुभ्यां शिरसा वचसा दृशा ।
पञ्चाङ्गोऽयंप्रणामः स्यात् पूजासु प्रवराविमौ ॥”
इति तन्त्रसारः ॥
(राजनयः । यदुक्तम् ।
“सहायाः साधनोपाया विभागो देशकालयोः ।
विनिपातप्रतीकारः सिद्धिः पञ्चाङ्ग इष्यते ॥”)

पञ्चाङ्गगुप्तः, पुं, (पञ्चसंख्यकानि अङ्गानि गुप्तानि

यस्य ।) कच्छपः । इति त्रिकाण्डशेषः ॥

पञ्चाङ्गुलः, पुं, (पञ्च अङ्गुलय इव पत्राणि यस्य ।)

एरण्डवृक्षः । इत्यमरः । २ । ४ । ५१ । पञ्चा-
ङ्गुलपरिमाणयुक्ते त्रि ॥

पञ्चाङ्गुलिः, त्रि, पञ्चाङ्गुलयो यस्य सः । इति

व्याकरणम् ॥

पञ्चाङ्गुली, स्त्री, तक्राह्वाक्षुपः । इति राज-

निर्घण्टः ॥

पञ्चातपा, स्त्री, (पञ्चभिरग्निसूर्य्यैरातप्यते इति ।

आङ् + तप् + अच् । ततः टाप् ।) तपस्या-
विशेषः । यथा, --
“चर्य्या पञ्चातपाचिन्ता शाम्भवी शाम्भवो जपः ।
यज्ञियैर्दारुभिः शुष्कैश्चतुर्द्दिक्षु चतुष्कृतम् ॥
वह्निसंस्थापनं ग्रीष्मे तीव्रांशुस्तत्र पञ्चमः ।
हस्तान्तरे चतुर्व्वह्नीन् कृत्वा वैश्वानरेष्टिना ॥
तन्मध्यस्था सूर्य्यविम्बं वीक्षन्ती बहुलांशुका ।”
इति कालिकापुराणे ४२ अध्यायः ॥

पञ्चाननः, पुं, (पञ्च आननानि यस्य ।)

शिवः । (पञ्चं विस्तृतं आननं यस्य ।) सिंहः ।
इति मेदिनी ॥ अत्युग्रः । इति शब्दरत्ना-
वली ॥ (ज्योतिषोक्तसिंहराशिः । यथाह
स्मृतिः ।
“पञ्चाननगते भानौ पक्षयोरुभयोरपि ।
चतुर्थ्यामुदितश्चन्द्रो नेक्षितव्यः कदाचन ॥”
रुद्राक्षविशेषः । तद्धारणे महच्छुभं भवति ॥)

पञ्चामराः, स्त्री, (पञ्च अमराः । संज्ञात्वात्कर्म्म-

धारयः ।) पञ्चप्रकारामरलतादि । यथा, --
“एका तु अमरा दूर्व्वा तस्या ग्रन्थिं समानयेत् ।
अन्या तु विजया देवी सिद्धिरूपा सरस्वती ॥
अन्या तु विल्वपत्रस्था शिवसन्तोषकारिणी ।
अन्या तु योगसिद्ध्यर्थे निर्गुण्डी चामरा लता ॥
अन्या तु कालतुलसी श्रीविष्णोः प्रियतोषिणी ।
एताः पञ्चामरा ज्ञेया योगसाधनकर्म्मणि ॥”
इति रुद्रयामलोत्तरखण्डे ३६ पटलः ॥

पञ्चामृतं, क्ली, (पञ्चानाममृतानां समाहारः ।

शर्करादुग्धघृतदधिमधुघटितम् । यथा, --
“दुग्धं सशर्करञ्चैव घृतं दधि तथा मधु ।
पञ्चामृतामदं प्रोक्तं विधेयं सर्व्वकर्म्मसु ॥”
गर्भवतीभ्यस्तद्दानस्य दिनं यथा, --
“रेवत्यश्विपुनर्व्वसुद्वयमरुन्म्रलानुराधामघा-
हस्तासूत्तरफल्गुनीषु भृगुजे जीवार्कवारे तथा ।
लग्नर्क्षोडुपशोभनेषु नियतं सन्त्यज्य रिक्तां तिथिं
देयं मासि च पञ्चमेषु करणे पञ्चामृतं योषि-
ताम् ॥”
इति ज्योतिस्तत्त्वम् ॥

पञ्चामृतयोगः, पुं, (पञ्चानाममृतानां गुडुच्यादीनां

योगः ।) गुडुचीगोक्षुरमुशलीमुण्डिकाशताव-
रीर्णा संयोगः । यदुक्तं राजनिर्घण्टे ।
“गुडूची गोक्षुरञ्चैव मुशली मुण्डिका तथा ।
शतावरीति पञ्चानां योगः पञ्चामृताभिधः ॥”

पञ्चाम्नायः, पुं, (पञ्चसंख्यकः आम्नायः ।) शिवस्य

पञ्चवक्त्रविनिर्गतस्तन्त्रशास्त्रविशेषः । यथा, --
“पूर्ब्बाम्नायः पूर्ब्बमुखः पश्चिमः पश्चिमामुखः ।
दक्षिणो दक्षिणस्तद्वदुत्तरश्चोत्तरः परः ॥
निरुत्तरं तथा चोर्द्ध्वं सिद्धान्तागमरूपिणम् ।
ऊर्द्ध्वाम्नायपरिज्ञानं नाल्पस्य तपसः फलम् ॥”
अन्यत्र ।
“पूर्ब्बाम्नायः शब्दरूपो दक्षिणः कर्णरूपकः ।
पश्चिमः प्रश्नरूपः स्यादुत्तरश्चोत्तरस्तथा ॥
ऊर्द्ध्वाम्नायस्तत्त्वबोधः केवलानुभवात्मकः ॥”
इत्यादि । इति भैरवतन्त्रम् ॥
मम पञ्चमुखेभ्यश्च पञ्चाम्नायाः समुद्गता ।”
इति कुलार्णवतन्त्रम् ॥ * ॥
“विभाव्य मुखपद्मं हि शिवस्य वरवर्णिनि ।
सद्योजातं वामदेवमघोरस्य ततः परम् ॥
तत्पुरुषं तथेशानं पञ्चवक्त्रं प्रकीर्त्तितम् ॥
सद्योजातस्य वै शुक्लं शुद्धस्फटिकसन्निभम् ।
पीतवर्णं तथा सौम्यं वामदेवं मनोहरम् ॥
कृष्णवर्णमघोरस्य समं भीमविवर्द्धनम् ।
रक्तं तत्पुरुषं देवि ! दिव्यमूर्त्ति मनोहरम् ॥
श्यामलस्य तथेशानं सर्व्वदेवशिवात्मकम् ।
चिन्तयेत् पश्चिमे चाद्यं द्वितीयस्य तथोत्तरे ॥
अघोरं दक्षिणे देवं पूर्ब्बे तत्पुरुषं तथा ।
ईशानं मध्यतो ज्ञेयं चिन्तयेद्भक्तितत्परः ॥”
इति निर्व्वाणतन्त्रे ६ पटलः ॥ * ॥
अन्यत् षडाम्नायशब्दे द्रष्टव्यम् ॥

पञ्चाम्रं, क्ली, (अमन्ति रसानि प्राप्नुवन्तीति । अम-

गत्यादिषु + “अमितम्योर्दीर्धश्च ।” उणां २ । १६ ।
इति रक् दीर्घश्चोपधायाः इति आम्रा वृक्षाः ।
पञ्चानां आम्राणामश्वत्थादिवृक्षाणां समाहारः ।)
वृक्षविशेषाणां समाहारः । यथा, --
“अश्वत्थमेकं पिचुमर्द्दमेकं
न्यग्रोधमेकं दश पुष्पजातीः ।
द्वे द्वे तथा दाडिममातुलङ्गे
पञ्चाम्रवापी नरकं न याति ॥”
इति वराहपुराम् ॥
अपि च ।
“अश्वत्थ एकः पिचुमर्द्द एको
द्वौ चम्पकौ त्रीणि च केशराणि ।
स्रप्ताथ ताला नव नारिकेलाः
पञ्चाम्ररोपी नरकं न याति ॥”
इति तिथितत्त्वम् ॥

पञ्चाम्लं, क्ली, (पञ्चानामम्लानां कोलादीनां समा-

हारः ।) अम्लपञ्चकम् । यथा, --
“कोलदाडिमवृक्षाम्लैरम्लवेतससंयुतैः ।
चतुरम्लञ्च पञ्चाम्लं मातुलङ्गसमन्वितम् ॥”
इति शब्दचन्द्रिका ॥

पञ्चारी, स्त्री, (पञ्चपञ्चसंख्यामृच्छतीति । ऋ गतौ

“कर्म्मण्यण्” । ३ । २ । १ । इति अण् । गौरादि-
त्वात् ङीष् ।) शारिशृङ्खला । इति शब्दमाला ॥
(पाषार छक् इति भाषा ॥)

पञ्चार्च्चिः, [स्] पुं, (पञ्च अर्चिंषि यस्य सः ।) बुध-

ग्रहः । इति त्रिकाण्डशेषः ॥

पञ्चालः, पुं (पचिविस्तारवचने + “तमिविशिविड्यि-

मृणिकुलीति ।” उणां १ । ११७ । इति कालन् ।)
देशविशेषः । इत्युणादिकोषः ॥ तस्य व्युत्पत्ति-
र्यथा । “हर्य्यश्वान्मुद्गलसृञ्जयबृहदिषुयवीनर-
काम्पिल्वसंज्ञाः । पञ्चानामेतेषां विषयाणां रक्ष-
णायालमेते मत्पुत्त्रा इति पित्राभिहिता इति
पञ्चालाः ।” इति विष्णुपुराणे ४ अंशे १९
अध्यायः ॥ (अस्य स्थितिनिर्णय उक्तस्तन्त्रशास्त्रे
यथा, --
“कुरुक्षेत्रात् पश्चिमेषु तथाचोत्तरभागतः ।
इन्द्रप्रस्थान्महेशानि ! दशयोजनकद्वये ।
पञ्चालदेशो देवेशि ! सौन्दर्य्यगर्व्वभूषितः ॥”)

पञ्चालाः, पुं, (पञ्चालाः क्षत्त्रियास्तेषां निवासो-

जनपदः । निवासेऽणो जनपदे लुप् ।) नीवृद-
विशेषः । बहुवचनान्तोऽयम् । इति मेदिनी ॥

पञ्चालिका, स्त्री, (पञ्चभिर्वर्णैरलति इति । आ +

अल् भूषणे + अच् । टाप् स्वार्थे कन् इत्वञ्च ।)
पुत्तली । इत्यमरटीकायां भरतः ॥

पञ्चाली, स्त्री, (पञ्चभिर्वर्णैरलति । आ + अल् भूषणे

+ अच् । गौरादित्वात् ङीष् ।) वस्त्रादिकृत-
पुत्त्रिका । कानिर पुतुल इति भाषा ॥ गीत-
विशेषः । इति मेदिनी ॥ पाँचाली इति भाषा ॥
(पञ्चारी रस्य लत्वे सिद्धम् ।) शारिशृङ्खला ।
इति त्रिकाण्डशेषः ॥ छक् इति भाषा ॥

पञ्चावटं, क्ली, (पञ्च विस्तृतमुरःस्थलं आवटति

वेष्टते इति । आ + वट् + अच् ।) उरस्कटम् ।
बालोपवीतम् । इति हारावली ॥ (पञ्चानां
वटानां वटादिवृक्षाणां समाहारः । निपा-
तनात् साधुः । पञ्चवटी । यथा, गोः रामा-
यणे । ३ । २० । ३८ ।
“विवेश पञ्चावटमुग्रसेवितम्
रिपून् दिधक्षुः शलभानिवाज्यभुक् ॥”)

पञ्चावस्थः, पुं, (पञ्चसु भूतेषु अवस्था यस्य । तस्य

देहारम्भकस्वस्वकारणेषु लयत्वात्तथात्वम् ॥
शवः । इति त्रिकाण्डशेषः ॥ पञ्चावस्थायुक्ते त्रि ॥

पञ्चाशत्, त्रि, (पञ्चदशतः परिमाणमस्य ।)

“पङ्क्तिविंशतित्रिंशदिति ।” ५ । १ । ५९ । निपा ।
तनात् साधुः ।) संख्याविशेषः । इति ज्योतिषम् ॥
पञ्चाश इति भाषा ॥ (यथा, स्तुतिपञ्चाशति । ५१ ।
पृष्ठ ३/०१७
“पञ्चाशल्लिपिभिः पुरा भगवति ! स्तव्या यदङ्गी-
कृतं तत्राहं सफलोऽघुनापि विमतिस्तत्पादपद्म-
स्मृतेः ॥”)

पञ्चास्यः, पुं, (पञ्चं विस्तृतं आस्यं यस्य ।) सिंहः ।

इत्यमरः । २ । ५ । १० ॥ (पञ्चानि आस्यानि
यस्य । शिवः ॥ पञ्चमुखविशिष्टे, त्रि । यथा,
गोः रामायणे । ५ । ७४ । २३ ।
“लक्षितेयं विशालाक्षी मया शोकपरायणा ।
आदायेतां न जानीषे पञ्चास्यामिव भोगि-
नीम् ॥”)

पञ्चीकरणं, क्ली, पञ्चभूतानां भागविशेषेण मिश्री-

करणम् । यथा । “पञ्चीकरणन्तु आकाशादि-
पञ्चस्वेकैकं द्विधा समं विभज्य तेषु दशसु
भागेषु मध्ये प्राथमिकान् पञ्चभागान् प्रत्येकं
चतुर्द्धा समं विभज्य तेषां चतुर्णां भागानां
स्वस्वद्वितीयार्द्धभागं परित्यज्य भागान्तरेषु
संयोजनम् । तदुक्तम् ।
द्विधा विधाय चैकैकं चतुर्द्धा प्रथमं पुनः ।
स्वस्वेतरद्वितीयांशैर्योजनात् पञ्च पञ्च ते ॥ इति ॥
अस्याप्रामाण्यं नाशङ्कनीयं त्रिवृत्करणश्रुतेः
पञ्चीकरणस्याप्युपलक्षणार्थत्वात् । पञ्चानां पञ्चा-
त्मकत्वे समानेऽपि तेषु च वैशिष्ट्यात्तु तद्बादस्त-
द्वाद इति न्यायेन आकाशादिव्यपदेशः सम्भवति ।
तदानीमाकाशे शब्दोऽभिव्यज्यते । वायौ शब्द-
स्पर्शौ । अग्नौ शब्दस्पर्शरूपाणि । अप्सु शब्द-
स्पर्शरूपरसाः । पृथिव्यां शब्दस्पर्शरूपरस-
गन्धाश्च । एतेभ्यः पञ्चीकृतेभ्यो भूतेभ्यः
भूर्भुवः स्वर्म्महर्जनस्तपः सत्यमित्येतन्नामकानामु-
पर्य्युपरि विद्यमानानां अतलवितलसुतलरसा-
तलतलातलमहातलपातालनामकानां अधोऽधो
विद्यमानानां लोकानां ब्रह्माण्डस्य तदन्तर्गत-
चतुर्व्विधस्थूलशरीराणामन्नपानादीनाञ्चोत्पत्ति-
र्भवति ॥” इति वेदान्तसारः । ३९-४२ ॥

पञ्चेन्द्रियं, क्ली, पञ्चानां ज्ञानेन्द्रियाणां समाहारः ।

यथा । “श्रोत्रत्वङ्नेत्ररसनघ्राणं पञ्चेन्द्रियाणि
च ।” इति शब्दचन्द्रिका ॥ पञ्चकर्म्मेन्द्रियञ्च ॥

पञ्चेषुः, पुं, (पञ्च इषवो यस्य ।) कामदेवः । इति

हलायुधः ॥

पञ्चोपविषं, क्ली, (पञ्चसंख्यकं उपविषम् ।) उप-

विषपञ्चकम् । यथा, राजनिर्घण्टे ।
“स्नुह्यर्ककरवीराणि लाङ्गली विषमुष्टिका ।
एतान्युपविषाण्याहुः पञ्च पाण्डित्यशालिनः ॥”

पञ्चोष्माणः, पुं, (पञ्च उष्माणः ।) आहारपाचक-

शरीरस्थपञ्चाग्नयः । यथा, सारकौमुद्याम ।
“भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः ।
पञ्चाहारगुणान्स्वान्स्वान् पार्थिवादीन् पचन्त्यनु ।
पार्थिवाः पार्थिवानेव शेषाः शेषांशदेहगान् ॥”

पञ्जरं, क्ली, (पञ्ज्यते रुध्यते उदरयन्त्रमनेन । पजि-

रोधे + अरन् ।) कायास्थिवृन्दम् । शरीरास्थि-
पञ्जरम् । (यथा, पञ्चदशी । ६ । १७३ ।
“देहादिपञ्जरं यन्त्रं तदारोहोऽभिमानिता ।
विहितप्रतिषिद्धेषु प्रवृत्तिर्भ्रमणं भवेत् ॥”
पञ्ज्यते रुध्यते पक्ष्यादिरत्र ।) पक्ष्यादिबन्धगृहम् ।
इत्यमरभरतौ । पिँज्रा इति भाषा । तत्-
पर्य्यायः । शालारम् २ । इति जटाधरः ॥ (यथा,
हेः रामायणे । २ । ६५ । ५ ।
“तेन शब्देन विहगाः प्रतिबुद्धाश्च सस्वनुः ।
शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥”)

पञ्जरः, पुं, (पञ्ज्यते रुध्यते आत्मा यस्मिन् । पजि-

रोधे + अरन् ।) शरीरम् । इति त्रिकाण्ड-
शेषः ॥ (यथा, हठयोगदीपिकायाम् । ४ । १८ ।
“द्वासप्ततिसहस्राणि नाडीद्बाराणि पञ्जरे ।
सुषुम्ना शाम्भवी शक्तिः शेषास्त्वेव निरर्थकाः ॥”
“पञ्जरे पञ्जरवच्छिरास्थिभिर्बद्धे शरीरे ।” इति
तट्टीका ॥) देहास्थिसमूहः । तत्पर्य्यायः ।
कङ्कालः २ देहबन्धास्थि ३ । इति जटाधरः ॥
कलियुगम् । गवां नीराजनाविधिः । इति सार-
स्वताभिधानम् ॥

पञ्जराखेटः, पुं, (पञ्जरेणेव यन्त्रेण आखेटो मृगया

यस्मात् ।) मत्स्यमारणोपाययन्त्रम् । पोलो
इति भाषा । तत्पर्य्यायः । प्लवः २ पलवः ३ ।
इति त्रिकाण्डशेषः ॥

पञ्जलः, पुं, (पञ्ज + अलच् ।) कोलकन्दः । इति राजनिर्घण्टः ॥

पञ्जिः, स्त्री, (पञ्ज + इन् ।) सूत्रनालिका । इति

शब्दमाला । पाँइज इति भाषा । पञ्जिका च ॥

पञ्जिका, स्त्री, (पञ्जि + स्वार्थे कन् टाप् ।) तूलना-

लिका । इति हारावली ॥ पाँइज इति भाषा ॥
टीकाविशेषः । यथाह हेमचन्द्रः ।
“टीका निरन्तरव्याख्या पञ्जिका पदभञ्जिका ॥”
अग्रसन्धानी । इति त्रिकाण्डशेषः ॥ पञ्चाङ्गम् ।
पाँजि इति भाषा । तत्श्रवणफलं यथा, --
“वारो हरति दुःस्वप्नं नक्षत्रं पापनाशनम् ।
तिथिर्भवति गङ्गाया योगः सागरसङ्गमः ।
करणं सर्व्वतीर्थानि श्रूयते दिनपञ्जिका ॥”
इति दैवज्ञाः ॥
अपि च ज्योतिस्तत्त्वे वराहवचनम् ।
“दुःस्वप्ननाशको वारो नक्षत्रं पापनाशनम् ।
तिथिरायुष्करी प्रोक्ता योगो बुद्धिविवर्द्धकः ॥
चन्द्रः करोति सौभाग्यमंशकः शुभदायकः ।
करणाल्लभते लक्ष्मीं यः शृणोति दिने दिने ॥”
निःशेषपदव्याख्यात्री । तिथिवारादिज्ञापिका ।
आयव्ययलिखनार्था च । इत्यमरटीकायां भरतः ॥

पञ्जिकारकः, पुं, (पञ्जिं करोतीति । कृ + ण्वुल् ।)

कायस्थजातिः । यथाह जटाधरः ।
“अथ कायस्थः करणः पञ्जिकारकः ॥”
(अस्य पञ्जिकरणकथा कायस्थशब्दे द्रष्टव्यम् ॥)
पञ्जिकाकारश्च ॥

पञ्जी, स्त्री, (पञ्जि + वा ङीप् ।) पञ्जिः । नालिका ।

इति शब्दमाला ॥ पञ्जिका । पाँजि इति
भाषा । यथोक्तं दैवज्ञैः ।
“दैवज्ञवक्त्रेण शृणोति पञ्जीं
शत्रुक्षयं याति शशीव कृष्णे ॥”
ग्रन्थविशेषः । यथाह ध्रुवानन्दमिश्रः ।
“प्रणम्य विघ्नेश्वरपादमादौ
सरस्वतीं तां कुलदेवताञ्च ।
शिशुप्रबोधाय कुलस्य पञ्जी
विविच्यते श्रीयुतमिश्रकेण ॥”

पञ्जीकरः, पुं, (पञ्जीं पञ्जिकां करोतीति । कृ +

टः ।) कायस्थः । यथा । “कायस्थे कूटकृत्-
पञ्जीकरौ ।” इति त्रिकाण्डशेषः ॥

पट, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) पटति । इति दुर्गादासः ॥

पट, क त्विषि । इति कविकल्पद्रुमः ॥ (चुरां-परं-

अकं-सेट् ।) क, पाटयति । त्विषि दीप्तौ ।
इति दुर्गादासः ॥

पट, त् कवेष्टने । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरां-परं-सकं-सेट् ।) ग्रन्थने । इत्यन्ये । पट-
यति मालां मालिकः । इति दुर्गादासः ॥

पटं, क्ली, (पटतीति । पट् + पचाद्यच् ।) छदिः ।

चालम् । इति पटलशब्दटीकायां भरतः ॥

पटः, पुं, क्ली, (पटयत्यनेन । पट वेष्टने घञर्थे कः ।)

शोभनवस्त्रम् । तत्पर्य्यायः । सुचेलकः २ ।
इत्यमरः । २ । ६ । ११६ ॥ (यथा, पञ्चदशी । ६ । २ ।
“यथा धौतो घट्टितश्च लाञ्छितो रञ्जितः पटः ।
चिदन्तर्यामिसूत्राणि विराट् चात्मा तथर्य्यते ॥”)
चित्रपटः । इति मेदिनी ॥ तस्य लक्षणं यथा, --
“पटस्य लक्षणं वक्ष्ये यथा सिध्यन्ति साधकाः ।
ग्रन्थिकेशविहीने तु अजीर्णे समतन्तुके ॥
अस्फाटिते अच्छिद्रे तु स्थलेनैव समालिखेत् ।
योगिनी रूपिणी कार्य्या जयाद्यैः परिवारिता ॥
वृद्धेन च भवेद्बृद्धो व्याधिते व्याधितो भवेत् ।
कुरूपेण कुरूपस्तु मूर्खेण तु न पूज्यते ॥
लेखकस्य तु यद्रूपं चित्रे भवति तादृशम् ॥”
इति देवीपुराणम् ॥

पटः, पुं, पियालवृक्षः । इति मेदिनी ॥ पुरस्कृतः ।

इति विश्वः ॥

पटकः, पुं, (पटेन छदनेन कायति प्रकाशते इति ।

कै + कः ।) शिविरम् । इति शब्दमाला ॥

पटकारः, पुं, (पटं शोभनवस्त्रं चित्रं वा करोति

यः । पट् + कृ + अण् ।) तन्त्रवायः । चित्रकरः ॥

पटकुटी, स्त्री, (पटस्य पटनिर्म्मिता वा कुटी ।)

वस्त्रवेश्म । ताँवु इति भाषा । ततपर्य्यायः ।
केणिका २ गुणालयनिका ३ । इति हेमचन्द्रः ॥

पटच्चरं, क्ली, (भूतपूर्ब्बं पटत् । भूतपूर्ब्बे चरट ।

यद्वा पटदित्यव्यक्तं शब्दं चरतीति । पटत् + चर
+ अच् ।) जीर्णबस्त्रम् । इत्यमरः । २ । ६ । ११५ ॥
(पट्यते आवेष्ट्यते इति । पट् + बाहुलकात्
अत् । पटदिव चरति यः । चर् + अच् ।)
चौरे पुं इत्यमरटीकायां रमानाथः ॥

पटमण्डपः, पुं, (पटानां वस्त्राणां मण्डपः ।) पट-

कुटी । इति शब्दचन्द्रिका ॥

पटमयं, क्ली, (पट + मयट् ।) वस्त्रगृहम् । यथा, --

“पटवापः पटमयं दूष्यं वस्त्रगृहं स्थलम् ॥”
इति त्रिकाण्डशेषः ॥
शाटी । यथा, शब्दरत्नावल्याम् ।
“पटवासः पटमयं शाटी शाटक इत्यपि ॥”
पृष्ठ ३/०१८

पटरकः, पुं, (पटर + स्वार्थे कन् ।) गुन्द्रवृक्षः ।

इति राजनिर्घण्टः ॥

पटलं, क्ली, (पटं विस्तृतं लाति । पट् + ला +

“आतोनुपेति” । ३ । २ । ३ । कः । यद्बा पटतीति ।
पट + “कृषादिभ्यश्चित् ।” उणां । १ । १०८ । इति
कलच् ।) छदिः । चाल इति भाषा । नेत्ररोगः ।
इत्यमरः । ३ । ३ । २०० ॥ पिटकः । परिच्छदः ।
तिलकः । (यथा, कलाविलासे । १ । २५ ।
“अस्तमिते दिवसकरे तिमिरभरद्विरदसंसक्ता ।
सिन्दूरपटलपाटलकान्तिरिवाग्रे बभौ सन्ध्या ॥”)
समूहे क्ली स्त्री । इति मेदिनी ॥ (यथा, भाग-
वते । ३ । १४ । २६ ।
“यस्यानवद्याचरितं मनीषिणो
गृणन्त्यविद्यापटलं बिभित्सवः ।
निरस्तसाम्यातिशयोऽपि यत् स्वयं
पिशाचचर्य्यामचरत् गतिः सताम् ॥”)
दृष्टेरावरकम् । चक्षुर परदा इति भाषा ।
यथाह माधवकरः ।
“प्रथमे पटले दोषो यस्य दृष्ट्या व्यवस्थितः ।
अव्यक्तानि सरूपाणि कदाचिदथ पश्यति ॥”
दृष्ट्यां चत्वारि पटलानि । रसरक्ताश्रयं वाह्यं
द्वितीयं माससंश्रयं तृतीयं मेदःसंश्रितं चतुर्थं
कालकास्थिसंश्रितम् । तथा च सुश्रुतः ।
“तेजोजलाश्रितं वाह्यं तेष्वन्यत् पिशिताश्रितम् ।
मेदस्तृतीयं पटलमाश्रितं त्वस्थि चापरम् ।
पञ्चमाशसमं दृष्टेस्तेषां बाहुल्यमिष्यते ॥”
इति । अत्र तेजःशब्देन रक्तं जलशब्देन रसो
व्याख्यातः । तेषु पटलेषु वाह्यादिभेदेनाधिष्ठान-
विशषप्रभावात् दोषाणां लिङ्गविशेषमाह प्रथमे
पटले इत्यादि । प्रथमे पटले सर्व्वाभ्यन्तरे न तु
वाह्ये । इति विजयरक्षितः ॥

पटलः, पुं, स्त्री, (पाटयति दीप्यते यः । पट् +

कलच् ।) ग्रन्थः । वृक्षः । इति शब्दरत्ना-
वली ॥ वृक्षस्थाने वृन्तोऽपि पाठः ॥

पटलप्रान्तं, क्ली, (पटलस्य छदिसः प्रान्तम् ।) गृह-

चालिकान्तभागः । छाँचि इति भाषा । तत्-
पर्य्यायः । वलीकम् २ नीव्रम् ३ । इत्यमरः । २ ।
२ । १४ ॥

पटली, स्त्री, (पटल + ङीष् ।) छदिः । इति भरत-

हेमचन्द्रौ ॥ चाल इति भाषा ॥

पटवापः, पुं, (पट उप्यते प्राचुर्य्येण दीयते यत्र । पट

+ वप् + घञ् ।) वस्त्रगृहम् । इति त्रिकाण्डशेषः ॥

पटवासः, पुं, (पटस्य पटनिर्म्मितो वा वासः गृहम् ।)

वस्त्रगृहम् । शाटी । इति शब्दरत्नावली ॥

पटवासकः, पुं, पटो वास्यतेऽनेनेति घञि पटवासः

ततः स्वार्थे कन् । पटवासचूर्णम् । तत्पर्य्यायः ।
पिष्टातः २ । पिष्टेन कुङ्कुमचूर्णादिना अततीति
पिष्टातः पचाद्यन् । इत्यमरभरतौ ॥

पटहं, क्ली, पुं, (पटेन हन्यते इति । पट + हन्

+ ड ।) पटत्शब्दं जहाति पटहः डः निपा-
तनात् तलोपः । इति भरतः ॥ आनकवाद्यम् ।
इत्यमरः । १ । ७ । ६ ॥

पटहः, पुं, (पट इत्यष्फुटं शब्दं जहाति त्यज-

तीति । पट + हा + ड ।) पाटयति गमयति
योधान् युद्धाय उत्साहवर्द्धकत्वात् पट गतौ
नाम्नीति अहः । इति भरतः ॥ युद्धे वाद्यमान-
ढक्का । तत्पर्य्यायः । आडम्बरः २ । इत्यमरः ।
२ । ८ । १०८ ॥ समारम्भः । हिंसनम् । इति
शब्दरत्नावली ॥

पटाकः, पुं, (पटति गच्छतीति । पट् + निपातनात्

आकः ।) पक्षिविशेषः । इत्युणादिकोषः ॥

पटाका, स्त्री, (पटाक + टाप् ।) पताका । इति

शब्दरत्नावली ॥

पटालुका, स्त्री, (पट इव अलतीति । पट् + बाहु-

लकात् उकः ततष्टाप् ।) जलौका । इति
त्रिकाण्डशेषः ॥

पटिः, स्त्री, (पट + इन् ।) पटभेदः । वागुलिः ।

कुम्भिकाद्रुमः । इति मेदिनी ॥

पटिका, स्त्री, (पटि + स्वार्थे कन् ततः टाप् ।) पटिः ।

वस्त्रम् । यथा, लीलावती ।
“विस्तारे त्रिकराः कराष्टकमिता दैर्घ्ये विचित्राश्चचे-
द्रूपैरुत्कटपट्टसूत्रपटिका अष्टौ लभन्ते शतम् ।
दैर्घ्ये सार्द्धकरत्रया परपटी हस्तार्द्धविस्तारिणी
तादृक्किं लभतेद्रुतं वद वणिक् वाणिज्यकंवेत्सि
चेत् ॥”

पटिष्ठः, त्रि, (अयमेषामतिशयेन पटुः । पट +

“अतिशायने तमबिष्ठनौ ।” ५ । ३ । ५५ । इति
इष्ठन् ।) अतिशयपटुः । इति व्याकरणम् ॥

पटी, स्त्री, (पट + इन् । वा ङीप् ।) वस्त्रभेदः ।

इति शब्दरत्नावली । यवनिका । इति त्रिकाण्ड-
शेषः ॥

पटीयान्, [स्] त्रि, (अयमेषामतिशयेन पटुः । पटु

+ “द्विवचनविभज्योपपदे तरबियसुनौ ।” ५ । ३ ।
५७ । इति इयसुन् ।) अतिशयपटुः । इति
व्याकरणम् ॥

पटीरं, क्ली, (पटतीति । पट गतौ । “शॄ पॄकटि-

पटिशौटिभ्य ईरन् ।” उणां । ४ । ३० । इति
ईरन् ।) तितौः । तुङ्गम् । मूलकम् । केदारः ।
वारिदः । वेणुसारः । वातिकः । चन्दनम् । इति
शब्दरत्नावली ॥ खदिरम् । उदरम् । कन्दर्पः ।
हरणीयम् । इति संक्षिप्तसारोणादिवृत्तिः ॥

पटु, क्ली, (पाटयति । पट गतौ ण्यन्तः । “फलिपा-

टीति ।” उणां । १ । १९ । इति उः पटादेशश्च ।)
छत्रा । लवणम् । इति मेदिनी ॥ पांशुलवणम् ।
इति रत्नमाला ॥

पटुः, पुं, (पाटयतीति । पट् + णिच् + “फलि-

पाटीति ।” उणां । १ । १९ । इति उः पटा-
देशश्च ।) पटोलः । इत्यमरः । २ । ४ । १५५ ॥
पटोलपत्रम् । इति विश्वः ॥ काण्डीरलता ।
कारवेल्लः । चोरकः । इति राजनिर्घण्टः ॥

पटुः, त्रि, (पाटयतीति । पट गतौ । ण्यन्तः ।

“फलिपाटीति ।” उणां । १ । १९ । इति उः पटा-
देशश्च ।) दक्षः । (यथा, रघुः । ९ । ४६ ।
“अनुभवन् नवदोलमृतूत्सवं
पटुरपि प्रियकण्ठजिघृक्षया ।
अनयदासनरज्जुपरिग्रहे
भुजलतां जडतामबलाजनः ॥”)
नीरोगः । चतुरः । इति मेदिनी ॥ (मधुरः ।
यथा, रघुः । ९ । ७३ ।
“कुम्भपूरणभवः पटुरुच्चै-
रुच्चचार निनदोऽम्भसि तस्याः ॥”)
तीक्ष्णः । स्फुटः । इति हेमचन्द्रः ॥ निष्ठुरः ।
इति जटाधरः ॥ धूर्त्तः । इति त्रिकाण्डशेषः ॥

पटुकः, पुं, (पटु + स्वार्थे कन् ।) पटोलः । इति

शब्दरत्नावली ॥

पटुकल्पः, त्रि, ईषदूनः पटुः । (पटु + कल्पप् ।)

इति व्याकरणम् ॥

पटुजातीयः, त्रि, पटुप्रकारः । (पटु + जातीयर् ।)

इति व्याकरणम् ॥

पटुतृणकं, क्ली, (पटु लवणं तत्प्रचुरं तृणम् । ततः

कन् ।) लवणतृणम् । इति राजनिर्घण्टः ॥

पटुपत्रिका, स्त्री, (पटु पत्रमस्याः कप् । टापि अत

इत्वम् ।) क्षुद्रचञ्चुक्षुपः । इति राजनिर्घण्टः ॥

पटुपर्णिका, स्त्री, (पटु पर्णमस्याः । कप् टाप

अत इत्वञ्च ।) क्षीरिणीवृक्षः । इति राज-
निघण्टः ॥

पटुपर्णी, स्त्री, (पटुपर्ण + “पाककर्णपर्णपुष्प-

फलेति ।” ४ । १ । ६४ । इति ङीष् ।) स्वर्णक्षीरी ।
इत्यमरः । २ । ४ । १३८ ॥

पटरूपः, त्रि, (प्रशस्तः पटुः । पटु + रूपप् ।) अति-

शयपटुः । इति व्याकरणम् ॥

पटोटजं, क्ली, (पटस्य छदिसः उटे तृणादौ जायते

यत् । “सप्तम्यां जनेर्डः ।” ३ । २ । ९७ । इति डः ।)
छत्राकः । इति शब्दरत्नावली ॥

पटोलं, क्ली, (पट गतौ + “कपिगडिगण्डीति ।”

उणां । १ । ६७ । इति ओलच् ।) वस्त्रभेदः । इति
मेदिनी ॥ तत्तु गुज्जरदेशीयविचित्रपट्टवस्त्रम् ॥

पटोलः, पुं, (पटति बहुगुणान् प्राप्नोतीति । पट-

गतौ + “कपिगडिगण्डीति ।” उणां १ । ६७ ।
इति ओलच् ।) स्वनामप्रसिद्धलतिकाफलम् ।
पलवल् इति हिन्दी भाषा ॥ (यथा, पञ्चतन्त्रे
१ । ४०९ ।
“साम्नैव यत्र सिद्धिर्न तत्र दण्डो बुधेन विनियोज्यः ।
पित्तं यदि शर्करया शाम्यति कोऽथः पटोलेन ॥”)
तत्पर्य्यायः । कुलकम् २ तिक्तकः ३ पटुः ४ ।
इत्यमरः । २ । ४ । १५५ ॥ कर्कशदलः ५ कुलजः ६
वाजिमान् ७ लताफलः ८ राजफलः ९ वर-
तिक्तः १० अमृताफलः ११ । इति रत्नमाला ॥
कटुफलः १२ कटुकः १३ कर्कशच्छदः १४ राज-
नामा १५ अमृतफलः १६ पाण्डुः १७ पाण्डु-
फलः १८ बीजगर्भः १९ नागफलः २० कुष्ठारिः
२१ कासमर्द्दनः २२ पञ्जरः २३ आजीफलः २४
ज्योत्स्नी २५ कच्छुघ्नी २६ । अस्य गुणाः ।
कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । सारकत्वम् ।
पित्तवलाशकफकण्डूतिकुष्ठासृग्ज्वरदाहार्त्ति-
नाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
पृष्ठ ३/०१९
पाचनत्वम् । हृद्यत्वम् । वृष्यत्वम् । लघुत्वम् ।
अग्निदीपनत्वम् । स्निग्धत्वम् । कासदोषत्रय-
क्रिमिनाशित्वञ्च । तस्य मूलादिगुणाः ।
“पटोलस्य भवेन्मूलं विरेचनकरं सुखात् ।
नालं श्लेष्महरं पत्रं पित्तहारि फलं पुनः ॥
दोषत्रयहरं प्रोक्तं तद्वत्तिक्ता पटोलिका ॥”
इति भावप्रकाशः ॥
अपि च राजवल्लभः ।
“पटोलं कफपित्तासृग्ज्वरकुष्ठव्रणापहम् ।
विसर्पनयनव्याधित्रिदोषगरनाशिनौ ।
पटोलफलकञ्चेति किञ्चिद्गुणान्तरावुभौ ॥”

पटोलकः, पुं, (पटोल इव कायति प्रकाशते इति

कै + कः ।) शुक्तिः । इति शब्दमाला ॥

पटोलिका, स्त्री, (पटोल + कन् + टाप् + अत

इत्वञ्च ।) फलविशेषः । झिङ्गा इति भाषा ।
पोरलि इति ख्याता । इति केचित् । इति
भरतः ॥ तत्पर्य्यायः । ज्योत्स्नी २ जाली ३ ।
इत्यमरः । २ । ४ । ११८ ॥ ज्योत्स्ना ४ । इति
स्वामी ॥

पटोली, स्त्री, (पटोल + जातित्वात् ङीष् ।)

ज्योत्स्नी । इति मेदिनी ॥ (झिङ्गा इति
भाषा ॥ यथा, गारुडे १९८ अध्याये ।
“पटोलीमुस्तकाभ्याञ्च वासकेन च नाशयेत् ॥”)

पट्टं, क्ली, (पट् गतौ + क्तः । नैट् ।) नगरम् ।

इति शब्दरत्नावली ॥

पट्टः, पुं, (पट् + क्तः । नेट् ।) पेषणपाषाणः ।

शिल् इति भाषा ॥ (यथा, रघुः । १८ । १७ ।
“तस्याभवत् सूनुरुदारशीलः
शिलः शिलापट्टविशालवक्षाः ॥”)
व्रणादीनां बन्धनम् । पटी इति भाषा ॥ चतु-
ष्पथः । चौमाता रास्ता इति भाषा ॥ राजादि-
शासनान्तरम् । पाट्टा इति भाषा ॥ (यथा,
मार्कण्डेये । ३६ । ८ ।
“तदास्मात् पुत्त्र ! निष्कृष्य मद्दत्तादङ्गुलीयकात् ।
वाच्यन्ते शासनं पट्टे सूक्ष्माक्षरनिवेशितम् ॥”)
पीठः । इति मेदिनी ॥ पिडि इति भाषा ॥
फलकः । इति त्रिकाण्डशेषः ॥ ढाल इति
भाषा ॥ उष्णीषादिः । इति स्वामी ॥ पाग्
इत्यादि भाषा ॥ उत्तरीयादिः । इति सुभूतिः ॥
एक पाट्टा इति भाषा ॥ (यथा, भट्टिः । १० । ६० ।
“गलितमिव भुवो विलोक्य रामं
धरणिधरस्तनशुक्लपट्टचीनम् ॥”)
कौषेयः । इति मुकुटः ॥ पाट् रेशम् इति
च भाषा । लोहितकौषेयमुष्णीषादि । इति
भरतः ॥ राङ्गा रेशमी पाग् इत्यादि भाषा ॥
(नृपादीनां किरीटविशेषस्वरूपपट्टलक्षणं बृहत्-
संहितायां ४९ अध्याये उक्तम् । तद्यथा, --
“विस्तरशो निर्द्दिष्टं पट्टानां लक्षणं यदाचार्य्यैः ।
तत् संक्षेपः क्रियते मयात्र सकलार्थसम्पन्नः ॥
पट्टः शुभदो राज्ञां मध्येऽष्टावङ्गुलानि विस्तीर्णः ।
सप्तनरेन्द्रमहिष्याः षड्युवराजस्य निर्द्दिष्टः ॥
चतुरङ्गलविस्तारः पट्टः सेनापतेर्भवति मध्ये ।
द्वे च प्रसादपट्टः पञ्च ते कीर्त्तिताः पट्टाः ॥
सर्व्वे द्विगुणायामा मध्यादर्द्धेन पार्श्बविस्तीर्णाः ।
सर्व्वे च शुद्धकाञ्चनविनिर्म्मिताः श्रेयसो वृद्ध्यै ॥
पञ्चशिखो भूमिपतेस्त्रिशिखो युवराजपार्थिव-
महिष्योः ।
एकशिखः सैन्यपतेः प्रसादपट्टो विना शिखया ॥
क्रियमाणं यदि पत्रं सुखेन विस्तारमेति पट्टस्य ।
वृद्धिजयौ भूमिपतेस्तथा प्रजानाञ्च सुखसम्पत् ॥
जीवितराज्यविनाशं करोति मध्ये व्रणः
समुत्पन्नः ।
मध्येस्फुटितस्त्याज्यो विघ्नकरः पार्श्वयोः स्फुटितः ॥
अशुभनिमित्तोत्पत्तौ शास्त्रज्ञः शान्तिमादिशे-
द्राज्ञः ।
शस्तनिमित्तः पट्टो नृपराष्ट्रविवृद्धये भवति ॥”)

पट्टकः, पुं, पट्ट एव इत्यर्थे स्वार्थे कन् । पट्टः ॥

पट्टजं, क्ली, (पट्टात् कौषेयात् जायते इति ।

पट्ट + जन् + ड ।) वस्त्रभेदः । पट्टवस्त्रम् । इति
जटाधरः ॥ (यथा, महाभारते । २ । ५० । २३ ।
“और्ण्णञ्च राङ्कवञ्चैव पट्टजं कीटजन्तथा ।
कुटीकृतं तथैवान्यत् कमलाभं सहस्रशः ॥”)

पट्टदेवी, स्त्री, (पट्टा सिंहासनार्हा देवी ।) महादेवी ।

इति राजनिर्घण्टः ॥ पाटराणी इति भाषा ॥

पट्टनं, क्ली, (पटन्ति गच्छन्ति वणिजो यत्र । पट गतौ

+ बाहुलकात् तनन् ।) पत्तनम् । इति द्विरूप-
कोषः ॥

पट्टनी, स्त्री, (पट्टन + गौरादित्वात् ङीष् ।) पत्त-

नम् । इति द्बिरूपकोषः ॥

पट्टरङ्गं, क्ली, (पट्टं वस्त्रं रज्यतेऽनेन । पट्ट + रञ्ज

+ घञ् ।) पत्तरङ्गम् । इति राजनिर्घण्टः ॥
वकम् इति भाषा ॥

पट्टरञ्जनकं, क्ली, (पट्टानां वस्त्राणां रञ्जनम् ।

ततः कन् ।) पत्तरङ्गम् । इति राजनिर्घण्टः ॥

पट्टशाकं, क्ली पुं, (पट्टस्य पट्टवृक्षस्य शाकम् ।)

नालिताशाकम् । इति शब्दमाला भावप्रकाशश्च ॥
अस्य गुणाः नाडीचशब्दे द्रष्टव्याः ॥

पट्टार्हा, स्त्री, (पट्टे नृपासने अर्हा योग्या ।)

महादेवी । इति राजनिर्घण्टः ॥ पाटराणी
इति भाषा ॥

पट्टिका, स्त्री, (पट्टिरिव कायति प्रकाशते इति ।

पट्टि + कै + कः । स्त्रियां टाप् ।) पट्टिकाख्य-
लोध्रः । इत्यमरटीकायां वाचस्पतिः ॥ (क्षुद्रः
पट्टः । ह्रस्वार्थे कन् । स्त्रियां टाप् इत्वञ्च ।
वितस्तिविस्तारं वस्त्रम् । इति चिन्तामणिः ॥
पट्टः । पाटा इति भाषा । यथा, नैषधे । १९ । ६१ ।
“सर्व्वं विस्मृत्य दैवात् स्मृति-
मुषसि गतां घोषयन् यो धसंज्ञां
प्राक् संस्कारेण सम्प्रत्यपि धुवति
शिरः पट्टिकापाठनेन ॥”)

पट्टिकाख्यः, पुं, (पट्टिका आख्या यस्य ।) रक्त-

लोध्रः । पाटियालोध इति भाषा । तत्पर्य्यायः ।
क्रमुकः २ पट्टी ३ लाक्षाप्रसादनः ४ । इत्य-
मरः । २ । ४ । ४१ ॥

पट्टिकालोध्रः, पुं, (पट्टिका एव लोध्रः ।) रक्त-

लोध्रः । पाटिया लोध इति भाषा । तत्पर्य्यायः ।
क्रमुकः २ वल्कलोध्रः ३ बृहद्दलः ४ जीर्णवुध्नः ५
बृहद्वल्कः ६ शीर्णपत्रः ७ अक्षिभेषजः ८ शावरः
९ श्वेतलोध्रः १० गालवः ११ बृहत्त्वचः १२
पट्टी १३ लाक्षाप्रसादः १४ वल्कः १५ । इति
राजनिर्घण्टः ॥ स्थूलवल्कलः १६ जीर्णपत्रः १७
बृहत्पत्रः १८ । इति भावप्रकाशः ॥ लोध्रद्वय-
गुणाः । कषायत्वम् । शीतत्वम् । वातकफास्र-
विषनाशित्वम् । चक्षुष्यत्वम् । तत्र वल्कलोध्रको-
विशिष्टः । इति राजनिर्घण्टः ॥ ग्राहित्वम् ।
लघुत्वम् । पित्तरक्तपित्तातीसारशोथनाशित्वञ्च ।
इति भावप्रकाशः ॥

पट्टिलः, पुं, (पट्टो विद्यतेऽस्य । पट्ट + अस्त्यर्थे

इलच् ।) पूतिकरजः । इति जटाधरः ॥

पट्टिलोध्रः, पुं, (पट्टिरेव लोध्रः ।) पट्टिकालोध्रः ।

इति शब्दरत्नावली ॥

पट्टिलोध्रकः, पुं, (पट्टिलोध्र + स्वार्थे कन् ।) पट्टिका-

लोध्रः । इति शब्दरत्नावली ॥

पट्टिशः, पुं, (पट् गतौ + बाहुलकात् टिश(स)

च् ।) अस्त्रविशेषः । यथा, --

पट्टिसः पुं, (पट् गौतौ + बाहुलकात् टिश(स)

च् ।) अस्त्रविशेषः । यथा, --
“परशुः पट्टिसो नाम स एव च परश्वधः ॥”
इत्यमरटीकायां भरतः ॥
(यथा, भागवते । ८ । १० । ३६ ।
“भुशुण्डिभिश्चक्रगदार्ष्टिपट्टिशैः
शक्त्युल्मुकैः प्रासपरश्वधैरपि ।
निस्त्रिंशभल्लैः परिघैः समुद्गरैः
सभिन्दिपालैश्च शिरांसि चिच्छिदुः ॥”)

पट्टी, स्त्री, (पट्टि + वा ङीप् ।) पट्टिकालोध्रः । इति

राजनिर्घण्टः ॥ ललाटभूषा । इति विश्वः ॥
तलसारकम् । अश्ववक्षःस्थलबन्धनरज्जुः । इति
शब्दमाला ॥

पट्टी, [न्] पुं, (पट्टोऽस्यास्तीति । इनिः ।) रक्त-

लोध्रः । इति स्वामी ॥ इत्यमरटीकायां भरतः ॥

पट्टोलिका, स्त्री (पट्टं पट्टाख्यं उलति प्राप्नोतीति ।

उल गतौ + ण्वुल् टापि इत्वम् ।) कॢप्रकीला ।
व्यवस्थापत्रं इति केचित् । पाट्टा । इति च केचित् ।
इति त्रिकाण्डशेषः ॥

पठ, वाचि । इति कविकल्पद्रुमः । (भ्वां-परं-सकं-

सेट् ।) पठति श्लोकं धीरः । इति दुर्गादासः ॥

पठनं, क्ली, (पठ् + भावे ल्युट् ।) वाचनम् । पडन्

इति भाषा । यथा, मार्कण्डेये । ९२ । १८ ।
“भूतप्रेतपिशाचानां पठनादेव नाशनम् ॥”

पठमञ्जरी, स्त्री, श्रीरागस्य चतुर्थरागिणी । तस्या

न्यासांशगृहाः पञ्चमः । गानसमयस्तु एकप्रहर-
दिवसोत्तरम् । इति सङ्गीतदर्पणः ॥ लक्षणं यथा,
सङ्गीतदामोदरे ।
“वियोगिनी कान्तवितीर्णपुष्पां
स्रजं वहन्ती वपुषातिमुग्धा ।
आश्वास्यमाना प्रियया च सख्या
विधूसराङ्गी पठमञ्जरीयम् ॥”

पठसमञ्जरी, स्त्री, रागिणीविशेषः । इति हलायुधः ॥

पृष्ठ ३/०२०

पठिः, स्त्री, (पठ + “सर्व्वधातुभ्य इन् ।” उणां ।

४ । ११७ । इति इन् ।) पठनम् । पाठः ।
इति शब्दरत्नावली ॥

पठितः, त्रि, (पठ् + क्त ।) वाचितः । कृतपाठः ।

अधीतः । उच्चरितः । यथा, हास्यार्णवे ।
“मया न पठिता चण्डी त्वया नापि चिकित्सितम् ।
अकस्मान्नगरोपान्ते कथं धूमायते चिता ॥”

पठितव्यं, त्रि, (पठ् + “तव्यत्तव्यानीयरः ।” ३ । १ ।

९६ । इति तव्य ।) पठनीयम् । पाठ्यम् । यथा,
मार्कण्डेये देवीमाहात्म्ये । ९२ । ६ ।
“तस्मान्ममैतन्माहात्म्यं पठितव्यं समाहितैः ॥”

पड, इ क् संहतौ । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् । इदित् ।) इ क्, पण्डयति ।
संहती राशीकरणम् । इति दुर्गादासः ॥

पड, इ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् । इदित् ।) इ, पण्ड्यते । ङ,
पण्डते । इति दुर्गादासः ॥

पण, ङ व्यवहृतौ । स्तुतौ । इति कविकल्पद्रुमः ॥

(भ्वां-आत्मं-सकं-सेट् ।) व्यवहृतौ व्यवहारे ।
ङ, पणते । पणायति पणायते आयान्तत्वादुभय-
पदमिति वोपदेवः । प्राणानामपणिष्टासौ अत्र
कर्म्मणि षष्ठी । स्तुतौ तु पणायति पणायते
विष्णुं धीरः । अरे तु द्बयोरर्थयोरेव आयस्या-
प्राप्तिपक्ष आत्मनेपदमेव । अपणिष्ट पेणे
पणिता पणिषीष्ट पणिष्यते अपणिष्यत् । इति
दुर्गादासः ॥

पणः, पुं, (पण्यतेऽनेन । पण व्यवहारे + “नित्यं

पणः परिणामे ।” ३ । ३ । ६६ । इति अप् ।)
कार्षिकताम्रिकः । स तु पञ्चकृष्णलमाषकारब्ध-
ताम्रकर्षकृतव्यवहारद्रव्यम् । पूर्ब्बं हि ताम्र-
रक्तिकायाः कपर्द्दक एको मूल्यमिति अशीति-
वराटमूल्यः । लोके तूपचारात् कार्षापणवत्
पणव्यपदेशो मूल्य एव । निर्व्वेशः । भृतिः ।
(पणो ग्लहोऽस्त्यस्मिन् । पण + “अर्श आदिभ्यो
ऽच् ।” ५ । २ । १२७ । इत्यच् ।) द्यूतम् ।
म्लहः । आड् इति होड् इति वाजि इति च
भाषा । (यथा, आर्य्यासप्तशती । ३५४ ।
“प्रतिभूः शुको विपक्षे दण्डः शृङ्गारसंकथागुरुषु ।
पुरुषायितं पीणस्तद्बाले परिभाव्यतां दायः ॥”
पण्यते व्यवह्रियते इति । “पुंसि संज्ञायां घः
प्रायेण ।” ३ । ३ । ११८ । इति घः ।) मूल्यम् ।
धनम् । इत्यमरभरतौ ॥ कार्षापणः । (यथा,
मनुः । ८ । २२४ ।
“यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति ।
तस्य कुर्य्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् ॥”)
क्रय्यशाकाट्टिका । व्यवहारः । इति मेदिनी ॥
विंशतिगण्डकः । इति हेमचन्द्रः ॥ शौण्डिकः ।
इति जटाधरः ॥ गृहम् । इति शब्दमाला ॥
(पणते अधिकारिभेदेन सुखभोगादिकं व्यव-
हरति साधकस्य मुकृत्यनुसारेण वैकुण्ठवासादि-
फलं प्रददातीत्थर्थः । पचाद्यच् । यद्वा, पण्यते
स्त्रूयते यः । पण स्तुतौ “पुंसीति संज्ञायां घः
प्रायेण ।” ३ । ३ । ११८ । इति घः । विष्णुः ।
यथा, महाभारते । १३ । १४९ । ११५ ।
“ऊर्ड्घगः सत्पथाचारः प्राणदः प्रणवः पणः ॥”)

पणग्रन्थिः, पुं, (पणस्य विक्रयादेर्ग्रन्थिर्यत्र ।) हट्टः ।

इति शब्दरत्नावली ॥

पणनं, क्ली, (पण व्यवहारे + भावे ल्युट् ।) विक्रयः ।

इति शब्दरत्नावली ॥

पणफरं, क्ली, लग्नात् द्बितीयपञ्चमाष्टमैकादश-

लग्नाः । यथा, ज्योतिस्तत्त्वे ।
“पणफरं द्वितीयाष्टपञ्चमैकादशं विदुः ॥”

पणवः, पुं, (पणं स्तुतिं वातीति । पण + वा + कः ।)

गायनपटहः । (यथा, गीतायाम् । १ । १३ ।
“ततः शङ्खाश्च भेर्य्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥”)
प्रणव इति केचित् । इत्यमरभरतौ ॥

पणवा, स्त्री, (पणव + टाप् ।) पणवः । यथा, --

“पणवः पणवा च स्यात् प्रणवोऽप्यत्र वर्त्तते ॥”
इति भरतद्विरूपकोषः ॥

पणसः, पुं, (पणायते इति । पण + “अत्यविच-

मीति ।” उणां । ३ । ११७ । इति असच् ।)
पण्यद्रव्यम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

पणाङ्गना, स्त्री, (पणेन धनेन लभ्या अङ्गना । धनेन

वश्यत्वात् तथात्वम् ।) वेश्या । इति हेमचन्द्रः ॥

पणाया, स्त्री, (पणाय्यते व्यवह्नियते इति । पण

व्यवहारे स्तुतौ च + स्वार्थे आय + ततो भावे
अप् । ततष्टाप् ।) क्रयविक्रयव्यवहारः । इति
जटाधरः ॥ (स्तुतिः । द्यूतम् । इति धात्वर्थ-
लब्धोऽर्थः ॥)

पणायितः, त्रि, (पणाय्यते स्म इति । पण व्यव-

हारे स्तुतौ च । “आयादय आर्धधातुके वा ।”
३ । १ । ३१ । इति स्वार्थे आयस्ततः क्तः ।)
स्तुतः । इत्यमरः । ३ । २ । १०९ ॥ (व्यव-
हृतम् । क्रीतम् । विक्रीतम् । इति धात्वर्थ-
लब्धोऽर्थः ॥)

पणास्थि, क्ली, (पणस्य पणाय वा यदस्थि ।) कपर्द्द-

कम् । वराटकः । इति त्रिकाण्डशेषः ॥

पणास्थिकं, क्ली, (पणास्थि + स्वार्थे कन् ।) वरा-

टकः । इति हेमचन्द्रः ॥

पणितं, त्रि, (पण्यते स्म इति । पण + क्त । अया-

भावपक्षे सिद्धम् ।) स्तुतम् । इत्यमरः । ३ । २ । १०९ ॥
व्यवहृतम् । इति पणधात्वर्थदर्शनात् ॥ (ग्लहे,
क्ली । वाजि इति भाषा । यथा, महाभारते । १ ।
सौपर्णे । २२ । ४ ।
“ततस्ते पणितं कृत्वा भगिन्यौ द्बिजसत्तम ! ।
जग्मतुः परया प्रीत्या परं पारं महोदधेः ॥”)

पणितव्यं, त्रि, (पण्यते इति । पण ङ व्यवहारे स्तुतौ

च । “तव्यत्तव्यानीयरः ।” ३ । १ । ९६ । इति
तव्य ।) विक्रेयद्रव्यम् । इत्यमरः । २ । ९ । ८२ ॥
स्तोतव्यम् । व्यवहार्य्यम् । इति पणधात्वर्थ-
दर्शनात् ॥

पण्डः, पुं, (पण्डते निष्फलत्वं प्राप्नोतीति । पडि-

गतौ + पचाद्यच् । यद्वा पण ङ व्यवहारे । “ञम-
न्तात् डः ।” उणां । १ । ११३ । इति डः ।)
क्लीवम् । नपुंसकम् । इत्यमरः । २ । ६ । ३९ ॥
निष्फले, त्रि, ॥

पण्डा, स्त्री, (पण ङ व्यवहारे । “ञमन्तात् डः ।”

उणां । १ । ११३ । इति डः । ततष्टाप् ।)
बुद्धिः । इति मेदिनी ॥ तत्त्वानुगा बुद्धिः । इति
हेमचन्द्रः ॥

पण्डापूर्व्वं, क्ली, (पण्डं निष्फलं अपूर्व्वं अदृष्टम् ।)

फलाजनकादृष्टम् । तद्विशिष्टे त्रि । यथा,
“यदपि पण्डापूर्ब्बं फलमिति तदपि न कामना-
भावे अकरणापत्तेस्तौल्यात् ।” इति सिद्धान्त-
मुक्तावली ॥

पण्डितः, पुं, (पण्डा वेदोज्ज्वला तत्त्वविषयिणी

वा बुद्धिः । सा जाता अस्य । “तदस्य संजातं
तारकादिभ्य इतच् ।” ५ । २ । ३६ । इति इतच् ।
यद्वा, पण्ड्यते तत्त्वज्ञानं प्राप्यतेऽस्मात् । गत्यर्थेति
क्तः ।) शास्त्रज्ञः । अस्य लक्षणं यथा, --
(“निषेवते प्रशस्तानि निन्दितानि न सेवते ।
अ-नास्तिकः श्रद्दधान एतत् पण्डितलक्षणम् ॥”
इति चिन्तामणिः ॥)
“पठकाः पाठकाश्चैव ये चान्य शास्त्रचिन्तकाः ।
सर्व्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः ॥”
इति महाभारते वनपर्व्व ॥
अपि च श्रीभगवद्गीतायाम् । ५ । १७ ।
“विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥”
तत्पर्य्यायः । विद्वान् २ विपश्चित् ३ दोषज्ञः ४ सन् ५
सुधीः ६ कोविदः ७ बुधः ८ धीरः ९ मनीषी १०
ज्ञः ११ प्राज्ञः १२ संख्यावान् १३ कविः १४ घीमान्
१५ सूरिः १६ कृती १७ कृष्टिः १८ लब्धवर्णः १९
विचक्षणः २० दूरदर्शी २१ दीर्घदर्शी २२ ।
इत्यमरः । २ । ७ । ५-६ ॥ विशारदः २३ ।
कवी २४ सूरी २५ । इति भरतः ॥ विदग्धः २६
दूरदृक् २७ वेदी २८ वृद्धः २९ बुद्धः ३० विधा-
नगः ३१ प्रज्ञिलः ३२ कृस्निः ३३ । इति
शब्दरत्नावली ॥ विज्ञः ३४ मेधावी ३५ ।
इति राजनिर्घण्टः ॥ सिह्लकः । इति मेदिनी ॥
(सर्व्वज्ञत्वात् महादेवः । यथा, महाभारते ।
१३ । १७ । १२४ ।
“न्यायनिर्व्वपणः पादः पण्डितो ह्यचलोपमः ॥”)

पण्डितम्मन्यः, त्रि, (आत्मानं पण्डितम्मन्यते यः

सः । “आत्ममाने खश्च ।” ३ । २ । ८३ । इति
खश् ।) पण्डिताभिमानी । इति व्याकरणम् ॥

पण्डितमानी, [न्] त्रि, (आत्मानं पण्डितं मन्यते

इति । मन + इणिः ।) पण्डिताभिमानी । यथा
“मूर्खाः पण्डितमानिनः ।” इति प्राचीनाः ॥

पण्यं, त्रि, (पण्यते इति । पण ङ व्यवहारे स्तुतौ

च । “अवद्यपण्यवर्य्यागर्ह्येति ।” ३ । १ । १०१ ।
निपातनात् साधु ।) पणितव्यम् । विक्रेय-
द्रव्यम् । इत्यमरः । २ । ९ । ८२ । (यथा, हेः
रामायणे । २ । ४८ । ४ ।
“न चाहृष्यन् न चामोदन् वणिजो न प्रसारयन् ।
पृष्ठ ३/०२१
न चाशोभन्त पण्यानि नापचन् गृहमेधिनः ॥”)
व्यवहार्य्यम् । स्तोतव्यम् । इति पणधात्वर्थदर्श-
नात् ॥ (क्ली, पण्यते व्यवह्रियतेऽत्र । पण +
यत् । विपणिः । यथा, मनुः । ५ । १२९ ।
“नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम् ॥”
“पण्ये पण्यवीथिकायाम् ।” इति कुल्लूकभट्टः ॥)

पण्यवीथिका, स्त्री, (पण्यानां विक्रेयद्रव्याणां

वीथिका गृहम् ।) विपणिः । इत्यमरः । २ । २ । २ ॥
पण्यविक्रयशाला । इति हलायुधः ॥ हट्टः ।
इत्यन्ये ॥ विक्रयार्थप्रसारितनानाद्रव्याणां वणि-
ग्वीथी । वाणियाविही इति वाजार इति च
ख्यातः । इति केचित् । हट्टमण्डपः । इति
केचित् । हट्टमध्यस्थपण्यविक्रयवीथी । इति
केचित् । इति तट्टीकायां भरतः ॥
“आपणः पण्यवीथी च द्वयं वीथीति संज्ञितम् ॥”
इति शाश्वतः ॥

पण्यवीथी, स्त्री, (पण्यानां वीथी विक्रयगृहम् ।)

क्रयविक्रयस्थानम् । इति शब्दमाला ॥

पण्यशाला, स्त्री, (पण्यानां विक्रेयद्रव्याणां शाला

गृहम् ।) हट्टः । इति हेमचन्द्रः ॥ विक्रयगृहञ्च ॥

पण्यस्त्री, स्त्री, (पण्या मूल्येन लभ्या या स्त्री ।

यद्वा पण्ये हट्टादिस्थले स्थिता स्त्री ।) वेश्या ।
इति कोषान्तरम् ॥

पण्या, स्त्री, (पण्यते स्तूयते रोगहन्तृत्वात् ।

पण ङ व्यवहारे स्तुतौ च + कर्म्मणि यत् तत-
ष्टाप् ।) पिण्या । इति द्विरूपकोषः ॥

पण्याङ्गना, स्त्री, (पण्या पणेन मूल्येन लभ्या या

अङ्गना ।) वेश्या । इति हेमचन्द्रः ॥

पण्याजीवः, पुं, (पण्यैः क्रयविक्रयद्रव्यैराजीवति

प्राणिति । आ + जीव + कः ।) क्रयविक्रयिकः ।
वणिक् । इत्यमरः । २ । ९ । ७८ ॥

पण्याजीवकं, क्ली, (पण्यैः क्रयविक्रयद्रव्यैराजीवति-

तिष्ठतीति । पण्याजीवस्ततः स्वार्थे कन् । अभि-
घानात् क्लीवत्वम् । यद्वा, पण्याजीवैवणिग्भिः
कायति शब्दायते इति । कै + कः ।) हट्टः ।
इति त्रिकाण्डशेषः ॥ पण्यजीवकमित्यपि पाठः ॥

पण्यान्धा, स्त्री, (पण्यं अन्धयति स्वगुणेन या ।

अन्ध + अच् ।) तृणविशेषः । तत्पर्य्यायः ।
कङ्गुनीपत्रा २ पण्यधा ३ पणधा ४ । अस्या
गुणाः । समवीर्य्यत्वम् । तिक्तत्वम् । क्षारत्वम् ।
सारकत्वम् । तत्कालशस्त्रघातव्रणसंरोपणत्वञ्च ।
“दीर्घा मध्यातथा ह्रस्वा पण्यान्धा त्रिविधा स्मृता ।
रसवीर्य्यविपाकेषु मध्यमा गुणदायिका ॥”
इति राजनिर्घण्टः ॥
पण्यन्धा इत्यपि पाठः ॥

पत् [द्] पुं, (पद्यते गच्छत्यनेन । पद्यौ ङ गतौ +

पृथक्शब्दा इत्येके ।” इति मुग्धबोधे वोप-
देवेनोक्तम् ॥)

पत, ऌ ज गतौ । ऐश्ये । इति कविकल्पद्रुमः ॥

(भ्वां-परं-अकं-सेट् ।) ऌ, अपतत् । ज, पातः
पतः । गतिरिह पतनम् । पतति पत्रं वृक्षात् ।
इति दुर्गादासः ॥

पत, त् क गतौ । ऐश्ये । इति कविकल्पद्रुमः ॥

(अदन्तचुरां-परं-अकं-सेट् ।) ऐश्यमिश्वरी-
भावः । गतिरिह पतनम् । पतयति पत्रं
वृक्षात् । इति दुर्गादासः ॥

पत, य ङ ऐश्ये । इति कविकल्पद्रुमः ॥ (दिवां-

आत्मं-अकं-सेट् ।) य ङ, पत्यते । ऐश्यमैश्वर्य्य-
मिश्वरीभावः । इति दुर्गादासः ॥

पतं, त्रि, (पततीति । पत् + अच् ।) पुष्टम् ।

इति जटाधरः ॥ (पतनकर्त्तरि च, त्रि ॥)

पतगः, पुं, (पत उत्पतितः सन् गच्छति । यद्बा

पतेन पक्षेण गच्छतीति । गम् + डः ।) पक्षी ।
इत्यमरः । २ । ५ । ३३ ॥ (यथा, मनुः । ७ । २३ ।
“देवदानवगन्धर्व्वा रक्षांसि पतगोरगाः ।
तेपि भोगाय कल्पन्ते दण्डेणैव निपीडिताः ॥”)

पतङ्गं, क्ली, (पत् ऌ गत्यैश्वर्य्ययोः । बाहुलकात्

अङ्गच् ।) सुतम् । पारदम् । इति मेदिनी ॥
चन्दनभेदः । इति शब्दचन्द्रिका ॥

पतङ्गः, पुं, (पतति गच्छतीति । “पतेरङ्गच्

पक्षिणि ।” उणां । १ । ११८ । इति अङ्गच् ।)
पक्षी । (यथा, मार्कण्डेये । १० । ८६ ।
“ततः सर्व्वेषु निस्तीर्णः पापी तिर्य्यक्त्वमश्नुत ।
कृमिकीटपतङ्गेषु श्वापदे मशकादिषु ॥”)
सूर्य्यः । (यथा, माघे । १ । १२ ।
“पतत्पतङ्गप्रतिमस्तपोनिधिः
पुरोऽस्य यावन्न भुवि व्यलीयत ॥”
“कथं पतङ्गः सूर्य्यः । खगत्वसामान्योपचारात् ।
‘पतङ्गः शलभे सूर्य्ये पतङ्गः पक्षिणि स्मृतः ॥’
इति कोषान्तरम् ॥” इत्युज्ज्वलदत्तः ॥)
शलभः । इत्यमरः । ३ । ३ । २० ॥ शालि-
प्रभेदः । इति मेदिनी ॥ जलमधूकवृक्षः । इति
राजनिर्घण्टः ॥

पतङ्गमः, पुं, (पत उत्पतितः सन् गच्छतीति ।

गम् + खच् । मुम् च ।) पक्षी । इति व्याकर-
णम् ॥ (शलभः । यथा, भागवते । ७ । ८ । २४ ।
“अलक्षितोऽग्नौ पतितः पतङ्गमो
यथा नृसिंहौजसि सोऽसुरस्तदा ॥”)

पतङ्गिका, स्त्री, (पतङ्ग + स्वल्पार्थे संज्ञायां वा

कन् । स्त्रियां टाप् अत इत्वञ्च ।) मधुमक्षिका-
विशेषः । तत्पर्य्यायः । पुत्तिका २ । इत्य-
मरः । २ । ५ । २७ ॥ (यथा, महाभारते ।

पतञ्जलिः, पुं, (पतः पतन् वा अञ्जलिः नम-

स्कार्य्यतया यस्मिन् । शकन्ध्वादित्वात् साधुः ।)
मुनिविशेषः । स तु पातञ्जलदर्शनपाणिनिटीका-
महाभाष्यादिग्रन्थकर्त्ता । तत्पर्य्यायः । गोनर्द्दीयः
२ । इति हेमचन्द्रः ॥ चूर्णिकृत् ३ भाष्यकारः
४ । इति त्रिकाण्डशेषः ॥ वररुचिः ५ । इति
शब्दरत्नावली ॥ (केषाञ्चिन्मते योगसूत्रकारक-
पतञ्जलेर्भाष्यकृत् पतञ्जलिर्भिन्न एव । अनयो-
रभेदतान्तु निर्द्दिशन्ति पाश्चात्याः ॥ पातञ्जलयोग-
शास्त्रन्तु पादचतुष्टयात्मकं तत्र प्रथमे पादे
“अथ योगानुशासनम् ।” इति योगशास्त्रारम्भ-
प्रतिज्ञां विधाय “योगश्चित्तवृत्तिनिरोधः ।”
इत्यादिना योगलक्षणमुक्त्वा सप्रपञ्चसमाधि-
निर्द्देशं कृतवान् भगवान् पतञ्जलिः ॥ द्बितीये
तु “तपः स्वाध्यायेश्बरप्रणिधानानि क्रिया-
योगः ।” इत्यादिना व्युत्थितचित्तस्य क्रियायोगं
यमादीनि पञ्च वहिरङ्गाणि साधनानि च निर-
दिशत् । तृतीये “देशबन्धश्चित्तस्य धारणा ।”
इत्यादिना धारणाध्यानसमाधित्रयरूपमन्तरङ्गं
संयमपदवाच्यं तत्र अवान्तरफलं विभूतिजातञ्च
उपदिदेश । चतुर्थे पादे तु “जन्मौषधिमन्त्रतषः
समाधिजाः सिद्धयः ।” इत्यादिना ससिद्धिपञ्चकं
मुख्यं प्रयोजनं कैवल्यं प्रधानादीनि पञ्चविंशति-
तत्त्वानि क्लेशकर्म्मविपाकाशयैरसंश्लेष्टं पुरुषं
स्वेच्छया निर्म्माणकायमधिष्ठाय लौकिकादि-
सम्प्रदायप्रवर्त्तकं संसारदहने दग्धानां जीवानां
निस्तारकञ्च उपदिष्टवान् ॥)

पतत्त्रं, क्ली, (पतन्तं त्रायत्ले इति । पतत् + त्रै

+ कः ।) पक्षः । पाखा इति भाषा । इत्य-
मरः । २ । ५ । ३६ । (यथा, भागवते । ८ । ११ । ३४ ।
“येन मे पूर्ब्बमद्रीणां पक्षच्छेदः प्रजात्यये ।
कृतो निविशतां भारैः पतत्त्रैः पततां भुवि ॥”
(त्रं) पत ऌ गतौ । “अमिनक्षियजिवधिपतिभ्यो-
ऽत्रन् ।” उणां । ३ । १०५ । इति अत्रन् ।
वाहनम् । इत्युज्ज्वलदत्तः ॥)

पतत्त्री, [न्] पुं, (पतत्त्रं पक्षो विद्यतेऽस्य ।

पतत्त्र + इनिः ।) पक्षी । इत्यमरः । २ । ५ । ३३ ॥
(यथा, कुमारे । ५ । ४ ।
“पदं सहेत भ्रमरस्य पेलवं
शिरीषपुष्पं न पुनः पतत्त्रिणः ॥”)

पतत्रिः, पुं, (पतति उत्पततीति । “पतेरत्रिन् ।”

उणां । ४ । ६९ । इति अत्रिन् ।) पक्षी ।
इत्यमरः । २ । ५ । ३३ ॥

पतद्ग्रहः, पुं, (पतत् मुखादिभ्यः स्खलत् जलादि

गृह्णातीति । पतत् + ग्रह् + अच् ।) प्रति-
ग्राहः । इत्यमरः । २ । ३ । १३९ ॥ पिक्दानी
पर्व्वतानां मुखं मेरुर्गरुडः पततां मुखम् ॥”)
पतनशीले त्रि । इति मेदिनी ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/प&oldid=43993" इत्यस्माद् पुनः प्राप्तिः