शब्दकल्पद्रुमः/देश्यं

विकिस्रोतः तः
पृष्ठ २/७४९

देश्यं, क्ली, (दिश्यते इति । दिश् + कर्म्मणि ण्यत् ।)

पूर्ब्बपक्षः । इति शब्दरत्नावली ॥ देशार्हे, त्रि ॥
(देशे भवः । देश + “दिगादिभ्यो यत् ।” ४ ।
३ । ५४ । इति यत् ।) देशभवे । यथा, राज-
तरङ्गिण्याम् । ३ । ९ ।
“भोगाय देश्यभिक्षूणां वल्लभास्यामृतप्रभा ॥”)

देष्णुः, त्रि, (ददातीति । दा + -“गादाभ्यामि-

ष्णुच् ।” उणां ३ । १६ । इति इष्णुच् ।) दाता ।
दुर्द्दमः । इति हेमचन्द्रः ॥ रजकः । इति
संक्षिप्तसारे उणादिवृत्तिः ॥

देहः, पुं क्ली, (देग्धि प्रतिदिनम् । दिह् वृद्धौ +

अच् ।) शरीरम् । इत्यमरः । २ । ६ । ७१ ।
न्यायमते पृथिव्या देहं योनिजम् अयोनिजञ्च ।
योनिजं जरायुजमण्डजञ्च । अयोनिजं स्वेदजो-
द्भिदादिकम् । नारकिणां शरीरमप्ययोनिजम् ।
जलीयं देहमयोनिजं वरुणलोके प्रसिद्धम् ।
तैजसं देहमयोनिजं सूर्य्यलोके प्रसिद्धम् । वायो-
र्देहमयोनिजं तदेव पिशाचादीनाम् । इति
सिद्धान्तमुक्तावली ॥ * ॥
अथ नरकभोगदेहविवरणम् । तत्र यमं प्रति
सावित्रीप्रश्नः ।
“स्वदेहे भस्मसाद्भूते यान्ति लोकान्तरं नराः ।
केन देहेन वा भोगं भुञ्जते च शुभाशुभम् ॥
सुचिरं क्लेशभोगेन कथं देहो विनश्यति ।
देहो वा किंविधो ब्रह्मन् ! तन्मे व्याख्यातुमर्हसि ॥”
यमस्योत्तरम् ।
“शृणु देहविवरणं कथयामि यथागमम् ।
पृथिवी वायुराकाशस्तेजस्तोयमिति स्फुटम् ॥
देहिनां देहबीजञ्च स्रष्टुः सृष्टिविधौ परम् ।
पृथिव्यादिपञ्चभूतैर्यो देहो निर्म्मितो भवेत् ॥
स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह ॥
वृद्धाङ्गुष्ठप्रमाणञ्च यो जीवपुरुषः कृतः ।
बिभर्त्ति सूक्ष्मदेहन्तं तद्रूपं भोगहेतवे ॥
स देहो न भवेद्भस्म ज्वलदग्नौ यमालये ।
जले न नष्ठो देही वा प्रहारे सुचिरे कृते ॥
न शस्त्रे च न चास्त्रे च न तीक्ष्णकण्टके तथा ।
तप्तद्रवे तप्तलौहे तप्तपाषाण एव च ॥
प्रतप्तप्रतिमाश्लेषेऽप्यत्यूर्द्ध्वपतनेऽपि च ।
न च दग्धो न भग्नश्च भुङ्क्त सन्तापमेव च ॥
कथितं देहवृत्तान्तकारणञ्च यथागमम् ॥”
इति ब्रह्मवैवर्त्तपुराणम् ॥
ईश्वरदेहस्य प्रमाणं यथा, --
“यन्मे गुह्यतमं देहं सर्व्वगं तत्त्वदर्शिनः ।
प्रविष्टा मम सायुज्यं लभन्ते योगिनोऽव्ययम् ॥”
इति कूर्म्मपुराणम् ॥

देहकोषः, पुं, (देहस्य कोष इव आवरकत्वात् ।)

पक्षः । इति शब्दचन्द्रिका ॥ पाखा इति भाषा ॥

देहक्षयः, पुं, (देहस्य क्षयो हानिर्यस्मात् ।)

रोगः । इति शब्दचन्द्रिका ॥

देहदः, पुं, (देहं ददाति यद्वा दायति क्षतादेः

शोधयतीति । दा दाने दैप शोधने वा +
“आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।)
पारदः । इति राजनिर्घण्टः ॥ (देहदातरि, त्रि ॥)

देहदुर्गन्धता, स्त्री, (देहस्य दुर्गन्धता) शरीर-

दौर्गन्ध्यम् । तन्नाशकौषधं यथा, --
“अर्ज्जुनस्य च पुष्पाणि जम्बुपत्रयुतानि च ।
सलोध्राणि च तल्लेपो देहदुर्गन्धतां हरेत् ॥”
इति गारुडे १९४ अध्यायः ॥

देहधारकं, क्ली स्त्री, (देहं धारयतीति । धारि +

“ण्वुल्तृचौ ।” १ । ३ । १३३ । इति ण्वुल् ।)
अस्थि । इति हेमचन्द्रः । ३ । २९० ॥

देहधिः, पुं, (देहो धीयते अस्मिन्निति । देह +

धा + आधारे किः ।) पक्षः । इति शब्द-
चन्द्रिका ॥ पाखा इति भाषा ॥

देहधृक्, [ज्] पुं, (देहे धर्ज्जति सञ्चरतीति ।

धृज् + क्विप् ।) वायुः । इति शब्दचन्द्रिका ॥
(यथा, सुश्रुते । २ । १ ।
“वायुर्यो वक्त्रसञ्चारी स प्राणो नाम देहधृक् ॥”)

देहभृत्, पुं, (देहं बिभर्त्तीति । देह + भृ +

क्विप् तुगागमश्च ।) जीवः । इति हेमचन्द्रः ।
६ । २ ॥ (यथा, रघौ । ८ । ५१ ।
“धिगिमां देहभृतामसारताम् ॥”)

देहयात्रा, स्त्री, (देहस्य यात्रा लोकान्तरगम-

नम् ।) यमपुरीगमनम् । मरणम् । (देहाय
देहरक्षणाय या यात्रा उद्यमादिः ।) भोजनम् ।
इति मेदिनी । रे, २६८ ॥ (यथा, भागवते ।
४ । २३ । २० ।
“अतीव भर्त्तुर्व्र तधर्म्मनिष्ठया
शुश्रूषया चारषदेहयात्रया ।
नाविन्दतार्त्तिं परिकर्शितापि सा
प्रेयस्करस्पर्शनमाननिर्वृतिः ॥”)

देहला, स्त्री, (देहं लाति देहस्य पुष्टिं ददातीति ।

देह + ला + कः टाप् । सेवनेन प्रथमं पुष्टि-
वर्णादिप्रदानादस्यास्तथात्वम् ।) मद्यम । इति
शब्दचन्द्रिका ॥

देहलिः, पुं, (दिह + भावे घञ् । देहो लेपस्तं

लाति गृह्णातीति । देह + ला + बाहुलकात्
किः ।) देहली । इति शब्दरत्नावली ॥

देहली, स्त्री, (देहं लेपं लातीति । देह + ला +

“आतीऽनुपसर्ग कः ।” ३ । २ । ३ । इति कः ।
गौरादित्वात् ङीष् ।) गृहावग्रहणी । इत्य-
मरः । २ । २ । १३ ॥ द्वारपिण्डिका । द्वाराग्र-
स्थानम् । इति केचित् ॥ हातिना इति ख्याता
इति केचित् ॥ अध उडुम्बरम् । तत्शिलाया
अधोदारुपाषाणो वा । इति स्वामी ॥ इत्य-
मरटीकायां भरतः ॥ (यथा, मेघदूते । ८७ ।
“शेषान् मासान् गमनदिवसस्थापितस्यावधेर्वा
विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः ॥”)

देहसारः, पुं, (देहस्य सारः ।) मज्जा । इति

राजनिर्घण्टः ॥

देहात्मवादी, [न्] त्रि, (देहमेवात्मानं पर-

ब्रह्म वदतीति । वद् + णिनिः ।) चार्व्वाकः ।
तस्येदं मतम् । शरीरमेवात्मा प्रज्वलितगृहात्
स्वपुत्त्रं परित्यज्यापि स्वस्य निर्गमदर्शनात् स्थूलो-
ऽहं कृशोऽहमित्यनुभवाच्च । अत्र प्रमाणम् ।
देहमात्रं चैतन्यविशिष्टमात्मेति प्राकृताः ।
इति शारीरिकसूत्रभाष्यम् ॥
अपि च ।
“आत्मास्ति देहाद्व्यतिरिक्तभूर्त्ति-
र्भोक्ता स लोकान्तरितः फलानाम् ।
आशेयमाकाशतरोः प्रसूनात्
प्रथीयसः स्वादुफलप्रसूतौ ॥”
इति प्रबोधचन्द्रोदयः ॥

देहिका, स्त्री, (देग्धीति । दिह वृद्धौ + ण्वुल् ।

टापि अत इत्वम् ।) कीटविशेषः । तत्-
पर्य्यायः । वटिः २ उपादिकः ३ । इति
त्रिकाण्डशेषः ॥ उपजिह्विका ४ उत्पादिका ५
उद्देहिका ६ दिवी ७ । इति हारावली ॥

देही, [न्] (देहोऽस्त्यस्येति । देह + इनिः ।)

शरीरी । प्राणी । अस्य गुणा यथा, --
“बुद्ध्यादिषट्कं संख्यादिपञ्चकं भावना तथा ।
धर्म्माधर्म्मौ गुणा एते आत्मनः स्युश्चतुर्द्दश ॥”
अयं इन्द्रियाद्यधिष्ठाता पुण्यपापाश्रयः । ज्ञान-
सुखादियोगतो मानसप्रत्यक्षविषयः । पर-
देहादौ प्रवृत्त्यादिनानुमेयः । अहमित्याकार-
प्रत्ययाश्रयः । मनोमात्रस्य गोचरः । विभुः
परममहत्त्ववान् । इति भाषापरिच्छेदः ॥
तथा च । श्रीभगवद्गीतायाम् ।
“देही नित्यमवध्योऽयं देहे सर्व्वस्य भारत ! ।
तस्मात् युद्धाय युज्यस्व नैनं पापमवाप्स्यसि ॥”
अपि च ।
“देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥”

दै, प शोधने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-अनिट् ।) पित्त्वाद्दासंज्ञाभावे यगादौ
दायते इत्यादि । शोधनमिह शुद्धीकरणम् ।
दायति ताम्रमम्लेन लोकः । अवपूर्ब्बः शुक्ली
भावे (अत्र अकर्म्मकः ।) श्विन्दते श्वेतते त्रीणि
स्युः शुक्लत्वेऽवदायति । इति भट्टमलः । इति
दुर्गादासः ।

दैतेयः, पुं, (दितेरपत्यं पुमान् । दिति + “स्त्रीभ्यो

ढक् ।” ४ । १ । १२० । इति ढक् ।) दैत्यः ।
इत्यमरः । १ । १ । १२ ॥ (यथा, हरिवंशे ।
१८२ । ७६ ।
“जय बाणं महाबाहो ! दैतेयं देवपूजित ! ।
यदर्थमवतीर्णोऽसि तत् कर्म्म सफलीकुरु ॥”)

दैत्यः, पुं, दितेरपत्यं (“दित्यदित्यादित्यपत्युत्तर-

पदाण्ण्यः ।” ४ । १ । ८५ । इति ण्यः ।)
असुरः । इत्यमरः । १ । १ । १२ ॥ (यथा,
मनुः । १२ । ४८ ।
“तापसा यतयो विप्रा ये च वैमानिका गणाः ।
नक्षत्राणि च दैत्याश्च प्रथमा सात्त्विकी गतिः ॥”)
दितिसम्बन्धिनि, त्रि ॥

दैत्यगुरुः, पुं, (दैत्यानां गुरुः ।) शुक्रः । इत्यमरः ।

१ । ३ । २५ ॥ (यथा, बृहत्संहितायाम् । १०४ । ३४ ।
“आज्ञार्थमानास्पदभूतिवस्त्र-
शत्रुक्षयान् दैत्यगुरुस्तृतीये ॥”)

दैत्यदेवः, पुं, (दैत्यानां देवः ।) वरुणः । इति

त्रिकाण्डशेषः ॥ वायुः । इति हेमचन्द्रः । ४ । १७३ ॥
पृष्ठ २/७५०

दैत्यनिसूदनः, पुं, (निसूदयतीति । नि + सूदि +

ल्युः । दैत्यानां निसूदनः नाशकः ।) विष्णुः ।
इति पुराणम् ॥

दैत्यपुरोधाः, [स्] पुं, (दैत्यानां पुरोधाः पुरो-

हितः ।) शुक्रः । इति हारावली । ३६ ॥

दैत्यमाता, [ऋ] स्त्री, (दैत्यानां माता ।)

दितिः । इति त्रिकाण्डशेषः ॥ (दैत्यमातृमात्रम् ।
यथा, हरिवंशे । १६६ । १२ ।
“अदितिर्दितिर्दनुश्चैव सिंहिका दैत्यमातरः ॥”)
दैत्यपरिमाणकर्त्तरि, त्रि ॥

दैत्यमेदजः, पुं, (दैत्यमेदात् जायते इति । दैत्य-

मेद + जन् + डः ।) भूमिजगुग्गुलुः । इति
राजनिर्घण्टः ॥ पृथिव्याम्, स्त्री । मधुकैटभमेद-
जातत्वात् ॥

दैत्ययुगं, क्ली, (दैत्यानां युगम् ।) दैत्यानां युग-

विशेषः । तत् देवपरिमाणेन द्वादशसहस्र-
वर्षाणि । मनुष्यमानेन चतुर्युगसंख्यम् । इति
शब्दार्थकल्पतरुः ॥

दैत्या, स्त्री, (दितेरियमिति ण्यः । ततष्टाप् ।)

मुरानामगन्धद्रव्यम् । इत्यमरः । २ । ४ । १२३ ॥
चण्डौषधिः । इति मेदिनी । ये, ३२ ॥ मद्यम् ।
इति त्रिकाण्डशेषः ॥ दैत्यभार्य्या च ॥

दैत्यारिः, पुं, (दैत्यानामरिः ।) विष्णुः । इत्यमरः ।

१ । १ । १९ ॥ (यथा, प्रबोधचन्द्रोदये । २ । २८ ।
“दैत्यारिः कमलाकपोलमकरीलेखाङ्कितोरः-
स्थलः ।
शेतेऽब्धावितरेषु जन्तुषु पुनः का नाम शान्तेः
कथा ॥”)
देवता । इति मेदिनी । रे, १७० ॥

दैत्याहोरात्रः, पुं, (दैत्यानामहोरात्रः ।) दैत्यानां

दिवानिशम् । स मनुष्यमानेन वर्षैकसंख्यः ।
इति शब्दार्थकल्पतरुः ॥

दैनं, क्ली, (दीनस्य भावः । अण् ।) दीनता ।

(दिनस्य दिवसस्य इदम् । दिन + “तस्येदम् ।”
४ । ३ । १२० । इत्यण् ।) दिनसम्बन्धिनि, त्रि ॥

दैनन्दिनं, त्रि, (दिनं दिनं भवं इत्यण् निपातनात्

साधुः ।) दिनेदिने भवम् । (यथा, भागवते ।
३ । ११ । २६ ।
“एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्त्तनः ।
तिर्य्यङ्नृपितृदेवानां सम्भवो यत्र कर्म्मभिः ॥”)
स्वार्थष्णे प्रतिदिनम् । इति निपातनसाध्यम् ॥

दैनन्दिनप्रलयः, पुं, (दैनन्दिनश्चासौ प्रलयश्चेति

कर्म्मधारयः ।) प्रलयविशेषः । यथा, --
“चतुर्द्दशेन्द्रावच्छिन्ने ब्रह्मणो दिनमुच्यते ।
तावती ब्रह्मणो रात्रिः सा च ब्राह्मी निशा
नृप ! ॥
कालरात्रिश्च सा ज्ञेया वेदेषु परिकोर्त्तिता ।
एवं सप्तकल्पजीवी मार्कण्डेयो महातपाः ॥
ब्रह्मलोकादधः सर्व्वे लोका दग्धाश्च तत्र वै ।
उत्थितेनैव सहसा सङ्कर्षणमुखाग्निना ॥
चन्द्र्यकेब्रह्मपुत्त्राश्च ब्रह्मलोकं गता द्रुतम् ।
ब्रह्मरात्रे व्यतीते तु पुनश्च ससृजे विधिः ॥
तस्य ब्राह्मीनिशायाञ्च क्षुद्रप्रलय उच्यते ।
देवाश्च मुनयश्चैव तत्र दग्धा नरादयः ॥
एवं त्रिंशद्दिवारात्रैर्ब्रह्मणो मास एव च ।
वर्षं द्बादशमासैश्च ब्रह्मसम्बन्धि चैव हि ॥
एवं पञ्चदशाब्दे च गते च ब्रह्मणो नृप ! ।
दैनन्दिनस्तु प्रलयो वेदेषु परिकीर्त्तितः ॥
अहो रात्रिश्च सा प्रोक्ता वेदविद्भिः पुरातनैः ।
तत्र सर्व्वे प्रनष्टाश्च चन्द्रार्कादिदिगीश्वराः ॥
आदित्या वसवो रुद्रा मन्विन्द्रा मानवादयः ॥
ऋषयो मुनयश्चैव गन्धर्व्वा राक्षसादयः ॥
मार्कण्डेयो लोमशश्च पेचकश्चिरजीविनः ।
इन्द्रद्युम्नश्च नृपतिश्चाकूपारश्च कच्छपः ।
नाडीजङ्घो वकश्चैव सर्व्वे नष्टाश्च तत्र वै ॥
ब्रह्मलोकादधः सर्व्वे लोका नागालयास्तथा ।
ब्रह्मलोकं ययुः सर्व्वे ब्रह्मलोकादयस्तथा ॥
गते दैनन्दिने ब्रह्मा लोकांश्च ससृजे पुनः ।
एवं शतायुःपर्य्यन्तं परमायुश्च ब्रह्मणः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥

दैनारं, त्रि, दीनारमितस्वर्णजातवस्तु । दीनारे

भवं दीनारस्येदं वेति (अण्) ष्णप्रत्ययः ॥

दैनिकी, स्त्री, (दिने भवः । दिन + “कालात्

ठञ् ।” ४ । ३ । ११ । इति ठञ् । गौरादि-
त्वात् ङीष् ।) दिनभृतिः । एकदिनकर्म्म-
मूल्यम् । इति शब्दमाला ॥ (दिनभवे, त्रि ॥)

दैन्यं, क्ली, (दीनस्य भावः । दीन + ष्यञ् ।) कार्प-

ण्यम् । इति हेमचन्द्रः । २ । २३३ ॥ दीनता । यथा,
“याच्ञादैन्यपराञ्चि यस्य कलाहायन्ते मिथस्त्वं
वृणु
त्वं वृण्वित्यभितो मुखानि स दशग्रीवः कथं कथ्य-
ताम् ॥”
इति मुरारिमिश्रः ॥
(अलङ्कारोक्तव्यभिचारिगुणभेदः । यथा,
साहित्यदर्पणे । ३ । १४१ ।
“दौर्गत्याद्यैरनौजस्यं दैन्यं मलिनतादिकृत् ॥”)

दैपं, त्रि, दीपसम्बन्धि । दीपस्येदमित्यर्थे (अण्)

ष्णप्रत्ययः ॥

दैर्घ्यं, क्ली, (दीर्घस्य भावः । दीर्घ + ष्यञ् ।)

दीर्घत्वम् । तत्पर्य्यायः । आयामः २ । आरोहः
३ । इत्यमरः । २ । ६ । ११४ ॥ आरोहस्थाने
आनाह इति भरतः ॥ (यथा, बृहत्संहिता-
याम् । ११ । ३३ ।
“अपरस्यां चलकेतुः
शिखया याम्यग्रयाङ्गुलोच्छ्रितया ।
गच्छेद्यथा यथोदक्
तथा तथा दैर्ध्यमायाति ॥”)

दैलीपिः, पुं, दिलीपराजपुत्त्रो रघुः । दिलीपस्या-

पत्यमिति ष्णिप्रत्ययः (इञ्) ॥

दैवं, क्ली, (देवस्येदम् । देव + “तस्येदम् ।” ४ ।

३ । १२० । इत्यण् ।) देवतीर्थम् । तत् दक्षिण-
हस्ताङ्गुल्यग्रवर्त्ति । इत्यमरः । २ । ७ । ५१ ॥
(यथा, मनुः । २ । ५९ ।
“काथमङ्गुलिमूलेऽग्रे दैवं पित्र्यं तयोरधः ॥”)
देवसम्बन्धिनि, त्रि । यथा, --
“प्रमीतौ पितरौ यस्य देहस्तस्याशुचिर्भवेत् ।
नापि दैवं न वा पित्र्यं यावत् पूर्णो न वत्सरः ॥”
इति शुद्धितत्त्वम् ॥
विवाहविशेषे, पुं । इत्युद्बाहतत्त्वम् ॥ अस्य विव-
रणं उद्वाहशब्दे द्रष्टव्यम् । (दिवि भवः ।
दिव् + अण् ।) दिविभवे, त्रि ॥

दैवं, क्ली, पुं, (देवात् नियतादागतम् । देव +

अण् ।) भाग्यम् । इत्यमरः । १ । १ । २८ ॥
“दैवाधीनं जगत् सर्व्वं जन्मकर्म्मशुभाशुभम् ।
संयोगाश्च वियोगाश्च न च दैवात् परं बलम् ॥
कृष्णायात्तञ्च तद्दैवं स देवात् परतस्ततः ।
भजन्ति सततं सन्तः परमात्मानमीश्वरम् ॥
दैवं वर्द्धयितुं शक्तः क्षयं कर्त्तुं स्वलीलया ।
न दैवबद्धस्तद्भक्तश्चाविनाशी च निर्गुणः ॥”
इति ब्रह्मवैवर्त्ते गणेशखण्डम् ॥ * ॥
मनुरुवाच ।
“दैवे पुरुषकारे च किं ज्यायस्तद्ब्रवीतु मे ।
अत्र मे संशयो देव ! छेत्तुमर्हस्यशेषतः ॥
मत्स्य उवाच ।
स्वमेव कर्म्म दैवाख्यं विद्धि देहान्तरार्ज्जितम् ।
तस्मात् पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥
प्रतिकूलं यथा दैवं पौरुषेण विहन्यते ।
मङ्गलाचारयुक्तानां नित्यमुत्थानशीलिनाम् ॥
येषां पूर्ब्बकृतं कर्म्म सात्त्विकं मनुजोत्तम् ! ।
पौरुषेण विना तेषां केशाञ्चिद्दृश्यते फलम् ॥
कर्म्मणा प्राप्यते लोके राजसस्य तथा फलम् ।
कृच्छ्रेण कर्म्मणा विद्धि तामसस्य तथा फलम् ॥
पौरुषेणाप्यते राजन् ! मार्गितव्यं फलं नरैः ।
दैवमेव विजानन्ति नराः पौरुषवर्ज्जिताः ॥
तस्मात्त्रिकालसंयुक्तं दैवेन सफलं भवेत् ।
पौरुषं दैवसम्पत्त्या काले फलति पार्थिव ! ॥
दैवं पुरुषकारश्च कालश्च मनुजोत्तम ! ।
त्रयमेव मनुष्यस्य पिण्डितं स्यात् फलावहम् ।
कृषेर्वृष्टिसमायोगात् दृश्यन्ते फलसिद्धयः ।
तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन ॥
तस्मात् सदैव कर्त्तव्यं सधर्म्मं पौरुषं नृभिः ।
एवन्ते प्राप्नुवन्तीह परलोके फलं ध्रुवम् ॥
नालसाः प्राप्नुवन्त्यर्थान्न च दैवपरायणाः ।
तस्मात् सदैव यत्नेन पौरुषे यत्नमाचरेत् ॥
त्यक्तालसान्दैवपरान् मनुष्या-
नुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः ।
अन्विष्य यत्नाद्वृणुते नृपेन्द्र !
तस्मात् सदोत्थानवता हि भाव्यम् ॥”
इति मत्स्यपुराणे १९५ अध्यायः ॥

दैवकी, स्त्री, (देवकी एव । स्वार्थे अण् । ततो

ङीष् ।) कृष्णमाता । वसुदेवपत्नी । इति
श्रीभागवतम् ॥

दैवकीनन्दनः, पुं, (दैवक्याः नन्दनः पुत्त्रः ।)

श्रीकृष्णः । इत्यमरः । १ । १ । २१ ॥ (यथा,
पाद्मोत्तरखण्डे १११ अध्याये ।
“दैवकीनन्दनः श्यामः श्रीश्यामाप्राणवल्लभः ॥”)
पृष्ठ २/७५१

दैवकोविदा, स्त्री, (दैवे देवनिमित्तशुभाशुभज्ञाने

कोविदा विज्ञा ।) दैवज्ञा । इति शब्दरत्ना-
वली ॥ दैवपण्डिते, त्रि ॥

दैवज्ञः, त्रि, (दैवं जानातीति । ज्ञा + कः ।)

गणकः । इत्यमरः । २ । ८ । १४ ॥ (यथा,
देवीभागवते । १ । २० । ३४ ।
“दैवज्ञान् वेदविदुषः पर्य्यपृच्छच्छभं दिनम् ॥”)
अस्योत्पत्तिर्यथा, देवब्राह्मणधनापहारी धूमान्ध-
नरकं भुक्त्वा शतजन्ममूषिक-नानाविधपक्षिकृमि-
वृक्षभार्य्यावंशहीनव्याधियुतशवरस्वर्णकारसुवर्ण-
बणिग्यवनसेविविप्रब्राह्मणगणका भूत्वा दैवज्ञो
गणनोपजीविविप्रो भवति ॥ * ॥
अपि च ।
“लाक्षालोहादिव्यापारी रसादिविक्रयी च यः ।
स याति नागवेष्टञ्च नागैर्वेष्टित एव च ॥
वसेत् स्वलोममानाब्दं तत्रैव नागदंशितः ।
ततो भवेत् स गणको वैद्यश्च सप्तजन्मसु ॥
गोपश्च चर्म्मकारश्च रङ्गकारस्ततः शुचिः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥

दैवज्ञा, स्त्री, (दैवं जानातीति । ज्ञा + कः । तत-

ष्टाप् ।) दैवज्ञभार्य्या । प्रश्नादिना शुभाशुभज्ञा ।
लक्षणादिना शुभाशुभनिरूपिणी । तत्पर्य्यायः ।
विप्रश्निका २ ईक्षणिका ३ । इत्यमरः । २ । ६ । २० ॥

दैवतः, पुं, क्ली, (देवता एव । स्वार्थे अण् ।) देवता ।

इत्यमरः । १ । १ । ९ ॥ (यथा, रामायणे ।
२ । ५० । २ ।
“आपृच्छेत्वां पुरिश्रेष्ठे ! काकुत्स्थपरिपालिते ! ।
दैवतानि च यानि त्वां पालयन्त्यावसन्ति च ॥”
देवतानां समूहः । देवता + अण् ।) देवता-
समूहे, क्ली । (देवताया इदम् । अण् ।) देव-
सम्बन्धिनि, त्रि ॥

दैवदीपः, पुं, (दैवः सूर्य्याधिष्ठातृको दीपः । दर्शने-

न्द्रियस्य सूर्य्याधिष्ठातृत्वात्तथात्वम् ।) चक्षुः ।
इति त्रिकाण्डशेषः । देवसम्बन्धिप्रदीपश्च ॥

दैवपरः, त्रि, (दैवमेव परं प्रधानं यस्य ।) दैव-

निष्ठः । तत्पर्य्यायः । यद्भविष्यः २ । इति हेम-
चन्द्रः । ३ । ४७ ॥ (यथा, मार्कण्डेये । ४३ । ८९ ।
“सार्द्धं न बलिभिः कुर्य्यान्न च न्यूनैर्न निन्दितैः ।
न सर्व्वशङ्किभिर्नित्यं न च दैवपरैर्नरैः ।
कुर्व्वीत साधुभिर्मैत्रीं सदाचारावलम्बिभिः ॥”)

दैवप्रश्नः, पुं, (दैवे देवनिमित्तशुभाशुभविषये

यः प्रश्नः ।) प्राक्तनशुभाशुभकर्म्मजिज्ञासा । तत्-
पर्य्यायः । उपश्रुतिः २ । इति त्रिकाण्डशेषः ॥
(दैववाणी । यदुक्तं हारावल्याम् । २२ ।
“नक्तं निर्गत्य यत्किञ्चित् शुभाशुभकरं वचः ।
श्रूयते तद्विदुर्धीरा दैवप्रश्नमुपश्रुतिम् ॥”)

दैवयुगं, क्ली, (दैवं देवसम्बन्धि युगम् ।) देवानां

युगम् । तच्च देवमानेन द्वादशसहस्रवर्षम् ।
मनुष्यपरिमाणेन चतुर्युगमानम् । इति शब्दार्थ-
कल्पतरुः ॥ (यदुक्तं मनौ । १ । ७१ ।
“थदेतत् परिसंख्यातमादावेव चतुर्युगम् ।
एतद्बादशसाहस्रं देवानां युगमुच्यते ॥”)

दैवलकः, पुं, (देवल इव कायतीति । कै + कः ।

ततः स्वार्थे अण् ।) भौतः । भूतसेवकः । इति
हारावली । १५० ॥ देवलसम्बन्धिनि, त्रि ॥

दैवलेखकः, पुं, (दैवं देवनिमित्तशुभाशुभं लिख-

तीति । लिख + ण्वुल् ।) मौहूर्त्तः । गणकः ।
इति त्रिकाण्डशेषः ॥

दैववाणी, स्त्री, (दैवी आकाशसम्बन्धिनी वाणी ।)

आकाशवाणी । अमानुषी वाक् । तत्पर्य्यायः ।
चित्तोक्तिः २ पुष्पशकटी ३ दैवप्रश्नः ४ उप-
श्रुतिः ५ । इति त्रिकाण्डशेषः ॥ संस्कृतवाक्यम् ।
यथा, दण्डी ।
“संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः ॥”
“गीर्वाणवाणीधदनं मुकुन्द-
संकीर्त्तनञ्चेत्युभयं हि लोके ।
सुदुर्लभं तच्च न मुग्धबोधा-
न्न लभ्यतेऽतः पठनीयमेतत् ॥”
इति वोपदेवः ॥

दैवाकरिः, पुं, (दिवाकरस्य अपत्यं पुमान् । दिवा-

कर + इञ् ।) शनिः । यमः । यमुनायां, स्त्री ।
एतेषामुदाहरणं यथा, --
“सम्प्रति दैवाकरितः पारमिताद्धरितारुण-
करितः ।
नायं कोऽपि विशेषः स्वाहितराशिवशात्त-
नुशेषः ॥”
इति काव्योदयधृतसङ्गीतकम् ॥

दैवात्, व्य, हठात् । यथा, “दैवादपाङ्गबलनं किल

मानवत्याः ।” इति काव्योदयः ॥

दैवाहोरात्रः, पुं, (दैवः देवसम्बन्धी अहोरात्रः ।)

देवानामेकदिवसः । स मनुष्याणां संवत्सरः ।
इति शब्दार्थकल्पतरुः ॥

दैविकः, त्रि, (दैवस्य अयं दैवे भवो वा । दैव +

ठक् ।) देवसम्बन्धी । (यथा, मनुः । १ । ६५ ।
“अहोरात्रे विभजते सूर्य्यो मानुषदैविके ।
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्म्मणामहः ॥”)
दैवे भवः । इति व्याकरणम् ॥

दैवी, स्त्री, (देवस्य इयम् । देव + अण् अञ् वा ।

ततो ङीप् ।) देवसम्बन्धिनी । यथा, --
“ब्रह्मोपास्यमिति स्फुरत्यपि हृदि व्यावर्त्तिका
वासना
का नामेयमतर्क्यसेतुगहना दैवीसतां यातना ।”
इति शान्तिशतके । ७ ॥
चिकित्साविशेषः । यथा, वैद्यके ।
“आसुरी मानुषी दैवी चिकित्सा त्रिविधा
मता ॥”

दैव्यं, क्ली, (देवस्य इदम् । “देवाद्यञञौ ।” ४ ।

१ । ८५ । इत्यस्य वार्त्तिकोक्त्या यञ् ।) दैवम् ।
भाग्यम् । इत्यमरटीकायां भरतः ॥ (देव-
सम्बद्धे, त्रि । यथा, ऋग्वेदे । २ । ३० । ११ ।
“तं वः शर्घं मारुतं सुम्नयुर्गिरोप ब्रुवे नमसा
दैव्यं जनम् ॥”)

दैशिकं, त्रि, (देशे भवं देशस्य इदं वा । देश +

ठञ् ।) देशसम्बन्धि । भवार्थे ष्णिकप्रत्ययेन
सिद्धम् । सम्बन्धविशेषः । यथा । कालभावयोः
सप्तमीति सूत्रं भावः सत्त्वं तच्च द्बिविधं कालिकं
दैशिकञ्चेति कारकचक्रे भवानन्दसिद्धान्त-
वागीशः ॥ देशनिष्ठविशेषणता । इति नैया-
यिकाः ॥

दैष्टिकः, पुं, दिष्टेन भवः । (दिष्ट + ठक् ।)

भाग्याधीनजातः । कालेन जातः । इति
व्याकरणम् ॥ (दिष्टं भागधेयमिति मतिर्यस्य ।
“अस्ति नास्ति दिष्टं मतिः ।” । ४ । ४ । ६० ।
इति ठक् । दैवपरः । इति सिद्धान्तकौमुदी ॥)

दैहिकं, त्रि, (देहस्य इदं देहे भवं वा । देह +

ठञ् ।) देहसम्बन्धि । यथा, --
“भीरूणां भैरवाणां भवति सुविहिता दैहिकी
गोपितार्च्चा ।”
इति कूर्च्चिकातन्त्रेऽन्तर्यागः ॥

दो, य छेदे । इति कविकल्पद्रुमः ॥ (दिवां-परं-

सकं-सेट् ।) य, शिरोऽवद्यति विद्बिषां यः ।
इति दुर्गादासः ॥

दोः, [स्] पुं, (दाम्यत्यनेनेति । दमु उपशमे +

“दमेर्डोसिः ।” उणां २ । ६९ । इति डोसिः ।)
बाहुः । इत्यमरः । २ । ६ । ८० ॥ (यथा,
अनर्घराघवे । २ । ४४ ।
“दातव्येयमवश्यमेव दुहिता कस्मैचिदेनामसौ
दोर्लीलामसृणीकृतत्रिभुवनो लङ्कापति-
र्याचते ॥”)

दोःशिखरं, क्ली, (दोष्णः शिखरम् ।) स्कन्धः ।

इति राजनिर्घण्टः ॥

दोःसहस्रभृत्, पुं, (दोःसहस्रं बाहुसहस्रं बिभ-

र्त्तीति । भृ + क्विप् ।) कार्त्तवीर्य्यार्ज्जुनः । इति
हेमचन्द्रः । ३ । ३६६ । बाणराजा च ॥

दोग्धा, [ऋ] पुं, (दोग्धीति । दुह + तृच् ।) अर्थोप-

जीविकविः । वत्सः । गोपालः । इति मेदिनी ।
धे, ८ ॥ दोहनकर्त्तरि, त्रि ॥ (यथा, कुमारे । १ । २ ।
“यं सर्व्वशैलाः परिकल्प्य वत्सं
मोरौ स्थिते दोग्धरि दोहदक्षे ॥”)

दोग्ध्री, स्त्री, (दोग्धृ + ङीप् ।) गौः । इति राज-

निर्घण्टः ॥ (यथा, रघुः । २ । २३ ।
“दोहावसाने पुनरेव दोग्ध्रीं
भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ॥”)

दोदुल्यमानः, त्रि, (दुल + यङ् + शानच् ।) पुनः-

पुनरतिशयेन वा दोलनविशिष्टः । इति व्याक-
रणम् ॥

दोधः, पुं, (दोग्धीति । दुह + अच् । निपातनात्

साधुः ।) गोवत्सः । यथा, --
“देव सदोधकदम्बतलस्थ-
श्रीधर तारकनामपदं मे ।
कण्ठतलेऽसुविनिर्गमकाले
स्वल्पमपि क्षणमेष्यति योगम् ॥”
इति छन्दोमञ्जरी ॥

दोधकः, पुं, छन्दोविशेषः । यथा, श्रुतबोधे ।

“आद्यचतुर्थमहीननितम्बे
सप्तमकं दशमञ्च तथान्त्यम् ।
पृष्ठ २/७५२
यत्र गुरु प्रकटस्मररागे
तत् कथितं तव दोधकवृत्तम् ॥”

दोधूयमानः त्रि, (पुनः पुनरतिशयेन वा धूयते । धु

कम्पने + “धातोरेकाचो हलादेः क्रियासमभि-
हारे यङ् ।” ३ । १ । २२ । इति यङ् । “गुणो यङ्-
लुकोः ।” ७ । ४ । ८२ । इति अभ्यासस्य गुणः ।
ततः अभ्याससूत्राद्यनुसारेण दोधूयधातुः ।
यङन्तत्वादात्मनेपदम् । ततः शानच् ।) पुनः-
पुनरतिशयेन वा कम्पविशिष्टः । यथा, --
“नभस्वदासङ्गभयेव साध्वी
दोधयमाना वडभीपताका ।”
इति कृन्मञ्जरी ॥
“प्रलयेऽपि दोधूयमानाः परमाणवः तिष्ठन्ति ।”
इति शिरोमणिः ॥

दोरकः पुं, (डोरक + निपातनात् डस्य दः ।)

बीणातन्तुबन्धनरज्जुः । इति शब्दार्थकल्पतरुः ॥

दोर्गडुः, पुं, (दोषा बाहुना गडुः कुण्ठितः ।)

कुण्ठितहस्तः । तत्पर्य्यायः । कुम्पः २ बाहु-
कुण्ठः ३ । इति जटाधरः ॥

दोर्ग्रहः, त्रि, (दोर्गृह्यते अनेनेति । ग्रह + करणे

वञ् ।) बलवान् । तत्पर्य्यायः । कैरातः २
क्षामः ३ । इति हारावली । १२७ ॥ (दोष्णो
ग्रहः ।) भुजस्य ग्रहणं तस्य व्यथा च ॥

दोर्दण्डः, पुं, (दोर्दण्ड इव ।) बाहुरूपदण्डः ।

यथा । “दोर्दण्डेन समो न चास्ति भुवने प्रत्यक्ष-
विष्णुः स्वयम् ।” इत्युद्भटः ॥

दोर्मध्यं, क्ली, (दोष्णो मध्यम् ।) बाहुमध्यभागः ।

इति शब्दार्थकल्पतरुः ॥ वाजु इति भाषा ॥

दोर्मूलं, क्ली, (दोषो मूलम् ।) कक्षः । वगल इति

भाषा । तत्पर्य्यायः । भुजकोटरः २ खण्डिकः
३ कक्षा ४ । इति हेमचन्द्रः । ३ । २५३ ॥

दोलः, पुं, दोलनम् । दुलधातोर्भावे घञ्प्रत्य-

येन निष्पन्नः । (दोल्यते अस्मिन् कृष्णेनेति ।
दोलि + अधिकरणे घञ् ।) श्रीकृष्णस्य यात्रा-
विशेषः । अस्य प्रमाणं यथा, पाद्मे पातालखण्डे ।
“विशेषतः कलियुगे दोलोत्सवो विधीयते ।
फाल्गुने च चतुर्द्दश्यामष्टमे यामसंज्ञके ॥
अथवा पौर्णमास्यान्तु प्रतिपत्सन्धिसम्मितौ ।
पूजयेद्बिधिवद्भक्त्या फल्गुचूर्णैश्चतुर्विधैः ॥
सितरक्तेर्गौरपीतैः कर्पूरादिविमिश्रितैः ।
हरिद्राक्षारयोगाच्च रङ्गरम्यैर्मनोहरैः ॥
अन्यैर्व्वा रङ्गरम्यैश्च प्रीणयेत् परमेश्वरम् ।
एकादश्यां समारभ्य पञ्चम्यन्तं समापयेत् ॥
पञ्चाहानि त्र्यहाणि स्युर्दोलोत्सवो विधीयते ।
दक्षिणाभिमुखं कृष्णं दालयानं सकृन्नराः ॥
दृष्ट्वापराधनिचयैर्मुक्तास्ते नात्र संशयः ॥”
अपि च ।
जैमिनिरुवाच ।
“फाल्गुने मासि कुर्व्वीत दोलारोहणमुत्तमम् ।
यत्र क्रौडति गोविन्दो लोकानुग्रहणाय वै ॥
प्रत्यर्च्चां देवदेवस्य गोविन्दाख्यान्तु कारयेत् ।
प्रासादं पुरतः कुर्य्यात् षोडशस्तम्भमुच्छ्रितम् ॥
चतुरस्रं चतुर्द्बारं मण्डपं वेदिकान्वितम् ।
चारुचन्द्रातपं माल्यचामरध्वजशोभितम् ॥
भद्रासनं वेदिकायां श्रीपर्णीकाष्ठनिर्म्मितम् ।
फल्गूत्सवं प्रकुर्व्वीत पञ्चाहानि त्र्यहाणि वा ॥
फाल्गुन्याः पूर्ब्बतो विप्राश्चतुर्द्दश्यां निशामुखे ।
वह्र्यत्सवं प्रकुर्व्वीत दोलमण्डपपूर्ब्बतः ॥
एतत् सर्व्वं प्रकुर्व्वीत दोलमण्डपपूर्ब्बतः ।
गोविन्दानुगृहीतन्तु यात्राङ्गं तत् प्रकीर्त्तितम् ॥
आचार्य्यवरणं कृत्वा वह्निं निर्म्मथनोद्भवम् ।
भूमिं संस्कृत्य विधिवत् तृणराशिं महोच्छ्रितम् ॥
सपशुं कारयित्वा तु वह्निं तत्र विनिक्षिपेत् ।
पूजयित्वा विधानेन कुष्माण्डविधिना हुनेत् ॥
गोविन्दं पूजयित्वा तु भ्रामयेत् सप्त तं विभुम् ।
तस्मिन् काले हरिं दृष्ट्वा सर्व्वपापैः प्रमुच्यते ॥
यत्नात्तं रक्षयेद्बह्निं यावद्यात्रा समाप्यते ॥ * ॥
प्रान्तयामे चतुर्द्दश्यां गोविन्दप्रतिमां शुभाम् ॥
वासयित्वा हरेरग्रे पूजयेत् पुरुषोत्तमम् ।
उपचारावशिष्टैस्तु प्रत्यर्च्चामपि पूजयेत् ॥
ततो वरञ्च वसनं मालाञ्च द्बिजसत्तमाः ।
अर्च्चायां विन्यसेन्मन्त्रं परं ज्योतिर्विभावयन् ॥
ततश्च प्नतिमा साक्षात् जायते पुरुषोत्तमः ।
रत्नान्दोलिकया तां वै नयेत् स्नानस्य मण्डपम् ॥
नानातूर्य्यनिनादैश्च शङ्खध्वनिपुरःसरम् ।
जयशब्दैस्तथा स्तोत्रैः पुष्पवृष्टिभिरेव च ॥
छत्रध्वजपताकाभिश्चामरव्यजनैस्तथा ।
निरन्तरं दीपिकाभिस्तथा कुर्य्यान्महोत्सवम् ॥
आगच्छन्ति तदा देवाः पितामहपुरोगमाः ।
द्रष्टुमृषिगणैः सार्द्धं गोविन्दस्य महोत्सवम् ॥
भद्रासनेऽधिवास्यैनं पूजयेदुपचारकैः ॥
महास्नानस्य विधिना स्नपनं तस्य कारयेत् ।
पञ्चामृतैश्च सर्व्वैर्वै तेषामन्यतमेन वा ।
स्नानान्ते गन्धतोयेन श्रीसूक्तेनाभिषेचयेत् ॥
संप्रोक्ष्य भूषयेद्देवं वस्त्रालङ्कारमाल्यकैः ।
नीराजयित्वा संपूज्य प्रासादं परिवेष्टयेत् ॥
सप्तकृत्वस्ततो देवं दोलमण्डपमानयेत् ।
सुसंस्कृतायां रथ्यायां पताकातोरणादिभिः ॥
अधोदेशे मण्डपं तं सप्तशो भ्रामयेत्ततः ।
ऊर्द्ध्वदेशे पुनः सप्तस्तम्भवेद्यान्तु सप्त वै ॥
यात्रावसाने च पुनर्भ्रामयेदेकविंशतिम् ।
इयं लीला भगवतः पितामहमुखेरिता ॥
राजर्षिणेन्द्रद्युम्ने न कारिता पूर्ब्बमेव हि ।
फलपुष्पावनम्रैश्च शाखाभिः परिकल्पिते ॥
वृन्दावनान्तरे रम्ये मत्तसारसवारिणि ।
कोकिलारावमधुरे नानापक्षिगणाकुले ॥
नानोपशोभारचिते कालागुरुसुधूपिते ।
प्रफुल्लकेतकीषण्डगन्धामोदि-दिगन्तरे ॥
मल्लिकाशोकपुन्नागचम्पकैरुपशोभिते ।
तत्काननान्तर्घटिते मण्डपे चारुतोरणे ॥
भूषिते माल्यवसनचामरैरुपशोभिते ।
रत्नखट्वान्दोलिकायां तन्मध्ये वासयेत् प्रभुम् ॥
अनर्घ्यरत्नघटितकुण्डलोद्भासितश्रुतिम् ।
यथास्थानं यथाशोभं दिव्यालङ्काररञ्जनम् ॥
विकचाम्बुजमध्यस्थं विश्वधात्र्या श्रिया युतम् ।
शङ्खचक्रगदापद्मधारिणं वनमालिनम् ॥
सुप्रसन्नं सुनासाभ्रपीनवक्षःस्थलोज्ज्वलम् ।
पुरो व्योमस्थितैर्द्देवैर्ब्रह्माद्यैर्नतकन्धरैः ॥
कृताञ्जलिपुटैर्भक्त्या जयशब्दैरभिष्टुतम् ।
गन्धर्व्वैरप्सरोभिश्च किन्नरैः सिद्धचारणैः ॥
हाहाहूहूप्रभृतिभिः सत्वरं दिव्यगायनैः ।
अहंपूर्ब्बिकया नृत्यगीतवादित्रकारिभिः ॥
नेत्राम्बुजसहस्रैश्च पूज्यमानं मुदान्वितैः ।
विकिरद्भिः सर्व्वदिक्षु गन्धचन्दनजं रजः ॥
उपवेश्याथ गोविन्दं पूजयेदुपचारकैः ।
वल्लवीवृन्दमध्यस्थं कदम्बतरुमूलगम् ॥
हावहास्यविलासैश्च क्रीडमानं वनान्तरे ।
गोपीभिश्चैव गोपालैर्लीलान्दोलिकया नगम् ॥
चिन्तयित्वा जगन्नाथं विकिरेद्गन्धचूर्णकैः ।
सकर्पूरै रक्तपीतशुक्लैर्दिक्षु समन्ततः ॥
दिव्यैर्वस्त्रैर्दिव्यमाल्यैर्दिव्यगन्धैः सुधूपकैः ।
चामरान्दोलनैर्गानैः स्तुतिभिश्च समर्च्चितम् ॥
आन्दोलयेत् दोलिकास्थं सप्तवारान् शनैः शनैः ।
तदा पश्यन्ति ये कृष्णं मुक्तिस्तेषां न संशयः ॥
ब्रह्महत्यादिपापानां पञ्चानां संक्षयो भवेत् ।
त्रिवारं दोलयेद्देवं सर्व्वपापापनोदनम् ॥
भक्तानुग्राहकं पुंसां भुक्तिमुक्त्येककारणम् ।
लीलाविचेष्टितं यस्य कृत्रिमं सहजं यथा ॥
अंहःसंघक्षयकरं मूलाविद्यानिवर्त्तकम् ।
पश्यन् द्बितीयं हरति गोहत्याद्युपपातकम् ॥
क्षिणोत्यशेषपापानि तृतीयं नात्र संशयः ।
दृष्ट्वा दोलास्थितं देवं सर्व्वपापैः प्रमुच्यते ॥
आध्यात्मिकैराधिदैवैराधिभूतैर्व्विमुच्यते ।
इमां यात्रां कारयित्वा चक्रवर्त्ती भवेन्नृपः ॥
ब्राह्मणस्तु चतुर्वेदी ज्ञानवान् जायते ध्रुवम् ॥”
इति स्कान्दे उत्कलखण्डे ४२ अध्यायः ॥ * ॥
तस्य संक्षेपव्यवस्था यथा, -- यदा अरुणो-
दयकाले पौर्णमासीलाभस्तत्रैव दोलयात्रा ।
उभयदिने अरुणोदयकाले पौर्णमासीलाभे पूर्ब्ब-
दिने । सङ्गवमध्याह्नकालव्यापित्वात् त्रिसन्ध्य-
व्यापित्वेन तिथेर्ब्बलवत्त्वाच्च । यदा तिथिक्षय-
वशादरुणोदयकाले न पौर्णमासीलाभस्तदा
कदाचित् सहायभावेन चतुर्द्दश्यादरः । एतेन
पूर्ब्बदिने अरुणोदयं विना पूर्ब्बाह्णे पौर्णमासी-
लाभः परदिने मुहूर्त्तान्यूनतिथिलाभस्तदा फल्-
गूत्सवः पूर्ब्बदिने युग्मवचनानुरोधादिति निर-
स्तम् । उभयदिने कर्म्मयोग्यप्रशस्तकालप्राप्त-
तिथिसन्देह एव युग्मवचनप्रवृत्तेः । एवं पञ्चमी-
पर्य्यन्तासु तिथिषु तत्करणे अनयैव दिशा
व्यवस्थोन्नेयेति । इति दोलयात्रातत्त्वम् ॥ * ॥
चैत्रे मासि दोलस्य प्रमाणं गारुडे ।
“चैत्रे मासि सिते पक्षे दक्षिणाभिमुखं हरिम् ।
दोलारूढं समभ्यर्च्य मासमान्दोलयेत् कलौ ॥”
तन्नित्यता च पद्मपुराणे ।
“ऊर्ज्जे रथं मधौ दोलां श्रावणे तन्तु पर्व्व च ।
चैत्रे मदनकारोपमकुर्व्वाणो व्रजत्यधः ॥
पृष्ठ २/७५३
विष्णुं दोलास्थितं दृष्ट्वा त्रैलोक्यस्योत्सवो भवेत् ।
तस्मात् कार्य्यशतं त्यक्त्वा दोलाहे उत्सवं कुरु ॥”
अथ दोलोत्सवविधिः ।
“चैत्रस्य शुक्लद्वादश्यां प्रातःकृत्यं समाप्य च ।
नित्यपूजां विधायाथ कुर्य्याद्दोलोत्सवं व्रती ॥
तदर्थञ्च विशेषेण नैवेद्यादिकमर्पयेत् ।
संमान्य वैष्णवांस्तैश्च गीतनृत्यादि कारयेत् ॥
महानीराजनं कृत्वा प्रक्षिपेदच्युतोपरि ।
गन्धानुलेपचूर्णानि विचित्राणि विभागशः ॥
सन्तोष्य वैष्णवांस्तैश्च गीतनृत्यादिभिः प्रभुम् ।
नत्वाभ्यर्थ्याप्रमत्तः सन् दोलामारोहयेच्छुभाम् ॥
नीत्वा वहिर्व्वेदिकायामुत्तुङ्गायां यथाविधि ।
अभ्यर्च्यान्दोलयेत् कृष्णं सर्व्वलोकावलोकितम् ॥
एवमभ्यर्च्चयन् यामे यामे त्वान्दोलयन् प्रभुम् ।
महोत्सवेन गमयेद्दिनं रात्रिञ्च यत्नतः ॥
एवं जागरणं कृत्वा वैष्णवैः सह वैष्णवः ।
प्रणम्य प्रार्थ्य निर्म्मञ्छ्य कृष्णं स्वालयमानयेत् ॥
चैत्रे मासि सिते पक्षे तृतीयायां रमापतिम् ।
दोलारूढं समभ्यर्च्ये मासमान्दोलयेत् कलौ ॥
यत् फाल्गुनस्य राकादावुत्तराफाल्गुनी यदा ।
तदा दोलोत्सवः कार्य्यस्तच्च श्रीपुरुषोत्तमे ॥”
इति हरिभक्तिविलासः ॥

दोला, स्त्री, नीलिनी । (दोल्यते अस्यामिति ।

दोलि + घञ् + टाप् ।) उद्यानादिषु क्रीडार्थं
काष्ठादिमयो हिन्दोलकः । हेँदला इति भाषा ।
वाह्यखट्वा । डुली इति भाषा । तत्पर्य्यायः ।
प्रेङ्खा २ । इत्यमरः । २ । ८ । ५३ ॥ दोली ३
खट्वाला ४ दोलिका ५ । इति शब्दरत्नावली ॥
प्रेङ्खः ६ । इति भरतधृतरत्नकोषः ॥ हिन्दोला
७ । इति हारावली । २१४ ॥ (यथा, महा-
भारते । ३ । ६२ । २७ ।
“द्विधेव हृदयं तस्य दुःखितस्याभवत् तदा ।
दोलेव मुहुरायाति याति चैव सभां प्रति ॥”)
दोलाद्वाराभ्रमणगुणः । वातकोपनत्वम् । अङ्ग-
स्थैर्य्यबलाग्निकारित्वञ्च । इति राजवल्लभः ॥
अस्य विवरणं चतुर्दोलशब्दे द्रष्टव्यम् ॥

दोलायमानः, त्रि, (दोलां करोतीति । दोला +

क्यङ् । ततः शानच् ।) दोलनविशिष्टः । यथा,
“दोलायमानं गोविन्दं मञ्चस्थं मधुसूदनम् ।
रथस्थं वामनं दृष्ट्वा पुनजन्म न विद्यते ॥”
इत्युतकलखण्डम् ॥

दोलिका, स्त्री, (दोला + स्वार्थे कन् । टापि

अत इत्वम् ।) हिन्दोला । इति हारावली ।
१८१ ॥

दोली, स्त्री, (दोल्यते अनयेति । दोलि + इन् ।

कृदिकारादिति वा ङीष् ।) दोला । इति
शब्दरत्नावली ॥ डुली इति भाषा ॥

दोषः, पुं, (दूष्यते इति । दुष वैकृत्ये + णिच् +

भावे घञ् ।) दूषणम् । यथा, --
“अदाता वंशदोषेण कर्म्मदोषाद्दरिद्रता ।
उन्मादो मातृदोषेण पितृदोषेण मूर्खता ॥”
इति चानक्यम् । ४८ ॥
(दुष्यत्यनेनेति करणे घञ् ।) पापम् । इति
मेदिनी । षे, ४ ॥ वातपित्तकफाः । इति शब्द-
चन्द्रिका ॥ (यथा, --
“नास्ति रोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः ।
अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत् ॥”
इति सुश्रुते । १ । ३५ अध्यायः ॥)
गोवत्सः । इति शब्दरत्नावली ॥ (दुष्यतेऽन्ध-
कारेणेति । दुष् + घञ् । प्रदोषः । यथा, भाग-
वते । ६ । ८ । १९ ।
“देवोऽपराह्णे मघुहोग्रधन्वा
सायं त्रिधामावतु माधवो माम् ।
दोषे हृषीकेश उतार्द्धरात्रे
निशीथ एकोऽवतु पद्मनाभः ॥”)
काव्यगुणेतरः । स च रसाद्यपकर्षकः । यथा,
“मुख्यार्थहतिर्द्दोषो रसश्च मुख्यस्तदाश्रया-
द्वाच्यः ।”
तत्र पददोषा यथा, --
“दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम् ।
निहताथमनुचितार्थं निरर्थकमवाचकं त्रिधा-
श्लीलम् ॥
सन्दिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेत् क्लिष्टम् ।
अविमृष्टविधेयांशं विरुद्धमतिकृत् समासगत-
मेव ॥”
वाक्यदोषो यथा, --
“प्रतिकूलवर्णमुपहतलुप्तविसर्गं विसन्धि हत-
वृत्तम् ।
न्यूनाधिककथितपदं पतत्प्रकर्षं समाप्तपुनरात्तम् ॥
अर्द्धान्तरैकवाचकमभवन्मतयोगमनभिहित-
वाच्यम् ।
अपदस्थपदसमासं सङ्कीर्णगर्भितं प्रसिद्धिहतम् ॥
भग्नप्रक्रमममतपरार्थञ्च वाक्यमेवं तथा ॥”
अर्थदोषा यथा, --
“अर्थोऽपुष्टः कष्टो व्याहतपुनरुक्तदुष्करग्राम्याः ।
सन्दिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च ॥
अनवीकृतः सनियमानियमविशेषाविशेषपरिवृत्तः ।
साकाङ्क्षोऽपदयुक्तः सहचरभिन्नः प्रकाशित-
विरुद्धः ॥
घिध्यनुबादायुक्तस्त्यक्तपुनःस्वीकृतोऽश्लीलः ॥”
रसदोषा यथा, --
“व्यभिचारिरसस्थायिभावानां शब्दवाच्यता ।
कष्टकल्पनया व्यक्तिरनुभावविभावयोः ॥
प्रतिकूलविभावादिग्रहो दीप्तिः पुनः पुनः ।
अकाण्डे प्रथनच्छेदावङ्गस्याप्यतिविस्तृतिः ॥
अङ्गिनोऽननुसन्धानं प्रकृतीनां विपर्य्ययः ।
अनङ्गस्याभिधानञ्च रसे दोषाः स्युरीदृशाः ॥”
उक्तपदादिदोषाः स्थानविशेषे क्वचित् गुणा
भवन्ति । इति काव्यप्रकाशः ॥ * ॥ दोषविशेषा
यथा, राजधर्म्मे ।
“यतः प्रभवति क्रोधः कामो वा भरतर्षभ ! ।
शोकमोहौ विधित्सा च परासुत्वञ्च तद्वद ॥
लोभो मात्सर्य्यमीर्ष्या च कुत्सासूया कृपा
भयम् ॥”
आचमनं विना भक्षणे दोषाभावो यथा, --
“मधुपर्के च सोमे च ताम्बूलस्य च भक्षणे ।
फलमूले चेक्षुदण्डे न दोषं प्राह वै मनुः ॥”
इति कूर्म्मपुराणम् ॥ * ॥
द्बात्रिंशत्प्रकारा दोषा यथा, --
“यानैर्व्वा पादुकैर्व्वापि गमनं भगवत्गृहे ।
देवोतसवाद्यसेवा च अप्रणामस्तदग्रतः ॥
उच्छिष्टे चैव चाशौचे भगवद्वन्दनादिकम् ।
एकहस्तप्रणामस्तु तथा चैकं प्रदक्षिणम् ॥
पादप्रसारणञ्चाग्रे तथा पर्य्यङ्कबन्धनम् ।
शयनं भक्षणञ्चापि मिथ्याभाषणमेव च ॥
उच्चैर्भाषो मिथोजल्पो रोदनादि च विग्रहः ।
निग्रहानुग्रहौ चैव स्त्रीयूथक्रूरभाषणम् ॥
कश्मलावरणञ्चैव परनिन्दा परस्तुतिः ।
गुरौ मौनं निजस्तोत्रं देवतानिन्दनं तथा ॥
अपराधास्तथा विष्णोर्द्बात्रिंशत्परिकीर्त्तिताः ॥”
इति पाद्मे पातालखण्डम् ॥ * ॥
(आततायिमारणे अधर्म्मदण्डो दोषो न भवति ।
यथा, मनुः । ८ । ३५१ ।
“नाततायिवधे दोषो हन्तुर्भवति कश्चन ।
प्रकाशं वाप्रकाशं वा मन्युस्तन्मन्युमृच्छति ॥”
“न कश्चिदपि अधर्म्मदण्डः प्रायश्चित्ताख्यो दोषो
वा भवति ।” इति तट्टीकायां कुल्लूकभट्टः ॥ अष्ट-
वसूनामन्यतमः स च षष्ठः । यथा, भागवते ।
६ । ६ । ११ ।
“द्रोणःप्राणो ध्रुवोऽर्कोऽग्निर्दोषो वसुर्विभावसुः ॥”)

दोषकः, पुं, (दोष एव । स्वार्थे कन् ।) गोवत्सः ।

इति शब्दरत्नावली ॥

दोषग्राही, [न्] त्रि, (दोषं गृह्णातीति । ग्रह +

णिनिः ।) दोषग्रहणकर्त्ता । तत्पर्य्यायः ।
खलः २ पुरोभागी ३ द्विजिह्वः ४ मत्सरी ५ ।
इति हलायुधः ॥
“विसृज्य शूर्पवद्दोषान् गुणान् गृह्णन्ति साधवः ।
दोषग्राही गुणत्यागी चालनीव हि दुर्ज्जनः ॥”
इत्युद्भटः ॥

दोषज्ञः, त्रि, (दोषं जानातीति । दोष + ज्ञा +

“आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।)
पण्डितः । इत्यमरः । २ । ७ । ५ ॥ (यथा,
रघुः । १ । ९३ ।
“अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् ।
सूनुः सूनृतवाक् स्रष्टुः विससर्जोदितश्रियम् ॥”
दोषान् वातपित्तकफान् जानातीति । कः ।)
चिकित्सकः । इति हेमचन्द्रः । ३ । ५ ॥ दोष-
विषयकज्ञानयुक्तश्च ॥

दोषत्रयं, क्ली, (दोषानां वातपित्तकफानां त्रयम् ।)

वातपित्तकफाः । इति राजनिर्घण्टः ॥ (दोषाणां
त्रयम् । यथाह व्यासः ।
“रूपं रूपविवर्ज्जितस्य भवतो ध्यानेन यद्वर्णितं
स्तुत्या निर्व्वचनीयताखिलगुरोर्दूरीकृतं यन्मया ।
व्यापित्वञ्च विनाशितं भगवतो यत्तीर्थयात्रादिना
क्षन्तव्यं जगदीश ! तत् विकलतादोषत्रयं
मामकम् ॥”)
पृष्ठ २/७५४

दोषा, स्त्री, (दुष्यतेऽन्धकारेणेति । दुष् + घञ् +

टाप् ।) रात्रिः । (यथा, आर्य्यासप्तशत्याम् ।
२९८ ।
“दोपदशा कुलयुवतिर्वैदग्ध्येनैव मलिनतामेति ।
दोषा अपि भूषायै गणिकायाः शशिकलायाश्च ॥”
दाम्यत्यनेनेति । दम् + “दमेर्डोसिः ।” उणां ।
२ । ६९ । इति डोसिः । भागुरिमते टाप् ।)
भुजः । इति मेदिनी । षे, १५ ॥

दोषा, व्य, (दुष्यत्यत्रेति । दुष् + “आः समिण्-

निकषिभ्याम् ।” उणां । ४ । १७४ । इत्यत्र ।
“वाहुलकात् दिविदुषिभ्याञ्च ।” इत्युज्ज्वलदत्तोक्तेः
आः ।) “स्वरादिनिपातमव्ययम् ।” १ । १ ।
३७ । इति स्वरादिपाठात् अव्ययत्वम् ।)
नक्तम् । रजन्याम् इत्यथः । इत्यमरः । ३ । ४ । ६ ॥
(यथा, माघे । ४ । ४६ ।
“दोषापि नृनमहिमांशुरसौ किलेति
व्याकोशकोकनदतां दधते नलिन्यः ॥”)
निशामुखम् । इति हेमचन्द्रः ॥

दोषाकरः, पुं, (दोषा रात्रौ करो यस्य । यद्वा,

दोषां करोतीति । दोषा + कृ + बाहुलकात्
टः ।) चन्द्रः । यथा, ज्योतिषतत्त्वे ।
“मूलत्रिकोणनिजमन्दिरगोऽथ पूर्णो
मित्रर्क्षसौम्यगृहगोऽथ तदीक्षितो वा ।
यामित्रवेधविहितानपहृत्य दोषान्
दोषाकरः सुखमनेकविधं विधत्ते ॥”
(यथा च, प्रद्युम्नविजये । ६ । ३ ।
“दोषाकराङ्कमलिनामृतरश्मिता ते
पञ्चप्रसूनशरता च मनोभवस्य ।
प्राणत्वमस्य जगताञ्च समीरणस्य
मन्येऽद्य पुण्यजनतेव निशाचराणाम् ॥”)
दोषाणामाकरश्च ॥

दोषाक्लेशी, स्त्री, (दोषां भुजं क्लिश्नातीति ।

क्लिश् + अण् । गौरादित्वात् ङीष् ।) वनवर्व्व-
रिका । इति राजनिर्घण्टः ॥

दोषातनः, त्रि, (दोषा रात्रौ भवः इति । दोषा +

“सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्यु लौ तुट्च ।”
४ । ३ । २३ । इति ट्युः तुट् च ।) रात्रिभवः ।
इति व्याकरणम् ॥

दोषातिलकः, पुं, (दोषाया रजन्यास्तिलक इव ।)

प्रदीपः । इति त्रिकाण्डशेषः ॥

दोषास्यः, पुं, (दोषा रात्रिरास्यमिव यस्य ।

दोषातिलकत्वादस्य तथात्वम् ।) प्रदीपः । इति
शब्दचन्द्रिका ॥

दोषिकः, पुं, (दोषाः वातपित्तकफाः कारणत्वेन

सन्त्यस्येति । ठन् ।) रोगः । इति शब्दचन्द्रिका ॥

दोषी, [न्] त्रि, (दुष्यतीति । दुष् + “संपृचा-

नुरुधाङ्यमाङ्यसपरिसृसंसृजेति ।” ३ । २ ।
१४२ । इति घिनुण् ।) दोषयुक्तः । अपराधी ।
दोषशब्दादस्त्यर्थे इनिप्रत्ययेन निष्पन्नः इति वा ॥

दोषैकदृक्, [श्] त्रि, (दोषे एवैकस्मिन् न तु

गुणसंघे दृक् ज्ञानमस्येति । यद्वा, दोषमेव एकं
केवलं पश्यतीति । दृश + क्विप् ।) दोषमात्र-
दर्शी । यो गुणं त्यक्त्वा केवलं दोषमेव पश्यति
सः । दोषे एकस्मिन्नेव ज्ञानं यस्य सः । इति
भरतः ॥ तत्पर्य्यायः । पुरोभागी २ । इत्य-
मरः । ३ । १ । ४६ ॥

दोस्थः, पुं, (दोषि हस्ते लक्षणया दोर्व्यापारे वा

तिष्ठतीति । स्था + कः ।) क्रीडा । क्रीडकः ।
सेवा । सेवकः । इति त्रिकाण्डशेषः ॥ दोःस्थिते,
त्रि ॥

दोहः, पुं, (दोग्धि अस्मिन्निति । दुह + आधारे

घञ् ।) दोहनपात्रम् । इति शब्दचन्द्रिका ॥
(यथा, भागवते । ४ । १८ । २७ ।
“एवं पृथ्वादयः पृथ्वीमन्नादाः स्वन्नमात्मनः ।
दोहवत्सादिभेदन क्षीरभेदं कुरूद्बह ! ॥”
दुह्यते इति । दुह् + कर्म्मणि घञ् ।) दुग्धम् ।
(“दुह्यते इति दोहः क्षीरं ह्यो गोदोहस्य
विकारः हैयङ्गवीनम् ।” इति सिद्धान्तकौमुदी ॥
दुह् + भावे घञ् ।) दोहनम् ॥ (यथा, रघुः ।
२ । २३ ।
“दोहावसाने पुनरेव दोग्ध्रीं
भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ॥”)

दोहजं, क्ली, (दोहात् दोहनाज्जायते इति ।

दोह + जन् + डः ।) दुग्धम् । इति शब्दार्थ-
कल्पतरुः ॥

दोहडिका, स्त्री, छन्दोविशेषः । इति छन्दो-

मञ्जरी ॥ दोहा इति भाषा । अस्य विवरणं
छन्दःशब्दे द्रष्टव्यम् ॥

दोहदं, क्ली, (दोहमाकर्षणं ददातीति । दोह +

दा + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति
कः ।) इच्छा । इत्यमरः । १ । ७ । २७ ॥

दोहदः, पुं, क्ली, (दोहमाकर्षं ददातीति । दा +

कः ।) गर्भिण्यभिलाषः । साद इति भाषा ।
तत्पर्य्यायः । दौर्हृदम् २ श्रद्धा ३ लालसा ४ ।
इति हेमचन्द्रः । ३ । २०५ ॥ जातुजः ५ । इति
रत्नकोषः ॥ (यथा, याज्ञवल्क्यसंहितायाम् ।
३ । ७९ ।
“दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ।
वैरूप्यं मरणं वापि तस्मात् कार्य्यं प्रियं स्त्रियाः ॥”)
गर्भचिह्नम् । इति भरतधृतकोषान्तरम् ॥
(पुष्पोद्गमकौषधम् । यथा, रघौ । ८ । ६२ ।
“कुसुमं कृतदोहदस्त्वया
यदशोकोऽयमुदीरयिष्यति ।
अलकाभरणं कथं नु तत्
तव नेष्यामि निवापमाल्यताम् ॥”
यथा च, मेघदूते । ७८ ।
“रक्ताशोकश्चलकिशलयः केशरस्तत्र कान्तः
प्रत्यासन्नः कुरुवकवृतेर्माधवीमण्डपस्य ।
एकः सख्यास्तव सह मया वामपादाभिलाषी
काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥”
अत्र यस्य यो दोहदः स धृतो मल्लिनाथेन
यथा, --
“स्त्रीणां स्पर्शात् प्रियङ्गर्विकसति वकुलः शीधु-
गण्डूषसेकात्
पादाघातादशोकस्तिलककुरुवकौ वीक्षणालिङ्ग-
नाभ्याम् ।
मन्दारो नर्म्मवाक्यात् पटुमृदुहसनात् चम्पको
वक्त्रवातात्
चूतो गीतान्नमेरुर्विकसति च पुरो नर्त्तनात् कर्णि-
कारः ॥”)

दोहदलक्षणं, क्ली, (दोहदस्य गर्भस्य लक्षणं यत्र ।)

वयःसन्धिः । गर्भः । इति मेदिनी । णे, ११७ ॥

दोहदवती, स्त्री, (दोहदो गर्भिण्यभिलाषोऽस्त्यस्या

इति । दोहद + मतुप् मस्य वः । ङीप् च ।)
अन्नपानादिद्रव्यविशेषाभिलाषवती गर्भवती ।
इति भरतः ॥ तत्पर्य्यायः । श्रद्धालुः २ । इत्य-
मरः । २ । ६ । २१ ॥ * ॥ गर्भिणीकर्त्तव्याकर्त्तव्यं
यथा, --
“दित्यां गर्भमथाधत्त कश्यपः प्राह तां पुनः ।
त्वया यत्नो विधातव्यः अस्मिन् गर्भे वरानने ! ॥
संवत्सरशतन्त्वेकमस्मिन्नेव तपोवने ।
सन्ध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि ! ॥
न स्थातव्यं न गन्तव्यं वृक्षमूलेषु सर्व्वदा ।
नोपस्करेषूपविशेन्मुषलोलूखलादिषु ॥
जलञ्च नावगाहेत शून्यागारञ्च वर्ज्जयेत् ।
वल्मीकेषु न तिष्ठेत न चोद्विग्नमना भवेत् ॥
विलिखेन्न नखैर्भूमिं नाङ्गारेण न भस्मना ।
न शयालुः सदा तिष्ठेद्व्यायामञ्च विवर्ज्जयेत् ॥
न तुषाङ्गारभस्मास्थिकपालेषु समाविशेत् ।
वर्ज्जयेत् कलहं लोके गात्रभङ्गञ्च वर्ज्जयेत् ॥
न मुक्तकेशा तिष्ठेत नाशुचिः स्यात् कदाचन ।
न शयीतोत्तरशीरा न चापरशिराः क्वचित् ॥
न वस्त्रहीना नोद्बिग्ना न चार्द्रचरणा सती ।
नामाङ्गल्यां वदेद्बाचं न च हास्याधिकाभवेत् ॥
कुर्य्याच्च गुरुशुश्रूषां नित्यमङ्गलतत्परा ।
सर्व्वौषधीभिः कोष्णेन वारिणा स्नानमाचरेत् ॥
कृतरक्षा सुभूषा च वास्तुपूजनतत्परा ।
तिष्ठेत् प्रसन्नवदना भर्त्तुः प्रियहिते रता ॥
दानशीला तृतीयायां पार्व्वत्या नक्तमाचरेत् ।
इतिवृत्ता भवेन्नारी विशेषेण तु गर्भिणी ॥
यस्तु तस्या भवेत् पुत्त्रः शंतायुर्बुद्धिसंयुतः ।
अन्यथा गर्भपतनमवाप्नोति न संशयः ॥
तस्मात्त्वमनया वृत्त्या गर्भेऽस्मिन् यत्नमाचर ॥”
इति मत्स्यपुराणम् ॥

दोहदान्विता, स्त्री, (दोहदेन गर्भजनिताभि-

लाषेण अन्विता ।) दोहदवती । इति हेम-
चन्द्रः । ३ । २०३ ॥

दोहनं, क्ली, (दुह + भावे ल्युट् ।) स्तनाद्दुग्ध-

निःसारणम् । दोया इति भाषा । दुहधातो-
र्भावेऽनट्प्रत्ययेन निष्पन्नम् ॥ (दुह्यतेऽस्मि-
न्निति । दुह + आधारे ल्युट् । दोहानपात्रम् ।
यथा, महाभारते । १३ । ९४ । ४१ ।
“बालजेन निदानेन कांस्यं भवतु दोहनम् ।
दुह्येत परवत्सेन यस्ते हरति पुष्करम् ॥”)

दोहनी, स्त्री, (दुह्यते अस्यामिति । दुह् + आधारे

ल्युट् । ङीप् ।) दोहनपात्रम् । ततपर्य्यायः ।
पृष्ठ २/७५५
लेपनम् २ पारी ३ दोहः ४ दोहनम् ५ । इति
शब्दरत्नावली ।

दोहलः, पुं, (दोहमाकर्षं लातीति । ला + “आतो

ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।)
दोहदः । इच्छा । इति शब्दार्थकल्पतरुः ॥
(यथा, मालविकाग्निमित्रनाटके । ८ । ४७ ।
“अशोक ! यदि सद्य एव मुकुलैर्न सम्पत्स्यते
मुधा वहसि दोहलं ललितकामिसाधारणम् ॥”)

दोहलवती, स्त्री, (दोहलोऽस्त्यस्या इति मतुप् ।

मस्य वः । ङीप् ।) दोहदवती । इति शब्दार्थ-
कल्पतरुः ॥

दोहली, स्त्री, (दोहं लातीति । ला + कः । गौरा-

दित्वात् ङीष् ।) अशोकवृक्षः । इति राज-
निर्घण्टः ॥ (अशोकशब्देऽस्या विवरणं ज्ञेयम् ॥)

दोहापनयः, पुं, (दोहं दोहनमपनयति स्वनिः-

सरणेनेति । अप + नी + अच् ।) दुग्धम् । इति
त्रिकाण्डशेषः ॥

दोहीयान्, [स्] त्रि, (अयमनयोरतिशयेन दोग्धा ।

“तुश्छन्दसि ।” ५ । ४ । ५९ । इति ईयसुन् ।
“तुरिष्ठेमेयःसु ।” ६ । ४ । १५४ । इति तृशब्दस्य
लोपः ।) अतिशयदोहकः ॥

दोह्यं, त्रि, (दुह्यते इति । दुह् + ण्यत् ।) दोह-

नीयम् । दुह्यम् । दोग्धव्यम् । इति व्याकरणम् ॥
(दुह्यतेऽस्या इति । गोमहिष्यादि । इति
मिताक्षरा ॥ यथा, याज्ञवल्क्ये । २ । १८० ।
“दशैकपञ्चसप्ताहमासत्र्यहार्द्धमासिकम् ।
बीजायोवाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणम् ॥”)

दौःसाधिकः, पुं, (दुर्दुष्टः साधः कर्म्म तत्र

नियुक्तः । ठक् ।) द्वाःस्थितः । द्वारपालः । इति
त्रिकाण्डशेषः ॥

दौकूलं, त्रि, (दुकूलेन परिवृतो रथ इति ।

“परिवृतो रथः ।” ४ । २ । १० । इति अण् ।)
दुकूलेनावृतरथादि । इत्यमरटीकायां भरतः ॥

दौत्यं, क्ली, (दूतस्य भावः कर्म्म वा । ष्यञ् ।)

दूत्यम् । दूतस्य भावः । दूतस्य कर्म्म । इत्यमर-
टीकायां भरतः ॥ (यथा, हरिवंशे । १७२ ।
१८ ।
“दौत्यञ्च तत् कृतं घोरे विग्रहे जनमेजय ! ॥”)

दौरात्म्यं, क्ली, दुर्निन्दित आत्मा यत्नः धृतिः बुद्धिः

स्वभावः शरीरं वा यस्य स दुरात्मा । तस्य
भावकर्म्मार्थे ष्ण्यप्रत्ययः । (ष्यञ् ।) दुरा-
त्मनो भावः । दुरात्मनः कर्म्म । (यथा, महा-
भारते । २ । १५ । ७ ।
“शङ्किताः स्म महाभाग ! दौरात्मात् तस्य
चानघ ! ॥”)

दौर्गन्ध्यं, क्ली, (दुर्दुष्टो गन्धोऽस्य दुर्गन्धः । ततो

भावे ष्यञ् ।) दुर्गन्धता । (यथा, महाभारते ।
३ । २६० । १३ ।
“न संस्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव वा ॥”)
तन्नाशकतैलं यथा, --
“चन्दनं कुङ्कुमं मांसी कर्पूरो जातिपत्रिका ।
जातीकक्कोलपूगानां लवङ्गस्य फलानि च ॥
अगुरूशीरकाश्मर्य्यः कुष्ठं तगरनालिका ।
गोरोचना प्रियङ्गुश्च चोलं मदनकं नखम् ॥
सरलः सप्तपर्णश्च लाक्षा चामलकी तथा ।
कर्चूरकः पद्मकञ्च एतैस्तैलं प्रसाधितम् ॥
प्रस्वेदमलदौर्गन्ध्यकण्डुकुष्ठहरं परम् ॥”
इति गारुडे १९८ अध्यायः ॥

दौर्ग्यं, क्ली, दुर्गवृत्तिधर्म्मः । दुर्गसम्बन्धि । दुर्गस्य

भावः दुर्गस्येदं वेत्यर्थे ष्ण्यप्रत्ययः (ष्यञ्) ॥

दौर्ज्जन्यं, क्ली, दुर्ज्जनस्य भाव इदं वेत्यर्थे ष्ण्य-

प्रत्ययः (ष्यञ् ।) दुर्ज्जनत्वम् । (यथा, महा-
भारते । ६ । १८ । ७६ ।
“तदिदं मम दौर्ज्जन्यं बालिशस्य महीयसि ।
क्षन्तुमर्हति मातस्त्वं दिष्ट्या गर्भो मृतोत्थितः ॥”)

दौर्ब्बल्यं, क्ली, दुर्ब्बलस्य भाव इत्यर्थे ष्ण्यप्रत्ययः

(ष्यञ्) । दुर्ब्बलता । अल्पबलत्वम् । (यथा,
मनुः । ८ । १७१ ।
“अनादेयस्य चादानाद्देयस्य च विवर्ज्जनात् ।
दौर्ब्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥”)

दौर्भागिनेयः, पुं, (दुर्भगाया अपत्यं पुमान् ।

दुर्भगा + “कल्याण्यादीनामिनङ् च ।” ४ । १ ।
१२६ । इति ढक् इनङादेशश्च ।) दुर्भगापुत्त्रः ।
इति शब्दरत्नावली ॥ दुर्भगायाः कन्या दौर्भागि-
नेयी ॥

दौर्भाग्यं, क्ली, दुर्भगस्य दुर्भगाया वा भावः ।

(ष्यञ् । “हृद्भगसिन्ध्वन्ते पूर्ब्बपदस्य च ।”
७ । ३ । १९ । इत्युभयपदबृद्धिः ।) दुर्भगत्वम् ।
यथा, ज्योतिस्तत्त्वे ।
“भुक्त्रा पितृगृहे नारी भुड्क्ते स्वामिगृहे यदि ।
दौर्भाग्यं जायते तस्याः शपन्ति कुलदेवताः ॥”
दुर्भाग्यमेव दौर्भाग्यम् । इति स्वार्थे ष्ण्यप्रत्ययः ॥

दौर्म्मनस्यं, क्ली, दुर्म्मनसो भावः (ष्यञ्) । दुःख-

निबन्धनचित्तावसादः । इति चण्डीटीकायां
नागोजीभट्टः ॥ (यथा, मार्कण्डेये । ८१ । २६ ।
“तेषां कृते मे निःश्वासा दौर्म्मनस्यञ्च जायते ॥”)

दौर्व्वीणं, क्ली, (दूर्व्वाया इदम् । दूर्व्वा + खञ् ।)

इष्टपर्णम् । दूर्व्वारसः । इति मेदिनी । णे, ५३ ॥

दौर्हृदं, क्ली, (दुर्हृदो भावः । युवादित्वात् अण् ।

बाहुलकात् न द्विपदवृद्धिः ।) इच्छा । दोहदम् ।
इति हेमचन्द्रः । ३ । २०५ ॥ (“लब्धदौर्हृदा हि वीर्य्य-
वन्तं चिरायुषञ्च पुत्त्रं जनयति ।” इति सुश्रुते ॥
दूषितहृदयत्वम् । यथा, महाभारते । ५ ।
२६ । १४ ।
“दुर्भाषिणो मन्युवशानुगस्य
कामात्मनो दौर्हृदे भावितस्य ॥”)

दौलेयः, पुं, (दुलेरपत्यमिति । “इतश्चानिञः ।”

४ । १ । १२२ । इति ढक् ।) कच्छपः । इति
हेमचन्द्रः । ४ । ४१५ ॥

दौल्मिः, पुं, (दुल्मस्यापत्यम् । दुल्म + इञ् ।)

इन्द्रः । इति शब्दार्थकल्पतरुः ॥

दौवारिकः, पुं, (द्बारि नियुक्तः । “तत्र नियुक्तः ।”

४ । ४ । ६९ । इति ठक् । ततः “द्वारादीनाञ्च ।”
७ । ३ । ४ । इति न बृद्धिः औ-आगमश्च ।)
द्वाररक्षकः । (यथा, राजतरङ्गिण्याम् । ५ । २८ ।
“राजदौवारिकः श्रीमाञ्छूरस्यासीन्महोदयः ॥”)
तत्पर्य्यायः । द्वाःस्थः २ क्षत्ता ३ दण्डी ४ वेत्र-
धरः ५ । इति हलायुधः ॥ प्रतीहारः ६
प्रतिहारः ७ दर्शकः ८ द्बारी ९ वेतालः १०
द्वारपालकः ११ दौःसाधिकः १२ वर्त्तरूढः १३
गर्व्वाटः १४ दण्डपांशुलः १५ । इति शब्द-
रत्नावली ॥ द्बाःस्थितः १६ वेत्रधारकः १७ वर्त्त-
रूकः १८ दण्डवासी १९ । इति त्रिकाण्डशेषः ॥
तस्य लक्षणं यथा, --
“प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः ।
चित्तग्राहश्च सर्व्वेषां प्रतीहारो विधीयते ॥”
इति मत्स्यपुराणम् ॥
“इङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः ।
अप्रमादी सदा दक्षः प्रतीहारः स उच्यते ॥”
इति चाणक्यम् । १०८ ॥

दौष्कुलेयः, त्रि, (दुष्कुल्स्यापत्यम् । “दुष्कुलात्

ढक् ।” ४ । १ । १४२ । इति ढक् ।) दुष्कुलो-
द्भवः । निन्दितवंशजातः । दुष्कुलशब्दात्
भवार्थे वा ष्णेयप्रत्ययः ॥ (यथा, महाभारते ।
३ । १९३ । २३ ।
“कुले जाताश्च क्लिश्यन्ते दौष्कुलेयवशानुगाः ॥”)

दौष्मन्तिः, पुं, (दुष्मन्तस्यापत्यं पुमान् । दुष्मन्त +

“अत इञ् ।” ४ । १ । ९५ । इति इञ् ।)
दुष्मन्तराजपुत्त्रः । स तु भरतराजः । इति
त्रिकाण्डशेषः ॥ (यथा, महाभारते । १ । ७४ । २ ।
“रूपौदार्य्यगुणोपेतं दौष्मन्तिं जनमेजय ! ॥”)

दौहित्रः, पुं, स्त्री, (दुहितृ + “अनृष्यानन्तर्य्ये विदा-

दिभ्योऽञ् ।” ४ । १ । १०४ । इति अञ् ।)
दुहितुरपत्यम् । इति हेमचन्द्रः । ३ । २०८ ॥
तत्पर्य्यायः । कुतुपः २ । इति शब्दरत्नावली ॥
“त्रीणि श्राद्धे पवित्राणि दौहित्रं कुतुपस्तिलाः ।
दौहित्रं खड्गमित्याहुरपत्यं दुहितुस्तिलाः ॥
कपिलाया घृतञ्चैव दौहित्रमिति चोच्यते ॥”
इति मार्कण्डेयपुराणम् ॥
“पौत्त्रदौहित्रयोर्लोके विशेषो नास्ति कश्चन ।
तयोर्हि मातापितरौ सम्भूतौ तस्य देहतः ॥”
इति दायभागः ॥
दौहित्रोऽपि ह्यमुत्रैनं सन्तारयति पौत्त्रवदिति
मनुः ॥ तदुतपत्तौ कन्यागृहे पितुर्भोजने दोषा-
भावो यथा, --
“कन्यायां ब्रह्मदेयायामभुञ्जन् सुखमश्नुते ।
अथ भुञ्जति यो मोहात् भुक्त्वा स नरकं व्रजेत् ॥
अप्रजायाञ्च कन्यायां न भुञ्जीयात् कदाचन ।
दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचसि ॥
महासत्त्वसमाकीर्णात् नास्ति ते नरकाद्भयम् ॥
तीर्णस्त्वं सर्व्वदुःखेभ्यः परं स्वर्गमवाप्स्यसि ।
दौहित्रस्य तु दानेन नन्दन्ति पितरः सदा ॥
यत्किञ्चित् कुरुते दानं तदानन्त्याय कल्प्यते ॥
मातुः पितुश्च विज्ञेयं तच्छुभस्याभिगामिनः ।
मातुः पितुर्हिरण्यस्य दौहित्रोऽर्द्धमवाप्नुते ॥”
इत्याद्ये वह्निपुराणे कन्यादाननामाध्यायः ॥ * ॥
पृष्ठ २/७५६
शूद्रमात्रस्य दौहित्रो दत्तको भवति ।
यथा, --
“दौहित्रो भागिनेयश्च शूद्रैस्तु क्रियते सुतः ।
ब्राह्मणादित्रये नास्ति भागिनेयसुतः क्वचित् ॥”
इति दत्तकमीमांसाधृतशौनकवचनम् ॥
तस्य मातामहधनाधिकारित्वम् । यथा, --
“दुहित्रभावे दौहित्रः ।
‘पौत्त्रदौहित्रयोर्ल्लोके विशेषो नास्ति धर्म्मतः ।
तयोर्हि मातापितरौ सम्भूतौ तस्य देहतः ॥’
इति मनुवचने पौत्त्रतुल्यत्वाभिधानेन यथा
पुत्त्राभावे पौत्त्रस्तथा दुहित्रभावे दौहित्रः ।
अतएव गोविन्दराजधृतो विष्णुः ।
अपुत्त्रपौत्त्रे संसारे दौहित्रा धनमाप्नुयुः ।
पूर्ब्बेषां हि स्वधाकारे पौत्त्रदौहित्रकाः समाः ॥”
इति दायतत्त्वम् ॥
अपि च, सर्व्वदुहित्रभावे दौहित्रस्य अधिकारः ।
दौहित्रो ह्यखिलं रिक्थमपुत्त्रस्य पितुर्हरेत् ।
स एव दद्यात् द्वौ पिण्डौ पित्रे मातामहाय च ॥
इत्यादिवचनात् । अपुत्त्रस्य इति दुहितृपर्य्यन्ता-
भावोपलक्षणम् ॥ १ ॥ भ्रातृपौत्त्रस्याभावे पितु-
र्द्दौहित्रस्याधिकारः । धनिपित्रादित्रयपिण्ड-
दातृत्वात् ॥ २ ॥ पितुर्द्दौहित्राभावे भ्रातृदौहित्रो-
ऽधिकारी । धनिभोग्यपितृपितामहपिण्डदातृ-
त्वात् ॥ ३ ॥ पितृव्यपौत्त्राभावे पितामहदौहित्रस्य
अधिकारः धनिभोग्यपितामहप्रपितामहपिण्ड-
दातृत्वात् ॥ ४ ॥ पितामहदौहित्र स्याभावे पितृव्य-
दौहित्रस्याधिकारः । धनिभोग्यतत्पितामह-
प्रपितामहपिण्डद्बयदातृत्वात् ॥ ५ ॥ तदभावे
पितामहभ्राता तदभावे पितामहभ्रातृपुत्त्रः
तदभावे पितामहभ्रातृपौत्त्रः । तेषां धनिभोग्य-
तत्प्रपितामहपिण्डदातृत्वात् । ततः प्रपितामह-
दौहित्रोऽधिकारी । धनिभोग्यप्रपितामहपिण्ड-
दातृत्वात् ॥ ६ ॥ प्रपितामहदौहित्राभावे पिता-
महभ्रातृदौहित्रोऽधिकारी । धनिभोग्यप्रपिता-
महपिण्डदातृत्वात् ॥ ७ ॥ पितामहभ्रातृदौहित्रा-
भावे मातामहः । तदभावे मातुलः । तदभावे
मातुलपुत्त्रः । तदभावे मातुलपौत्त्रः । तदभावे
मातामहदौहित्रोऽधिकारी ॥ ८ ॥ मातामह-
दौहित्राभावे प्रमातामहः । तदभावे प्रमाता-
महपुत्त्रः । तदभावे प्रमातामहपौत्त्रः । तदभावे
प्रमातामहप्रपौत्त्रः । तदभावे प्रमातामह-
दौहित्रोऽधिकारी ॥ ९ ॥ प्रमातामहदौहित्रा-
भावे वृद्धप्रमातामहोऽधिकारी । तदभावे वृद्ध-
प्रमातामहपुत्त्रः । तदभावे वृद्धप्रमातामह-
पौत्त्रः । तदभावेवृद्धप्रमातामहप्रपौत्त्रः । तदभावे
वृद्धप्रमातामहदौहित्रोऽधिकारी ॥ १० ॥ स्त्रीधने
तु पुत्त्राभावे दौहित्रोऽधिकारी । पुत्त्राधिका-
रात् प्राक् दुहित्रधिकारश्रुतेः । तद्बाधिकाया
दुहितुः पुत्त्रेण वाध्यपुत्त्रबाधस्यैवन्याय्यत्वात् ॥ ११ ॥
इति श्रीकृष्णतर्कालङ्कारकृतदायक्रमसंग्रहः ॥
श्राद्वे दौहित्रभोजञ्जप्राशस्त्यम् । यथा, --
“व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।
कुतपञ्चासने दद्यात्तिलैश्च विकिरेन्महीम् ॥”
इति मानवे । ३ । २३४ ॥

द्यावाक्षमे, स्त्री, (द्यौश्च क्षमा च । “दिवो द्यावा ।”

६ । ३ । २९ । इति द्यावादेशः ।) स्वर्गपृथिव्यौ ।
इति हेमचन्द्रः । ४ । ४ ॥ द्बिवचनान्तोऽयम् ॥

द्यावापृथिव्यौ, स्त्री, (द्यौश्च पृथिवी च । “दिव-

सश्च पृथिव्याम् ।” ६ । ३ । ३० । इति चात् दिवो
द्यावा ।) स्वर्गपृथीव्यौ । इति हेमचन्द्रः । ४ । ४ ॥
(यथा, मनुः । ३ । ८६ ।
“कुह्वै चैवानुमत्यै च प्रजापतय एव च ।
सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः ॥”)
तद्वैदिकपर्य्यायः । स्वधे १ पुरन्धी २ धिषणे ३
रोदसी ४ क्षोणी ५ अम्भसी ६ नभसी ७ रजसी
८ सदसी ९ सद्मनी १० घृतवती ११ बहुले १२
गभीरे १३ गम्भीरे १४ ओम्ण्यौ १५ चम्बौ १६
पार्श्वौ १७ मही १८ ऊर्व्वी १९ पृथ्वी २०
अदिती २१ अही २२ दूरे २३ अन्ते २४ अणारे
२५ अरे २६ पारे २७ । इति सप्तविंशतिर्द्यावा-
पृथिव्योर्न्नामधेयानि । इति वेदनिघण्टौ ३ अः ।

द्यावाभूमी, स्त्री, (द्यौश्च भूमिश्च । “दिवो द्यावा ।”

६ । ३ । २९ । इति द्यावादेशः ।) स्वर्ग-
पृथिव्यौ । इति हेमचन्द्रः । ४ । ४ ॥ (यथा,
ऋग्वेदे । ४ । ५५ । १ ।
“को वस्त्राता वसवः को वरूता
द्यावःभूमी अदिते त्रासीथां नः ॥”)

द्यु, ल अभिसर्पणे । इति कविकल्पद्रुमः ॥ (अदां-

परं-सकं-अनिट् ।) अभिसर्पणं आभिमुख्येन
गमनम् । ल, द्यौति सिंहो मृगानिव । इति
दुर्गादासः ॥

द्यु, क्ली, (द्यौतीति । द्यु + क्विप् ।) दिनम् ।

गगणम् । स्वर्गः । इति विश्वः ॥

द्युः, पुं, (द्यु + क्विप् ।) अग्निः । इति मेदिनी । ये, २ ॥

द्युगः, पुं, (द्युनि गगने गच्छतीति । गम + डः ।)

पक्षी । इति राजनिर्घण्टः ॥

द्युगणः पुं, (द्यूनां दिनानां गणः ।) अहर्गणः ।

तस्यानयनमाह ।
“कथितकल्पगतोऽर्कसमा गणा
रविगुणो गतमाससमन्वितः ।
खदहनैर्गुणितस्तिथिसंयुतः
पृथगतोऽधिकमाससमाहतात् ॥
रविदिनाप्तगताधिकमासकैः
कृतदिबैः सहितो द्युगणो विधोः ।
पृथगतः पठितावमसंगुणा-
द्बिधुदिनाप्तगतावमवर्ज्जितः ॥
भवति भास्करवासरपूर्ब्बको
दिनगणो रविमध्यमसावनः ।
अधिकमासदिनक्षयशेषतो
द्युघटकादिकमत्र न गृह्यते ॥”
इति सिद्धान्तशिरोमणिः ॥

द्युत्, ऌ ङ दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-अकं-सेट् ।) ऌ, अद्युतत् । ङ, द्योतते
दिद्युते । इति दुर्गादासः ॥

द्युत्, पुं, (द्युत् दीप्तौ + क्विप् ।) किरणः । इति

हेमचन्द्रः । २ । १४ ॥ (द्योतमाने, त्रि । यथा,
ऋग्वेदे । १० । ९९ । २ ।
“स हि द्युता विद्युता वेति साम ॥”
द्यु ल अभिसर्पणे + क्विप् तुगामश्च । अभिगा-
मिनि । यथा, भट्टिः । ५ । ४७ ।
“हरामि रामसौमित्री मृगो भूत्वा मृगद्युतौ ॥”)

द्युतिः, स्त्री, (द्योततेऽनयेति । द्युत् दीप्तौ +

“इगुपधात् कित् ।” उणां ४ । ११९ । इति इन्
स च कित् ।) दीप्तिः । शोभा । इत्यमरः । १ ।
३ । १७ ॥ (यथा, भागवते । ८ । ५ । ४२ ।
“लोभोऽधरात् प्रीतिरुपर्य्यभूद्द्युति-
र्नस्तः पशव्यः स्पर्शेन कामः ॥”)
रश्मिः । इति मेदिनी । ते, २५ ॥ (पुं, चतु-
र्थस्य मनोः ऋषिविशेषः । यथा, हरिवंशे ।
७ । ७५ ।
“चतुर्थस्य तु सावर्णेरृषीन् सप्त निबोध मे ।
द्युतिर्वशिष्ठपुत्त्रश्च आत्रेयः सुतपास्तथा ॥”
तामसस्य मनोः पुत्त्रविशेषः । यथा, तत्रैव ।
७ । २३ ।
“पुत्त्रांश्चैव प्रवक्ष्यामि तामसस्य मनोर्नृपः ।
द्युतिस्तपस्यः सुतपास्तपोमूलस्तपोशनः ॥”)

द्युतिकरः, पुं, (करोतीति । कृ + अच् । द्युतेः

करः ।) ध्रुवः । इति भूरिप्रयोगः । दीप्ति-
कारके, त्रि ॥

द्युतितं, त्रि, (द्युत + क्तः । बाहुलकात् न गुणः ।)

दीप्तिविशिष्टम् । द्योतितम् । इति मुग्धबोध-
व्याकरणम् ॥

द्युनं, क्ली, लग्नात् सप्तमराशिः । इति ज्योतिष-

तत्त्वम् ॥

द्युनिशं, क्ली, (द्यु च निशा च द्बयोः समाहारः ।)

अहोरात्रः । इति व्याकरणम् ॥ यथा, --
“भवति किं द्युनिशं द्युनिवासिनाम् ।”
इति सिद्धान्तशिरोमणिः ॥

द्युनिवासी, [न्] पुं, (द्युनि स्वर्गे निवसतीति ।

नि + वस + णिनिः ।) देवता । स्वर्गवासी ।
इति सिद्धान्तशिरोमणिः ॥

द्युपतिः, पुं, (द्युनो दिनस्य पतिः ।) सूर्य्यः ।

इति हेमचन्द्रः । २ । ११ ॥ (द्युनो स्वर्गस्य
पतिः ।) इन्द्रः ॥

द्युमणिः, पुं, (द्युनो गगनस्य मणिरिव ।) सूर्य्यः ।

(यथा, भागवते । ८ । १० । ३८ ।
“रेणुर्दिशः खं द्युमणिञ्च छादयन्
न्यवर्त्ततासृक्सुतिभिः परिप्लुतात् ॥”)
अर्कवृक्षः । इत्यमरः ॥ (परिशोधितताम्रम् ।
यथा, --
“विषमहौषघभागमधिकोषणा
द्युमणिरक्तकमार्द्रकमर्द्दितम् ॥
द्युमणिः मारितं ताम्रम् ॥” इति भावप्रकाशस्य
मध्यखण्डे १ भागे वातज्वराधिकारे ॥)

द्युमयी, स्त्री, विश्वकर्म्मकन्या । सा सूर्य्यपत्नी ।

इति त्रिकाण्डशेषः ॥
पृष्ठ २/७५७

द्युम्नं, क्ली, (द्युमग्निं मनति अभ्यसत्यस्मै इति ।

म्ना + कः । “धनमिच्छेत् हुताशनात् ।” इति
वचनात् धनफामानां अग्न्याराधनादस्य तथा-
त्वम् ।) धनम् । इत्यमरः । २ । ९ । ९० ॥
(यथा, ऋग्वेदे । २ । २ । १० ।
“अस्माकं द्युम्नमधि पञ्च कृष्टिषूच्चा स्वर्ण शुशु-
चीत दुष्टरम् ॥”
द्युं तेजो मनतीति ।) बलम् । इति मेदिनी ।
ने, ११ ॥ (बलाधायकत्वात् अन्नम् । यथा,
ऋग्वेदे । ९ । ८ । ८ ।
“वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि ॥”)

द्युवा, [न्] पुं, (द्यौतीति । द्यु + “कनिन् युवृ-

षीति ।” उणां १ । १५६ । इति कनिन् ।)
सूर्य्यः । इत्युणादिकोषः ॥ द्यौः । इति संक्षिप्त-
सारे उणादिवृत्तिः ॥

द्युष(स)त्, [द्] पुं, (दिवि स्वर्गे सीदतीति । सद् +

क्विप् । छन्दसि षत्वम् । लोकेऽषत्वम् ।) देवः ।
इति त्रिकाण्डशेषः ॥ (यथा, माघे । १ । ४३ ।
“भयस्य पूर्ब्बावतरन्तरस्विना
मनःसु येन द्युसदां न्यधीयत ॥”)
ग्रहः । इति गोलाध्यायः ॥

द्यूतः, पुं, क्ली, (देवनमिति । दिव्यु क्रीडायाम् +

भावे + क्तः । ऊट् च ।) पाशकादिक्रिया ।
अप्राणिकरणकक्रीडा । जुया इति भाषा । तत्-
पर्य्यायः । अक्षवती २ कैतवम् ३ पणः ४ ।
इत्यमरः । २ । १० । ४५ ॥ (यथा, देवीभाग-
वते । १ । १८ । ५१ ।
“द्यूतक्रीडा तथा प्रोक्ता व्रतानि विविधानि च ॥”)
“द्यूतं समाह्वयञ्चैव राजा राष्ट्रान्निवर्त्तयेत् ।
राजान्तकरणावेतौ द्बौ दोषौ पृथिवीक्षिताम् ॥
प्रकाशमेतत्तास्कर्य्यं यद्देवनसमाह्वयौ ।
तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान् भवेत् ॥
अप्राणिभिर्यत् क्रियते तल्लोके द्यूतमुच्यते ।
प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः ॥
द्यूतं समाह्वयञ्चैव्र यः कुर्य्यात् कारयेत वा ।
तान् सर्व्वान् घातयेद्राजा शूद्रांश्च द्बिजलिङ्गिनः ॥
द्यूतमेतत् पुराकल्पे सृष्टं वैरकरं महत् ।
तस्माद्द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् ॥”
इति मनुः । ९ । २२१-२२७ ॥
कङ्क उवाच ।
“किन्ते द्यूतेन राजेन्द्र ! बहुदोषेण मानद ! ।
देवने बहवो दोषास्तस्मात्तत् परिवर्ज्जयेत् ॥
श्रुतस्ते यदि वा दृष्टः पाण्डवो हि युधिष्ठिरः ।
स राज्यं सुमहत् स्फीतं भ्रातृंश्च त्रिदशो-
पमान् ॥
द्यूते हारितवान् सर्व्वं तस्माद्द्यूतं न रोचये ॥”
इति महाभारते । ४ । ६६ । ३३-३५ ॥

द्यूतकरः, त्रि, (करोतीति । कृ + अच् । द्यूतस्य करः ।)

द्यूतकर्त्ता । जुयारी इति भाषा । तत्पर्य्यायः ।
धार्त्तः २ धूर्त्तः ३ अक्षधूर्त्तः ४ अक्षदेवी ५
दुरोदरः ६ द्यूतकृत् ७ कितवः ८ कृष्णको-
हलः ९ । इति शब्दरत्नावली ॥

द्यूतकारः, त्रि, (द्यूतं कारयतीति । कृ + णिच् +

अच् ।) द्यूतकारयिता । सहियार इति ख्यातः ।
इति भरतः ॥ तत्पर्य्यायः । सभिकः २ । इत्य-
मरः । २ । १० । ४४ ॥ सभीकः ३ । इति शब्द-
रत्नावली ॥ (यथा, पञ्चतन्त्रे । १ । ४३१ ।
“मुहुर्व्विघ्नितकर्म्माणं द्यूतकारं पराजितम् ॥”)

द्यूतकारकः, त्रि, (द्यूतं कारयतीति । द्यूत + कृ +

णिच् + ण्वुल् ।) द्यूतकारयिता ॥

द्यूतकृत्, त्रि, (द्यूतं करोतीति । कृ + क्विप् तुगा-

गमश्च ।) द्यूतकरः । अक्षक्रीडकः । इत्यमरः ।
२ । १० । ४४ ॥

द्यूतपूर्णिमा, स्त्री, (द्यूताय या पूर्णिमा ।) कोजा-

गरपूर्णिमा । इति त्रिकाण्डशेषः ॥

द्यूतपौर्णमासी, स्त्री, (द्यूताय या पौर्णमासी ।)

द्यूतपूर्णिमा । इति भूरिप्रयोगः ॥

द्यूतप्रतिपत्, [द्] स्त्री, (द्यूताय क्रीडार्थं या

प्रतिपत् ।) कार्त्तिकशुक्लप्रतिपत् । सा च
कौमुदी । यथा, --
“तुष्ट्यर्थं कार्त्तिके तस्य शुक्ला या प्रतिपत्तिथिः ।
विष्णोर्दत्ता मही तत्र कौमुदी सा स्मृता बुधैः ॥
कुशब्देन मही ज्ञेया मुदा हर्षे च वै द्बिज ! ।
धातुज्ञैः सर्व्वशब्दज्ञैः सा च वै कौमुदी स्मृता ॥”
इति पाद्मोत्तरखण्डम् ॥ * ॥
अत्र तिथौ बलिदैत्यपूजादि कार्य्यम् । तद्यथा,
“वामनपुराणे कार्त्तिकशुक्लपक्षमधिकृत्य बलि-
म्प्रति भगवद्वाक्यम् ।
वीरप्रतिपदा नाम तव भावी महोत्सवः ।
अत्र त्वां नरशार्द्दूल ! हृष्टाः पुष्टाः स्वलङ्कृताः ॥
पुष्पदीपप्रदानेन पूजयिष्यन्ति मानवाः ॥
अत्र मन्त्रः ।
बलिराज ! नमस्तुभ्यं विरोचनसुत ! प्रभो ।
भविष्येन्द्र सुराराते ! पूजेयं प्रतिगृह्यताम् ॥
ब्रह्मपुराणे तु बलिराजेतिमन्त्रस्य पूर्ब्बम् ।
मन्त्रेणानेन राजेन्द्र ! समन्त्री सपुरोहितः ॥
इत्यर्द्धम् । पश्चादपि ।
एवं पूजां नृपः कृत्वा रात्रौ जागरणं चरेत् ।
इत्युक्तम् ॥ पुनर्ब्रह्मपुराणे ।
शङ्करश्च पुरा द्यूतं ससर्ज्ज सुमनोहरम् ।
कार्त्तिके शुक्लपक्षे तु प्रथमेऽहनि भूपते ! ॥
जितश्च शङ्करस्तत्र जयं लेभे च पार्व्वती ।
अतोऽर्थाच्छङ्करो दुःखी गौरी नित्यं सुखोषिता ॥
तस्मात् द्यूतं प्रकर्त्तव्यं प्रभाते तत्र मानवैः ।
तस्मिन् द्यूते जयो यस्य तस्य संवत्सरः शुभः ॥
पराजयो विरुद्धश्च लब्धनाशकरो भवेत् ॥
भविष्योत्तरे ।
यो यो यादृशभावेन तिष्ठत्यस्यां युधिष्ठिर ! ।
हर्षदैन्यादिना तेन तस्य वर्षं प्रयाति हि ॥
महापुण्या तिथिरियं बलिराज्यप्रवर्द्धिनी ।
स्नानं दानं शतगुणं कार्त्तिकेऽस्यां तिथौ भवेत् ॥”
इति तिथितत्त्वम् ॥

द्यूतबीजं, क्ली, (द्यूतस्य बीजं कारणम् ।) कप-

र्द्दकः । इति त्रिकाण्डशेषः ॥ द्यूतस्य कारणञ्च ॥

द्यूनं, क्ली, लग्नात् सप्तमराशिः । यथा, --

“धीस्थानं पञ्चमं ज्ञेयं यामित्रं सप्तमं स्मृतम् ।
द्युनं द्यूनं तधास्ताख्यं षट्कोणं रिपुमन्दिरम् ॥”
इति ज्योतिस्तत्त्वम् ॥
(दिव् + क्तः । “दिवोऽविजिगीषायाम् ।” ८ ।
२ । ४९ । इति निष्ठातस्य नः । च्छ्वोरित्यूट् ।
क्षीणे, त्रि ॥)

द्यै, न्यक्वरणे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-अनिट् ।) अन्त्यस्थाद्ययुक्तः । द्यायति दुष्टं
लोकः । इति दुर्गादासः ॥

द्योतः, पुं, (द्युत् + भावे घञ् ।) प्रकाशः ।

(यथा, हरिवंशे । २३३ । २४ ।
“विद्युद्द्योतनिकाशेन मुकुटेनार्कवर्च्चसा ॥”)
आतपः । इत्यमरः । १ । ४ । ३४ ॥

द्योतनं, क्ली, (द्युत् + भावे ल्युट् ।) दर्शनम् । इति

हेमचन्द्रः । ३ । २४१ ॥ प्रकाशनम् ॥ (द्यूत् + युच् ।
द्योतमाने, त्रि । यथा, भट्टिः । ७ । १५ ।
“विलोक्य द्योतनं चन्द्रं लक्षणं शोचनोऽवदत् ॥”)

द्योतनः, पुं, (द्योततीति । द्युत + “बहुलमन्य-

त्रापि ।” उणां २ । ७८ । इति युच् ।) दीपः ।
इत्युणादिकोषः ॥

द्योतितं, त्रि, (द्युत + क्तः ।) द्युतितम् । दीप्तम् ।

इति मुग्धबोधव्याकरणम् ॥ (यथा, रामायणे ।
२ । ८२ । २ ।
“वस्त्राङ्गरागप्रभया द्योतिता सा सभोत्तमा ॥”)

द्योभूमिः, पुं, (द्यौराकाशं भूमिरिव यस्य ।)

पक्षी । इति शब्दचन्द्रिका ॥ स्वर्गपृथिव्योः स्त्री ।
तत्र द्विवचनान्तः ॥

द्योषत्, [द्] पुं, (द्यवि स्वर्गे सीदतीति । सद् +

क्विप् ।) देवः । इति शब्दरत्नावली ॥

द्यौः, [ओ] स्त्री, (द्योतन्ते देवा यत्र । द्युत् +

बाहुलकात् डोः ।) स्वर्गः । (यथा, महा-
भारते । १ । ७४ । २८ ।
“आदित्यचन्द्रावनिलोऽनलश्च
द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये
धर्म्मश्च जानाति नरस्य वृत्तम् ॥”)
आकाशम् । इत्यमरः । १ । १ । ६ ॥ (पुं, अष्ट-
वसूनामन्यतमः । यथा, देवीभागवते । २ । ३ । ३५ ।
“पृथ्वादीनां वसूनाञ्च गध्ये कोऽपि वसूत्तमः ।
द्यौर्नामा तस्य भार्य्या या नन्दिनीं गां ददर्श ह ॥”
अयमेव वशिष्ठशापात् पृथिव्यां जन्म परि-
गृह्णन् भीष्म इति नाम्ना विख्यात आसीत् ॥
अस्य विवरणन्तु देवीभागवते २ स्कन्धे ३ अध्याये
तथा महाभारते । १ । ९९ अध्याये द्रष्टव्यम् ॥)

द्यौत्त्रं, क्ली, (दीव्यत्यस्मिन्निति । दिव + “दिवे

र्द्युच्च ।” उणां ४ । १६० । इति ष्ट्रन् द्युदा-
देशो वृद्धिश्च ।) ज्योतिः । इति संक्षिप्तसारे
उणादिवृत्तिः ॥

द्रगडः, पुं, वाद्यविशेषः । दगड इति भाषा । तत्-

पर्य्यायः । प्रतिपत्तूर्य्यम् २ । इति त्रिकाण्ड-
शेषः ॥
पृष्ठ २/७५८

द्रङ्क्षणं, क्ली, (द्राङ्क्षत्यनेनेति । द्राङ्क्ष आकाङ्क्षायाम्

+ ल्युट् । पृषोदरादित्वात् ह्रस्वः ।) तोलकम् ।
इति शब्दमाला ॥ तत्पर्य्यायः । कोलम् २
वटकम् ३ कर्षार्द्धम् ४ । इति वैद्यकपरिभाषा ॥
(पुंलिङ्गेऽपि । यथा, --
“ -- तद्द्वयं कोल उच्यते ।
क्षुद्रको वटकश्चैव द्रङ्क्षणः स निगद्यते ॥”
इति पूर्ब्बखण्डे प्रथमेऽध्याये शार्ङ्गधरेणोक्तम् ॥)

द्रङ्गः, त्रि, पुरी । इति हेमचन्द्रः । ४ । ३७ ॥ (यथा,

राजतरङ्गिण्याम् । ८ । २०११ ।
“तेन स्वनाम्ना भाण्डेषु द्रङ्गे सिन्धुरमुद्रणा ॥”)

द्रढिमा, [न्] पुं, (दृढस्य भावः । दृढ + “पृथ्वा-

दिभ्य इमनिज्वा ।” ५ । १ । १२२ । इति इम-
निच् । “र ऋतो हलादेर्लघोः ।” ६ । ४ । १६१ ।
इति ऋकारस्य रकारः ।) दृढता ॥ (यथा,
शिवशतके । ४३ ।
“लघुगुरुतुलनातुलाप्रकाण्ड-
द्रढिमगुणः स भवद्गुणत्रयस्य ॥”)

द्रढिष्ठः, त्रि, अयमनयोरेषां वा अतिशयेन दृढः ।

इत्यर्थे इष्ठप्रत्ययेन साध्यः । द्रढीयान् ॥

द्रप्स्यं, क्ली, (तृप्यन्त्यनेनेति । तृप + अघ्न्यादयश्च ।

इति निपातनात् साधुः ।) घनेतरदधि । वया
दै इति भाषा । इत्यमरः । २ । ९ । ५१ ॥
अस्य रूपान्तराणि । द्रप्सम् २ द्राप्सम् ३
त्रप्स्यम् ४ । इति तट्टीकायां भरतः ॥ (शुक्रम् ।
इति विरुक्तम् । ५ । १४ ॥ त्रि, द्रुतगमनशीलः ।
द्रुतहननशीलः । यथा, ऋग्वेदे । ९ । ६९ । २ ।
“पवमानः सन्तनिः प्रघ्नतामिव
मधुमान् दप्स्यः परिवारमर्षति ॥”)

द्रम, गतौ । इति कविकल्पद्रुमः । (भ्वां-परं-सकं-

सेट् ।) दन्त्यवर्गतृतीयादिः । द्रमति । इति
दुर्गादासः ॥

द्रवः, पुं, (द्रु + “ऋदोरप् ।” ३ । ३ । ५७ । इति भावे

अप् ।) परीहासः । पलायनम् । इत्यमरः ।
१ । ७ । ३२ ॥ (यथा, हरिवंशे । २११ । १० ।
“ततो दैत्यद्रवकरं पौराणं शङ्खमुत्तमम् ॥”)
रसः । गतिः । इति विश्वः ॥ वेगः । इति शब्द-
रत्नावली ॥ (यथा, हरिवंशे । १९३ । ५ ।
“तत्र शब्दगतिर्भूत्वा मारुतद्रवसम्भवः ॥”
द्रवत्वरूपो गुणविशेषः । यथा, भाषापरि-
च्छेदे । २८ ।
“गुरुणी द्वे रसवती द्वयोर्नैमित्तिको द्रवः ॥”
आर्द्रे, त्रि । यथा, रघुः । ७ । ७ ।
“प्रसाधिकालम्बितमग्रपाद-
माक्षिप्य काचित् द्रवरागमेव ॥”)

द्रवजः, पुं, (द्रवात् जायते इति । जन् + डः ।) गुडः ।

इति राजनिर्घण्टः ॥ द्रवजातवस्तुमात्रञ्च ॥

द्रवणं, क्ली, (द्रु + भावे ल्युट् ।) गमनम् । (यथा,

हरिवंशे । १९६ । ३९ ।
“ते रुदन्तो द्रवन्तश्च भगवन्तं पितामहम् ।
रोदनाद्द्रवणात् चैव ततो रुद्रा इति स्मृताः ॥”)
क्षरणम् । अनुतापः ॥ द्रुधातोर्भावेऽनट् ॥

द्रवत्वं, क्ली, (द्रव + त्व ।) द्रवस्य भावः । तद्द्वि-

विधम् । यथा, --
“सांसिद्धिकं द्रवत्वं स्यात् नैमित्तिकमुदाहृतम् ।
सांसिद्धिकन्तु सलिले द्बितीयं क्षितितेजसोः ॥
परमाणौ जले नित्यमन्यतोऽनित्यमुच्यते ।
नैमित्तिकं वह्नियोगात्तपनीयघृतादिषु ॥
द्रवत्वं स्यन्दने हेतुर्निमित्तं संग्रहे तु तत् ॥”
इति भाषापरिच्छेदः ॥

द्रवत्पत्री, स्त्री, (द्रवत् पत्रं यस्याः । ङीष् ।)

शिमृडीवृक्षः । इति राजनिर्घण्टः ॥

द्रवन्ती, स्त्री, (द्रवतीति । द्रु + शतृ + ङीप् ।)

नदी । इति शब्दरत्नावली ॥ मूषिकपर्णी ।
मूषाकाणी छोटा इति भोयनी इति च हिन्दी
भाषा । तत्पर्य्यायः । शम्बरी २ चित्रा ३
न्यग्रोधी ४ शतमूलिका ५ प्रत्यक्श्रेणी ६ वृषा
७ चण्डा ८ पत्रश्रेणी ९ आखुकर्णिका १०
मूषिककर्णी ११ प्रतिपर्णशिफा १२ सहस्र-
मूली १३ विक्रान्ता १४ । अस्य गुणाः । मधुर-
त्वम् । शीतत्वम् । रसबन्धकारित्वम् । ज्वरक्रिमि-
नाशित्वम् । शूलशमनत्वम् । रसायनत्वञ्च ।
इति राजनिर्घण्टः ॥

द्रवरसा, स्त्री, (द्रवो रसो यस्याः ।) लाक्षा । इति

राजनिर्घण्टः ॥

द्रवाधारः, पुं, (द्रवाणां द्रव्याणामाधारः ।) चुलुकः ।

इति शब्दार्थकल्पतरुः ॥ द्रवद्रव्यरक्षापात्रञ्च ॥

द्रविडी; स्त्री, रागिणीविशेषः । इति हलायुधः ॥

द्रविणं, क्ली, (द्रवति गच्छति द्रूयते प्राप्यते वेति ।

द्रु + “द्रुदक्षिभ्यामिनन् ।” उणां । २ । ५० । इति
इनन् ।) धनम् । (यथाह कश्चित् ।
“द्रविणं परिमितममितव्ययिनं जनमाकुली-
कुरुते ।
क्षीणाञ्चलमिव पीनस्तनजधजायाःकुलीनायाः ॥”)
काञ्चनम् । बलम् । इत्यमरमेदिनीकरौ ॥ (यथा,
महाभारते । १ । १०३ । १९ ।
“एवमुक्ता तु पुत्त्रेण भूरिद्रविणतेजसा ।
माता सत्यवती भीष्ममुवाच तदनन्तरम् ॥”
पुं, धरनाम्नो वसोः पुत्त्रविशेषः । यथा, महा-
भारते । १ । ६६ । २१ ।
“धरस्य पुत्त्रो द्रविणो हुतहव्यवहस्तथा ॥”
पृथोः पुत्त्रविशेषश्च । यथा, भागवते । ४ । २२ । ५४ ।
“पुत्त्रानुत्पादयामास पञ्चार्च्चिष्यात्मसम्मतान् ।
विजिताश्वं धूम्रकेशं हर्य्यक्षं द्रविणं वृकम् ॥”
कुशद्वीपस्थितसीमागिरिभेदः । यथा, भाग-
वते । ५ । २० । १५ ।
“तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाताः
सप्तसप्तैव वभ्रुश्चतुः शृङ्गः कपिलश्चित्रकूटो देवा-
नीक ऊर्द्ध्वरोमा द्रविण इति ॥” क्रौञ्चद्वीपस्थ-
वर्षपुरुषविशेषः । यथा, भागवते । ५ । २० । २२ ।
“यासामग्भः पवित्रममलमुपयुञ्जानाः पुरुषर्षभ-
द्रविणदेवकसंज्ञा वर्षपुरुषाः ॥”)

द्रविणनाशनः, पुं, (नाशयतीति । नाशि + ल्युः ।

द्रविणानां नाशनः । तत्सेवनेन धनविनाशात्
अस्य तथात्वम् ।) शोभाञ्जनवृक्षः । इति शब्द-
रत्नावली ॥

द्रविणोदाः, [स्] पुं, अग्निः । अस्य निरुक्ति-

र्यथा, --
“द्रविणं बलमित्युक्तं धनञ्च द्रविणं ततः ।
ददाति तद्भवानेन द्रविणोदास्ततो भव ॥”
इति वराहपुराणम् ॥
(धनप्रदे, त्रि । यथा, ऋग्वेदे । १ । १५ । ७ ।
“द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे ॥”
“कीदृशं देवं द्रविणोदाः धनप्रदम् । यद्बा, धन-
प्रदोऽग्निः सोमं पिबत्विति शेषः । तमेतं मन्त्रं
यास्क एवं निर्वक्ति, -- द्रविणोदाः कस्मात् धनं
द्रविणमुच्यते यदेनदभिद्रवन्ति बलं वा द्रविणं
यदेनेनाभिद्रवन्ति तस्य दाता द्रविणोदास्तस्यैषा
भवति द्रविणोदा द्रविण स इत्यादि सोऽयं
यास्कोक्तो निर्व्वचनप्रपञ्चः तस्मिन्नेव ग्रन्थेऽव
गन्तव्यः । द्रविणोदाः द्रुदक्षिभ्यामिनन् नित्त्वा-
दाद्युदात्तोद्रविणशब्दः तद्ददातीति द्रविणोदाः ।
क्विप्चेति क्विप् । पूर्ब्बपदस्य सकारोपजनश्छान्दसः ।
रुत्वोत्वे । कृदुत्तरपदप्रकृतिस्वरत्वम् । देवविशे-
षणत्वेनैकवाक्यतापक्षे द्वितीयायाः सुस्वादेशः ।
अथवा द्रविणमात्मन इच्छन्ति द्रविणस्यन्ति । सुप
आत्मनः क्यच् सर्व्वप्रातिपदिकेभ्यो लालसायां
सुग्वक्तव्य इति क्यचि परतः सुगागमः द्रविण-
स्यतेः सम्पदादित्वाद्भावे क्विप् । अतो लोपः ।
क्वौलुप्तं न स्थानिवद्भवतीति तस्य स्यानिवत्त्व-
प्रतिषेधाद्यलोपः एवंद्रविणस् शब्दो धनेच्छा-
वचनः । द्रविणेच्छान्दस्यति यथेष्टधनप्रदाने-
नोपक्षयतीत्यर्थे तसु उपक्षये इत्यस्मादन्तर्भावि-
तण्यर्थात् क्विप्चेति क्विप् । एवं द्रविणोदःशब्दः
सकारान्तो भवति । तथा द्राविणोदसाः प्रवादा
भवन्तीतिनैरुक्तो व्यवहार उपपद्यते अतो-
द्रविणोदस्शब्दः भिन्नवाक्यत्वे स्वार्थे प्रथमा ।
एकवाक्यत्वे तु व्यत्ययेन द्वितीयार्थो भवति
द्रविणस इत्यत्रापि वाक्यभेदपक्षे द्रविणसः सोम-
स्येत्यर्थे सकारोपजनश्छान्दसः । आद्युदात्तत्वन्तु
नियमेन स्थितम् । ऋत्विग्विशेषणत्वेनैकवाक्यत्व-
पक्षेतु क्यजन्तात् क्विप् । अतो लोपादिपूर्ब्बवत् ।
अत्र तु पक्षे क्यचश्चित्त्वेनान्तोदात्तत्वे प्राप्ते
व्यत्ययेनाद्युदात्तम् ॥” इति सायनः ॥)

द्रवीकरणं, क्ली, अद्रवस्य द्रवकरणम् । इति च्विप्र-

त्ययेन साध्यम् ॥ गलान इति भाषा ॥

द्रव्यं, क्ली, (द्रोरिव । द्रु + “द्रव्यञ्च भव्ये ।” ५ ।

३ । १०४ । इति यत्प्रत्ययेन निपातनात्
साधुः ।) वस्तु । (यथा, मनुः । ७ । ९ ।
“एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् ।
कुलं दहति राजाग्निः सपशुद्रव्यसञ्चयम् ॥”)
तस्य क्रियाविशेषे नवपुराणभेदेन प्रशस्तत्वं
यथा, --
“द्रव्याण्यभिनवान्येव प्रशस्तानि क्रियाविधौ ।
ऋते गुडघृतक्षौद्रधान्यकृष्णाविडङ्गतः ॥”
इति नारायणदासकृतपरिभाषा ॥
पृष्ठ २/७५९
(“केचिदाचार्य्या ब्रुवते द्रव्यं प्रधानं कस्माद्-
व्यवस्थितत्वादिह खलु द्रव्यं व्यवस्थितम् । न
रसादयो यथा ये फले ये रसादयस्ते पक्वे न
सन्ति । नित्यत्वाच्च नित्यं हि द्रव्यमनित्या गुणा
यथा कल्कादिप्रविभागः स एव सम्पन्नरसगन्धो
व्यापन्नरसगन्धो वा भवति । स्वजात्यवस्थानाच्च
यथा हि पार्थिवं द्रव्यमन्यभावं न गच्छत्येवं
शेषाणि । पञ्चेन्द्रियग्रहणाच्च पञ्चभिरिन्द्रियै-
र्गृह्यते द्रव्यं न रसादयः । आश्रयत्वाच्च द्रव्य-
माश्रिता रसादयो भवन्ति । आरम्भसामर्थ्याच्च
द्रव्याश्रित आरम्भो यथा विदारिगन्धादिमाहृत्य
सङ्क्षुद्य विपचेदित्येवमादिषु न रसादिष्वारम्भः ।
शास्त्रप्रामाण्याच्च शास्त्रे हि द्रव्यं प्रधानमुप-
देशे हि योगानां यथा मातुलुङ्गाग्निमन्थौ चेति
न रसादय उपदिश्यन्ते । क्रमापेक्षितत्वाच्च
रसादीनां रसादयो हि द्रव्यक्रममपेक्षन्ते यथा
तरुणे तरुणाः सम्पूर्णे सम्पूर्णा इति । एकदेश-
साध्यत्वाच्च द्रव्याणामेकदेशेनापि व्याधयःसाध्यन्ते
यथा महावृक्षक्षीरेणेति तस्माद्द्रव्यं प्रधानं द्रव्य-
लक्षणन्तु क्रियागुणवत्समवायिकारणमिति ।”
“पाको नास्ति विना वीर्य्याद्वीर्य्यं नास्ति विना
रसात् ।
रसो नास्ति विना द्रव्याद्द्रव्यं श्रेष्ठमतः स्मृतम् ॥”
“वीर्य्यसंज्ञा गुणा येऽष्टौ तेऽपि द्रव्याश्रयाः स्मृताः ।
रसेषु न वसन्त्येते निर्गुणास्तु गुणाः स्मृताः ॥
द्रव्ये द्रव्याणि यस्माद्धि विपच्यन्ते न षड्रसाः ।
श्रेष्ठं द्रव्यमतो ज्ञेयं शेषा भावास्तदाश्रयाः ॥”
इति सुश्रुते । १ । ४० ॥)
पित्तलम् । वित्तम् । पृथिव्यादि । विलेपनम् ।
क्लीवम् । भेषजम् । भव्यम् । (द्रोर्विकारः ।
“द्रोश्च ।” ४ । ३ । १६१ । इति यत् ।) द्रुम-
विकारे, त्रि । इति मेदिनी । ये, २९ ॥ (द्रुमा-
वयवः । इति सिद्धान्तकौमुदी ॥) जतु । विनयः ।
इति हेमचन्द्रः ॥ मद्यम् । यथा, --
“सशब्दं न पिबेद्द्रव्यम् ।” इति कुलार्णवतन्त्रम् ॥
न्यायमते तन्नवविंधं यथा, --
“क्षित्यप्तेजोमरुद्व्योमकाला दिग्देहिनौ मनः ।”
तेषां साधर्म्म्यादि यथा, --
“क्षित्यादीनां नवानान्तु द्रव्यत्वगुणयोगिता ।
क्षितिर्जलं तथा तेजः पवनो मन एव च ॥
परापरत्वमूर्त्तत्वक्रियावेगाश्रया अमी ।
कालखात्मदिशां सर्व्वगतत्वं परमं महत् ॥
क्षित्यादिपञ्चभूतानि चत्वारि स्पर्शवन्ति हि ।
द्रव्यारम्भश्चतुर्षु स्यादथाकाशशरीरिणाम् ॥
अव्याप्यवृत्तिः क्षणिको विशेषगुण इष्यते ।
रुपद्रवत्वप्रत्यक्षयोगि स्यात् प्रथमं त्रिकम् ॥
गुरुणी द्वे रसवती द्वयोर्नैमित्तिको द्रवः ।
आत्मानो भूतवर्गाश्च विशेषगुणयोगिनः ॥”
इति भाषापरिच्छेदः ॥
द्रव्यहस्तभक्षणादिदोषादोषौ यथा, --
“उच्चावचान्नपानेषु द्रव्यहस्तो भवेन्नरः ।
भूमौ निःक्षिप्य तद्दव्यमाचम्याभ्युक्षयेत्तु तत् ॥
तैजसं वै समादाय यद्युच्छिष्टो भवेद्द्बिजः ।
भूमौ निःक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत् ॥
यद्यद्द्रव्यं समादाय भवेदुच्छेषणान्वितः ।
अनिधायेतरद्द्रव्यमाचान्तः शुचितामियात् ॥
वस्त्रादिषु विकल्पः स्यात्तत् स्पृष्ट्वा चाचमेदिह ।
अरण्येऽनुदके रात्रौ चौरव्याघ्राकुले पथि ।
कृत्वा मूत्रपुरीषं वा द्रव्यहस्तो न दुष्यति ॥”
इति कूर्म्मपुराणम् ॥

द्रा, ल स्वप्ने । पलायने । इति कविकल्पद्रुमः ॥

(अदां-परं-अकं-अनिट् ।) स्वप्नो निद्रा । निपूर्ब्ब
एव निद्रायामिति रमानाथः । ल, निद्राति
निद्रालुः । द्राति चौरः पलायते इत्यर्थः । इति
दुर्गादासः ॥

द्राक्, व्य, (द्रातीति । द्रा + बाहुलकात् कुः ।)

द्रुतम् । शीघ्रम् । इत्यमरः । ३ । ४ । २ ॥
(यथा, नैषधे । ३ । २ ।
“आकस्मिकः पक्षपुटाहतायाः
क्षितेस्तदा यः स्वन उच्चचार ।
द्रागन्यविन्यस्तदृशः स तस्याः
सम्भ्रान्तमन्तःकरणं चकार ॥”)

द्राक्ष, इ काङ्क्षे । घोररुते । इति कविकल्पद्रुमः ॥

(भ्वां-परं-सकं-अकंच-सेट् ।) रेफयुक्तः । घोर-
रुतमिह तिरश्चामेव घोरशब्दः । इ, द्राङ्क्षति
काकः । नमध्यपाठेनैवेष्टसिद्धे एतस्य इदनुबन्धो
वेदेषूच्चारणभेदार्थः । इति दुर्गादासः ॥

द्राक्षा, स्त्री, (द्राङ्क्ष्यते काङ्क्यते इति । द्राक्षि

काङ्क्षे + घञ् । आगमशासनस्यानित्यत्वात् न
लोपः ।) फलविशेषः । दाख इति किश्मिश्
इति च भाषा । आङ्गूर इति यवनभाषा ।
तत्पर्य्यायः । मृद्वीका २ गोस्तनी ३ स्वाद्वी ४
मधुरसा ५ । इत्यमरः । २ । ४ । १०७ ॥ चारु-
फला ६ कृष्णा ७ प्रियाला ८ तापसप्रिया ९
गुच्छफला १० रसाला ११ अमृतफला १२
कृष्ण १३ चारुफला १४ । इति जटाधरः ॥
रसा १५ । इति शब्दरत्नावली ॥ अस्य
गुणाः । अतिमधुरत्वम् । अम्लत्वम् । शीत-
पित्तार्त्तिदाहमूत्रदोषनाशित्वम् । रुच्यत्वम् ।
वृष्यत्वम् । सन्तर्पणत्वञ्च । इति राजनिर्घण्टः ॥
स्निग्धत्वम् । शीतबलकारित्वम् । हृद्यत्वम् ।
तृष्णावायुरक्तपित्तक्षतक्षीणतानाशित्वञ्च । इति
राजवल्लभः ॥

द्राख, ऋ ओखार्थे । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-सेट् ।) दन्त्यवर्गतृतीयादिः । रेफ-
युक्तः । ऋ, अदद्राखत् । ओखार्थे शोषाल-
मर्थयोः । इति दुर्गादासः ॥

द्राघ, ऋ ङ श्रमायामशक्तिषु । इति कविकल्प-

द्रुमः ॥ (भ्वां-परं-अकं-दीर्घीकरणे सकं-सेट् ।)
श्रमः खेदः । आयामो दीर्घीकरणम् । शक्तिः
सामर्थ्यम् । ऋ, अदद्राघत् । ङ, द्राघते जनः
खेद्यते इत्यर्थः । द्राघते वस्त्रं जनो दीर्घं करोति
इत्यर्थः । द्राघते घावितुं वाजी समर्थः स्यादि-
त्यर्थः । इति दुर्गादासः ॥

द्राधिमा, [न्] पुं, दीर्घस्य भावः । (दीर्घ + इम-

निच् । “प्रियस्थिरस्फिरोरुबहुलेति ।” ६ । ४ ।
१५७ । इति द्राधादेशः ।) दीर्घत्वम् । इति
व्याकरणम् ॥ भूगोलस्य दीर्घता । इत्याधुनिक-
ज्योतिषिकाः ॥

द्राघिष्ठः, त्रि, (अतिशयेन दीर्घः इति । दीर्घ +

इष्ठन् । दीर्घस्य द्राघादेशः ।) अतिदीर्घः ।
इत्यमरः । ३ । १ । ११२ ॥

द्राड, ऋ ङ शीर्णौ । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) रेफयुक्तः । ऋ, अदद्राडत ।
ङ, द्राडते । शीर्णौ विभेदे । इति दुर्गादासः ॥

द्राणः, त्रि, (द्रा + कर्त्तरि क्तः । निष्ठातस्य नः ।

णत्वञ्च ।) सुप्तः । पलायितः ॥

द्रापः, पुं, (द्रापयतीति । द्रा + णिच् । पुगागमे

द्रापि + अच् ।) पङ्कः । आकाशः । कपर्दी ।
भूर्खः । इति शब्दार्थकल्पतरुः ॥

द्रामिलः, पुं, (द्रमिलाख्यो देशोऽभिजनोऽस्येति ।

अण् ।) चाणक्यमुनिः । इति हेमचन्द्रः । ३ । ५१७ ॥

द्रावः, पुं, द्रुधातोर्भावे घञ् प्रत्ययः । गमनम् ।

स्रवणम् । अनुतापः ॥

द्रावकं, क्ली, (द्रवति द्रावयति वा । द्रु द्रावि

वा + ण्वु ल् ।) सिक्थकम् । इति राजनिर्घण्टः ॥
प्लीहरोगस्य औषधविशेषः । (यथा, --
“स्फटिकारीद्बयञ्चैव पलं द्बिपलिकन्तथा ।
नरसारं पलं देयं टङ्गणञ्च पलार्द्धकम् ॥
कासीशं शाणयुग्मञ्च प्रत्येकं श्लक्ष्णचूर्णितम् ।
सपञ्चलवणक्षारं कर्षमानं पृथक् पृथक् ॥
अपामार्गवृषस्यापि तथा कुष्माण्डकस्य च ।
रग्भावल्कलजं क्षारं प्रत्येकञ्चार्द्धशाणकम् ॥
श्लक्ष्णचूर्णीकृतञ्चैतत् लिम्पाकस्वरसे भुवि ।
सर्व्वमेतत् सुपिष्याथ रौद्रे दद्याद्विचक्षणः ॥
आनीय काचपात्रन्तु तत्र तत् पाचयेत् भिषक्
प्रहरार्द्धं ददौ ज्वालां सालकाष्ठाग्निना मृदु ।
सुतप्ते काचकुम्भे च ततो ज्वालां निवारयेत् ॥
शीतं गते तदुद्धृत्य प्रक्षिपेच्च वराटकम् ।
वराटे द्रवतां याते ततः कर्म्मसु योजयेत् ॥
द्रावकस्य परीक्षेयं नान्यथा च भवत्यलम् ।
गुञ्जैकं स्याद्द्वयञ्चापि चूर्णेन मागधेन च ॥
शरपुष्पेण वा देयं तोयमुष्णं पिबेदनु ॥
पथ्यमेतद्द्रुतं देयं दुष्टशीताम्बुवर्ज्जितम् ॥”
इति वैद्यककषायणसंग्रहे प्लीहसर्व्वोदरयकृ-
दधिकारे ॥) अस्य अन्यद् विवरणं महाद्रावक-
शब्दे द्रष्टव्यम् ॥

द्रावकः, पुं, (द्रवति चन्द्रांशुसम्पर्कादिति । द्रु +

ण्वुल् ।) प्रस्तरभेदः । (द्रावयतीति + द्रु +
णिच् + ण्वुल् ।) विदग्धः । (द्रवति पलायते
इति । द्रु + ण्वुल् ।) मोषकः । इति मेदिनी ।
के, १०४ ॥ शिड्गः । इति शब्दमाला ॥ रस-
भेदः । इति शब्दरत्नावली ॥ (द्रावि + ण्वुल् ।)
हृदयग्राही । द्रवकारकः । इति धरणिः ॥

द्रावककन्दः, पुं, (द्रावकः कन्दो यस्य ।) तैलकन्दः ।

इति राजनिर्घण्टः ॥
पृष्ठ २/७६०

द्रावकरं, क्ली, (द्रावं सुवर्णादेर्द्रवं करोति

स्वसंयोगेनेति । द्राव + कृ + टः ।) श्वेतटङ्कणम् ।
इति राजनिर्घण्टः ॥

द्रावणं, क्ली, (द्रावयति जलमलं स्वसम्पर्केणेति ।

द्रु + णिच् + युच् ।) कतकफलम् । इति रत्न-
माला ॥ निर्म्मली इति भाषा ॥ (द्रावि + ल्युट् ।)
विद्रावणञ्च ॥ (द्रावयतीति । द्रावि + ल्युः ।
पलायनकारयितरि, त्रि । यथा, महाभारते ।
८ । ३४ । ६८ ।
“स देवयुक्तो रथसत्तमो नो
दुराधरो द्रावणः शात्रवाणाम् ॥”)

द्राविका, स्त्री, (द्रावक + टाप् । अत इत्वञ्च ।)

लाला । इति शब्दरत्नावली ॥

द्राविडः, त्रि, (द्राविडो देशोऽभिजनोऽस्येति ।

अण् ।) देशविशेषजातः । (यथा, महाभारते ।
८ । १२ । १४ ।
“सात्यकिश्चेकितानश्च द्राविडैः सेनिकैः सह ॥”)
पञ्चद्राविडाः । यथा, द्रविडः १ कर्णाटः २
गुचराटः ३ महाराष्ट्रः ४ तैलङ्गः ५ । यथा,
स्कन्दपुराणे ।
“कार्णाटाश्चैव तैलङ्गा गुज्जरा राष्ट्रवासिनः ।
आन्ध्राश्च द्राविडाः पञ्च बिन्ध्यदक्षिणवासिनः ॥”
संख्याभेदः । वेधमुख्यः । इति मेदिनी । डे, ३० ॥
कर्च्चूरः । इति राजनिर्गण्टः ॥

द्राविडकं, क्ली, (द्रविडे देशे भवः । अण् ततः

संज्ञायां कन् ।) विड्लवणम् । इति राजनिर्घण्टः ॥

द्राविडकः, पुं, (द्राविड एव । स्वार्थे कन् ।)

वेधमुख्यकः । इत्यमरः । २ । ४ । १३५ । जिँयच
षष्ठी इति भाषा ॥

द्राविडभूतिकः, पुं, (द्राविड एव भूतिरुत्पत्ति-

स्थानं यस्य । कप् ।) द्राविडकः । इति शब्द-
रत्नावली ॥

द्राविडी, स्त्री, (द्रविडे भवा । द्रविड + अण् ।

ङीप् ।) एला । इति राजनिर्घण्टः ॥ (इयं एला
तु गुजराती इति ख्याता ॥ अस्याः पर्य्यायो
यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“सूक्ष्मोपकुञ्चिका तुच्छा कोरङ्गी द्राविडी
गुटिः ॥”)

द्राव्यं, त्रि, (द्रु + ण्यत् ।) अवश्यगमनीयम् ।

अवश्यक्षरणीयम् । अवश्यानुतपनीयम् । इति
द्रुधातोरवश्यम्भावार्थे घ्यण्प्रत्ययः ॥

द्राह, ऋ ङ जागरे । निक्षेपे । इति कविकल्प-

द्रुमः ॥ (भ्वां-आत्मं-अकं-सेट् ।) ऋ, अद-
द्राहत् । ङ, द्राहते । इति दुर्गादासः ॥

द्रु, स्रुतौ । गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-अनिट् ।) द्रवति । इति दुर्गादासः ॥

द्रु, र न उपतापे । इति कविकल्पद्रुमः ॥ (स्वां-

परं-अकं सकं च-अनिट् ।) र, वैदिकः । न,
द्रुणोति । उपताप इह उपतप्तीभावः उपतप्ती-
करणञ्च । इति दुर्गादासः ॥

द्रुः, पुं, (द्रवति ऊर्द्ध्वं गच्छतीति । द्रु + मितद्र्वादि-

त्वात् डुः ।) वृक्षः । इत्यमरः । २ । ४ । ५ ॥
(यथा, मनुः । ७ । १३१ ।
“आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् ॥”)
गतौ, स्त्री । इति शब्दरत्नावली ॥

द्रुकिलिमं, क्ली, (किल्यतेऽनेनेति । किल श्वैत्यक्रीड-

नयोः + बाहुलकात् किमच् । द्रुषु वृक्षेषु किलि-
मम् ।) देवदारुवृक्षः । इत्यमरः । २ । ४ । ५३ ॥
(अस्य पर्य्यायो यथा वैद्यकरत्नमालायाम् ।
“देवदारुद्रुकिलिमं सुराह्वं भद्रदारु च ।
देवकाष्ठं पीतदारु देवदारु च दारु च ॥”)

द्रुघणः, पुं, (द्रुर्वृक्षः हन्यतेऽनेनेति । हन + “करणे-

ऽयोविद्रुषु ।” ३ । ३ । ८२ । इति अप् घना-
देशश्च । “पूर्ब्बपदात् संज्ञायामगः ।” ८ । ४ ।
३ । इति णत्वम् । द्रुममयो घनः इति वा ।)
मुद्गरः । इत्यमरः । २ । ८ । ९१ ॥ सूत्रधारा-
दिमुद्गराकारलौहमयास्त्रभेदः । इति भरतः ॥
(वैशम्पायनोक्तधनुर्व्वेदमतेऽयं परशुवल्लौहा-
स्त्रम् । यदुक्तम् ।
“द्रुघणस्त्वायसाङ्गः स्यात् वक्रग्रीवो बृहच्छिराः ।
पञ्चाशदङ्गुलोत्सेधो मुष्टिसम्मितमण्डलः ॥”
अस्य चतस्रः क्रियाः । यथा, --
“उन्नामनं प्रपातश्च स्फोटनं दारणं तथा ।
चत्वार्य्येतानि द्रुघणे वल्गितानि श्रितानि वै ॥”
द्रुः संसारवृक्षो हन्यतेऽनेनेति ।) ब्रह्मा । कुठारः ।
इति मेदिनी । णे, ५३ ॥ भूमिचम्पकः । इति
शब्दचन्द्रिका ॥ दन्त्यनान्तोऽपि ॥

द्रुड, मज्जने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-

सेट् ।) रेफयुक्तः । मज्जनमिति मस्जधातो
रूपम् । द्रोडति प्रस्तरो जले । दुद्रोडिषति ।
इति दुर्गादासः ॥

द्रुड, शि मज्जने । इति कविकल्पद्रुमः ॥ (तुदां-

परं-अकं-सेट् ।) शि, द्रुडति अद्रुडीत् दुद्रोड ।
एषः कैश्विन्न मन्यते । क्रमदीश्वरस्तु कुटादिमेव
मन्यते । इति दुर्गादासः ॥

द्रुण, श जैह्म्ये । गतौ । वधे । इति कविकल्पद्रुमः ॥

(तुदां-परं-सकं-सेट् ।) दन्त्यवर्गतृतीयादिः ।
श, द्रुणति दुद्रोणिषति । जैह्म्यं कुटिलीकर-
णम् । इति दुर्गादासः ॥

द्रुणं, क्ली, (द्रुणति हिनस्तीति । द्रुण + “इगु-

पधेति ।” ३ । १ । १३५ । इति कः ।) धनुः ।
खड्गः । इति हेमचन्द्रः ॥ ४ । २७७ ॥

द्रुणः, पुं, (द्रुणति हिनस्तीति । द्रुण + कः ।)

वृश्चिकः । भृङ्गः । इति हेमचन्द्रः । ४ । २७७ ॥
त्रि, पिशुनः । इति शब्दमाला ॥

द्रुणसः, त्रि, (द्रुरिव दीर्घा नासिका यस्य । “अञ्ना-

सिकायाः संज्ञायां नसं चास्थूलात् ।” ४ । ४ ।
११८ । इति अच् । नसादेशश्च । “पूर्ब्बपदात्
संज्ञायामगः ।” ८ । ४ । ३ । इति णत्वम् ।)
दीर्घनासिकायुक्तः । इति सक्षिप्तसारव्याकर-
णम् ॥

द्रुणहः, पुं, (द्रुणं खड्गं हन्ति गच्छतीति । हन्

गतौ + डः ।) खड्गपिधानम् । इति हारा-
वली । १२५ ॥

द्रुणा, स्त्री, (द्रुणं धनुराश्रयत्वेनास्त्यस्याः । अच् ।

टाप् ।) ज्या । इति हेमचन्द्रः । ३ । ४३९ ॥

द्रुणिः, स्त्री, (द्रुणति जलादिकमिति । द्रुण गतौ +

“इगुपधात् कित् ।” उणां । ४ । ११८ । इति
इन् ।) द्रोणी । इत्यमरटीकायां भरतः ॥

द्रुणी, स्त्री, (द्रुण + इन् । वा ङीष् ।) कर्ण-

जलौकाः । कच्छपी । इति लिङ्गादिसंग्रहे
अमरभरतौ ॥ काष्ठाम्बुवाहिनी । इति द्रोणी-
शब्दटीकायां भरतः ॥

द्रुतं, त्रि, (द्रवति स्मेति । द्रु + गत्यर्थेति कर्त्तरि

क्तः ।) जातद्रवीभावघृतसुवर्णादि । तत्-
पर्य्यायः । अवदीर्णम् २ विलीनम् ३ विद्रुतम् ४ ।
इत्यमरः । ३ । १ । १०० ॥ शीघ्रम् । (यथा,
महाभारते । १३ । २६ । ८१ ।
“वाय्वीरिताभिः सुमनोहराभि-
र्द्रुताभिरत्यर्थसमुत्थिताभिः ।
गङ्गोर्म्मिभिर्भानुमतीभिरिद्धाः
सहस्ररश्मिप्रतिमा भवन्ति ॥”)
विद्रावम् । पलायितम् । इति मेदिनी । ते, २५ ॥
(यथा, रघुः । ९ । ५९ ।
“जग्राह स द्रुतवराहकुलस्य मार्गं
सुव्यक्तमार्द्रपदपङ्क्तिभिरायताभिः ॥”)

द्रुतं, क्ली, (द्रु + क्तः ।) नृत्यविषयकशीघ्रगमनम् ।

तत्पर्य्यायः । ओघः २ । इत्यमरः १ । २ ।
६८ ॥ शीघ्रलयः । इति मधुः ॥ नृत्यगीतादौ
द्रवन्ति गच्छन्ति समुदायगतिप्रदर्शनार्थं करा-
दयोऽत्र । इति भरतः ॥ साञ्जे ।
“द्रुतामध्ययने वृत्तिं प्रयोगार्थे तु मध्यमाम् ।
शिष्याणामुपरोधार्थे विलम्बितां समाचरेत् ॥”
इति वेदव्यवस्था ॥
(क्षिप्रम् । यथा, मनुः । ९ । १७२ ।
“अभ्याधातेषु मध्यस्थान् शिष्याच्चौरानिव
द्रुतम् ॥”
क्रियाविशेषणत्वादस्य क्लीवता ॥)

द्रुतः, पुं, (द्रवति स्म उर्द्ध्वमिति । द्रु + क्तः ।)

द्रुमः । इति धरणिः ॥

द्रुनखः, पुं, (द्रोर्वृक्षस्य नख इव । असंज्ञात्वात् अत्र

णत्वाभावः ।) कण्टकम् । इति त्रिकाण्डशेषः ॥

द्रुपदः, पुं, पञ्चालदेशीयचन्द्रवंशीयराजविशेषः ।

तस्य कन्या द्रौपदी । पुत्त्रौ शिखण्डिधृष्टद्युम्नौ ।
इति महाभारतम् ॥ (क्ली, यूपैकदेशः । यथा,
ऋग्वेदे । १ । २४ । १३ ।
“शुनःशेपो ह्यह्वद्गृभीतस्त्रिषु आदित्यं द्रुप-
देषु बद्धः ।”
“द्रुपदेषु द्रोः काष्ठस्य यूपस्य पदेषु प्रदेशविशे-
षेषु बद्धः ।” इति तद्भाष्ये सायनः ॥ काष्ठ-
पादुका । यथा, वाजसनेयसंहितायाम् । २० । २० ।
“द्रुपदादिव मुमुचानः स्विन्नः स्नातो मलादिव ॥”
“द्रुस्तरुस्तन्मयं पदं द्रुपदं पादुका तस्मान्मुमु-
चानः पृथग् भवन् ।” इति वेददीपः ॥)

द्रुपदा, स्त्री, ऋक् । सा च वैदिकमन्त्रविशेषः ।

यथा, उच्छिष्टस्य चाण्डालादिस्पर्शे आपस्तम्बः ।
पृष्ठ २/७६१
“भुक्तोच्छिष्टस्त्वनाचान्तश्चाण्डालैः श्वपचेन वा ।
प्रमादात् स्पर्शनं गच्छेत् तत्र कुर्य्याद्विशोधनम् ॥
गायत्त्र्यष्टसहस्रन्तु द्रुपदां वा शतं जपेत् ॥”
इत्याह्निकाचारतत्त्वम् ॥

द्रुमः, पुं, (समुदाये वृत्ताः शब्दा अवयवेष्वपि

वर्त्तन्ते इति न्यायात् द्रुः शाखा विद्यतेऽस्य ।
“द्युद्रुभ्यां मः ।” ५ । २ । १०८ । इति मः ।)
वृक्षः । इत्यमरः । २ । ४ । ५ ॥ (यथा, मनुः ।
९ । २५५ ।
“निर्भयन्तु भवेद्यस्य राष्ट्रं बाहुबलाश्रितम् ।
तस्य तद्बर्द्धते नित्यं सिच्यमान इव द्रुमः ॥”)
पारिजातः । कुवेरः । इति मेदिनी । मे, १५ ॥
(स्वनामख्यातः किम्पुरुषेश्वरः । यथा, महा-
भारते । २ । १० । २८ ।
“द्रुमः किम्पुरुषेशश्च उपास्ते धनदेश्वरम् ॥”
सनामख्यातनृपविशेषः । स तु शिविनामदैत्य-
स्यांशात् जातः । यथा, तत्रैव । १ । ६७ । ८ ।
“यस्तु राजन् ! शिविर्नाम दैतेयः परिकीर्त्तितः ।
द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः ॥”
रुक्मिणीगर्भजातः कृष्णस्य पुत्त्रविशेषः । यथा,
हरिवंशे । १६० । ६ ।
“चारुभद्रश्चारुगर्भः सुदंष्ट्रो द्रुम एव च ॥”)

द्रुमनखः, पुं, (द्रुमस्य नख इव ।) कण्टकम् ।

इति हारावली ॥

द्रुमरः, पुं, (द्रुर्म्रियतेऽनेनेति । मृ + करणे अप् ।)

कण्टकम् । इति हारावली । ९१ ॥

द्रुमव्याधिः, पुं, (द्रुमस्य व्याधिरिव ।) लाक्षा ।

इति राजनिर्घण्टः ॥

द्रुमशीर्षं, क्ली, (द्रुमस्य शीर्षमिव शीर्षं यस्य ।)

कुट्टिमभेदः । यथा, --
“कपिशीर्षं द्रुमशीर्षं तथा चाखोटशीर्षकम् ।
इति कुट्टिमभेदाः स्युः शाब्दिकैः समुदाहृताः ॥”
इति शब्दरत्नावली ॥
(द्रुमस्य शीर्षम् इति विग्रहे वृक्षाग्रम् ॥)

द्रुमश्रेष्ठः, पुं, (द्रुमेषु तृणवृक्षेषु श्रेष्ठः ।) ताल-

वृक्षः । इति शब्दार्थकल्पतरुः ॥ वृक्षश्रेष्ठश्च ॥

द्रुमामयः, पुं, (द्रुमस्य आमयो व्याधिः ।) लाक्षा ।

इत्यमरः । २ । ६ । १२५ ॥

द्रुमारिः, पुं, (द्रुमस्य अरिः । वृक्षनाशकत्वात्

तथात्त्वम् ।) हस्ती । इति राजनिर्घण्टः ॥

द्रुमाश्रयः, पुं, (द्रुमः आश्रयो यस्य ।) सरटः ।

इति राजनिर्घण्टः ॥ वृक्षाश्रितमात्रेषु, त्रि ॥

द्रुमेश्वरः, पुं, (द्रुमेषु ईश्वरः श्रेष्ठः ।) तालवृक्षः ।

इति शब्दार्थकल्पतरुः ॥ (द्रुमाणां ओषधी-
नामीश्वरः ।) चन्द्रः । इति हरिवंशः ॥

द्रुमोत्पलः, पुं, (द्रुमे उत्पलमिव पुष्पं यस्य ।)

कर्णिकारवृक्षः । इत्यमरः । २ । ४ । ६० ॥

द्रुवयं, क्ली, (द्रोर्वृक्षस्य विकारभूत प्रस्थादि-

परिमाणम् । द्रु + “माने वयः ।” ४ । ३ । १६२ ।
इति वयः ।) परिमाणम् । इत्यमरः । २ । ९ । ८५ ॥
(पुंलिङ्गेऽपि । यथा, अथर्व्ववेदे । ५ । २० । २ ।
“सिंह इवास्तानीद्द्रुवयो विबद्धः ॥”)

द्रुसल्लकः, पुं, (द्रुषु सल्लक इव ।) पियालवृक्षः ।

इति शब्दरत्नावली ॥

द्रुह, ऌ य ऊ जिघांसे । इति कविकल्पद्रुमः ॥

(दिवां-परं-अकं-वेट् ।) जिघांस इहानिष्टा-
चरणमिति विद्यानिवासः । ऌ, अद्रुहत् । य,
द्रुह्यति खलः साधवे । ऊ, द्रोहिष्यति ध्रोक्ष्यति ।
इति दुर्गादासः ॥

द्रुहः, पुं, (द्रुह्यति धनादिलाभाशया पितृविनाशं

चिन्तयतीति । द्रुह + “इगुपधज्ञेति ।” ३ । १ ।
१३५ । इति कः ।) पुत्त्रः । इति शब्दार्थकल्प-
तरुः ॥ (द्रोहकारके, त्रि । यथा, ऋग्वेदे । ७ ।
१०४ । १७ ।
“नक्तमप द्रुहा तन्वं गूहमाना ।”
“या राक्षसी नक्तं रात्रौ द्रुहा द्रोहेन युक्ता ।”
इति तद्भाष्ये सायनः ॥)

द्रुहणः, पुं, (द्रुं संसारगतिँहन्तीति । हन् + अच् ।

“पूर्ब्बपदात् संज्ञायामगः ।” ८ । ४ । ३ । इति
णत्वम् ।) ब्रह्मा । इति भरतद्विरूपकोषः ॥

द्रुहिणः, पुं, (द्रुह्यति दुष्टेभ्य इति । द्रुह + “बहु-

लमन्यत्रापि ।” उणां २ । ४९ । इति इनन् ।
गुणाभावश्च ।) ब्रह्मा । इत्यमरः । १ । १ । १७ ॥
(यथा, देवीभागवते । १ । ८ । २८ ।
“द्रुहिणे सृष्टिशक्तिश्च हरौ पालनशक्तिता ॥”)

द्रुही, स्त्री, (द्रुह्यति पित्रे विवाहकालीन-

धनाग्रहणादिना । द्रुह + कः । ततो ङीष् ।)
दुहिता । इति शब्दार्थकल्पतरुः ॥

द्रू, न ग ञ वधे गतौ । इति कविकल्पद्रुमः ॥

(स्वां-क्र्यां च-उभं-सकं-सेट् ।) न ञ, द्रूणोति
द्रूणुते । ग ञ, द्रूणाति द्रूणीते । इति दुर्गादासः ॥

द्रूः, पुं, (द्रवति स्रवतीति । द्रु + “क्विप् वचि-

प्रच्छीति ।” उणां २ । ५७ । इति क्विप् दीर्घश्च ।)
स्वर्णम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

द्रूघणः, पुं, (द्रुघणः । पृषोदरादित्वात् दीर्घः ।)

द्रुघणः । इति भरतद्विरूपकोषः संक्षिप्तसारश्च ॥

द्रूणः, पुं, (द्रुणः । पृषोदरादित्वात् दीर्घः ।)

द्रुणः । वृश्चिकः । इति शब्दार्थकल्पतरुः ॥

द्रेक, ऋ ङ स्वनोत्साहे । इति कविकल्पद्रुमः ॥

(भ्वां-आत्मं-अकं-सेट् ।) तवर्गतृतीयादिः । रेफ-
युक्तः । द्वावर्थौ । उत्साहो वृद्धिरिति चन्द्रः ।
औन्नत्यमिति क्षीरस्वामी । ऋ, अदिद्रेकत् ।
ङ, द्रेकते लोकः शब्दायते उत्सहते वेत्यर्थः ।
स्वनेनोत्साहः स्वनोत्साहः । इति केचित् ।
तन्मते शब्देनोत्सहते इत्यर्थः । इति दुर्गादासः ॥

द्रेक्कः पुं, लग्नतृतीयभागैकभागः । यथा,

ज्योतिस्तत्त्वे ।

द्रेक्काणः पुं, लग्नतृतीयभागैकभागः । यथा,

ज्योतिस्तत्त्वे ।
“स्वपञ्चनवमानां ये राशीनामधिपा ग्रहाः ।
ते द्रेक्काणाधिपा ज्ञेया द्रेक्काणास्त्रय एव हि ॥”

द्रै, स्वप्ने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-

अनिट् ।) द्रायति । इति दुर्गादासः ॥

द्रोणः, पुं, क्ली, (द्रवतीति । द्रुगतौ + “कॄवृजॄषि-

द्रुपन्यनिस्वपिभ्यो नित् ।” उणां ३ । १० । इति
नः ।) आढकपरिमाणम् । आढकचतुष्टयम् ।
इति शब्दरत्नावली ॥ ३२ शेर इति लाकिक-
मानम् । तत्पर्य्यायः । घटः २ कलसः ३ उन्मा-
नम् ४ लल्वणः ५ अर्म्मणः ६ । इति वैद्यकपरि-
भाषा ॥ “द्रोणस्तु खार्य्याः खलु षोडशांशः ।”
इति लीलावती ॥ (अरणीकाष्ठम् । यथा,
ऋग्वेदे । ६ । २ । ८ ।
“क्रत्वा हि द्रोणे अज्यसेऽग्ने वाजी न कृत्व्यः ।”
“हे अग्ने क्रत्वा कर्म्मणा मन्थनरूपेण द्रोणे द्रुमे
काष्ठेऽरण्यां विद्यमानस्तमज्यसे हि ।” इति
तद्भाष्ये सायनः ॥ काष्ठनिर्म्मितकलशः । यथा,
तत्रैव । ६ । ३७ । २ ।
“प्रो द्रोणे हरयः कर्म्माग्मन् पुनानास ऋज्यन्तो
अभूवन् ॥”
“द्रोणे द्रोणकलश ऋज्यन्त ऋजु गच्छन्तोऽभू-
वन् ।” इति सायनः ॥ द्रुममयरथः । इति
निरुक्तम् । ५ । २६ ॥ यथा, ऋग्वेदे । ६ । ४४ । २० ।
“आ ते वृषन् वृषणो द्रोणमस्थुः ।”
“द्रोणं द्रुममयं रथमस्थुः ।” इति सायनः ॥)

द्रोणः, पुं, (द्रोणः कलस उत्पत्तिस्थानत्वेनास्त्यस्य ।

द्रोण + अच् ।) द्रोणाचार्य्यः । (अयं कुरु-
पाण्डवानां आचार्य्यः । अस्य पिता भरद्वाजः ।
अस्य जन्मवृत्तान्तं यदुक्तं महाभारते । १ ।
१३१ । ९-१६ ।
“गङ्गाद्वारं प्रति महान् बभूव भगवानृषिः ।
भरद्वाज इति ख्यातः सततं संशितव्रतः ॥
सोऽभिषेक्तुं ततो गङ्गां पूर्ब्बमेवागमन्नदीम् ।
महर्षिभिर्भरद्वाजो हविर्द्धाने चरन् पुरा ॥
ददर्शाप्सरसं साक्षात् घृताचीमाप्लुतामृषिः ।
रूपयौवनसम्पन्नां मददृप्तां मदालसाम् ॥
तस्याः पुनर्नदीतीरे वसनं पर्य्यवर्त्तत ।
व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः ॥
तत्र संसक्तमनसो भरद्वाजस्य धीमतः ।
ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥
ततः समभवद्रोणः कलसे तस्य धीमतः ।
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्व्वशः ॥
अग्निवेशं महाभागं भरद्वाजः प्रतापवान् ।
प्रत्यपादयदाग्नेयमस्त्रमस्त्रविदांवरः ॥
अग्नेस्तु जातः स मुनिस्ततो भरतसत्तम ! ।
भारद्बाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् ॥”
अस्य पत्नी कृपाचार्य्यभगिनी कृपी पुत्त्रस्तु
अश्वत्थामा । अयं हि भारतयुद्धे दुर्य्योधनस्य
पक्षमवलम्ब्य पञ्चदशदिनं यावत् युद्धमकरोत् ।
तत्र पूर्ब्बं दशदिनं भीष्मदेवस्याधीनत्वेन स्थित्वा
पश्चादस्य शरशय्याग्रहणानन्तरं एकादश-
दिनात् स्वयं सेनापतिरभवत् । तत एनं अधर्म्म-
युद्धनिरतं दृष्ट्वा ऋषयः समागत्य सम्प्राप्तं मृत्यु-
कालं विज्ञापयामास । यथा, महाभारते ।
७ । १८९ । ४६-५२ ।
“त एनमब्रुवन् सर्व्वे द्रोणमाहवशोभिनम् ।
अधर्म्मतः कृतं युद्धं समयो निधनस्य ते ॥
न्यस्यायुधं रणे द्रोण ! समीक्ष्यास्मानवस्थितान् ।
नातः क्रूरतरं कर्म्म पुनः कर्त्तुमिहार्हसि ॥
पृष्ठ २/७६२
वेदवेदाङ्गविदुषः सत्यधर्म्मरतस्य ते ।
ब्राह्मणस्य विशेषेण तवैतन्नोपपद्यते ॥
त्यजायुधममोधेषो ! तिष्ठ वत्मनि शाश्वते ।
परिपूर्णश्च कालस्ते वस्तुं लोके ह्यमानुषे ॥
ब्रह्मास्त्रेण त्वया दग्धा अनस्त्रज्ञा नरा युधि ।
यदेतदीदृशं विप्र ! कृतं कर्म्म न साधु तत् ॥
नास्यायुधं रणे क्षिप्रं द्रोण ! मा त्वं चिरं कृथाः ।
मा पापिष्ठतरं कर्म्म करिष्यसि पुनर्द्विज ! ॥”
अयं हि जमदग्निप्रभृतिभिरुक्तो न्यस्तशस्त्रश्च
द्रुपदपुत्त्रेण धृष्टद्युम्नेन निहतः । यथा, तत्रैव ।
७ । १९० । २२ -- ४० ।
“तस्य तच्छिद्रमाज्ञाय धृष्टद्युम्नः प्रतापवान् ।
सशरं तद्धनुर्घोरं संन्यस्याथ रथे ततः ।
खड्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात् ॥
हाहाकृतानि भूतानि मानुषानीतराणि च ।
द्रोणं तयागतं दृष्ट्वा धृष्टद्युम्नवशं गतम् ॥
हाहाकारं भृशञ्चक्रुरहो धिगिति चाब्रुवन् ।
द्रोणोऽपि शस्त्राण्युत्सृज्य परमं शाम्यमास्थितः ॥
तथोक्त्रा योगमास्थाय ज्योतिर्भूतो महातपाः ।
पुराणं पुरुषं विष्णुं जगाम मनसा परम् ॥
मुखं किञ्चित्समुन्नाम्य विष्टभ्य उरमग्रतः ।
निमीलिताक्षः सत्त्वस्थो निक्षिप्य हृदि धारणाम् ॥
ओम् इत्येकाक्षरं ब्रह्म ज्योतिर्भूतो महातपाः ।
स्मरित्वा देवदेवेशमक्षरं परमं विभुम् ॥
दिवमाक्रामदाचार्य्यः सद्भिः सह दुराक्रमम् ।
द्बौ सूर्य्याविव नो बुद्धिरासीत्तस्मिंस्तथागते ॥
एकाग्रमिव चासीच्च ज्योतिर्भिः पूरितं नभः ।
समपद्यदथार्काभं द्रोणस्य निधने तथा ॥
निमेषमात्रेण च तज्ज्योतिरन्तरधीयत ।
आसीत् किलकिलाशब्दः प्रहृष्टानां दिवौ-
कसाम् ।
ब्रह्मलोकं गते द्रोणे धृष्टद्युम्ने च मोहिते ॥
वयमेव तदाद्राक्ष्म पञ्च मानुषयोनयः ।
योगयुक्तं महात्मानं गच्छन्तं परमां गतिम् ॥
अहं धनञ्जयः पार्थः कृपः शारद्वतस्तथा ।
वासुदेवश्च वार्ष्णेयो धर्म्मपुत्त्रश्च पाण्डवः ॥
अन्ये तु सर्व्वे नापश्यन् भारद्वाजस्य धीमतः ।
महिमानं महाराज ! योगयुक्तस्य गच्छतः ॥
ब्रह्मलोकं महद्दिव्यं देवगुह्यं हि तत्परम् ॥
गतिं परमिकां प्राप्तमजानन्तो नृयोनयः ।
नापश्यन् गच्छमानं हि तं सार्द्धमृषिपुङ्गवैः ।
आचार्य्यं योगमास्थाय ब्रह्मलोकमरिन्दमम् ॥
वितुन्नाङ्गं शरव्रातैर्न्यस्तायुधमसृक्क्षरम् ।
धिक्कृतः पाषैतस्तन्तु सर्व्वभूतैः परामृशत् ॥
तस्य मूर्द्धानमालम्ब्य गतसत्त्वस्य देहिनः ।
किञ्चिदब्ववतः कायाद्विचकर्त्तासिना शिरः ॥”
“क्रोशमानेऽर्ज्जुने चैव पार्थिवेषु च सर्व्वशः ।
धृष्टद्युम्नोऽवधीद्द्रोणं रथतल्पे नरर्षभम् ॥
शोणितेन परिक्लिन्नो रथाद्भूमिमरिन्दमः ।
लोहिताङ्ग इवादित्यो दुर्द्धर्षः समपद्यत ॥” * ॥)
दग्धकाकः । इति मेदिनी । णे, १७ ॥ (यदुक्तम् ।
“के शवं पतितं दृष्ट्वा द्रोणो हर्षमुपागतः ।
रुदन्ति पाण्डवाः सर्व्वे हाहा के शव के शव ॥”)
वृश्चिकः । इति राजनिर्घण्टः ॥ चतुःशतधनुः-
परिमितजलाशयः । यथा, शतेन धनुर्भिः पुष्क-
रिणी । त्रिभिः शतैर्दीघिका । चतुर्भिर्द्रोणः ।
पञ्चभिस्तडागः । द्रोणाद्दशगुणा वापी । इति
जलाशयतत्त्वम् ॥ मेघनायकः । यथा, --
“त्रियुते शाकवर्षे तु चतुर्भिः शेषितः क्रमात् ।
आवर्त्तं विद्धि सम्बर्त्तं पुष्करं द्रोणमम्बुदम् ॥
आवर्त्तो निर्जलो मेघः सम्बर्त्तश्च बहूदकः ।
पुष्करो दुष्करजलो द्रोणः शस्यप्रपूरकः ॥”
इति ज्योतिस्तत्त्वम् ॥
श्वेतवर्णक्षुद्रपुष्पवृक्षविशेषः । घलघसिया इति
हलकसिया इति च भाषा ॥ यथा, --
“ब्रह्मविष्णुशिवादीनां द्रोणपुष्पं सदा प्रियम् ।
तत्ते दुर्गे ! प्रयच्छामि पवित्रन्ते सुरेश्वरि ! ॥”
इति स्मार्त्तकृतदुर्गार्च्चाप्रयोगः ॥
(शाकद्वीपान्तर्गतपर्व्वतविशेषः । यथा, मात्स्ये ।
१२१ । ५६ ।
“चतुर्थः पर्व्वतो द्रोणो यत्रौषध्यो महागिरौ ।
विशल्यकरणी चैव मृतसञ्जीवनी तथा ॥”
वसुपुत्त्रविशेषः । यथा भागवते । ६ । ६ । ११ ।
“वसवोऽष्टौ वसोः पुत्त्रास्तेषां नामानि मे शृणु ।
द्रोणः प्राणो ध्रुवोऽर्कोऽग्निर्दोषो वास्तुर्विभा-
वसुः ॥”)

द्रोणकाकः, पुं, (द्रोण एव काकः ।) वनकाकः ।

दाँडकाक इति भाषा । तत्पर्य्यायः । काकोलः
२ । इत्यमरः । २ । ५ । २१ ॥ द्रोणः ३ अरण्य-
वायसः ४ वनवासी ५ महाप्राणः ६ क्रूररावी ७
पलप्रियः ८ । इति राजनिर्घण्टः ॥ काकलः ९ ।
इति शब्दरत्नावली ॥

द्रोणगन्धिका, स्त्री, (द्रोणस्य द्रोणपुष्पस्य गन्ध इव

गन्धो यस्याः । कप् । टापि अत इत्वम् ।)
रास्ना । इति जटाधरः ॥

द्रोणधा, स्त्री, (द्रोणदुधा । पृषोदरादित्वात्

दुलोपः ।) द्रोणदुधा । इति शब्दचन्द्रिका ॥

द्रोणदुग्धा, स्त्री, (द्रोणपरिमितं दुग्धं यस्याः ।)

द्रोणक्षीरा । इति हेमचन्द्रः । ४ । ३३५ ॥

द्रोणदुधा, स्त्री, (द्रोणं दोग्धीति । दुह + “दुहः

कप् घश्च ।” ३ । २ । ७० । इति कप् घश्चान्तादेशः ।)
द्रोणपरिमितदुग्धदात्री गवी । तत्पर्य्यायः ।
द्रोणक्षीरा २ । इत्यमरः । २ । ९ । ७२ ॥ द्रोणमाना
३ द्रोणधा ४ पयस्विनी ५ । इति शब्दचन्द्रिका ॥
द्रोणदुग्धा ६ । इति हेमचन्द्रः । ४ । ३३५ ॥
द्रोणमानपयस्विनी ७ । इति शब्दरत्नावली ॥

द्रोणपुष्पी, स्त्री, (द्रोणवत् पुष्पं यस्याः ङीष् ।) क्षुद्र-

क्षुपविशेषः । गूमा इति ख्याता । तत्पर्य्यायः ।
खर्व्वपत्रा २ कुम्भयोनिः ३ कुरुम्बिका ४ चित्रा-
क्षुपः ५ कुरुम्बा ६ सुपुष्पा ७ चित्रपत्रिका ८ ।
इति राजनिर्घण्टः ॥ द्रोणा ९ फलेपुष्पा १० ।
इति भावप्रकाशः ॥ अस्या गुणाः । कटुत्वम् ।
उष्णत्वम् । रुच्यत्वम् । वातकफाग्निमान्द्यपक्ष-
वातनाशित्वञ्च । इति राजनिर्घण्टः ॥ गुरुत्वम् ।
स्वादुत्वम् । रूक्षत्वम् । वातपित्तकारित्वम् ।
सक्षारलवणत्वम् । स्वादुपाकित्वम् । भेदकत्वम् ।
आमकामलाशोथतमकश्वासजन्तुनाशित्वञ्च ।
इति भावप्रकाशः ॥ गोशीर्षकवृक्षः । इति
रत्नमाला ॥ घलघसिया इति भाषा । अस्य
गुणः । कफार्शःकामलाक्रिमिशोथनाशित्वम् ।
इति राजवल्लभः ॥

द्रोणमाना, स्त्री, (द्रोणो मानं दुग्धस्य यस्याः ।)

द्रोणदुघा । इति शब्दचन्द्रिका ॥

द्रोणमुखं, क्ली, चतुःशतग्राममध्ये मनोहरग्रामः ।

इति हारावली । १२० ॥

द्रोणम्पचः, त्रि, (द्रोणं द्रोणपरिमितं पचतीति ।

द्रोण + पच + “परिमाणे पचः ।” ३ । २ । ३३ ।
इति खश् ।) द्रोणपरिमितवस्तुपाककर्त्ता ।
इति मुग्धबोधव्याकरणम् ॥

द्रोणा, स्त्री, (द्रोण + टाप् ।) द्रोणपुष्पी । इति

भावप्रकाशः ॥

द्रोणाचार्य्यः, पुं, (द्रोण एव आचार्य्यः ।) भरद्वाज-

पुत्त्रः । सः अश्वत्थामपिता कृपीपतिः । पाण्ड-
वानामस्त्रशिक्षागुरुश्च । तत्पर्य्यायः । द्रोणः २
गुरुः ३ आचार्य्यः ४ कीर्त्तिभाक् ५ भारद्वाजः
६ कुम्भयोनिः ७ द्रोणाचार्य्यकः ८ । इति शब्द-
रत्नावली ॥ (विशेषविवरणमस्य द्रोणशब्दे
द्रष्टव्यम् ॥)

द्रोणिः, स्त्री, (द्रवतीति । द्रु गतौ + “वहिश्रिश्रुयु-

द्रुम्लेति ।” उणां ४ । ५१ । इति निः स च नित् ।)
द्रोणी । इत्यमरटीकायां भरतः ॥ (पुं, अश्व-
त्थामा । स तु अष्टममन्वन्तरगतानां ऋषीणा-
मन्यतमः । यथा, मार्कण्डेये । ८० । ४ ।
“ऋष्यशृङ्गस्तथा द्रोणिस्तत्र सप्तर्षयोऽभवन् ॥”)

द्रोणिका, स्त्री, (द्रोणिरिव कायति प्रकाशते इति ।

कै + क + टाप् ।) नीलीवृक्षः । इति शब्द-
रत्नावली ॥

द्रोणी, स्त्री, (द्रोणि + कृदिकारादिति वा ङीष् ।)

देशविशेषः । काष्ठाम्बुवाहिनी । गवादनी ।
इति मेदिनी । णे, १७ ॥ (कलशाकारपात्र-
विशेषः । यथा, महाभारते । १ । ६३ । १०३ ।
“भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्द्धत ॥”)
नीलीवृक्षः । इति शब्दरत्नावली ॥ शैलभेदः ।
शैलयोः सन्धिः । इति हेमचन्द्रः । ४ । १०० ॥
इन्द्रचिर्भिटी । द्रोणीलवणम् । इति राज-
निर्घण्टः ॥ नदीविशेषः ॥ इत्युणादिकोषः ॥
द्विसूर्पपरिमाणम् । १२८ शेर इति भाषा ।
तत्पर्य्यायः । वाहः २ गोणी ३ । इति वैद्यक-
परिभाषा ॥

द्रोणीदलः, पुं, (द्रोण्या इव दलं यस्य ।) केतकी-

पुष्पः । इति हारावली । ९२ ॥

द्रोणीमुखं, क्ली, (द्रोणीव मुखं यस्य ।) द्रोण-

मुखम् । इति भूरिप्रयोगः ॥

द्रोणीलवणं, क्ली, (द्रोणीसम्भूतं लवणम् ।) उप-

कर्णाटदेशप्रसिद्धलवणविशेषः । तत्पर्य्यायः ।
द्रोणेयम् २ वार्द्धेयम् ३ द्रोणीजम् ४ वारिजम्
पृष्ठ २/७६३
५ वार्द्धिभवम् ६ द्रोणी ७ त्रिकूटलवणम् ८ ।
अस्य गुणाः । पाकेनात्युष्णत्वम् । अविदाहि-
त्वम् । भेदनत्वम् । स्निग्धत्वम् । शूलनाशित्वम् ।
अल्पपित्तलत्वञ्च । इति राजनिर्घण्टः ॥

द्रोहः, पुं, (द्रुह् + भावे घञ् ।) जिघांसा ।

अनिष्टचिन्तनम् । तत्पर्य्यायः । अपक्रिया २ ।
इति हेमचन्द्रः । ६ । १५१ ॥ यथा, कूर्म्मपुराणे ।
“देवद्रोहाद्गुर्रोर्द्रोहः कोटिकोटिगुणाधिकः ॥”
(छद्मवधः । यथा, मनौ । ७ । ४८ ।
“पैशुन्यं साहसं द्रोह ईर्षासूयार्थदूषणम् ।
वाग्दण्डश्चापि पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥”
“द्रोहश्छद्मवधः ।” इति तट्टीकायां कुल्लूकभट्टः ॥)

द्रोहचिन्तनं, क्ली, (द्रोहस्य चिन्तनम् ।) परा-

निष्टचिन्ता । तत्पर्य्यायः । व्यापादः २ । इत्य-
मरः । १ । ५ । ४ ॥

द्रोहाटः, पुं, (द्रोहाय अटतीति । अट् + अच् ।)

गाथाप्रभेदः । मृगलुब्धकः । वैडालव्रतिकः ।
इति मेदिनी । टे, ४६ ॥

द्रोही, [न्] पुं, (द्रोहोऽस्त्यस्येति इनिः । यद्वा,

द्रुह्यतीति णिनिः ।) द्रोहकः । परानिष्ट-
चिन्तकः । यथा, --
“मित्रद्रोही कृतघ्नश्च ये च विश्वासधातकाः ।
ते नरा नरके यान्ति यावच्चन्द्रदिवाकरौ ॥”
इति ससेमिरोपाख्यानम् ॥
(यथा च, कथासरित्सागरे । ५ । ६३ ॥
“तच्छ्रुत्वाचिन्तयद्राजा नूनं द्रोही स एव मे ॥”)

द्रोणायनः, पुं, (द्रोणस्यापत्यम् । द्रोण + फक् ।)

अश्वत्थामा । इति त्रिकाण्डशेषः ॥

द्रौणिः, पुं, (द्रोणस्यापत्यम् । द्रोण + इञ् ।)

अश्वत्थामा । इति शब्दरत्नावली ॥ (यथा,
महाभारते । ४ । ५६ । ७४ ।
“आवृत्य तु महाबाहुर्यतो द्रौणिस्ततो हयान् ॥”
अय हि एकोनत्रिंशद्द्वापरयुगस्य व्यासः ।
यथा, देवीभागवते । १ । ३ । २३ ।
“एकोनत्रिंशत् संप्राप्ते द्रौणिर्व्यासो भविष्यति ॥”)

द्रौणिकः, त्रि, (द्रोणस्य द्रोणपरिमितबीजस्य

वापः इति । द्रोण + “तस्य वापः ।” ५ । १ ।
४५ । इति ठक् ।) द्रोणपरिमितबीजवपनयोग्य-
क्षेत्रम् । इत्यमरः । २ । ९ । १० ॥ (द्रोणेन क्रीतः ।
निष्कादित्वात् ठक् । द्रोणक्रीतः ॥ द्रोणं द्रोण-
परिमितद्रव्यं पचतीति । द्रोण + “संभवत्यव-
हरति पचति ।” ५ । १ । ५२ । इति ठञ् ।
द्रोणपाचकः । इति सिद्धान्तकौमुदी ॥)

द्रौपदी, स्त्री, (द्रुपदस्यापत्यं स्त्री । द्रुपद + अण् ।

ङीप् ।) द्रुपदराजकन्या । तत्पर्य्यायः । पाञ्चाली
२ कृष्णा ३ सैरिन्ध्री ४ नित्ययौवना ५ वेदिजा
६ याज्ञसेनी ७ । इति हेमचन्द्रः । ३ । ३७४ ॥
अस्याः पञ्चस्वामिकारणं यथा, --
वह्निरुवाच ।
“शृणु राम ! महाभाग ! सीतासंगोपनं कुरु ।
सप्ताहाभ्यन्तरे चैव रावणो दुष्टराक्षसः ।
दुर्निवार्य्यः प्राक्तनेन जानकीञ्च हरिष्यति ॥
राम उवाच ।
सीतां गृहीत्वा त्वं गच्छ छायात्रैव तु तिष्ठतु ।
कलत्रवर्ज्जनं कर्म्म सर्व्वेषाञ्च जुगुप्सितम् ॥
सीतां गृहीत्वा प्रययौ रुदन्तीञ्च हुताशनः ।
सीतायाः सदृशी छाया तस्थौ श्रीरामसन्निधौ ॥
सा च छाया हृता पूर्ब्बं रावणेन बलीयसा ।
समुद्दधार तां रामो निहत्य तं सबान्धवम् ॥
वह्रौ परीक्षाकाले च छाया वह्नौ विवेश ह ।
अग्निश्छायाञ्च संरक्ष्य ददौ रामाय जानकीम् ॥
सा च छाया तपश्चक्रे नारायणसरोवरे ।
तपश्चकार दिव्यञ्च शतवर्षञ्च शूलिनः ॥
वरं वृणुष्व भद्रे ! तमुवाच शङ्करश्च ताम् ।
उवाच सा शिवं व्यग्रा भर्त्तुर्दुःखेन दुःखिता ॥
पतिन्देहि पञ्चधा सा वरं वव्रे त्रिलोचनम् ।
सर्व्वसम्पत्प्रदस्तुष्टस्तस्यै शर्व्वो वरं ददौ ॥
महादेव उवाच ।
साध्वि ! त्वं पञ्चधा ब्रूहि पतिन्देहीति व्याकुला ।
पञ्चेन्द्राश्च हरेरंशा भविष्यन्ति प्रियास्तव ॥
ते च सर्व्वे च पञ्चेन्द्राश्चाधुना पञ्च पाण्डवाः ।
सा च छाया द्रौपदी च यज्ञकुण्डसमुद्भवा ॥
कृते युगे वेदवती त्रेतायां जनकात्मजा ।
द्बापेरे द्रौपदी छाया तेन कृष्णा त्रिहायणी ॥
वैष्णवी कृष्णभक्ता च तेन कृष्णा प्रकीर्त्तिता ।
स्वर्गलक्ष्मीर्महेन्द्राणां सा च पश्चाद्भविष्यति ॥
राजा ददौ फाल्गुनाय कन्यायाश्च स्वयंवरे ।
पप्रच्छ मातरं वीरो वस्तु प्राप्तं मयाधुना ॥
तमुवाच स्वयं माता गृहाण भ्रातृभिः सह ।
शम्भोर्वरेण पूर्ब्बञ्च परत्र मातुराज्ञया ॥
द्रौपद्याः स्वामिनस्तेन हेतुना पञ्चपाण्डवाः ।
चतुर्द्दशानामिन्द्राणां पञ्चेन्द्राः पञ्चपाण्डवाः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११५
अध्यायः ॥

द्वन्दं क्ली, (द्वन्द्वं पृषोदरादित्वात् वस्य लोपः ।)

मिथुनम् । इति शब्दरत्नावली ॥

द्वन्द्वं[१], क्ली, (द्वौ द्वौ सहाभिव्यक्तौ । “द्वन्द्वं रहस्य-

मर्य्यादावचन-व्युत्क्रमण-यज्ञपात्रप्रयोगाभि-
व्यक्तिषु ।” ८ । १ । १५ । इति द्बिशब्दस्य द्बिर्व-
चनं पूर्ब्बपदस्याम्भावोऽत्वञ्चोत्तरपदस्य नपुंस-
कत्वञ्च निपात्यते ।) रहस्यम् । कलहः ।
(यथा, हितोपतेशे । ३ । ३२ ।
“शतं दद्यान्न विवदेदिति प्राज्ञस्य लक्षणम् ।
विना हेतुमपि द्बन्द्बमेतन्मूर्खस्य लक्षणम् ॥”)
मिथुनम् । (यथा, रघुः । १ । ४० ।
“परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु ।
मृगद्बन्द्बेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥”)
युग्मम् । इति मेदिनी । वे, १० ॥ (यथा, महा-
भारते । १ । १३७ । १५ ।
“द्बन्द्बयुद्धञ्च पार्थेन कर्त्तुमिच्छान्यहं प्रभो ! ॥”
शीतोष्णादि । यथा, माघे । ४ । ६४ ।
“सर्व्वर्त्तुनिर्वृतिकरे निवसन्नुपैति
न द्बन्द्बदुःखमिह किञ्चिदकिञ्चनोऽपि ॥”)
दुर्गम् । (अत्र पुंस्त्वमपि ।) अथ द्बन्द्बयुक्तिः ।
“राज्ञो बलं न हि बलं द्बन्द्बमेव बलं बलम् ।
अप्यल्पबलवान् राजा स्थिरो द्बन्द्बबलाद्भवेत् ॥”
तथा च ।
“एकः शतं योधयति प्राकारस्थो घनुर्धरः ।
शतं दशसहस्राणि तस्माद्दुर्गं विशिष्यते ॥
अकृत्रिमं कृत्रिमञ्च तत् पुनर्द्विविधं भवेत् ।
यद्दैवसूचितं द्बन्द्बं गिरिनद्यादिसंश्रितम् ।
अकृत्रिममिदं ज्ञेयं दुर्लङ्घ्यमरिभूभुजाम् ॥
प्राकारपरिखारण्यसंश्रयं यद्भवेदिह ।
कृत्रिमं नाम विज्ञेयं लङ्घ्यालङ्घ्यन्तु वैरिणाम् ॥”
तत्राकृत्रिमद्बन्द्बयुक्तिर्यथा, --
“अत्युच्चविस्तीर्णशिरा दुरारोहः सकाननः ।
सजलाशयसम्भारभोज्यद्रव्यसमाश्रयः ॥
सुखनिःसरणो द्बन्द्बः पर्व्वताख्यो महीभुजाम् ।
नद्यो गभीरविस्तीर्णाश्चतुर्द्दिक्षु व्यवस्थिताः ॥
तन्मध्ये भूप्रदेशो यो नदीद्बन्द्बः स उच्यते ।
यदन्यच्चिरकालीनं दुर्लङ्घ्यविपिनादिकम् ॥
तन्मध्यरचिता भूमिर्द्वन्द्बत्वेनोपतिष्ठते ।
वनद्बन्द्बमिति ख्यातं यथापूर्ब्बं महत्तरम् ॥” * ॥
कृत्रिमद्बन्द्बयुक्तिर्यथा, --
“यस्मिन् राज्ये गिरिर्नास्ति नद्यो वा गहनो-
दकाः ।
तस्य मध्ये महीपालः कृत्रिमं द्बन्द्बमारभेत् ॥
गजैरलङ्घ्या विस्तीर्णा गम्भीराः पूर्णवारयः ।
द्बन्द्बत्वेन समादिष्टाः परिखा बहुयादसः ॥
विशालशालं सुधनं बहुकण्टकिसङ्कटम् ।
द्बन्द्बत्वेन समादिष्टं विस्तीर्णं विषमं बलम् ॥
अधोऽधोवध्यमानोऽपि कन्दरोऽल्पजलं स्रवन् ।
द्वन्द्बत्वेन समुद्दिष्टः स दुर्लङ्घ्यो हि भूभुजाम् ॥
सर्व्वतः परिखां कृत्वा निबन्धोपरि कन्दरम् ।
तज्जलप्लुतदेशत्वात् जलद्बन्द्बं तदुच्यते ॥
एषामभावे निम्नस्य भूप्रदेशस्य बन्धनात् ।
वर्षासु प्लवते वारि जलद्बन्द्बं ततो भवेत् ॥
एतयोरपि संमिश्रात् संमिश्रं द्बन्द्बमाचरेत् ।
आश्रित्य कृत्रिमं द्बन्द्बं बलवद्बैरिणो दिशि ॥
अन्यत्र कृत्रिमं द्बन्द्बं कृत्वा नरपतिर्वसेत् ।
रथपतिर्यदा वैरी स्थलद्बन्द्बं तदाचरेत् ॥
गजाश्वनाथश्चेद्बैरी जलद्बन्द्बं तदाचरेत् ।
गिरिद्बन्द्बं नृपः सेवेत् यस्य स्याद्द्विविधो रिपुः ॥
सर्व्वो हि त्रिविधो युद्धः समासादुपदिक्ष्यते ।
प्रतिराजस्य राज्यान्ते प्रकटे गुप्त एव च ॥
राज्यान्ते सैनिकान् रक्षेत् प्रकटे निवसेत् स्वयम् ।
गुप्ते स्त्रीकोषसम्भारं संरक्षेदिति निश्चयः ॥”
अथ सामान्यतो गुणाः ।
तथा हि । नीतिशास्त्रम् ।
“सप्रवेशापसरणं द्बन्द्बमुत्तममुच्यते ।
अन्यत्र वन्दिशालेव न तादृग्बद्धमाश्रयेत् ॥
धनुर्द्वन्द्बं महीद्बन्द्बं गिरिद्बन्द्बं तथैव च ।
मनुष्यद्बन्द्बसंसर्गं वरद्बन्द्बञ्च तानि षट् ॥”
अन्ये तु ।
“न द्बन्द्बं द्बन्द्बमित्याहुर्योद्धृद्बन्द्बं प्रकीर्त्तितम् ।
योद्धृशून्यं हि यत् द्बन्द्बं मृतकायसमं हि तत् ॥”
पृष्ठ २/७६४
अथान्यत्रापि ।
“यावत् प्रमाणं नगरं हि राज्ञां
ततो भवेदुत्तममध्यमान्त्यम् ।
त्रिंशत्तदर्द्धाष्टगुणोत्तरेण
त्रिदेशजानां धरणीपतीनाम् ॥”
गर्गस्तु ।
“यदन्यद्द्विविधं द्बन्द्बं प्रोच्यते धरणीभुजाम् ।
ताभ्यामेवातिरिच्येत मन्त्रद्बन्द्बं विशेषतः ॥
अन्येषु दैवाद् भिन्नेषु मन्त्रद्बन्द्बात् जयेन्नृपः ।
मन्त्रद्बन्द्बे हि भिन्ने हि न चान्यत् कार्य्यकार-
कम् ॥”
भोजस्तु ।
“यदैष वैरिदुर्लङ्घ्यं विस्तीर्णं विषमञ्च तत् ।
सप्रवेशापसरणं तद्द्वन्द्बमुत्तमं विदुः ॥”
इति भोजराजकृतयुक्तिकल्पतरुः ॥

द्वन्द्वः[२], पुं, (द्वौ द्वौ सहाभिव्यक्तौ इति । निपा-

तनात् साधुः । चार्थे द्बन्द्व इति निर्द्देशात्
पुंस्त्वभ् ।) रोगविशेषः । समासभेदः । इति
शब्दरत्नावली ॥ स तु भिन्नार्थानां पदानां
समासः । वोपदेवेनास्य चसंज्ञा कृता । स
इतरेतरयोगसमाहारभेदेन द्विधा भवति । इत-
रेतरद्वन्द्वो यथा । हरिश्च हरश्च हरिहरौ ।
अत्र प्रत्येकपदप्राधान्यात् द्वित्वं बहुत्वं शेष-
शब्दलिङ्गभाजित्वञ्च भवति । समाहारद्बन्द्बो
यथा । वाक् च त्वक् च द्वयोः समाहारः वाक्-
त्वचम् । अत्र संहतेरेकत्वादेकवचनं नित्य-
क्लीवलिङ्गत्वञ्च भवति । इति मुग्धबोधम् ॥
(यदुक्तं, --
“द्बन्द्वो द्बिगुरपि चाहं मद्गृहे नित्यमव्ययीभावः ॥”)

द्वन्द्वचरः, पुं, (द्वन्द्वेन चरतीति । चर + अच् ।)

चक्रवाकः । इति हेमचन्द्रः । ४ । ३९६ ॥
(यथा, रघुः । १६ । ६३ ।
आवर्त्तशोभा नतनाभिकान्ते-
र्भङ्गो भ्रुवां द्बन्द्वचराः स्तनानाम् ।
जातानि रूपावयवोपमाना-
न्यदूरवर्त्तीनि विलासिनीनाम् ॥”)

द्वन्द्वचारी, [न्] पुं, (द्वन्द्वेन चरतीति । चर +

णिनिः ।) चक्रवाकः । इति त्रिकाण्डशेषः ॥

द्वन्द्वजः, पुं, (द्वन्द्वात् जायते इति । जन + डः ।)

द्विदोषजरोगः । इति निदानम् ॥ कलहा-
ज्जाते, त्रि ॥

द्वयं, क्ली, (द्वौ अवयवौ यस्य । द्वि + “संख्याया

अवयवे तयप् ।” ५ । २ । ४२ । इति तयप् ।
“द्बित्रिभ्यान्तयस्यायज्वा ।” ५ । २ । ४३ ।
इति तयस्यायच् ।) द्व्यात्मकम् । दुइ इति
भाषा । तत्पर्य्यायः । उभौ २ द्बौ ३ युगलम् ४
द्वितयम् ५ युगम् ६ द्वैतम् ७ यमम् ८ द्बन्द्वम्
९ यग्गम् १० यमलम् ११ यामलम् १२ । इति
हेमचन्द्रः । ६ । ५९ ॥

द्वयाग्निः, पुं, (द्वयो द्विरूपोऽग्निर्यत्र ।) वृक्षभेदः ।

रांचिता इति भाषा । तत्पर्य्यायः । पाठी २
हस्वाग्निः ३ । इति शब्दचन्द्रिका ॥

द्वयातिगः, त्रि, (द्वयं अतिगच्छति अतिक्राम-

तीति । अति + गम + डः ।) रजस्तमोगुण-
शून्यः । सत्त्वगुणयुक्तः । इत्यमरः । २ । ७ । ४५ ॥

द्वाः, [र्] स्त्री, (द्वारयतीति । द्वृ वरणे + णिच् +

बाहुलकात् क्विप् ।) द्बारम् । इत्यमरः । २ । २ ।
१३ ॥ (यथा, भागवते । ३ । ५ । १ ।
“द्बारि द्युनद्या-ऋषभः कुरूणां
मैत्रेयमासीनमगाधबोधम् ॥”)
उपायः । यथा, ज्ञानद्बारा भवेन्मुक्तिरिति
ज्ञानशास्त्रम् ॥

द्वाःस्थः, पुं, (द्वारि तिष्ठतीति । स्था + कः ।)

द्वारपालः । इति शब्दरत्नावली ॥ (यथा,
भागवते । १ । १८ । ३४ ।
“ब्राह्मणैः क्षत्त्रबन्धुर्हि द्वारपालो निरूपितः ।
स कथं तद्गृहे द्वाःस्थः सभाण्डं भोक्तमर्हति ॥”)
नन्दिकेश्वरः । इति भूरिप्रयोगः ॥

द्वाःस्थितः, त्रि, (द्वारि स्थितः ।) द्वारपालः ।

इत्यमरकोषशब्दरत्नावल्यौ ॥

द्वाःस्थितदर्शकः, त्रि, (द्वाःस्थितः सन् पश्यतीति ।

दृश् + ण्वुल् ।) द्वारपालः । इत्यमरटीकायां
भरतः ॥

द्वाःस्थितदर्शी, [न्] त्रि, (द्वारि स्थितः सन्

पश्यतीति । दृश् + णिनिः ।) द्वारपालः । इति
भरतधृतरभसः रमानाथश्च ॥

द्वाचत्वारिंशत्, स्त्री, (द्व्यधिका चत्वारिंशत् ।

द्विशब्दस्य वा आत्वम् ।) द्बिचत्वारिंशत् । इति
व्याकरणम् ॥ ४२ वेयाल्लिश इति भाषा ॥

द्वात्रिंशत्, स्त्री, (द्व्यधिका त्रिंशत् । “द्व्यष्टनः

संख्यायामिति ।” ६ । ३ । ४७ । इति आत्वम् ।)
द्व्यधिकत्रिंशत् संख्या । तत्संख्येयाश्च । ३२
वत्रिश इति भाषा । यथा, द्वात्रिंशत्प्रसवे नार्य्या-
श्चतुस्त्रिंशद्गमे नृणामित्यादि ज्योतिस्तत्त्वम् ॥

द्वात्रिंशदक्षरी, [न्] पुं, (द्वात्रिंशदक्षराणि सन्ति

अत्र । बाहुलकात् इनिः ।) ग्रन्थः । इति
त्रिकाण्डशेषः ॥

द्वात्रिंशल्लक्षणोपेतः, पुं, (द्वात्रिंशल्लक्षणैरुपेतः ।)

महापुरुषः । इति शब्दार्थकल्पतरुः ॥ तल्लक्ष-
णानि यथा, --
“रागः सप्तसु हन्त षट्स्वपि शिशोरङ्गेष्वलं
तुङ्गता
विस्तारस्त्रिषु खर्व्वता त्रिषु तथा गम्भीरता
च त्रिषु ।
दैर्ध्यं पञ्चसु किञ्च पञ्चसु सखे ! संप्रेक्ष्यते
सूक्ष्मता
द्वात्रिंशद्वरल णः कथमसौ गोपेषु सम्भा-
व्यते ॥”
इति श्रीहरिभक्तिरसामृतसिन्धुः ॥
“राग इति । श्रीमद्व्रजेश्वरं प्रति कस्यचित् सव-
यसो गोपस्य वाक्यमिदम् । सप्तसु नेत्रान्त-
पादकरतलताल्वधरौष्ठजिह्वानखेषु षट्सु वक्षः-
स्कन्धनखनासिकाकटिमुखेषु । त्रिषु कटिललाट-
वक्षःसु । केचित् कटिस्थाने शिरः पठन्ति ।
पुनस्त्रिषु ग्रीवाजङ्घामेहनेषु । पुनस्त्रिषु नाभि-
स्वरसत्वेषु । पञ्चसु नासाभुजनेत्रहनूजानुषु ।
पुनः पञ्चसु त्वक्केशरोमदन्ताङ्गुलिपर्व्वसु ।
तथैव महापुरुषलक्षणे सामुद्रकग्रन्थप्रसिद्धेः ।
द्वात्रिंशद्वराणि तत्तल्लक्षणेभ्यः अन्येभ्योऽपि
श्रेष्ठानि लक्षणानि यस्य सः गोपेषु कथमिति
भगवदवतारादिषु अप्येतादृशत्वाश्रवणादिति
भावः ।” इति श्रीजीवगोस्वामिविरचिता दुर्गम-
सङ्गमनीनाम्नी टीका ॥

द्वादश, [न्] त्रि, (द्व्यधिका दश । “द्व्यष्टन इति ।”

६ । ३ । ४७ । इति आत्वम् ।) द्व्यधिका दश । १२
वार इति भाषा । द्वादशसंख्या तत्संख्येयाश्च ।
अयं नित्यबहुवचनान्तः । त्रिलिङ्गे समानरूपः ।
इति व्याकरणम् ॥ द्वादशवाचकानि यथा ।
सूर्य्यः १ मासः २ राशिः ३ संक्रान्तिः ४ गुह-
बाहुः ५ सारिकोष्ठः ६ गुहनेत्रम् ७ राज-
मण्डलम् ८ । इति कविकल्पलता ॥

द्वादशः, त्रि, (द्वादशानां पूरणः । “तस्य पूरणे

डट् ।” ५ । २ । ४८ । इति डट् ।) द्वादशानां पूरणः ।
इति व्याकरणम् ॥ वारै इति भाषा । (यथा,
मनुः ।
“गर्भाष्टमेऽब्दे कुर्व्वीत ब्राह्मणस्योपनायनम् ।
गर्भादेकादशे राज्ञो गर्भाच्च द्बादशे विशः ॥”
महादेवः । यथा, महाभारते । १३ । १७ । ९३ ।
“द्वादशस्त्राशनश्चाद्यो यज्ञो यज्ञसमाहितः ॥”)

द्वादशकरः, पुं, (द्वादश करा भुजा यस्य ।) बृह-

स्पतिः । इति त्रिकाण्डशेषः ॥ कार्त्तिकेयश्च ॥

द्वादशपत्रकं, क्ली, (द्वादश अक्षराणि पत्राणि इव

यस्य ।) योगविशेषः । यथा, --
“पितामहोऽपि तं पुत्त्रं साध्यं सद्विनये रतम् ।
सनत्कुमारं प्रोवाच योगं द्वादशपत्रकम् ॥
शिखासंस्थन्तु ॐकारं मेषोऽस्य शिरसि स्थितः ।
मासो वैशाखनामा च प्रथमं पत्रकं स्मृतम् ॥
नकारः शिरसि प्रोक्तो वृषोऽस्य शिरसि स्थितः ।
ज्यैष्ठमासश्च तत् पत्रं द्वितीयं परिकीर्त्तितम् ॥
मोकारो भुजयोर्युग्मं मिथुनं तत्र संस्थितःम्
मास आषाढनामा च तृतीयं पत्रकं स्मृतम् ॥
भकारो नेत्रयुगलं कर्क्कटस्तत्र संस्थितः ।
मासः श्रावण इत्युक्तश्चतुर्थं पत्रकं स्मृतम् ॥
गकारो हृदयं प्रोक्तं सिंहो वसति तत्र च ।
मासो भाद्रस्तथा प्रोक्तः पञ्चमं पत्रकं स्मृतम् ।
वकारं कवचं विद्यात् कन्या तत्र प्रतिष्ठिता ।
मासश्चाश्वयुजो नाम षष्ठं तत्पत्रकं स्मृतम् ॥
तेकारमन्त्रग्रामश्च तुलाराशिकृताश्रयः ।
मासश्च कार्त्तिको नाम सप्तमं पत्रकं स्मृतम् ॥
वाकारो नाभिसंयुक्तः स्थितस्तत्र च वृश्चिकः ।
मासो मार्गशिरो नाम त्वष्टकं पत्रकं स्मृतम् ॥
सुकारो जघनः प्रोक्तस्तत्रस्थश्च धनुर्धरः ।
पुष्येति गदितो मासो नवमं परिकीर्त्तितम् ॥
देकारश्चोरुयुगलं मकरोऽप्यत्र संस्थितः ।
माघो निगदितो मासः पत्रकं दशमं स्मृतम् ॥
वाकारो जानुयुगलं कुम्भस्तत्रापि संस्थितः ।
पृष्ठ २/७६५
पत्रकं फाल्गुनः प्रोक्तं तदेकादशमुत्तमम् ॥
पादौ यकारो मीनो हि स चैत्रे वसते मुने ! ।
इदन्तु द्बादशं प्रोक्तं पत्रं वै केशवस्य हि ॥
द्वादशारन्तथा चक्रं यन्नाभिद्विभुजन्तथा ।
त्रिव्यूहन्त्वेकमूर्त्तिश्च तथोक्तः परमेश्वरः ॥
एतत्तवोक्तं देवस्य रूपं द्वादशपत्रकम् ।
यस्मिन् ज्ञाते मुनिश्रेष्ठ ! न भूयो मरणं भवेत् ॥”
इति वामनपुराणेऽष्टपञ्चाशत्तमोऽध्यायः ॥

द्वादशलोचनः, पुं, (द्वादश लोचनानि नेत्राणि

यस्य । षडाननत्वादेवास्य तथात्वम् ।) कार्त्ति-
केयः । इति त्रिकाण्डशेषः ॥

द्वादशांशुः, पुं, (द्वादश अंशवः किरणानि यस्य ।)

बृहस्पतिः । इति भूरिप्रयोगः ॥ (यदुक्तं मात्स्ये ।
१२७ । ५५ ।
“लोहितो नवरश्मिस्तु स्थानमापन्तु तस्य वै ।
बृहत् द्वादशरश्मीकं हरिद्राभन्तु वेधसः ॥”)

द्वादशाक्षः, पुं, (द्वादश अक्षीणि यस्य ।) कार्त्ति-

केयः । (द्बादशविषयेषु अक्षिणी यस्य ।) बुद्धः ।
इति हेमचन्द्रः । २ । १४८ ॥ (कार्त्तिकेयस्य अनु-
चरविशेषः । यथा, महाभारते । ९ । ४५ । ५६ ।
“एकाक्षो द्वादशाक्षश्च तथैवैकजटः प्रभुः ॥”)

द्वादशाक्षरमन्त्रः, पुं, (द्वादश अक्षराणि अस्य ।

तादृशो मन्त्रः ।) द्वादशवर्णात्मकविष्णुविषयक-
मन्त्रविशेषः । यथा, --
“नमो भगवते वासुदेवायोङ्कारपूर्ब्बकम् ।
महामन्त्रमिमं प्राहुस्तत्त्वज्ञा द्वादशाक्षरम् ॥”
इति पाद्मे क्रियायोगसारः ॥

द्वादशाख्यः, पुं, (द्वादश ज्ञानकर्म्मादिविषयान्

आख्यातीति । ख्या कथने + कः ।) बुद्धः । इति
त्रिकाण्डशेषः ॥

द्वादशाङ्गुलः, पुं, (द्वादश अङ्गुलयः परिमाण-

मस्य । “तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः ।” ५ ।
४ । ८६ । इति अच् ।) वितस्तिः । इत्यमरः ।
२ । ६ । ८४ ॥

द्वादशात्मा, [न्] पुं, (द्वादश आत्मानो मूर्त्तयो

यस्य ।) सूर्य्यः । (यथा, महाभारते । ३ । ३ । २६ ।
“द्वादशात्मारविन्दाक्षः पिता माता पिता-
महः ॥”)
अर्कवृक्षः । इत्यभरः ॥

द्वादशायुः, [स्] पुं, (द्वादशवर्षपर्य्यन्तं आयु-

र्यस्य ।) कुक्कुरः । इति शब्दमाला ॥

द्वादशार्च्चिः, [स्] पुं, (द्वादश अर्च्चींषि किर-

णानि यस्य ।) बृहस्पतिः । इति हेमचन्द्रः ।
२ । ३२ ॥

द्वादशी, स्त्री, (द्वादश + टित्त्वात् ङीष् ।) तिथि-

विशेषः । सा चन्द्रस्य द्वादशकलाक्रियारूपा ।
सा च विष्णुतिथिः । यथा, --
“त्रैलोक्यगामिनी देवी लक्ष्मीस्तेऽस्तु सदा प्रिया ।
द्वादशी च तिथिस्तेऽस्तु कामरूपी च जायते ॥
घृताशनो भवेद्यस्तु द्वादश्यां तत्परायणः ।
स्वर्गवासी स भवतु पुमान् स्त्री वा विशेषतः ॥”
मार्गशीर्षीया शुक्लद्वादशी मत्स्यद्वादशी १
पौषी कूर्म्मद्वादशी २ माघी वराहद्वादशी ३
फाल्गुनी नृसिंहद्वादशी ४ चैत्री वामनद्वादशी
५ वैशाखी जामदग्न्यद्वादशी ६ ज्यैष्ठी राम-
द्वादशी ७ आषाढी कृष्णद्वादशी ८ श्रावणी
बुद्धद्वादशी ९ भाद्री कल्किद्वादशी १० आश्विनी
पद्मनाभद्वादशी ११ कार्त्तिकी नारायणद्वादशी
१२ । एतासां नाम धरणीव्रतम् । एतत्करणे
महाफलम् । इति वराहपुराणम् ॥
अथ पिपीतकद्वादशी । नारदीये ।
“वैशाखे शुक्लपक्षे तु द्वादशी वैष्णवी तिथिः ।
तस्यां शीतलतोयेन स्नापयेत् केशयं शुचिः ॥”
इयं पिपीतकद्वादशी । अत्र ।
“षष्ठीसमेता कर्त्तव्या सप्तमी नाष्टमीयुता ।
पतङ्गोपासनायेह षष्ठ्यामाहुरुपोषणम् ॥
एकादश्यां प्रकुर्व्वन्ति उपवासं मनीषिणः ।
उपासनाय द्वादश्यां विष्णोर्यद्वदियं तथा ॥”
इति भविष्यपुराणेन एकादश्युपवासानन्तरं
द्वादश्यां विष्णूपासनाया उक्तत्वात् । अत्रापि
तथा व्यवहरन्तीति नात्र युग्मादरः । द्वादशी-
क्षये तूपवासानन्तर्य्यं विनापि पूजेति । इयं
पूर्ब्बवचनोक्ता षष्ठीयुता सप्तमी ॥ आषाढादि-
द्वादशीषु शयनादिकम् ॥ * ॥
अथ श्रवणद्वादशी ।
सा भाद्रशुक्लद्वादश्यामेव सम्भवति । “भविष्योत्तरे ।
‘द्वादशी श्रवणोपेता सर्व्वपापहरा तिथिः ।
बुधवारसमायुक्ता ततः शतगुणा भवेत् ।
तामुपोष्य समाप्नोति द्वादशद्वादशीफलम् ॥’
उभयदिने तल्लाभे तु एकादशीयुतैव ग्राह्या ।
‘द्वादशी च प्रकर्त्तव्या एकादश्यन्विता विभो ।
सदा कार्य्या च विद्वद्भिर्विष्णुभक्तैश्च मानवैः ॥’
इति स्कान्दात् ॥
यदा त्वेकादश्यामेव श्रवणा तदा तामुपवसेत् ।
तथा च नारदः ।
‘याः काश्चित्तिथयः प्रोक्ताः पुण्या नक्षत्र-
योगतः ।
तास्वेव तद्व्रतं कुर्य्यात् श्रवणद्वादशीं विना ॥’
भविष्योत्तरेऽपि ।
‘एकादशी यदा तु स्यात् श्रवणेन समन्विता ।
विजया सा तदा प्रोक्ता भक्तानां विजयप्रदा ॥
तिथिनक्षत्रसंयोगे उपवासो यदा भवेत् ।
तावदेव न भोक्तव्यं यावन्नैकस्य संक्षयः ॥
विशेषेण महीपाल ! श्रवणं वर्द्धते यदि ।
तिथिक्षयेण भोक्तव्यं द्वादशीं नैव लङ्घयेत् ॥’
तिथिक्षयेण एकादशीतिथिक्षयेण भोक्तव्यं
द्वादश्यां पारयेदित्यर्थः । अत्र हेतुर्द्बादशी-
मित्यादि । यदा त्वेकादश्युपवासदिने श्रवणं
नास्ति परदिने द्वादश्यां श्रवणं तदोपवासद्वय-
माह ब्रह्मवैवर्त्तः ।
‘एकादशीमुपोष्यैव द्वादशीं समुपोषयेत् ।
न चात्र विधिलोपः स्यादुभयोर्द्देवता हरिः ॥’
अत्र असमाप्ते व्रते पूर्ब्बे नैव कुर्य्याद्व्रतान्तर-
मिति स्मृतेः ॥ पारणस्याकरणेन पूर्ब्बोपवासा-
समाप्तावुपवासान्तरारम्भे विधिलोपो न भवेदि-
त्यर्थः हेतुमाह उभयोरित्यादि । उभयोरुपवासा-
सामर्थ्ये तु श्रवसद्वादश्येवोपोष्या । तथा च स्मृतिः ।
‘वरमेकादशीं भुक्त्वा द्बादशीं समुपोषयेत् ।
पूर्ब्बोपवासजं पुण्यं सर्व्वं प्राप्नोत्यसंशयम् ॥
उपोष्य द्बादशीं पुण्यां विष्णुऋक्षेण संयुताम् ।
एकादश्युद्भवं पुण्यं नरः प्राप्नोत्यसंशयम् ॥’
द्वादश्युपवासः काम्यः । तथा च मार्कण्डेय-
पुराणम् ।
‘द्वादश्यामुपवासेन शुद्धात्मा नृप ! सर्व्वशः ।
चक्रवर्त्तित्वमतुलं संप्राप्नोत्यतुलां श्रियम् ॥”
कार्त्तिकशुक्लद्बादशी मन्वन्तरा । “तथा च
भविष्यमत्स्ययोः ।
‘अश्वयुक्शुक्लनवमी द्वादशी कार्त्तिकी तथा ।’
इत्यादिवचनात् ।” इति तिथितत्त्वम् ॥ * ॥
“अग्रहायणशुक्लद्वादशी अखण्डद्वादशी । तत्रो-
पोष्य विष्णुपदप्राप्तिकामोऽखण्डद्वादश्यां विष्णुं
पूजयिष्ये इति संकल्प्य पञ्चगव्येन स्नापयित्वा
यथाशक्त्युपचारेण संपूज्य यवब्रीहिपूर्णपात्रं
गृहीत्वा ।
‘ॐ सप्तजन्मसु यत्किञ्चिन्मया खण्डव्रतं कृतम् ।
भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे ॥
यथा खण्डं जगत् सर्व्वं त्वमेव पुरुषोत्तम् ! ।
ततोऽखिलान्यखण्डानि व्रतानि मम सन्तु वै ॥’
इति प्रार्थ्य दक्षिणां दद्यात् ।” इति कृत्यचन्द्रिका ॥
भैमीपरद्वादश्यां षट्तिलाचरणम् । यथा विष्णु-
धर्म्मोत्तरे ।
“मृगशीर्षे शशधरे माघे मासि प्रजापते ! ।
एकादश्यां सिते पक्षे सोपवासो जितेन्द्रियः ।
द्वादश्यां षट्तिलाचारं कृत्वा पापात् प्रमुच्यते ॥
तिलस्नायी तिलोद्वर्त्ती तिलहोमी तिलोदकी ।
तिलस्य दाता भोक्ता च षट्तिली नावसीदति ॥
सकृत्तु षट्तिली भूत्वा सर्व्वपापैः प्रमुच्यते ।
त्रिंशद्वर्षसहस्राणि स्वर्गलोके महीयते ॥”
अथ गोविन्दद्वादशी ।
“फाल्गुने शुक्लपक्षस्य पुष्यर्क्षे द्वादशी यदि ।
गोविन्दद्वादशी नाम महापातकनाशिनी ॥”
अत्र गङ्गायां पद्मपुराणीयो मन्त्रः ।
“महापातकसंज्ञानि यानि पापानि सन्ति मे ।
गोविन्दद्वादशीं प्राप्य तानि मे हर जाह्नवि ! ॥”
इति तिथ्यादितत्त्वम् ॥
अथ द्वादशीजातफलम् ।
“बहुप्रजः सर्व्वजनानुरागी
भूपालमान्यस्त्वतिथिप्रियः स्यात् ।
चेत् द्वादशी यस्य जनस्य सूतौ
प्रवासहीनो व्यवहारदक्षः ॥”
इति कोष्ठीप्रदीपः ॥

द्वापरः, पुं, (द्वयोर्विषययोः परस्तत्पर आसक्तः

इत्यर्थः । पृषोदरादित्वात् साधुः ।) सन्देहः ।
(द्वौ सत्यत्रेतायुगौ परौ श्रेष्ठौ यस्मात् ।) युग-
विशेषः । इत्यमरः । ३ । ३ । १६१ ॥ तद्युग-
परिमाणं यथा, --
पृष्ठ २/७६६
“अंष्टौ शतसहस्राणि वर्षाणां मानुषाणि तु ।
चतुःषष्टिसहस्राणि वर्षाणां द्वापरं युगम् ॥”
८६४, ००० ॥ तस्य धर्म्मो यथा, --
“अत ऊर्द्ध्वं प्रवक्ष्यामि द्वापरस्य विधिं पुनः ।
तत्र त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते ॥
द्वापरादौ प्रजानान्तु सिद्धिस्त्रेतायुगे तु या ।
परिवृत्ते युगे तस्मिंस्ततः सा विप्रणश्यति ॥
ततः प्रवर्त्तते तासां प्रजानां द्वापरे पुनः ।
लोभो भृतिर्बणिग्युद्धं तत्त्वानामविनिश्चयः ॥
प्रध्वंसश्चव वर्णानां कर्म्मणाञ्च विपर्य्ययः ।
यज्ञे वधः पशोर्दण्डो मानो दर्पः क्षमा बलम् ॥
तथा रजस्तमो भूयः प्रवृत्ते द्वापरे पुनः ।
आद्ये कृते न धर्म्मोऽस्ति स त्रेतायां प्रवर्त्तितः ॥
द्वापरे व्याकुलो भूत्वा प्रणश्यति कलौ पुनः ।
वर्णानां द्वापरे ध्वंसः संक्षीतन्ते तथाश्रमाः ॥
द्वैधमुत्पद्यते चैव युगे तस्मिन् श्रुतौ स्मृतौ ।
द्विधा श्रुतिः स्मृतिश्चैव निश्चयो नाधिगम्यते ॥
अनिश्चयोऽधिगमनाद्धर्म्मतत्त्वं न विद्यते ।
धर्म्मतत्त्वे ह्यविज्ञाते मतिभेदस्तु जायते ॥
परस्परविभिन्नैस्तैर्दृ ष्टीनां विभ्रमेण तु ।
ततो दृष्टिविभिन्नैस्तैः कृतं शास्त्राकुलं त्विदम् ॥
एकं वेदं हि वै व्यासः संहृत्य तु पुनः पुनः ।
संक्षेपादायुषश्चैव दृश्यते द्वापरे त्विह ।
वेदश्चैकश्चतुर्द्धा तु व्यस्यते द्वापरादिषु ॥
ऋषिपुत्त्रैः पुनर्भेदाद्भिद्यन्ते दृष्टिविभ्रमैः ।
मन्त्रब्राह्मणविन्यासैः स्वरक्रमविपर्य्ययैः ॥
संहिता ऋग्यजुःसाम्नां सहितास्तैः श्रुतर्षिभिः ।
सामान्याद्वैकृताच्चैव दृष्टिभिन्नैः क्वचित् क्वचित् ॥
ब्राह्मणं कल्पसूत्राणि भाष्यविद्यास्तथैव च ।
अन्ये तु प्रस्थितास्ते वै केचिन्न प्रत्यवस्थिताः ॥
द्वापरेषु प्रवर्त्तन्ते भिन्नार्थैस्तैः सुदर्शनैः ।
एवमाध्वर्य्यवं पूर्ब्बमासीद्द्वैधं ततः पुनः ॥
प्तामान्यविपरीतार्थैः कृतं शास्त्राकुलं त्विदम् ।
आध्वर्य्यवस्य प्रस्थानैर्बहुधा व्याकुलीकृतम् ॥
तथैवाथर्व्वणां साम्नां विकलैः स्वस्य संक्षयैः ।
व्याकुलो द्वापरेष्वर्थः क्रियते भिन्नदर्शनैः ॥
द्वापरे सन्निवृत्तास्ते वेदा नश्यन्ति वै कलौ ।
तेषां विपर्य्ययोत्पन्ना भवन्ति द्वापरे पुनः ॥
अवृष्टिमरणञ्चैव तथैव व्याध्युपद्रवाः ।
वाङ्मनःकर्म्मभिर्दुःखैर्निर्वेदो जायते ततः ।
निर्व्वेदाज्जायते तेषां दुःखं मोक्षविचारणा ।
विचारणायां वैराग्यं दैराग्याद्दोषदर्शनम् ॥
दोषाणां दर्शनाच्चैव ज्ञानोत्पत्तिश्च जायते ।
तेषां मेधाविनां पूर्ब्बमाद्ये स्वायम्भुवेऽन्तरे ।
उत्पद्यन्तीह शास्त्राणां द्वापरे परिपन्थिनः ॥
आयुर्व्वेदविकल्पाश्च अङ्गानां ज्योतिषस्य च ।
अर्थशास्तविकल्पाश्च हेतुशास्त्रविकल्पनम् ॥
प्रक्रियाकल्पसूत्राणां भाष्यविद्याविकल्पनम् ।
स्मृतिशास्त्रप्रभेदाश्च प्रस्थानानि पृथक् पृथक् ॥
द्वापरेष्वभिवर्त्तन्ते मतिभेदास्तथा नृणाम् ।
मनका कर्म्मणा वाचा कृच्छ्राद्वार्त्ता प्रसिध्यति ॥
द्बापरः सर्व्वभूतानां कायक्लेशपुरस्कृतः ।
लोभो भृतिर्बणिग्युद्धन्तत्त्वानामविनिश्चयः ॥
वेदशास्त्रप्रणयनं धर्म्माणां सङ्करस्तथा ।
वर्णाश्रमपरिध्वंसः कामद्वेषौ तथैव च ॥
पूर्णे वर्षसहस्रे द्बे परमायुस्तदा नृणाम् ।
निःशेषे द्वापरे तस्मिन् तस्य सन्ध्या तु पादतः ॥
गुणहीनाश्च तिष्ठन्ति धर्म्मस्य द्वापरस्य तु ।
तथैव सन्ध्यापादेव अंशस्तस्य प्रतिष्ठितः ॥”
इति मत्स्यपुराणे १२० अध्यायः ॥

द्वापरयुगं, क्ली, (द्बापर एव युगम् ।) तृतीय-

युगम् । तस्योत्पत्त्यादि यथा । “भाद्रकृष्णत्रयो-
दश्यां गुरुवासरे द्वापरयुगोत्पत्तिः । तत्र अव-
तारद्वयम् । कृष्णबुद्धौ । पुण्यमर्द्धम् । पापमर्द्धम् ।
नैमिषारण्यं तीर्थम् । नाडीक्षो ब्राह्मणः ।
रक्तगताः प्राणाः । सप्तहस्तपरिमितो मानव-
देहः । सहस्राब्दमायुः । ताम्रपात्रे भोजनम् ।
इति द्बापरयुगस्य लक्षणम् । द्वापरयुगाब्दाः
८६४,००० । द्वापरयुगस्य राजानः शाल्व-
विराटहंसध्वजकंसध्वजमेयूरव्वजवज्रवाहन-
रुक्माङ्गदजरासन्धदुर्य्योधनयुधिष्ठिराः ।
धर्म्माधर्म्मरतो लोकः प्रलापी चपलः सदा ।
ज्ञाननिष्ठः कपटवाक् द्वापरे राजविस्तरः ॥
तत्र तारकब्रह्मनाम ।
हरे ! मुरारे मधुकैटभारे
गोपाल गोविन्द मुकुन्द शौरे ।
यज्ञेश नारायण कृष्ण विष्णो !
निराश्र मां जगदीश ! रक्ष ॥”
इति मुद्राङ्कितपञ्जिकातः संगृहीतम् ॥

द्वापरयुगाद्या, स्त्री, (द्वापरयुगस्य आद्या आर-

म्भिका तिथिः ।) द्वापरयुगारम्भतिथिः । सा च
गौणभाद्रकृष्णत्रयोदशी । तत्प्रमाणं युगाद्या-
शब्दे द्रष्टव्यम् ॥

द्वारं, क्ली, (द्वरति निर्गच्छति गृहाभ्यन्तरादने-

नेति । द्वृ + घञ् ।) निर्गमनम् । अभ्युपायः ।
इति मेदिनी । रे, ४८ ॥ आद्यस्य पर्य्यायः । द्वाः
२ प्रतीहारः ३ । इत्यमरः । २ । ३ । १६ ॥
वारकम् ४ । इति शब्दरत्नावली ॥
“गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च ।
न मध्यदेशे कर्त्तव्यं किञ्चिन्न्यूनाधिकं शुभम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥

द्वारकः, पुं, (द्वारेण प्रशस्तप्रतीहारेण कायति

शोभते इति । कै + कः) द्वारका । इति शब्द-
रत्नावली ॥

द्वारकण्टकः, पुं, (द्वारस्य कण्टक इव ।) कवा-

टम् । इति शब्दरत्नावली ॥

द्वारका, स्त्री, (द्वारेण बहुना प्रशस्तेन च प्रती-

हारेण कायतीति । कै + कः । स्त्रियां टाप् ।)
स्वनामख्यातपुरी । तत्पर्य्यायः । द्वारावती २
द्वारवती ३ वनमालिनी ४ द्वारिका ५ अब्धि-
नगरी ६ द्वारकः ७ । इति शब्दरत्नावली ॥
(यथा, हरिवंशे । १३२ । ४६ ।
“सत्यकं प्रेषयामास द्वारकां द्वारमालिनीम् ॥”)
तस्या निर्म्माणप्रकारो यथा, --
श्रीकृष्ण उवाच ।
“हे समुद्र महाभाग ! स्थलञ्च शतयोजनम् ।
देहि मे नगरार्थञ्च पश्चाद्दास्यामि निश्चितम् ॥
नगरं कुरु हे कारो त्रिषु लोकेषु दुर्लभम् ।
रमणीयञ्च सर्व्वेषां कमनीयञ्च योषिताम् ॥
वाञ्छितञ्चापि भक्तानां वैकुण्ठसदृशं परम् ।
सर्व्वेषामपि स्वर्गाणां परं परमभीप्सितम् ॥
दिवानिशं खगश्रेष्ठ ! सन्निधौ विश्वकर्म्मणः ।
स्थितिं कुरु महाभाग ! यावन्निर्म्माति द्वारकाम् ॥
विश्वकारुरुवाच ।
द्बारकाञ्च किमाकारां करोमि जगतां विभो ! ।
कथयस्व महाभाग ! निर्म्माणक्रममीश्वर ! ॥
भगवानुवाच ।
शतयोजनपर्य्यन्तं नगरं मुमनोहरम् ।
पद्मरागैर्मरकतैरिन्द्रनीलैरनुत्तमैः ॥
रुचकैः पारिभद्रैश्च पालङ्कैश्च स्यमन्तकैः ।
गन्धकैर्गालिमैश्चैव चन्द्रकान्तादिभिस्तथा ॥
सूर्य्यकान्तादिभिश्चैव पुत्त्रैश्च स्फटिकाकृतैः ।
हरिद्वर्णैश्च मणिभिः श्यामैर्गौरमुखैश्च वै ॥
गोरोचनाभैः पीतैश्च दाडिम्बबीजरूपकैः ।
पद्मबीजनिभैश्चैव नीलैः कमलवर्णकैः ॥
मणिभिः कज्जलाकारैरुज्ज्वलैश्च परिष्कृतैः ।
श्वेतचम्पकवर्णाभैस्तप्तकाञ्चनसन्निभैः ॥
स्वर्णमूल्यशतगुणैरीषद्रक्तैश्च रूपकैः ।
गरिष्ठैश्च वरिष्टैश्च मणिश्रेष्ठैश्च पूजितैः ॥
यथाविधानं यद्योग्यं यत्र यद्युक्तमीप्सितम् ।
मणीनां हरणञ्चैव यक्षसंघा हिमालयात् ॥
दिवानिशं करिष्यन्ति यावन्निर्म्माणपूर्ब्बकम् ।
यक्षैश्च सप्तभिर्लक्षैः कुवेरप्रेरितैरपि ॥
वेताललक्षैः कुष्माण्डलक्षैः शङ्करयोजितैः ।
दानवैर्ब्रह्मरक्षोभिः शैलकन्यानियोजितैः ॥
कुरु दिव्यञ्च पत्नीनां सहस्राणाञ्च षोडश ।
अन्यपत्नीजनस्यापि चाष्टाधिकशतस्य च ॥
शिविरं परिखायुक्तमुच्चैः प्राकारवेष्टितम् ।
युक्तं द्वादशसारञ्च सिंहद्बारपुरस्कृतम् ॥
युक्तं चित्रैर्विचित्रैश्च कृत्रिमैश्च कवाटकैः ।
निषिद्धवृक्षरहितं प्रसिद्धैश्च पुरस्कृतम् ॥
सुलक्षणं चन्द्रवेधं प्राङ्गनञ्च तथैव च ।
यदूनामाश्रमं दिव्यं किङ्कराणान्तथैव च ॥
सर्व्वप्रसिद्धं निलयमुग्रसेनस्य भूभृतः ।
आश्रमं सर्व्वतोभद्रं वसुदेवस्य मत्पितुः ॥
कथितः लोकशिक्षार्थं कुरु काष्ठं विना पुरीम् ।
शुभक्षणञ्चाप्यधुना गच्छ वत्स ! यथासुखम् ॥
विश्वकर्म्मा हरिं नत्वा जगाम पक्षिणा सह ।
सुमुद्रस्य समीपञ्च वटमूलं मनोहरम् ॥
सुष्वाप्र तत्र नक्तञ्च कारुश्च पक्षिणा सह ।
स्वप्ने द्वारवतीं रम्यां ददर्श गरुडस्तथा ॥
यत्किञ्चित् कथितः कारुः कृष्णेन परमात्मना ।
तदेव लक्षणं सर्व्वं ददर्श नगरे मुने ! ॥
कारुं हसन्ति स्वप्ने च सर्व्वे ते शिल्पकारिणः ।
गरुडं गरुडाश्चान्ये बलवन्तश्च पक्षिणः ॥
बुद्ध्वा ददर्श मरुडो विश्वकर्म्मा च लज्जितः ।
पृष्ठ २/७६७
अतीव द्वारकां रम्यां शतयोजनविस्तृताम् ॥
ब्रह्मादीनाञ्च नगरं विजित्य च विराजिताम् ।
तेजसाच्छादितां सूर्य्यं रत्नानाञ्च परिष्कृताम् ॥
वासुदेव उवाच ।
पैतृकीतीर्थतुल्या सा किं तीर्थं द्वारकापरम् ।
सर्व्वतीर्थपरा श्रेष्ठा द्वारका बहुपुण्यदा ॥
यस्याः प्रवेशमात्रेण नराणां जन्मखण्डनम् ॥
दानञ्च द्वारकायाञ्च श्राद्धञ्च देवपूजनम् ।
चतुर्गुणञ्च तीर्थानां गङ्गादीनाञ्च भूमिप ! ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥

द्वारकेशः, पुं, (द्वारकाया नगर्य्या ईशः ।) श्रीकृष्णः ।

इति शब्दरत्नावली ॥

द्वारदातुः, पुं, (द्वारं ददातीति । दा + तुन् ।)

वरदातुः । भूमीसहवृक्षः । इति भावप्रकाशः ॥

द्वारपालः, त्रि, (द्वारं पालयतीति । पालि +

“कर्म्मण्यन् ।” ३ । २ । १ । इत्यण् ।) द्वार-
रक्षकः । दरवान् । इति पारस्य भाषा । तत्-
पर्य्यायः । प्रतीहारः २ द्वाःस्थः ३ द्वाःस्थितः ४
दर्शकः ५ । इत्यमरः । २ । ८ । ६ ॥ वेत्रधारकः
६ द्वौःसाधिकः ७ वर्त्तरूकः ८ गर्व्वाटः ९
दण्डवासी १० । इति त्रिकाण्डशेषः ॥ द्वारस्थः
११ क्षत्ता १२ द्वारपालकः १३ दौवारिकः १४
वेत्री १५ उत्सारकः १६ दण्डी १७ । इति
हेमचन्द्रः ॥ अस्य विवरणं दौवारिकशब्दे
द्रष्टव्यम् ॥

द्वारपालकः, पुं, (पालयतीति ण्वुल् । द्वाराणां

पालकः । यद्वा, द्वारपाल + स्वार्थे कन् ।) द्वार-
पालः । इति शब्दरत्नावली ॥

द्वारपिण्डी, स्त्री, (द्वारस्य पिण्डी पिण्डिकेव ।)

देहली । इति जटाधरः ॥

द्वारबलिभुक्, [ज्] पुं, (द्वारदत्तं बलिं भुङ्क्ते इति ।

भुज् + क्विप् ।) वकः । इति त्रिकाण्डशेषः ॥

द्वारयन्त्रं, स्त्री, (द्वारबन्धकं यन्त्रं मध्यलोपी

समासः ।) तालकम् । इति हेमचन्द्रः । ४ । ७१ ॥
ताला इति कुलुपं इति च भाषा ॥

द्वारवती, स्त्री, (द्वाराणि सन्त्यत्र । यद्वा, चतु-

र्वर्णानां मोक्षद्वाराणि सन्ति अत्रेति । द्वार +
मतुप् । मस्य वः ।) द्वारका । इति त्रिकाण्ड-
शेषः ॥ (यथा, हरिवंशे । १० । ३४ ।
“कृतां द्वारवतीं नाम बहुद्बारां मनोरमाम् ॥”
तथा च तत्रैव, --
“चतुर्णामपि वर्णानां यत्र द्वाराणि सर्व्वतः ।
अतो द्वारवतीत्युक्ता विद्बद्भिस्तत्त्ववेदिभिः ॥”
इयं हि पीठस्थानानामन्यतमा । अत्र भगवती
रुक्मिणीरूपेण विराजते । यथा, देवीभावते ।
७ । ३० । ६९ ।
“रुक्मिणी द्वारवत्यान्तु राधा वृन्दावने वने ॥”)

द्वारस्थः, पुं, (द्वारे तिष्ठतीति । स्था + कः ।) द्वार-

पालः । इति हेमचन्द्रः । ३ । ३८५ ॥ (द्वार-
स्थिते, त्रि । यथा, कथासरित्सागरे । १८ । ११६ ।
“सुप्ते च तस्मिन् द्वारस्थो जागरामास स
द्विजः ॥”)

द्वारावती, स्त्री, (द्वाराणि प्रशस्तबहुलप्रतीहाराः

सन्त्यत्र । द्वार + मतुप् मस्य वः । निपातनात्
पूर्ब्बदीर्घश्च ।) द्वारका । इति हेमचन्द्रः । ४ । ४६ ॥
“अयोध्या मथुरा माया काशी काञ्ची अव-
न्तिका ।
पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः ॥
एतास्तु पृथिवीमध्ये न गण्यन्ते कदाचन ।
पुरी द्वारावती विष्णोः पाञ्चजन्योपरिस्थिता ॥
मुक्तिदा एताः सर्व्वाश्च एकत्र गणिताः सुरैः ।
यानि यानि च क्षेत्राणि काशीप्राप्तिकराणि
षट् ॥”
इति भूतशुद्धितन्त्रम् ॥

द्वारिकः, पुं, (द्वारं पाल्यत्वेनास्त्यस्येति ठन् ।)

द्वारपालः । इत्यमरटीकासारसुन्दरी ॥ (यथा,
पञ्चतन्त्रे । ३ । ८५ ।
“यो मूर्खं लौल्यसम्पन्नं राजद्वारिकमाचरेत् ।
मिथ्यावादं विशेषेण तस्य कार्य्यं न सिध्यति ॥”)

द्वारिका, स्त्री, (प्रशस्तानि द्वाराणि सन्त्यास्या-

मिति । ठन् टाप् च ।) द्वारकापुरी । इति
शब्दरत्नावली ॥

द्वारी, [न्] त्रि, (द्वारं पाल्यतयास्त्यस्येति इनिः ।)

द्वारपालः । इति शब्दरत्नावली ॥ (यथा,
महाभारते । १ । १२६ । १० ।
“द्वारिणं तापसा ऊचू राजानञ्च प्रकाशय ॥”)

द्वाविंशतिः, स्त्री, (द्व्यधिका विंशतिरिति । “द्व्यष्टनः

संख्यायामबहुब्रीह्यशीत्योः ।” ६ । ३ । ४७ ।
इति आत्प्रत्ययः ।) द्व्यधिकविंशतिः । इति
व्याकरणम् ॥ वाइश इति भाषा । (यथा,
महाभारते । ७ । ४६ । १८ ।
“कर्णो द्वाविंशतिं भल्लान् कृतवर्म्मा चतुर्द्दश ॥”)

द्वासप्ततिः, स्त्री, (द्व्यधिका सप्ततिरिति । “विभाषा

चत्वारिंशत्प्रभृतौ सर्व्वेषाम् ।” ६ । ३ । ४९ ।
इति पाक्षिक आत्प्रत्ययः ।) द्विसप्ततिः । यथा,
द्वासप्ततिश्च बन्ध्यायामिति ज्योतिस्तत्त्वम् ॥

द्वास्थः, पुं, (द्वारि तिष्ठतीति । स्था + “सुपिस्थः ।

३ । २ । ४ । इति कः । “खर्परे शरि वा विसर्ग-
लोपो वक्तव्यः ।” ८ । ३ । ३६ । इत्यस्य वार्त्ति-
कोक्त्या विसर्गस्य पाक्षिकलोपः ।) द्वारपालः ।
इत्यमरटीकायां भरतः ॥

द्वास्थितः, पुं, (द्वारि स्थितः । विसर्गस्य पाक्षिक-

लोपः ।) द्वारपालः । इत्यमरटीकायां भरतः ॥

द्वास्थितदर्शकः, पुं, (पश्यतीति । दृश् + ण्वुल् ।

द्वास्थितः सन् दर्शकः ।) दौवारिकः । इत्यमर-
टीकायां भरतः ॥

द्विः, व्य, द्वौ वारौ, इति सुच्प्रत्ययेत साध्यम् ।

(यथा, रामायणे । २ । १८ । ३०
“करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ॥”)
सर्व्वनामान्तर्गतद्विशब्दस्य पुंसि रूपं द्वौ । स्त्रियां
क्लीवे च द्वे । तद्वाचकानि यथा, पक्षः १ नदी-
कूलम् २ असिधारा ३ रामपुत्त्रः ४ चक्षुः ५
हस्तः ६ स्तनः ७ । इति कविकल्पलता ॥
सहचरौ यथा, इन्द्राग्नी १ नारदपर्व्वतौ २
अश्विनीकुमारौ ३ भार्य्यायती ४ । इति महा-
भारते वनपर्व्व ॥

द्विकं, क्ली, (द्वाभ्यां कायतीति । कै + कः ।)

द्वयम् । यथा, --
“अशीतिभागं गृह्णीयान्मासाद्वार्द्धुषिकः शतात ।
द्विकं शतं वा गृह्णानो न भवेदर्थकिल्विषी ॥”
इत्याह्निकतत्त्वम् ॥
(द्वितीयेन रूपेण ग्रहणमिति । “तावतिथं
ग्रहणमिति लुग्वा ।” ५ । २ । ७७ । इति कन्
पूरणप्रत्ययस्य च लुक् । द्वितीयके, त्रि । इति
सिद्धान्तकौमुदी ॥)

द्विकः, पुं, (द्वौ कौ ककारवर्णौ यत्र ।) काकः ।

कोकः । इति मेदिनी । के, २६ ॥

द्विककारः, पुं, (द्वौ ककारौ यत्र ।) काकः । इति

शब्दरत्नावली ॥

द्विककुत्, [द्] पुं, (द्वे ककुदौ यस्य ।) उष्ट्रः ।

इति हेमचन्द्रः । ४ । ३२० ॥

द्विगुः, पुं, षट्समासान्तर्गतसमासविशेषः । स तु

संख्यापूर्ब्बपदानां समासः । वोपदेवेनास्य ग-
संज्ञा कृता । स च त्रिविधः । तद्धितार्थः १
समाहारः २ उत्तरपदपरश्च ३ । तद्धितार्था-
ऽपि द्विविधः । तद्धितप्रत्ययमात्रस्य अजादे-
र्हसादेर्व्वा अर्थे विषये इत्येकः । अपत्यार्थष्ण्या-
दिकं त्यक्त्रा अजादेस्तद्धितस्यार्थे वाच्ये इत्यपरः ।
तद्धितार्थविषयो यथा, द्वयोर्मात्रोरपत्यं द्वैमा-
तुरः । पञ्चानां नापितानामपत्यं पाञ्चनापितिः ॥
तद्धितार्थवाच्यो यथा, पञ्चभिर्गोभिः क्रीतः
पञ्चगुः ॥ समहारो यथा, त्रयाणां सखीनां समा
हारः त्रिसखम् । समाहारे अदन्तानां स्त्रीत्वं
पात्रादेस्तु क्लीवत्वम् ॥ उत्तरपदपरो यथा, --
पञ्च गावो धनं यस्य स पञ्चगवधन इत्यादि ।
इति मुग्धबोधटीकायां दुर्गादासः ॥ (द्वौ द्बे
वा गावौ यस्य इति विग्रहे गौणत्वे गोशब्दस्य
ह्रस्वः । द्विगवस्वामिके, त्रि । यथा, --
“द्वन्दो द्बिगुरपि चाहं मद्गेहे नित्यमव्ययीभावः ।
तत् पुरुष कर्म्म धारय येनाहं स्यां बहुव्रीहिः ॥”
इत्युद्भटः ॥)

द्विगुणं, त्रि, द्वाभ्यां पूरणम् । अङ्कद्वयाभ्यां घातः ।

इति लीलावती ॥ (यथा, आर्य्यासप्तशत्याम् ।
४९१ ।
“रुद्धस्वरसप्रसवस्यालिभिरग्रे नतं प्रियं प्रति मे ।
स्रोतस इव निम्नं प्रतिरागस्य द्विगुण आवेगः ॥”)

द्विगुणाकृतं, त्रि, (द्विगुणं कर्षणं कृतम् । “संख्या-

याश्च गुणान्तायाः ।” ५ । ४ । ५९ । इति डाच् ।)
वारद्वयकृष्टक्षेत्रम् । इत्यमरः । २ । ९ । ९ ॥
दोचसा भूँइ इति भाषा ॥

द्विजः, पुं, (द्विर्जायते इति । जन + “अन्येष्वपि

दृश्यते ।” ३ । २ । १०१ । इति डः ।) संस्कृत-
ब्राह्मणः । यथा, --
“जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते ।”
इति स्मृतिः ॥
सद्वृत्तब्राह्मणः । तल्लक्षणं यथा, --
पृष्ठ २/७६८
अम्बरीष उवाच ।
“कीदृशाय प्रदातव्यं महादानं द्विजातये ।
विदुषे वा निराधारे साचारेऽविदुषे मुने ! ॥
एतन्मे सर्व्वमाख्याहि यथातथ्यं द्विजोत्तम ! ।
उत्तारयति संगृह्य दातारं दानमेव हि ॥
वशिष्ठ उवाच ।
जात्या कुलेन वृत्तेन स्वाध्यायेन शुतेन च ।
एभिर्युक्तो हि यस्तिष्ठेत् नित्यं स द्विज उच्यते ॥
न जातिर्न कुलं राजन् ! न स्वाध्यायः श्रुतं न च ।
कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् ॥”
इति वह्निपुराणे प्रेतोपाख्याननामाध्यायः ॥
क्षत्त्रियः । वैश्यः । इति मेदिनी । जे, १० ॥
(यथा, याज्ञवल्क्ये । १ । ३९ ।
“मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् ।
ब्राह्मणक्षत्त्रियविशस्तस्मादेते द्विजाः स्मृताः ॥”
दन्तः । (यथा, --
“न च्छित्वा द्विजैर्भक्षयेत् ॥” इति चरके सूत्र-
स्थानेऽष्टमेऽध्याये ॥) अण्डजः । स पक्षिसर्पमत्-
स्यादिः । इत्यमरः । ३ । ३ । ३० ॥ (यथा,
रघुः । १२ । २२ ।
“ऐन्द्रिः किल नखैस्तस्या विददार स्तनौद्विजः ॥”)
तुम्बुरुवृक्षः । इति राजनिर्घण्टः ॥ द्विर्जाते, त्रि ॥

द्विजकुत्सितः, पुं, (द्विजानां द्विजेषु वा कुत्सितः ।

द्विजानां तद्भक्षणनिषेधात् तथात्वम् ।) श्लेष्मा-
न्तकवृक्षः । इति राजनिर्घण्टः शब्दमाला च ॥

द्विजदासः, पुं, (द्विजानां दासः ।) शूद्रः । इति

राजनिर्घण्टः ॥ द्विजानां दासे, त्रि ॥

द्विजन्मा, [न्] पुं, (द्वे जन्मनी यस्य ।) ब्राह्मणः ।

(यथा, देवीभागवते । ५ । ५ । ३ ।
“यतीनां भूषणं ज्ञानं सन्तोषो हि द्विजन्मनाम् ॥”)
दन्तः । पक्षी । इति शब्दरत्नावली ॥ क्षत्त्रियः ।
वैश्यश्च । त्रि, द्बिवारजन्मयुक्तः । (द्बाभ्यां जाय-
मानः । यथा, ऋग्वेदे । १ । १४० । २ ।
“अभिद्बिजन्मा त्रिवृदन्नमृज्यते ।
संवत्सरे वावृधे जन्धमी पुनः ॥”
“द्वाभ्यामरणीभ्यां जायमानत्वात् यद्बा मथने-
नाघानसंस्कारेण चोत्पन्नत्वात् द्विजन्मत्वम् ।”
इति तद्भाष्ये सायनः ॥)

द्विजपतिः, पुं, (द्विजानां पतिः ।) चन्द्रः । इति

त्रिकाण्डशेषः ॥ (यथा, देवीभागते । १ । ११ । २९ ।
“क्रूराणि चैवमादीनि भाषणानि बृहस्पतेः ।
श्रुत्वाद्विजपतिः शीघ्रं निर्गतं सदनाद्बहिः ॥”)

द्विजप्रपा, स्त्री, (द्विजानां पक्षिणां प्रपा ।)

आलबालम् । तत्पर्य्यायः । तल्लम् २ विल्लम् ३
तलम् ४ । इति त्रिकाण्डशेषः ॥

द्विजप्रिया, स्त्री, (द्विजानां याज्ञिकब्राह्मणादीनां

प्रिया ।) सोमलता । इति राजनिर्घण्टः ॥
द्विजस्य प्रियवस्तुनि, त्रि ॥

द्विजबन्धुः, पुं, (द्बिजस्य बन्धुरिव ।) अब्राह्मणः

स भट्टदैवज्ञादिः । यथा, --
“स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा ।”
इति स्मृतिः ॥

द्विजब्रुवः, पुं, (आत्मानं द्विजं ब्रूते इति । ब्रू + कः ।’

ब्राह्मणब्रुवः । स च जातिमात्रोपजीवी ब्राह्मणः ।
इति हेमचन्द्रः । ३ । ५१९ ॥ यथा, --
“सममब्राह्मणे दानं द्बिगुणं ब्राह्मणब्रुवे ।
अधीते शतसाहस्रमनन्तं वेदपारगे ॥”
इति स्मृतिः ॥

द्विजराजः, पुं, (द्विजानां राजा । “राजाहः-

सखिभ्यष्टच् ।” ५ । ४ । ९ । इति टच् ।) चन्द्रः ।
(यथा, देवीभागवते । १ । ११ । ७२ ।
“द्बिजराजस्तु तच्छ्रुत्वा भृगोर्व्वचनमद्भुतम् ।
ददावतत्प्रियां भार्य्यां गुरोर्गर्भवतीं शुभाम् ॥”)
कर्पूरः । इत्यमरः ॥ अनन्तः । गरुडः । इति
मेदिनी । जे, ३२ ॥

द्विजलिङ्गी, [न्] पुं, (द्बिजस्यलिङ्गं चिह्नमस्त्य-

स्येति । इनिः ।) क्षत्त्रियः । इति त्रिकाण्ड-
शेषः ॥ ब्राह्मणवेशधारिणि, त्रि ॥ (यथा,
मनुः । ९ । २२४ ।
“द्यूतं समाह्वयञ्चैव यः कुर्य्यात् कारयेत वा ।
तान् सर्व्वान् घातयेद्राजा शूद्रांश्च द्बिज-
लिङ्गिनः ॥”)

द्विजव्रणः, पुं, (द्विजस्य दन्तस्य व्रणः ।) दन्तार्वुदः ।

इति राजनिर्घण्टः ॥

द्विजशप्तः, पुं, (द्विजैः शप्तः ।) राजमाषः । इति

शब्दचन्द्रिका ॥ वरवटी इति भाषा ॥

द्विजसेवकः, पुं, (द्विजानां सेवकः ।) शूद्रः । इति

शब्दरत्नावली ॥ त्रिवर्णसेवाकर्त्तरि, त्रि ॥

द्विजा, स्त्री, (द्विर्जायते इति । जन् + डः । टाप् ।)

रेणुकानामगन्धद्रव्यम् । इत्यमरः । २ । ४ । १२० ॥
(अस्याः पर्य्यायो यथा, --
“रेणुका राजपुत्त्री च नन्दिनी कपिला द्विजा ।
भस्मगन्धा पाण्डुपत्री स्मृता कौन्ती हरेणुका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
भार्गी । इति मेदिनी । जे, १० ॥ पालङ्की । इति
शब्दचन्द्रिका ॥

द्विजाङ्गी, स्त्री, (द्विजस्य पक्षिणोऽङ्गमिव अङ्गं

यस्याः । ङीप् ।) कटुका । इति राजनिर्घण्टः ॥

द्विजातिः, पुं, (द्वे जाती यस्य ।) ब्राह्मणः । इत्य-

मरः । २ । ७ । ४ ॥ (यथा, महाभारते । १ ।
७४ । ६१ ।
“वेदेष्वपि वदन्तीमं मन्त्रजातं द्विजातयः ॥”)
अण्डजः । इति मेदिनी । ते, ११४ ॥ क्षत्त्रियः ।
वैश्यः । यथा, --
“शूद्रो द्विजातिभिर्जातो न भूमेर्भागमर्हति ।”
इति स्मृतिः ॥
(यथा च मनुः । १० । ४ ।
“ब्राह्मणः क्षत्त्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।
चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः ॥”)

द्विजायनी, स्त्री, (द्विजः अय्यते ज्ञायतेऽनयेति ।

अय + करणे ल्युट् । स्त्रियां ङीप् ।) यज्ञोप-
वीतम् । इति शब्दरत्नावली ॥

द्विजालयः, पुं, (द्विजानां पक्षिणामालयः ।) कोट-

रम् । इति शब्दचन्द्रिका ॥ द्विजानां गृहञ्च ॥

द्विजिह्वः, पुं, (द्वे जिह्वे यस्य ।) सर्पः । (अस्य

पर्य्यायो यथा वैद्यकरत्नमालायाम् ।
“व्याडश्चाशीविषः सर्पोद्विजिह्वोऽहिः सरीसृपः ।
चक्षुःश्रवा दन्दशूको गूढपात्पन्नगोरगाः ॥”)
सूचकः । इत्यमरः । ३ । ३ । १३३ ॥ (यथा,
माधे । १ । ६३ ।
“परस्य मर्म्माविधमुज्झतां निजं
द्विजिह्वतादोषमजिह्मगामिभिः ॥”)
खलः । इति मेदिनी । वे, १२ ॥ चौरः ।
दुःसाध्यः । इति शब्दरत्नावली ॥ (रोग-
विशेषः । यथा, सुश्रुते निदानस्थाने १४ अध्याये ।
“ज्ञेयो द्विजिह्वः खलु रोग एष
विवर्ज्जयेदागतपाकमेनम् ॥”
त्रि, द्विजिह्वाविशिष्टः । यथा, महाभारते ।
१ । ३४ । २४ ।
“द्बिजिह्वाश्च कृताः सर्पा गरुडेन महात्मना ॥”)

द्विजोत्तमः, पुं, (द्विजेषु उत्तमः ।) ब्राह्मणः ।

इति हलायुधः ॥ (यथा, मनुः । २ । ४९ ।
“भवत्पूर्ब्बं चरेद्भैक्षमुपनीतो द्विजोत्तमः ॥”)

द्विट्, [ष्] पुं, (द्बेष्टीति । द्बिष् + क्विप् ।) शत्रुः ।

इत्यमरः । २ । ८ । ११ ॥ (यथा, महाभारते ।
४ । १६ । ७ ।
“तस्मिन् जीवति पापिष्ठे सेनावाहे मम द्विषि ।
तत् कर्म्म कृतवत्यद्य कथं निद्रां निषेवसे ॥”)
द्बेष्टरि, त्रि । (यथा, रघौ । ३ । ४५ ।
“त्रिलोकनाथेन सदा मखद्विष-
स्त्वया नियम्या ननु दिव्यचक्षुषा ॥”)

द्विठः, पुं, वह्निजाया । स्वाहा । विसर्गः । इति

फेत्कारीयतन्त्रम् ॥ ठकारद्वयम् ॥

द्वितयं, क्ली, (द्वौ अवयवौ अस्य । द्वि + “संख्याया

अवयवे तयप् ।” ५ । २ । ४२ । इति तयप् ।)
द्वयम् । इति हेमचन्द्रः । २ । ५० । १२ ॥
(यथा, भागवते । ५ । २२ । ४ ।
“अत ऊर्द्ध्वमङ्गारकोऽपि योजनलक्षद्वितय उप-
लभ्यमानस्त्रिभिस्त्रिभिः पक्षैरेकैकशो राशीन्
द्वादशानुभुङ्क्ते ॥” द्वित्वसंख्याविशिष्टे, त्रि ।
यथा, रघुः । ८ । ९० ।
“द्रुमसानुमतां किमन्तरं
यदि वायौ द्वितयेऽपि तेऽचलाः ॥”)

द्वितीयं, त्रि, (द्वयोः पूरणम् । द्वि + “द्वेस्तीयः ।”

५ । २ । ५४ । इति तीयः ।) द्वयम् । इति
हेमचन्द्रः । ३ । १७७ ॥ (यथा, रघुः । २ । ४९ ।
“तथा विदुर्मो मुनयः शतक्रतुं
द्वितीयगामी न हि शब्द एष नः ॥”)

द्वितीयः, पुं, (द्बयोः पूरणः । आत्मनो द्बितीयत्वादे-

वास्य तथात्वम् ।) पुत्त्रः । इति त्रिकाण्डशेषः ॥

द्वितीया, स्त्री, (द्वितीय + टाप् ।) गेहिनी ।

भार्य्या । इत्यमरः । २ । ६ । ५ ॥ तिथिविशेषः ।
सा चन्द्रस्य द्बितीयकलाक्रियारूपा । शुक्लपक्षे २
कृष्णपक्षे १७ एतदङ्कबोधिता । इति ज्योति-
षम् ॥ * ॥ सा च अश्विनीकुमारयोर्जन्मतिथिः ।
यथा, --
पृष्ठ २/७६९
ब्रह्मोवाच ।
“रूपं कान्तिरनौपम्यं भिषक्त्वं सर्व्ववस्तुषु ।
सोमपत्वञ्च लोकेषु सर्व्वमेतद्भविष्यति ॥
महातपा उवाच ।
एतत् सर्व्वं द्वितीयायामश्विभ्यां ब्रह्मणा पुरा ।
दत्तं यस्मात्ततस्तेषां तिथीनामुत्तमा तिथिः ॥
एतस्यां रूपकामस्तु पुष्पाहारो भवेन्नरः ।
संवत्सरं शुचिर्नित्यं सुखरूपी भवेन्नरः ॥
अश्विभ्यां ये गुणाः प्रोक्तास्ते तस्यापि भवन्ति च ॥”
इति वराहपुराणम् ॥
अत्र जातफलम् ।
“निखिलगुणगभीरो दानशीलो दयालुः
स्वकुलकुमुदचन्द्रः स्वच्छचित्तोऽतिशूरः ।
निजभुजबलगर्व्वाच्छादितारातिवर्गो
भवति विपुलकीर्त्तिर्यो द्वितीयाप्रसूतः ॥”
इति कोष्ठीप्रदीपः ॥
अथ रथद्बितीया । स्कन्दपुराणे ।
“आषाढस्य सिते पक्षे द्वितीया पुष्यसंयुता ।
तस्यां रथे समारोप्य रामं मां भद्रया सह ॥
यात्रोत्सवं प्रवृत्याथ प्रीणयेच्च द्विजान् बहून् ।
ऋक्षाभावे तिथौ कार्य्या सदा सा प्रीतये मम ॥
सा यात्रा । मां जगन्नाथम् ॥
अथ मनोरथद्वितीया ।
सा श्रावणशुक्लद्वितीया । ‘मतोरथद्वितीयायां
दिवा वासुदेवार्च्चनं रात्रौ चन्द्रोदयेऽर्घ्यदानं
नक्तञ्च भोजनादिकम् ॥’ यथा विष्णुधर्म्मोत्तरे ।
‘देवमभ्यर्च्य पुष्पैस्तु धूपदीपानुलेपनैः ।
उद्गच्छतश्च बालेन्दोर्दद्यादर्घ्यं समाहितः ॥
नक्तं भुञ्जीत च नरो यावत्तिष्ठति चन्द्रमाः ।
अस्तं गते न भुञ्जीत व्रतभङ्गभयान्नरः ॥’
अथ भ्रातृद्वितीया । लिङ्गपुराणे ।
‘कार्त्तिके तु द्वितीयायां शुक्लायां भ्रातृपूजनम् ।
या न कुर्य्याद्विनश्यन्ति भ्रातरः सप्तजन्मनि ॥’
तस्या इति शेषः ॥ महाभारते ।
‘कार्त्तिके शुक्लपक्षे तु द्वितीयायां युधिष्ठिर ! ।
यमो यमुनया पूर्ब्बं भोजितः स्वगृहे स्वयम् ॥
तस्यां निजगृहे पार्थ ! न भोक्तव्यमतो बुधैः ।
यत्नेन भगिनीहस्ताद्भोक्तव्यं पुष्टिबर्द्धनम् ॥
दानानि च प्रदेयानि भगिनीभ्यो विशेषतः ॥’
तथा ।
‘यमञ्च चित्रगुप्तञ्च यमदूतांश्च पूजयेत् ।
अर्ध्यश्चात्र प्रदातव्यो यमाय सहजद्वयैः ॥’
सहजद्वयेर्भगिनीभ्रातृभिः । अर्घ्यमन्त्रः ।
ॐ एह्येहि मार्त्तण्डज पाशहस्त
यमान्तकालोकधरामरेश ! ।
भ्रातृद्वितीयाकृतदेवपूजां
गृहाण चार्घ्यं भगवन्नमस्ते ॥
प्रणाममन्त्रः ।
ॐ धर्म्मराज नमस्तुभ्यं नमस्ते यमुनाग्रज ।
पाहि मां किङ्करैः सार्द्धं सूर्य्यपुत्त्र नमोऽस्तु ते ॥
यमुनाञ्च संपूज्य नमस्कुर्य्यात् ।
ॐ यमस्वसर्नमस्तेऽस्तु यमुने लोकपूजिते ।
वरदा भव मे नित्यं सूर्य्यपुत्त्रि ! नमोऽस्तु ते ॥
अन्नं दत्त्वा पठति ।
भ्रातस्तवानुजाताहं भुङ्क्ष्व भक्तमिदं शुभम् ।
प्रीतये यमराजस्य यमुनाया विशेषतः ॥
ज्येष्ठा तवाग्रजाताहमिति वदेत् ।
तथा यमद्वितीयायां यात्रायां मरणं भवेत् ॥
अनध्यायद्वितीया यथा ।
प्रे-को-चै-चाद्वितीयास्ताः प्रेतपक्षे गते तु या ।
या च कोजागरे जाते चैत्रावल्याः परेऽपि या ॥
चातुर्मास्ये समाप्ते च द्वितीया या भवेत्तिथिः ।
परास्वेतास्वनध्यायः पुराणैः परिकीर्त्तितः ॥”
इति तिथितत्त्वम् ॥
“पक्षयोर्माघमासस्य द्वितीयां परिवर्ज्जयेत् ॥”
इति विष्णुपुराणम् ॥

द्वितीयाकृतं, त्रि, (द्वितीयं कर्षणं कृतमिति ।

“कृञो द्वितीयतृतीयशम्बबीजात् कृषौ । ५ ।
४ । ५८ । इति डाच् ।) वारद्बयकृष्टक्षेत्रम् ।
इत्यमरः । २ । ९ । ९ ॥ दोचसा भूँइ इति भाषा ॥

द्वितीयाभा, स्त्री, (द्वितीया हरिद्रावत् आभा-

तीति । आ + भा + कः ।) दारुहरिद्रा । इति
शब्दचन्द्रिका ॥

द्वित्राः, त्रि, (द्वौ वा त्रयो वा । “संख्ययाव्यया-

सन्नादूराधिकसंख्याः संख्येये ।” २ । २ । २५ ।
इति समासः । “बहुब्रीहौ संख्येये डजबहु-
गणात् ।” ५ । ४ । ७३ । इति डच् ।) द्बौ वा
त्रयो वा इमे । इति संक्षिप्तसारः । नित्यबहु-
वचनान्तोऽयम् ॥ (यथा, रघुः । ५ । २५ ।
“द्बित्राण्यहान्यर्हसि सोढुमर्हन्
यावद् यते साधयितुं तदर्थम् ॥”)

द्विदन्, [त्] त्रि, (द्वौ दन्तौ यस्य । “वयसि दन्तस्य

दतृ ।” ५ । ४ । १४१ । इति दन्तस्य दतृ-आदेशः ।)
दन्तद्वययुक्तवृषादिः । इति हेमचन्द्रः । ४ । ३२९ ॥

द्विदाम्नी, स्त्री, (द्वे दामनी बन्धनरज्जू यस्याः ।

“दामहायनान्ताच्च ।” ४ । १ । २७ । इति ङीप् ।)
रज्जुद्वययुक्तागौः । इति मुग्धबोधव्याकरणम् ॥

द्विदेहः, पुं, (द्बाभ्यां देहोऽस्येति । गजाननत्वा-

देवास्य तथात्वम् ।) गणेशः । इति त्रिकाण्ड-
शेषः ॥ (द्व्यात्मकराशिः । इति ज्योतिषम् ॥)

द्विधा, व्य, (द्वि + “संख्याया विधार्थे धा ।” ५ । ३ ।

४२ । इति धा ।) द्विप्रकारम् । इति मुग्ध-
बोधम् ॥ (यथा, देवीभागवते । ३ । ६ । ५ ।
“यथा दीपस्तथोपाधेर्योगात् सञ्जायते द्विधा ।
छायेवादर्शमध्ये वा प्रतिविम्बं तथावयोः ॥”)

द्विधागतिः, पुं, (द्बिधा द्बिप्रकारा गतिर्यस्य ।)

कुम्भीरः । इति हेमचन्द्रः । ४ । ४१८ ॥ द्विप्रकार-
गतियुक्ते, त्रि ॥

द्विधातुः, पुं, (द्बौ धातू यस्य । देवगजदेहवत्त्वा-

देवास्य तथात्वम् ।) गणेशः । इति शब्दरत्ना-
वली ॥ (द्वौ धातू ताम्रादिधातुद्रव्ये यत्र ।)
धातुद्वये, क्ली ॥

द्विधात्मकं, क्ली, (द्विधा आत्मा यस्य । कप् ।)

जातीकोषम् । इति शब्दचन्द्रिका ॥

द्विधालेख्यः, पुं, (द्विधा लिख्यते यत्र । लिख +

आधारे ण्यत् ।) हिन्तालवृक्षः । इति राज-
निर्घण्टः ॥ द्बिप्रकारलेखनीये, त्रि ॥

द्विनग्नकः, पुं, (द्बिर्द्वितीयो नग्नक इव ।) दुश्चर्म्मा ।

इति हेमचन्द्रः ॥

द्विपः, पुं, (द्वाभ्यां शुण्डमुखाभ्यां पिबतीति ।)

पा + कः ।) हस्ती । इत्यमरः । २ । ८ । ३४ ॥
(यथा, माघे । ३ । ६७ ।
“तेजोमहद्भिस्तमसेव दीपै-
र्द्विपैरसम्बाधमयाम्बभूवे ॥”)
पुं, नाशकेशरः । इति रत्नमाला ॥

द्विपथं, क्ली, (द्वयोः पथोः समाहारः । तद्धिता-

र्थेत्यादिना समासः । “ऋक्पूरब्धूः पथामानक्षे ।”
५ । ४ । ७४ । इति अः ।) पथद्बयम् । दोमाता
पथ इति भाषा । तत्पर्य्यायः । चारुपथः २ ।
इति हेमचन्द्रः । ४ । ५२ ॥ द्वौ पन्थानौ यत्रे-
त्यर्थे, त्रि ॥

द्विपदः, पुं, (द्बे पदे यस्य ।) मनुष्यः । (यथा,

महाभारते । १ । ७४ । ५६ ।
“ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठश्चतुस्पदाम् ॥”)
देवः । पक्षी । राक्षसः । यथा, प्रश्नसारे ।
“द्विपदेऽपि चतुर्भेदा नृदेवपक्षिराक्षसाः ॥”

द्विपदराशिः, पुं, (द्वे पदे यस्य । स चासौ राशि-

श्चेति ।) मिथुनम् । तुला । कुम्भः । कन्या ।
धनुषः पूर्ब्बार्द्धम् । यथा, ज्योतिस्तत्त्वे ।
“मिथुनतुलाघटकन्याद्विपदाख्याश्चापपूर्ब्ब-
भागश्च ॥”

द्विपमदः, पुं, (द्विपस्य हस्तिनो मदः ।) हस्ति-

मदः । इति राजनिर्घण्टः ॥

द्विपर्णी, स्त्री, (द्वे द्बे पर्णे यस्याः । ङीप्) वन-

कोली । इति रत्नमाला ॥ पर्णद्बययुक्ते, त्रि ॥

द्विपात्, [द्] त्रि, द्बौ पादौ यस्य सः । (पादस्य

पाद्भावः ।) पादद्बययुक्तः । इति मुग्धबोध-
व्याकरणम् ॥

द्विपाद्यं, क्ली, (द्बौ पादौ परिमाणमस्य । “पण-

पादमाषशताद् यत् ।” ५ । १ । ३४ । इति यत् ।)
द्विगुणदण्डः । इत्यमरः । २ । ८ । २७ ॥

द्विपायी, [न्] पुं, (द्बाभ्यां मुखशुण्डाभ्यां पिब-

तीति । पा + णिनिः ।) हस्ती । इति हारा-
वली । १४ ॥

द्विपृष्ठः, पुं, (द्वौ पृष्ठौ यस्य ।) राजभेदः । तत्-

पर्य्यायः । ब्रह्मसम्भवः २ । इति हेमचन्द्रः ।
३ । ३५९ ॥

द्विबिन्दुः, पुं, (द्बौ बिन्दू यत्र ।) विसर्गवर्णः । यथा,

बिन्दुद्बिबिन्दुमात्रौ वर्णौ क्रमान्नुवी संज्ञौ स्तः ।
इति मुग्धबोधव्याकरणम् ॥ शून्यद्बयञ्च ॥

द्विमातृजः, पुं, (द्बाभ्यां मातृभ्यां जायते इति ।

जन + डः ।) गणेशः । इति हेमचन्द्रः । ३ । २१० ॥

द्विमुखः, पुं, (द्वे मुखे यस्य ।) राजसर्पः । इति

हलायुधः ॥ मुखद्वययुक्ते, त्रि ॥

द्विमुखा, स्त्री, (द्वे मुखे यस्याः ।) कर्करी । इति

शब्दचन्द्रिका ॥ गाडु इति भाषा । जलौकाः ।
पृष्ठ २/७७०
इति हलायुधः ॥ जोँक इति भाषा ॥ (यथा,
सुश्रुते उत्तरतन्त्रे । ५४ अध्याये ।
“चूरवो द्विमुखाश्चैव सप्तैवेते पुरीषजाः ॥”)

द्विमुखाहिः, पुं, (द्विमुखः अहिः सर्पः ।) सर्प-

विशेषः । शाँखिनी इति भाषा । तत्पर्य्यायः ।
अहीरलिः २ राजाहिः ३ राजसर्पः ४ द्विमुखः
५ सर्पभुक् ६ । इति हलायुधः ॥

द्विमुखोरगः, पुं, (द्विमुखः उरगः सर्पः ।) राज-

सर्पः । इति जटाधरः ॥

द्विमूर्द्धः, त्रि, (द्वौ मूर्द्धानौ यस्य । “द्वित्रिभ्यां ष

मूर्द्ध्नः ।” ५ । ४ । ११५ । इति ष ।) मस्तक-
द्वययुक्तः । इति मुग्धबोधव्याकरणम् ॥ (यथा,
भट्टिः । ४ । ४१ ।
“बहुमूर्द्ध्नो द्विमूर्द्धांश्च त्रिमूर्द्धांश्चाहतां मृधे ॥”)

द्विरदः, पुं स्त्री, (द्वौ रदौ दन्तौ प्रधानतया यस्य ।

हस्ती । इत्यमरः । २ । ८ । ३४ ॥ (यथा,
महाभारते । ७ । २६ । २७ ।
“क्षोभयन्तं तथा सेनां द्बिरदं नलिनीमिव ।
धनञ्जयं भूतगणाः साधु साध्वित्यपूजयन् ॥”)

द्विरदान्तकः, पुं, (द्विरदानां हस्तिनां अन्तकः ।)

सिंहः । इति राजनिर्घण्टः ॥

द्विरशनं, क्ली, (द्विर्वारमशनं भोजनम् ।) वार-

द्वयभोजनम् । यथा, --
“मुनिभिर्द्विरशनं प्रोक्तं विप्राणां मर्त्यवासिनां
नित्यम् ।
अहनि च तमस्विन्यां सार्द्धप्रहरयामान्तः ॥”
इति तिथ्यादितत्त्वम् ॥

द्विरसनः, पुं, (द्वे रसने जिह्वे यस्य ।) सर्पः ।

इति हारावली । १५ ॥

द्विरागमनं, क्ली, (द्विर्वारं विवाहात् परं आग-

मनं स्वामिगृहे इत्यर्थः ।) विवाहानन्तरं बध्वाः
पितृगेहात् पतिगृहे पुनरागमनम् । यथा,
नारायणपद्धतौ ।
“वृत्ते पाणिग्रहे गेहात् पितुः पतिगृहं प्रति ।
पुनरागमनं बध्वास्तद्द्विरागमनं विदुः ॥”
तस्य शुभकालदिनादि यथा । दीपिकायाम् ।
“स्त्रीशुद्ध्यालिघटाजसंयुतरवौ काले विशुद्धे भृगुं
संत्यज्य प्रतिलोमगं शुभदिने यात्राप्रवेशोचिते ।
त्यक्त्राहस्तु निरंशकं नवबधूयात्राप्रवेशौ पतिः
कुर्य्यादेकपुरादिषु प्रतिभृगोर्नेच्छन्ति दोषं बुधाः ॥
पैत्रागारे कुचकुसुमयोः सम्भवो वा यदि स्यात्
कालः शुद्धो न भवति यदा संमुखो वापि शुक्रः ।
मेषे कुम्भेऽलिनि च न भवेत् भास्करश्चेत्तथापि
स्वामी भद्रेऽहनि नवबधूं वेशयेन्मन्दिरं स्वम् ॥
भर्त्तर्गोचरशोभने दिनपतौ नास्तं गते भार्गवे
सूर्य्ये कीटघटाजगे शुभदिने पक्षे च कृष्णेतरे ।
हित्वा च प्रतिलोमगौ बुधसितौ जीवस्य शुद्धौ
तथा
चानीता गुणशालिनी नवबधूर्नित्योत्सवा
मोदते ॥
एकग्रामे चतुःशाले दुर्भिक्षे राष्ट्रविप्लवे ।
पतिना नीयमानायाः पुरः शुक्रो न दुष्यति ॥”
तथा, --
“काश्यपेषु वशिष्ठषु भृग्वादित्याङ्गिरःसु च ।
भारद्बाजेषु वात्स्येषु प्रतिशुक्रो न दोषभाक् ॥”
श्रीपतिसंहितायां प्रचेताः ।
“पुष्यादित्यसमीरणादिति वसुष्वप्युत्तरारेवती-
तारानायकरोहिणीषु शुभदे मेषालिकुम्भेरवौ ।
वारेष्विज्यसितेन्दुवित्सु शुभदे तारे प्रशस्ते विधौ
कन्यामन्मथमीनतौलिमृगभे स्यादङ्गना-
द्ब्यागमः ॥”
ज्योतिःसारसंग्रहे ।
“विवाहमासि प्रथमं बध्वा नागमनं यदि ।
तदा सर्व्वमिदं चिन्त्यं युग्माद्यब्दं विचक्षणैः ॥”
कृत्यचिन्तामणौ ।
“श्वश्रूं हन्त्यष्टमे वर्षे श्वशुरञ्च दशाब्दिके ।
सम्प्राप्ते द्बादशे वर्षे पतिं हन्ति द्बिरागमे ॥”
मत्स्यसूक्ते ।
“भुक्त्वा पितृगृहे कन्या भुङ्क्ते स्वामिगृहे यदि ।
दौर्भाग्यं जायते तस्याः शपन्ति कुलनायिकाः ॥”
इति ज्योतिस्तत्त्वम् ॥
निष्कर्षस्तु ।
“विवाहमासि प्रथममनागताया बध्वा अष्टम-
दशमद्बादशेतरवर्षे कालशुद्धौ वैशाखमार्गशीर्ष-
फाल्गुनान्यतममासे रविशुद्धौ सोमबुधगुरु-
शुक्रान्यतमवारे चन्द्रतारानुकूले रोहिणीपुन-
र्व्वसुमृगशिरःपुष्योत्तरात्रयहस्तस्वातीधनिष्ठा-
रेवतीषु विष्टिभिन्नकरणेषु निषिद्धेतरयोगेषु
कन्यामिथुनतुलामीनलग्नेषु द्विरागमनम् ।
कस्यचिन्मते बुधवारोऽपि निषिद्धः ।
दक्षिणदिङ्मुखगमनं गमनमभिनवनारीणाम् ।
व्ययमपि धान्यादीनां न बुधो बुधवासरे कुर्य्यात् ॥”
इति सत्कृत्यमुक्तावली ॥

द्विरापः, पुं, (द्विर्द्विवारं मुखशुण्डाभ्यामित्यर्थः ।

आ सम्यक् पिबतीति । पा + कः ।) हस्ती ।
इति शब्दमाला ॥

द्विराषाढः, पुं, (द्विः आषाढः ।) मिथुनस्थरव्या-

रब्धशुक्लप्रतिपदादिदर्शान्तमासद्वयम् । स च
आषाढमलमासे भवति । यथा, ज्योतिषे ।
“मिथुनस्थो यदा भानुरमावास्याद्वयं स्पृशेत् ।
द्विराषाढः स विज्ञेयो विष्णुः स्वपिति कर्कटे ॥”
मिहिरश्च ।
“माधवादिषु षट्केषु मासि दर्शद्वयं यदा ।
द्विराषाढः स विज्ञेयः शेते तु श्रावणेऽच्युतः ॥”
इति मलमासतत्त्वम् ॥
अन्यच्च ।
“पौर्णमास्या द्वयं यत्र पूर्ब्बाषाढाद्वयं भवेत् ।
द्विराषाढः स विज्ञेयो विष्णुः स्वपिति कर्कटे ॥”
इति गारुडे ६० अध्यायः ॥

द्विरुक्तः, त्रि, (द्विर्द्विवारं यथा तथा उक्तः ।)

द्विवारकथितः । यथा । द्विरुक्तयक्षादी द्विः ।
इति मुग्धबोधलक्षणम् ॥

द्विरुक्तिः, स्त्री, (वच + क्तिन् । द्विर्द्विवारं उक्तिः ।)

द्बिवारकथनम् । इति संक्षिप्तसारः ॥

द्विरूढः, स्त्री, (उह्यते इति । वह + कर्म्मणि क्तः ।

द्विः ऊढा विवाहिता ।) द्विवारविवाहिता ।
तत्पर्य्यायः । दिधिषूः २ पुनर्भूः ३ । इति हेम-
चन्द्रः । ३ । १८९ ॥

द्विरूपः, पुं, (द्वौ रूपौ आकारौ यत्र ।) द्य्वाकार-

शब्दादिः । यथा । द्बिरूपकोषादिः । द्बिवार-
ग्रन्थावृत्तिः । यथा । द्बिरूपचण्ड्यादिपाठः ।
रूपद्बययुक्ते, त्रि ॥

द्विरेफः, पुं स्त्री, (द्वौ रेफौ रकारवर्णौ यस्य भ्रमर-

नाम्नि ।) भ्रमरः । (यथा, कुमारे । ३ । २७ ।
“निवेशयामास मधुर्द्विरेफान्
नामाक्षराणीव मनोभवस्य ॥”)
वर्व्वरे, त्रि । इत्यमरः ॥

द्विवर्षा, स्त्री, (द्वौ वर्षौ वयःपरिमाणमस्याः ।

द्विवर्ष + आर्हीयष्ठक् तस्य लुक् च ।) द्बिहा-
यनी । द्विवर्षवयस्का गौः । इत्यमरः । २ । ९ । ६८ ॥

द्विवर्षिका, स्त्री, (द्विवर्षैव । स्वार्थे कन् । टापि

“प्रत्ययस्थादिति ।” ७ । ३ । ४४ । इति अत
इत्वम् ।) द्विवर्षा गौः । इति हेमचन्द्रः । ४ । ३३८ ॥

द्विवर्षीणः, त्रि, (द्वौ वर्षौ वयःपरिमाणमस्य ।

द्बिवर्ष + खः ।) द्बिवार्षिकः । द्बिवर्षवयस्कः ।
इति पाणिनीयव्याकरणम् ॥

द्विवार्षिकः, त्रि, (द्विवर्षे भवः । ठक् ।) द्विवर्ष-

भवः । वत्सरद्बयजातः । इति व्याकरणम् ॥

द्विवाहिका, स्त्री, (द्बाभ्यां पार्श्वाभ्यां वाहयतीति ।

वह + णिच् + ण्वुल् । टापि अत इत्वम् ।)
दोला । इति शब्दमाला ॥

द्विविदः, पुं, वानरविशेषः । इति हेमचन्द्रः ॥

(अयं हि नरकासुरस्य मित्रम् । यथा, विष्णु-
पुराणे । ५ । ३६ । २ ।
“नरकस्यासुरेन्द्रस्य देवपक्षविरोधिनः ।
सखाभवन्महावीर्य्यो द्विविदो नाम वानरः ॥”
स तु बलरामेण हतः । यथा, तत्रैव । ५ । ३६ । २० ।
“ततो बलेन कोपेन मुष्ठिना मूर्द्ध्व्नि ताडितः ।
पपात रुधिरोद्गारी द्विविदः क्षीणजीवितः ॥”
श्रीरामस्य सचिववानराणामन्यतमः । यथा,
महाभारते । ३ । २७९ । २३ ।
“मैन्दश्च द्विविदश्चैव हनूमांश्चानिलात्मजः ।
जाम्बवानृक्षराजश्च सुग्रीवः सचिवाः स्मृताः ॥”)
“समुद्रस्योत्तरे तीरे द्बिविदो नाम वानरः ।
ऐकाहिकज्वरं हन्ति तस्य नामानुकीर्त्तनात् ॥”
इति ज्योतिषम् ॥

द्विवेशरा, स्त्री, (द्वौ वेशौ गमनावस्थानरूपौ

राति ददातीति । रा दाने + कः ।) लघुरथः ।
तत्पर्य्यायः । गन्त्री २ लघ्वी ३ । इति हारा-
वली । १६२ ॥

द्विशः, [स्] व्य, (द्वि + “संख्यैकवचनाच्च वीप्सा-

याम् ।” ५ । ४ । ४३ । इति वीप्सायां शस् ।)
द्वौ द्वौ । इति वीप्सार्थे चशस्प्रत्ययः ॥ (यथा,
सुश्रुते । १ । ४१ ।
“द्विशो वा बहुशो वापि ज्ञात्वा दोषेऽवचा-
रयेत् ॥”)
पृष्ठ २/७७१

द्विशफः, पुं, (द्वौ द्वौ शफौ यस्य ।) द्विखुरपशुः ।

यथा, श्रीभागवते । ३ । १० । २२ ।
“गौरजो महिषः कृष्णः शूकरो गवयो रुरुः ।
द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सप्तमः ॥”

द्विष, ल ञ औ वैरे । इति कविकल्पद्रुमः ॥ (अदां-

उभं-सकं-अनिट् ।) ल ञ, द्वेष्टि द्विष्टे । औ,
अद्विक्षत् । द्विषन्ति मन्दाश्चरितं महात्मनाम् ।
इति कुमारः । इति दुर्गादासः ॥

द्विषतीतापः, त्रि, (द्विषतीं तपति तापयतीति

वा । द्विषती + तप + अण् । तप + णिच् +
अच् वा ।) स्त्रीशत्रुतापकः । इति संक्षिप्त-
सारव्याकरणम् ॥

द्विषन्, [त्] त्रि, (द्वेष्टीति । द्विष + “द्विषो-

ऽमित्रे ।” ३ । २ । १३१ । इति शतृ ।) शत्रुः ।
इत्यमरः । २ । ८ । १० ॥ (यथा, माघे । २ । १ ।
“यियक्षमाणेनाहूतः पार्थेनाथ द्विषन् मुरम् ॥”)

द्विषन्तपः, त्रि, (द्बिषन्तं तापयतीति । तप + णिच् +

“द्विषत्परयोस्तापेः ।” ३ । २ । ३९ । इति
खच् । “खचि ह्रस्वः ।” ६ । ४ । ९४ । इति
ह्नस्वः । “अरुर्द्विषदजन्तस्य मुम् ।” ६ । ३ । ६७ ।
इति मुम् । ततः संयोगान्ततकारलोपः ।)
शत्रुन्तपः । शत्रुतापजनकः । इति संक्षिप्तसार-
व्याकरणम् ॥

द्विष्टं, क्ली, (द्विष + क्तः ।) द्ब्यष्टम् । ताम्रम् ।

इत्यमरटीकासारसुन्दरी ॥ द्बेषविषये, त्रि ।
(यथा, भाषापरिच्छेदे । १५१ ।
“निवृत्तिस्तु भवेद्द्वेषात् द्विष्टसाधनताधियः ॥”
तथाच ।
“अचोक्षं दुष्टमुच्छिष्टं पाषाणतृणलोष्ट्रवत् ।
द्विष्टं व्युषितमस्वादु पूति चान्नं विवर्ज्जयेत् ॥”
इति सुश्रुते सूत्रस्थाने ४६ अः ॥

द्विष्ठः, त्रि, द्बयोस्तिष्ठति यः । (द्बि + स्था + कः ।)

उभयस्थः । यथा । संयोगस्य द्बिष्ठतयेति जग-
दीशः ॥

द्विसप्ततिः, स्त्री, (द्व्यधिका सप्ततिः । “विभाषा

चत्वारिंशत्प्रभृतौ सर्व्वेषाम् ।” ६ । ३ । ४९ ।
इति पक्षे न आत्वम् ।) द्व्यधिकसप्ततिः । इति
ज्योतिषम् ॥ ७२ वाओयात्तर इति भाषा ॥
(यथा, मनुसंहितायाम् । ७ । १५७ ।
“प्रत्येकं कथिता ह्येताः संक्षेपेण द्विसप्ततिः ॥”)

द्विसहस्राक्षः, पुं, (द्विसहस्रं अक्षीणि यस्य । षच्

समासे ।) अनन्तदेवः । इति हेमचन्द्रः ॥

द्विसीत्यं, त्रि, (द्विवारं सीतया सहितम् । द्विसीता

+ “नौ वयोधर्म्मति ।” ४ । ४ । ९१ । इति यत् ।)
वारद्वयकृष्टक्षेत्रम् । दोचसा भूँइ इति भाषा ।
तत्पर्य्यायः । द्विगुणाकृतम् २ द्वितीयाकृतम् ३
शम्बाकृतम् ४ सम्बाकृतम् ५ द्विहल्यम् ६ ।
इत्यमरभरतौ ॥

द्विस्स्विन्नान्नं, क्ली, (द्विस्सिन्नं द्विःपक्वं अन्नं

तण्डुलम् ।) द्विःसिद्धतण्डुलम् । यथा, --
“द्विस्विन्नमन्नं पृथुकं शुद्धं देशविशेषके ।
नात्यन्तशस्तं विप्राणां भक्षणे च निवेदने ॥
अभक्ष्यञ्च यतीनाञ्च विधवाब्रह्मचारिणाम् ।
ताम्बूलञ्च यथा ब्रह्मन् ! तथैते वस्तुनी ध्रुवम् ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डम् ॥

द्विहल्यं, त्रि, (द्बिवारं हलेन कृष्टम् । द्विहल +

“मतजनहलादिति ।” ४ । ४ । ९७ । इति यत् ।)
द्विधाकृष्टक्षेत्रम् । इत्यमरः । २ । ९ । ९ ॥

द्विहा, [न्] पुं, (द्बाभ्यां शुण्डदन्ताभ्यां हन्तीति ।

हन + क्विप् ।) हस्ती । इति शब्दरत्नावली ॥

द्विहायनी, स्त्री, (द्वौ हायनौ वत्सरौ वयःक्रमौ

यस्याः । “दामहायनान्ताच्च ।” ४ । १ । २७ । इति
ङीप् ।) द्विवर्षा गौः । इत्यमरः । २ । ९ । ६८ ॥
(द्विवर्षवयस्के„ त्रि । यथा, मनुः । ११ । १३४ ।
“शुके द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ॥”)

द्वीन्द्रियग्राह्यः, पुं, (द्बाभ्यामिन्द्रियाभ्यां ग्राह्यः ।)

इन्द्रियद्वयग्रहणीयगुणः । स तु संख्यादिसप्त-
द्रव्यत्वस्नेहस्वरूपः । यथा, --
“संख्यादिरपरत्वान्तो द्रवत्वं स्नेह एव च ।
एते तु द्वीन्द्रियग्राह्या अथ स्पर्शान्तशब्दकाः ॥”
इति भाषापरिच्छेदः ॥

द्वीपं, क्ली, (द्वौ वर्णौ ईयते इति । इ गतौ + बाहु-

लकात् पः ।) व्याघ्रचर्म्म । इति द्वीपिशब्द-
टीकायां भरतः ॥

द्वीपः, पुं क्ली, (द्बिर्गता द्बयोर्दिशोर्वा गता आपो

यत्र । काकाक्षिगोलकन्यायेन द्वयोरित्युक्तेऽपि
चतुर्द्दिक्षु इति सिद्धिः । “ऋक्पूरब्धूरिति ।” ५ । ४ ।
७४ । इति यत् । “द्व्यन्तरुपसर्गेभ्योऽप ईत् ।”
६ । ३ । ९७ । इति ईत् ।) वारिमध्यतटम् । जल-
वेष्टितभूमिः । तत्पर्य्यायः । अन्तरीपम् २ । इत्य-
मरः । १ । १० । ८ ॥ द्वीपोत्पत्तिर्यथा । सूर्य्यः सुमेरुं
प्रदक्षिणीकुर्व्वन् अर्द्धां पृथ्वीं प्रकाशयति अर्द्धां
तमसा आवृणोति । तदा भगवदुपासनोपचि-
तातिक्रान्तपुरुषप्रभावः प्रियव्रतो राजा सूर्य्य-
रथसमवेगेन ज्योतिर्मयरथेन रजनीमपि दिनं
करिष्यामीति प्रतिज्ञां कृत्वा सप्तवारं द्वितीय-
सूर्य्य इव सूर्य्यमनुपर्य्यक्रामत् । अस्य रथचरण-
नेमिपरिखाताः सप्तसिन्धव आसन् । यैरेव
सिन्धुभिः पृथिव्याः सा द्वीपाः कृताः । ते जम्बु
१ प्लक्ष २ शाल्मलि ३ कुश ४ क्रौञ्च ५ शाक ६
पुष्कर ७ संज्ञकाः । तेषां पूर्ब्बस्य यद्विस्तार-
मानं उत्तरतस्ततो द्बिगुणेन विस्तारमानेन
परिमाणम् । ते सिन्धुभ्यो बहिःसमं रचिताः ।
यथा सिन्धुभ्यो बहिरेकैकशो द्बीपाः एवं द्वीपा-
नामपि बहिःसिन्धवः । स प्रियव्रतः बर्हिष्मती-
गर्भजाननुगतानात्मजान् आग्निध्रेध्मजिह्वयज्ञ-
बाहुहिरण्यरेतोघृतपृष्टमेधातिथिवीतिहोत्रसं-
ज्ञकान् यथासंख्येन एकैकस्मिन् द्वीपे एकैक-
मधिपतिं विदधे । इति श्रीभागवतीयपञ्चम-
स्कन्धात् संगृहीतम् ॥ * ॥
अपि च ।
“मनोः स्वायम्भुवस्यासन् दश पुत्त्रास्तु तत्समाः ।
यैरियं पृथिवी सर्व्वा सप्तद्वीपा सपत्तना ॥
ससमुद्राकरवती प्रतिवर्षं निवेशिता ।
सायम्भुवेऽन्तरे पूर्ब्बमाद्ये त्रेतायुगे तदा ॥
प्रियव्रतस्य पुत्त्रैस्तैः पौत्त्रैः स्वायम्भुवस्य तु ।
प्रियव्रतात् प्रजावन्तो वीरात् काम्याभ्यजायत ॥
कन्या सा तु महाभागा कर्द्दमस्य प्रजापतेः ।
कन्ये द्वे दशपुत्त्राश्च सम्राट् कुक्षिश्च ते उभे ॥
मेधाग्निबाहुमित्रास्तु त्रयो योगपरायणाः ।
जातिस्मरा महाभागा न राज्याय मनो दधुः ॥
प्रियव्रतोऽभ्यषिञ्चत्तान् सप्त सप्तसु पार्थिवान् ।
द्वीपेषु तेषु धर्म्मेण द्बीपांस्तांश्च निबोध मे ॥
जम्बुद्वीपे तथाग्नीध्रं राजानं कृतवान् पिता ।
प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः ॥
शाल्मले तु वपुष्मन्तं ज्योतिष्मन्तं कुशाह्वये ।
क्रौश्चद्वीपे द्युतिमन्तं हव्यं शाकाह्वये सुतम् ॥
पुष्कराधिपतिञ्चैव सवनं कृतवान् सुतम् ॥”
इति मार्कण्डेयपुराणम् ॥
“भूमेरर्द्धं क्षारसिन्धोरुदक्स्थं
जम्बुद्वीपं प्राहुराचार्य्यवर्य्याः ।
अर्द्धेऽन्यस्मित् द्वीपषटक्स्य याम्ये
क्षारक्षीराद्यम्बुधीनां निवेशः ॥
शाकं ततः शाल्भलमत्र कौशं
क्रौञ्चञ्च गोमेदकपुष्करे च ।
द्वयोर्द्बयोरन्तरमेकमेकं
समुद्रयोर्द्वीपमुदाहरन्ति ॥”
इति सिद्धान्तशिरोमणिः ॥

द्वीपकर्पूरजः, पुं, (द्वीपकर्पूरवत् जायते इति ।

जन + डः ।) चीनकर्पूरः । इति राजनिर्घण्टः ॥

द्वीपखर्ज्जूरं, क्ली, (द्वीपजातम् खर्ज्जूरम् ।) महा-

पारेवतम् । इति राजनिर्घण्टः ॥

द्वीपजं, क्ली, (द्वीपात् जायते इति । जन + डः ।)

महापारेवतम् । इति राजनिर्घण्टः ॥

द्वीपवती, स्त्री, (द्वीपः अस्त्यस्या इति । द्वीप +

मतुप् मस्य वः । ङीप् ।) नदी । (यथा, महा-
भारते । १ । ७० । २८ ।
“अलङ्कृतं द्वीपवत्या मालिन्या रम्यतीरया ॥”)
भूमिः । इति मेदिनी । ते, १९८ ॥

द्वीपवान्, [त्] पुं, (द्वीपोऽस्त्यस्य इति । द्वीप +

मतुप् मस्य वः ।) समुद्रः । नदः । इति मेदिनी ।
ते, १९८ ॥

द्वीपशत्रुः, पुं, (द्वीपस्य द्वीपिनः शत्रुः ।) शतावरी ।

इति राजनिर्घण्टः ॥ (शतमूलीशब्देऽस्य विव-
रणं ज्ञातव्यम् ॥)

द्वीपिका, स्त्री, (द्वीपो द्वीपी नाश्यतया अस्त्यस्या

इति । द्वीप + ठन् ।) शतावरी । इति राज-
निर्घण्टः ॥

द्वीपिनखः, पुं, (द्वीपिनो व्याघ्रस्य नखः ।) व्यालनखः ।

इति राजनिर्घण्टः ॥ (स तु बालानां कण्ठभूषण-
विशेषः । यथा, अध्यात्मरामायणे । १ । ३ । ४८ ।
“कण्ठे लग्नमणिव्रातमध्यद्वीपिनखाञ्चितम् ॥”)

द्वीपिशत्रुः, पुं, (द्बीपिनो व्याघ्रस्य शत्रुः ।) शत-

मूली । इति जटाधरः ॥

द्वीपी, [न्] पुं, (द्वीपं चर्म्म अस्त्यस्येति । द्वीप +

“अत इति ठनौ ।” ५ । २ । ११५ । इति ठन् ।)
पृष्ठ २/७७२
चित्रकः । व्याघ्रः । इति राजनिर्घण्टः ॥ (यथा,
रामायणे । २ । ९४ । ७ ।
“नानामृगगणैर्द्वीपितरक्षवृक्षगणैर्वृतः ॥”)

द्वीप्यः, त्रि, द्वीपे भव इत्यर्थे ष्ण्यप्रत्ययः ॥ (“तत्र

भवः ।” ४ । ३ । ५३ । इति यत् ।) द्वैप्यः ।
(यथा, वाजसनेयसंहितायाम् । १६ । ३१ ।
“नमो नादेयाय च दीप्याय च ॥”)

द्वृ, स्थगने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

अनिट् ।) वकारोपधः । द्वरति । स्थगनं संवर-
णम् । वरणे इति प्राञ्चः । वरणं स्वीकारः
स्थगनञ्चेति गोविन्दभट्टः । इति दुर्गादासः ॥

द्वेधा, व्य, (द्वि + “संख्याया विधार्थे धा ।” ५ ।

३ । ४२ । इति धा । “एधाच्च ।” ५ । ३ । ४५ ।
इति तस्य एधाच् ।) द्विप्रकारम् । इति व्याक-
रणम् ॥

द्वेषः, पुं, (द्विष + भावे घञ् ।) शत्रुता । तत्-

पर्य्यायः । वैरम् २ विरोधः ३ विद्वेषः ४ द्वेषणम्
५ । इति शब्दरत्नावली ॥ (यथा, मनुः । ४ ।
१६३ ।
“नास्तिक्यं वेदनिन्दाञ्च देवतानाञ्च कुत्सनम् ।
द्वेषं दम्भञ्च मानञ्च क्रोधं तैक्ष्णञ्च वर्ज्जयेत् ॥”)
अस्य कारणं द्विष्टसाधनताज्ञानम् । इति
भाषापरिच्छेदः ॥ स च आत्मनो विशेषगुणः ।
इति सिद्धान्तमुक्तावली ॥ तद्वशवर्त्तित्वनिषेधो
यथा, श्रीभगवद्गीतायाम् । ३ । ३४ ।
“इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्यितौ ।
तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ ॥”
“इन्द्रियस्येन्द्रिस्येति वीप्सया सर्व्वेषामिन्द्रियाणां
प्रत्येकमित्युक्तम् । अर्थे स्वस्वविषये अनुकूले
रागः प्रतिकूले द्वेषः इत्येवं रागद्वेषौ व्यवस्थितौ
अवश्यम्भाविनौ ।” इति तट्टीकायां श्रीधर-
स्वामी ॥

द्वेषणं, क्ली, (द्विष + भावे ल्युट् ।) द्वेषः । इति

शब्दरत्नावली ॥ (यथा, महाभारते । ५ । ९१ । २७ ।
“अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते ॥”)

द्वेषणः, त्रि, (द्बिष + “क्रुधमण्डार्थेभ्यश्च ।” ३ ।

२ । १५१ । इति युच् ।) शत्रुः । इत्यमरः ।
२ । ८ । १० ॥ (यथा, महाभारते । १२ । १६८ । १५ ।
“पानपो द्वेषणः क्रोधी निर्घृणः परुषस्तथा ॥”)

द्वेषी, [न्] त्रि, (द्वेष्टि तच्छीलः । द्विष + “संपृचा-

नुरुधेति ।” ३ । २ । १४२ । इति घिनुण् ।)
शत्रुः । इति हेमचन्द्रः । ३ । ३९३ ॥ (यथा,
रघुः । १७ । ७३ ।
“तथापि ववृधे तस्य तत्कारिद्वेषिणो यशः ॥”)

द्वेष्टा, [ऋ] त्रि, (द्वेष्टीति । द्बिष + तृच् ।)

विद्वेषकर्चा । इति द्विषधातोस्तृन्प्रत्ययेन
साध्यः ॥ (यथा, महाभारते । १ । ४९ । ९ ।
“द्बेष्टारस्तस्य नैवासन् स च द्वेष्टि न कञ्चन ॥”)

द्वेष्यः, त्रि, (द्बेष्टुमहः । यत् ।) द्बेषविषयः ।

विद्वेषार्हः । तत्पर्य्यायः । अक्षिगतः २ । इत्य-
मरः । ३ । १ । ४५ ॥ (यथा, महाभारते ।
४ । १६ । १८ ।
“मुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा
प्रियम् ।
यथावत् सर्व्वमाचक्ष्व श्रुत्वा धास्याभि यत्-
क्षमम् ॥”
द्विष्यतेऽसाविति । द्विष + ण्यत् । शत्रुः । यथा,
रघुः । १ । २८ ।
“द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्त्तस्य यथौषधम् ।
त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥”)

द्वैगुणिकः, त्रि, (द्विगुणार्थं द्रव्यं द्विगुणम् । तत्-

प्रयच्छति द्विगुणं ग्रहीतुमेकगुणं ददातीत्यर्थः ।
द्विगुण + “प्रयच्छति गर्ह्यम् ।” ४ । ४ । ३० ।
इति ठक् ।) वृद्ध्याजीवः । इति हेमचन्द्रः ।
३ । ५४४ ॥ द्विगुणं गृह्णाति यः इत्यर्थे ष्णिक-
प्रत्ययः ॥

द्वैतं, क्ली, (द्बिधा इतं द्वीतम् । तस्य भावः । युवादि-

त्त्वात् अण् । स्वार्थे अण् वा ।) द्वयम् । इति
हेमचन्द्रः । ६ । ६० ॥ (यथा, भागवते । १ । १५ । ३० ।
“विशोको ब्रह्मसम्पत्त्या संछिन्नद्बैतसंशयः ।
लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः ॥”)
लोकादिरूपम् । एकायनोऽसावितिश्लोक-
व्याख्यायां श्रीधरस्वामी ॥ (वनविशेषः ॥ गत-
द्विके, त्रि । यथा, किराते । १ । १ ।
“सवर्णिलिङ्गी विदितः समाययौ
युधिष्ठिरं द्वैतवने वनेचरः ॥”
“द्वैतवने द्वैताख्ये तपोवने । यद्वा, द्वे इते गते
यस्मात् तत् द्वीतम् । द्वीतव द्वैतं तच्च तद्वन-
ञ्चेति तस्मिन् । शोकमोहादिरहिते इत्यर्थः ॥”
इति तट्टीकायां मल्लिनाथः ॥)

द्वैतवादी, [न्] त्रि, (द्वैतं जीव ईश्वरश्चेति द्वयं

वदतीति । वद + णिनिः ।) जीवेश्वरयोर्भेद-
वादी । ईश्वरातिरिक्तजीववक्ता । तस्य मतं
यथा, परमात्मनो जीवात्मा पृथक् तन्मध्ये
केषाञ्चिन्मते प्रकृतिरतिरिक्ता केषाञ्चिन्मते प्रकृ-
तिरदृष्टमात्रे पर्य्यवसिता एवं जीवश्च पृथक् ।
अत्र प्रमाणम् ।
जन्मकर्म्ममरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्य्ययाच्चैव ॥
इति साङ्ख्यमतम् ॥
तत्रेश्वरः सर्व्वज्ञः परमात्मा एक एव । जीवः
प्रतिशरीरं भिन्नः विभुर्नित्यश्च । इति गोतम-
मतम् ॥
इह ब्रह्मणो जीवेतरत्वप्रतिपादनात् तयोरद्वैतं
नाभिमतम् । नेतरोऽनुपपत्तेर्भेदव्यपदेशाच्च
मुक्तोऽप्यसृप्य व्यपदेशादाकाशोऽर्थान्तरत्वादि-
व्यपदेशाद्भोगमात्रसाम्यलिङ्गाच्चेति सूत्रैर्मोक्षे-
ऽपि तयोर्द्वैतनिरूपणाच्च । इति गोविन्दभाष्य-
मतम् ॥
यतो द्वैतमते युक्तिरेव प्रमाणं युक्त्या यत् फलति
तदेव सर्व्वाध्यात्मविद्याप्रतिपादकश्रुतीनां तात्-
पर्य्यम् । इति रामानुजमतञ्च ॥

द्वैतीयीकः, त्रि, (द्वितीय + तीयादीकक् । स्वार्थे

वा ईकक् ।) द्बितीयः । यथा, --
“द्बैतीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महा-
काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गो-
ज्ज्वलः ॥”
इति नैषधम् । २ । ११० ॥

द्वैधं, व्य, (द्वि + “संख्याया विधार्थे धा ।” ५ । ३ ।

४२ । इति धा । “द्वित्र्योश्च धमुञ् ।” ५ । ३ ।
४५ । इति धा इत्यस्य धमुञ् ।) द्विप्रकारम् ।
इति व्याकरणम् ॥ (यथा, हरिवंशे । १ । ३० ।
“तदण्डमकरोद्द्वैधं दिवं भुवमथापि च ॥”
क्ली, “धमुञन्तात् स्वार्थे डदर्शनम् ।” इति वार्त्ति-
कोक्त्या डः । राज्ञां षड्गुणानामन्यतमः । इत्य-
मरः । २ । ८ । १८ ॥) एकेन सन्धिरपरेण
विग्रहः इति द्वौ प्रकारौ द्वैधं निपातितम् ।
इत्यमरटीकायां भरतः ॥ (तच्च द्विविधम् ।
यथा, मनुः । ७ । १६७ ।
“बलस्य स्वामिनश्चैव स्थितिः कार्य्यार्थसिद्धये ।
द्विविधं कीर्त्तते द्वैधं षाड्गुण्यगुणवेदिभिः ॥”)
विवादः । इति त्रिकाण्डशेषः ॥ (द्विप्रकारम् ।
यथा, मनुः । ८ । ७३ ।
“बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः ।
समेषु तु गुणोत्कृष्टान् गुणद्वैधे द्विजोत्तमान् ॥”
त्रि । यथा, “पथि द्वेधानि तृणानि ।” इति
सिद्धान्तकौमुदी ॥)

द्वैपः, पुं, (द्वीपिनो विकारः द्वैपम् । द्वीप + “प्राणि-

रजतादिभ्योऽञ् ।” ४ । ३ । १५४ । इति अञ् ।
तेन परिवृतः । “द्वैपवैयाघ्रादञ् ।” ४ । २ ।
१२ । इत्यञ् ।) द्वीपिचर्म्मावृतरथः । इत्यमरः ।
२ । ८ । ५३ ॥ द्वीपसम्बन्धिनि व्याघ्रचर्म्मसम्ब-
न्धिनि च त्रि ॥ (यथा, सुश्रुते चिकित्सित-
स्थाने ९ अध्याये ।
“द्वैपं दग्धं चर्म्म मातङ्गजं वा
भिन्ने स्फोटे तैलयुक्तं प्रलेपः ॥”)

द्वैपायनः, पुं, (द्वीपं अयनं उत्पत्तिस्थानं यस्य ।

स एव । स्वार्थे प्रज्ञादित्वात् वा अण् ।) व्यासः ।
इति हेमचन्द्रः । ३ । ५११ ॥ (सनिरुक्तिरस्य
जन्मकथा यथा महाभारते । १ । ६३ । ८३ -- ८५ ।
“इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तम् ।
पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा ॥
जज्ञे च यमुनाद्वीपे पाराशर्य्यः स वीर्य्यवान् ।
स मातरमनुज्ञाप्य तपस्येव मनो दधे ॥
स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् ॥
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् ।
न्यस्तो द्वीपे स यद्बालस्तस्माद्द्वैपायनः स्मृतः ॥”
ह्रदविशेषः । अत्र दुर्य्योधनः पाण्डवभयात्
आत्मानं स्तम्भयित्वा स्थितः । यथा, महा-
भारते । ९ । ३१ । २ ।
“आसाद्य च कुरुश्रेष्ठ ! तदा द्वैपायनं ह्रदम् ।
स्तम्भितं धार्त्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम् ।
वासुदेवमिदं वाक्यमब्रवीत् कुरुनन्दनः ॥”)

द्वैप्यं, त्रि, (द्वीपे भवम् द्वीपस्य इदम् वा । द्वीप +

“द्वीपादनुसमुद्रं यञ् ।” ४ । ३ । १० । इति
यञ् ।) द्वीपसम्बन्धि । द्वीपशब्दात् इदमर्थे
पृष्ठ २/७७३
ष्ण्यप्रत्ययेन साध्यम् । इति व्याकरणम् ॥ (यथा,
माधे । ३ । ७६ ।
“विक्रीय दिश्यानि धनान्युरूणि
द्वैप्यानसावुत्तमलाभभाजः ।
तरीषु तत्रत्यमफल्गुभाण्डं
सांयात्रिकानावपतोऽभ्यनन्दत् ॥”)

द्वैमातुरः, पुं, (द्वयोर्मात्रोरपत्यम् । द्विमातृ +

“मातुरुत्संख्यासंभद्रपूर्ब्बायाः ।” ४ । १ । ११५ ।
इति अण् उत्त्वञ्च ।) गणेशः । इत्यमरः । १ ।
१ । ४० ॥ (अस्य द्विमातृत्वकथा स्कन्दपुराणे
गणेशखण्डे उक्ता यथा, --
“आविर्भविष्ये सदने वरेण्यस्य महीपतेः ।
त्रैलोक्यरक्षणार्थाय विघ्नस्यास्य प्रशान्तये ।
पालनाय स्वभक्तानां साधुत्राणाय भूसुराः ॥
शिव उवाच ।
इत्युक्त्रा पुष्पकागर्भं प्रविवेश तदैव सः ।
आगते नवमे मासि प्रासूत पुष्पका शिशुम् ॥
चतुर्बाहुमिभास्यञ्च दन्तुरं सुन्दरेक्षणम् ।
आयुधानि च चत्वारि बिभ्रतं तेजसान्वितम् ॥
दृष्ट्वा सा क्रन्दनं चक्रेऽरिष्टमेतत् किमागतम् ।
श्रुत्वा चाक्रन्दनं तस्या वरेण्यः सगणो ययौ ॥
ददर्श बालकं सोऽपि विस्मितः सह तैर्गणैः ।
उवाच सेवकान् राजा त्यजतैनं सरोवरे ॥
शिशुमादाय ते याताः पार्श्वस्यैवाश्रमे शुभे ।
कासारे तं शिशुं त्यक्त्रा ययुः सर्वे निजं पुरम् ॥
अपरस्मिन् दिने पार्श्वमुनिः स्नानाय चागतः ।
तदैव ददृशे तेन बालकोऽद्भुतदर्शनः ॥
आश्चर्यमकरोत्तत्र भयभीतस्तथाभवत् ।
आश्रमे केन मे त्यक्तमरिष्टसुखदायिनीम् ॥
तपसा नु फलं दातुमीदृशीं धृतवांस्तनुम् ।
रक्षितुं सर्व्वलोकानां परमात्मा निजेच्छया ॥
सुन्दरो बालकः केन त्यक्तोऽयमीदृशो बहिः ।
नीत्वा स्वमाश्रमं चैनं पालयिष्ये प्रयत्नतः ॥
इत्युक्त्रा जगृहे बालमालिलिङ्ग मुदा मुनिः ।
तमानीतं मुनेः पत्नी ददर्श दीपवत्सला ।
उवाच निजभर्त्तारं सुप्रसन्नाननाम्बुजा ॥
दीपवत्सलोवाच ।
किमानीतं महत् स्वामिन् भृशमाश्चर्यकारकम् ।
इदं वैनायकं रूपं ममाभाति द्विजर्षभ ! ॥
इदमेव श्रियः स्थानं इदमेव तपःफलम् ।
इदमेव परं ब्रह्म योगिध्येयं सनातनम् ।
इदमेव परं तेज आदित्ये यदधिष्ठितम् ।
इदमेव हि वेदान्ता नेति नेति प्रचक्षते ॥
शिव उवाच ।
इत्युक्त्रा हर्षसम्पन्ना भर्तुरादाय बालकम् ।
स्तनपानं ददौ तस्मै ततः सा दीपवत्सला ।
द्वितीयाचन्द्रवद्बालो वृद्धिं यातो दिने दिने ॥”)
जरासन्धः । इति मेदिनी । रे, २६८ ॥ (अस्य
द्विमातृत्वकारणं जरासन्धशब्दे द्रष्टव्यम् ॥)
द्विमातृजे, त्रि । इति हेमचन्द्रः । ३ । २१० ॥
(यथा, राजतरङ्गिण्याम् । ४ । ३५५ ।
“भिन्नशीला तयोर्भात्रोर्धीर्द्वैमातुरयोः पुनः ॥”)

द्वैमातृकः, पुं, (द्वे मातृके इव यस्यासौ द्बिमा-

तृकः । स एव स्वार्थे अण् ।) नदीवृष्टिजलोद्भूत-
धान्यभृतो देशः । इति राजनिर्घण्टः ॥

द्वैषणीया, स्त्री, (द्वेषणं द्वेषमर्हतीति । छः ।)

नागवल्लीभेदः । इति राजनिर्घण्टः ॥

द्व्यक्षरं, क्ली, (द्बयोरक्षरयोः समाहारः ।) वर्ण-

द्वयम् । द्बयोरक्षरम् । (द्वे अक्षरेयत्र ।) अक्षर-
द्बययुक्तशब्दादौ, त्रि ॥ (यथा, भागवते । २ । ९ । ६ ।
“स चिन्तयन् द्व्यक्षरमेकदाम्भ-
स्युपाशृणोत् द्बिर्गदितं वचो विभुः ॥”)

द्व्यङ्गुलं, त्रि, (द्वे अङ्गुली प्रमाणमस्य । “तत्-

पुरुषस्याङ्गुलेरिति ।” ५ । ४ । ८६ । इति अच् ।)
अङ्गुलिद्वयपरिमितम् । यथा, ज्योतिषतत्त्वे ।
“अकाङ्गुलाथ सूच्यग्रा काष्ठी द्व्यङ्गुलमूलिका ।
शङ्कुच्छाया भवेत्तत्र तच्छायां परिकल्पयेत् ॥”
द्वयोरङ्गुल्योः समाहारः इति वाक्ये अङ्गुलि-
द्वयमात्रे, क्ली । इति मुग्धबोधम् ॥ (द्वे अङ्गुली
यस्य इति विग्रहे । “अङ्गुलेर्दारुणि ।” ५ । ४ ।
११४ । इति षच् । द्ब्यङ्गुलं दारु ॥ इति व्याक-
रणम् ॥)

द्व्यञ्जलं, त्रि, (द्वावञ्जली परिमाणमस्य (“द्वित्रि-

भ्यामञ्जलेः ।” ५ । ४ । १०२ । इति टच् ।)
अञ्जलिद्बयपरिमितम् । द्वयोरञ्जल्योः समा-
हारः इति वाक्ये अञ्जलिद्वयमात्रे, क्ली । इति
मुग्धबोधम् ॥

द्व्यणुकं, क्ली, (द्वौ अणू कारणे यस्य । कप् ।) पर-

माणुस्रमवेतद्रव्यम् । परमाणुद्वयात्मकम् । तच्च
प्रत्यक्षादिविषयम् । यथा, भाषापरिच्छेदे । ३८ ।
“विषयो द्व्यणुकादिस्तु ब्रह्माण्डान्त उदाहृतः ॥”
तस्य परिमाणमनित्यम् । यथा, --
“अनित्यं द्व्यणुकादौ तु संख्याजन्यमुदाहृतम् ॥”
इति भाषापरिच्छेदे । १११ ॥

द्व्यन्यः, त्रि, द्बाभ्यामन्यः इति पञ्चमीतत्पुरुषे

कृते । द्बिभिन्नः ॥ द्वे अन्येयस्य । इति बहु-
व्रीहौ । द्विभिन्नकः । द्वयोरन्ययोः समाहारः ।
इति वाक्ये, क्ली ॥

द्व्यर्थः, त्रि, (द्वौ अर्थौ यस्य ।) अर्थद्वययुक्त-

शब्दादिः । अस्य प्रमाणं राघवपाण्डवीयादि-
ग्रन्थे द्रष्टव्यम् ॥

द्व्यष्टं, क्ली, (हेमरूप्ये द्वे अश्नुते इति । अश +

गत्यर्थेति क्तः । इडभावः ।) ताम्रम् । इत्यमरः ।
२ । ९ । ९७ ॥

द्व्यहः, पुं, अहर्द्वयम् । द्व अहनी समाहृते । इति

पुंलिङ्गसंग्रहे भरतः ॥

द्व्यात्मकः, पुं, (द्वौ रूपौ आत्मानौ यस्य ।) मिथुन-

कन्याधनुर्मीनराशयः । यथा, ज्योतिस्तत्त्वे ।
“चरस्थिरद्व्यात्मकनामधेया
मेषादयोऽमी क्रमशः प्रदिष्टाः ॥”

द्व्याहिकः, त्रि, (द्व्यहे भवः । ठञ् । बाहुलकात्

न ऐच् ।) दिनद्वयभवः । द्व्यहे भव इत्यर्थे
ष्णिकप्रत्ययः ॥
  1. द्वन्द्वं, क्ली, (द्वौ द्वौ सहाभिव्यक्तौ । “द्वन्द्वं रहस्य- मर्य्यादावचन-व्युत्क्रमण-यज्ञपात्रप्रयोगाभि- व्यक्तिषु ।” ८ । १ । १५ । इति द्विशब्दस्य द्विर्वचनं पूर्व्वपदस्याम्भावोऽत्वञ्चोत्तरपदस्य नपुंसकत्वञ्च निपात्यते ।) रहस्यम् । कलहः । (यथा, हितोपतेशे । ३ । ३२ । “शतं दद्यान्न विवदेदिति प्राज्ञस्य लक्षणम् । विना हेतुमपि द्वन्द्वमेतन्मूर्खस्य लक्षणम् ॥”) मिथुनम् । (यथा, रघुः । १ । ४० । “परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु । मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥”) युग्मम् । इति मेदिनी । वे, १० ॥ (यथा, महाभारते । १ । १३७ । १५ । “द्वन्द्वयुद्धञ्च पार्थेन कर्त्तुमिच्छाम्यहं प्रभो ! ॥” शीतोष्णादि । यथा, माघे । ४ । ६४ । “सर्व्वर्त्तुनिर्वृतिकरे निवसन्नुपैति न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनोऽपि ॥”) दुर्गम् । (अत्र पुंस्त्वमपि ।) अथ द्वन्द्वयुक्तिः । “राज्ञो बलं न हि बलं द्वन्द्वमेव बलं बलम् । अप्यल्पबलवान् राजा स्थिरो द्वन्द्वबलाद्भवेत् ॥” तथा च । “एकः शतं योधयति प्राकारस्थो घनुर्धरः । शतं दशसहस्राणि तस्माद्दुर्गं विशिष्यते ॥ अकृत्रिमं कृत्रिमञ्च तत् पुनर्द्विविधं भवेत् । यद्दैवसूचितं द्वन्द्वं गिरिनद्यादिसंश्रितम् । अकृत्रिममिदं ज्ञेयं दुर्लङ्घ्यमरिभूभुजाम् ॥ प्राकारपरिखारण्यसंश्रयं यद्भवेदिह । कृत्रिमं नाम विज्ञेयं लङ्घ्यालङ्घ्यन्तु वैरिणाम् ॥” तत्राकृत्रिमद्वन्द्वयुक्तिर्यथा, -- “अत्युच्चविस्तीर्णशिरा दुरारोहः सकाननः । सजलाशयसम्भारभोज्यद्रव्यसमाश्रयः ॥ सुखनिःसरणो द्वन्द्वः पर्व्वताख्यो महीभुजाम् । नद्यो गभीरविस्तीर्णाश्चतुर्द्दिक्षु व्यवस्थिताः ॥ तन्मध्ये भूप्रदेशो यो नदीद्वन्द्वः स उच्यते । यदन्यच्चिरकालीनं दुर्लङ्घ्यविपिनादिकम् ॥ तन्मध्यरचिता भूमिर्द्वन्द्वत्वेनोपतिष्ठते । वनद्वन्द्वमिति ख्यातं यथापूर्व्वं महत्तरम् ॥” * ॥ कृत्रिमद्वन्द्वयुक्तिर्यथा, -- “यस्मिन् राज्ये गिरिर्नास्ति नद्यो वा गहनोदकाः । तस्य मध्ये महीपालः कृत्रिमं द्वन्द्वमारभेत् ॥ गजैरलङ्घ्या विस्तीर्णा गम्भीराः पूर्णवारयः । द्वन्द्वत्वेन समादिष्टाः परिखा बहुयादसः ॥ विशालशालं सुधनं बहुकण्टकिसङ्कटम् । द्वन्द्वत्वेन समादिष्टं विस्तीर्णं विषमं बलम् ॥ अधोऽधोवध्यमानोऽपि कन्दरोऽल्पजलं स्रवन् । द्वन्द्वत्वेन समुद्दिष्टः स दुर्लङ्घ्यो हि भूभुजाम् ॥ सर्व्वतः परिखां कृत्वा निबन्धोपरि कन्दरम् । तज्जलप्लुतदेशत्वात् जलद्वन्द्वं तदुच्यते ॥ एषामभावे निम्नस्य भूप्रदेशस्य बन्धनात् । वर्षासु प्लवते वारि जलद्वन्द्वं ततो भवेत् ॥ एतयोरपि संमिश्रात् संमिश्रं द्वन्द्वमाचरेत् । आश्रित्य कृत्रिमं द्वन्द्वं बलवद्वैरिणो दिशि ॥ अन्यत्र कृत्रिमं द्वन्द्वं कृत्वा नरपतिर्वसेत् । रथपतिर्यदा वैरी स्थलद्वन्द्वं तदाचरेत् ॥ गजाश्वनाथश्चेद्वैरी जलद्वन्द्वं तदाचरेत् । गिरिद्वन्द्वं नृपः सेवेत् यस्य स्याद्द्विविधो रिपुः ॥ सर्व्वो हि त्रिविधो युद्धः समासादुपदिक्ष्यते । प्रतिराजस्य राज्यान्ते प्रकटे गुप्त एव च ॥ राज्यान्ते सैनिकान् रक्षेत् प्रकटे निवसेत् स्वयम् । गुप्ते स्त्रीकोषसम्भारं संरक्षेदिति निश्चयः ॥” अथ सामान्यतो गुणाः । तथा हि । नीतिशास्त्रम् । “सप्रवेशापसरणं द्वन्द्वमुत्तममुच्यते । अन्यत्र वन्दिशालेव न तादृग्बद्धमाश्रयेत् ॥ धनुर्द्वन्द्वं महीद्वन्द्वं गिरिद्वन्द्वं तथैव च । मनुष्यद्वन्द्वसंसर्गं वरद्वन्द्वञ्च तानि षट् ॥” अन्ये तु । “न द्वन्द्वं द्वन्द्वमित्याहुर्योद्धृद्वन्द्वं प्रकीर्त्तितम् । योद्धृशून्यं हि यत् द्वन्द्वं मृतकायसमं हि तत् ॥” पृष्ठ २/७६४ अथान्यत्रापि । “यावत् प्रमाणं नगरं हि राज्ञां ततो भवेदुत्तममध्यमान्त्यम् । त्रिंशत्तदर्द्धाष्टगुणोत्तरेण त्रिदेशजानां धरणीपतीनाम् ॥” गर्गस्तु । “यदन्यद्द्विविधं द्वन्द्वं प्रोच्यते धरणीभुजाम् । ताभ्यामेवातिरिच्येत मन्त्रद्वन्द्वं विशेषतः ॥ अन्येषु दैवाद् भिन्नेषु मन्त्रद्वन्द्वात् जयेन्नृपः । मन्त्रद्वन्द्वे हि भिन्ने हि न चान्यत् कार्य्यकारकम् ॥” भोजस्तु । “यदैष वैरिदुर्लङ्घ्यं विस्तीर्णं विषमञ्च तत् । सप्रवेशापसरणं तद्द्वन्द्वमुत्तमं विदुः ॥” इति भोजराजकृतयुक्तिकल्पतरुः ॥
  2. द्वन्द्वः, पुं, (द्वौ द्वौ सहाभिव्यक्तौ इति । निपातनात् साधुः । चार्थे द्वन्द्व इति निर्द्देशात् पुंस्त्वम् ।) रोगविशेषः । समासभेदः । इति शब्दरत्नावली ॥ स तु भिन्नार्थानां पदानां समासः । वोपदेवेनास्य चसंज्ञा कृता । स इतरेतरयोगसमाहारभेदेन द्विधा भवति । इतरेतरद्वन्द्वो यथा । हरिश्च हरश्च हरिहरौ । अत्र प्रत्येकपदप्राधान्यात् द्वित्वं बहुत्वं शेषशब्दलिङ्गभाजित्वञ्च भवति । समाहारद्वन्वो म यथा । वाक् च त्वक् च द्वयोः समाहारः वाक्- त्वचम् । अत्र संहतेरेकत्वादेकवचनं नित्यक्लीवलिङ्गत्वञ्च भवति । इति मुग्धबोधम् ॥ (यदुक्तं, -- “द्वन्द्वो द्विगुरपि चाहं मद्गृहे नित्यमव्ययीभावः ॥”)