शब्दकल्पद्रुमः/दुर्गाध्यक्षः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २/७३१

दुर्गाध्यक्षः, पुं, (दुर्गस्य अध्यक्षः ।) दुर्गरक्षकः ।

तस्य लक्षणं यथा, --
“अनाहार्य्यश्च शूरश्च तथा प्राज्ञः कुलोद्गतः ।
दुर्गाध्यक्षः स्मृतो राज्ञस्तद्युक्तः सर्व्वकर्म्मसु ॥”
इति मत्स्यपुराणम् ॥

दुर्गानवमी, स्त्री, (दुर्गायाः पूजोपलक्षिता नवमी ।)

कार्त्तिकशुक्लनवमी । सा त्रेतायुगाद्या । तत्र
जगद्धात्रीपूजा कर्त्तव्या । यथा, योगिनीतन्त्रे ।
“कार्त्तिकेऽमलपक्षे तु नवम्याञ्च विशेषतः ।
प्रगल्भाञ्च जगद्धात्रीं पूजयेद्दीपमालया ॥
तन्त्रान्तरे ।
‘त्रिकालं पूजयेद्दुर्गां मनुनैकाक्षरेण च ।
नानाबलिविधानेन गीतवाद्यपुरःसरम् ॥
कार्त्तिकस्य सिते पक्षे नवम्याञ्च विशेषतः ।
कृत्वैवं साधकश्रेष्ठो लभेद्राज्यमकण्टकम् ॥’
कुब्जिकातन्त्रे ।
‘कार्त्तिके शुक्लपक्षे तु नवम्यां जगदम्बिकाम् ।
दुर्गां प्रपूजयेद्भक्त्या धर्म्मकामार्थसिद्धये ॥’
शक्तिसङ्गमतन्त्रे ।
‘कार्त्तिकस्य सिते पक्षे नवम्यां जगदीश्वरीम् ।
त्रिकालमेककालं वा वर्षे वर्षे प्रपूजयेत् ॥
निर्म्माय प्रतिमां शक्त्या जगद्धात्र्या विधानतः ।
पूजयित्वा परदिने प्रतिमां तां विसर्जयेत् ॥
एवं कृत्वा चक्रवर्त्ती भवेत् साधकसत्तमः ।
पुत्त्रपौत्त्रधनैश्वर्य्यसंयुतास्य भवेत् पुरी ॥
दासदासीगणैर्युक्तो मुक्तः स्यात् पापसङ्कटात् ।
विशेषतो षसुयुतां नवमीं प्राप्य साधकः ।
पूजयित्वा मृण्मयीं तां लभते वाच्छितं फलम् ॥’
भविष्ये ।
‘मासैश्चतुर्भिर्यत् पुण्यं विधिना पूज्य चण्डिकाम् ।
तत् फलं लभते वीर ! नवभ्यां कार्त्तिकस्य च ॥”
इति तिथितत्त्वम् ॥

दुर्गाह्वः, पुं, (दुर्गाया आह्वा आख्या आह्वा

यस्य ।) भूमिजगुग्गुलुः । इति राजनिर्घण्टः ॥

दुर्घोषः, पुं, (दुर्दुष्टः घोषो निनादो यस्य ।) भल्लूकः ।

इति राजनिर्घण्टः ॥ निन्दितरवः । तद्वति, त्रि ॥

दुर्जनः, त्रि, (दुर्दुष्टो जनः । “कुगतिप्रादयः ।”

२ । २ । १८ । इति समासः ।) खलः । इत्य-
मरः । ३ । १ । ४७ ॥ (यथा, चाणक्यशतके ।
२४ -- २५ ।
“दुर्जनः प्रियवादी च नैतद्बिश्वासकारणम् ।
मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम् ॥
दुर्जनः परिहर्त्तव्यो विद्ययालङ्कृतोऽपि सः ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥”)

दुर्जयः, पुं, (दुःखेन जीयतेऽसौ । जि जये + खल् ।)

कार्त्तवीर्य्यराजवंशोद्भवानन्तपुत्त्रः । इति कूर्म्म-
पुराणम् ॥ (विष्णुः । यथा, महाभारते । १३ ।
१४९ । ९६ ।
“समावर्त्तो निवृत्तात्मा दुर्ज्जयो दुरतिक्रमः ॥”
दानवविशेषः । यथा, महाभारते । १ । ६५ । २२ ।
“असिलोमा च केशी च दुर्ज्जयश्चैव दानवः ॥”
राक्षसविशेषः । यथा, रामायणे । ३ । २९ । ३० ।
“तं दृष्ट्वा निःसृतं पूर्ब्बं राक्षसा अपि निःसृताः ।
दुर्जयः कालकाख्यश्च परुषः कालिकामुखः ॥”)
त्रि, दुर्जेयः । (यथा, देवीभागवते । ५ । ८ । २२ ।
“वरदानेन धातुः स दुर्ज्जयो मधुसूदन ! ॥”)

दुर्जरा, स्त्री, (दुर्दुःखेन जीर्य्यतीति । दुर् + जॄ +

अङ् । ततष्टाप् ।) ज्योतिष्मती लता । इति राज-
निर्घण्टः ॥ त्रि, दुर्जरः ॥ (यथा, सुश्रुते । १ । ४६ ।
“स्वादु पाकरसं शाकं दुर्जरं हरिमन्थजम् ॥”
दुर्जयः । यथा, देवीभागवते । १ । १८ । २६ ।
“दुर्जरं तासनाजालं न शान्तिमुपजाति वै ॥”)

दुर्जातं, क्ली, (दुर्दुष्टं यथा तथा जातम् । प्रादि-

समासः ।) व्यसनम् । (यथा, रघुः । १३ । ७२ ।
“दुर्जातबन्धुरयमृक्षहरीश्वरो मे
पौलस्त एष समरेषु पुरः प्रहर्त्ता ॥”)
असमञ्जसम् । इति त्रिकाण्डशेषः ॥ असम्यग्-
जाते, त्रि । इति मेदिनी । ते, ११४ ॥ (यथा,
महाभारते । १२ । २२४ । ३३ ।
“दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते ॥”)

दुर्दान्तः, पुं, (दुर्दुःखेन दान्तो दमितः ।) कलहः ।

वत्सतरः । इति राजनिर्घण्टः ॥ अशान्ते, त्रि ।
(यथा, माघे । १२ । २२ ।
“दुर्द्दान्तमुत्प्लुत्य निरस्तसादिनं
सहासहाकारमलोकयज्जनः ॥”)

दुर्द्दिनं, क्ली, (दुर्दुष्टं दिनम् ।) मेघाच्छन्नदिनम् ।

इत्यमरः । १ । ३ । १२ ॥ (यथा, हरिवंशे ।
१६७ । १८ ।
“तुमुलं दुर्द्दिनञ्चासीत् सविद्युत्स्तनयिन्तुमत् ।
तद्दुर्द्दिनतलं भित्त्वा नारदः प्रत्यदृश्यत ॥”
घनान्धकारः । यथा, कुमारे । ६ । ४३ ।
“यत्रौषधिप्रकाशेन नक्तं दर्शितसञ्चराः ।
अनभिज्ञास्तमिस्राणां दुर्दिनेष्वभिसारिकाः ॥”)
वृष्टिः । यथाह साञ्जः ।
“घनान्धकारे वृष्टौ च दुर्द्दिनं कवयो विदुः ॥”
(यथा, रघुः । ४ । ४१ ।
“द्बिषां विषह्य काकुत्स्थस्तत्र नाराचदुर्द्दिनम् ।
सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम् ॥”
कुत्सितदिनम् ।)
“सुदिनं दुर्द्दिनञ्चैव सर्व्वं कर्म्मोद्भवे भव ।
तत् कर्म्म तपसां साध्यं कर्म्मणाञ्च शुभाशुभम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥
“यदच्युतकथालापरसपीयूषवर्जितम् ।
तद्दिनं दुर्द्दिनं मन्ये मेघाच्छन्नं न दुर्दिनम् ॥”
इत्युद्भटः ॥
(दुर्द्दिनं वर्षः घनान्धकारो वा अस्त्यस्येति ।
अच् । वर्षयुक्ते घनान्धकारविशिष्टे च, त्रि ।
यथा, हरिवंशे । ६७ । ६६ ।
“सम्प्राप्ते दुर्द्दिने काले दुर्द्दिनं भाति वै नभः ॥”
तथा, महाभारते । ८ । ९१ । २३ ।
“जीमूतैश्च दिशः सर्व्वाश्चक्रे तिमिरदुर्द्दिनाः ॥”)

दुर्दुरूटः, पुं, (दोलयति उत्क्षिपति आस्तिकता-

मिति । दोलि + बाहुलकात् कूटप्रत्ययेन
साधुः ।) नास्तिकः । इति जटाधरः ॥

दुर्द्रिता, स्त्री, लताविशेषः । इति जटाधरः ॥

दुर्द्रुमः, पुं, (दुर्दुष्टो द्रुमः ।) हरित्पलाण्डुः । इति

राजनिर्घण्टः ॥

दुर्ध(र्द्ध)रः, पुं, (दुर्दुःखेन ध्रियते इति । दुर् + धृ +

“ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ।” ३ । ३ ।
१२६ । इति खल् ।) नरकविशेषः । ऋषभौ-
षधिः । इति मेदिनी । रे, १६९ ॥ पारदः । भल्ला-
तकः । इति राजनिर्घण्टः ॥ महिषासुरस्य
सेनापतिविशेषः । यथा, मार्कण्डेये । ८३ । १९ ।
“दुर्द्धरं दुर्म्मुखञ्चोभौ शरैर्निन्ये यमक्षयम् ॥”
(धृतराष्ट्रपुत्त्रभेदः । यथा, महाभारते । ७ ।
१३३ । ३० ।
“नामृष्यन्त महेश्वासाः सोदर्य्याः पञ्च भारत ! ।
दुर्म्मर्षणो दुःसहश्च दुर्म्मदो दुर्धरो जयः ।
पाण्डवं चित्रसन्नाहास्तं प्रतीपमुपाद्रवन् ॥”
शम्बरासुरस्य मन्त्रिविशेषः । यथा, हरिवंशे ।
१६२ । १८ ।
“दुर्धरः केतुमाली च णत्रुहन्ता प्रमर्द्दनः ।
एतैः परिवृतोऽमात्यैर्युयुत्सुः प्रस्थितो रणे ॥”
विष्णुः । यथा, महाभारते । १३ । १४९ । ८९ ।
तस्य सहस्रनामकथने ।
“दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥”
“न शक्या धारणा यस्य प्रणिधानादिषु
सर्व्वोपाधिविनिर्म्मुक्तत्वात्तथापि तत्प्रसादादतः
किञ्चिद्दुःखेन धार्य्यते जन्मान्तरसहस्रेषु भाव-
नात् तस्मात् दुर्धरः ।
‘क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥’
इति भगवद्वचनात् ॥” इति तद्भाष्ये शङ्करः ॥
तथा तत्रैव । ४२ श्लोके ।
“सुभुजो दुर्घरो वाग्मी महेन्द्रो वसुदो वसुः ॥”
“पृथिव्यादीनि धारकाण्यन्येन धारयितुमशक्य-
त्वात् न केनापि धारयितुं शक्यते इति दुर्धरः ।
दुःखेन ध्यानसमये मुमुक्षुभिर्हृदयेन धार्य्यते
इति दुर्धरः ।” इति तद्भाष्यम् ॥ एतेन व्युत्पत्ति-
भेदात् नामभेदोत्पत्त्या न द्बिरुक्तिः सहस्रनाम-
पूर्त्तिश्च जाता ॥) दुःखधार्य्ये, त्रि । इति हेम-
चन्द्रः ॥ (यथा, महाभारते । १ । १३४ । ९८ ।
“अथाब्रवीन्महात्मानं भारद्वाजो महारथम् ।
गृहाणेदं महाबाहो ! विशिष्टमिति दुर्धरम् ॥
अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्त्तनम् ॥”
दुर्जये च । यथा, महाभारते । ७ । ११७ । ६ ।
“निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे ।
हार्द्दिक्यं योधवर्य्यञ्च प्राप्तं मन्ये धनञ्जयम् ॥”)

दुर्ध(र्द्ध)र्षा, स्त्री, (दुर्दुःखेन धृष्यतेऽसौ । दुर् +

धृष + खल् ।) नागदमनी । कन्थारीवृक्षः ।
इति राजनिर्घण्टः ॥ (पुं, धृतराष्ट्रपुत्त्रविशेषः ।
यथा, महाभारते । १ । ११७ । ३ ।
“विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः ॥”)
पृष्ठ २/७३२
दुःखधर्षणीये, त्रि ॥ (यथा, महाभारते । ६ ।
१२ । ९ ।
“सुनामा नाम दुर्घर्षो द्बितीयो हेमपर्व्वतः ॥”
दुर्ज्जेयः । तथा, तत्रैव । १ । १३४ । ८७ ।
“ततः प्रीतमना द्रोणो मुहूर्त्तादिव तं पुनः ।
प्रत्यभाषत दुर्धर्षः पाण्डवानां महारथम् ॥”)

दुर्द्धुरूटः, पुं, (दोलयति उत्क्षिपति युक्त्यादिक-

मिति । दुल क उत्क्षेपे + बाहुलकात् कूट-
प्रत्ययेन साधुः लस्य रः ।) युक्तिं विना गुरु-
वाक्यममन्यमानः । इति तत्त्वबोधनी ॥

दुर्नाम, [न्] क्ली, (दुर्दुष्टं नाम यस्य ।) अर्शो-

रोगः । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते ।
१ । ४५ ।
“दध्याजं कफपित्तघ्नं लघु वातक्षयापहम् ।
दुर्नामश्वासकासेषु हितमग्नेः प्रदीपनम् ॥”
पित्तजश्लेष्मजयोरनयोर्हेतुर्यथा, --
“कट्वम्ललवणोष्णानि विदाहीनि भुरूणि च ।
सेवनानिलतोयेन श्रमाद्व्ययामपीडया ।
यानव्यायामदोषाद्वा दुर्नाम पित्तसम्भवम् ॥
अव्यायामात्तस्य शीलादजस्रं
शीताद्वान्यद्वातसंसेवनाच्च ।
गौण्यात्यम्लात्तैलसम्पिच्छिलेन
दुर्नामा सञ्जायते श्लेष्मदोषात् ॥”
इति हारीते चिकित्सितस्थाने द्वादशेऽध्याये ॥
चिकित्सास्य यथा, --
“व्योषाण्यरुष्करविडङ्गतिलाभयानां
चूर्णं गुडेन सहितन्तु सदोपयोज्यम् ।
दुर्नामकुष्ठगरशोथशकृद्विवन्धा-
नग्नेर्जयत्यबलतां क्रिमिपाण्डुताञ्च ॥”
इति व्योषाद्यचूर्णम् ॥
पचेद्वारिचतुर्द्रोणे कण्टकार्य्यमृताशतम् ।
तत्राग्नित्रिफलाव्योषपूतिकत्वक्कलिङ्गकैः ॥
स काश्मर्य्यविडङ्गैस्तु सिद्धं दुर्नाममेहनुत् ।
घृतं सिंह्यमृतं नाम बोधिसत्त्वेन भाषितम् ॥
इति सिंह्यमृतं घृतम् ॥”
इति वैद्यकचक्रपाणि संग्रहे अर्शोऽधिकारे ॥
“मृल्लिप्तं शौरणं कन्दं पक्त्वाग्नौ पुटपाकवत् ।
अद्यात् सतैललवणं दुर्नामविनिवृत्तये ॥”
“चूर्णीकृताः षोडश शूरणस्य
भागास्ततोऽर्द्धेन च चित्रकस्य ।
महौषधाद्द्वौ मरिचस्य चैको
गुडेन दुर्नामजयाय पिण्डी ॥”
इति शूरणपिण्डी ॥
इति वाभटे चिकित्सास्थाने अष्टमेऽध्याये ॥
“माणशूरणभल्लातत्रिवृद्दन्तीसमन्वितम् ।
त्रिकत्रयसमायुक्तं लौहं दुर्नामनाशनम् ॥
इति माणाद्यं लौहम् ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे अर्शोऽधिकारे ॥
“सर्व्वाः स्युर्वलयो येषां दुर्नामभिरुपद्रुताः ।
तैस्तु प्रतिहतो वायुरपानः सन्निवर्त्तते ॥
ततो व्यानेन सङ्गम्य ज्योतिमृद्नाति देहिनाम् ॥”
इति सुश्रुते निदानस्थाने तृतीयेऽध्याये ॥)

दुर्नामकं, क्ली, (दुर्नाम + स्वार्थे संज्ञायां वा कन् ।)

अर्शोरोगः । इत्यमरः । २ । ६ । ५४ ॥ (यथा, --
“सनागरारुष्करवृद्धदारकं
गुडेन यो मोदकमत्युदारकम् ।
अशेषदुर्नामकरोगदारकं
करोति वृद्धं सहसैव दारकम् ॥”
इति वैद्यकचक्रपाणिसंग्रहेऽर्शोऽधिकारे ॥)

दुर्नामा, [न्] पुं, स्त्री, (दुर्निन्दितं नाम यस्य ।)

दीर्घकोषिका । इत्यमरः । १ । १० । २५ ॥ झिणुक्
इति भाषा ॥

दुर्नामारिः, पुं, (दुर्नाम्न अर्शोरोगस्य अरिः शत्रुः ।)

शूरणः । इति राजनिर्घण्टः ॥

दुर्नाम्नी, स्त्री, (दुर्निन्दितं नाम यस्याः । ङीप् ।)

दुर्नामा । इति शब्दरत्नावली ॥

दुर्ब्बलः, त्रि, (दुर्निन्दितं बलं यस्य ।) कृशः । तत्-

पर्य्यायः । अमांरः २ छातः ३ । इत्यमरः । २ ।
६ । ४४ ॥ क्षान्तः ४ शातः ५ शितः ६ अबलः
७ । इति शब्दरत्नावली ॥ (यथा, देवीभाग-
वते । १ । ९ । ५६ ।
“सबलो जयमाप्नोति दैवाज्जयति दुर्ब्बलः ॥”
शिथिलः । यथा, रघुः । ५ । १२ ।
“स्वार्थोपपत्तिं प्रति दुर्ब्बलाश-
स्तमित्यवोचद् वरतन्तुशिष्यः ॥”
दुश्चर्म्मा । यथा, मनुः । ३ । १५१ ।
“जटिलञ्चानधीयानं दुर्व्वलं कितवन्तथा ।
याजयन्ति च ये पूगांस्तांश्च श्राद्धेन भोजयेत् ॥”)

दुर्ब्बला, स्त्री, (दुर्दुष्टं स्वल्पमित्यर्थः बलं यस्याः ।)

अम्बुशिरीषिका । इति भावप्रकाशः ॥

दुर्भगा, स्त्री, (दुर्दुष्टं भगं भाग्यं यस्याः ।) पति-

स्नेहरहिता । दुया इति भाषा । तत्पर्य्यायः ।
विरक्ता २ । इति त्रिकाण्डशेषः ॥ विवृक्ता ३
निस्वा ४ सौभाग्यरहिता ५ । इति शब्दरत्ना-
वली ॥ (यथा, भागवते । १ । १७ । २६ ।
“शोचत्यश्रुकला साध्वी दुर्भगेवोज्झितासती ॥”
भाग्यहीने, त्रि । यथा, महाभारते । १ । १७० । ७ ।
“कर्म्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत ॥”)

दुर्भिक्षं, क्ली, (भिक्षाया अभावः ।) भिक्षाया

अप्राप्तिकालः । अकाल इति भाषा । यथा,
“दुर्भिक्षमल्पं स्मरणं चिराय ।” इत्युद्भटः ॥
भिक्षायाः प्रायो निष्फलत्वमित्यव्ययीभावसमासः ।
यद्देशे यत्काले तद्देशतत्कालयोग्यशस्यादिकं
न जायते तद्देशे तदा याच्यमानद्रव्यालाभात्
दुर्भिक्षं जातमिति व्यवह्रियते सद्भिरिति । तत्-
कारकवर्षाणि यथा, --
“राष्ट्रभङ्गश्च दुर्भिक्षं तस्करैरुपपीडनम् ।
जानीयाद्बिग्रहं घोरं प्रमाथिनि वरानने ! ॥ १३ ॥
दुर्भिक्षं जायते घोरं सर्व्वोपद्रवसंयुतम् ।
अनावृष्टिः समाख्याता व्यये संवत्सरे प्रिये ! ॥ २० ॥
क्वचिद्बर्षति पर्ज्जन्यो देशे संछिन्नमण्डलः ।
दुर्भिक्षं सर्व्वरीवर्षे व्यवहारो विपर्य्ययः ॥ ३४ ।
दुर्भिक्षं जायते सर्व्वा मेदिनी दुष्यति प्रिये ! ।
प्लवे प्लवन्ति तोयानि पीडिता मानवा भुवि ॥ ३५ ॥
दुर्भिक्षं जायते घोरं धान्यौषधिप्रपीडनम् ।
अनले च समाख्याता नात्र कार्य्याविचारणा ॥ ५०
देशभङ्गः सुदुर्भिक्षं समासात् कथयाम्यहम् ।
पिङ्गले चारुपद्माक्षि ! दुर्भिक्षं नर्म्मदातटे ॥ ५१ ॥
दुर्भिक्षं मध्यमं प्रोक्तं व्यवहारो न वर्त्तते ।
भवेद्वै मध्यमा वृष्टिर्दुर्म्मतौ समुपस्थिते ॥ ५५ ॥
दुर्भिक्षं मरणं घोरं धान्यौषधिप्रपीडनम् ।
पापरोगो भवेद्देवि ! रक्ताख्येऽमरवन्दिनि ! ॥ ५८ ॥
रोगो मरणदुर्भिक्षं विरोधोपद्रवाकुलम् ।
क्रोधे तु विषमं सर्व्वं समाख्यातं हरप्रिये ! ॥ ५९ ॥
मेदिनी चलते देवि ! सर्व्वभूतं चराचरम् ।
देशभङ्गश्च दुर्भिक्षं क्षये सङ्क्षीयते प्रजा ॥
सौराष्ट्रे मालवे देशे दक्षिणे कोङ्कणे तथा ।
दुर्भिक्षं जायते घोरं क्षये संवत्सरे प्रिये ! ॥” ५० ॥
इति ज्योतिस्तत्त्वधृतषष्टिवर्षान्तर्गतवर्षविशेष-
फलबोधकभविष्यपुराणीयवचनानि ॥ * ॥
अद्भुतेऽपि दुर्भिक्षं भवति यथा, --
“मांसास्थिनी समादाय श्मशानाद्गृघ्रवायसाः ।
श्वा शृगालोऽथवा मध्ये पुरस्य प्रविशन्ति चेत् ॥
विकिरन्ति गृहादौ च श्मशानं सा मही भवेत् ।
चौरेण हन्यते लोकः परचक्रसमागमः ॥
संग्रामश्च महाघोरो दुर्भिक्षं मरकन्तथा ।
अद्भुतानि प्रसूयन्ते तत्र देशस्य विद्रवः ॥
अकाले फलपुष्पाणि देशविद्रवकारणम् ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
“तत्राशौचिभिक्षाग्रहणे दोषाभाव इति हार-
लताप्रभृतयः ॥ कौर्म्मे ।
सद्यःशौचं समाख्यातं दुर्भिक्षे चाप्युपप्लवे ।
डिम्बाहवे हतानाञ्च विद्युता पार्थिवैर्द्बिजैः ॥
सद्यःशौचं समाख्यातं शापादिमरणे तथा ॥”
इति शुद्धितत्त्वम् ॥
अपि च गारुडे २२६ अध्याये ।
“दुर्भिक्षयुक्तराष्ट्रे च मृतके सूतकेऽपि वा ।
नियमाश्च न दुष्यन्ति दानधर्म्मरतास्तथा ॥
दीक्षिताश्चाभिषिक्ताश्च व्रततीर्थपरास्तथा ।
दीक्षाकाले विवाहादौ देवद्रोण्यां निमन्त्रिते ॥
पूर्ब्बसङ्कल्पिते चापि नाशौचं मृतसूतके ॥”

दुर्म्मनाः, [स्] त्रि, (दुर्दुष्टं मनो यस्य ।) चिन्ता-

दिव्याकुलचित्तः । तत्पर्य्यायः । विमनाः २
अन्तर्म्मनाः ३ । इत्यमरः । ३ । १ । ८ ॥ (यथा,
भागवते । १ । ६ । १९ ।
“रूपं भगवतो यत्तत्मनः कान्तं शुचापहम् ।
अपश्यन् सहसोत्तस्थे वैक्लव्याद्दुर्म्मना इव ॥”
शतावर्य्याम्, स्त्री । इति राजनिर्घण्टः ॥ (दुर्दुष्टं
मनः इति विग्रहे । दुष्टचित्ते, क्ली । यथा,
रामायणे । २ । ३१ । २० ।
“यदि दुःस्थो न रक्षेत भरतो राज्यमुत्तमम् ।
प्राप्य दुर्मनसा वीर गर्व्वेण च विशेषतः ॥”)

दुर्म्मरा, स्त्री, (मृ + भावे अप् । दुर्दुःखेन मर

मृत्युर्यस्याः । छिन्नायामपि पुनरुत्पत्तेरस्या-
स्तथात्वम् ।) दूर्व्वा । इति जटाधरः ॥ श्वेत-
दूर्व्वा । इति राजनिर्घण्टः ॥
पृष्ठ २/७३३

दुर्म्मुखः, पुं, (दुर्निन्दितं मुखं यस्य ।) वानर-

विशेषः । (यथा, रामायणे । ४ । ३९ । ३३ ।
“अयुतेन वृतश्चैव सहस्रेण शतेन च ।
ततो यूथपतिर्वीरो दुर्म्मुखो नाम वानरः ॥”)
नागभेदः । इति मेदिनी । खे, १० ॥ (यथा,
हरिवंशे । ३ । ११४ ।
“कुहरः पुष्पदंष्ट्रश्च दुर्म्मुखः सुमुखस्तथा ॥”)
अश्वः । इति हेमचन्द्रः । ३ । १५ ॥ (सर्पः । इति
त्रिकाण्डशेषः । ३ । ३ । ५९ ॥) महिषासुर-
सेनापतिविशेषः । यथा, मार्कण्डेये । ८३ । १९ ।
“दुर्द्धरं दुर्म्मुखञ्चोभौ शरैर्निन्ये यमक्षयम् ॥”
(नृपविशेषः । यथा, महाभारते । २ । ४ । २१ ।
“संग्रामजिर्द्दुर्म्मुखश्च उग्रसेनश्च वीर्य्यवान् ॥”
धृतराष्ट्रस्य पुत्त्रविशेषः । यथा, तत्रैव । १ । ११७ । ३ ।
“दुर्म्मर्षणो दुर्म्मुखश्च दुष्कर्णः कर्ण एव च ॥”
राक्षसविशेषः । यथा, भागवते । ९ । १० । १८ ।
“रक्षःपतिस्तदवलोक्य निकुम्भकुम्भ-
धूम्राक्षदुर्म्मुखसुरान्तनरान्तकादीन् ॥”
यक्षविशेषः । इति ब्रह्मपुराणम् ॥ गणपते-
र्गणानामन्यतमः । यथा, महागणपति-
स्तोत्रे । ११ ।
“षट्कोणाश्रिषु षट्सु षड्गजमुखाः पाशा-
ङ्कुशाभीरवान्-
बिभ्राणाः प्रमदासखाः पृथुमहाशोणाश्ममुञ्ज-
त्विषः ।
आमोद्रः पुरतः प्रमोदसुमुखौ तं चाभितो
दुर्म्मुखः
पश्चात्पार्श्व गतोऽस्य विघ्न इति यो यो विघ्न-
कर्त्तेति च ॥”
वर्षविशेषः । यथा, ज्योतिषतत्त्वधृतभविष्य-
पुराणवचनम् ।
“तुषधान्यक्षयो देवि ! सर्व्वशस्यमहार्षता ।
व्यवहाराश्च नश्यन्ति दुर्मुखे दुर्मुखाः प्रजाः ॥”)

दुर्म्मुखः, त्रि, (दुर्दुःखजनकं मुखं मुखनिःसृत-

वचनादिकं यस्य ।) अप्रियवादी । तत्पर्य्यायः ।
मुखरः २ अबद्धमुखः ३ । इत्यमरः । ३ । १ । ३६ ॥
(अप्रियदर्शनम् । यथा, कथासरित्सागरे ।
१२ । ५२ ।
“चक्रे वसन्तकस्यापि रूपं दन्तुरदुर्मुखम् ॥”)

दुर्म्मूल्यं, क्ली, (दुर्दुःस्थितं मूल्यम् । प्रादिसमासः ।)

महार्घम् । इति लोकप्रसिद्धम् ॥

दुर्म्मेधाः, त्रि, (दुर्निन्दिता मेधा धारणावती बुद्धि-

र्यस्य । “नित्यमसिच् प्रजामेधयोः ।” ५ । ४ ।
१२२ । इति असिच् ।) मन्दमेधाः । इति
व्याकरणम् । (यथा, महाभारते । ३ । १० । २९ ।
“न किञ्चिदुक्त्वा दुर्म्मेधास्तस्थौ किञ्चिदवाङ्-
मुखः ॥”)

दुर्म्मोहः, पुं, (दुर्निन्दितो मोहो यस्मात् ।) काक-

तुण्डी । इति राजनिर्घण्टः ॥

दुर्य्योधनः, पुं, (दुर्दुःखेन युध्यतेऽसा । युध +

“भाषायां शासियुधीति ।” युच् ।) स्वनाम-
ख्यातकुरुवंशभवराजविशेषः । स धृतराष्ट्रज्येष्ठ-
पुत्त्रः कुरुपाण्डवयुद्धे भीमेन हतः । तत्पर्य्यायः ।
कुरुराट् २ गान्धारेयः ३ सुयोधनः ४ । इति
त्रिकाण्डशेषः ॥ (अयं कलेरंशेन पृथिव्या-
मवतीर्णः । यथा, महाभारते । १ । ६७ । ८८-८९ ।
“कलेरंशस्तु संजज्ञे भुवि दुर्य्योधनो नृपः ।
दुर्ब्बुद्धिर्दुर्म्मतिश्चैव कुरूणामयशस्करः ॥
जगतो यस्तु सर्व्वस्य विद्बिष्टः कलिपुरुषः ।
यः सर्व्वां घातयामास पृथिवीं पृथिवीपते ! ॥”)

दुर्लभः, त्रि, (दुर्दुःखेन लभ्यते इति । दुर् + लभ +

“ईषद्दुःसुष्विति ।” ३ । ३ । १२६ । इति खल् ।)
दुष्प्रापः । इति मेदिनी । भे, १६ ॥ यथा, --
“दुर्लभं प्राकृतं वाक्यं दुर्लभः क्षेमकृत् सुतः ।
दुर्लभा सदृशी भार्य्या दुर्लभः स्वजनः प्रियः ॥”
इति चाणक्ये । ५४ ॥
अतिप्रशस्तः । इति शब्दरत्नावली ॥
“सर्व्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा ।
हरिद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥”
इति कूर्म्मपुराणम् ॥
प्रियः । इति हेमचन्द्रः ॥

दुर्लभः, पुं, (दुर् + लभ + खल् ।) कच्चुरः । इति

मेदिनी । भे, १६ ॥ कर्च्चूरः । इति राजनिर्घण्टः ॥
(विष्णुः । यथा, महाभारते । १३ । १४९ । ९६ ।
“दुर्ल्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥”
“दुर्ल्लभतया दुर्ल्लभः ।
‘जन्मान्तरसहस्रेषु तपोदानसमाधिभिः ।
नराणां क्षीणपापानां कृष्णभक्तिः प्रजायते ।’
इति वचनात् भक्त्या लभ्य इति भगवद्बचनाच्च ।”
इति तत्र शाङ्करभाष्यम् ॥)

दुर्लभा, स्त्री, (दुर्लभ + टाप् ।) श्वेतकण्टकारी ।

दुरालभा । इति राजनिर्घण्टः ॥

दुर्व्व, ई वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् । ईदित्त्वात् निष्ठायामनिट् ।) पञ्चम-
स्वरी । दूः दुरौ दुरः । ई, दूर्णः । इति दुर्गा-
दासः ॥

दुर्व्वचं, त्रि, (दुर्दुःखेन उच्यते । दुर् + वच् +

खल् ।) दुःखकथ्यम् । यथा, भारविः । २ । २ ।
“अपि वागधिपस्य दुर्वचं
वचनन्तद्विदधीत विस्मयम् ॥”

दुर्व्वचः, [स्] क्ली, (दुर्निन्दितं वचः ।) मन्द-

वाक्यम् । यथा, --
“असह्यं दुर्व्वचो ज्ञातेर्मेघान्तरितरौद्रवत् ॥”
इत्युद्भटः ॥
(दुष्टवक्तरि, त्रि ॥)

दुर्व्वर्णं, क्ली, (दुर्निन्दितं सुवर्णाद्यपेक्षयेत्यर्थः वर्णं

यस्य ।) रजतम् । इत्यमरः । २ । ९ । ९६ ॥
(यथा, माघे । ४ । २८ ।
“दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा ॥”)
एलबालुकम् । इति मेदिनी । णे, ५२ ॥ मन्द-
वर्णे, त्रि ॥ (यथा, भागवते । ३ । १४ । ४४ ।
“योगैर्हेमेव दुर्व्वर्णं भावयिष्यन्ति साधवः ॥”)

दुर्व्वर्णकं, क्ली, (दुर्व्वर्ण + स्यार्थे संज्ञायां वा कन् ।)

रजतम् । इति हेमचन्द्रः ॥

दुर्व्वाक्, [च्] त्रि, (दुर्दुष्टा वाक् यस्य ।) कद्वदः ।

इति हेमचन्द्रः । ३ । ११ ॥ (यथा, अथर्व्व-
वेदे । ४ । १७ । ५ ।
“दुर्णाम्नीः सर्व्वा दुर्व्वाचस्ता अस्मन्ताशया-
मसि ॥”)
दुर्दुष्टा वाक् ।) दुष्टवाक्ये, स्त्री ॥ (यथा, महा-
भारते । २ । ७४ । ८८ ॥
“अतीव जल्पन् दुर्व्वाचो भवतीह विहेठकः ॥”)

दुर्व्वादः, पुं, (दुर्दुष्टो वादः ।) स्तुतिपूर्ब्बकदुर्व्वाक्यम् ।

इति जटाधरः ॥ निन्दितवाक्यञ्च ॥

दुर्व्वासाः, [स्] पुं, (दुर्दुष्टं निगूढमित्यर्थः वास इव

धर्म्मावरणत्वं यस्य । तथा च महाभारतवच-
नम्- ।
“निगूढनिश्चयं धम्म यं तं दुर्व्वाससं विदुः ॥”)
मुनिविशेषः । स अत्रिमुनिपुत्त्रः शङ्करांश-
जातः । इति श्रीभागवतम् ॥ (यथा, विष्णु-
पुराणे । १ । ९ । २ ।
“दुर्व्वासाः शङ्करस्यांशश्चचार पृथिवीमिमाम् ॥”)
तत्पर्य्यायः । कुशारणिः २ । इति त्रिकाण्ड-
शेषः ॥ तस्य भार्य्या और्व्वमुनिकन्या कन्दली ।
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥ (महा-
देवः । यथा, महाभारते । १३ । १७ । ६२ ।
तस्य सहस्रनामकीर्त्तने ।
“साङ्ख्यप्रसादो दुर्व्वासाः सर्व्वसाधुनिषेवितः ॥”
दुर्निन्दितं वासो वस्त्रं यस्य ।) मन्दवस्त्रयुक्ते,
त्रि ॥ (यथा, ऋग्वेदे । ७ । १ । १९ ।
“मा नो अग्नेऽवीरते परा दा दुर्वाससेऽमतये
मा नो अस्यै ॥”)

दुर्व्विधः, त्रि, (दुर्दुष्टा विधा यस्य ।) दरिद्रः ।

इत्यमरः । ३ । १ । ४९ ॥ खलः । इति मेदिनी ।
धे, ३१ ॥ मूर्खः । इति शब्दरत्नावली ॥ (यथा,
गोः रामायणे । २ । १०९ । ३० ।
“शास्त्रेष्वन्येषु मुख्येषु विद्यमानेषु पुर्व्विधाः ।
बुद्धिमान्वीक्षिकीं प्राप्य निरर्थान् प्रवदन्ति ते ॥”)

दुर्व्विनीतः, पुं, (वि + नी + भावे क्तः । दुर्दुष्टं

विनीतं विनयो यस्य । यद्वा, दुर् + वि + नी +
क्तः ।) अविनीताश्वः । तत्पर्य्यायः । शूकलः २ ।
इति हेमचन्द्रः । ४ । ३०१ । अविनीतमात्रे,
त्रि ॥ (यथा, पञ्चतन्त्रे । ५ । १७ ।
“कुपुत्त्रोऽपि भवेत् पुंसां हृदयानन्दकारकः ।
दुर्व्विनीतः कुरूपोऽपि मूर्खोऽपि व्यसनी
खलः ॥”)

दुर्व्वृत्तः, त्रि, (दुर्दुष्टं वृत्तं चरित्रं यस्य ।) दुर्जनः ।

यथा, --
“दुर्व्वृत्तवृत्तशमनं तव देवि ! शीलम् ॥”
इतिचण्डी ॥
दुश्चरित्रे, क्ली । (यथा, महाभारते । १ । १ । १०० ।
“दुर्व्वृत्तं धार्त्तराष्ट्राणामुक्तवान् मगवानृषिः ॥”)

दुर्हृत्, [द्] त्रि, (दुर्दुष्टं हृदयं यस्य । “सुहृ-

द्दुर्हृदौ मित्रामित्रयोः ।” ५ । ४ । १५० । इति निपा-
तनात् हृदयस्य हृद्भावः ।) शत्रुः । इत्यमरः ।
२ । ८ । १० ॥ (यथा, मार्कण्डेये । २६ । ३४ ।
पृष्ठ २/७३४
“मित्राणामुपकाराय दुर्हृदां नाशनाय च ॥”)
दुष्टचित्ते, त्रि । (यथा, महाभारते । ३ । ३१२ । १२ ।
“अश्मसारमयं नूनं ह्यदयं मम दुर्हृदः ।
यमौ यदेनौ दृष्ट्वाद्य पतितौ नावदीर्य्यते ॥”)

दुर्हृदयः, त्रि, (दुर्दुष्टं हृदयं यस्य । अशत्रुत्वेन न

हृद्भावः ।) दुष्टान्तःकरणः । इति शब्दार्थ-
कल्पतरुः ॥

दुल, क उत्क्षेपे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) क, दोलयति धूलिं वायुः ।
इति दुर्गादासः ॥

दुलिः, पुं, (दोलतीति । दुल + “इगुपधात् कित् ।”

उणां ४ । ११९ । इति इन् ।) मुनिविशेषः ।
कमठ्याम् स्त्री । इति मेदिनी । ले, २६ ॥

दुली, स्त्री, (दुल + इन् । वा ङीष् ।) दुलिः । इत्य-

मरटीकायां भरतः ॥

दुश्चरः, पुं, (दुर्दुःखेन चरतीति । दुर् + चर +

अच् ।) शम्बूकः । इति हारावली । ११२ ॥
भल्लूकः । इति राजनिर्घण्टः ॥ (दुर्दुःखेन चर्य्यते
इति । खल् ।) दुर्गमे, त्रि । (यथा, रामायणे ।
३ । २६ । ७ ।
“प्रविष्टो सीतया सार्द्धं दुश्चरं दण्डकं वनम् ॥”
दुश्चरणीये, त्रि । यथा, महाभारते । १२ ।
२३ । ६ ।
“त्वञ्चराद्य विधिं पार्थ ! दुश्चरं दुर्ब्बलेन्द्रियैः ॥”)

दुश्चर्म्मा, [न्] पुं, (दुष्टं चर्म्म यस्य ।) अप्रावृत-

मेढ्रः । “यथा, दुश्चर्म्मा गुरुतल्पगः ।” इति
स्मृतिः ॥ तत्पर्य्यायः । द्बिनग्नकः २ चण्डः ३
शिपिविष्टः ४ । इति हेमचन्द्रः । ३ । ११८ ॥
कोठरोगः । इति राजनिर्घण्टः ॥

दुश्चिक्यं, क्ली, लग्नात् तृतीयलग्नम् । यथा, --

“खं मेषूरणमास्पदं मदनभे यामित्रमस्तद्युने
द्यूनञ्चापि सुहृद्गृहे तु हिवुकं पातालमम्भोऽपि
च ।
दुश्चिक्यं सहजे वदन्ति मुनयो रिप्फं ततो द्वादशे
षट्कोणं रिपुमन्दिरे नवमभे त्र्याद्यं त्रिकोणं
पुनः ॥”
इति दीपिका ॥

दुश्च्यवनः, पुं, (दुर्दुःखेन च्यवनं बहुकालानन्तरं

पतनं यस्य । दुर्दुष्टश्च्यवनः शिवो यस्य । शिवेन
अभिभूतत्वात् तथात्वम् । यद्वा, दुर्दुःखेन श्चूयते
इति । श्चु ङ गतौ + “छन्दसि गत्यर्थेभ्यः ।” ३ ।
३ । १२९ । इति युच् ।) इन्द्रः । इत्यमरः । १ ।
१ । ४७ ॥ (अविचाल्ये, त्रि । यथा, ऋग-
वेदे । १० । १०३ । २ ।
“युत्कारेण दुश्च्यवनेन धृष्णुना ॥”)

दुष, ईर् य औ वैकृते । इति कविकल्पद्रुमः ॥

(दिवां-परं-अकं-अनिट् ।) वैकृतमशुद्धीभावः ॥
इर्, अदुषत् अदुक्षत् । अस्मात् पुषादित्वान्नित्यं
ङ इत्यन्ये । य, दुष्यति लोकः पापात् । औ,
दोष्टा । इति दुर्गादासः ॥

दुष्करं, क्ली, (दुर्दुःखेन क्रियते इति । कृ + खल् ।)

आकाशम् । इति शब्दार्थकल्करुः ॥ (भावे
खल् ।) दुःखेन करणम् । (कर्म्मणि खल् ।)
दुष्खेण क्रिययाणे, त्रि । इति मुग्धबोधम् ॥
(यथा, देवीभागवते । ५ । १ । ३ ।
“वने गत्वा तपस्तप्तं वासुदेवेन दुष्करम् ।
विष्णोरंशावतारेण शिवस्याराधनं कृतम् ॥”)

दुष्कर्म्म, [न्] क्ली, (दुष्टं कर्म्म ।) पापम् । यथा,

“दुष्कर्म्मजा नृणां रोगा यान्ति चैव कमाच्छमम् ।
जपैः सुरार्च्चनैर्होमैर्दानैस्तेषां शमो भवेत् ॥”
इति शातातपीयकर्म्मविपाकः ॥
(निन्दितकर्म्म ॥ * ॥ दुष्टं कर्म्म अस्येति विग्रहे ।
दुष्कर्म्मकारके, त्रि । यथा, महाभारते । ५ ।
१३२ । २० ।
“ततो वसति दुष्कर्म्मा नरके शाश्वतीः समाः ॥”)

दुष्कुलीनः, पुं, चोरनामगन्धद्रव्यम् । इति शब्द-

रत्नावली ॥ (दुष्कुले भवः । दुष्कुल + पक्षे खः ।
दुष्कुलोद्भवे, त्रि । इति शब्दार्थकल्पतरुः ॥
(यथा, महाभारते । ५ । ३९ । ४६ ।
“दुष्कुलीनः कुलीनो वा मर्य्यादां यो न लङ्घयेत् ॥”)

दुष्कृतं, क्ली, (दुष्टं कृतम् ।) पापम् । इत्यमरः ।

१ । ४ । २३ ॥ तत्तु तत्कर्त्तुर्मरणानन्तरं तेन
सह गच्छति । यथा, --
“गृहादर्था निवर्त्तन्ते श्मशानादपि बान्धवाः ।
सुकृतं दुष्कृतं लोके गच्छन्तमनुगच्छति ॥
तस्माद्बित्तं समासाद्य दैवाद्बा पौरुषादथ ।
दद्यात् सम्यक् द्विजातिभ्यः कीर्त्तनानि च कार-
येत् ॥”
इति वह्निपुराणे यमानुशासननामाध्यायः ॥
(दुष्टकृते, त्रि । यथा, महाभारते । ९ । ४३ । २० ।
“युष्माकञ्चाप्रसादेन दुष्कृतेन च कर्म्मणा ।
यत् पापं वर्द्धतेऽस्माकं यतः स्मो ब्रह्मराक्षसाः ॥”)

दुष्क्रीतं त्रि, (दुर्दुःखेन क्रीयते स्म इति । दुर् +

क्री + क्तः ।) महार्घम् । यथा, --
“क्रीत्वा मूल्येन यो द्रव्यं दुष्क्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयन्तत् तस्मिन्नेवाह्न्यविक्षतम् ॥”
इति प्रायश्चित्ततत्त्वे नारदः ॥

दुष्खं क्ली, (दुष्टं खनति आविष्करोतीति । खन

+ डः । “इणः षः ।” ८ । ३ । ३९ । इति
विसर्गस्य षः ।) दुःखम् । इत्यमरटीकायां
भरतः ॥

दुष्खदिरः पुं, (दुष्टः खदिर इति प्रादिसमासः ।)

खदिरवृक्षभेदः । तत्पर्य्यायः । काम्बोजी २ ।)
कालस्कन्धः ३ गोरटः ४ अमरजः ५ पत्रतरुः
६ बहुसारः ७ सारखदिरः ८ महासारः ९
क्षुद्रखदिरः १० । अस्य गुणाः । कटुत्वम् ।
उष्णत्वम् । तिक्तत्वम् । रक्तव्रणोत्थदोषकण्डूति-
विषवीसर्पज्वरकुष्ठोन्मादभूतनाशित्वञ्च । इति
राजनिर्घण्टः ॥

दुष्टं, क्ली, (दुष् + क्तः ।) कुष्ठम् । इति शब्द

चन्द्रिका ॥ कुड इति ख्यातम् ॥

दुष्टः, त्रि, (दुष्यतीति + दुष् + कर्त्तरि क्तः ।)

दुर्ब्बलः । अधमः । इति विश्वः ॥ (यथा, महा-
भारते । ३ । २३३ । ११ ।
“महाकुलीनाभिरपापिकाभिः
स्त्रीभिः सतीभिस्तव सख्यमस्तु ।
चण्डाश्च शौण्डाश्च महाशनाश्च
चौराश्च दुष्टाश्च पलाश्च वर्ज्ज्याः ॥)

दुष्टवृषः, पुं, (दुष्टो वृष इति कर्म्मधारयः ।) शक्तो

ऽप्यधुर्व्वहः । गड्या गरु इति भाषा । तत्-
पर्य्यायः । गलिः २ । इति हेमचन्द्रः । ४ । ३२९ ॥

दुष्टा, स्त्री, (दुष्यति स्म योनिदोषेणेति । दुष् +

क्त + टाप् ।) पुंश्चली । इति शब्दरत्नावली ॥

दुष्ठु, व्य, (दुर् निन्दितं तिष्ठतीति + दुर् + स्था +

“अपदुःसुषु स्थः ।” उणां । १ । २६ । इति कुः ।
“सुषमादिषु च ।” ८ । ३ । ९८ । इति सुषमादि-
त्वात् षत्वम् ।) निन्दा । इत्यमरः । ३ । ४ । १९ ।

दुष्ठुः, त्रि, (दुर्निन्दितस्तिष्ठतीति + दुर + स्था +

कुः षत्वञ्च ।) अविनीतः । इत्युणादिकोषः ॥

दुष्पत्रः, पुं, (दुष्टानि पत्रानि यस्य ।) चोरनाम-

गन्धद्रव्यम् । इत्यमरः । २ । ४ । १२८ ॥

दुष्प्रधर्षणी, स्त्री, (दुर्दुःखेन प्रधृष्यते इति । धृष्

+ कर्म्मणि ल्युट् स्त्रियां ङीप् । यद्बा, भाषायां
दुष्प्रधर्षतीति युच् ।) वार्त्ताकी । इत्यमरः ।
२ । ४ । ११४ ॥ (पुं, धृतराष्ट्रपुत्त्रभेदः । यथा,
महाभारते । १ । ६७ । ९४ ।
“विन्दानुविन्दौ दुर्द्धर्षः सुबाहुर्दुष्प्रधर्षणः ॥”
दुःखेन धर्षणीये, त्रि । यथा, रामायणे ।
३ । १८ । ९ ।
“प्रविश्य चाग्निशरणं तमृषिं दुष्प्रधषणम् ।
तथेत्युक्त्वाश्रमपदं प्रविवेश निवेदितुम् ॥”)

दुष्प्रधर्षा, स्त्री, (दुःखेन प्रधृष्यते इति । प्र + धृष

+ अच् + टाप् ।) दुरालभा । खर्ज्जूरी । इति
राजनिर्घण्टः ॥ (पुं, धृतराष्ट्रपुत्त्रभेदः । यथा,
महाभारते । ६ । ६१ । २५ ।
“उग्रो भीमरथो भीमो वीरबाहुरलोलुपः ।
दुर्म्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः ॥”
(दुःखेन पराभवनीये, त्रि । यथा, महाभारते ।
५ । १५१ । ४६ ।
“सारवद्बलमस्माकं दुष्प्रधर्षं दुरासदम् ॥”)

दुष्प्रधर्षिणी, स्त्री, (पौनःपुन्येन दुःखेन धृष्यते

इति । धृष् + आभीक्ष्ण्ये णिनिः ।) दुष्प्रधर्षणी ।
इत्यमरटीकायां भरतः ॥ कण्टकारी । इति
राजनिर्घण्टः ॥ बृहती । इति भावप्रकाशः ॥

दुष्प्रवेशा, स्त्री, (दुःखेन प्रविश्यते इति । प्र +

विश् + कर्म्मणि अच् । टाप् च ।) कन्थारी-
वृक्षः । इति राजनिर्घण्टः ॥ (दुष्प्रवेशनीये,
त्रि । यथा, रामायणे । ३ । ६ । २ ।
“कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् ।
दुष्प्रवेशं दुरालक्ष्यं सूर्य्यमण्डलवर्च्चसम् ॥”)

दुष्मन्तः, पुं, (दुष् दोषवतीं मन्यते शकुन्तलामिति ।

दुष् + मन् + क्तः । निपातनात् साधुः ।) चन्द्र-
वंशीयराजविशेषः । स ऐतिपुत्त्रः । तस्य पुत्त्रो
भरतराजचक्रवर्त्ती । पत्नी शकुन्तला । इति
श्रीभागवतम् ॥ (यथा, महाभारते । १ । ६८ । ३ ।
“पौरवानां वंशकरो दुष्मन्तो नाम वीर्य्यवान् ।
पृष्ठ २/७३५
पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम् ! ॥”
विवरणमस्य तदध्यायात् विस्तरशो द्रष्टव्यम् ।
दुष्यन्त इत्यपि पाठः ॥)

दुस्पर्शः, पुं, (दुःखेन स्पृश्यते इति । दुर् + स्पृश +

कर्म्मणि खल् । विसर्गस्य वा लोपः ।) दरालभा ।
इत्यमरटीकायां भरतः ॥ (पर्य्यायोऽस्य यथा,
“यासो यवासो दुस्पर्शो धन्वयासः कुनाशकः ।
दुरालभा दुरालम्भा समुद्रान्ता च रोदिनी ॥
गान्धारी कच्छुरानन्ता कषाया हरविग्रहा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
दुःखस्पृश्ये, त्रि ॥

दुस्स्थः, पुं, (दुःखेन तिष्ठतीति । दुः + स्था +

कः ।) कुक्कुरः । कुक्कुटः । इति शब्दार्थकल्प-
तरुः ॥ (दुःस्थिते, त्रि । यथा, भट्टौ । २ । ३९ ।
“बलिर्बबन्धे जलधिर्ममन्थे
जह्रेऽमृतं दैत्यकुलं विजिग्ये ।
कल्पान्तदुस्स्था वसुधा तथोहे
येनैष भारोऽति गुरुर्न तस्य ॥”)

दुह, इर् अर्द्दने । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-सेट् ।) इर्, अदुहत् अदोहीत । अर्द्दन-
मिह वधः । इति दुर्गादासः ॥

दुह, ल ञ औ दुहि । इति कविकल्पद्रुमः ॥ (अदां-

उभं-सकं-अनिट् ।) धुक् दोहनम् । तच्च
व्यक्तीकरणमिति धातुपारायणिकाः । ञ ल,
दोग्धि दुग्धे गां दुग्धं गोपः । स्वयं प्रदुग्धास्य
गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनीति
किराते वसूनीति कर्म्मणो विद्यमानतया कर्म्म-
कर्त्तृत्वाभावात् स्खलितमित्येके । दुहादेरप्रधान-
कर्म्मविषये कर्म्मकर्त्तृत्वे प्रधानकर्म्मप्रयोगो दुर्नि
वारः । इति कुलचन्द्रः ॥ स्वमते तु अतएवा-
नयोर्ढेऽपि ढवत्त्वमिति वचनात् पचदुहोः कर्म्मणि
विद्यमानेऽपि कर्म्मकर्त्तृत्वम् । इति दुर्गादासः ॥

दुहिता, [ऋ] स्त्री, (दोग्धि विवाहादिकाले

धनादिकमाकृष्य गृह्णातीति । यद्बा, दोग्धि गा
इति । आर्षकाले कन्यासु एव गोदोहनभार-
स्थितेस्तथात्वम् । दुह + “नप्तृनेष्टृत्वष्टृहोतृ-
पातृभ्रातृजामातृमातृपितृदुहितृ ।” उणां ।
२ । ९६ । इति तृच् । निपातनात् गुणाभावः ।)
कन्या । इत्यमरः । २ । ६ । २८ ॥ कन्यादान-
पात्रापात्रं यथा, --
“कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम् ।
वराय गुणहीनाय वृद्धायाज्ञानिने तथा ॥
दरिद्राय च मूढाय योगिने कुत्सिताय च ।
अत्यन्तकोपयुक्ताय चात्यन्तदुर्मुखाय च ॥
चापलायाङ्गहीनाय चान्धाय बधिराय च ।
जडाय चैव मूर्खाय क्लीवतुल्याय पापिने ॥
ब्रह्महत्यां लभेत् सोऽपि यः स्वकन्यां ददाति च ।
शान्ताय गुणिने चैव यूने च विदुषेऽपि च ॥
वैष्णवाय सुतां दत्त्वा दशवापीफलं लभेत् ॥” * ॥
कन्याविक्रये दोषो यथा, --
“यः कन्यापालनं कृत्वा करोति विक्रयं यदि ।
विपदा धनलोभेन कुम्भीपाकं स गच्छति ॥
कन्यामूत्रपुरीषञ्च तत्र भक्षति पातकी ।
कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्द्दश ॥
मृतश्च व्याधयोनौ च स लभेज्जन्म निश्चितम् ।
विक्रीणीते मांसभारं वहत्येवं दिवानिशम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥
कन्यादानफलं यथा, --
“दशवापीसमा कन्या दीयते ब्राह्मणाय तत् ।
वेदज्ञाय पवित्राय चाप्रतिग्रहशालिने ॥
सन्ध्यायज्ञवेदपाठकारिणे सत्यवादिने ।
अस्मै प्रदत्ता कन्या च दशवापीफलप्रदा ॥
त्रिसन्ध्याकारिणे सत्यवादिने गृहशालिने ।
वेदज्ञाय च विप्राय दत्तार्द्धफलदायिनी ॥
प्रतिग्रहगृहीताय सन्ध्याहीनाय नित्यशः ।
मूर्खाय दत्ता कन्या च सा चतुःफलदायिनी ॥
परदारगृहीताय याजकाय द्बिजाय च ।
शठाय सन्ध्याहीनाय वाप्येकफलदा सुता ॥
सर्व्वसन्ध्यास्वगायत्त्रीविहीनाय शठाय च ।
विप्रोद्भवाय दत्ता या वाप्यर्द्धफलदा सुता ॥
पापिने शूद्रजाताय विप्रक्षेत्रोद्भवाय च ।
दत्ता चाण्डालतुल्याय कन्या सा नरकप्रदा ॥
विष्णुभक्ताय विदुषे विप्राय सत्यवादिने ।
जितेन्द्रियाय दत्ता या विंशद्बापीफलप्रदा ॥
षष्टिवर्षसहस्राणि दिव्यरूपं विधाय च ।
एवम्भूताय दत्ता च मोदते विष्णुमन्दिरे ॥
दत्त्वा कन्यां सुशीलाञ्च हराय हरयेऽथवा ।
नारायणस्वरूपञ्च भवेदेव श्रुतौ श्रुतम् ॥
विष्णुभक्तो यदा कन्यां ददाति विष्णुप्रीतये ।
स लभेद्धरिदास्यञ्च ध्रुवं विप्रोद्भवाय च ॥” * ॥
विवाहानन्तरं कन्याया भर्त्तृगृहगभनसमये
पित्रादीनां रोदनं शास्त्रसिद्धम् । यथा दुर्व्वा-
ससा सह और्व्वकन्यायाः कन्दल्या विवाहे ।
“कन्यासमर्पणं कृत्वा मोहादुच्चै रुरोद च ।
मूर्च्छामवाप स मुनिः स्वकन्याविरहातुरः ॥
अपत्यभेदशोकौघः स्वात्मारामं न मुञ्चति ।
क्षणेन चेतनां प्राप्य बोधयामास कन्यकाम् ॥
मूर्च्छितां तातविच्छेदाद्रुदन्तीं शोकसंयुताम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डश्रीकृष्णजन्मखण्डे ॥

दुहितुःपतिः, पुं, (दुहितुः सुतायाः पतिः । “विभाषा-

स्वसृपत्योः ।” ६ । ३ । २४ । इति विभक्ते-
रलुक् ।) जामाता । इत्यमरटीकासारसुन्दरी ॥

दुह्यं, क्ली, (दुह्यते इति । दुह + “एतिस्तु शास्-

वृदृजुषः क्यप् ।” ३ । १ । १०९ । इत्यत्र “शंसि
दुहिगुहिभ्यो वा ।” इति काशिकोक्तेः क्यप् ।)
दोहनयोग्यम् । दोह्यम् । इति व्याकरणम् ॥

दू, ओ ङ य खेदे । इति कविकल्पद्रुमः ॥ (दिवां-

आत्मं-अकं-सकं च-सेट् ।) खेद इह उप-
तप्तीकरणमुपतप्तीभावश्च । ओ, दूनः । ङ य,
दूयते दैन्यं जनम् । इति चतुर्भुजः । मां कथं
पश्यन्न दूयसे इति रघुः । इति दुर्गादासः ॥

दूडभः, त्रि, (दुर्दुःखेन दभ्यते इति । दुर् + दभ +

खल् । “दुरो दाशनाशदभध्येषूत्वमुत्तरपदादेः
ष्टुत्वञ्च ।” ६ । ३ । १०९ । इत्यस्येति वार्त्ति-
क्योक्त्या ऊत्वं भस्य डत्वञ्च ।) व्यसनप्राप्तः ।
विपद्युक्तः । इति संक्षिप्तसारः ॥ (दुर्दहः ।
यथा, ऋग्वेदे । १ । १५ । ६ ।
“युवं दक्षं धृतव्रतमित्रावरुणदूळभम् ॥”
“दूडभं दुर्दहं शत्रुभिर्दग्धुं विनाशयितुमशक्य-
मित्यर्थः ।” “दूडभं दह भस्मीकरणे दुःखेन
दह्यते इति दुर्दहं ईषद्दःसुष्वित्यादिनादुरित्युप-
पदे दग्धेः खल् व्यत्ययो बहुलमित्युकारस्य
ऊकारो रेफस्य लोपः दकारस्य डकारो हका-
रस्य च भकारः ॥” इति तद्भाष्ये सायनः ॥)

दूडाशः, त्रि, (दुःखेन दाश्यते यः । दुर् + दाशि

+ खल् । “पृषोदराणि यथोपदिष्टम् ।” ६ ।
३ । १०९ । इत्यस्य “दुरो दाशनाशेति ।”
वार्त्तिकोक्त्या ऊत्वं डत्वञ्च ।) पीडायुक्तः । इति
सिद्धान्तकौमुदी ॥ (यथा, अथर्व्ववेदे । १ । १३ । १ ।
“नमस्ते अस्त्वश्मने येना दूडाशे अस्यसि ॥”)
दन्त्यसान्तोऽपि ॥

दूढ्यः, त्रि, (दुःस्वेन ध्यायतीति । दुर् + ध्यै +

खल् । “दुरो दाशनाशदमध्येषूत्तरमुत्तरपपादेः
ष्टुत्वञ्च ।” ६ । ३ । १०९ । इत्यस्य वार्त्तिकोक्त्या
ऊत्वं ढत्वञ्च ।) अधमः । इति सिद्धान्त-
कौमुदी ॥

दूणाशः, त्रि, (दुःखेन नाश्यते ऽसौ । दुर् +

नाशि + खल् । “दुरो दाशनाशेति ।” । ६ । ३ । १०९
इत्यस्य वार्त्तिकेक्त्या ऊत्वं णत्वञ्च ।) दुःखेन
नष्टः । इति सिद्धान्तकौमुदी ॥ (नाशयित्तुम-
शक्यः । यथा, ऋग्वेदे । ९ । ६३ । ११ ।
“यो दूणाशो वनुष्यता ॥”)

दूतः, पुं, (दूयते वार्त्तावहनादिनेति । दू + “दूत-

निभ्यां दीर्घश्च ।” उणां । ३ । ९० । इति क्तः
दीर्घश्च ।) वार्त्ताहरः । तत्पर्य्यायः । सन्देश-
हरः २ । इत्यमरः । २ । ८ । १६ ॥ सन्दिष्ट-
कथकः ३ । इति शब्दरत्नावली ॥ तस्य लक्षणं
यथा, --
“यथोक्तवादी दूतः स्याद्देशभाषाविशारदः ।
शक्तः क्लेशसहो वाग्मी देशकालविभागवित् ॥
विज्ञातदेशकालश्च दूतः स्यात् स महीक्षितः ।
वक्ता नयस्य यः काले स दूतो नृपतेर्भवेत् ॥”
इति मत्स्यपुराणम् ॥
अपि च ।
“मेधावी वाक्पटुः प्राज्ञः परचित्तोपलक्षकः ।
धीरो यथोक्तवादी च एष दूतो विधीयते ॥”
इति चाणक्ये । १०६ ॥
अन्यच्च ।
“परेङ्गितज्ञः परवाग्व्यङ्ग्यार्थस्यापि तत्त्ववित् ।
सदोत्पन्नमतिर्घीरो दूतः स्यात् पृथिवीपतेः ॥
दूतञ्चैव प्रकुर्व्वीत सर्व्वशास्त्रविशारदम् ।
इङ्गितज्ञं तथा सभ्यं दक्षं सत्कुलसम्भवम् ॥
अनुरक्तः शुचिर्द्दक्षः स्मृतिमान्देशकालवित् ।
वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥
दूत एव हि सम्मत्तो भिनत्त्येव हि सङ्गतान् ।
विमृष्यार्थो मितार्थश्च तथा शासनहारकः ॥
पृष्ठ २/७३६
दूतास्त्रयोऽमात्यगुणैः समैः पादार्द्धवर्जितैः ।
विमृष्यार्थं कार्य्यवशात् शासनं न करोति यः ॥
मितार्थः कार्य्यमात्रोक्तौ न कुर्य्यादुत्तरोत्तरम् ।
यथोक्तवादी सन्देशहारको लेखहारकः ॥
तत्र दूतो व्रजन्नेव चिन्तयेदुत्तरोत्तरम् ।
वार्त्ताविशेषं भूपाय झटिचित्यङ्गवेश्मनि ॥
दूतो हि न लिखेत् किञ्चित् निर्णेता विनि-
संशयम् ।
पृच्छ्यमानोऽपि न ब्रूयात् स्वामिनः क्वापि
वैशसम् ॥”
इति युक्तिकल्पतरुः ॥ * ॥
अथ दूते वर्णनीयानि । निजप्रभुतेजः श्रीविक्रमौ-
न्नत्यकरवाक्यम् १ शत्रुक्षोभकरचेष्टा २ अधर्ष-
णीयता ३ दक्षता ४ निर्भयत्वम् ४ । इति कवि-
कल्पलता ॥ (वैद्यकोक्तदूतो यथा, --
“आतुरोपक्रमार्थन्तु दूतो याति भिषग्गृहे ।
तस्य परीक्षणं कार्य्यं येन संलक्ष्यते गदः ॥
खञ्जान्धमूकं वधिरञ्च वामनं
स्त्रियञ्च कुब्जं तृषितञ्च जीर्णम् ।
श्रान्तं क्षुधार्त्तं श्रमितञ्च दीनं
शस्तं न वै वेदविदो वदन्ति ॥”
“यः कर्कशः क्रोधनपाशपाणि-
र्भिषग्विगर्हीकृतशौवृतश्च ।
एते न शस्ताः प्रवदन्ति धीरा
दूता विकारं प्रतिवर्द्धयन्ति ॥
यः काष्ठहस्तोद्धतपाशपाणि-
स्तथातुरो दीनवचाहि रोदितः ।
प्रक्लिन्ननेत्रोगमनोत्सुकोऽपि
वर्ज्ज्यो रुजार्त्तोऽशुभकारिदूतः ॥”
“नकूटहस्तोऽवष्टभ्य वक्रपादेन तिष्ठति ।
तस्मादाकुण्ठवादी यो न शस्तो वैद्यकर्म्मणि ॥
यथा गच्छति शीघ्रेण आविश्योत्थाय मुह्यति ।
पादौ प्रसार्य्य विशति मस्तके विन्यसेत् करम् ॥
भिनत्ति लोष्ट्रकाष्ठञ्च तृणं स्फोटयते क्वचित् ।
अथवा स्पृशते नाशां स्तनं वा स्पृशते पुनः ॥
भूमिं लिखति पादेन रेखां वापि करोति यः ।
निद्रां वा कुरुते यस्तु स दूतोऽरिष्टकारकः ॥
यः श्वेतवस्त्रावृतपूर्णपाणिः
सम्पूणताम्बूलमुखः प्रशस्तः ।
द्विजस्तथा माणवकः सुशीलः
प्रज्ञाधिकश्चाह्वयते सुखाय ॥”
“आगत्योदीच्यपूर्ब्बामथ वरुणदिशमैशमाश्रित्य
शान्तो
दृष्ट्वा वैद्यं प्रहस्य प्रवदति निपुणं नातिनीचं
न चोच्चम् ।
उत्तिष्ठेति प्रसादं कुरु वचनमिदं सौख्यवार्त्तां
तनोति
प्राज्ञैः स्वार्थं प्रकृष्टं मुखमगदहरं रोगिणां
वैद्यलाभम् ॥
पर्ब्बां दिशं समासाद्य प्रशान्तः शान्तया गिरा ।
वदन्ति वैद्यलाभाय रोगिणाञ्च सुखावहम् ॥
ग्रश्चागत्योपविष्टोऽपि श्लोकं वाथ सुभाषितम् ।
वदते शान्तया वाचा वैद्यलाभश्च शान्तये ॥
योऽभिवाद्यापि वैद्यस्य क्षेमं संपृच्छते पुनः ।
फलं ददाति पुष्पं वा रोगिणाञ्च सुखावहम् ॥
तस्य सौख्यं रुजां शान्तिर्यस्य दूता इदं विदुः ।
किमत्र बहुनोक्तेन रम्यो दूतः सुखावहः ॥”
इति हारीते द्वितीयस्थाने षष्ठेऽध्याये ॥)

दूतघ्नी, स्त्री, (दु उपतापे + भावे औणादिकक्तः

दीर्घश्च । दूतं उपतापं हन्तीति । हन + टक् ।
ङीप् ।) कदम्बपुष्पी । इति शब्दचन्द्रिका ॥

दूतिः, स्त्री, (दूयते नायकादिवार्त्ताहरणा-

दिनेति । दु + बाहुलकात् तिः दीर्घश्च । इत्यु-
ज्ज्वलदत्तः । ४ । १७९ ।) दूती । इति शब्दरत्ना-
वली ॥ (यथा, रघुः । १८ । ५३ ।
“प्रतिकृतिरचनाभ्यो दूतिसन्दर्शिताभ्यः
समधिकतररूपाः शुद्धसन्तानकामैः ॥”)

दूतिका, स्त्री, (दूतिरेव । स्वार्थे कन् । ततष्टाप् ।)

दूती । इति शब्दरत्नावली ॥ (यथा, पञ्च-
तन्त्रे । १ । १७८ ।
“जम्बुको हुडुयुद्धेन वयं आषाढभूतिना ।
दूतिका परकार्य्येण त्रयो दोषाः स्वयं कृताः ॥”)

दूती, स्त्री, (दूतिः । कृदिकादिति वा ङीष् ।)

सारिका । इति राजनिर्घण्टः ॥ दौत्यकर्म्मणि-
नियुक्ता स्त्री । स्त्रीपुंसोः सन्देशप्रापिका । तत्-
पर्य्यायः । सञ्चारिका २ । इत्यमरः । २ । ६ ।
१७ ॥ दूतिः ३ दूतीका ४ दूतिका ५ । इति
शब्दरत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् । २८० ।
“दयितप्रहितां दूतीमालम्ब्य करेण तमसि
गच्छन्ती ।
स्वेदच्युतमृगनाभिर्दूराद्गौराङ्गि ! दृश्यासि ॥”)
दौत्यव्यापारपारङ्गमा । तस्याः संघट्टनविरह-
निवेदनादीनि कर्म्माणि । इति रसमञ्जरी ॥
(तद्भेदगुणा यथा, साहित्यदर्पणे । ३ । १२६-
१२७ ।
“दूत्यः सखी नटी दासी धात्रेयी प्रतिवेशिनी ।
बाला प्रव्रजिता कारूः शिल्पिन्याद्याः स्वयं
तथा ॥
कलाकौशलमुत्साहो भक्तिश्चित्तज्ञता स्मृतिः ।
माधुर्य्यं नर्म्मविज्ञानं वाग्मिता चेति तद्गुणाः ।
एता अपि यथौचित्यादुत्तमाधममध्यमाः ॥”)

दूतीका, स्त्री, दूती । इति शब्दरत्नावली ॥

दूत्यं, क्ली, (दूतस्य भावः कर्म्म वा । दूत + “दूत-

बणिग्भ्याञ्च ।” ५ । १ । १२६ । इत्यस्येति वार्त्ति-
कोक्त्या यः । वैदिके तु “दूतस्य भागकर्म्मणी ।”
४ । ४ । १२० । इति यः ।) दूतकर्म्म । (यथा,
हरिवंशे । १०९ । ४१ ।
“वचनञ्च यथास्माभिर्दूत्ये नः कृष्णविग्रहे ॥”
तथा च ऋग्वेदे । १ । १६१ । १ ।
“किमीयते दूत्यम् ॥”) दूतस्य भावः । इत्यमरः ।
२ । ८ । १६ ॥ दूतस्वभावः । इति मेदिनी । ये, ३२ ॥

दूनः, त्रि, (ओ दू ङ य खेदे + क्तः । “ओदि-

तश्च ।” ८ । २ । ४५ । इति निष्टातस्य नः ।
यद्वा, दु गतौ + क्तः । “दुग्वोर्दीर्घश्च ।” इति
वार्त्तिकोक्त्या तस्य नः दीर्घश्च ।) अध्वादिना
श्रान्तः । इत्यमरः । ३ । १ । १०२ ॥ उपतप्तः ।
यथा, नैषधे । ३ । ९४ ।
“पित्तेन दूने रसने सितापि
तिक्तायते हंसकुलावतंस ! ॥”

दूरं, त्रि, (दुर्दुःखेनेयते प्राप्यते इति । दुर् +

इन् + “दुरीणी लोपश्च ।” उणां २ । २० । रक्
धातोर्लोपश्च ।) अनिकटम् । असन्निकृष्टम् ।
तत्पर्य्यायः । विप्रकृष्टम् २ । इत्यमरः । ३ । १ ।
६८ ॥ अनासन्नम् ३ । इति शब्दरत्नावली ॥
(यथा, हितोपदेशे । १ । ४३ ।
“शरीरस्य गुणानाञ्च दूरमत्यन्तमन्तरम् ।
शरीरं क्षणविंध्वसि कल्पान्तस्थायिनो गुणाः ॥”)
आके १ पराके २ पराचैः ३ आरे ४ परा-
वतः ५ । इति पञ्च दूरनामानि । इति वेद-
निघण्ठौ ३ अध्यायः ॥

दूरदर्शनः, पुं, (दूरेऽपि दर्शनं दृष्टिर्यस्य ।) गृधः ।

इति राजनिर्घण्टः ॥ (दुर्ल्लभे, त्रि । यथा, भाग-
वते । १ । ११ । ८ ।
“अहो सनाथा भवता स्म यद्वयं
त्रैपिष्टपानामपि दूरदर्शनम् ।
प्रेमस्मितस्निग्धनिरीक्षणाननं
पश्येम रूपं तव सर्व्वसौभगम् ॥”)

दूरदर्शी, [न्] पुं, (दूरात् दूरमपि वा पश्यतीति ।

दृश + णिनिः ।) पण्डितः । इत्यमरः । २ । ७ । ६ ॥
गृध्रः । इति त्रिकाण्डशेषः ॥ दीर्घदर्शके, त्रि ॥

दूरदृक्, [श्] पुं, (दूरं दूराद्बा पश्यतीति । दृश् +

क्विप् ।) पण्डितः । इति शब्दरत्नावली ॥ गृध्रः ।
इति हेमचन्द्रः । ४ । ४०१ ॥ दीर्घदर्शके, त्रि ॥

दूरमूलः, पुं, (दूरे असन्निकटे मूलं यस्य ।) मुञ्ज-

तृणम् । इति राजनिर्घण्टः ॥

दूरवेधी, [न्] त्रि, (वेधोऽस्त्यस्येति । इनिः ।

दूरात् वेधी ।) दूरात् लक्ष्यभेदकः । तत्पर्य्यायः ।
दूरापाती २ । इति हेमचन्द्रः । ३ । ४ । ३७ ॥

दूरेरितेक्षणः, त्रि, (दूरे ईरिते ईक्षणे यस्य ।)

केकरः । इति शब्दमाला ॥

दूर्य्यं, क्ली, (दूरे परित्याज्यम् । दूर + यत् ।) विष्ठा ।

इति शब्दरत्नावली ॥ (दूराय रोगदूरीकर-
णाय साधु इति यत् ।) शटी । इति राज-
निर्घण्टः ॥

दूर्व्वा, स्त्री, (दुर्व्वते दुर्व्व्यते वा । दुर्व्व हिंसायाम् +

अच् घञ् वा । “उपधायाञ्च ।” ८ । २ । ७८ ।
इति दीर्घः ।) स्वनामख्यातघासः । तत्पर्य्यायः ।
शतपर्व्विका २ सहस्रवीर्य्या ३ भार्गवी ४ रुहा ५
अनन्ता ६ । इत्यमरः । २ । ४ । ५५८ ॥ तिक्तपर्व्वा ७
दुर्म्मरा ८ । बहुवीर्य्या ९ हरिता १० हरि-
ताली ११ कच्छरुहा १२ ॥ शुक्लायाः पर्य्यायः ।
शतवीर्य्या १ गण्डाली २ शकुलाक्षकः ३
गोलोमी ४ । इति जठाधरः ॥ शतपर्व्वा ५
सितदूर्व्वा ६ सिता ७ । इति रत्नमाला ॥ नन्दा ८
महावरा ९ । इति शब्दरत्नावली ॥ (यथा,
महाभारते । ३ । ११० । १७ ।
पृष्ठ २/७३७
“कुशाकारेव दूर्व्वेयं संस्तीर्णेव च भूरियम् ॥”)
अस्या गुणः । रक्तपित्तकण्डुत्वग्दोषनाशित्वम् ।
इति राजवल्लभः ॥

दूर्व्वाष्टमी, स्त्री, (दूर्व्वा तद्रूपा गौरी तत्प्रिया

अष्टमी ।) भाद्रशुक्लाष्टमी । तत्र कर्त्तव्यव्रतविधि-
र्यथा, --
“ब्रह्मन् भाद्रपदे मासि शुक्लाष्टम्यामुपोषितः ।
दूर्व्वां गौरीं गणेशञ्च फलाकारं शिवं यजेत् ॥
फलव्रीह्यादिभिः सर्व्वैः शम्भुं नमः शिवाय च ।
अनग्निपक्वमश्नीयान्मुच्यते ब्रह्महत्यया ॥”
इति संवत्सरकौमुदीधृतगरुडपुराणवचनम् ॥ *
तद्व्रतप्रयोगविधिर्यथा, --
पूर्ब्बदिने संयमं विधाय तद्दिने प्रातः कृत-
स्नानादिः आसने चोपविश्याचम्य ब्राह्मणान्
स्वस्तिवाच्य सूर्य्यार्ध्यं दत्त्वा सङ्कल्पं कुर्य्यात् ।
विष्णुर्नमोऽद्य भाद्रे मासि शुक्ले पक्षे अष्टम्यां
तिथावारभ्यामुकगोत्रा श्रीअमुकी मर्त्यलोकाधि-
करणकसुखसौभाग्याविच्छिन्नपुत्त्रपौत्त्रादिलाभ-
पूर्ब्बकब्रह्मलोकप्राप्तिकामा श्रीविष्णुप्रीतिकामा
वा भविष्यपुराणोक्ताष्टावर्षनिष्पादितदूर्व्वाष्टमी-
व्रतमहं करिष्ये । इति सङ्कल्प्य सूक्तं पठित्वा-
सनशुद्ध्यादिकं विधाय गणेशादिदेवताः संपूज्य
ध्यानं कुर्य्यात् । * । यथा, --
“नीलोत्पलदलश्यामं चतुर्ब्बाहुं किरीटिनम् ।
शङ्खचक्रगदापद्मधारिणं वनमालिनम् ॥
श्रीवत्सलक्षणोपेतं श्रिया वाण्या समन्वितम् ॥”
इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा मानसैरुप-
चारैः संपूज्यार्घस्थापनं कृत्वा पुनर्ध्यात्वावाह्य
पाद्यादिभिः पूजयेत् । एतत् पाद्यं ॐ
कृष्णाय नमः । एवं क्रमेण संपूज्य आवरण-
देवताः पूजयेत् । यथा ॐ शच्यै नमः ।
एवं दुर्गायै गौर्य्यै श्रियै सरस्वत्यै गङ्गायै दित्यै
अदित्यै सुषेणायै अरुन्धत्यै मन्दोदर्य्यै सुभ-
द्रायै शाण्डिल्यै जयायै विजयायै रमायै
दीक्षायै रेवत्यै दमयन्त्यै शीलायै सुकेशायै
रम्भायै वासुदेवाय देवक्यै विष्णवे महादेवाय
सर्व्वेभ्यो देवेभ्यः सर्व्वाभ्यो देवीभ्यः । ततो दूर्व्वां
ध्यायेत् । * ।
ॐ नीलोत्पलदलश्यामां सर्व्वदेवशिरोधृताम् ।
विष्णुदेहोद्भवां पुण्याममृतैरभिषिञ्चिताम् ॥
सर्व्वदैवाजरां दूर्व्वाममरां विष्णुरूपिणीम् ।
दिव्यसन्तानसंदात्रीं धर्म्मार्थकाममोक्षदाम् ॥
एवं ध्यात्वा षोडशोपचारैः पूजयेत् ।
इदमासनं ॐ दूर्व्वायै नमः । एवं क्रमेण
संपूज्य अष्टग्रन्थियुक्तडोरकं फलानि यज्ञोप-
वीतादिकं दत्त्वा प्रणमेत् ।
“त्वं दूर्व्वेऽमृतनामासि पूजितासि सुरासुरैः ।
सौभाग्यसन्ततिं दत्त्वा सर्व्वकार्य्यकरी भव ॥
यथा शाखाप्रशाखाभिर्व्विस्तृतासि महीतले ।
तथा ममापि सन्तानं देहि त्वमजरामरम् ॥”
ततो भोज्यमुत्सृजेत् । डोरकं वामहस्ते बद्ध्वा
कथां शृणुयात् ॥ * ॥
अथ कथा ।
युधिष्ठिर उवाच ।
“व्रतमेकं समाचक्ष्व विचार्य्य मधुसूदन ! ।
येन सन्ततिविच्छेदो जायते न कदाचन ॥
श्रीकृष्ण उवाच ।
मासि भाद्रपदेऽष्टम्यां शुक्लपक्षे युधिष्ठिर ! ।
दूर्व्वाष्टमीव्रतं नाम या करोति पतिव्रता ॥
न तस्याः क्षयमाप्नोति सन्तानं साप्तपौरुषम् ।
नन्दते वर्द्धते नित्यं यथा दूर्व्वा तथा कुलम् ॥
युधिष्ठिर उवाच ।
कथमेषा समुत्पन्ना कस्माद्दूर्व्वा चिरायुषी ।
कस्माद्वन्द्या पवित्रा च लोके धन्या महीतले ॥
केन वा तद्व्रतं देव ! चरितं केन हेतुना ॥
श्रीकृष्ण उवाच ।
क्षीरोदसागरे पूर्ब्बं मथ्यमानेऽमृतार्थिना ।
विष्णुना बाहुजङ्घाभ्यां विधृतो मन्दरो गिरिः ॥
भ्रमता तेन वेगेन लोमान्याघर्षितानि वै ।
ऊर्म्मिभिस्तानि रोमाणि चोत्क्षिप्तानि तटा-
न्तरे ॥
अजायत शुभा दूर्व्वा रम्या हरितशाद्बला ।
एवमेषा समुत्पन्ना दूर्व्वा विष्णुतनूद्भवा ॥
तस्या उपरि विन्यस्तं मथितामृतमुत्तमम् ।
देवदानवगन्धर्व्वयक्षविद्याधरोरगैः ॥
तत्र येऽमृतकुम्भस्य निपेतुर्व्वारिबिन्दवः ।
तैरियं स्पर्शमासाद्य दूर्व्वा चैवाजरामरा ॥
वन्द्या पवित्रा देवैस्तु सर्व्वदाभ्यर्च्चिता तथा ।
पूजयेत्तां प्रयत्नेन द्रव्यैर्नानाविधैरपि ॥
अष्टम्यां फलपुष्पैस्तु गुवाकैर्नारिकेलकैः ।
द्राक्षाहरीतकीभिश्च मोचकैर्जायकैस्तथा ॥
नागरङ्गैश्च जम्बीरैर्बीजपूरैश्च शोभनैः ।
दध्यक्षतैः पयोभिश्च धूपनैवेद्यदीपकैः ॥
मन्त्रेणानेन राजेन्द्र ! शृणुष्व कथितं मया ।
त्वं दूर्व्वेऽमृतनामासि वन्दितासि सुरासुरैः ॥
सौभाग्यं सन्ततिं दत्त्वा सर्व्वकार्य्यकरी भव ।
यथा शाखाप्रशाखाभिर्व्विस्तृतासि महीतले ॥
तथा ममापि सन्तानं देहि त्वमजरामरम् ।
एवमेव पुरा पार्थ ! पूजिता त्रिदशोत्तमैः ॥
तेषां पत्नीभिरनिशं भगिनीभिस्तथैव च ।
पूजिता च तथा गौर्य्या देव्या रत्या श्रिया तथा ॥
सरस्वत्या गङ्गया च दित्यादित्या सुशीलया ।
बिन्दुमत्या वेशवत्या इन्दुमत्या सुशीलया ॥
मन्दोदर्य्या चण्डिकया मायया दीक्षया तथा ।
मर्त्यलोके च रेवत्या दमयन्त्या सुशीलया ॥
सुकेशया घृताच्या च रम्भया मिश्रकेशया ।
मज्जनन्या मेनकया तथैव मानिकादिभिः ॥
स्त्रीभिरभ्यर्च्चिता दूर्व्वा सौभाग्यसुखदायिनी ।
स्नाताभिः शुचिवस्त्राभिर्दूर्व्वा संपूजिता जनैः ॥
दत्त्वा पिष्टानि विप्रेभ्यः फलानि विविधानि च ।
तिलपिष्टानि गोधूमधान्यपिष्टानि पायसम् ॥
भोजयित्वा सहृन्मित्रं सम्बन्धिस्वजनं तथा ।
ततो भुञ्जीत तच्छेषं स्वयं भक्त्या समाहिता ॥
नारी चैव प्रकुर्व्वीत चाष्टमीव्रतमुत्तमम् ।
सर्व्वतः सुखसौभाग्यपुत्त्रपौत्त्रादिभिर्युता ॥
मर्त्यलोके चिरं स्थित्वा चतुर्व्वर्गं गता पुनः ।
वसते रमया सार्द्धं यावच्चन्द्रदिवाकरौ ॥
मेघावृतेऽम्बरतले विशदे च पक्षे
याश्चाष्टमीव्रतमदो नभसीह कुर्य्युः ।
दूर्व्वां तदक्षततिलैः प्रतिपूजयेयु-
स्ताः प्राप्नुयुः सकलसिद्धिसमृद्धिमृद्धिम् ॥”
इति भविष्योत्तरे दूर्व्वाष्टमीव्रतकथा समाप्ता ॥

दूलिका, स्त्री, (दूली + स्वार्थे कन् । टाप् पूर्ब्ब-

ह्रस्वश्च ।) नीली । इति शब्दरत्नावली ॥

दूली, स्त्री, (दूरं दूरत्वमस्या अस्तीति । दूर +

अच् । रस्य लः । गौरादित्वात् ङीष् ।) नीली ।
इति शब्दरत्नावली ॥

दूश्यं, क्ली, (दूयते इति । भावे क्विप् । दूः स्वेदस्तां

श्यायते अन्तर्भूतण्यर्थाद्गमयतीति । दू + श्यै
+ कः ।) दूष्यम् । वस्त्रगृहम् । इत्यमरटीका-
सारसुन्दरी ॥

दूषकः, त्रि, (दूषयतीति । दुष् + णिच् + “ण्वुल्-

तृचौ ।” ३ । १ । १३३ । इति ण्वुल् ।)
दोषोत्पादकः । तत्पर्य्यायः । पांसनः २ । इति
त्रिकाण्डशेषः ॥ (यथा, मनौ । ९ । २३२ ।
“कूटशासनकर्त्तृंश्च प्रकृतीनाञ्च दूषकान् ।
स्त्रीबालब्राह्मणघ्नांश्च हन्याद्विट्सेविनस्तथा ॥”)

दूषणः, पुं, (दूषयतीति । दूषि + ल्युः ।) रावण-

भ्रातृखरसेनापतिः । इति रामायणम् ॥ (यथा,
रघुः । १२ । ४६ ।
“असज्जनेन काकुस्थः प्रयुक्तमथ दूषणम् ।
न चक्षमे शुभाचारः स दूषणमिवात्मनः ॥”
दूषि + भावे ल्युट् ।) दोषे, क्ली ॥ (यथा, देवी-
भागवते । १ । १७ । २४ ।
“वञ्चितोऽहं स्वयं पित्रा दूषणं कस्य दीयत ॥”)

दूषणारिः, पुं, (दूषणस्य राक्षसस्य अरिः ।)

श्रीरामः । इति शब्दरत्नावली ॥

दूषिः, स्त्री, (दूषयतीति । दुष + णिच् + “सर्व्व-

धातुभ्य इन् ।” उणां । ४ । ११७ । इति इन् ।)
दूषिका । इति शब्दरत्नावली ॥

दूषिका, स्त्री, (दूषि + स्वार्थे कन् । टाप् । यद्बा,

दूषि + ण्वुल् + टाप् अत इत्वञ्च ।) नेत्रमलम् ।
इत्यमरः । २ । ६ । ६७ ॥ पिचुटि इति भाषा ॥
तत्पर्य्यायः । पिञ्चोडकम् २ दूषिः ३ दूषी ४ ।
इत्यमरटीकायां भरतः ॥ दूषीका ५ पिञ्जेटः ६
पिज्जटः ७ । इति शब्दरत्नावली ॥ (यथा,
मनौ । ५ । १३५ ।
“वसाशुक्रमसृङ्मज्जामूत्रविट्घ्राणकर्णविट् ।
श्लेषाश्रुदूषिकास्वेदो द्वादशैते नृणां मलाः ॥”)
तूलिका । इति मेदिनी । के, १०५ ॥ (दूषण-
कर्त्री स्त्री । यथा, महाभारते । १२ । ३५ । ३० ।
“स्त्रियास्तथापचारिण्या निष्कृतिः स्याद-
दूषिका ।
अपि सा पूयते तेन न तु भर्त्ता प्रदुष्यति ॥”)

दूषितः, त्रि, (दुष् + णिच् + क्तः ।) प्राप्तदोषः ।

(यथा, महाभारते । १ । १४० । २६ ।
पृष्ठ २/७३८
“ततो बलमिति ख्यातं विज्ञाय दृढध्वन्विनाम् ।
दूषितः सहसा भावो धृतराष्ट्रस्य पाण्डुषु ॥”)
मैथुनापवादयुक्तः । तत्पर्य्यायः । अभिशस्तः २
वाच्यः ३ क्षारितः ४ । इति हेमचन्द्रः । ३ । १०० ॥
आक्षारितः ५ । इति शब्दरत्नावली ॥

दूषिता, स्त्री, (दूषित + टाप् ।) दूषणप्राप्ता

कन्या । तत्पर्य्यायः । सस्वेदा २ धर्षकारिणी ३
प्रमादिका ४ । इति शब्दरत्नावली ॥

दूषी, स्त्री, (दूषि + “कृदिकारादिति ।” वा ङीष् ।)

दूषिका । इत्यमरटीकायां भरतः ॥

दूषीका, स्त्री, (दूषयतीति + दूषि + “कषिदूषि-

भ्यामीकन् ।” उणां ४ । १६ । इति । ईकन्
ततष्टाप् ।) दूषिका । इति शब्दरत्नावली ॥

दूषीविषं, क्ली, (दूषयतीति । दूषि + बाहुलकात्

ईः । ततः कर्म्मधारयः ।) औषधादिभिरवीर्य्यं
विषम् । इति हेमचन्द्रः । ४ । ३८० ॥ आदि-
पदात्दावाग्निवायुरौद्रशोषितविषम् । स्वभावतो
गुणहीनं विषम् । अस्य गुणः । उदररोग-
प्लीहगुल्मकुष्ठप्रमेहनाशित्वम् । इति राज-
वल्लभः ॥ यथा, --
“जीर्णं विषघ्नौषधिभिर्हतं वा
दावाग्निवातातपशोषितं वा ।
स्वभावतो वा गुणविप्रहीनं
विषं हि दूषीविषतामुपैति ॥”
इति माधवकरः ॥

दूष्यं, क्ली, (दूष्यते इति । दुष् + णिच् + “अचो-

यत् ।” ३ । १ । ९७ । इति यत् । “दोषो णौ ।”
६ । ४ । ९० । इति उपधाया ऊत्वम् ।)
वस्त्रम् । वस्त्रगृहम् । इति मेदिनी । ये, ३१ ॥
पूयम् । इति हेमचन्द्रः । ३ । २८८ ॥

दूष्यः, त्रि, (दुष + णिच् + यत् ।) दूषणीयः । इति

मेदिनी । ये, ३१ ॥ (यथा, महाभारते । १२ ।
१६५ । ३२ ।
“स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत् ।
अदूष्या हि स्त्रियो रत्नमाप इत्येव धर्म्मतः ॥”
निन्द्यः । इति त्रिकाण्डशेषः । ३ । ३ । ३१३ ॥
यथा, कामन्दकीयनीतिसारे । ६ । ९ ।
“राज्योपघातं कुर्व्वाणा ये पापा राजवल्लभाः ।
एकैकशः संहता वा दूष्यांस्तान् परिचक्षते ॥”)

दूष्या, स्त्री, (दूष्यते इति । दुष + णिच् + यत् +

टाप् ।) हस्तिकक्षरज्जुः । काचदडि इति भाषा ॥
तत्पर्य्यायः । कक्षा २ वरत्रा ३ । इति हेम-
चन्द्रः । ४ । २९८ ॥ चूषा ४ । इत्यमरः । २ । ८ । ४२ ॥

दृ, ङ श आदरे । इति कविकल्पद्रुमः । (तुदां-

आत्मं-सकं-अनिट् ।) आदरः प्रीत्या सम्भ्रमः ।
ङ श, द्रियते गुरुं लोकः । मानुबन्धोऽयमि-
त्येके । इति दुर्गादासः ॥

दृक्, [श्] स्त्री, (पश्यत्यनेनेति । दृश् + करणे

क्विप् ।) चक्षुः । इत्यमरः । २ । ६ । ९४ ।
(यथा, साहित्यदर्पणे ।
“दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः ॥”
भावे क्विप् ।) दर्शनम् । बुद्धिः । इति मेदिनी ।
शे, ८ ॥ (यथा, भागवते । २ । ९ । ५ ।
“तां नाध्यगच्छद्दृशमत्र सम्मतां
प्रपञ्चनिर्म्माणविधिर्यया भवेत् ॥”)

दृक्, [श्] त्रि, (पश्यतीति । दृश + कर्त्तरि क्विन् ।)

वीक्षकः । इति मेदिनी । शे, ८ ॥ (यथा, भाग-
वते । ४ । २२ । ९ ।
“यथा सर्व्वदृशं सर्व्व आत्मानं येऽस्य हेतवः ॥”
ज्ञाता । इति शब्दरत्नावली ॥

दृकं, क्ली, (दीर्य्यते इति । दॄ विदारे + बाहु-

लकात् कक् ह्रस्वश्च ।) छिद्रम् । इति
संक्षिप्तसारे उणादिवृत्तिः ॥

दृकाणः, पुं, द्रेक्काणः । इति जातकः ॥

दृक्कर्णः, पुं, (दृशौ नेत्रावेव कर्णौ यस्य ।) सर्पः ।

इति हेमचन्द्रः । ४ । ३६९ ॥ यदाह कश्चित् ।
“दृक्कर्णो मशकः शिला सरसिजं बाणो जलौकाः
शुकः
शुभ्रांशुर्गणको कुलोत्तमबली पान्थो नभश्चातकः ।
वादी चक्रचरो वको मधुलिहो लालाटिको
लम्पटः
श्रीमद्भोज ! भवन्तु विंशतिरमी त्वद्वैरिणां
सेवकाः ॥”)

दृक्काणः, पुं, द्रेक्काणः । इति ज्योतिषम् ॥

दृक्प्रसादा, स्त्री, (दृशौ नेत्रौ प्रसादयतीति ।

दृश् + प्र + सद् + णिच् + अण् ।) कुलत्था ।
कुलत्थाञ्जनम् । इति राजनिर्घण्टः ॥

दृक्प्रिया, स्त्री, (दृशोर्नेत्रयोः प्रिया ।) शोभा ।

इति राजनिर्घण्टः ॥

दृक्श्रुतिः, पुं, (दृशौ एव श्रुती कर्णौ यस्य ।)

सर्पः । इति हलायुधः ॥

दृगध्यक्षः, पुं, (दृशोर्नेत्रयोरध्यक्षः अधिष्ठातृदेवः ।)

सूर्य्यः । इति शब्दार्थकल्पतरुः ॥

दृग्गोलः, पुं, खगोलान्तर्गतगोलविशेषः । यथा,

“खस्वस्तिके चाधः स्वस्तिके चान्तःकीलकौ कृत्वा
तयोः प्रोतं श्लथं दृङ्मण्डलं कार्य्यं तत् पूर्ब्ब-
वृत्तभ्यः किञ्चिन्न्यूनं कार्य्यं यथा खगोलान्तर्भ्रमति
यद्येक एव ग्रहगोलस्तदैकमेव दृङ्मण्डलम् । यो
यो ग्रहो यत्र यत्र वर्त्तते तस्य तस्योपरि परि-
भ्राम्येदमेव विन्यस्य दृग्ज्याशङ्कादिकं दर्श-
नीयम् । अथवा पृथक् पृथगष्टौ दृङ्मण्डलानि
रचयेत् । तत्राष्टमं वित्रिभलग्नस्य तच्च दृक्क्षेप-
मण्डलं तस्मिन् खगोले ध्रुवचिह्नयोर्नलिकाद्बयं
बद्ध्वा तन्नलिकाधारमेव खगोलाद्बहिरङ्गुलत्रया-
न्तरे दृग्गोलं रचयेत् । कथितैः खगोलवृत्तै-
र्व्वक्ष्यमाणैर्भगोलवृत्तैः क्रान्तिमण्डलाद्यैर्यो निब-
ध्यते स दृग्गोलः । यतोऽग्रा कुज्यासमशङ्क्वा-
द्यक्षक्षेत्राणि द्विगोलजातानि भगोलवृत्तानि
खगोलवृत्तमिलितानि उत्पद्यन्ते गोलबन्धे
सम्यङ्नोपलक्ष्यत इति दृग्गोलः कृतः ।” इति
सिद्धान्तशिरोमणिः ॥

दृग्विषः पुं, (दृशि नेत्रे विषं यस्य ।) नागः ।

इति हेमचन्द्रः । ४ । ३७८ ॥

दृढं, क्ली, (दृह वृद्धौ + क्तप्रत्ययेन निपातनात्

साधुः ।) लौहम् । इति शब्दचन्द्रिका ॥ अति-
शयः । इत्यमरः । ३ । १ । ७६ ॥

दृढः, त्रि, (दृह + क्तः । निपातनात् साधुः ।)

स्थूलः । अतिशयः । प्रगाढः । (यथा, देवी-
भागवते । १ । ६ । ३१ ।
“तदाकाशे श्रुतं ताभ्यां वाग्वीजं सुमनोहरम् ।
गृहीतञ्च ततस्ताभ्यां तस्याभ्यासो दृढः कृतः ॥”)
बलवान् । इति मेदिनी । ढे, २ ॥ कठिनः ।
इत्यमरः । ३ । ३ । ४४ ॥

दृढः, पुं, रूपकभेदः । यथा, --

“दृढः प्रौढोऽथ खचरो विभवश्चतुरक्रमः ।
निशारुकः प्रतितालः कथिताः सप्त रूपकाः ॥”
तल्लक्षणं यथा, --
“दृढाख्यः स्याल्लघुद्बन्द्बं ताले च हंसलीलके ।
चतुर्द्दशाक्षरैर्युक्तः शृङ्गारे परिकीर्त्तितः ॥”
इति सङ्गीतदामोदरः ॥
(त्रयोदशमनो रौच्यस्य पुत्त्रविशेषः । यथा, हरि-
वंशे । ७ । ८३ ।
“सुनेत्रः क्षत्त्रवृद्धिश्च सुतपा निर्भयो दृढः ।
रौच्यस्यैते मनोः पुत्त्रा अन्तरे तु त्रयोदशे ॥”)

दृढकण्टकः, पुं, (दृढानि कठिनानि कण्टकानि

यस्य ।) क्षुद्रफलकवृक्षः । इति शब्दचन्द्रिका ॥
धलआँकडा इति भाषा ॥

दृढकाण्डं, क्ली, (दृढं काण्डं यस्य ।) दीर्घरोहि-

षकम् । इति राजनिर्घण्टः ॥

दृढकाण्डः, पुं, (दृढः कठिनः काण्डो यस्य ।)

वंशः । इति राजनिर्घण्टः ॥

दृढकाण्डा, स्त्री, (दृढः कठिनः काण्डो यस्याः ।)

पातालगरुडीलता । इति राजनिर्घण्टः ॥

दृढक्षुरा, स्त्री, (दृढः क्षुर इवाग्रभागो यस्याः ।

यद्वा, दृढः क्षुर इव फलमस्त्यस्या इति अर्श-
आदिभ्योऽच् ततष्टाप् ।) वल्वजा । इति राज-
निर्घण्टः ॥

दृढगात्रिका, स्त्री, (दृढं गात्रमस्याः । कप् । तत-

ष्टापि अत इत्वम् ।) मत्स्यण्डी । इति शब्द-
चन्द्रिका ॥

दृढग्रन्थिः, पुं, (दृढो ग्रन्थिर्यस्य ।) वंशः । इति

राजनिर्घण्टः ॥

दृढच्छदं, क्ली, (दृढश्छदो यस्य ।) दीर्घरोहिषकम् ।

इति राजनिर्घण्टः ॥

दृढतरुः, पुं, (दृढस्तरुर्वृक्षः ।) धववृक्षः । इति

राजनिर्घण्टः ॥

दृढतृणः, पुं, (दृढं कठिनं तृणं यस्य ।) मुञ्ज-

तृणम् । इति राजनिर्घण्टः ॥

दृढतृणा, स्त्री, (दृढं तृणं यस्याः ।) वल्वजा ।

इति राजनिर्घण्टः ॥

दृढत्वक्, [च्] पुं, (दृढा त्वक् अस्य ।) यावनाल-

शरः । इति राजनिर्घण्टः ॥

दृढदंशकः, पुं, (दृढं यथा तथा दशतीति । दन्श +

ण्वुल् ।) जलजन्तुविशेषः । इति शब्दार्थकल्प-
तरुः । हाङ्गर इति भाषा ॥
पृष्ठ २/७३९

दृढनीरः, पुं, (दृढं प्रचुरं नीरं यस्मिन्निति ।)

नारिकेलवृक्षः । इति राजनिर्घण्टः ॥

दृढपत्रः, पुं, (दृढानि कठिनानि पत्राणि यस्य ।)

वंशः । इति राजनिर्घण्टः ॥

दृढपत्री, स्त्री, (दृढानि पत्राणि यस्याः । गौरा-

दित्वात् ङीष् ।) वल्वजा । इति राजनिर्घण्टः ॥

दृढपादा, स्त्री, (दृढः पादो मूलं यस्याः ।) यव-

तिक्ता । इति राजनिर्घण्टः ॥

दृढपादी, स्त्री, (दृढः कठिनः पादो मूलं यस्याः ।)

गौरादित्वात् ङीष् ।) भूम्यामली । इति राज-
निर्घण्टः ॥

दृढप्ररोहः, पुं, (दृढः प्ररोहोऽङ्कुरो यस्य ।) प्लक्ष-

वृक्षः । इति राजनिर्घण्टः ॥

दृढफलः, पुं, (दृढं कठिनं फलं यस्य ।) नारिकेल-

वृक्षः । इति राजनिर्घण्टः ॥

दृढबन्धिनी, स्त्री, (दृढं यथा तथा बध्नातीति ।

बन्ध + णिनिः । ङीप् ।) श्यामालता । इति
शब्दचन्द्रिका ॥

दृढमुष्टिः, पुं, (दृढा मुष्टिर्धारणाय यस्य ।) खड्-

गादिः । (दृढा दानाद्यभावात् कठिना मुष्टि-
र्यस्य ।) कृपणे, त्रि । इति विश्वः । टे, ६५ ॥
(दृढमुष्टिधारकः । यथा, हरिवंशे । २० । ९८ ।
“निगृहीतः कन्धरायां शिशुना दृढमुष्टिना ॥”)

दृढमूलः, पुं, (दृढं मूलं यस्य ।) मुञ्जतृणम् ।

मन्थानकतृणम् । इति राजनिर्घण्टः ॥ नारि-
केलः । इति शब्दार्थकल्पतरुः ॥

दृढरङ्गा, स्त्री, (दृढः स्थिरः रङ्गो रागो यस्याः ।)

स्फटी । इति राजनिर्घण्टः ॥

दृढलता, स्त्री, (दृढा कठिना लता ।) पाताल-

गरुडी । इति राजनिर्घण्टः ॥

दृढलोमा, [न्] पुं, (दृढानि लोमानि यस्य ।)

शूकरः । इति शब्दचन्द्रिका ॥ कठिनलोमयुक्ते,
त्रि ॥

दृढवल्कलः, पुं, (दृढं वल्कलं त्वग् यस्य ।) लकुचः ।

पूगः । इति राजनिर्घण्टः ॥

दृढवल्का, स्त्री, (दृढं वल्कं यस्याः ।) अम्बष्ठा ।

इति राजनिर्घण्टः ॥

दृढवीजः, पुं, (दृढं वीजमस्य ।) चक्रमर्द्दः । वदरः ।

वर्व्वूरः । इति राजनिर्घण्टः ॥

दृढसन्धिः, त्रि, (दृढः स्थूलः सन्धिर्यस्य ।) निश्छिद्रः ।

तत्पर्य्यायः । संहतः २ । इत्यमरः । ३ । १ । ७५ ॥

दृढसूत्रिका, स्त्री, (सूत्रमस्त्यस्या इति । सूत्र +

ठन् । दृढा कठिना सूत्रिका चेति कर्म्मधारयः ।)
मूर्व्वा । इति शब्दचन्द्रिका ॥

दृढस्कन्धः, पुं, (दृढः स्कन्धो यस्य ।) क्षीरिका-

वृक्षः । इति जटाधरः ॥ (दृढस्कन्धविशिष्टे,
त्रि ॥)

दृढाङ्गं, क्ली, (दृढं अङ्गं यस्य । तदितरपदा-

र्थादस्य कठिनत्वात् तथात्वम् ।) हीरकम् ।
इति राजनिर्घण्टः ॥ (कठिनाङ्गविशिष्टे, त्रि ॥)

दृतः, त्रि, (दृ + क्तः ।) आदृतः । आदरार्थ-

दृधातोः कर्म्मणि क्तप्रत्ययेन निष्पन्नः ॥

दृता, स्त्री, (द्रियते स्मेति । दृ + कर्म्मणि क्तः ।

टाप् । भिषग्भिर्बहुव्याधिप्रयोगेषु कृतादरत्वा-
दस्याः तथात्वम् ।) जीरकः । इति शब्द-
चन्द्रिका ॥

दृतिः, पुं, (दृणातीति । द विदारे + “दृणाते-

र्हस्वश्च ।” उणां । ४ । १८३ । इति तिः ह्रस्वश्च ।)
चर्म्मपुटकः । अस्य पर्य्यायः । स्वल्लः २ । इति
हेमचन्द्रः । ४ । ९१ ॥ (यथा, मनुः । २ । ९९ ।
“इन्द्रियाणान्तु सर्व्वेषां यद्येकं क्षरतीन्द्रियम् ।
तेनास्य क्षरति प्रज्ञा दृतेः पात्रादिवोदकम् ॥”)
मत्स्यः । इति मेदिनी । ते, २६ ॥ (गलकम्बलः ।
यथा, महाभारते । १३ । ७९ । १८ ।
“सवतसां पीवरीं दत्त्वा दृतिकण्ठामलङ्कृताम् ।
वैश्वदेवमसंवाधं स्थानं श्रेष्ठं प्रपद्यते ॥”
“दृतिकण्ठां प्रलम्बगलकम्बलाम् ।” इति तट्टी-
कायां नीलकण्ठः ॥ मेघः । इति निघण्टुः । १ । १० ॥
यथा, ऋग्वेदे । ७ । १०३ । २ ।
“दिव्या आपो अभि यदेनमायन्
दृतिं न शुष्कं सरसी शयानम् ॥”)

दृतिधारकः, पुं, (दृतिश्चर्म्मपुटकस्तदाकारं धारय-

तीति । धारि + “ण्वुल् तृचौ ।” ३ । १ । १३३ ।
इति ण्वुल् ।) वृक्षविशेषः । आकनपाता
इति भाषा । तत्पर्य्यायः । आनन्दी २ मूषि-
कारावूः ३ वामनः ४ । इति शब्दचन्द्रिका ॥

दृतिहरिः, पुं, (दृतिं चर्म्ममयद्रव्यं हरतीति ।

दृति + हृ + “हरतेर्दितिनाथयोः पशौ ।” ३ । २ ।
२५ । इति इन् ।) कुक्कुरः । इति मुग्धबोधव्याक-
रणम् ॥

दृन्, व्य, हिंसा । इति मुग्धबोधटीकायां दुर्गा-

दासः ॥

दृन्फ, प श उत्क्लेशे । इति कविकल्पद्रुमः ॥

(तुदां-परं-सकं-सेट् ।) दन्त्यवर्गतृतीयादिः ।
सप्तमस्वरी । प श, दृम्फति । श, दृफति चौरं
राजा क्लिश्नातीत्यर्थः । ददृम्फ ददर्फ । इति
दुर्गादासः ॥

दृन्भूः, स्त्री, (दृम्फतीति । दृन्फ + “अन्दूदृन्भू-

जम्बूकम्बूकफेलूकर्कन्धूदिधिषूः ।” उणां । १ । ९५ ।
इति कूप्रत्ययान्तो निपातितः ।) सर्पः । चक्रम् ।
इति मेदिनी । भे, ५ ॥ (क्वचित् दृन्फूरिति
पाठोपि दृश्यते ॥)

दृन्भूः, पुं, (दृन्फ + कूः । निपातनात् साधुः ।)

वज्रम् । सूर्य्यः । इति हेमचन्द्रः ॥ राजा । इति
शब्दरत्नावली ॥ अन्तकः । इति संक्षिप्तसारे
उणादिवृत्तिः ॥

दृप, कि सन्दीपने । इति कविकल्पद्रुमः ॥ (चुरां-

पक्षे-भ्वां-परं-सकं-सेट् ।) कि, दर्पयति दर्पति ।
इति दुर्गादासः ॥

दृप, ञ य ऊ इर् हर्षे । गर्व्वे । इति कविकल्प-

द्रुमः ॥ (दिवां-उभं-अकं-वेट् ।) ञ, दृप्तो-
ऽस्ति । य, दृप्यति । ऊ, दर्पिष्यति दर्प्स्यति ।
इर्, अदृपत् अद्राप्सीत् अद्रार्प्सीत् अदर्पीत् ।
इति दुर्गादासः ॥

दृप, श वाधने । इति कविकल्पद्रुमः ॥ (तुदां-परं-

सकं-सेट् ।) श, दृपति दर्पिता । वाधनं
विहतिः । इति दुर्गादासः ॥

दृप्तः, त्रि, (दृप्यतीति । दृप् + वर्त्तमाने कर्त्तरि

क्तः ।) गर्व्वितः । इति धरणिः ॥ (यथा, महा-
भारते । १ । १ । १६२ ।
“यदाश्रौषं कालकेयास्ततस्ते
पौलोमानो वरदानाच्च दृप्ताः ।
दैवैरजेया निर्ज्जिताश्चार्ज्जुनेन
तदा नाशंसे विजयाय सञ्जय ! ॥”)

दृप्रः, त्रि, (दृपति वाधते इति । दृप् + “स्फायि-

तञ्चीति ।” उणां । २ । १३ । इति रक् ।) दृप्तः ।
इत्युणादिकोषः ॥ (बलवान् । इत्युज्ज्वलदत्तः ॥)

दृफ, प श उत्क्लेशे । इति कविकल्पद्रुमः ॥ (तुदां-

परं-सकं--सेट् ।) प श, दृम्फति । श, दृफति
चौरं राजा क्लिश्नातीत्यर्थः । ददर्फ । इति
दुर्गादासः ॥

दृब्धः, त्रि, (दृभ्यते ग्रथ्यते इति । दृभ + कर्म्मणि

क्तः ।) ग्रथितः । इत्यमरः । ३ । १ । ८६ ॥
(दृभ + कर्त्तरि क्तः ।) भीतः । इति भयाथ-
दृभधातुदर्शनात् ॥

दृभ, ई कि भये । इति कविकल्पद्रुमः ॥ (चुरां-

पक्षे भ्वां-अकं-सेट् ।) कि, दर्भयति दर्भति । ई,
दृब्धः । रमानाथस्तु दृ भी इति घातुद्वयं मत्वा
दारयति दरति भाययति भयति इत्याह ।
इति दुर्गादासः ।

दृभ, श ई कि गुम्फने । इति कविकल्पद्रुमः ॥

(तुदां-चुरां पक्षे भ्वां-सकं-सेट् ।) श, दृभति ।
ई, दृब्धः । कि, दर्भयति दर्भति । गुम्फनं ग्रन्थ-
नम् । इति दुर्गादासः ॥

दृम्प, ञ क ङ संघाते । इति कविकल्पद्रुमः ॥

(चुरां-उभं-आत्मं च-सकं-सेट् ।) ओष्ठ्य-
वर्गशेषोपधः । सप्तमस्वरी । ञ क, दृम्पयति
दृम्पयते । ङ, दृम्पयते । संघातो राशीकर-
णम् । एषः कैश्चिन्न मन्यते । इति दुर्गादासः ॥

दृम्फूः, स्त्री, (दृम्फति क्लिश्नातीति । दृन्फ +

“अन्दूदृम्फूजम्ब्विति ।” उणां । १ । ९५ । इति
कूः । निपातनात् साधुः ।) सर्पः । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

दृम्भूः, स्त्री, (दृम्फतीति + दृन्फ + कूः । निपात-

नात् साधुः ।) दृन्भूः । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥

दृश, इर् औ प्रेक्षे । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-अनिट् ।) इर्, अदर्शत् अद्राक्षीत् ।
औ, द्रष्टा । प्रेक्षश्चाक्षुषज्ञानम् । पश्यति चन्द्रं
लोकः । ततः स ददृशे च तौ इति व्यतीहारे
आत्मनेपदम् । कदा द्रक्ष्येऽहं परमेश्वरि त्रिपथगे
भागरथि ! स्वं वपुरिति गणकृतानित्यत्वात् ।
इति दुर्गादासः ॥

दृशत्, [द्] स्त्री, (दृषत् । पृषोदरादित्वात्

साधुः ।) पाषाणः । इत्यमरः । २ । ३ । ४ ॥
निष्पेषणशिलापट्टम् । इति मेदिनी । दे, ३२ ॥
पृष्ठ २/७४०

दृशद्वती, स्त्री, (दृशत् पाषाणोऽस्त्यस्यामिति ।

दृशत् + मतुप् मस्य वः ।) नदीविशेषः । सा
आर्य्यावर्त्तस्य पूर्ब्बसीमा । (यथा, महा-
भारते । ३ । ८३ । ४ ।
“दक्षिणेन सरस्वत्या दृषद्बत्युत्तरेण च ।
ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिपिष्टपे ॥”)
कात्यायनी । इति मेदिनी । ते, १९८ ॥

दृशा, स्त्री, (दृश् + पाक्षिकटाप् ।) चक्षुः । इति

शब्दचन्द्रिका ॥

दृशाकाङ्क्ष्यं, क्ली, (दृशा दृशया वा आकाक्ष्यं

अभिलषणीयम् ।) पद्मम् । इति शब्दचन्द्रिका ॥

दृशानं, क्ली, (दृश्यते अनेनेति । दृश् + आ-

नच् ।) ज्योतिः । इति मेदिनी । ने, ७५ ॥

दृशानः, पुं, (पश्यतीति । दृश् + “युधिबुधिदृशः

किच्च ।” उणां । २ । ९० । इति आनच् ।
स च कित् ।) आचार्य्यः । इत्युणादिकोषः ॥
लोकपालः । ब्राह्मणः । उपाध्यायः । इति
संक्षिप्तसारे उणादिवृत्तिः ॥ विरोचनः । इति
मेदिनी । ने, ७५ ॥ (दृश्यते इति । कर्म्मणि
आनच् । दृश्यमाने, त्रि । यथा, ऋग्वेदे । १० ।
४५ । ८ ।
“दृशानो रूक्म उर्विया व्यद्यौद्दुर्म्मर्षमायुः श्रिये
रुचानः ॥”)

दृशिः, स्त्री, (दृश्यतेऽनयेति । दृश् + इन् । स च

कित् । वा ङीष् ।) चक्षुः । इति शब्द-
रत्नावली ॥ (यथा, --

दृशी, स्त्री, (दृश्यतेऽनयेति । दृश् + इन् । स च

कित् । वा ङीष् ।) चक्षुः । इति शब्द-
रत्नावली ॥ (यथा, --
“किं सम्भूतं रुचिरयोर्द्विजशृङ्गयोस्ते
मध्ये कृशो वहसि यत्र दृशिः श्रिता मे ॥”
इति भागवते । ५ । २ । १२ ।
चेतनः पुरुषः । यथा, पातञ्जलसूत्रम् । २ । २५ ।
“तदभावात् संयोगाभावो हानं तद्दृशेः कैव-
ल्यम् ।”
“तस्या अविद्याया अभावात् नाशात् संयोगा-
भावः संयोगस्य नाशो भवतीति शेषः । तच्च हानं
संयोगविगमः । दृशेः पुरुषस्य कैवल्यं मुक्तिरिति
चोच्यते ॥” दृक्शक्तिः । यथा, तत्रैव । २ । २० ।
“द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ।”
दृशिमात्र इति दृक्शक्तिरेव विशेषेण परामृ-
ष्टेत्यथः ।” इति भाष्यम् ॥ दर्शनम् । यथा,
ऋग्वेदे । ५ । ८० । ५ ।
“एषा शुद्रा न तन्वो विदानोर्द्ध्वेव स्नाती दृशये
नो अस्थात् ॥”
“दृशये दर्शनाय” इति तद्भाष्ये सायनः ॥”)

दृशोपमं, क्ली, (दृशाया नेत्रस्य उपमा यत्र ।)

श्वेतपद्मम् । इति शब्दचन्द्रिका ॥

दृश्यं, त्रि, (दृश्यते इति । दृश् + कर्म्मणि क्यप् ।)

दर्शनीयम् । द्रष्टव्यम् । इति व्याकरणम् ॥ (यथा,
महाभारते । ३ । १३० । ५ ।
“एष वै चममोद्भेदो यत्र दृश्या सरस्वती ॥”
काशविशेषे, क्ली । यथा, साहित्यदर्पणे । ६ । १ ।
“दृश्यश्रव्यत्वभेदेन पुनः काव्यं द्बिधा मतम् ।
दृश्यं तत्रामिनेयं तत्रूपारोपात्तु रूपकम् ॥”)

दृषत्, [द्] स्त्री, (दीर्य्यते असाविति । द +

“दृणातेः षुग् ह्रस्वश्च ।” उणां १ । १३१ । इति
अदिः षुक् ह्रस्वश्च ।) पाषाणः । (यथा, मेध-
दूते । ५७ ।
“तत्र व्यक्तं दृषदि चरणन्यासमर्द्धेन्दुमौलेः
शश्वत्सिद्धैरुपचितबलिं भक्तिनम्रः परीयाः ॥”)
निष्पेषणशिला । इति मेदिनी । दे, ३२ ॥
(“मांसं निरस्थि सुस्विन्नं पुनर्दृ षदि चूर्णितम् ॥”
इति सुश्रुते सूत्रस्थाने ४६ अः ॥)

दृषत्सारं, क्ली, (दृषदः पाषाणस्य सार इव सारो

यत्र ।) मुण्डायसम् । इति राजनिर्घण्टः ॥

दृष्टं, क्ली, (दृष् + कर्म्मणि क्तः ।) स्वपरचक्रज-

भयम् । इत्यमरः । २ । ८ । ३० ॥ ईक्षिते, त्रि ।
यथा, मार्कण्डेये ।
“दृष्टदोषेऽपि विषये ममत्वाकृष्टचेतनः ॥”

दृष्टरजाः, [स्] स्त्री, (दृष्टं रजो यस्याः ।) प्राप्त-

रजस्का । तत्पर्य्यायः । मध्यमा २ । इत्यमरः ।
२ । ६ । ८ ॥ प्रौढा । इति राजनिर्घण्टः ॥

दृष्टान्तः, पुं, (दृष्टः अन्तो निश्चयो यस्मिन् ।)

उदाहरणम् । (यथा, माघे । २ । ३१ ।
“तृप्तियोगः परेणापि महिम्ना न महात्मनाम् ।
पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टान्तोऽत्र महार्णवः ॥”)
शास्त्रम् । मरणम् । इति मेदिनी । ते, ११५ ॥
(अलङ्कारविशेषः । यथा, साहित्यदर्पणे ।
१० । ६९८ ।
“दृष्टान्तस्तु सधर्म्मस्य वस्तुनः प्रतिविम्बनम् ॥”
सधर्म्मस्येति प्रतिवस्तूपमाव्यवच्छेदः । अयमपि
साधर्म्म्यवैधर्म्याभ्यां द्विधा । क्रमेणोदाहरणं
यथा, --
अविदितगुणापि सत्कविभणितिः कर्णेषु वमति
मधुधाराम् ।
अनधिगतपरिमलापि हि हरति दृशं मालती-
माला ॥”)

दृष्टिः, स्त्री, (पश्यत्यनेनेति । दृश् + करणे क्तिन् ।)

चक्षुः । इत्यमरः । २ । ६ । ९३ ॥ (यथा, साहित्य-
दर्पणे । ३ । ६८ ।
“दृष्टा दृष्टिमधोददाति कुरुते नालापमाभा-
षिता ॥”)
बुद्धिः । (दृश् + भावे + क्तिन् ।) दर्शनम् ।
इति मेदिनी । टे, १० ॥ (यथा, मनुः । ६ । ४६ ।
“दृष्टिपूतं क्षिपेत् पादं वस्त्रपूतं जलं पिबेत् ॥”)
ग्रहाणां दृष्टिकथनम् । यथा,
तृतीयगृहे दशमगृहे च शनेः पूर्णदृष्टिरन्येषां
पाददृष्टिः । पञ्चमगृहे नवमगृहे च गुरोः पूर्ण-
दृष्टिरन्येषामर्द्धदृष्टिः । चतुर्थगृहे अष्टमगृहे च
कुजस्य पूर्णदृष्टिरन्येषां त्रिपाददृष्टिः । सप्तम-
गृहे सर्व्वेषां पूर्णदृष्टिः । पञ्चमगृहे सप्तमे नवमे
द्वादशे च राहोः पूर्णदृष्टिः । द्वितीये दशमे च
त्रिपाददृष्टिः । तृतीये षष्ठे चतुर्थे अष्टमे चार्द्ध-
दृष्टिः ॥ * ॥ ग्रहाणां दृष्ट्यभावनिर्णयो यथा, --
स्थितिभवने एकादशे च राहोर्दृष्ट्यभावः ।
स्थितिभवने द्बितीये षष्ठे एकादशे द्बादशे
चान्येषां दृष्ट्यभावः ॥ * ॥ एषां प्रमाणं यथा, --
“तृतीये दशमे चैव पाददृष्टिरुदाहृता ।
अर्द्धदृष्टिश्च नवमे पञ्चमे च प्रकीर्त्तिता ॥
चतुर्थे चाष्टमे चैव पादोना परिकीर्त्तिता ।
सप्तमे परिपूर्णा च फलमेवं प्रकल्प्यते ॥
तृतीयदशमावार्किः पश्यन् पूर्णफलप्रदः ।
त्रिकोणगान् गुरुश्चैव चतुर्थाष्टमगान् कुजः ॥
सुतमदननवान्त्ये पूर्णदृष्टिः सुरारे-
र्युगलदशमराशौ दृष्टिमात्रात्रयार्हः ।
सहजरिपुचतुर्थेष्वष्टमे चार्द्धदृष्टिः
स्थितिभवनमुपान्त्यं नैव दृश्यं हि राहोः ॥
स्वस्थानञ्च द्बितीयञ्च षष्ठमेकादशन्तथा ।
द्वादशाख्यं न पश्यन्ति शेषं पश्यन्ति ते ग्रहाः ॥”
इति ज्योतिषतत्त्वम् ॥

दृष्टिकृत्, क्ली, (दृष्टिं दृष्टिप्रसादं करोतीति । कृ +

क्विप् तुगागमश्च । अतीवशोभया लोकानां
नेत्राकर्षकत्वादस्य तथात्वम् ।) स्थलपद्मम् ।
इति शब्दचन्द्रिका ॥ (दर्शनकारके, त्रि ॥)

दृष्टिकृतं, क्ली, (दृष्ट्यै दर्शनाय कृतमिव । अतीव-

शोभाकरत्वात् तथात्वम् ।) स्थलपद्मम् । इति
शब्दरत्नावली ॥

दृष्टिगुणः, पुं, (दृष्ट्या गुण्यते अभ्यस्यते यत्र ।

गुणत् क अभ्यासे + घञ् ।) बाणादिलक्ष्यम् ।
इति शब्दमाला ॥

दृष्टिबन्धुः, पुं, (दृष्टेश्चक्षुषो बन्धुरिव ।) खद्योतः ।

इति शब्दरत्नावली ॥

दृष्टिविक्षेपः, पुं, (दृष्टेर्विक्षेपः ।) कटाक्षः । इति

हलायुधः ॥

दृह, वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-

सेट् ।) सप्तमस्वरी दर्हति । इति दुर्गादासः ॥

दृह, इ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) सप्तमस्वरी । इ, दृंह्यते । इति
दुर्गादासः ॥

दृहितः, त्रि, दृहधातोः कर्त्तरि क्तेन निष्पन्नः । वृद्धि-

प्राप्तः ॥

दॄ, गि भियि । इति कविकल्पद्रुमः ॥ (क्र्यां-परं-

अकं-सेट् ।) गि, दृणाति दीर्णः दीर्णिः । भियि
भये । इति दुर्गादासः ॥

दॄ, म भियि । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-

सेट् ।) म, दरयति । भियि भये । इति दुर्गा-
दासः ॥

दॄ, य गि विदारे । इति कविकल्पद्रुमः ॥ (दिवां-

क्र्यां च-परं-सकं-सेट् ।) य, दीर्य्यति । गि,
दृणाति दीर्णः दीर्णिः । इति दुर्गादासः ॥

दे, ङ पालने । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

सकं-अनिट् ।) ङ, दीनान् यो दयते नित्यम् ।
इति हलायुधः । इति दुर्गादासः ॥

देदीप्यमानः, त्रि, पुनःपुनरतिशयेन वा दीप्यते

यः । (दीप + यङ् + शानच् ।) अतिशय-
दीप्तिविशिष्टः । इति व्याकरणम् ॥

देयं, त्रि, (दा + “अचो यत् ।” ३ । १ । ९७ ।

इति यत् । “ईद्यति ।” ६ । ४ । ६५ । इति
पृष्ठ २/७४१
ईत् ।) दातव्यम् । दानीयम् । इति व्याकरणम् ॥
यथा, हितोपदेशे । १ । ३६ ।
“उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी-
र्दैवेन देयमिति कापुरुषा वदन्ति ॥”)

देव, ऋ ङ देवने । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-अकं-सेट् ।) देवनमिह क्रीडा । ऋ,
अदिदेवत् । ङ, देवते बालः कन्दुकैर्नित्यमिति
हलायुधः । देवनमिह रोदनमिति भट्टमल्लः ।
इति दुर्गादासः ॥

देवं, क्ली, (दीव्यत्यनेनेति । दिव + करणे घञ् ।)

इन्द्रियम् । इति मेदिनी । वे, १२ ॥ (यथा,
मुण्डकोपनिषदि । ३ । १ । ८ ।
“न चक्षुषा गृह्यते नापि वाचा
नान्यैर्देवैस्तपसा कर्म्मणा वा ।
ज्ञानप्रसादेन विशुद्धसत्त्व-
स्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥”)

देवः, पुं, (दीव्यति आनन्देन क्रीडतीति । दिव +

अच् ।) देवता । (यथा, मनुः । ३ । ११७ ।
“देवानृषीन् मनुष्यांश्च पितन् गृह्याश्च देवताः ।
पूजयित्वा ततः पश्चात् गृहस्थः शेषभुग् भवेत् ॥”)
नाठ्योक्तौ राजा । इत्यमरः । १ । ७ । १३ ॥
राजा । (यथा, कादम्बरी । १८ ।
“सकलभूतलरत्नभूतोऽयं वैशम्पायनो नाम
शुकः । सर्व्वरत्नानामुदधिरिव देवो भाजन-
मिति कृत्वैनमादायास्मत्स्वामिदुहिता देवपाद-
मूलमायाता तदयमात्मीयः क्रियतामिति ॥”)
मेघः । इति मेदिनी । वे, १२ ॥ (यथा, महा-
भारते । ३ । २३५ । २३ ।
“क्षेत्रे सुकृष्टे ह्युपिते च बीजे
देवे च वर्षत्यृतुकालयुक्तम् ॥”
केचित्तु देवशब्देन इन्द्र इति व्याचक्षते ॥)
पारदः । इति राजनिर्घण्टः ॥ ब्राह्मणाना-
मुपाधिभेदः । यथा, स्मृतिः ।
“देवपूर्ब्बं नराख्यं स्यात् शर्म्मवर्म्मादिसंयुतम् ॥”
(ऋत्विक् । यथा, ऋग्वेदे । ९ । ९६ । ६ ।
“ब्रह्मा देवानां पदवीः कवीना-
मृषिर्विप्राणां महिषो मृगाणाम् ॥”
“देवानां स्तोत्रकारिणामृत्विजां ब्रह्मा ब्रह्मा-
ख्यर्त्विक्स्थानीयो भवति ।” इति तद्भाष्ये
सायनः ॥) कायस्थादीनां पद्धतिविशेषः । तस्य
विवरणं कायस्थशब्दे द्रष्टव्यम् ॥ (त्रि, दाता ।
द्योतयिता । दीपयिता । यथा, ऋग्वेदे । १ । १ । १ ।
“अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ॥”
“देवशब्दो दानदीपनद्योतनानामन्यतममर्थ-
माचष्टे । यज्ञस्य दाता दीपयिता द्योतयिता
यमग्निरित्युक्तं भवति ।” इति तद्भाष्ये सायनः ॥
विष्णुः । यथा, महाभारते । १३ । १४९ । ५४ ।
“उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ॥”
“दीव्यति यत् क्रीडति सर्गादिति विजिगीषति
असुरान् व्यवहरति सर्व्वभूतेष्वात्मतया द्योतते
स्तूयते स्तुत्यैः सर्व्वत्र गच्छति तस्माद्देवः । एको-
देव इति मन्त्रवर्णात् ॥” इति तद्भाष्ये शङ्करः ॥
महादेवः । यथा, महाभारते । १३ । १७ । ९८ ।
“परश्वधायुधो देवः अनुकारी सुबान्धवः ॥”)

देवकः, पुं, यदुवंशीयराजविशेषः । स श्रीकृष्णस्य

मातामहः । इति श्रीभागवतम् ॥ (अयन्तु
गन्धर्व्वपतेरंशावतारः । यथा, महाभारते ।
१ । ६७ । ६९ ।
“यस्त्वासीद्देवको नाम देवराजसमद्युतिः ।
स गन्धर्व्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः ॥”)

देवकर्द्दमः, पुं, (देवप्रियः कर्द्दम इव ।) सुगन्धि-

द्रव्यविशेषः । स श्रीखण्डागुरुकर्पूरकुङ्कुमसंमि-
श्रितैर्भवति । इति राजनिर्घण्टः ॥

देवकात्मजा, स्त्री, (देवकस्य आत्मजा कन्या ।)

देवकी । इति शब्दरत्नावली ॥

देवकाष्ठं, क्ली, (देवप्रियं काष्ठम् ।) देवदारु ।

इति रत्नमाला ॥ देवदारुप्रभेदः । तत्पर्य्यायः ।
पूतिकाष्ठम् २ भद्रकाष्ठम् ३ सुकाष्ठकम् ४ स्निग्ध-
दारुकम् ५ काष्ठदारु ६ । अस्य गुणाः । तिक्त-
त्वम् । उष्णत्वम् । रूक्षत्वम् । श्लेष्मानिलापह-
त्वञ्च । इति राजनिर्घण्टः ॥

देवकिरी, स्त्री, (देवं मेघं किरतीति । कॄ + “इगुप-

धज्ञेति ।” ३ । १ । १३५ । इति कः । गौरादि-
त्वात् ङीष् ।) मेघरागस्य भार्य्या । यथा, --
“ललिता मालसी गौरी नाटी देवकिरी तथा ।
मेघरागस्य रागिण्यो भवन्तीमाः सुमध्यमाः ॥”
अस्याः स्वरूपं यथा, --
“भ्रमन्ती नन्दने श्यामा पुष्पप्रचयतत्परा ।
ख्याता देवकिरी ह्येषा करार्पितसखीकरा ॥”
इति सङ्गीतदामोदरः ॥

देवकी, स्त्री, (देवक + ङीष् ।) देवकराजकन्या ।

सा वसुदेवपत्नी श्रीकृष्णमाता । तत्पर्य्यायः ।
दैवकी २ कृष्णजननी ३ देवकात्मजा ४ । इति
शब्दरत्नावली ॥ इयं कश्यपपत्नी अदित्यंश-
जाता । यथा, --
“देवकी रोहिणी चेमे वसुदेवस्य धीमतः ।
रोहिणी सुरभिर्देवी अदितिर्देवकी ह्यभूत् ॥”
अपि च ।
“कश्यपो वसुदेवश्च देवमाता च देवकी ।
पूर्ब्बपुण्यफलेनैव संप्राप श्रीहरिं सुतम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥

देवकीनन्दनः, पुं, (देवक्या नन्दनः ।) श्रीकृष्णः ।

इति शब्दरत्नावली ॥ (यथा, भागवते । १ ।
८ । २१ ।
“कृष्णाय वासुदेवाय देवकीनन्दनाय च ।
नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥”
क्वचिदीकारस्य ह्रस्वोऽपि दृश्यते । यथा, महा-
भारते । २ । २४ । ३१ ।
“नैतच्चित्रं महाबाहो ! त्वयि देवकिनन्दने ॥”)

देवकीसूनुः, पुं, (देवक्याः सूनुः पुत्त्रः ।) श्रीकृष्णः ।

इति हेमचन्द्रः । २ । १३२ ॥ (यथा, भविष्ये ।
“तुष्ट्यर्थं देवकीसूनोर्जयन्ती संज्ञकं व्रतम् ।
कर्त्तव्यं चिन्त्यमानेन भक्त्या भक्तजनैः सह ॥”)

देवकुरुम्बा, स्त्री, महाद्रोणा । इति राजनिर्घण्टः ॥

देवकुलं, क्ली, (देवाय कोलतीति । कुल सङ्घाते +

कः ।) विनामुखम् । इति हारावली । १९८ ॥
देउल इति भाषा ॥ (यथा, कथासरित्-
सागरे । १२ । १२७ ।
“सोऽहं दारिद्रसन्तप्तस्तत्र नारायणाग्रतः ।
निराहारः स्थितोऽकार्षं गत्वा देवकुलं तपः ॥”)
अस्य विवरणं चैत्यशब्दे द्रष्टव्यम् ॥

देवकुसुमं, क्ली, (देवप्रियं कुसुमं पुष्पं यस्य ।)

लवङ्गम् । इत्यमरः । २ । ६ । १२५ ॥

देवखातं, क्ली, (देवेन खातम् । अकृत्रिमत्वादस्य

तथात्वम् ।) देवखातकम् । इत्यमरटीकायां
भरतः ॥ (यथा, मनुः । ४ । २०३ ।
“नदीषु देवखातेषु तडागेषु सरःसु च ।
स्नानं समाचरेन्नित्यं गर्भप्रस्रवणेषु च ॥”)

देवखातकं, क्ली, पुं, (देवखातमेव । स्वार्थे कन् ।)

अकृत्रिमजलाशयः । अपौरुषेयं देवकुण्ड-
मित्यन्ये । इति सुभूतिः ॥ नागादिकुण्डमकृत्रिम-
मिति स्वामी ॥ तत्पर्य्यायः । आखातम् २ ।
इति भरतः ॥ अखातम् । इत्यमरः । १ । १० ।
२७ ॥ दैवविनिर्म्मितम् ४ । इति शब्दरत्नावली ॥
गुहा । इत्यमरटीकायां भरतः ॥

देवखातविलं, क्ली, (देवखातं अकृत्रिमं विलम् ।

नित्यकर्म्मधारयः ।) गुहा । इत्यमरः । २ । ३ । ६ ॥

देवगन्धा, स्त्री, (देवप्रियो गन्धो यस्याः ।) महा-

मेदा । इति राजनिर्घण्टः ॥

देवगान्धारी, स्त्री, श्रीरागस्य भार्य्या । यथा, --

“गान्धारी देवगान्धारी मालवश्रीश्च सारवी ।
रामकिर्य्यपि रागिण्यः श्रीरागस्य प्रिया इमाः ॥”
इति सङ्गीतदामोदरः ॥
अस्या गानसमयः शिशिर ऋतौ तृतीयप्रहरा-
वधिरात्र्यर्द्धपर्य्यन्तम् ॥

देवगायनः, पुं, (देवानां गायनः ।) गन्धर्व्वः ।

इति हेमचन्द्रः । २ । ९७ ॥

देवगिरी, स्त्री, रागिणीविशेषः । इति हलायुधः ॥

सा सोमेश्वरमते वसन्तरागस्य भार्य्या वसन्त-
ऋतौ सदा गेया । भरतमते हिन्दोलरागपुत्त्र-
नागध्वनिभार्य्या । सङ्गीतदर्पणमते तु नटकल्याण-
भार्य्या । अस्याः स्वरूपं यथा, अत्यभिरामघन-
श्यामतनुः उत्तुङ्गपीनस्तनी हारकण्ठभूषणा
स्त्रीपङ्क्तिमध्यस्था मत्तचकोरनयना सुभङ्ग्यङ्गी
च । अस्या गानसमयः हेमन्ते दिवाचतुर्थ-
प्रहरावधिरात्र्यर्द्धपर्य्यन्तम् ॥

देवगुरुः, पुं, (देवानां गुरुः ।) बृहस्पतिः । इति

पुराणम् ॥ (देवानां गुरुः पिता । कश्यपः ।
यथा, हरिवंशे । २४९ । ८ ।
“अपश्यन् कश्यपं तत्र मुनिं दीप्ततपोनिधिम् ।
आद्यं देवगुरुं दिव्यं क्लिन्नं त्रिषवणाम्बुभिः ॥”)

देवगृहं क्ली, (देवानां सूर्य्यादीनां गृहमिव ।)

सूर्य्यचन्द्रादीनां ज्योतिर्म्मण्डलानि । यथा, --
“मन्वन्तरेषु सर्व्वेषु ऋक्षे सूर्य्यग्रहाश्रयात् ।
तानि देवगृहाणि स्युः स्थानाख्यानि भवन्ति हि ॥”
इति मत्स्यपुराणम् ॥
पृष्ठ २/७४२
देवालयः ॥ (यथा, कथासरित्सागरे । ४ । १०२ ।
“शून्ये देवगृहे देहमिन्द्रदत्तस्य रक्षितुम् ॥”)

देवचिकित्सकौ, पुं, (देवानां चिकित्सकौ ।)

अश्विनीकुमारौ । इति हलायुधः ॥ द्विवच-
नान्तोऽयम् ॥

देवच्छन्दः, पुं, (देवैश्छन्द्यते आकाङ्क्ष्यते इति ।

छन्द + घञ् ।) हारविशेषः । स शतयष्टिकः ।
इत्यमरः । २ । ६ । १०५ ॥ अष्टोत्तरशत-
यष्टिकोऽयमिति केचित् । इति भरतः ॥ (यथा,
बृहत्संहितायाम् । ८१ । ३२ ।
“शतमष्टयुतं हारो देवच्छन्दो ह्यशीतिरेकयुता ।
अष्टाष्टकोऽर्द्धहारो रश्मिकलापश्च नवषट्कः ॥”)

देवजग्धं, क्ली, (देवैरद्यते इति । अद् + क्तः ।

“अदोजग्धिर्लप्तिकिति ।” २ । ४ । ३६ । इति
जग्ध्यादेशः ।) देवजग्धकम् । इति हेम-
चन्द्रः । ४ । २५७ ॥

देवजग्धकं, क्ली, (देवजग्ध + स्वार्थे कन् ।) कत्तृ-

णम् । इत्यमरः । २ । ४ । १६६ ।

देवटः, त्रि, (दिव्यतीति । दिव + “शकादिभ्यो-

ऽटन् ।” उणां । ४ । ८१ । इति अटन् ।)
शिल्पी । इत्युणादिकोषः ॥

देवट्टी, स्त्री, (देवं देवशब्दं अट्टते अतिक्राम-

तीति । अट्ट + अण् । शकन्ध्वादित्वादलोपः ।
गौरादित्वात् ङीष् ।) गङ्गाचिल्ली । इति
हारावली । ८५ ॥

देवतरुः, पुं, (देवानां तरुः ।) मन्दारः । पारि-

जातः । सन्तानः । कल्पवृक्षः । हरिचन्दनम् ।
इत्यमरः । १ । १ । ५३ ॥ चैत्यवृक्षः । इति
त्रिकाण्डशेषः ॥

देवता, स्त्री, (देव एव । स्वार्थे तल् ।) देवं द्युतिं

क्रीडांवा तनोति या । तत्पर्य्यायः । अमरः २
निर्ज्जरः ३ देवः ४ त्रिदशः ५ विबुधः ६ सुरः ७
सुपर्व्वा ८ सुमनाः ९ त्रिदिवेशः १० दिवौकाः ११
आदितेयः १२ दिविषत् १३ लेखः १४ अदिति-
नन्दनः १५ आदित्यः १६ ऋभुः १७ अस्वप्नः १८
अमर्त्यः १९ अमृतान्धाः २० बर्हिर्मुखः २१
क्रतुभुक् २२ गीर्व्वाणः २३ दानवारिः २४
वृन्दारकः २५ दैवतम् २६ । इत्यमरः । १ । १ । ९ ॥
स्वाहाभुक् २७ दनुजद्विट् २८ द्युषत् २९ दौषत्
३० स्वर्गी ३१ शौभः ३२ निलिम्पः ३३ सुचि-
रायुः ३४ स्थिरः ३५ । इति शब्दरत्नावली ॥
तस्याः संख्या त्रयस्त्रिंशत्कोटयः । यथा, --
“सदारा विबुधाः सर्व्वे स्वानां स्वानां गणैः सह ।
त्रैलोक्ये तत्त्रयस्त्रिंशत्कोटीसंख्या यथा भव ॥”
इति पाद्मोत्तरखण्डम् ॥ *
गणदेवता यथा, --
“आदित्यास्तुषिता विश्वसाध्याभास्वरमारुताः ।
महाराजिकरुद्राश्च वसवो गणदेवताः ॥
आदित्या द्वादश प्रोक्तास्तुषितास्त्रिंशदेव हि ।
विश्वेदेवा दश प्रोक्ताः साध्या द्वादश कीर्त्तिताः ॥
आभास्वराश्चतुःषष्टिर्वाताः पञ्चाशदूनकाः ।
महाराजिकनामानो द्वे शते विंशतिस्तथा ।
रुद्रा एकादश प्रोक्ता वसवोऽष्टौ समीरिताः ॥”
इति शब्दरत्नावली ॥ * ॥
तेषां चत्वारो वर्णा यथा, --
“आदित्याः क्षत्त्रियास्तेषां विशश्च मरुतस्तथा ।
अश्विनौ च स्मृतौ शूद्रौ तपस्युग्रे समास्थितौ ॥
स्मृतास्त्वाङ्गिरसा देवा ब्राह्मणा इति निश्चयः ।
इत्येतत् सर्व्वदेवानां चातुर्व्वर्ण्यं प्रकीर्त्तितम् ॥”
इति महाभारते मोक्षधर्म्मः ॥ * ॥
वैष्णवानां पञ्चदेवता यथा, --
“यत्र यत्र सुराः पूज्या गणेशाद्यास्तु कर्म्मिणाम् ।
विष्ण्वर्च्चने तत्र तत्र वैष्णवानां हि वैष्णवाः ॥
विश्वक्सेनं ससनकं सनातनमतःपरम् ।
सनन्दं सनत्कुमारञ्च पञ्चैवं पूजयेत्ततः ॥”
इति पाद्मे उत्तरखण्डम् ॥ * ॥
देवषट्कं यथा, --
“गणेशञ्च दिनेशञ्च वह्निं विष्णुं शिवं शिवाम् ।
देवषट्कञ्च संपूज्य नमस्कृत्य विचक्षणः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥
अपि च ।
“आदित्यं गणनाथञ्च देवीं रुद्रं यथाक्रमम् ।
नारायणं विशुद्धाख्यमन्ते च कुलदेवताः ॥”
इत्याह्निकतत्त्वम् ॥ * ॥
व्यक्तिविशेषस्य उपास्यदेवता यथा, --
“या यस्याभिमता पुंसः सा हि तस्यैव देवता ।
किन्तु कार्य्यविशेषेण पूजिता चेष्टदा नृणाम् ॥
विशेषात् सर्व्वदा नायं नियमो ह्यन्यथा नृपाः ।
नृपाणां दैवतं विष्णुस्तथैव च पुरन्दरः ॥
विप्राणामग्निरादित्यो ब्रह्मा चैव पिनाकधृक् ।
देवानां दैवतं विष्णुर्दानवानां त्रिशूलभृत् ॥
गन्धर्व्वाणां तथा सामो यक्षाणामपि कथ्यते ।
विद्याधराणां वाग्देवी साध्यानां भगवान् हरिः ॥
रक्षसां शङ्करो रुद्रः किन्नराणाञ्च पार्व्वती ।
ऋषीणां दैवतं ब्रह्मा महादेवश्च शूलभृत् ॥
मनूनां स्यादुमा देवी तथा विष्णुः सभास्करः ।
गृहस्थानाञ्च सर्व्वे स्युर्ब्रह्मा वै ब्रह्मचारिणाम् ॥
वैखानसामम्बिका स्याद्यतीनाञ्च महेश्वरः ।
भूतानां भगवान् रुद्रः कुष्माण्डानां विनायकः ॥
सर्व्वेषां भगवान् ब्रह्मा देवदेवः प्रजापतिः ।
इत्येवं भगवान् ब्रह्मा स्वयं देवोऽभ्यभाषत ॥”
इति कूर्म्मपुराणम् ॥ * ॥
सामान्यदेवघट्टनदिनं यथा, --
तत्रोक्तनक्षत्रानि । उत्तरफल्गुन्युत्तराषाढोत्तर-
भाद्रपद्रोहिणी चित्रानुराधा मृगशिरो रेवती
पुष्योऽश्विनी हस्ता शतभिषा श्रवणा स्वाती पुन-
र्व्वसुर्धनिष्ठा । तत्र तिथयः शुभाः । तत्र चन्द्र-
स्तृतीयदशमसप्तमजन्मैकादशस्थः शोभनः ॥ अथ
सामान्यदेवप्रतिष्ठादिनम् । तत्र मासाः । माघ-
फाल्गुनचैत्रवैशाखज्यैष्ठाः हरिशयनात् पूर्ब्ब-
माषाढश्च । तत्र नक्षत्राणि धनिष्ठाशतभिषा-
श्लेषामधापुनर्व्वस्वश्विनीभरणीकृत्तिकाविशाखा-
भिन्नानि । तत्र तिथयः शुभाः । तत्र लग्नानि
वृषमिथुनकन्याधनुर्मीनसंज्ञकानि । तत्र चन्द्रः
शोभनः । लग्नापेक्षया बृहस्पतिः केन्द्रस्थः
शोभनः लग्नापेक्षया शुक्रस्तृतीयषष्ठैकादशस्थः
शोभनः । इति ज्योतिषम् ॥
(देव + भावे तल् । देवत्वम् । यथा, ऋगवेदे ।
१० । २४ । ६ ।
“मधुमन्मे परायणं मधुमत् पुनरायनम् ।
ता नो देवा देवतया युवं मधुमतस्कृतम् ॥”
“हे देवा देवौ द्योतमानौ ता तौ युवं युवां
नोऽस्मान् मधुमतः प्रीतियुक्तान् कृतम् कुरुतम् ।
केनेति उच्यते । देवतया देवत्वेन अणिमादि-
देवतश्वर्य्ययोगेनेत्यर्थः ।” इति तद्भाष्ये सायनः ॥)

देवताडः, पुं, (देवो दीप्तस्ताल इति । लस्य डः ।)

वृक्षविशेषः । देताडा इति ख्यातः । तत्-
पर्य्यायः । वेणी २ खरा ३ गरी ४ जीमूतः ५ ।
इत्यमरः । २ । ४ । ६९ ॥ अगरी ६ खरागरी
७ गरागरी ८ । इति तट्टीकायां भरतः ॥ देव-
ताडी ९ आखुविषहा १० । इति जटाधरः ॥
आखुः ११ विषजिह्वः १२ महाच्छदः १३
कदम्बः १४ खुज्जाकः १५ देवताडकः १६ । इति
रत्नमाला ॥ (देवौ चन्द्रार्कौ ताडयतीति ।
ताडि + कर्म्मणि अण्।) राहुः । अग्निः । इति
मेदिनी । डे, ३९ ॥ घोषकलता । इति विश्वः ॥

देवताडकः, पुं, (देवताड + स्वार्थे कन् ।) देव-

ताडः । इति रत्नमाला ॥

देवताधिपः, पुं, (देवतानां अधिपः ।) इन्द्रः ।

इति शब्दरत्नावली ॥

देवत्वं, क्ली, (देवस्य भावः कर्म्म वा । “तस्य

भावस्त्वतलौ ।” ५ । १ । ११९ । इति त्वप्रत्ययः ।)
देवभूयम् । देवसायुज्यम् । इत्यमरः । २ । ७ । ५२ ॥
देवस्य भावः कर्म्म वा । इति संक्षिप्तसारव्याक-
रणम् ॥

देवदण्डा, स्त्री, (देवात् मेघाद्दण्डोऽस्याः ।) नाग-

बला । इति राजनिर्घण्टः ॥

देवदत्तः, पुं, बुद्धानुजः । इति त्रिकाण्डशेषः ।

अर्ज्जनशङ्खः । (यथा, महाभारते । ६ । २४ । १५ ।
“पाञ्चजन्यं हृषीकेशो देवदत्तं घनञ्जयः ।
पौण्ड्रं दघ्मौ महाशङ्खं भीमकर्म्मा वृकोदरः ॥”)
शरीरवाह्यपञ्चवाय्वन्तर्गतवायुविशेषः । इति
शब्दार्थकल्पतरुः ॥ विजृम्भणे देवदत्तः शुद्ध-
स्फटिकसन्निभः । इति सारदातिलकटीका ॥
(देवा एनं देयासुरिति । “क्तिच्क्तौ च संज्ञा-
याम् ।” ३ । ३ । १७४ । इति आशिषि क्तः ।
“दो दद्धोः ।” ७ । ४ । ४६ । इति ददादेशश्च ।)
संज्ञाविशेषः । यथा, देवदत्तादिसंज्ञाशब्दस्य
सर्व्वलिङ्गभाजित्वाभावात् जातित्वमायाति ।
इति दुर्गादासः ॥ (नागभेदः । यथा, भाग-
वते । ५ । २४ । ३१ । “ततोऽधस्तात् पाताले
नागलोकपतयो वासुकिप्रमुखाः शङ्खकुलिक-
महाशङ्खश्वेतधनञ्जयधृतराष्ट्रशङ्खचूडकम्बलाश्व-
तरदेवदत्तादयो महाभोगिनो महामर्षाः
निवसन्ति ॥” देवेन दत्ते, त्रि । यथा,
“अश्वमाशुगमारुह्य देवदत्तं जगत्पतिः ।
पृष्ठ २/७४३
असिनासाधुदमनमष्टैश्वर्य्यगुणान्वितः ॥”
इति कल्किपुराणेऽनुभागवते भविष्ये कल्कि-
जन्मोपनयने २ अध्यायः ॥)

देवदत्ताग्रजः, पुं, (देवदत्तस्य अग्रजो ज्येष्ठः ।)

बुद्धः । इति हेमचन्द्रः । २ । १५१ ।

देवदानी, स्त्री, (दैप शोधने + भावे ल्युट् । देव-

स्येव दानं शुद्धिर्यस्याः । गौरादित्वात् ङीष् ।)
घोषकाकृतिः । हस्तिघोषा इति भाषा । इति
रत्नमाला ॥

देवदारु, क्ली, (देवानां दारु । तेषां प्रियत्वात् ।)

वृक्षविशेषः । (यथा, महाभारते । ३ ।
१७८ । १० ।
“वनानि देवदारूणां मेघानामिव वागुराः ॥”)
तत्पर्य्यायः । शक्रपादपः २ परिभद्रकः ३ भद्र-
दारु ४ द्रुकिलिमम् ५ पीतदारु ६ दारु ७
पूतिकाष्ठम् ८ । इत्यमरः । २ । ४ । ५४ ॥ सुर-
दारु ९ दारुकम् १० स्निग्धदारु ११ अमरदारु
१२ शिवदारु १३ शाम्भवम् १४ भूतहारि १५
भवदारु १६ भद्रवत् १७ इन्द्रदारु १८ मस्तदारु १९
सुरभूरुहः २० । इति भावप्रकाशः ॥ सुराह्वम्
२१ देवकाष्ठम् २२ । इति रत्नमाला ॥ अस्य
गुणाः । तिक्तत्वम् । रूक्षत्वम् । श्लेष्मानिलभूत-
दोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ लघुत्वम् ।
स्निग्धत्वम् । उष्णत्वम् । कटुपाकित्वम् । विब-
न्घाध्मानशोथामतन्द्राहिक्काज्वरास्रप्रमेहपीनस-
श्लेष्मश्वासकासकण्डूसमीरनाशित्वञ्च । इति भाव-
प्रकाशः ॥ तस्य लेपनगुणः । कान्तिदत्वम् ।
आमदोषविबन्धार्शःप्रमेहज्वरनाशित्वञ्च । इति
राजनिर्घण्टः ॥ ज्वररूक्षतालक्ष्मीरक्षोविघ्न-
नाशित्वन् । इति राजवल्लभः ॥

देवदारुः, पुं, (देवप्रियं दारु यत्र ।) स्वनामख्यात-

वृक्षः । स च पार्व्वतीप्रियः । यथा, --
“अमुं पुरः पश्यसि देवदारुं
पुत्त्रीकृतोऽयं वृषभध्वजेन ।
यो हेमकुम्भस्तननिःसृतानां
स्कन्दस्य मातुः पयसां रसज्ञः ॥”
इति रघौ । २ । ३६ ॥

देवदालिका, स्त्री, (देवदालीव कायतीति । कै +

कः । टाप् पूर्ब्बह्रस्वः ।) महाकालः । इति
राजनिर्घण्टः ॥

देवदाली, स्त्री, (देवेन मेघोदयेन दालो दलनं

यस्याः । गौरादित्वात् ङीष् ।) लताविशेषः ।
घघरवेल इति सोनैया इति च हिन्दीभाषा ।
खखसावत्पुष्पवृन्ता । (यथा, सुश्रुते, सूत्रस्थाने ।
४९ अध्याये ।
“कोशातकी सप्तला शङ्खिनी देवदालीकार-
वेल्लिका चेत्युभयतो भागहराणि ॥”)
तत्पर्य्यायः । जीमूतकः २ कण्टफला ३ गरा ४
गरी ५ वेणी ६ महाकोषफला ७ कट्फला ८
घोरा ९ कदम्बी १० विषहा ११ कर्कटी १२
सारमूषिका १३ वृन्तकोषा १४ आखुविषहा
१५ दाली १६ रोमशपत्रिका १७ कुरङ्गिका १८
सुतर्कारी १९ देवताडः २० ॥ अस्या गुणाः ।
तिक्तत्वम् । उष्णत्वम् । कटुत्वम् । पाण्डुकफ-
दुर्नामश्वासकासकामलाभूतनाशित्वञ्च । तस्याः
फलस्य गुणाः । तिक्तत्वम् । कृमिश्लेष्मगुल्मशूला-
र्शोवातनाशित्वम् । स्रंसनत्वञ्च ।
“पीता गरा खरस्पर्शा विषघ्नी गरनाशिनी ॥”
इति राजनिर्घण्टः ॥
तन्नामगुणाः । यथा, भावप्रकाशे ।
“देवदाली तु वेणी स्यात् कर्कटी च गरागरी ।
देवताडो वृन्तकोशस्तथा जीमूत इत्यपि ॥
पीतापरा खरस्पर्शा विषघ्नी गरनाशिनी ।
देवदाली रसे तिक्ता कफार्शःशोथपाण्डुताः ॥
नाशयेद्वामनी तिक्ता क्षयहिक्काकृमिज्वरान् ।
देवदालीफलं तिक्तं कृमिश्लेष्मविनाशनम् ॥
संसनं गुल्मशूलघ्नमर्शोघ्नं वातजित् परम् ॥”

देवदासी, स्त्री, (देवं इन्द्रियं दास्नोति हन्तीति ।

देव + दास् + अण् । गौरादित्वात् ङीष् ।) वन-
बीजपूरकः । इति राजनिर्घण्टः । (देवाय
क्रीडायै दासी इव ।) वेश्या । इति शब्दार्थ-
कल्पतरुः ॥ (देवपरिचारिका च ॥)

देवदीपः, पुं, (देवं दीप्तिशीलं दीपयति प्रकाश-

यति बुद्धिस्थं करोतीति । दीप् + णिच् + अण् ।
यद्बा, देवेषु इन्द्रियेषु दीपः प्रकाशकः ।) लोच-
नम् । इति शब्दरत्नावली ॥

देवदुन्दुभिः, पुं, (देवानां दुन्दुभिरिव हर्षजनक-

त्वात् ।) गन्धपर्णासः । स रक्ततुलसी । इति
रत्नमाला ॥ देवानां दुन्दुभिवाद्यञ्च ॥

देवदूती, स्त्री, (देवानिन्द्रियाणि दूयन्ते अवसाद-

यन्तीति । दू ङ उपतापे + “क्तिच्क्तौ च संज्ञा-
याम् ।” ३ । ३ । १७४ । इति क्तिच् ततो
ङीष् ।) वनबीजपूरकः । इति राजनिर्घण्टः ॥

देवदेवः, पुं, (दीव्यतीति । दिव् + अच् । देवानां

देवेषु वा देवः श्रेष्ठत्वात् ।) शिवः । (यथा,
महाभारते । १ । १ । १६० ।
“यदाश्रौषमर्ज्जुनं देवदेवं
किरातरूपं त्र्यम्बकं तोष्य युद्धे ॥”)
ब्रह्मा । इति शब्दरत्नावली ॥ (यथा, देवी-
भागवते । १ । ५ । १८ ।
“स वम्रीं सन्दिदेशाथ देवदेवः सनातनः ॥”
“देवदेवो ब्रह्मेति ।” तट्टीका ॥ विष्णुः । यथा,
देवीभागवते । १ । ४ । ३५ ।
“कारणं सर्व्वलोकानां देवदेवं जगद्गुरुम् ।
वासुदेवं जगन्नाथं तप्यमानं महत्तपः ॥”
गणेशः । यथा, कथासरित्सागरे । २० । ५५ ।
“अस्तीह प्रमदोद्याने तरुमण्डपमध्यगः ।
दृष्टप्रभावो वरदः देवदेवो विनायकः ॥”)

देवद्रोणी, स्त्री, देवयात्रा । इति हारावली । १२९ ॥

(देवानां द्रोणी द्रोण्याकारत्वात् अवस्थान-
गह्वरम् । शिवलिङ्गादीनामवस्थानगह्वरम् ।
यथा, प्रायश्चित्ततत्त्वे रघुनन्दनधृतसम्बर्त्तवचनम् ।
“देवद्रोण्यां विहारे च कूपेष्वायतनेषु च ।
एषु गोषु विपन्नासु प्रायश्चित्तं न विद्यते ॥”
“देवद्रोणी स्वयम्भूलिङ्गाद्यवस्थानगह्वरम् ।”
इति रघुनन्दनः ॥)

देवद्र्यङ्, [ञ्च्] त्रि, (देवानञ्चति पूजयतीति ।

अञ्चु गतिपूजनयोः + “ऋत्विग्दधृक् इति ।”
३ । २ । ५९ । इति क्विन् । “विष्वग्देवयोश्च
टेरद्र्यञ्चतावप्रत्यये ।” ६ । ३ । ९२ । इति
अद्र्यादेशः ।) देवपूजकः । देवसमीपगन्ता ।
इत्यमरः । ३ । १ । ३४ ॥

देवधान्यं, क्ली, (देवयोग्यं धान्यमिति मध्यलोपी

समासः ।) धान्यविशेषः । देधान इति भाषा ।
जोयार इति हिन्दीभाषा । तत्पर्य्यायः । यव-
नालः २ योनलः ३ जूर्णाह्वयः ४ जोन्ताला ५
बीजपुष्पिका ६ । इति हेमचन्द्रः । ४ । २४४ ॥

देवधूपः, पुं, (देवप्रियो धूप इति मध्यलोपी

समासः ।) गुग्गुलुः । इति रत्नमाला ॥

देवनं, क्ली, (दिव् + भावे ल्युट् ।) व्यवहारः ।

जिगीषा । क्रीडा । इति मेदिनी । ने, ७६ ॥
(दीव्यति अस्मिन्निति अधिकरणे ल्युट् ।) लीलो-
द्यानम् । इति त्रिकाण्डशेषः ॥ (दीव्यति अने-
नेति । दिव + करणे ल्युट् ।) पद्मम् । इति
शब्दचन्द्रिका ॥ परिदेवनम् । इत्यमरटीकायां
भरतः ॥ द्युतिः । स्तुतिः । कान्तिः । गतिः ।
शोकः । इत्यमरटीकायां मथुरेशः ॥ द्यूतम् ।
इति स्वामी ॥ (यथा, मनौ । ९ । २२२ ।
“प्रकाशमेतत् तास्कर्य्यं यद्देवनसमाह्वयौ ।
तयोर्नित्यं प्रतिघाते नृपतिर्यत्नवान् भवेत् ॥”)

देवनः, पुं, (दीव्यत्यनेनेति । दिव + करणे ल्युट् ।)

पाशकः । इत्यमरः । २ । १० । ४५ ॥

देवनन्दी, [न्] पुं, (देवमिन्द्रं नन्दयतीति ।

नन्दि + णिनिः ।) इन्द्रद्बारपालः । इति हेम-
चन्द्रः । २ । ९० ॥

देवनलः, पुं, (देवः आकारवर्णोत्कर्षेण श्रेष्ठो

नलः ।) नलभेदः । तत्पर्य्यायः । देवनालः २
महानलः ३ वन्यः ४ नलोत्तमः ५ स्थूलनालः ६
स्थूलदण्डः ७ सुरनालः ८ सुरद्रुमः ९ । अस्य
गुणाः । अतिमधुरत्वम् । वृष्यत्वम् । ईषत्-
कषायत्वम् । नलादधिकवीर्य्यत्वम् । रसकर्म्मणि
शस्तत्वञ्च । इति राजनिर्घण्टः ॥

देवना, स्त्री, (दिव् + भावे युच् टाप् च ।) क्रीडा ।

सेवा । इति शब्दरत्नावली ॥

देवनालः, पुं, (देवो दीप्तिशीलः श्रेष्ठो वा नालः ।)

देवनलः । इति राजनिर्घण्टः ॥

देवपतिः, पुं, (देवानां पतिः ।) इन्द्रः । इति

हेमचन्द्रः । २ । ८७ ॥ (यथा, महाभारते ।
४ । २१ । ३३ ।
“सत्यं भ्रातंश्च धर्म्मञ्च पुरस्कृत्य ब्रवीमि ते ।
कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा ॥”)

देवपत्नी, स्त्री, (देवानां पत्नीव प्रियदर्शनादित्वात् ।)

मध्वालुकम् । इति त्रिकाण्डशेषः । (देवानां
पत्नी ।) देवभार्य्या ॥ (यथा, महाभारते ।
१३ । १४ । ३९३ ।
“देवानां मातरः सर्व्वा देवपत्न्यः सकन्यकाः ॥”)
पृष्ठ २/७४४

देवपथः, पुं, (देवानां पन्थाः । “ऋक्पूरब्धूः पथा-

मानक्षे । ५ । ४ । ७४ । इति अः ।) देवानां
पन्थाः । तत्पर्य्यायः । छायापथः २ सोमधारा
३ नभःसरित् ४ । इति त्रिकाण्डशेषः ॥ (यथा,
महाभारते । ३ । १४८ । २० ।
“दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः ॥”
तीर्थविशेषः । यथा, महाभारते । ३ । ८५ ।
४५ ।
“ततो देवपथं गत्वा नियतो नियतासनः ।
देवसत्रस्य यत् पुण्यं तदवाप्नोति मानवः ॥”)

देवपर्णं क्ली, (देवानां प्रियं पर्णमस्य ।) सुर-

पर्णम् । इति राजनिर्घण्टः ॥

देवपुत्त्रिका, स्त्री, (देवानां पुत्त्रिकेव प्रियत्वात् ।)

पृक्का । इति राजनिर्घण्टः ॥

देवपुत्त्री, स्त्री, (देवानां पुत्त्रीव प्रियत्वात् ।)

पृक्का । इति जटाधरः ॥

देवपूः, [र्] स्त्री, (देवानां पूः पुरी ।) अमरा-

वती । इति जटाधरः ॥

देवप्रश्नः, पुं, (देवानां ग्रहदेवतानां प्रश्नः ।) ग्रह-

नक्षत्रादिघटितजिज्ञासा । तत्पर्य्यायः । उप-
श्रुतिः २ । इति हेमचन्द्रः । २ । १७७ ॥

देवप्रियः, पुं, (देवानां प्रियः ।) पीतभृङ्गराजः ।

वकपुष्पः । इति राजनिर्घण्टः ॥

देवबला, स्त्री, (देवप्रिया बला ।) सहदेवी ।

त्रायमाणा । इति राजनिर्घण्टः ॥

देवब्रह्मा, [न्] पुं, (देवेषु ब्रह्मा इव । देवर्षित्वा-

दस्य तथात्वम् ।) नारदमुनिः । इति हेम-
चन्द्रः । ३ । ५१३ ॥

देवभवनं, क्ली, (देवानां भवनं गृहमिव । देवानां

आश्रयत्वादस्य तथात्वम् ।) अश्वत्थः । इति
शब्दचन्द्रिका ॥ स्वर्गः ॥ (देवप्रतिमा-निके-
तनञ्च ॥)

देवभूः, पुं, (देवं देवत्वं भवते प्राप्नोतीति । भूप्राप्तौ

+ क्विप् ।) देवः । इति शब्दरत्नावली ॥ (देवानां
भूर्निवासभूमिरुत्पत्तिर्वा यत्र ।) स्वर्गश्च ॥

देवभूतिः, स्त्री, (देवात् देवलोकात् भूतिरुत्पत्ति-

र्यस्याः ।) मन्दाकिनी । इति शब्दरत्नावली ॥
(देवानां भूतिरिति विग्रहे । देवैश्वर्य्यम् ॥)

देवभूयं, क्ली, (देवस्य भावः । भू + “भुवो भावे ।”

३ । १ । १०७ । इति क्यप् ।) देवत्वम् । देव-
सायुज्यम् । इत्यमरः । २ । ७ । ५२ ॥

देवमणिः, पुं, (देवेषु मणिरिव ।) भर्गः । (देवो-

द्योतनशीलो मणिः ।) कौस्तुभः । अश्वरोमा-
वर्त्तः । इति मेदिनी । णे, ९७ ॥ (यथा,
शिशुपालवधे । ५ । ४ ।
“आवर्त्तिनः शुभफलप्रदशुक्तियुक्ताः
सम्पन्नदेवमणयो भृतरन्ध्रभागाः ।
अश्वाः प्यधुर्वसुमतीमतिरोचमाना-
स्तूर्णं पयोधय इवोर्म्मिभिरापतन्तः ॥”)
महामेदा । इति राजनिर्घण्टः ॥

देवमाता, [ऋ] स्त्री, (देवानां माता ।) अदितिः ।

इति त्रिकाण्डशेषः ॥ (यथा, भागवते । ३ । १ । ३३ ।
“कच्चिच्छिवं देवकभोजपुत्त्र्या
विष्णुप्रजाया इव देवमातुः ॥”
देवमातृमात्रम् । यथा, महाभारते । १३ । १४ । ३८ ।
“देवपत्न्यो देवकन्या देवमातर एव च ॥”)

देवमातृकः, त्रि, (देवो वृर्ष्टिर्मातेव शस्योत्पाद-

नेन पालकत्वात् जननीव यस्य । कप् ।) वृष्ट्यम्बु-
सम्पन्नव्रीहिपालितदेशः । इत्यमरः । २ । १ । १२ ॥
(यथा, महाभारते । २ । ५ । ७८ ।
“कच्चिद्राष्ट्रे तडागानि पूर्णानि च बृहन्ति च ।
भागशो विनिविष्टानि न कृषिर्देवमातृका ॥”)

देवमानकः, पुं, (देवेषु मानो यस्य । कप् ।

संज्ञायां कन् वा ।) कौस्तुभमणिः । इति शब्द-
रत्नावली ॥

देवमासः, पुं, (देवाय भ्रूणस्य क्रीडनाय यो मासः ।

अत्र हि स्मृतेरोजसश्च प्रादुर्भावात् गर्भस्य
क्रीडनादित्वात् तथात्वम् ।) गर्भस्याष्टममासः ।
तत्पर्य्यायः । गर्भाष्टमः २ । इति त्रिकाण्डशेषः ॥
देवानां मासः । स मनुष्यमाने त्रिंशद्वर्षात्मकः ॥

देवयजिः, पुं, (देवान् यजते इति । यज + “सर्व्व-

घातुभ्य इन् ।” उणां ४ । ११७ । इति इन् ।)
देवपूजकः । मुनिः । यथा, भट्टिः । २ । ३४ ।
“अद्मो द्बिजान् देवयजीन् निहन्मः ॥”

देवयज्ञः, पुं, (देवानां यज्ञः ।) होमः । इति हेम-

चन्द्रः । ३ । ४८५ ॥ (यथा, मनुः । ४ । २१ ।
“ऋषियज्ञं देवयज्ञं भूतयज्ञञ्च सर्व्वदा ॥”)

देवयात्रा, स्त्री, (देवानां यात्रा ।) देवगमनम् ।

तत्पर्य्यायः । देवद्रोणी २ । इति हारावली ।
१२९ ॥ देवोत्सवादि ॥ (यथा, कथासरित्-
सागरे । २५ । १२१ ।
“एकदा देवयात्रायां तत्र मल्लसमागमे ।
अगादेको महामल्लः ख्यातिमान् दक्षिणा-
पथात् ॥”)

देवयानं, क्ली, (देवानां यानम् ।) देवविमानम् ।

देवरथः । इति शब्दार्थकल्पतरुः ॥ (त्रि, देव-
प्रापनीयम् । यथा, ऋग्वेदे । १ । १६२ । ४ ।
“यद्धविष्यमृतुशो देवयानं
त्रिर्मानुषा पर्य्यश्वं नयन्ति ॥”
देवप्रापकम् । यथा, तत्रैव । ७ । ७६ । २ ।
“प्र मे पन्था देवयाना अदृश्र-
न्नमर्द्धन्तो वसुभिरिष्कृतासः ॥”)

देवयानी, स्त्री, शुक्राचार्य्यकन्या । सा ययातिराज-

पत्नी । इति श्रीभागवतम् ॥ (पुरा किल
बृहस्पतिपुत्त्रः कचो देवकार्य्यार्थं सञ्जीवन-
विद्यार्थी असुरगुरुमुपागमत् । देवयानीयं तं
युवानं मनोहरञ्चावलोक्य तेन सङ्गता भवितुमि-
येष । कचस्तु गुरुकन्यामेनां ज्ञात्वा पाणिमस्या
ग्रहीतुं न स्वीचकार । अस्मादेवासौ देवयानी
प्राप्तविद्यंतं “न ते विद्या सिद्धिमेषा गमिष्यति”
इति शशाप । कचस्तु निरपराधोऽपि शापाहतः
क्रुद्धश्च “ऋषिपुत्त्रो न ते कश्चिज्जातु पाणिं
ग्रहीष्यति” इत्येनां शप्तवान् । अयमेवास्या
ब्राह्मणकन्याया अपि क्षत्त्रियपत्नीत्वे हेतुः ।
अथ कदाचित् क्रीडन्तीनां कन्यानां वस्त्र-
वैपरीत्यं जातम् । देवयानी स्वीयवस्त्रग्रह-
णेन वृषपर्ब्बणोऽसुरराजस्य सुतां शर्म्मिष्ठां
चुक्रोश । शर्म्मिष्ठा तु तदसहमाना तां कूप-
मध्ये प्राक्षिपत् । अथ गच्छति काले ययाति-
र्मृगयां गतस्तृषार्तो जलमन्विष्यन् तत्रैव
कूपसमीपमागत्य देवयानीं तन्मध्यस्थां दृष्ट्वा
तस्या दक्षिणं पाणिं गृहीत्वा उत्थापयामास ।
अथ देवयानी कूपात् मुक्ता पितृसमीप-
मागत्य सर्व्वं विज्ञापितवती । अथ शुक्रे क्रोधा-
दसुरराज्यात् गन्तुमुद्यते वृषपर्व्वासुरराजः
स्वीयकन्यां शर्म्मिष्ठां कन्यासहस्रपरिवृतां परि-
चारकत्वेन प्रदाय स्वगुरुन्तं देवयानीञ्च प्रसा-
दयामास । अथ कदाचित् देवयानी पित्र-
नुज्ञया नाहुषं ययातिं पतित्वेन स्वीकृत्य तेन
सह विजहार । अस्याः पुत्त्रौ द्बौ यदुस्तुर्व्वसुश्च ।
गच्छति काले देवयानी राज्ञा सह वनं गत्वा
त्रीनपरान् कुमारान् क्रीडतस्तत्र दृष्ट्वा नृपौ-
रसात् शर्म्मिष्ठागर्भे जातांश्च तान् विज्ञाय क्रोध-
परवशा पितृसमीपं प्रस्थितवती । शुक्रस्तु दुहि-
तरमवमानितां विदित्य राजानं जरया योजया-
मास ॥ एतद्विशेषविवरणविस्तृतिस्तु महा-
भारते । १ । ७६-८३ । अध्यायेषु ज्ञातव्या ॥ * ॥)

देवयुः, त्रि, (देवं याति उपास्यत्वेन प्राप्नोतीति ।

या + “मृगयादयश्च ।” उणां । १ । ३८ इति कुः ।)
धार्म्मिकः । (यथा, ऋग्वेदे । १ । १५४ । ५ ।
“तदस्य प्रियमभिपाथो अश्यां नरो यत्र देव-
यवो मदन्ति ॥”
“देवयवो देवं द्योतेनस्वभावं विष्णुमात्मन
इच्छन्तो यज्ञदानादिभिः प्राप्तुमिच्छन्तो नरः ।”
इति तद्भाष्ये सायनः ॥) लोकयात्रिकः । इति
मेदिनी । ये, ८६ ॥ देवे, पुं । इति शब्दरत्नावली ॥

देवयोनिः, पुं, स्त्री, देव एव योनिर्निदानभूतो यस्य

सः । तद्यथा, विद्याधराः १ अप्सरसः २ यक्षाः ३
राक्षसाः ४ गन्धर्व्वाः ५ किन्नराः ६ पिशाचाः
७ गुह्यकाः ८ सिद्धाः ९ भूतगणः १० । इत्य-
मरः । १ । १ । ११ ॥ (देवानां योनिः । देव-
स्थानम् । यथा, महाभारते । ३ । ११४ । २८ ।
“अन्यथा हि कुरुश्रेष्ठ ! देवयोनिरपांपतिः ।
कुशाग्रेणापि कौन्तेय ! न प्रष्टव्यो महोदधिः ॥”)

देवरः, पुं, (दीव्यत्यनेनेति । दिव्यु क्रीडायाम् +

“अर्त्तिकमिभ्रमीति ।” उणां ३ । १३२ । इति
अरः ।) पत्युः कनिष्ठभ्राता । देओर इति
भाषा । (“देवरः कस्मात् द्वितीयो वर उच्यते ।”
इति निरुक्तेः । ३ । १५ ॥) तत्पर्य्यायः । देवा
२ । इत्यमरः । २ । ६ । ३२ ॥ देवॄः ३ देवारः ४
देवानः ५ । इति जटाधरः ॥ तुरागावः ६
देवल्ली ७ । इति शब्दरत्नावली ॥ (यथा,
मनुः । ९ । ५९ ।
“देवराद्वा सपिण्डाद्वा स्त्रिया सम्यङ्नियुक्तया ।
प्रजेप्सिताधिगन्तव्या सन्तानस्य परिक्षये ॥”)
पत्युर्ज्येष्ठो भ्राता तु श्वशुरः । इति भरतः ॥
पृष्ठ २/७४५

देवरथः, पुं, (देवानां रथः ।) देवानां विमानः ।

इति हलायुधः ॥ स च पुष्पकादिः ॥

देवराजः, पुं, (देवानां राजा । “राजाहःसखि-

भ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।) इन्द्रः । इति
त्रिकाण्डशेषः ॥ (यथा, महाभारते । १ । ८६ । ७ ।
“देवराजसमो ह्यासीत् ययातिः पृथिवीपतिः ॥”)
तस्य नामानि यथा, --
“इन्द्रः सुरपतिः शक्रो दितिजः पवनाग्रजः ।
सहस्राक्षो भगाङ्कश्च कश्यपाङ्गज एव च ॥
विडोजाश्च सुनासीरो मरुत्वान् पाकशासनः ।
जयन्तजनकः श्रीमान् शचीशो दैत्यसूदनः ॥
वज्रहस्तः कामसखा गौतमीव्रतनाशनः ।
वृत्रहा वासवश्चैव दधीचिदेहभिक्षुकः ॥
जिष्णुश्च वामनभ्राता पुरुहूतः पुरन्दरः ।
दिवस्पतिः शतमखः सूत्रामा गोत्रजिद्विभुः ॥
लेखर्षभो बलारातिर्जम्भभेदी सुराश्रयः ।
संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः ॥
आखण्डलो हरिहयो नमुचिप्राणनाशनः ।
वृद्धश्रवा वृषश्चैव दैत्यदर्पनिसूदनः ॥
षट्चत्वारिंशन्नामानि पापघ्नानि विनिश्चितम् ॥”
इति ब्रह्मवैवर्त्ते जन्मखण्डम् ॥

देवरातः, पुं, (रै + क्तः । देवेन श्रीकृष्णेन रातः

रक्षितः ।) परिक्षित् राजा । इति श्रीभाग-
वतम् ॥ सारसपक्षिविशेषः । इति शब्दार्थ-
कल्पतरुः ॥ (विश्वामित्रपुत्त्रः । यथा, हरि-
वंशे । २७ । ४७ ।
“विश्वामित्रस्य पुत्त्रास्तु देवरातादयः स्मृताः ॥”
एतन्निरुक्तिर्यथा भागवते । ९ । १६ । ३२ ।
“यो रातो देवयजने देवैर्गाधिषु तापसः ।
देवरात इति ख्यातः शुनःशेफस्तु भार्गवः ॥”
निमेर्ज्येष्ठः पुत्त्रः । यथा, रामायणे । १ । ६६ । ८ ।
“देवरात इति ख्यातो निमेर्ज्येष्ठो महीपतिः ॥”
युधिष्ठिरस्य सभास्थक्षत्त्रियाणामन्यतमः । यथा,
महाभारते । २ । ४ । २६ ।
“चानूरो देवरातच्च भोजो भामरथश्च यः ॥”)

देवर्षिः, पुं, (देव ऋषिश्च । देवानां ऋषिर्वा ।)

सुरर्षिः । तद्यथा । नारदः १ अत्रिः २ मरीचिः
३ भरद्वाजः ४ पुलस्त्यः ५ पुलहः ६ क्रतुः ७
भृगुः ८ वशिष्ठः ९ प्रचेताः १० । इत्यमरटीका-
सारसुन्दरी ॥ (यथा, महाभारते । १२ ।
२१० । २१ ।
“देवर्षिचरितं गार्म्यः कृष्णात्रेयश्चिकित्सितम् ॥”
तुम्बुरुभरतादिः । इति तट्टीकायां भरतः ॥
कणादादिः । इति त्रिकाण्डशेषः ॥ (महादेवः ।
यथा, महाभारते । १३ । १७ । १४४ ।
“देवादिदेवो देवर्षिर्देवासुरवरप्रदः ॥”)

देवलः, पुं, (देवं लाति गृह्णाति निजजीविकार्थ-

मिति । देव + ला आदाने + “आतोऽनुपेति ।”
३ । २ । ३ । इति कः ।) देवाजीवः । जीविकार्थं
यो देवान् गृहीतवान् । इत्यमरः । २ । १० । ११ ॥
पूजारि वामन इति भाषा ॥ देवोपजीवजीवी ।
यथा, --
“देवोपजीवजीवी च देवलश्च प्रकीर्त्तितः ॥”
इति ब्रह्मवैवर्त्तपुराणम् ॥
“चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा ।
विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः ॥”
इति मनुः । ३ । १५१ ॥
“देवलः प्रतिमापरिचारकः वर्त्तनार्थत्वेनैतत्
कर्म्म कुर्व्वतोऽयं निषेधः न तु धर्म्मार्थम् । देवको-
षोपजीवी च नाम्ना देवलोको भवेदिति देवल-
वचनात् ।” इति तट्टीकायां कुल्लूकभट्टः ॥ * ॥
(दीव्यति आनन्देनेति । दिव + “वृषादिभ्य-
श्चित् ।” उणां १ । १०८ । इति कलच् ।)
धार्म्मिकः । इत्युणादिकोषः ॥ नारदमुनिः ।
इति त्रिकाण्डशेषः ॥ (रलयोरैक्यात् ।) देवरः ।
इति शब्दरत्नावली ॥ धर्म्मशास्त्रवक्ता मुनि-
विशेषः । इति भगवद्गीता ॥ स असितमुनिपुत्त्रः
रम्भाशापेनाष्टावक्रो बभूव । इति ब्रह्मवैवर्त्ते
श्रीकृष्णजन्मखण्डम् ॥ (अयन्तु वेदव्यासस्य
शिष्यः । यथा, देवीभागवते । १ । २० । ३ ।
“असितो देवलश्चैव वैशम्पायन एव च ।
जैमिनिश्च सुमन्तुश्च गताः सर्व्वे तपोधनाः ॥”
प्रत्यूषस्य ऋषेः पुत्त्रः । यथा, विष्णुपुराणे । १ ।
१५ । ११५ ।
“प्रत्यूषस्य विदुः पुत्त्रं ऋषिं नाम्नाथ देवलम् ॥”)

देवलकः, पुं, (देवल एव । स्वार्थे कन् ।) देवलः ।

इति जटाधरः ॥ (यथा, महाभारते । १२ । ७६ । ६ ।
“आह्वायका देवलका नक्षत्रग्रामयाजकाः ।
एते ब्राह्मणचाण्डाला महापथिकपञ्चमाः ॥”)

देवलता, स्त्री, (देवप्रिया लता ।) नवमल्लिका ।

इति शब्दचन्द्रिका ॥

देवलाङ्गुलिका, स्त्री, (देवयति परिदेवयत्यनेनेति ।

देव + णिच् + घञ् । देवः लाङ्गुलिकः शूको
यस्याः ।) वृश्चिकालिः । इति राजनिर्घण्टः ॥

देवलोकः, पुं, (देवानां लोकः ।) स्वर्गः । इति

त्रिकाण्डशेषः ॥ (यथा, देवीभागवते । ५ । ३ । ४६ ।
“तस्मात् सज्जा भवन्त्वद्य देवलोकजयाय वै ॥”)
अपि च । मत्स्यपुराणे ।
“भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महर्जनः ।
तपः सत्यञ्च सप्तैते देवलोकाः प्रकीर्त्तिताः ॥”)

देववक्त्रं, क्ली, (देवानां वक्त्रम् । तद्द्वारेणैव

यज्ञादौ हव्यादिभोजनात् तथात्वम् ।) अग्निः ।
इति शब्दचन्द्रिका ॥ देवानां मुखञ्च ॥

देववर्द्धकिः, पुं, (देवानां वर्द्धकिस्त्वष्टा ।) विश्व-

कर्म्मा । इति हेमचन्द्रः । २ । ९६ ॥

देववल्लभः, पुं, (देवानां वल्लभः प्रियः ।) पुन्नाग-

वृक्षः । इत्यमरः । २ । ४ । २५ ॥

देववृक्षः, पुं, (देवप्रियो वृक्षः ।) सप्तपर्णवृक्षः ।

मन्दारवृक्षः । गुग्गुलुः । इति मेदिनी । षे,
५२ ॥ अवशिष्टा देवतरुशब्दे पुं द्रष्टव्याः ॥

देवव्रतः, पुं, (देवं अपरिग्रहादिरूपत्वात् द्योतन-

शीलं व्रतं यस्य । यद्बा, देवस्येव व्रतं स्थिर-
प्रतिज्ञा यस्य ।) भीष्मः । इति त्रिकाण्डशेषः ॥
(यथा, देवीभागवते । १ । २० । १९ ।
“चित्राङ्गदं ततो राज्ये स्थापयामास वीर्य्यवान् ।
स्वयं न कृतवान् राज्यं तस्माद्देवव्रतोऽभवत् ॥”)
देवानां व्रतञ्च ॥

देवशेखरः, पुं, (देवः क्रीडाप्रदः शेखरो यस्य ।)

दमनकः । इति राजनिर्घण्टः ॥ देवानां मस्त-
कञ्च ॥

देवश्रुतः, पुं, (देवेषु श्रुतः विख्यातः ।) ईश्वरः ।

शास्त्रम् । नारदः । इति शब्दार्थकल्पतरुः ॥
(शुकस्य पुत्त्रविशेषः । यथा, देवीभागवते ।
१ । १९ । ४१ ।
“स तस्याञ्जनयामास पुत्त्रांश्चतुर एव हि ।
कृष्णं गौरप्रभञ्चैव भूरिं देवश्रुतं तथा ॥”)

देवश्रेणी, स्त्री, (देवानां श्रेणीव ।) मूर्व्वा । इति

राजनिर्घण्टः ।

देवसभा, स्त्री, (देवानां सभा ।) देवानां समाजः ।

तत्पर्य्यायः । सुधर्म्मा २ । इत्यमरः । १ । १ ।
५१ ॥ शुभा ३ । सुधर्म्मा [न्] ४ । इति शब्द-
रत्नावली ॥ सुधर्म्मी ५ । इत्यमरटीकायां
भरतः ॥

देवसभ्यः, त्रि, (देवस्य क्रीडायाः सभा तस्यां

सीदतीति । यत् ।) क्रीडासभास्थः । तत्पर्य्यायः ।
सभिकः २ । इति त्रिकाण्डशेषः ॥ देवसामा-
जिकश्च ॥

देवसर्षपः, पुं, (देवप्रियः सर्षपः ।) वृक्षप्रभेदः ।

तत्पर्य्यायः । अश्वाक्षः २ वदरः ३ रक्तमूलकः
४ सुरसर्षपकः ५ सूक्ष्मदलः ६ निर्ज्जरसर्षपः ७
कुरराङ्घ्रिः ८ । अस्य गुणाः । कटुत्वम् । उष्ण-
त्वम् । कफजन्तुदोषरक्तामयनाशित्वम् । रुच्य-
त्वञ्च । इति राजनिर्घण्टः ॥

देवसहा, स्त्री, (सहते या । सह + अच् + टाप् ।

देवस्य सहा ।) दण्डोत्पलौषधिः । भिक्षासूत्रम् ।
इति विश्वः ॥

देवसात्, व्य, (देवाय देयं देवाधीनं वा करोतीति ।

देव + सात् ।) सकलजना देवभावाश्रयाः ।
देवाधीनम् । देवदेयम् । यथा, --
“साकल्याधीनत्वदेवार्थेषु अससंपूर्ब्बपदकृभू-
धातुषु परेषु चसात्प्रत्ययो भवति । देयेऽर्थे
पूर्ब्बोक्तधातुषु परेषु त्राच्प्रत्ययोऽपि । यथा
देवाय देयं करोति देवत्राकरोति ।” इति
मुग्धबोधव्याकरणम् ॥ (यथा, महाभारते ।
७ । १८७ । ५८ ।
“जित्वा वा बहुभिर्यज्ञैर्यजध्वं भूरिदक्षिणः ।
हता वा देवसाद्भूत्वा लोकान् प्राप्यथ पुष्क-
लान् ॥”)

देवसायुज्यं, क्ली, (देवेन सायुज्यं संमिलनम् ।)

देवत्वम् । इत्यमरः । २ । ७ । ५२ ॥

देवसृष्टा, स्त्री, (देवाय क्रीडार्थं सृष्टा ।) मद्यम् ।

इति हेमचन्द्रः । ३ । ५६७ ॥

देवसेना, स्त्री, इन्द्रकन्या । इति मेदिनी । न,

१८७ ॥ (प्रजापतेः कन्या । इति महाभारतभ् ।
३ । २२३ । १ ॥) सा षष्ठी । (यथा, ब्रह्मवैवर्त्त-
पुराणे प्रकृतिखण्डे । १ । ७३ -- ७४ ।
पृष्ठ २/७४६
“प्रधानांशस्वरूपा या देवसेना च नारद ! ।
मातृकासु पूज्यतमा सा च षष्ठी प्रकीर्त्तिता ॥
शिशूनां प्रतिविश्वेषु प्रतिपालनकारिणी ।
तपस्विनी विष्णुभक्ता कार्त्तिकेयस्य कामिनी ॥”
इयं हि यथा यथा कार्त्तिकेयस्य पत्नी जाता
तद्बिवरणं महाभारते । ३ । २२३ अध्यायमारभ्य
विस्तरशो द्रष्ठव्यम् ॥) देवानां सेना । इति हेम-
चन्द्रः ॥ (यथा, महाभारते । ३ । २२२ । ५ ।
“देवसेनां दानवैर्यो भग्नां दृष्ट्वा महाबलः ।
पालयेद्बीर्य्यमाश्रित्य स ज्ञेयः पुरुषो मया ॥”)

देवसेनापतिः, पुं, (देवसेनायाः पतिः ।) कार्त्ति-

केयः । इति शब्दरत्नावली ॥

देवस्वं, क्ली, (देवस्य स्वं धनम् ।) देवस्वत्तास्पदि-

धनम् । यथा, --
“ब्रह्मस्वञ्च गुरोर्द्रव्यं देवस्वञ्च हरेत्तु यः ।
कन्यां ददाति शुल्केन स प्रेतो जायते मृतः ॥”
इति महाभारते पञ्चप्रेतोपाख्यानम् ॥
(यथा च मनुः । ११ । २६ ।
“देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः ।
स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ॥”
यज्ञशीलधनम् । यथा, मनुः । ११ । २० ।
“यद्धनं यज्ञशीलानां देवस्वं तद्विदुर्बुधाः ॥”)

देवहूः, पुं, (ह्वे + भावे क्विप् । देवानां हूराह्वान-

मनेनेति ।) वामकर्णः । यथा,
“आपणो व्यवहारोऽत्र चित्रमन्धो बहूदनम् ।
पितृहूर्दक्षिणः कर्ण उत्तरो देवहूः स्मृतः ॥”
इति श्रीभागवते । ४ । २९ । १२ ॥
(त्रि, देवानाह्वयतीति । ह्वे + कर्त्तरि क्विप् ।
देवानां आह्वाता । यथा, वाजसनेयसंहि-
तायाम् । १७ । ६२ ।
“देवहूर्यज्ञ आ च वक्षत्सुम्रहूर्यज्ञ आ च
वक्षत् ॥”)

देवा, [ऋ] पुं, (दीव्यत्यनेनेति । दिव + “दिवेरृः ।”

उणां २ । १०० । इति ऋः ।) देवरः । इत्य-
मरः । २ । ६ । ३२ ॥ (यथा, ऋग्वेदे । १० ।
८५ । ४६ ।
“ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥”)
रण्डापतिः । इति संक्षिप्तसारे उणादिवृत्तिः ॥

देवा, स्त्री, (दिव्यते ऽनया । दिव + घञ् । तत-

ष्टाप् ।) पद्मचारिणी । अशनपर्णी । इति
शब्दचन्द्रिका ॥ (मूर्व्वा । अस्याः पर्य्याया यथा,
वैद्यकरत्नमालायाम् ।
“तेजनी पिलुनी देवा तिक्तवल्ली पृथक्त्वचा ।
धनुःश्रेणी मधुरसा मूर्व्वा निर्द्दहनीति च ॥”)

देवाजीवः, त्रि, (देवेन देवप्रतिमासेवनेन

आजीवतीति । आ + जीव + अच् ।) देवलः ।
इत्यमरः । २ । १० । ११ ॥

देवजीवी, [न्] त्रि, (देवेन आजीवतीति । आ +

जीव + णिनिः ।) देवलः । इत्यमरटीकायां
रमानाथः ॥

देवाटः, पुं, (अट गतौ + भावे घञ् । देवानां

आटो गमनं यत्र ।) हरिहरक्षेत्रम् । यथा,
“यदा नन्दी शूलपाणिर्गोधनेन पुरस्कृतः ।
स्थितवान् तद्दिनादेव क्षेत्रं हरिहरात्मकम् ॥
देवानामटनाच्चैव देवाट इतिसंज्ञितम् ॥”
इति वराहपुराणम् ॥

देवात्मा, [न्] पुं, (देव आत्मा अधिष्ठातृदेवता

यस्य ।) अश्वत्थः । इति शब्दचन्द्रिका ॥

देवानाम्प्रियः, पुं स्त्री, (देवानां प्रियः । “देवानां

प्रिय इति च मूर्खे ।” ६ । ३ । २१ । इत्यस्येति
वर्त्तिकोक्त्या षष्ठ्या अलुक् । छागस्य पशुत्वादेव
मूर्खत्वं बोध्यम् ।) छागः । इति त्रिकाण्डशेषः ॥
त्रि, जाल्मः । इति हेमचन्द्रः । ३ । १७ ॥

देवापिः, पुं, प्रतीपराज्ञः पुत्त्रः । स सुमेरुसमीपे

कलापग्रामे योगी भूत्वा आस्ते स कलौ लुप्तं
चन्द्रवंशं पुनः सत्ययुगे भावयिष्यति । इति
श्रीभागवतम् ॥ स च कुष्ठी प्रजाभिरपध्यातः ।
इति मत्स्यपुराणम् ॥ (यथा, महाभारते । १ ।
९५ । ४४--४५ ।
“प्रतिश्रवसः प्रतीपः प्रतीपः खलु शैव्यामुपयेमे
सुनन्दां नाम तस्यां पुत्त्रानुत्पादयामास देवापिं
शान्तनुं बाह्वीकञ्चेति । देवापिः खलु बाल एवा-
रण्यं विवेश शान्तनुस्तु महीपालो बभूव ॥”
वैदिकमते तु अयं ऋष्टिषेणस्य पुत्त्रः । यथा,
निरुक्ते । २ । १० ।
“देवापिश्चार्ष्टिषेणः शन्तनुश्च कौरव्यौ भ्रातरौ
बभूवतुः । स शन्तनुः कनीयानभिषेचयाञ्चक्रे
देवापिस्तपः प्रतिपेदे । ततः शन्तनो राज्ये
द्वादशं वर्षाणि देवो न ववर्ष । तमूचुः ब्राह्मणा
अधर्म्मस्त्वया चरितो ज्येष्ठं भ्रातरमन्तरित्याभि-
षेचितं तस्मात् ते देवो न वर्षतीति । स शन्तनु-
र्देवापिं शिशिक्ष राज्येन । तमुवाच देवापिः
पुरोहितस्तेऽसानि याजयानि च त्वेति । तस्यै
तद्वर्षकामसूक्तम् ॥” तथा च ऋग्वेदे । १० ।
९८ । ५ ।
“आर्ष्टिषेणो होत्रमृषिर्निषीदन् देवापिर्देव-
सुमतिं चिकित्वान् ॥”)

देवाभीष्टा, स्त्री, (देवानामभीष्टा प्रिया ।)

ताम्बूली । इति शब्दचन्द्रिका ॥

देवायतनं, क्ली, (देवानामायतनं गृहम् ।) देवा-

लयः । यथा, कूर्म्मपुराणे ।
“न देवायतनं गच्छेत् कदाचिद्वाप्रदक्षिणम् ।
न पीडयेद्बा वस्त्राणि न देवायतनेष्वपि ॥”)

देवायुधं, क्ली, (देवस्य इन्द्रस्य आयुधम् ।) शक्र-

धनुः । इति हेमचन्द्रः । २ । ९३ ॥ देवानामस्त्रञ्च ॥

देवार्हं, क्ली, (देवमर्हतीति । अर्ह + अण् ।)

सुरपर्णम् । इति राजनिर्घण्टः ॥

देवार्हा, स्त्री, (देवार्ह + टाप् ।) सहदेवी लता ।

इति राजनिर्घण्टः ॥

देवालयः, पुं, (देवानामालय आवासः ।) स्वर्गः ।

(यथा, देवीभागवते । ५ । ४ । ४ ।
“त्यज देवालयं शक्र ! यथेष्टं व्रज वासव ! ॥”)
देवगृहम् । इति शब्दार्थकल्पतरुः ॥ (यथा,
साहित्यदर्पणे । ३ । ८६ ।
“क्षेत्रं वाटी भग्रदेवालयो दूतीगृहं वनम् ॥”)

देवाला, स्त्री, (देवानपि आलाति स्वायत्तीकरो-

तीति । आ + ला + कः ।) रागिणीविशेषः ।
इति हलायुधः ॥

देवावासः, पुं, (देवानां आवासो वासस्थानम् ।)

अश्वत्थवृक्षः । इति त्रिकाण्डशेषः ॥

देवाश्वः, पुं, (देवस्य इन्द्रस्य अश्वः ।) इन्द्रघोटकः ।

उच्चैःश्रवाः । इति हलायुधः ॥

देविका, स्त्री, (दीव्यतीति । दिव + ण्वुल् । टापि

अत इत्वम् ।) नदीविशेषः । इति शब्दरत्ना-
वली ॥ तस्याः परिमाणं यथा, --
“अर्द्धयोजनविस्तारां पञ्चयोजनमायताम् ।
एतावद्देविकामाहुर्देवर्षिपरिसेविताम् ॥”
इति पाद्मे भूमिखण्डम् ॥
(इयं हिमवत्पादनिःसृता । इति मत्स्यपुरा-
णम् । ११३ । २१ ॥ अनया सह सरयूः सङ्गता ।
इति कालिकापुराणम् । २३ अः ॥ इयन्तु
तीर्थस्थानानामन्यतमा । अत्र नरः स्नात्वा
महादेवं समभ्यर्च्च्य यथाशक्ति चरुं निवेद्य च
सर्व्वकामसमृद्धस्य यज्ञस्य फलं लभते । इति
महाभारतम् । ३ । ८२ । ९९ ॥ इयं हि पीठ-
स्थानानाम् अन्यतमा । अत्र भगवती नन्दिनी-
रूपेण विराजते । यथा, देवीभागवते । ७ ।
३० । ६९ ।
“शिवकुण्डे शुभानन्दा नन्दिनी देविकातटे ॥”
युधिष्ठिरस्य पत्नीविशेषः । यथा, महाभारते ।
१ । ९५ । ७६ ।
“युधिष्ठिरस्तु गोवासनस्य शैव्यस्य देविकां नाम
कन्यां स्वयंवरां लेभे । तस्यां पुत्त्रं जनयामास
यौधेयं नाम ॥”) धुस्तूरः । इति भावप्रकाशः ॥
देवसम्बन्धिनि, त्रि ॥

देविलः, त्रि, (दीव्यति आनन्देनेति । दिव +

“गुपादिभ्यः कित् ।” उणा १ । ५७ । इति
इलच् ।) घार्म्मिकः । इत्युणादिकोषः ॥

देवी, स्त्री, (दीव्यतीति । दिव + अच् ततो ङीप् ।)

दुर्गा । इति घरणी ॥ (यथा, मार्कण्डेये । ८४ । २ ।
“देव्या यया ततमिदं जगदात्मशक्त्या
निःशेषदेवगणशक्तिसमूहमूर्त्त्या ॥”)
नाट्योक्तौ कृताभिषेका राजपत्नी । इत्यमरः ।
१ । ७ । १३ ॥ मूर्व्वा । (यथा, भावप्रकाशे । १ । १ ।
“मूर्व्वा मधुरसा देवी मोरटा तेजनी स्रुवा ॥”)
पृक्का । इति मेदिनी । वे, १२ ॥ (देवानां पत्नी ।
ङीष् ।) सामान्यदेवपत्नी । यथा, देवीनां
दक्षिणायने इति स्मृतिः ॥ ब्राह्मणस्त्रीनामोप-
पदम् । यथा, देव्यन्ता हि स्त्रियो मताः । इत्यु-
द्बाहतत्त्वम् ॥ अपि च, कर्म्मविपाके ।
“देव्यन्ताश्च स्त्रियः सर्व्वा दास्यन्ताः शूद्र-
योनयः ॥”
आदित्यभक्ता । लिङ्गिनी । बन्ध्याकर्कोटकी ।
शालिपर्णी । महाद्रोणी । पाठा । नागरसुस्ता ।
मृगेर्व्वारुः । हरीतकी । अतसी । श्यामानाम-
पक्षिजातिः । इति राजनिर्घण्टः ॥ (उपनिष-
पृष्ठ २/७४७
द्विशेषः । स तु अथर्व्ववेदान्तर्गतः । यथा,
मुक्तिकोपनिषदि ।
“त्रिपुरातापनं देवी त्रिपुराकटभावना ॥”)

देवीकोटः, पुं, (देव्याः कोटो दुर्गमिव ।) बाण-

पुरम् । इति त्रिकाण्डशेषः ॥

देवेज्यः, पुं, (देवानामिज्यः पूज्यः ।) बृहस्पतिः ।

इति शब्दरत्नावली ॥

देवेष्टः, पुं, (देवानामिष्टः प्रियः ।) महामेदा ।

गुग्गुलुः । इति राजनिर्घण्टः ॥ देववाञ्छिते, त्रि ॥

देवेष्टा, स्त्री, (देवानामिष्टा ।) वनबीजपूरकः ।

इति राजनिर्घण्टः ॥

देवोद्यानं, क्ली, (देवानां उद्यानं वनम् ।) देवानां

वनम् । तद्यथा । वैभ्राजम् । मिश्रकम् । शिध्र-
कारणम् । चैत्ररथम् । इति त्रिकाण्डशेषः ॥

देशः, पुं, (दिश्यते निर्द्दिश्यते इति । दिश

निर्द्देशे + कर्म्मणि घञ् ।) भूगोलभागविशेषः ।
इति सिद्धान्तमञ्जरी ॥ जनपदे जनपदसमुदाये
जनपदैकदेशे सजलनिर्जलस्थानमात्रे च । इत्य-
मरटीकायां भरतः ॥ स त्रिविधः । जाङ्गलः
अनूपः साधारणश्च । तत्पर्य्यायः । जनपदः १
नीवृत् २ विषयः ३ उपवर्त्तनम् ४ । इति राज-
निर्घण्टः ॥ प्रदेशः ५ राष्ट्रम् ६ । इति शब्द-
रत्नावली ॥ * ॥ अथ देशे वर्णनीयानि । रत्नम्
१ खनिः २ द्रव्यम् ३ पण्यम् ४ धान्यम् ५
करोद्भवः ६ दुर्गग्रामः ७ जनाधिक्यम् ८ नदी-
मातृकतादि ॥ * ॥ अथ ग्रामे वर्णनीयानि ।
धान्यम् १ लता २ वृक्षः ३ सरः ४ पशुपुष्टिः ५
क्षेत्रम् ६ अरघट्टः ७ केदारः ८ ग्रामेयीसुखम्
९ विभ्रमः १० । इति कविकल्पलता ॥ * ॥
अथ मध्यदेशीयजनपदा यथा, --
“तास्विमे कुरुपाञ्चालाः शाल्वाश्चैव सजाङ्गलाः ।
शूरसेना भद्रकारा बोधकाः सपटच्चराः ॥
मत्स्याः किराताः कुल्याश्च कुन्तयः कान्ति-
कोशलाः ।
आवन्ताश्च भुलिङ्गाश्च लोकाश्चैवान्धकैः सह ॥
मध्यदेश्या जनपदाः प्रायशः परिकीर्त्तिताः ॥”
अथ उदीच्या देशा यथा, --
“बाह्वीका वाटधानाश्च आभीराः कालतोयकाः ।
परन्ध्राश्चैव शूद्राश्च पह्रवाश्चात्मखण्डिकाः ॥
गान्धारा जवनाश्चैव सिन्धुसौवीरमद्रकाः ।
शका द्रुह्याः पुलिन्दाश्च पारदा हारमूर्त्तिकाः ॥
रामठाः कण्ठकाराश्च केकया देशमानिकाः ।
क्षत्त्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ॥
आत्रेयोऽथ भरद्वाजः प्रस्थलाः सदशेरकाः ।
लम्पकास्तलगानाश्च सैनिकाः सह साङ्गजैः ॥
एते देशा उदीच्यास्तु प्राच्यान्देशान्निबोधत ॥”
अथ प्राच्या देशा यथा, --
“अङ्गवङ्गा मद्गुरका अन्तर्गिरिबहिर्गिराः ।
ततः प्रवङ्गा मातङ्गा मलया मलवर्त्तकाः ॥
सुह्मोत्तराः प्रविजया भार्गवाङ्गेयमालवाः ।
प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलि-
प्तकाः ॥
शाल्वा मागधगोनर्द्दाप्राच्या जनपदाः स्मृताः ॥”
अथ दक्षिणापथदेशा यथा, --
“तथापरे जनपदा दक्षिणापथवासिनः ।
पाण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैव च ॥
सेतुका मुख्यकाश्चैव कुपथाचारवासिकाः ।
नवराष्ट्रा माहिषका कलिङ्गाश्चैव सर्व्वशः ॥
कावेराश्च सहैषीकैराटव्याः शवरास्तथा ।
पुलिङ्गा बिन्ध्यमूषीका वैदर्भा दण्डकैः सह ॥
कुलीयाश्च शिरालाश्च रूपसास्तापसैः सह ।
तथा तैत्तिरकाश्चैव सर्व्वे कारस्करास्तथा ॥
नासिकाद्याश्च ये चान्ये ये चैवान्तरनर्म्मदाः ।
भानुकच्छाः समाहेयाः सह सारस्वतैस्तथा ॥
कच्छीयाश्च सुराष्ट्राश्च आनर्त्ताश्चार्व्वुदैः सह ।
इत्येते अपरान्ताश्च शृणु ये बिन्ध्यवासिनः ॥”
अथ बिन्ध्यवासिदेशा यथा, --
“मालवाश्च करूषाश्च मेकलाश्चोत्कलैः सह ।
उत्तमासा दशार्णाश्च भोजाः किष्किन्धिकैः
सह ॥
तोषलाः कोशलाश्चैव त्रैपुरा वेदिकास्तथा ।
तुमुरास्तुम्बुराश्चैव पटुमान्निषधैः सह ॥
अनूपास्तुण्डिकेराश्च वीतिहोत्रा अवन्तयः ॥
एते जनपदाः ख्याता बिन्ध्यपृष्ठनिवासिनः ॥”
पर्व्वताश्रयिदेशा यथा, --
“अतो देशान् प्रवक्ष्यामि पर्व्वताश्रयिणश्च ये ।
निर्द्द्वारा हंसवर्णाश्च कुपथा अपथाः खशाः ॥
कुथप्रावरणाश्चैव ऊर्णा दर्भाः समूहकाः ।
त्रिगर्त्ता मण्डलाश्चैव किराताश्चामरैः सह ॥”
इति मत्स्यपुराणम् ॥
अपि च ।
“देशव्यवस्था देवेशि ! कथ्यते शृणु तत्परा ।
वैद्यनाथं समारभ्य भुवनेशान्तगं शिवे ! ॥
तावदङ्गाभिधो देशो यात्रायां न हि दुष्यति ।
रत्नाकरं समारभ्य ब्रह्मपुत्त्रान्तगं शिवे ! ।
वङ्गदेशो मया प्रोक्तः सर्व्वसिद्धिप्रदर्शकः ॥
जगन्नाथात् पूर्ब्बभागात् कृष्णतीरान्तगं शिवे ।
कलिङ्गदेशः संप्रोक्तो वाममार्गपरायणः ॥
कलिङ्गदेशमारभ्य पञ्चाष्टयोजनं शिवे ! ।
दक्षिणस्यां महेशानि ! कालिङ्गः परिकीर्त्तितः ॥
सुब्रह्मण्यं समारभ्य यावद्देवो जनार्द्दनः ।
तावत् केरलदेशः स्यात् तन्मध्ये सिद्धकेरलः ॥
रामेश्वरात् व्यङ्कटेशात् हंसकेरलनामकः ।
अनन्तशैलमारभ्य यावत् स्यादव्ययं परे ॥
तावत् सर्व्वेशनामा तु केरलः परिकीर्त्तितः ।
शारदामठमारभ्य कुङ्कुमाद्रितटान्तकम् ॥
तावत् काश्मीरदेशः स्यात् पञ्चाशद्योजना-
न्तकम् ॥
कालेश्वरं श्वेतगिरिं त्रैपुरं नीलपर्व्वतम् ॥
कामरूपाभिधो देशो गणेशगिरिमूर्द्धनि ।
त्रिपञ्चकं समारभ्य मध्ये चोज्जयिनी शिवे ! ॥
मार्ज्जारतीर्थं राजेन्द्र ! कोलापुरनिवासिनी ।
तावद्देशो महाराष्ट्रः कर्णाटस्वामिगोचरः ॥
जगन्नाथादूर्द्ध्वभागमर्व्वाक् श्रीभ्रमरात्मिकात् ।
तावदन्ध्राभिधो देशः सौराष्ट्रं शृणु सादरम् ॥
कोङ्कणात् पश्चिमं तीर्थं समुद्रप्रान्तगोचरम् ।
हिङ्गुलाजान्तको देवि ! दशयोजनदेशतः ॥
सौराष्ट्रदेशो देवेशि ! तस्मात्तु गुर्ज्जराभिधः ।
श्रीशैलन्तु समारभ्य चोलेशान्मध्यभागतः ॥
तैलङ्गदेशो देवेशि ! ध्यानाध्ययनतत्परः ।
सुराम्बिकां समारभ्य मलयाद्र्यन्तगं शिवे ! ॥
मलयालाभिधो देशो मन्त्रसिद्धिप्रवर्त्तकः ।
रामनाथं समारभ्य श्रीरङ्गान्तं विलेश्वरि ! ॥
कर्णाटदेशो देवेशि ! साम्राज्यभोगदायकः ।
ताम्रपर्णीं समासाद्य शैलार्द्धशिखरोर्द्ध्वतः ॥
अवन्तीसंज्ञको देशः कालिका तत्र तिष्ठति ।
भद्रकालीमहापूर्ब्बे रामदुर्गाच्च पश्चिमे ।
श्रीविदर्भाभिधो देशो वैदर्भी तत्र तिष्ठति ॥
गुर्ज्जरात् पूर्ब्बभागे तु द्वारकातो हि दक्षिणे ।
मरुदेशो महेशानि ! उष्ट्रोत्पत्तिपरायणः ॥
श्रीकोङ्कणादधोभागे तापीतः पश्चिमे परे ।
आभीरदेशो देवेशि ! बिन्ध्यशैले व्यवस्थितः ॥
अवन्तीतः पूर्ब्बभागे गोदावर्य्यास्तथोत्तरे ।
मालवाख्यो महादेशो धनधान्यपरायणः ॥
द्रविडतैलङ्गयोर्म्मध्ये चोलदेशः प्रकीर्त्तितः ।
लम्बकर्णाश्च ते प्रोक्तास्तद्भेदो वान्तरे भवेत् ॥
कुरुक्षेत्रात् पश्विमे तु तथा चोत्तरभागतः ।
इन्द्रप्रस्थान्महेशानि ! दशयोजनकद्वये ॥
पाञ्चालदेशो देवेशि ! सौन्दर्य्यगर्व्वभूषितः ।
पाञ्चालदेशमारभ्य म्लेच्छाद्दक्षिणपूर्ब्बतः ॥
काम्बोजदेशो देवेशि ! वाजिराशिपरायणः ।
वैदर्भदेशादूर्द्ध्वञ्च इन्द्रप्रस्थाच्च दक्षिणे ॥
मरुदेशात् पूर्ब्बभागे वैराटः परिकीर्त्तितः ।
काम्बोजाद्दक्षभागे तु इन्द्रप्रस्थाच्च पश्चिमे ॥
पाण्ड्यदेशो महेशानि ! महाशूरत्वकारकः ।
गण्डकीतीरमारभ्य चम्पारण्यान्तकं शिवे ! ॥
विदेहभूः समाख्याता तैरभुक्ताभिधः स तु ।
काम्बोजदेशमारभ्य महाम्लेच्छात्तु पूर्ब्बके ।
बाह्वीकदेशो देवेशि ! अश्वोत्पत्तिपरायणः ॥
तप्तकुण्डं समारभ्य रामक्षेत्रान्तकं शिवे ! ।
किरातदेशो देवेशि ! बिन्ध्यशैलेऽवतिष्ठते ॥
करतोयां समारभ्य हिङ्गुलाजान्तकं शिवे ! ।
मुल्तानदेशो देवेशि ! महाम्लेच्छपरायणः ॥
हिङ्गुपीठं समारभ्य मक्केशान्तं महेश्वरि ! ।
खुरासानाभिधो देशो म्लेच्छमार्गपरायणः ॥
तन्मध्ये चोत्तरे देवि ! ऐराकः परिकीर्त्तितः ।
काश्मीरन्तु समारभ्य कामरूपात्तु पश्चिमे ।
भोटान्तदेशो देवेशि ! मानसेशाच्च दक्षिणे ॥
मानसेशाद्दक्षपूर्ब्बे चीनदेशः प्रकीर्त्तितः ।
कैलानीरं समारभ्य सरयूं परितः परे ॥
अमरगां महेशानि महाचीनाभिधो भवेत् ।
जटेश्वरं समारभ्य योगिन्यन्तं महेश्वरि ! ॥
नेपालदेशो देवेशि ! शिलहट्ठं शृणु प्रिये ! ।
गणेश्वरं समारभ्य महोदध्यन्तगं शिवे ! ॥
शिलहट्टाभिधो देशः पर्व्वते तिष्ठति प्रिये ! ।
वङ्गदेशं समारभ्य भुवनेशान्तगं शिवे ! ॥
पृष्ठ २/७४८
गौडदेशः समाख्यातः सर्व्वविद्याविशारदः ।
गोकर्णेशात् पूर्ब्बभागे आर्य्यावर्त्तात्तु चोत्तरे ॥
तैरभुक्तात् पश्चिमे तु महापूर्य्याश्च सर्व्वतः ।
महाकोशलदेशश्च सूर्य्यवंशपरायणः ॥
व्यासेश्वरं समारभ्य तप्तकुण्डान्तकं शिवे ।
मगधाख्यो महादेशो यात्रायां न हि दुष्यति ॥
दक्षोत्तरक्रमेणैव क्रमात् कीकटमागधौ ।
चरणाद्रिं समारभ्य गृध्रकूटान्तकं शिवे ! ॥
तावत् कीकटदेशः स्यात्तदन्तर्मागधो भवेत् ।
जगन्नाथप्रान्तदेशश्चोत्कलः परिकीर्त्तितः ॥
कामगिरिं समारभ्य द्बारकान्तं महेश्वरि ! ।
श्रीकुन्तलाभिधो देशो हूनं शृणु महेश्वरि ! ॥
कामगिरेर्द्दक्षभागे मरुदेशात्तथोत्तरे ।
हूनदेशः समाख्यातः शूरास्तत्र रमन्ति च ॥
अथाभ्यङ्गं समारभ्य कोटिदेशस्य मध्यगे ।
समुद्रप्रान्तदेशो हि कोङ्कण परिकीर्त्तितः ॥
ब्रह्मपुत्त्रात् कामरूपात् मध्यभागे तु कैकयः ।
मागधाद्दक्षभागे तु बिन्ध्यात् पश्चिमतः शिवे ! ॥
सौरसेनाभिधो देशः सूर्य्यवंशप्रकाशकः ।
हस्तिनापुरमारभ्य कुरुक्षेत्राच्च दक्षिणे ॥
पाञ्चालपूर्ब्बभागे तु कुरुदेशः प्रकीर्त्तितः ।
मरुदेशात् पूर्ब्बभागे कामाद्रेर्दक्षिणे शिवे ! ॥
सिंहलाख्यो महादेशः सर्व्वदेशोत्तमोत्तमः ।
शिलहट्टात् पूर्ब्बभागे कामरूपात्तथोत्तरे ॥
पुलन्ध्रिदेशो देवेशि ! नरनारायणः परः ।
गणेश्वरात् पूर्ब्बभागे समुद्रादुत्तरे शिवे ! ॥
कच्छदेशः समाख्यातः सुदेशं शृणु सादरम् ।
पुलिन्दादुत्तरे भागे कच्छाच्च पश्चिमे शिवे ! ॥
मत्स्यदेशः समाख्यातो मत्स्यबाहुल्य-
कारकः ।
वैराटपाण्ड्ययोर्म्मध्ये पूर्ब्बदक्षक्रमेण तु ॥
मद्रदेशः समाख्यातो माद्रीहा तत्र तिष्ठति ।
शूरसेनात् पूर्ब्बभागे गण्डक्याः पश्चिमे शिवे ! ॥
सौवीरदेशो देवेशि ! सर्व्वदेशाधमाधमः ।
अवन्तीतः पश्चिमे तु वैदर्भाद्दक्षिणोत्तरे ॥
नाटदेशः समाख्यातो वर्व्वरं शृणु पार्व्वति ! ।
मायापुरं समारभ्य सप्तशृङ्गात्तथोत्तरे ॥
वर्व्वराख्यो महादेशः सैन्धवं शृणु सादरम् ।
लङ्काप्रदेशमारभ्य मक्कान्तं परमेश्वरि ! ॥
सैन्धवाख्यो महादेशः पर्व्वते तिष्ठति प्रिये ! ।
एते षट्पञ्चाशद्देशा मया प्रोक्ता महेश्वरि ! ॥
एतन्मध्येऽपि देवेशि ! देशभेदा ह्यनेकशः ।
कोटिशः सन्ति देवेशि ! एते मुख्याः प्रकीर्त्तिताः ॥
रहस्यातिरहस्यञ्च गोप्तव्यं पशुसङ्कटे ।
इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि ॥”
इति शक्तिसङ्गमतन्त्रे ७ पटलः ॥

देशकः, त्रि, (दिशतीति । दिश आदेशे + “ण्वुल्

तृचौ ।” ३ । १ । १३३ । इति ण्वुल् ।) शास्ता ।
इति हेमचन्द्रः । ३ । १५२ ॥
“तथोन्मार्गप्रवृत्तस्य चास्तु सन्मार्गदेशकः ।
सन्तु मेऽतिथयः श्लाध्या वित्तदाने तथाक्षये ॥”
इति मार्कण्डेये । १९ । १७ ॥

देशकारी, स्त्री, रागिणीविशेषः । हनूमन्मते

मेघरागस्य भार्य्या । अस्या जातिः संपूर्णः
गृहं षड्जस्वरः गानसमयः वर्षत्तौ निशान्तः ।
अस्याः स्वरूपं सुन्दरस्त्री तिलयुक्तानना कमल-
पत्राक्षी दाडिमस्तनी गौराङ्गी विम्बोष्ठी
मुक्ताहारकण्ठी कर्परचन्दनलिप्ताङ्गी साल-
ङ्कारा नायकेन सहोपविश्य हावभावकटाक्षान्
कुर्व्वती । सङ्गीतदर्पणमते अस्या गानसमयः
प्रातर्वैराटीरागिण्या सह । अस्याः स्वरूपं
नायकेन सह केलिकौतुकरता श्यामकेशभारा
जितशरत्पूर्णचन्द्रानना अनङ्गराजिताङ्गी
काञ्चनकलसद्युतिहारिकुचा कमलनयना मृदु-
भाषिणी । इति सङ्गीतशास्त्रम् ॥

देशरूपं, क्ली, (दिश्यते इति । दिश् + कर्म्मणि

घञ् । देशस्य हेतुयुक्तिदेशकालपात्रादिभिर्दि-
श्यमानस्य रूपम् । यद्वा, देशस्य देशानुरूपा-
चारस्य रूपम् ।) उचितम् । इत्यमरः । २ । ८ ।
२४ ॥ (यथा, महाभारते । १२ । १०७ । ५ ।
“क्षीणग्रहणवृत्तिश्च यथा धर्म्मं प्रकीर्त्तितम् ।
लघुना देशरूपेण ग्रन्थयोगेन भारत ! ॥”)

देशाखी, स्त्री, रागिणीविशेषः । हनूमन्मते

हिन्दोलरागस्य द्वितीयरागिणी । तस्या जातिः
षाडषः गृहं गान्धारस्वरः गानसमयः वस-
न्तर्त्तौ पूर्ब्बाह्णः । अस्याः स्वरूपम् । सुरूपा
नारी चन्द्रवदना क्रोधना कलहप्रिया रोमहर्षा
निष्कोषकरबालकरा मल्लवत् धूल्यवगुण्ठित-
बाहुवक्षाः बलमर्द्दितकक्षस्थापितशत्रुपक्षा
सर्व्वदा स्वसमीपस्थापितनायका च । राग-
मालामते तु तस्याः स्वरूपं मल्लबत् परस्पर-
मल्लक्रीडायां नियुक्ता । सा क्रीडामल्लकाष्ठो-
त्क्षेपणप्रस्तराद्यु त्तोलनभूमिलुण्ठनादिरूपा ।
कल्लिनाथमते वसन्तरागस्य भार्य्या । सङ्गीत-
दर्पणमते अस्या जातिः संपूर्णः । अस्याः
स्वरूपं कर्पूरादपि कमनीयाङ्गी कमलराजित-
नयना हर्षयुक्ता रसिका अतिधीरा किञ्चित्-
सङ्कुचिता दीर्घभुजा मल्लद्युतिमोचिनी च ।
इति सङ्गीतशास्त्रम् ॥

देशान्तरं, क्ली, (अन्यो देशः । मयूरव्यंसकादि-

वत् समासः ।) सुमेरुलङ्कयोर्मध्यरेखास्वरूप-
देशस्वदेशयोरन्तरयोजनम् । इति सिद्धान्तरह-
स्यम् ॥ ये उदयान्तरकर्म्मणा लङ्कायामौद-
यिका ग्रहा जातास्ते देशान्तरकर्म्मणा स्वपुरो-
दयिकाः स्युः । तच्च द्बिविधं एकं पूर्ब्बापरं
द्वितीयं याम्योत्तरं तच्चरसंज्ञमुक्तम् । यथा, --
“येऽनेन लङ्कोदयकालिकास्ते
देशान्तरेण सुपुरोदये स्युः ।
देशान्तरं प्रागपरं तथान्यत्
याम्योत्तरं तच्चरसंज्ञमुक्तम् ॥”
इति सिद्धान्तशिरोमणिः ॥ * ॥
देशान्तरपरिभाषायां वृद्धमनुः ।
“वाचो यत्र विभिद्यन्ते गिरिर्व्वा व्यवधायकः ।
महानद्यन्तरं यच्च तद्देशान्तरमुच्यते ॥
देशनामनदीभेदान्निकटोऽपि भवेद्यदि ।
तत्तु देशान्तरं प्रोक्तं स्वयमेव स्वयम्भुवा ॥
दशरात्रेण या वार्त्ता यत्र न श्रूयतेऽथवा ॥
बृहस्पतिः ।
देशान्तरं वदन्त्येके षष्टियोजनमायतम् ।
चत्वारिंशद्वदन्त्येके त्रिंशदेके तथैव च ॥”
इत्युद्वाहतत्त्वम् ॥
“मुनिद्बयवचनोक्तवागादियोजनादिभेदसामञ्ज-
स्यार्थम् एवं व्याख्यायते त्रितयवैशिष्ट्ये त्रिंशद्-
योजनाभ्यन्तरे द्वितयवैशिष्ट्ये तदुपरि एक-
वैशिष्ट्ये चत्वारिंशद्योजनोपरि वाणीगिरि-
महानद्यन्तरितत्वभेदाभावेऽपिषष्टियोजनोपरि
वैदेश्यम् ।” इति शुद्धिचिन्तामणिः ॥

देशिकः, पुं, (देशे प्रसितः इति । देश + ठक् ।)

पथिकः । इति हेमचन्द्रः । ३ । १५७ ॥ (यथा,
महाभारते । ७ । ५ । १० ।
“अदेशिको यथा सार्थः सर्व्वं कृच्छ्रं समृच्छति ।
अनायका तथा सेना सर्व्वान्दोषान् समृच्छति ॥”)
गुरुः । यथा देशिको मूलमन्त्रेण इत्यागमः ॥
(यथा, महाभारते । १३ । १४७ । ४२ ।
“धर्म्माणां देशिकः साक्षात् स भविष्यति धर्म्म-
भाक् ।
धर्म्मविद्भिः सदैवेशो नमस्कार्य्यः सदोद्यतैः ॥”)

देशिनी, स्त्री, (दिशतीति । दिश् आदेशे +

णिनिः । स्त्रियां ङीप् ।) तर्ज्जनी । इति शब्द-
रत्नावली ॥ (यथा, याज्ञवल्क्यसंहितायाम् ।
१ । १९ ।
“कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च ।
प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥”)

देशी, स्त्री, रागिणीविशेषः । हनूमन्मते दीपक-

रागस्य भार्य्या । अस्या जातिः षाडवः गृहं
ऋषभस्वरः गानसमयः ग्रीष्मर्त्तौ मध्याह्रः ।
अस्याः स्वरूपं सुरूपा नारी हरिद्बसना अल-
ङ्कृता यौवनमदेन कामासक्ता सती नायकशय-
नागारमागत्य निधुवनरता च । भरतमते तु
मेघरागस्य पत्नी । सङ्गीतदर्पणमते हिन्दोल-
रागस्य भार्य्या । तस्या गानसमयः यामयुग-
लम् । तस्याः स्वरूपम् । निद्रायुक्तनयना
आलस्ययुक्ता प्रियाभिमुखी नायकस्य निद्रा-
भञ्जनार्थं मनोरञ्जनतानं गायन्ती रमणेच्छया
रचितवेशा । भूषणगणशोभिता गौराङ्गी परि-
हितहरिद्वर्णशाटिका । इति सङ्गीतशास्त्रम् ॥
(सङ्गीतभेदः । यथा, सङ्गीतदर्पणे । १ । ३ -- ६ ।
“गीतं वाद्यं नर्त्तनञ्च त्रयं सङ्गीतमुच्यते ।
मार्गदेशी विभागेन सङ्गीतं द्विविधं मतम् ॥
द्रुहिणेन यदन्विष्टं प्रयुक्तं भरतेन च ।
महादेवस्य पुरतस्तन्मार्गाख्यं विमुक्तिदम् ॥
तत्तद्देशस्थया रीत्या यत् स्याल्लोकानुरञ्जनम् ।
देशे देशे तु सङ्गीतं तद्देशीत्यभिधीयते ॥”)