शब्दकल्पद्रुमः/दितिसुतः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २/७१०

दितिसुतः, पुं, (दितेः सुतः ।) दैत्यः । इत्यमरः ।

१ । १ । १२ ॥ (यया, नैषधे । १९ । १५ ।
“दितिसुतगुरुः प्राणैर्योक्तुं न किं कचवत्तमः ॥”)

दित्यः, पुं, (दितौ भवः । दिति + यत् ।) दैत्यः ।

इति शब्दार्थकल्पतरुः ॥ (छेदनार्हे धान्यादौ,
क्ली । यथा, वाजसनेयसंहितायाम् । १४ । १० ।
“दित्यवाड्वयो विराट् छन्दः ॥”
“दोऽवखण्डने क्तिन्प्रत्ययः । दितिं खण्डन-
मर्हति दित्यं धान्यं वहति दित्यवाट् ।” इति
तद्भाष्ये महीधरः ॥)

दिद्युत्, त्रि, (द्योतते दीप्यतीति । द्युत् + “द्युति-

गामिजुहोतीनां द्वे च ।” ३ । २ । १७८ ।
इत्यस्य वार्त्तिकोक्त्या क्विपि द्बित्वे “द्युतिस्वाप्योः
सम्प्रसारणम् ।” ७ । ४ । ६७ । इत्यभ्यासस्य
सम्पसारणम् ।) दीप्तिविशिष्टः । इति मुग्ध-
बोधम् ॥ (स्त्री, दीप्तिः । यथा, ऋवेदे । २ । १३ । ७ ।
“यश्चास्मा अजनो दिद्युतो दिवः ।”
“असमा विषमा नानाप्रकारा दिद्युतः दीप्तीर-
जनः अजनयः ।” इति तद्भाष्ये सायनः ॥
वज्रम् । इति निघण्टुः । २ । २० ॥ यथा, ऋग्वेदे ।
१ । ६६ । ७ ।
“अस्तुर्न दिद्युत्त्वेषप्रतीका ॥”)

दिधिषाय्यः, पुं, (दधाति आनन्दमिति । धा +

“दिधिषाय्यः ।” उणां ३ । ९७ । इति आय्यः
धातोर्द्बित्वं इत्वं षुक् च ।) आरोपितबन्धुः ॥
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (धारके,
त्रि । यथा, ऋग्वेदे । २ । ४ । १ ।
“मित्र इव यो दिधिषाय्यो भूद्देव आदेवे जने
जातवेदाः ॥”
“दिधिषाय्यो धारयिता भूत् ।” इति तद्भाष्ये
सायनः ॥ उज्ज्वलदत्तस्तु “दधिषाय्यः” इति
उणादिसूत्रं कस्त्ययित्वा दधिपूर्ब्बात् स्यतेराय्यः
षत्वञ्च इति व्याख्याय दधिषाय्यो घृतम् इत्युक्त-
वान् ॥)

दिधिषुः, पुं, (दिधिं धैर्य्यं स्यतीति । सो + बाहुल-

कात् कुः । यद्वा, दिधिषूं आत्मन इच्छतीति ।
सुप आत्मनः क्यच् । क्विप् । बाहुलकात् ह्रस्वः ।)
दिरूढापतिः । इत्यमरः । २ । ६ । २३ ॥ (गर्भा-
धानकर्त्ता । यथा, ऋग्वेदे । १० । १८ । ८ ।
“हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि
सं बभूथ ॥”
“दिधिषोर्गर्भस्य निघातुः ।” इति तद्भाष्ये
मायनः ॥ यथा च भागवते । ९ । ९ । ३५ ।
“ब्राजणी वीक्ष्य दिधिषुं पु रुषादेन भक्षितम् ।
शोचन्त्यात्मानमुर्व्वीशमशपत् कुपिता सती ॥”
“दिधिषुं गर्भाधानकर्त्तारम् ।” इति श्रीधरः ॥)
दिरूढायाम्, स्त्री । इति शब्दरत्नावली ॥
(धारके, त्रि । यथा, ऋग्वेदे । १० । ७८ । ५ ।
“अश्वासो न ये ज्येष्ठास आशवो दिधिषवो न
रथ्यः सुदानवः ।”
“तथा दिधिषवो न वसूनां धारका इव ।”
इति तद्भाष्ये सायनः ॥)

दिधिषूः, स्त्री, (दघाति पापं यद्बा दिधिं धैर्य्यं

इन्द्रियदौर्ब्बल्यात् स्यति त्यजतीति । दा वा सो +
“अन्ददृन्फूजम्ब्विति ।” उणां । १ । ९५ । इति
कूप्रत्ययेन साधुः ।) द्विरूढा । वारद्वयविवा-
हिता स्त्री । तत्पर्य्यायः । दिधीषूः २ पुनर्भूः ३
दिधिषुः ४ । इति शब्दरत्नावली ॥ विवाहि-
हितायां कनिष्ठायां सत्यां अविवाहिता ज्येष्ठा
भगिनी । यथा, उद्बाहतत्त्वे ।
“ज्येष्ठायां विद्यमानायां कन्यायामुह्यतेऽनुजा ।
सा चाग्रेदिधिषूर्ज्ञेया पूर्ब्बा च दिधिषूः स्मृता ॥”
(धारके, त्रि । यथा, ऋग्वेदे । १ । ७१ । ३ ।
“दधन्नृतं धनयन्नस्य धीतिमादिदर्य्यो दिधिष्वो
विभृत्राः ॥”)

दिधिषूपतिः, पुं, दिधिषूर्द्विरूढा तस्याः पतिः

स्वामी । द्बिरूढापतिः । (यथा, मनुः । ३ । १७३ ।
“भ्रातुर्मृतस्य भार्य्यायां योऽनुरज्येत कामतः ।
धर्म्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥”)

दिनं, क्ली, (द्यति खण्डयति महाकालमिति ।

दो छेदे + “बहुलमन्यत्रापि ।” उणां २ । ४९ ।
इति इनच् ।) कालविशेषः । तत्पर्य्यायः ।
घसः २ अहः ३ दिवसः ४ वासरः ५ । इत्य-
मरः । १ । ४ । २ ॥ भास्वरः ६ दिवा ७ । इति राज-
निर्घण्टः ॥ वारः ८ अंशकः ९ द्यु १० अंशकम्
११ । इति शब्दरत्नावली ॥ (यथा, रघुः । ३ । ८ ।
“दिनेसु गच्छत्सु नितान्तपीवरं
तदीयमालीनमुखं स्तनद्बयम् ॥”)
तत्तु मनुष्यमाने षष्टिदण्डात्मकम् । पितृमाने
गौणचान्द्रमासात्मकम् । देवासुरमाने वत्सरा-
त्मकम् । ब्रह्ममाने दिव्यद्बिसहस्रयुगात्मकम् ।
मनुष्यमाने ब्रह्मणो दिनस्य संख्या । ८,६४०,०००,
००० । इति पुराणम् ॥ तदेव मनुष्याणां सौर-
सावनचान्द्रनाक्षत्रभेदेन चतुर्व्विधम् । यथा, --
सावनं दण्डाः षष्टिरहः स्वलग्नखगुणांशाढ्या-
स्तदैनं भवेत् । १ ।
उदयादोदयाद्भानोर्भौमसावनवासराः । २ ।
तिथिनैकेन दिवसश्चान्द्रमाने प्रकीर्त्तितः । ३ ।
आयुर्द्दाये स्मृतं प्राज्ञैर्नाक्षत्रं षष्टिनाडिकम् ॥ ४ ॥
जीमूतवाहनमते तु सूर्य्यकिरणावच्छिन्नदतु-
र्यामयुक्तम् ॥

दिनं, क्ली, (दो छेदे + इनच् ।) सूर्य्यकिरणा-

वच्छिन्नकालः । तद्वैदिकपर्य्यायः । वस्तोः १
द्युः २ भाबुः ३ वासरम् ४ स्वसराणि ५ घ्रंसः ६
घर्म्मः ७ घृणः ८ दिनम् ९ दिवा १० दिवे-
दिवे ११ द्यविद्यवि १२ । इति द्बादशाहर्नामानि ।
इति वेदनिघण्टौ १ अध्यायः ॥ * ॥ सिंह-
कन्यातुलावृश्चिककुम्भमीनलग्नानि । यथा, --
“अजगोपतियुग्मञ्च कर्किधन्विमृगास्तथा ।
निशासंज्ञाः स्मृताश्चैते शेषाश्चान्ये दिनात्मकाः ॥”
इति ज्योतिस्तत्त्वम् ॥

दिनकरः, पुं, (करोतीति । कृ + द्यच् । दिनस्य

करः ।) सूर्य्यः । इति हेमचन्द्रः । २ । ११ ॥
(यथा, ऋतुसंहारे । १ । २२ ।
“दिनकरपरितापात् क्षीणतोयाः समन्तात्
विदधति भयमुच्चैर्वीक्षमाणा वनान्ताः ॥”)

दिनकरात्मजा, स्त्री, (दिनकरस्य सूर्य्यस्य आत्मजा ।)

यमुना । इति हलायुधः ॥

दिनकेशरः, पुं, (दिनस्य केशर इव ।) अन्धकारः ।

इति शब्दरत्नावली ॥

दिनज्योतिः, [स्] क्ली, (दिनस्य ज्योतिः ।)

आतपः । इति राजनिर्घण्टः ॥

दिनदुःखितः, पुं, स्त्री, (दिने दिवसे दुःखितः ।

दिवाभागे वियोगित्वात्तथात्वम् ।) चक्रवाकः ।
इति शब्दरत्नावली ॥

दिनप्रणीः, पुं, (दिनं प्रणयतीति । प्र + नी +

क्विप् ।) सूर्य्यः । इति त्रिकाण्डशेषः ॥ (अर्क-
वृक्षः । सूर्य्यपर्य्यायत्वात् ॥)

दिनबलः, पुं, (दिने बलं यस्य ।) पञ्चमषष्ठसप्त-

माष्टमैकादशद्बादशराशयः । इति ज्योतिषम् ॥
(सूर्य्यगुरुशुक्रग्रहाः । इति बृहज्जातकम् ॥)

दिनमणिः, पुं, (दिनस्य मणिरिव ।) सूर्य्यः । इति

त्रिकाण्डशेषः ॥ (यथा, गीतगोविन्दे । १ । १८ ।
“दिनमणिमण्डलमण्डन ! भवखण्डन
मुनिजनमानसहंस ! जय जय देव हरे ! ॥”
अर्कवृक्षः । सूर्य्यपर्य्यायत्वात् ॥)

दिनमूर्द्धा, [न्] पुं, (दिनस्य मूर्द्धा मस्तकमिव ।

दिनस्य आदिस्थानत्वादस्य तथात्वम् ।) पूर्व्वाद्रिः ।
उदयाचलः । इति त्रिकाण्डशेषः ॥

दिनांशः, पुं, (दिनस्य अंशः ।) प्राह्णमध्याह्ना-

पराह्णसायाह्नादिः । इति राजनिर्घण्टः ॥

दिनादिः, पुं, (दिनस्य आदिः ।) प्रभातम् । इति

राजनिर्घण्टः ॥

दिनान्तः, पुं, (दिनस्य अन्तः ।) सायम् । दिवाव-

सानम् । इत्यमरः । १ । ४ । ३ । (यथा, ऋतु-
संहारे । १ । १ ।
“दिनान्तरम्योऽभ्युपशान्तमन्मथो
निदाघकालः समुपागतः प्रिये ! ॥”)

दिनान्तकः, पुं, (दिनस्य अन्तकः नाशकः ।) अन्ध-

कारः । इति त्रिकाण्डशेषः ॥

दिनावसानं, क्ली, (दिनस्य अवसानं यत्र ।)

दिनान्तः । इति हेमचन्द्रः । २ । ५४ ॥ (यथा,
रघुः । २ । ४५ ।
“दिनावसानोत्सुकबालवत्सा
विसृज्यतां धेनुरियं महर्षेः ॥”)

दिनिका, स्त्री, (दिनं कृत्यहेतुतया अस्त्यत्रेति ।

दिन + ठन् ।) एकदिनकृतकर्म्ममूल्यम् । इति
शब्दमाला ॥

दिन्भ, क ङ संघाते । इति कविकल्पद्रुमः ॥ (चुरां-

आत्मं-सकं-सेट् ।) क ङ, दिम्भयते । सङ्घातो
राशीकरणम् । इति दुर्गादासः ॥

दिभ, इ क नोदे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) इ क, दिम्भयति । नोदः प्रेर-
णम् । इति दुर्गादासः ॥

दिम्प, ञ क संघाते । इति कविकल्पद्रुमः ॥ (चुरां-

उभं-सकं-सेट् ।) ओष्ठ्यवर्गशेषोपधः । तृतीय-
पृष्ठ २/७११
स्वरी । ञ क, दिम्पयति दिम्पयते । सङ्घातो
राशीकरणम् । एषः कैश्चिन्न मन्यते । इति
दुर्गादासः ॥

दिलीपः, पुं, सूर्य्यवंशीयराजविशेषः । सूर्य्यवंशे

दिलीपनामानौ द्बौ नृपौ जातौ एकः अंशुमतः
पुत्त्रः भगीरथपिता अपरः दशरथप्रपिता-
महश्च । इति रामायणम् ॥ (यथा च हरि-
वंशे । १५ । १२-१४, २३-२५ ।
“सुतः पञ्चजनस्यासीदंशुमान्नाम वीर्य्यवान् ।
दिलीपस्तनयस्तस्य खट्टाङ्ग इति विश्रुतः ॥
येन स्वर्गादिहागत्य मुहूर्त्तं प्राप्य जीवितम् ।
त्रयोऽनुसन्धिता लोका बुद्ध्या सत्येन चानघ ! ॥
दिलीपस्य तु दायादो महाराजो भगीरथः ।
यः स गङ्गां सरिच्छ्रेष्ठामवातारयत प्रभुः ॥”
“अनमित्रस्य धर्म्मात्मा विद्बान् दुलिदुहोऽभवत् ।
दिलीपस्तनयस्तस्य रामस्य प्रपितामहः ॥
दीर्घबाहुर्द्दिलीपस्य रघुर्नाम्नाभवत् सुतः ।
अयोध्यायां महाराजो रघुश्चासीत् महाबलः ॥
अजस्तु रघुतो जज्ञे अजाद्दशरथोऽभवत् ।
रामो दशरथात् जज्ञे धर्म्मात्मां सुमहायशाः ॥”)

दिलीपराट्, [ज्] पुं, (दिलीप एव राट् राजा ।)

दिलीपराजः । इति त्रिकाण्डशेषः ॥

दिलीरं, क्ली, शिलीन्ध्रकम् । इति हारावली । २५ ॥

दिव, इ प्रीतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) इ, दिन्व्यते । प्रीतिरिह प्रीती-
करणम् । दिन्वति लोकः पितरम् । इति दुर्गा-
दासः ॥

दिव, क अर्द्दे । इति कविकल्पदुमः ॥ (चुरां-परं-

सकं-सेट् ।) क, देवयति । अर्द्द इह पीडन-
मिति मैत्रेयः । यातनं गमनं वेति रमानाथः ।
इति दुर्गादासः ॥

दिव, क ङ परिकूजने । इति कविकल्पद्रुमः ॥

(चुरां-आत्मं-अकं-सेट् ।) क ङ, परिदेवयते
कश्चित्तस्य राष्ट्रे न दुःखितः । इति हलायुधः ।
इति दुर्गादासः ॥

दिव, य उ जिगीषेच्छयोः । पणौ । द्युतौ । क्रीडा-

याम् । गतौ । इति कविकल्पद्रुमः ॥ (दिवां-
परं-अकं-सकं-च सेट् । उदित्त्वात् क्त्वावेट् ।)
य, दीव्यति । उ, देवित्वा द्युत्वा । दीव्यमानं
शितान् वाणान् । इति भट्टौ ताच्छील्ये शतुः-
शानः । पणिर्व्यवहारः स्तुतिश्च । व्यवहारस्तु
क्रयविक्रयरूपः । द्युतावेवाकर्म्मकः । क्रीडा-
यान्तु दीव्यतेः करणस्य नित्यं कर्म्मत्वम् । तत्र
तृतीयाविभक्तिरेव विभाष्यते । इति साम्प्र-
दायिकम् । तेन अक्षा दीव्यन्ते छात्रेण इति
कर्म्मणि प्रत्ययः स्यात् । अक्षैर्दीव्यते छात्रे-
णेति भावे प्रत्ययो न स्यात् अक्षैर्देवयति छात्रेण
गुरुरित्यत्राप्यञ्यन्तस्य कर्त्तुः कर्म्मत्वं न स्यात् ।
तेनादुद्यू षयद्रामं मृगेण मृगलोचना । इति
भट्टौ तु तेनेतिकरणं दुद्यूषेरेव न तु दीव्यतेः ।
तेनाकर्म्मकत्वात् राममित्यञ्यन्तकर्त्तुः कर्म्म-
त्वम् । इति दुर्गादासः ॥

दिवं, क्ली, (दीव्यन्त्यस्मिन्निति । दिव्यु क्रीडायाम् +

घञर्थे अघिकरणे कः ।) स्वर्गः । (यथा, देवी-
भागवते । ५ । ३ । १० ।
“गच्छ वीर । महाबाहो दूतत्वं कुरु मेऽनघ ! ।
ब्रूहि शक्रं दिवं गत्वा निःशङ्कः सुरसन्निधौ ॥”)
आकाशम् । इति मेदिनी । वे, ११ ॥ वनम् ।
दिवा । इति हेमचन्द्रः । २ । ५२ ॥

दिवसः, पुं, क्ली, दीव्यन्त्यत्रेति । दिव + “दिवः

कित् ।” उणां । ३ । १२१ । इति असच् स च
कित् ।) दिनम् । इत्यमरः । १ । ४ । २ ॥
(यथा, आर्य्यासप्तशत्याम् । २७८ ।
“द्राघयता दिवसानि त्वदीयविरहेण तीव्रतापेन ।
ग्रीष्मेणेव नलिन्या जीवनमल्पीकृतं तस्याः ॥”)

दिवसकरः, पुं, (करोतीति । कृ + अच् । दिव-

सस्य करः ।) सूर्य्यः । इति हेमचन्द्रः । २ । ११ ॥
(यथा, आर्य्यासप्तशत्याम् । ६३९ ।
“सुन्दर सखी दिवसकरविम्बे तुहिनांशरेखेव ॥”)

दिवसमुखं, क्ली, (दिवसस्य भुखम् ।) प्रभातम् ।

इति हलायुघः ॥

दिवस्पतिः, पुं, (दिवः पतिः । अलुक्समासः ।)

इन्द्रः । इत्यमरः । १ । १ । ४५ ॥ (यथा,
महाभारते । ५ । १२ । ९ ।
“इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते ! ॥”)

दिवस्पृथिव्यौ, स्त्री, (द्यौश्च पृथिवी च । “दिवसश्च

पृथिव्याम् ।” ६ । ३ । ३० । इति दिवो दिवसादेशः ।)
रोदसी । स्वर्गभूम्यौ । इति हेमचन्द्रः । ४ । ४ ॥
द्विवचनान्तोऽयम् । (यथा, ऋग्वेदे । २ । २ । ३ ।
“तं देवा बुध्ने रजसः सुदंस संदिवस्पृथिव्यो-
ररतिं न्येरिरे ॥”)

दिवा, व्य, दिनम् । इत्यमरः । ३ । ४ । ६ ॥ (यथा,

महाभारते । २ । ११ । ३४ ।
“क्षणा लवा मुहूर्त्ताश्च दिवा रात्रिस्तथैव च ॥”)

दिवा, [न्] पुं, (दिव्यत्यस्मिन्निति । दिव + “कनिन्

युवृषीति ।” उणां । १ । १५६ । इति सूत्रे
“बहुलवचनात् केवलादपि कनिन् ।” इति
उज्ज्वलदत्तोक्त्या कनिन् ।) दिनम् । इत्युणादि-
कोषः ॥

दिवाकरः, पुं, (दिवा दिनं करोतीति । कृ +

“दिवाविभेति ।” ३ । २ । २१ । इति टः ।)
सूर्य्यः । (यथा, देवीभागवते । २ । ६ । १८ ।
“उदितश्च तदा भानुस्तया दृष्टो दिवाकरः ॥”)
अर्कवृक्षः । इत्यमरः ॥ काकः । पुष्पविशेषः ।
इति शब्दचन्द्रिका ॥

दिवाकीर्त्तिः, पुं, (दिवा दिवसे एव कीर्त्तिर्यस्य ।

रात्रौ क्षौरकर्म्मनिषेधात् ।) नापितः । चण्डालः ।
(“रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ।
दिवा चरेयुः कार्य्यार्थं चिह्निता राजशासनैः ॥”
१० । ५४ । इति मनुवचनात् अस्य दिवाचर-
त्वात् तथात्वम् ॥ यथा, मनुः । ५ । ८५ ।
“दिवाकीर्त्तिमुदक्याञ्च पतितं सूतिकन्तथा ।
शवन्तत् स्पृष्टिनञ्चैव स्पृष्ट्वा स्नानेन शुध्यति ॥”
तथाच काशीखण्डे । ७९ । ८७ ।
“दीक्षितो वा दिवाकीर्त्तिः पण्डितो वाप-
पण्डितः ।
तुल्यो मे मोक्षदीक्षायां संप्राप्य मणिकर्णि-
काम् ॥”)
उलूकः । इति हेमचन्द्रः । ३ । ५९७ ॥

दिवाटनः, पुं, (दिवा अटतीति । अट गतौ +

ल्युः ।) काकः । इति शब्दार्थकल्पतरुः ॥
(चाण्डालः । “दिघाचरेयुः कार्य्यार्थं चिह्निता
राजशासनैः ।” १० । ५४ । इति मनुशासनात् ॥)

दिवातनः, त्रि, (दिवा भवः । दिवा + “सायं-

चिरंप्राह्नेप्रगेव्ययेभ्यष्ट्युट्युलौ तुट् च ।” ४ । ३ ।
२३ । इति ट्युः तुट् च ।) दिनभवः । यथा,
भट्टिः । ५ । ६५ ।
“सायन्तनीं तिथिप्रण्यः पङ्कजानां दिवातनीम् ।
कान्तिं कान्त्या सदातन्या ह्रेपयन्ती शुचि-
स्मिता ॥”

दिवान्धः, पुं, (दिवा दिवसे अन्धः ।) पेचकः ।

इति त्रिकाण्डशेषः ॥ (यथा, पञ्चतन्त्रे । ३ । ७५ ।
“यत् मयूरहंसकोकिलचक्रवाकशुककारण्डव-
हारीतकसारसादिषु पक्षिप्रधानेषु विद्यमानेषु
तस्य दिवान्धस्य करालवक्त्रस्याभिषेकः क्रियते
नैतत् मम मतम् ॥”) दिनान्धे, त्रि । यथा, --
“दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे ।
केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ॥”
इति चण्डी ॥

दिवान्धा, स्त्री, (दिवा दिवसे अन्धा ।) वल्गुला

पक्षी । इति राजनिर्घण्टः ॥

दिवान्धकी, स्त्री, (दिवा अन्धकी दर्शनक्रिया-

वर्जिता ।) छुछुन्दरी । इति पुराणम् ॥

दिवाभीतः, पुं, (दिवा दिवसे भीतः ।) उलूकः ।

कुमुदाकरः । चौरः । इति मेदिनी । ते, १९७ ॥
(दिवसभीते, त्रि । यथा, कुमारे । १ । १२ ।
“दिवाकराद्रक्षति यो गुहासु
लीनं दिवाभीतमिवान्धकारम् ॥”)

दिवाभीतिः, स्त्री, (दिवा दिवसे भीतिर्भयं यस्य ।)

पेचकः । इति शब्दरत्नावली ॥

दिवामणिः, पुं, (दिवा दिनस्य मणिरिव ।)

सूर्य्यः । इति शब्दरत्नावली ॥

दिवामध्यं, क्ली, (दिवा दिवसस्य मध्यम् ।)

मध्याह्नः । इति हेमचन्द्रः । २ । ५३ ॥

दिवास्वापा, स्त्री, (दिवा दिवसे स्वापो निद्रा

यस्याः ।) वल्गुला पक्षी । इति राज-
निर्घण्टः ॥

दिविः, पुं, (दीव्यतीति । दिव्यु क्रीडायाम् +

“इगुपधात् कित् ।” उणां ४ । ११९ । इति इन्
स च कित् ।) चाषपक्षी । इति शब्दमाला ॥

दिविजः, त्रि, (दिवि स्वर्गे जायते इति । दिवि +

जन + डः । “प्रावृट्शरत्कालदिवां जे ।” ६ ।
३ । १५ । इति सप्तम्या अलुक् ।) स्वर्गीयः ।
इति संक्षिप्तसारः ॥

दिविषत्, [द्] पुं, (दिवि सीदतीति । सद् +

क्विप् । सप्तम्या अलुक् । षत्वञ्च ।) देवः ।
पृष्ठ २/७१२
इत्यमरः । १ । १ । ८ ॥ (यथा, गीतगोविन्दे । ९ । ११ ।
“सान्द्रानन्दपुरन्दरादिदिविषद्बृन्दैरमन्दादरा-
दानम्रैर्मुकुटेन्द्रनीलमणिभिः सन्दर्शितेन्दी-
वरम् ॥”
स्वर्गवासिनि, त्रि । यथा, अथर्ववेदे । १८ । ४ । ८० ।
“स्वधा पितृभ्यो दिविषद्भ्यः ॥”)

दिविष्ठः, त्रि, (दिवि स्वर्गे तिष्ठतीति । स्था + कः ।

अलुक् । “अम्बाम्बगोभूमीति ।” ८ । ३ । ९७ ।
इति षत्वम् ।) स्वर्गस्थः । इति संक्षिप्तसारः ॥)
(यथा, महाभारते । ३ । १०० । २४ ।
“ततो हतारिः सगणं सुस्वं वै
प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः ॥”
क्वचित् अकृतषत्वोऽपि दृश्यते । यथा, भाग-
वते । ४ । २३ । २२ ।
“नत्त्वा दिविस्थांस्त्रिदशांस्त्रिः परीत्य
विवेश वह्निं ध्यायती भर्त्तृपादम् ॥”)

दिवी, स्त्री, (दिव + इन् । कृदिकारादिति वा

ङीष् ।) उपजिह्विकाकीटः । इति हारा-
वली । १९० ॥

दिवोकाः, [स्] पुं, (द्यौः स्वर्ग आकाशो वा

ओको यस्य ।) देवः । चातकः । इति मेदिनी ।
से, ५४ ॥

दिवोदासः, पुं, (दिवः स्वर्गात् दासो दानं यस्मे ।)

काशीराजः । स चन्द्रवंशीयभीमरथराजपुत्त्रः ।
इति पद्मपुराणम् ॥
(“अधीत्य चायुषो वेदमिन्द्राद्धन्वन्तरिः पुरा ।
आगत्य पृथिवीं काश्याञ्जातो बाहुजवेश्मनि ॥
नाम्ना तु सोऽभवत् ख्यातो दिवोदास इति
क्षितौ ॥”
“वत्स ! वाराणसीं गच्छत्वं विश्वेश्वरवल्लभाम् ॥
तत्र नाम्ना दिवोदासः काशिराजोऽस्ति
बाहुजः ।
स हि धन्वन्तरिः साक्षादायुर्व्वेदविदांवरः ॥”
“अथ धन्वन्तरिं सर्व्वे वानप्रस्थाश्रमे स्थितम् ।
भगवन्तं सुरश्रेष्ठं मुनिभिर्बहुभिः स्तुतम् ॥
काशिराजं दिवोदासं तेऽपश्यन् विनयान्विताः ।
स्वागतञ्च इति स्माह दिवोदासो यशोधनः ॥
कुशलं परिपप्रच्छ तथागमनकारणम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
“अथ खलु भगवन्तममरवरमृषिगणवरिवृत-
माश्रमस्थं काशिराजं दिवोदासं धन्वन्तरि-
मौपधेनववैतरणौरभ्रपौष्कलावतकरवीर्य्यगोपुर-
रक्षितसुश्रुतप्रभृतय ऊचुः ।”
इति सुश्रुते सूत्रस्थाने प्रथमेऽध्याये ॥)

दिवोद्भवा, स्त्री, (दिवे वने उद्भवो यस्याः ।)

एला । इति शब्दार्थकल्पतरुः ॥ (दिवे स्वर्गे
उद्भवो यस्य ।) दिविजाते, त्रि ॥

दिवौकाः, [स्] पुं, (दिवं स्वर्ग आकाशो वा

ओको यस्य ।) देवः । इत्यमरः । १ । १ । ७ ॥
(यथा, महाभारते । ३ । ८४ । १११ ।
“दिवौकसां पुष्करिणीं समासाद्य नराधिप ! ।
न दुर्गतिमवाप्नोति वाजिमेधञ्च विन्दति ॥”)
चातकः । इति मेदिनी । से, ५४ ॥ स्वर्ग-
वासिनि, त्रि । यथा, महाभारते । १ । ९६ । ९ ।
“सा तु विध्वस्तवपुषः कश्मलाभिहतान्नृप ! ।
ददर्श पथि गच्छन्ती वसून् देवान् दिवौकसः ॥”)

दिव्यं, क्ली, (दिवे वने भवम् । दिव + यत् ।)

लवङ्गम् । इति मेदिनी । ये, ३१ ॥ हरिचन्द-
नम् । इति राजनिर्घण्टः ॥ शपथः । तद्भेदा
यथा, दिव्यतत्त्वे बृहस्पतिः ।
“धटोऽग्निरुदकञ्चैव विषं कोषश्च पञ्चमम् ।
षष्ठञ्च तण्डुलाः प्रोक्ताः सप्तमं सप्तमाषकम् ॥
अष्टमं फलमित्युक्तं नवमं धर्म्मजं स्मृतम् ।
दिव्यान्येतानि सर्व्वाणि निर्द्दिष्टानि स्वयम्भुवा ॥”
एषां विवरणं तत्तच्छब्दे केषाञ्चित् परीक्षाशब्दे
च द्रष्टव्यम् ॥ * ॥ गङ्गाजलस्पर्शपूर्ब्बकशपथस्त्रत्र
मिथ्याकथने दोषश्च यथा, --
“ब्रह्मणो वचनं श्रुत्वा ज्ञानेशो ज्ञानिनांवरः ।
गङ्गातोयं करे कृत्वा स्वीकारञ्च चकार सः ॥
गङ्गातोयमुपस्पृश्य मिथ्या यदि वदेज्जनः ।
स याति कालसूत्रञ्च यावद्बै ब्रह्मणो वयः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ * ॥
गङ्गाजलादिस्पर्शपूर्ब्बकशपथे दोषो यथा ।
“तथा गङ्गोदकं ताम्रं गोमयं गोरजस्तथा ।
सत्यं वा यदि वासत्यं यदि दिव्यं करोति यः ॥
कर्त्ता च रौरवं याति तथा कारयिता प्रिये ! ।
उभयोः पुनरावृत्तिर्नरयोनिषु नास्ति वै ॥
तस्यास्ति पुनरावृत्तिर्व्याघ्रशूकरयोनिषु ।
दिव्यं कर्त्तुः कारयितुर्जपपूजा वृथा यथा ॥
गायत्त्रीरहितस्यापि नरकञ्चोत्तरोत्तरम् ॥”
इति गायत्त्रीतन्त्रे पञ्चमपटलः ॥

दिव्यः, त्रि, (दिवि भवः । यत् ।) मनोज्ञः । दिवि

भवः । इति मेदिनी । ये, ३१ ॥ (यथा, विष्णु-
पुराणे । १ । ९ । १०४ ।
“दिव्यमालाम्बरधरा स्नाता भूषणभूषिता ।
पश्यतां सर्व्वदेवानां ययौ वक्षःस्यलं हरेः ॥”)

दिव्यः, पुं, (दिवे वने भवः । दिव + यत् ।) यवः ।

गुगगुलुः । इति राजनिर्घण्टः ॥ भावविशेषः ।
यथा, --
“शृणु भावत्रयं देवि ! दिव्यवीरपशुक्रमात् ।
दिव्यस्तु देववत् प्रायो वीरश्चोद्धतमानसः ॥
सत्यत्रेतार्द्धपर्य्यन्तं दिव्यभावविनिर्णयः ।
त्रेताद्वापरपर्य्यन्तं वीरभाव इतीरितम् ॥
मद्यं मत्स्यं तथा मांसं मुद्रां मैथुनमेव च ।
श्मशानसाधनं भद्रे ! चितासाधनमेव च ॥
एतत्ते कथितं सर्व्वं दिव्यवीरमतं प्रिये ! ।
दिव्यवीरमतं नास्ति कलिकाले सुलोचने ! ॥”
इति कालीविलासतन्त्रम् ॥
नायकभेदः । यथा, --
“यत्तु तासां दिव्या अदिव्या दिव्यादिव्याभेदेन
गणनया द्बिपञ्चाशदधिकशतयुतसहस्रं भेदा
भवन्ति । दिव्या इन्द्राण्यादयः । अदिव्या
मालत्यादयः । दिव्यादिव्या द्रौपद्यादय इति
वदन्ति तन्न तत्र अवस्थाभेदेनैव नायिकानां
भेदात् जातिभेदेन भेदस्वीकारे अनन्तनायिका-
नामिव नायकानामप्यानन्त्यं स्यात् । तथा हि
इन्द्रादयो दिव्याः । अदिव्या माधवादयः ।
दिव्यादिव्या अर्ज्जुनादयः ।” इति रसमञ्जरी ॥
(सात्वतस्य पुत्त्राणामन्यतमः । यथा, भागवते ।
९ । २४ । ६ ।
“भजमानो भजिर्दिव्यो वृष्टिर्देवावृधोऽन्धकः ।
सात्वतस्य सुताः सप्त महाभोजश्च मारिष ! ॥”)

दिव्यकुण्डं, क्ली, (दिव्यं पुण्यप्रदत्वादत्युत्कृष्टं कुण्ड-

मिति कर्म्मधारयः ।) कामरूपे क्षोभकशैल-
पूर्ब्बभागस्थपुष्करिणीविशेषः । यथा, --
“तद्दक्षिणे महाशैलः क्षोभको नाम नामतः ।
तस्मिन् गिरौ शिलापृष्ठे वक्त्रे देवी व्यवस्थिता ॥
पञ्चपुष्करिणी नाम्ना पञ्चयोनिस्वरूपिणी ।
एकत्र पञ्चभिर्दुर्गायोनिभिः पञ्चवक्त्रकम् ॥
स्थिता रमयितुं तत्र नित्यमेव हिमाद्रिजा ।
तच्छैलपूर्ब्बभागात्तु कान्ता नाम महानदी ॥
दक्षिणं सागरं याति प्रथमा चोत्तरस्रवा ।
दिव्यकुण्डं महाकुण्डं तच्छैलोपत्यकां गता ।
संस्थितस्तत्र स्नात्वा तु तां देवीं परिपूजयेत् ।
दिव्यकुण्डे नरः स्नात्वा पञ्चपुष्करिणीं शिवाम् ॥
यः पूजयेन्महाभागः स योनौ न हि जायते ॥”
इति कालिकापुराणे ८१ अध्यायः ॥

दिव्यगन्धं, क्ली, (दिव्यो मनोहरो गन्धोऽस्य ।)

लवङ्गम् । इति राजनिर्घण्टः ॥ (लवङ्गशब्देऽस्य-
विवरणं ज्ञातव्यम् ॥)

दिव्यगन्धः, पुं, (दिव्यः गन्धो यस्य ।) गन्धकः ।

इति राजनिर्घण्टः ॥ (गन्धकशब्देऽस्य विवृति-
र्विज्ञेया ॥)

दिव्यगन्धा, स्त्री, (दिव्यो गन्धोऽस्याः ।) स्थूलैला ।

महाचञ्चशाकः । इति राजनिर्घण्टः ॥

दिव्यगायनः, पुं, (दिव्यः स्वर्गीयः गायनः ।)

गन्धर्व्वः । स्वर्गगायकः । इति शब्दरत्नावली ॥

दिव्यचक्षुः, [स्] त्रि, (दिव्यमलौकिकं चक्षुर्यस्य ।)

ज्ञानचक्षुः । यथा, नीलकण्ठस्तोत्रे ।
“नमस्तुभ्यं विरूपाक्ष ! नमस्ते दिव्यचक्षुषे ।”
क्ली, ज्ञानात्मकचक्षुः । यथा, --
“न तु मां शक्यते द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥”
इति श्रीभगवद्गीतायाम् । ११ । ८ ॥ “अतो
दिव्यमलौकिकं ज्ञानात्मकं चक्षुस्तुभ्यं ददामि ।”
इति तट्टीकायां श्रीधरस्वामी ॥ * ॥ (दिव्यं
स्वर्गीयं मनोज्ञं वा चक्षुः ।) स्वर्गीयचक्षुः ।
सुन्दरलोचनम् । उपचक्षुः । चस्मा इति
भाषा । इति लोकप्रसिद्धम् ॥ (पुं, दिव्यं मनोज्ञं
चक्षुर्यस्य । यद्बा, दिव्यं चक्षुर्ज्ञाननेत्रं यस्मात् ।
ऊर्णनाभस्य सूत्रसर्ज्जनग्रहणमवलोक्येश्वरस्य
सर्ज्जनसं हरणपरिज्ञानात् तथात्वम् ।) मर्कटः ।
इति शब्दमाला ॥ सुगन्धभेदः । त्रि, (दिव्ये
आकाशभूते चक्षुषा यस्य ।) अन्धः । (दिव्ये
सुन्दर चक्षुषी यस्य ।) सुलोचनः । इति
मेदिनी । से, ६८ ॥
पृष्ठ २/७१३

दिव्यतेजाः, [स्] स्त्री, (दिव्यं स्वर्गीयं देवतुल्यं

तेजो यस्याः । अस्याः सेवनेन दिव्यतेजोवत्तेज-
आधायकत्वात् तथात्वम् ।) ब्राह्मी । इति राज-
निर्घण्टः ॥ (दिव्यं तेजोयस्य । अलौकिकतेजस्के,
त्रि ॥)

दिव्यदोहदं, त्रि, (दिव्यं स्वर्गीयं दोहदम् अभि-

लाषो यत्र ।) उपयाचितम् । देवदेयवस्तु ।
इति त्रिकाण्डशेषः ॥ यथा, हारावली । २१ ॥
“यद्दीयते तु देवेभ्यो मनोराज्यस्य सिद्धये ।
उपयाचितकं दिव्यदोहदं तद्बिदुर्बुधाः ॥

दिव्यपञ्चामृतं, क्ली, (पञ्चानां अमृतानां तत्तुल्य-

स्वादुगुणवद्द्रव्यानां समाहारः पञ्चामृतम् ।
दिव्यं पञ्चामृतमिति कर्म्मघारयः ।) मिलित-
गव्याज्यगव्यदधिगव्यक्षीरमाक्षिकशर्करारूपम् ।
इति राजनिर्घण्टः ॥

दिव्यपुष्पः, पुं, (दिव्यं मनोरमं पुष्पं यस्य ।) कर-

वीरः । इति राजनिर्घण्टः ॥

दिव्यपुष्पा, स्त्री, (दिव्यानि मनोज्ञानि पुष्पा-

ण्यस्याः ।) महाद्रोणा । इति राजनिर्घण्टः ॥

दिव्यपुष्पिका, स्त्री, (दिव्यपुष्प + संज्ञायां कन् टाप्

अत इत्वञ्च ।) लोहितवर्णार्कवृक्षः । इति
रत्नमाला ॥

दिव्ययमुना, स्त्री, (दिव्या यमुना तत्तुल्यफल-

प्रदत्वात् ।) कामरूपे दमनिकाया नद्याः पूर्ब्ब-
भागस्थसरिद्बिशेषः । यथा, --
“तस्या नद्याः पूर्ब्बभागे गङ्गेव फलदायिनी ।
माघन्तु सकलं मासं तस्यां स्नात्वा नरोत्तमः ॥
तथा दमनिकायाञ्च परं निर्व्वाणमाप्नुयात् ।
ततः पूर्ब्बे परा देवी नाम्ना सा सरिदुत्तमा ॥
महती दिव्ययमुना यमुनावत् फलप्रदा ।
दक्षिणाद्रिसमुद्भूता दक्षिणोदधिगामिनी ॥
तस्थान्तु कार्त्तिकं मासं स्नात्वा मोक्षमवाप्नु-
यात् ॥”
इति कालिकापुराणे ८१ अध्यायः ॥

दिव्यरत्नं, क्ली, (दिव्यं चिन्तामात्रं तदर्थप्रदायक-

त्वादलौकिकं रत्नम् ।) चिन्तामणिः । इति
शब्दार्थकल्पतरुः ॥

दिव्यरथः, पुं, (दिव्यः स्वर्गीयः अन्तरीक्षचरो वा

रथः ।) व्योमयानम् । देवविमानः । इति
शब्दरत्नावली ॥

दिव्यरसः, पुं, (दिव्यो रस इति नित्यकर्म्मघारयः ।)

पारदः । इति राजनिर्घण्टः ॥

दिव्यलता, स्त्री, (दिव्या वनभवा लता ।) मूर्व्वा-

लता । इति राजनिर्घण्टः ॥

दिव्यवस्त्रः, पुं, (दिव्यं वस्त्रमिव । अभिधानात्

पुंस्त्वम् ।) सूर्य्यशोभा । इति शब्दरत्नावली ॥
(दिव्यं सुन्दरं वस्त्रमस्य ।) सुन्दरवस्त्रयुक्ते,
त्रि । (दिव्यं सुन्दरं वस्त्रम् ।) क्ली, सुन्दर-
वस्त्रम् । (दिविं भवम् । यत् । दिव्यं वस्त्रमिति
कर्म्मधारयः ।) दिविभववस्त्रम् ॥

दिव्यसारः, पुं, (दिव्यो मनोज्ञः सारो यस्य ।)

शालवृक्षः । इति राजनिर्घण्टः ॥

दिव्या, स्त्री, (दिवि भवा । मनोज्ञत्वगुणवत्त्वात्

दिव्येवेत्यर्थः ।) धात्री । इति मेदिनी । ये,
३१ ॥ बन्ध्या कर्कोटकी । शतावरी । महामेदा ।
ब्राह्मी । स्यूलजीरकः । श्वेतदूर्व्वा । हरीतकी ।
पुरा । इति राजनिर्घण्टः ॥

दिव्या, स्त्री, (दिवि भवा । यत् । ततष्टाप् ।)

नायिकाभेदः ॥ (सा च इन्द्राण्यादिः ॥)

दिव्यादिव्यः, पुं, (दिव्यः स्वर्गीयः अदिव्यश्च ।)

नायकभेदः ॥ (स च अर्ज्जुनादिः ॥)

दिव्यादिव्या, स्त्री, (दिव्या अदिव्या च ।)

नायिकाभेदः । अस्याः प्रमाणं दिव्यशब्दे
द्रष्टव्यम् ॥ उपदेवीविशेषः । इति शब्दार्थ-
कल्पतरुः ॥

दिव्योदकं, क्ली, (दिव्यमान्तरीक्ष्यमुदकम् ।)

आकाशजलम् । तत्पर्य्यायः । खवारि २ आकाश-
सलिलम् ३ व्योमोदकम् ४ अन्तरीक्षजलम् ५ ।
अस्य गुणाः । त्रिदोषनाशित्वम् । मधुरत्वम् ।
पथ्यदत्वम् । परमरुच्यत्वम् । अग्निदत्वम् ।
तृष्णाश्रममेहापहारकत्वम् । पात्रापेक्षिगुण-
त्वञ्च ॥ अनार्त्तवस्य तस्य गुणः । सर्व्वेषां देहिनां
त्रिदोषजनकत्वम् । सद्योभूमिष्ठस्य तस्य गुणः ।
कलुषत्वम् । दोषदायकत्वञ्च । चिरस्थितस्य
गुणाः । लघुत्वम् । स्वच्छत्वम् । पथ्यत्वम् ।
स्वादुत्वम् । सुखावहत्वञ्च । इति राजनिर्घण्टः ॥

दिव्योपपादुकः, त्रि, (दिवि भवः । दिव +

“द्युप्रागपागुदक्प्रतीचो यत् ।” ४ । २ । १०१ । इति
यत् । उपपद्यते इति । उप + पद + “लष-
पतपदस्थेति ।” ३ । २ । १५४ । इति उकञ् । ततो
दिव्यश्चासौ उपपादुकश्चेति ।) देवता । इत्य-
मरः । ३ । १ । ५० ॥ (“मातृपित्रादिदृष्टकारण-
निरपेक्षा अदृष्टसहकृतेभ्यो जाता ये देवास्ते
दिव्योपपादुका उच्यन्ते ।” इति शब्दार्थ-
चिन्तामणिः ॥)

दिव्यौघः, पुं, (दिव्यानां स्वर्गीयगुणानामोघः समूहो

यत्र ।) गुरुविशेषः । यथा, शक्तिरत्नाकरतन्त्रे ।
“महादेवो महाकालस्त्रिपुरश्चैव भैरवः ।
दिव्यौघा गुरवः प्रोक्ताः सिद्धौघान् कथयामि ते ॥”
अपि च ।
“अथ तारागुरून् वक्ष्ये दृष्टादृष्टफलप्रदान् ।
ऊर्द्धकेशो व्योमकेशो नीलकण्ठो वृषध्वजः ॥
दिव्यौघान् सिद्धिदान् वत्स ! शृणुष्वावहितो
सुदा ॥”
अपिच ।
“शृणु वत्स ! महादेव ! गुरून् दुर्गामनूद्भवान् ।
परमात्मा परानन्दः परमेष्ठी शुभोदयः ॥
कृष्णः कालः कलानाथो दिव्यौघा भैरवा-
दिकाः ॥”
इति तन्त्रसारः ॥

दिश, औ ञ श ओचे । इति कविकल्पद्रुमः ॥

(तुदां-उभं-सकं-अनिट् ।) औ, अदिक्षत् ।
ञ श, दिशति दिशते । ओच इति उचिर्य्य
समवायने इत्यस्य अलि रूपम् । धातूनाम-
नेकार्थत्वादोच इह दानमाज्ञापनं वा । दिदेश
कौत्साय समस्तमेवेति रघुः । कथनेऽप्ययम् ।
धर्म्मं दिशति देशिकः । इति दुर्गादासः ॥

दिशा, स्त्री, (दिश् + टाप् ।) दिक् । इति व्याकर-

णम् ॥ (यथा महाभारते । ४ । ५३ । १९ ।
“अत्र मध्ये यथार्कस्य रश्मयस्तिग्मतेजसः ।
दिशासु च तथा राजन् ! न संख्याताः शरा-
स्तदा ॥”)

दिशाः, [स्] स्त्री, (दिशतीति । दिश + बाहु-

लकात् कसुन् ।) दिक् । इत्यमरटीकायां
मथुरानाथः ॥

दिश्यं, त्रि, (दिशि भवमिति । दिश् + “दिगादिभ्यो

यत्” । ४ । ३ । ५४ । इति यत् ।) दिग्भववस्तु ।
इत्यमरः । १ । ३ । २ ॥

दिष्टं, क्ली, (दिशति इष्टानिष्टफलं ददातीति ।

दिश + “क्तिच्क्तौ च संज्ञायाम् ।” ३ । ३ । १७४ ।
इति क्तः ।) भाग्यम् । इत्यमरः । १ । ४ । २८ ॥
(यथा, महाभारते । १४ । ५३ । १६ ।
“ततस्ते निघनं प्राप्ताः सर्व्वे ससुतबान्धवाः ।
न दिष्टमत्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा ॥”
दिश + कर्म्मणि क्तः ।) उपदिष्टे, त्रि । इति
त्रिकाण्डशेषः ॥ (कथिते च । यथा, भट्टौ । २ । ३२ ।
“गाधेयदिष्टं विरसं रसन्तं
रामोऽपि मायाचनमस्त्रचुञ्चुः ॥”)

दिष्ठः, पुं, (दिशतीति । दिश + संज्ञायां क्तः ।)

कालः । इत्यमरः । १ । ४ । १ ॥ (वैवस्वतमनोः
पुत्त्रविशेषः । यथा, भागवते । ८ । १३ । २ ।
“नरिष्यन्तोऽथ नाभागः सप्तमो दिष्टौच्यते ॥”)
दारुहरिद्रा । इति शब्दमाला ॥

दिष्टान्तः, पुं, (दिष्टस्य भाग्यस्य अन्तो यत्र ।)

मरणम् । इत्यमरः । २ । ८ । ११६ ॥ (यथा, महा-
भारते । १ । ५८ । २७ ।
“मोक्षयित्वा तु भुजगान् सर्पसत्राद्द्विजोत्तमः ।
जगाम काले धर्म्मात्मा दिष्टान्तं पुत्त्रपौत्त्रवान् ॥”)

दिष्टिः, स्त्री, (दिश + क्तिन् संज्ञायां क्तिच् वा ।)

हर्षः । परिमाणम् । इति मेदिनी । टे, १८ ॥

दिष्ट्या, व्य, (दिशतीति सम्पदादित्वात् भावे क्विप्

दिशम् । देशनं स्त्यायति । स्त्यै + क्विप् । ष्टुत्वम् ।
संज्ञापूर्ब्बकत्वात् जश्त्वं न । यद्बां, दिशतीति ।
दिश + “अघ्न्यादिभ्यश्चेति ।” यक्प्रत्ययेन साधुः ।)
आनन्दः । इत्यमरः । ३ । ४ । १० ॥ भाग्येन । यथा, --
“दिष्ट्याम्ब ! ते कुक्षिगतः परः पुमान् ॥”
इति श्रीभागवतम् ॥

दिष्णुः, त्रि, (ददातीति । दा + बाहुलकात् गिष्णु ।)

दाता । इत्युणादिकोषः ॥

दिह, ल ञ औ लिपि । इति कविकल्पद्रुमः ॥

(अदां-उभं-अकं-सकं च-अनिट् ।) दिह उप-
चये इति प्राञ्चः । उपचयो वृद्धिस्तत्करणञ्च ।
ल ञ, देग्धि दिग्धे देहः प्रतिदिनमुपचितः
स्यादित्यर्थः । देग्धि सौधं सुधया लेपकः ।
उपचितं करोतीत्यर्थः । औ, अधिक्षत् इति
दुर्गादासः ॥
पृष्ठ २/७१४

दी, ओ ङ य क्षये । इति कविकल्पद्रुमः ॥ (दिवां-

आत्मं-अकं-सेट् ।) ओ, दीनः । ङ य, दीयते ।
इति दुर्गादासः ॥

दीक्ष, ङ मौण्ड्ये । इज्यायाम् । ह्योऽर्थे । इति कवि-

कल्पद्रुमः ॥ (भ्वां-आत्मं-अकं-ह्योऽर्थे अकं-सकं
च-सेट् ।) मौण्ड्यं मुण्डितमस्तकीभावः । इज्या
यजनम् । ह्योऽर्थो नियमव्रतादेशोपनीतयः ।
ङ, दीक्षते वटुर्मुण्डितमस्तकः स्यादित्यर्थः ।
दीक्षते जनो यजतीत्यर्थः । दीक्षते याज्ञिको
नियमी स्यादित्यर्थः । दीक्षते पण्डितो जनं
व्रतमुपदिशतीत्यर्थः । दीक्षते पुत्त्रं विप्रः उप-
नयतीत्यर्थः । इति दुर्गादासः ॥

दीक्षणीयेष्टिः, स्त्री, (दीक्षणीया इष्टिः ।) यज्ञ-

विशेषः । तत्पर्य्यायः । सौमिको २ । इति
हेमचन्द्रः । ३ । ४८७ ॥

दीक्षा, स्त्री, (दीक्ष + भावे अ । स्त्रियां टाप् ।)

यजनम् । पूजनम् । इत्यजयपालः ॥ व्रतसंग्रहः ।
इति हेमचन्द्रः । ३ । ४८७ ॥ गुरुमुखात् स्वेष्टदेव-
मन्त्रग्रहणम् । (एतन्निरुक्तिर्यथा, गौतमीय-
तन्त्रे । ७ । २ ।
“ददाति दिव्यतां तावत् क्षिणुयात् पापसन्ततिः ।
तेन दीक्षेति विख्याता मुनिभिस्तन्त्रपारगैः ॥”)
यथाच, --
“दीयते ज्ञानमत्यन्तं क्षीयते पापसञ्चयः ।
तस्माद्दीक्षेति सा प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ॥
दिव्यं ज्ञानं यतो दद्यात् कुर्य्यात् पापस्य संक्षयम् ।
तस्माद्दीक्षेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः ॥
उच्यते प्रथमं तत्र लक्षणं गुरुशिष्ययोः ॥”
इत्यत्र गुरुशिष्ययोर्लक्षणं तत्तच्छब्दे द्रष्टव्यम् ॥
योगिनीतन्त्रे ।
“पितुर्म्मन्त्रं न गृह्णीयात् तथा मातामहस्य च ।
सोदरस्य कनिष्ठस्य वैरिपक्षाश्रितस्य च ॥”
रुद्रयामले ।
“न पत्नीं दीक्षयेद्भर्त्ता न पिता दीक्षयेत् सुताम् ।
न पुत्त्रञ्च तथा भ्राता भ्रातरं न च दीक्षयेत् ॥
सिद्धमन्त्रो यदि पतिस्तदा पत्नीं स दीक्षयेत् ।
शक्तित्वेन वरारोहे ! न च सा कन्यका भवेत् ॥”
तथा गणेशविमर्षिण्याम् ।
“यतेर्दीक्षा पितुर्दीक्षा दीक्षा च वनवासिनः ।
विविक्त्राश्रमिणां दीक्षा न सा कल्याणदायिका ॥”
इत्यादिनिषेधवचनादेभ्यो मन्त्रं न गृह्णीयादि-
त्यर्थः । इति तु सिद्धेतरविषयम् । सिद्धमन्त्रो न
दुष्यतीति वचनात् ॥ * ॥ शक्तियामले ।
“तीर्थाचारव्रतो मन्त्री ज्ञानवान् सुसमाहितः ।
नित्यनिष्ठो यतिः ख्यातो गुरुः स्याद्भौतिको-
ऽपि च ॥”
सिद्धयामले ।
“यदि भाग्यवशेनैव सिद्धविद्यां लभेत् प्रिये ! ।
तदेव तान्तु दीक्षेत त्यक्त्वा गुरुविचारणम् ॥”
गणेशविमर्षिण्याम् ।
“प्रमादाच्च तथाज्ञानात् पितुर्द्दीक्षां समाचरन् ।
प्रायःश्चित्तं ततः कृत्वा पुनर्द्दीक्षां समाचरेत् ॥”
पितुरित्युपलक्षणम् । मातामहादीनामपि ।
प्रायश्चित्तन्तु अयुतसावित्रीजपः । सर्व्वत्र तथा
दर्शनात् । तथा च शङ्खः ।
“दशसाहस्रजप्तेन सर्व्वकल्मषनाशिनी ।”
श्रीक्रमेऽपि ।
“मनुर्विमृष्य दातव्यो ज्येष्ठपुत्त्राय धीमते ॥”
मत्स्यसूक्ते ।
निर्वीर्य्यञ्च पितुर्म्मन्त्रं शैवे शाक्ते न दुष्यति ॥”
इति कौलिकमन्त्रदीक्षापरम् । योगिनीतन्त्रे
शक्त्यादिविद्यामधिकृत्य दीक्षानिषेधात् । यद्बा
शाक्ते तारादिविद्यायां मत्स्यसूक्ते तथा प्रति-
पादनात् । तथा च ।
“कृतसुकृतसहस्रानेकजन्मप्रभावै-
र्भवति यदि मनुष्यो गुर्व्वधीनश्चिराय ।
कथमपि मनुमेनं प्राप्य शिष्यः परस्मै
निजकुलतिलकाय ज्येष्ठपुत्त्राय दद्यात् ॥” इति ॥
महातीर्थे उपरागे सति सर्व्वत्र न दोषः । तथा
च विष्णुमन्त्रमधिकृत्य ।
“साधु पृष्टं त्वया ब्रह्मन् ! वक्ष्यामि सकलं तव ।
ब्रह्मणा कथितं पूर्ब्बं वशिष्ठाय महात्मने ॥
वशिष्ठोऽपि स्वपौत्त्राय मत्पित्रे दत्तवान् स्वयम् ।
प्रसन्नहृदयः स्वच्छः पिता मे करुणानिधिः ॥
कुरुक्षेत्रे महातीर्थे सूर्य्यपर्व्वणि दत्तवान् ॥”
इत्यादि वैशम्पायनसंहितायां शौनकं प्रति
व्यासवाक्यम् ॥ * ॥ योगिनीतन्त्रे ।
“निर्वीर्य्यञ्च पितुर्म्मन्त्रं तथा मातामहस्य च ।
स्वप्नलब्धं स्त्रिया दत्तं संस्कारेणैव शुध्यति ॥”
यत्तु ।
“साध्वी चैव सदाचारा गुरुभक्ता जितेन्द्रिया ।
सर्व्वमन्त्रार्थतत्त्वज्ञा सुशीला पूजने रता ॥
गुरुयोग्या भवेत् सा हि विधवापरिवर्ज्जिता ।
स्त्रिया दीक्षा शुभा प्रोक्ता मातुश्चाष्टगुणा
स्मृता ॥”
इदन्तु गुरोरुपासितमन्त्रपरम् । तथा च भैरवी-
तन्त्रे ।
“स्वीयमन्त्रोपदेशे तु न कुर्य्याद्गुरुचिन्तनम् ।”
मातुरित्युपासितेऽष्टगुणं अनुपासिते शुभफलद-
मित्यर्थः । सिद्धमन्त्रविषयं वा । वस्तुतस्तु योगिनी-
तन्त्रे स्त्रीपदं विधवापरम् । एकवाक्यताबलात् ॥
दीक्षायां विधवादीनामधिकारं विशेषयति
कुलार्णवे ।
“विधवायाः सुतादेशात् कन्यायाः पितुराज्ञया ।
नाधिकारः स्वतो नार्य्या भार्य्याया भर्त्तुराज्ञया ॥”
योगिनीतन्त्रे ।
“स्वप्नलब्धे तु कलसे गुरोः प्राणं निवेशयेत् ।
वटपत्रे कुङ्कुमेन लिखित्वा ग्रहणं शुभम् ॥
ततः शुद्बिमवाप्नोति चान्यथा विफलं भवेत् ॥”
इदन्तु सद्गुरोरभावे तत्सत्ते तस्मादेव गृह्णीयात्
स्वप्ने तु नियमो न हीति नारदवचनात् ॥ * ॥
तथा विद्याधराचार्य्यधृतजावालवचनम् ।
“मध्यदेशकुरुक्षेत्रनाटकोङ्कणसम्भवाः ।
अन्तर्व्वेदिप्रतिष्ठाना आवान्त्याश्च गुरूत्तमाः ॥
गौडाः शाल्वोद्भवाः सौरा मागधाः केरला-
स्तथा ।
कोषलाश्च दशार्णाश्च गुरवः सप्त मध्यमाः ॥
कर्णाटनर्म्मदारेवाकच्छातीरोद्भवास्तथा ।
कालिङ्गाश्च कलम्बाश्च काम्बोजाश्चाधमा
मताः ॥” * ॥
तथा ।
“वैष्णवे वैष्णवो ग्राह्यः शैवे शैवश्च शाक्तिके ।
शैवः शाक्तोऽपि सर्व्वत्र दीक्षास्वामी न संशयः ॥”
दीक्षां विना जपस्य दुष्टत्वात् प्रथमं सा
निरूप्यते ।
“दिव्यं ज्ञानं यतो दद्यात् कुर्य्यात् पापस्य सङ्-
क्षयम् ।
तस्माद्दीक्षेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः ॥”
मन्त्रलक्षणमाह । पिङ्गलामते ।
“मननं विश्वविज्ञानं त्राणं संसारबन्धनात् ।
यतः करोति संसिद्ध्यै मन्त्र इत्यच्यते ततः ॥”
अन्यच्च ।
“मननात्त्रायते यस्मात्तस्मान्मन्त्रः प्रकीर्त्तितः ॥”
सर्व्वाश्रमेषु दीक्षाया आवश्यकत्वम् । तथा च ।
“दीक्षामूलं जपं सर्व्वं दीक्षामूलं परं तपः ।
दीक्षामाश्रित्य निवसेत् यत्र कुत्राश्रमे वसन् ॥
अदीक्षिता ये कुर्व्वन्ति जपपूजादिकाः क्रियाः ।
न भवन्ति प्रिये ! तेषां शिलायामुप्तबीजवत् ॥
देवि ! दीक्षाविहीनस्य न सिद्धिर्न च सद्गतिः ।
तस्मात् सर्व्वप्रयत्नेन गुरुणा दीक्षितो भवेत् ॥
अदीक्षितोऽपि मरणे रौरवं नरकं व्रजेत् ।
तस्माद्दीक्षां प्रयत्नेन सदा कुर्य्याच्च तान्त्रिकात् ॥
ग्रन्थे दृष्ट्वा तु मन्त्रं वै यो गृह्णाति नराधमः ।
मन्वन्तरसहसेषु निष्कृतिर्नैव जायते ॥
नादीक्षितस्य कार्य्यं स्यात्तपोभिर्नियमव्रतैः ।
न तीर्थगमनेनापि न च शारीरयन्त्रणैः ॥”
मत्स्यसूक्ते ।
“अदीक्षितानां मर्त्यानां दोषं शृणु वरानने ! ।
अन्नं विष्ठासमं तस्य जलं मूत्रसमं स्मृतम् ॥
तत्कृतं तस्य वा श्राद्धं सर्व्वं याति ह्यधोगतिम् ॥”
शूद्रस्य मन्त्रविशेषनिषेधमाह ।
“प्रणवाद्यं न दातव्यं मन्त्रं शूद्राय सर्व्वथा ।
आत्ममन्त्रं गुरोर्म्मन्त्रं मन्त्रं चाजपसंज्ञकम् ॥
स्वाहाप्रणवसंयुक्तं शूद्रे मन्त्रं ददद्द्विजः ।
शूद्रो निरयमाप्नोति ब्राह्मणो यात्यधोगतिम् ॥”
श्रुतिरपि । “सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्रो
यदि जानीयात् स मृतोऽधो गच्छति ।” इति ॥ * ॥
विशेषमाह वाराहीये ।
“गोपालस्य मनुर्देयो महेशस्यापि पादजे ।
तत्पत्न्याश्चापि सूर्य्यस्य गणेशस्य मनुस्तथा ॥
एषां दीक्षाधिकारी स्यादन्यथा पापभाग्भवेत् ॥”
इति ॥ * ॥ गोविन्दवृन्दावने ।
“अदीक्षितस्य मरणे प्रेतत्वं न च मुञ्चति ॥”
नवरत्नेश्वरे ।
“सर्व्वासामपि दीक्षाणां मुक्तिः फलमखण्डितम् ।
अविरोधात् भवन्त्येव प्रासङ्गिक्यस्तु भक्तयः ॥”
पृष्ठ २/७१५
तथा ।
“उपपातकलक्षाणि महापातककोटयः ।
क्षणात् दहति देवेशि दीक्षा हि विधिना कृता ॥”
यामले ।
“आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः ।
न हि देवाः प्रसीदन्ति कलौ चान्यविधानतः ॥”
अतः सद्गुरोराहितदीक्षः सर्व्वकर्म्माणि
साधयेत् । * । तत्राप्यनुकूलमन्त्रं दीक्षेत । तथा च
सारदायाम् ।
“स्वतारराशिकोष्ठानामनुकूलान् भजेन्मनून् ॥”
तथा वाराहीये ।
“ताराचक्रं राशिचक्रं नामचक्रं तथैव च ।
अत्र चेत् सगुणो मन्त्रो नान्यच्चक्रं विचारयेत् ॥”
इति तु प्रघानतया बोद्धव्यम् । तथा च ।
“धनिमन्त्रं न गृह्णीयात् अकुलञ्च तथैव च ।”
इत्यादिदर्शनात् तत्तच्चक्रविचारस्य आवश्यक-
त्वात् प्रथमं तन्निरूप्यते ॥ * ॥ तत्र सिद्धसार-
स्वते ।
“नृसिंहार्कवराहाणां प्रासादप्रणवस्य च ।
संपिण्डाक्षरमन्त्राणां सिद्धादीन्नैव शोधयेत् ॥
स्वप्नलब्धे स्त्रिया दत्ते मालामन्त्रे च त्र्यक्षरे ।
वैदिकेषु च मन्त्रेषु सिद्धादीन्नैव शोधयेत् ॥” * ॥
मालामन्त्रस्तु वाराहीये ।
“विंशत्यर्णाधिका मन्त्रा मालामन्त्राः प्रकीर्त्तिताः ।
नपुंसकस्य मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥
हंसस्याष्टाक्षरस्यापि तथा पञ्चाक्षरस्य च ।
एकद्वित्र्यादिबीजस्य सिद्धादीन्नैव शोधयेत् ॥
तथा एकाक्षरस्य मन्त्रस्य मालामन्त्रस्य पार्व्वति ! ।
वैदिकस्य च मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥” * ॥
तथा मुण्डमालातन्त्रे ।
“काली तारा महाविद्या षोडशी भुवनेश्वरी ।
भैरवी छिन्नमस्ता च विद्या धूमावती तथा ॥
वगला सिद्धविद्या च मातङ्गी कमलात्मिका ।
एता दश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः ॥”
मालिनीविजये ।
“अथ वक्ष्याम्यहं या या महाविद्या महीतले ।
दोषजालैरसंस्पृष्टास्ताः सर्व्वा हि फलैः सह ॥
काली नीला महादुर्गा त्वरिता छिन्नमस्तका ।
वाग्वादिनी चान्नपूर्णा तथा प्रत्यङ्गिरा पुनः ॥
कामाख्यावासिनी बाला मातङ्गी शैलवासिनी ।
इत्याद्याः सकला विद्याः कलौ पूर्णफलप्रदाः ॥
सिद्धमन्त्रतया नात्र युगसेवापरिश्रमः ।
तथा चैता महाविद्याः कलिदोषान्न वाधिताः ॥”
चामुण्डातन्त्रे ।
“कलौ काली तथा तारा भैरवी छिन्नमस्तका ।
त्रिकूटा त्रिपुटा दुर्गा तथा महिषमर्द्दिनी ॥
कात्यायनी च चामुण्डा महाविद्याः प्रकी-
र्त्तिताः ।
नात्र सिद्धाद्यपेक्षास्ति न नक्षत्रविचारणा ॥
कालादिशोधनं नास्ति न चामित्रादिदूषणम् ।
सिद्धविद्यातया नात्र युगसेवापरिश्रमः ॥
नास्ति किञ्चिन्महादेवि ! दुःखसाध्यं कथञ्चन ॥”
इत्यादिवचनादेषु विचारो नास्ति । वस्तुतस्तु
इदं प्रशंसापरम् । सर्व्वत्र विचारस्यावश्यक-
त्वम् । दुरदृष्टवशात् कदाचिद्वैरिमन्त्रस्य स्वप्नादौ
प्राप्त्या तत्तद्दोषस्य दृष्टत्वात् ।” इति तु साम्प्र-
दायिकाः ॥ * ॥ अत्र कुलाकुलचक्रम् । राशि-
चक्रम् । नक्षत्रचक्रम् । अकथहचक्रम् । अक-
डमचक्रम् । ऋणिधनिचक्रम् । एतानि चक्रशब्दे
तत्तच्छब्दे च द्रष्टव्यानि ॥ * ॥
अथ दीक्षाकालनियमः ।
“मन्त्रारम्भस्तु चैत्रे स्यात् समस्तपुरुषार्थदः ।
वैशाखे रत्नलाभः स्यात् ज्यैष्ठे तु मरणं भवेत् ।
आषाढे बन्धुनाशः स्यात् पूर्णार्थः श्रावणे भवेत् ।
प्रजानाशो भवेद्भाद्रे आश्विने रत्नसञ्चयः ॥
कार्त्तिके मन्त्रसिद्धिः स्यात् मार्गशीर्षे तु तद्भवेत् ।
पौषे तु शत्रुपीडा स्यात् माघे मेधाविवर्द्धनम् ॥
फाल्गुने सर्व्वकामाः स्युर्म्मलमासं विवर्ज्जयेत् ॥”
चैत्र इति गोपालविषयम् । गौतम्युक्तत्वात् ।
मधुमासे भवेद्दीक्षा दुःखाय मरणाय चेति-
वचनान्नान्यत्र । तथा, --
“ज्यैष्ठे मृत्युप्रदा विद्या आषाढे सुखसम्पदः ।”
इति योगिनीहृदयादाषाढे श्रीविद्यायां न दोषः ।
अत्र च मासः सौर एव । सौरे मासि शुभा
दीक्षा न चान्द्रे न च तारके । इति गौत-
मीयात् ५ अध्यायात् ॥
वैशम्पायनसंहितायाम् ।
“मन्त्रस्यारम्भणं मेषे धनधान्यप्रदं भवेत् ।
वृषे मरणमाप्नोति मिथुनेऽपत्यनाशनम् ॥
कर्क्कटे सर्व्वसिद्धिः स्यात् सिंहे मेधाविनाशनम् ।
कन्यालक्ष्मीप्रदा नित्यं तुलायां सर्व्वसिद्धयः ॥
वृश्चिके स्वर्णलाभः स्यात् धनुर्मानविनाशनम् ।
मकरः पुण्यदः प्रोक्तः कुम्भो धनसमृद्धिदः ॥
मीनो दुःखप्रदो नित्यं एवं मासविधिक्रमः ॥”
प्रतिप्रसवमाह । रुद्रयामले ।
“कार्त्तिकाश्विनवैशाखमाघेऽथ मार्गशीर्षके ।
फाल्गुने श्रावणे दीक्षा पुरश्चर्य्या प्रशस्यते ॥”
अथ वारनियमः ।
“रविवारे भवेद्वित्तं सोमे शान्तिर्भवेत् किल ।
आयुरङ्गारके हन्ति तत्र दीक्षां विवर्ज्जयेत् ॥
बुधे सौन्दर्य्यमाप्नोति ज्ञानं स्यात्तु बृहस्पतौ ।
शुक्रे सौभाग्यमाप्नोति यशोहानिः शनैश्चरे ॥”
अथ तिथिनिर्णयः ।
आगमकल्पद्रुमे ।
“प्रतिपदि कृता दीक्षा ज्ञाननाशकरी मता ।
द्बितीयायां भवेज्ज्ञानं तृतीयायां शुचिर्भवेत् ॥
चतुर्थ्यां वित्तनाशः स्यात् पञ्चम्यां बुद्धिवर्द्धनम् ॥
षष्ठ्यां ज्ञानक्षयं सौख्यं लभते सप्तमीदिने ॥
अष्टम्यां बुद्धिनाशः स्यात् नवम्यां वपुषः क्षयः ।
दशम्यां राजसौभाग्यमेकादश्यां शुचिर्भवेत् ॥
द्वादश्यां सर्व्वसिद्धिः स्यात् त्रयोदश्यां दरिद्रता ।
तिर्य्यग्योनिश्चतुर्द्दश्यां हानिर्मासावसानके ॥
पक्षान्ते धर्म्मवृद्धिः स्यात् अस्वाध्यायं विव-
र्ज्जयेत् ।
सन्ध्यागर्ज्जितनिर्घोषभूकम्पोल्कानिपातने ॥
एतान्यन्यांश्च दिवसान् श्रुत्युक्तान् परिवर्ज्जयेत् ।
द्वितीया पञ्चमी चैव षष्टी चैव विशेषतः ॥
द्वादश्यामपि कर्त्तव्यं त्रयोदश्यामथापि वा ॥”
इति यत् त्रयोदशी विधानं तद्बिष्णुविषयं
रामार्च्चनचन्द्रिकाधृतत्वात् ।
“पञ्चमी सप्तमी षष्ठी द्बितीया पूर्णिमा सिता ।
त्रयोदशी तु दशमी प्रशस्ता सर्व्वकामदा ॥”
इति सनत्कुमारवचनाच्च ॥ * ॥
शिवविषये सप्तम्योर्निषेधमाह ।
“शुक्लपक्षस्य दशमी सप्तमी च विशेषतः ।
निन्द्या सदैव षष्ठी स्यादिति शैवागमान्तरे ॥”
अथ नक्षत्रनिर्णयः ।
“अश्विन्यां सुखमाप्नोति भरण्यां मरणं ध्रुवम् ।
कृत्तिकायां भवेद्दुःखी रोहिण्यां वाक्पति-
र्भवेत् ॥
मृगशीर्षे सुखावाप्तिरार्द्रायां बन्धुनाशनम् ।
पुनर्व्वसौ धनाढ्यः स्यात् पुष्ये शत्रुविनाशनम् ॥
अश्लेषायां भवेन्मृत्युर्मघायां दुःखमोचनम् ।
सौन्दर्य्यं पूर्ब्बफल्गुन्यां प्राप्नोति च न संशयः ॥
ज्ञानञ्चोत्तरफल्गुन्यां हस्तायाञ्च धनी भवेत् ।
चित्रायां ज्ञानसिद्धिः स्यात् स्वात्यां शत्रुविना-
शनम् ॥
विशाखायां सुखञ्चानुराधायां बन्धुवर्द्धनम् ।
ज्येष्ठायां सुतहानिः स्यात् मूलायां कीर्त्तिवद्धनम् ॥
पूर्ब्बाषाढोत्तराषाढे भवेतां कीर्त्तिदायिके ।
श्रवणायां भवेद्दुःखी धनिष्ठायां दरिद्रता ॥
बुद्धिः शतभिषायां स्यात् पूर्ब्बभाद्रे सुखी भवेत् ।
सौख्यं चोत्तरभाद्रे च रेवत्यां कीर्त्तिवर्द्धनम् ॥”
आर्द्राकृत्तिकयोर्निषेधस्तु शिववह्नीतरविषये ।
तथा च ।
“आर्द्रायां कृत्तिकायाञ्च मन्त्रारम्भः प्रशस्यते ।
यदीशस्य कृशानोर्वा मन्त्रारम्भो यथाक्रमम् ॥”
तन्त्रान्तरे ।
“अश्विनीभरणीस्वातीविशाखाहस्तभेषु च ।
ज्येष्ठोत्तरात्रयेष्वेवं कुर्य्यान्मन्त्राभिषेचनम् ॥”
इति ज्येष्ठाभरण्योर्यद्बिधानं तद्रामविषयं
अगस्त्यसंहितोक्तत्वात् ॥ * ॥
अथ योगादिनिर्णयो विश्वसारे ।
“शुभः सिद्धस्तथायुष्मान् ध्रुवयोगस्ततः परम् ।
प्रीतिः सौभाग्ययोगश्च वृद्धियोगस्ततः परम् ॥
हर्षणश्च तथा योगः सर्व्वमन्त्रशुभावहः ॥”
रत्नावल्याम् ।
“योगश्च प्रीतिरायुष्मान् सौभाग्यः शोभनो धृतिः ।
वृद्धिर्ध्रुवः सुकर्म्मा च साध्यः शुक्रश्च हर्षणः ॥
वरीयांश्च शिषः सिद्धो ब्रह्म इन्द्रश्च षोडश ॥”
अथ करणनिर्णयः ।
“वववालवकौलवतैतिलगरबणिजस्तदनन्तरम् ।
करणानि शुभान्येव सर्व्वतन्त्रेषु भाविनि ! ॥”
अथ लग्ननिर्णयः ।
“वृषे सिंहे च कन्यायां धनुर्मीनाख्यलग्नके ।
चन्द्रतारानुकूले च कुर्य्याद्दीक्षाप्रवर्त्तनम् ॥”
पृष्ठ २/७१६
तथा, --
“स्थिरलग्नं विष्णुमन्त्रे शिवमन्त्रे चरं शुभम् ।
द्विःस्वभावगतं लग्नं शक्तिमन्त्रे प्रशस्यते ॥”
अगस्त्यसंहितायाम् ।
“त्रिषष्ठायगताः पापाः शुभाः केन्द्रत्रिकोणगाः ।
दीक्षायान्तु शुभाः सर्व्वे बन्धुस्थाः सर्व्वनाशकाः ॥”
अथ पक्षनियमः ।
“शुक्लपक्षे भवेद्दीक्षा कृष्णेऽप्यापञ्चमाद्दिनात् ।
निषिद्धेष्वपि मासेषु विशेषो मुनिभेदतः ॥”
रत्नावल्याम् ।
“षष्ठी भाद्रपदे इषे तथा कृष्णचतुर्द्दशी ।
कार्त्तिके नवमी शुक्ला मार्गे शुक्ला तृतीयिका ॥
पौषे तु नवमी शुक्ला माघे शुक्ला चतुर्थिका ।
फाल्गुने नवमी शुक्ला चैत्रे कामचतुर्द्दशी ॥
वैशाखे चाक्षया चैव ज्यैष्ठे दशहरा तिथिः ।
आषाढे पञ्चमी शुक्ला श्रावणे कृष्णपञ्चमी ॥
एतानि देवपर्व्वाणि तीथकोटिफलं लभेत् ।
अत्र दीक्षा प्रकर्त्तव्या न मासञ्च परीक्षयेत् ॥
न वारं न च नक्षत्रं न तिथ्यादिकटूषणम् ।
न योगकरणञ्चैव शङ्करेण च भाषितम् ॥”
अन्यच्च मतम् ।
“चैत्रे त्रयोदशी शुक्ला वैशाखैकादशी सिता ।
ज्यैष्ठे चतुर्द्दशी कृष्णा आषाढे नागपञ्चमी ॥
श्रावणैकादशी भाद्रे रोहिणीसहिताष्टमी ।
आश्विने च महापुण्या महाष्टम्यप्यभीष्टदा ॥
कार्त्तिके नवमी शुक्ला मार्गशीर्षे सिते तथा ।
षष्ठी चतुर्द्दशी पौषे माघेऽप्येकादशी सिता ॥
फाल्गुने च सिता षष्ठी चेति कालविनिर्णयः ॥”
योमिनीतन्त्रे ।
“अयने विषुवे चैव ग्रहणे चन्द्रसूर्य्ययाः ।
रविसंक्रान्तिदिवसे युगाद्यायां सुरेश्वरि ! ॥
मन्वन्तरासु सर्व्वासु महापूजादिने तथा ।
चतुर्थी पञ्चमी चैव चतुर्दश्यष्टमी तथा ॥
तिथयः शुभदाः प्रोक्ता दीक्षाग्रहणकर्म्मणि ॥”
इत्यादिवचनात् चतुर्द्दश्यष्टमीति शक्तिविषयम् ।
चतुर्थीति गणेशविषयम् । तत्तत्कल्पोक्तत्वात् ।
“निन्दितेष्वपि मासेषु दीक्षोक्ता ग्रहणे शुभा ।
सूर्य्यग्रहणकालस्य समानो नास्ति भूतले ॥
विशेषतो महादेवि ! दीक्षाग्रहणकर्म्मणि ।
तत्र यद्यत् कृतं सर्व्वमनन्तफलदं भवेत् ॥
रविसंक्रमणे चैव सूर्य्यस्य ग्रहणे तथा ।
तत्र लग्नादिकं किञ्चिन्न विचार्य्यं कथञ्चन ॥
रविसंक्रमणे चैव नान्यदन्वेषितं भवेत् ।
न वारतिथिमासादिशोधनं सूर्य्यपर्व्वणि ॥”
एवं चन्द्रग्रहणेऽपि । तथा रुद्रयामले ।
“न कुर्य्याच्छाक्तिकीं दीक्षामुपरक्ते विभावसौ ।
न कुर्य्याद्वैष्णवीं तान्तु यदि चन्द्रमसो ग्रहः ॥”
एतच्च गोपालश्रीविद्येतरविषयम् ।
“अन्येषु पुण्ययोगेषु ग्रहणे चन्द्रसूर्य्ययोः ।”
इति गोतमीयात् ।
“सूर्य्यग्रहणकाले च नान्यदन्येपितं भवेत् ।”
इति योगिनीहृदयाच्च ॥ * ॥
तारादौ तु विशेषो यथा, --
“दीक्षाकालं प्रवक्ष्यामि नीलतन्त्रानुसारतः ।
कृष्णपक्षस्य चाष्टम्यां शुभे लग्ने शुभे क्षणे ॥
पूर्ब्बभाद्रपदा युक्ते मित्रतारादिसंयुते ।
अथवा अनुराधायां रेवत्यां वा प्रशस्यते ॥
जानीयाच्छोभनङ्कालं मन्त्रस्य ग्रहणं प्रति ।
इषे चैव विशेषेण कार्त्तिके च विशेषतः ॥”
यामले ।
“श्रीपरा कालीबीजानि लोपो दौर्गश्च यो मनुः ।
सूर्य्यस्योपग्रहे लब्धो नृणां मुक्तिफलप्रदः ॥
अमावास्या सोमवारे भौमवारे चतुर्द्दशी ।
सप्तमी रविवारे च सूर्य्यपर्व्वशतैः समा ॥”
कुलार्णवे ।
“सप्तमी रविवारे च सोमे दर्शस्तथैव च ।
चतुर्थी कुजवारे च अष्टमी च बृहस्पतौ ॥
देवपर्व्वसमा ज्ञेयास्तासु दीक्षां समाचरेत् ॥”
यामले ।
“पुण्यतीर्थे कुरुक्षेत्रे देवीपीठचतुष्टये ।
प्रयागे श्रीगिरौ काश्यां कालाकालं न शोधयेत् ॥”
विष्णुयामले ।
“देवीबोधं समारभ्य यावत् स्यान्नवमी तिथिः ।
कृता तासु बुधैर्द्दीक्षा सर्व्वाभीष्टफलप्रदा ॥
शुक्लपक्षे विशेषेण तत्रापि तिथिरष्टमी ।
तत्रापि शारदी दुर्गा यत्र देवी गृहे गृहे ॥
तत्र दीक्षा प्रकर्त्तव्या मासर्क्षादीन्न शोधयेत् ॥”
तथा ।
“बोधने चैव दुर्गायाः कालाकालं न शोधयेत् ॥
अशोकाख्याष्टमी यत्र रामाख्या नवमी तथा ।
लग्ने वाप्यथवालग्ने यत्र स्यात्तिथिरष्टमी ॥
गुरोराज्ञानुरूपेण दीक्षा कार्य्या विशेषतः ॥”
समयाचारतन्त्रे ।
“युगाद्यायां जन्मदिने विवाहदिवसे तथा ।
विषुवायनयोर्द्वन्द्बे नैव किञ्चिद्बिचारयेत् ॥”
तथा, --
“शिष्यानाहूय गुरुणा कृपया दीयते यदा ।
तदा लग्नादिकं किञ्चिन्न विचार्य्यं कथञ्चन ॥
सर्व्वे वारा ग्रहाः सर्व्वे नक्षत्राणि च राशयः ।
यस्मिन्नहनि सन्तुष्टो गुरुः सर्व्वे शुभावहाः ॥”
सारसंग्रहे योगिनीतन्त्रे च ।
“ग्रहणे च महातीर्थे नास्ति कालस्य निर्णयः ।
गयायां भास्करक्षेत्रे विरजे चन्द्रपर्व्वते ॥
चट्टले च मतङ्गे च तथा कन्याश्रमेषु च ।
न गृह्णीयात्ततो दीक्षां तीर्थेष्वेतेषु पार्व्वति ! ॥”
वाराहीतन्त्रे ।
“शुक्रोऽस्तो यदि वा वृद्धो गुर्व्वादित्या भवेद्यदि ।
मेषवृश्चिकसिंहेषु तदा दोषो न विद्यते ॥” * ॥
महाविद्यासु सर्व्वासु कालादिविचारो नास्ति ।
तदुक्तं मुण्डमालातन्त्रे ।
“कालादिशोधनं नास्ति न चामित्रादिदूषणम् ।”
अत्र मालानिर्णयो मालाशब्दे द्रष्टव्यः । पुर-
श्चरणं तच्छब्देद्रष्टव्यम् । कलावतीदीक्षा कला-
वतीशब्दे द्रष्टव्या ।
अथ पञ्चायतनीदीक्षा । यामले ।
“भवानीन्तु यदा मध्ये ऐशान्यामच्युतं यजेत् ।
आग्नेय्यां पार्व्वतीनाथं नैरृत्यां गणनायकम् ॥
वायव्यां तपनञ्चैव पूजाक्रम उदाहृतः ।
यदा तु मध्ये गोविन्दं ऐशान्यां शङ्करं यजेत् ॥
आग्नेय्यां गणनाथञ्च नैरृत्यां तपनं तथा ।
वायव्यामम्बिकाञ्चैव भोगमोक्षैकभूमिकाम् ॥
शङ्करञ्च यदा मध्ये ऐशान्यामच्युतं यजेत् ।
आग्नेय्यां तपनञ्चैव नैरृत्यां गणनायकम् ॥
वायव्यां पार्व्वतीञ्चैव स्वर्गमोक्षप्रदायिनीम् ।
आदित्यञ्च यदा मध्ये ऐशान्यां शङ्करं यजेत् ।
आग्नेय्यां गणनाथञ्च नैरृत्यां केशवं यजेत् ॥
वायव्यामम्बिकां देवीं स्वर्गसाधनभूमिकाम् ॥
गणनाथं यदा मध्ये ऐशान्यां केशवं यजेत् ।
आग्नेय्यामीश्वरञ्चैव नैरृत्यां तपनं तथा ॥
वायव्यामीश्वरीञ्चैव पूजयेन्मोक्षसाधनीम् ।
स्वस्थानवर्ज्जिता देवा दुःखशोकभयप्रदाः ॥”
तथा च गणेशविमर्षिण्याम् ।
“शम्मौ मध्यगते हरीनहरभूदेव्यो हरौ शङ्करे
भास्ये नागसुता रवौ हरगणेशाजाम्बिकाः
स्थापिताः ।
देव्यां विष्णुहरैकदन्तरवयो लम्बोदरेऽजेश्वरे
नार्य्याः शङ्करभागतोऽतिसुखदा व्यस्तास्तु ते
हानिदाः ॥”
रामार्च्चनचन्द्रिकायां गौतमीये च ।
“यदा तु मध्ये गोविन्दं आग्नेय्यां गणनायकम् ।
नैरृत्यां हंसमभ्यर्च्य वायव्यामर्च्चयेच्छिवाम् ॥
ऐशान्यां शङ्करं चैव भोगमोक्षफलाप्तये ॥” इति ।
यदङ्गदेवतायाः पूजने आग्नेय्यादौ गणेशादि-
पूजनमुक्तं तद्रामगोपालविषयमिति केचित् ।
वस्तुतो वैकल्पिकमिति सम्प्रदायः ॥ एतेषां
पूजनन्तु गौतमीये ।
“गन्धादिभिरथाभ्यर्च्च्य षडङ्गार्च्चनमेव च ।
विंशकृत्वो जपेन्मन्त्रं नमस्कृत्य समापयेत् ॥” * ॥
अङ्गदेवतापूजाकालस्तु पीठपूजानन्तरम् ।
तथा च सनत्कुमारतन्त्रे ।
“पीठस्यार्च्चनमङ्गदेवयजनं प्राणप्रतिष्ठा तथा
आह्वानं निजमुद्रिकाविरचनं ध्यानं प्रभोः
पूजनम् ।”
यत्तु देवे पुष्पाञ्जलिं दत्त्वा अङ्गदेवान् समर्च्चयेत् ।
तत्तु प्रतिष्ठितयन्त्रादिविषयम् ॥ * ॥
यन्त्रातिरिक्ताधारे पूजने तु कुलाबल्याम् ।
“एकपीठे पृथक्पूजां विना यन्त्रं करोति यः ।
अङ्गाङ्गित्वं परित्यज्य देवताशापमाप्नुयात् ॥”
एवञ्च ।
“आवाह्य देवतामन्यामर्च्चयंस्त्वन्यदेवताम् ।
उभाभ्यां लभते शापं मन्त्री तरलदुर्म्मतिः ॥”
तदेतदतिरिक्तविषयम् ॥ * ॥
सर्व्वेषामङ्गमन्त्राणां सिद्धादिविचारो नास्ति ।
तथा च,
“सिद्धादिशोधनं नैषां अङ्गत्ये सति राजवत् ॥”
श्यामादौ तु पञ्चायतनाभावः ।
पृष्ठ २/७१७
तथा च रुद्रयामले ।
“श्यामायां भैरवीताराच्छिन्नमस्तासु भैरवे ।
मञ्जघोषे तथा रौद्रे पञ्चाङ्गं नेष्यते बुधैः ॥
उपविद्यासु सर्व्वासु षट्कर्म्मादिषु साधने ।
नात्र दीक्षाद्यपेक्षास्ति नात्राङ्गादिप्रपूजनम् ॥”
तत्त्वसारे ।
“उपविद्यासु सर्व्वासु तथा प्रयोगसाधने ।
दीक्षां विनैव कर्त्तव्य उपदेशः सदैव हि ॥” * ॥
अथ सङ्क्षेपदीक्षा ।
“मुहूर्त्ते सर्व्वतोभद्रे नवं कुम्भं निधाय च ।
सोदकं गन्धपुष्पाभ्यामर्च्चितं वस्त्रसंयुतम् ॥
सर्व्वौषधिनवरत्नपञ्चपल्लवसंयुतम् ।
ततो देवार्च्चनं कृत्वा हुनेदष्टोत्तरं शतम् ॥”
पञ्चपल्लवमिति । पनसाम्राश्वत्थवटवकुलानि ।
तथा च वाशिष्ठे ।
“पनसाम्रं तथाश्वत्थं वटं वकुलमेव च ।
पञ्चपल्लवमित्युक्तं सुनिभिस्तन्त्रवेदिभिः ॥” * ॥
नवरत्नमिति ।
“मुक्तामाणिक्यवैदूर्य्यं गोमेदान् वज्रविद्रुमौ ।
पद्मरागं मरकतं नीलञ्चेति यथाक्रमात् ॥” * ॥
निबन्धे ।
“शिष्यं स्वलङ्कृतं वेद्यामुपाग्निमुपवेशयेत् ।
मन्त्रितं प्रोक्षणीतोयैः शान्तिकुम्भजलैस्तथा ॥
मूलमन्त्रेणाष्टशतं मन्त्रितैरभिषेचयेत् ॥”
अष्टशतम् अष्टोत्तरशतम् ।
“अथ सम्पादयेन्मन्त्रं हस्तं शिरसि घारयन् ।
समोऽस्त्वित्यक्षतान् दद्यात् ततः शिष्योऽर्च्चयेद्-
गुरुम् ॥”
यद्वा दीक्षान्तरम् । शङ्खमभ्यर्च्च्य साक्षतं तदम्बु-
नादष्टवारं मूलेन शिरसि करं निधाय अष्टौ
वारान् कर्णे जपेत् । तथा च ।
“तत्राप्यशक्तः कश्चिच्चेदब्जमभ्यर्च्च्य साक्षतम् ।
तदम्बुनाभिषिच्याष्टवारं मूलेन केवलम् ॥
निधायाष्टौ जपेत् कर्णे उपदेशे त्वयं विधिः ॥”
इति सङ्क्षेपदीक्षा ॥
उपदेशान्तरमाह । विश्वसारे ।
“चन्द्रसूर्य्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये ।
मन्त्रमात्रप्रकथनमुपदेशः स उच्यते ॥”
विश्वसारे ।
“महादीक्षा तथा दीक्षा उपदेशस्ततः परम् ।
पुगे युगे च कर्त्तव्या उपदेशः कलौ युगे ॥”
इति कृष्णानन्दकृततन्त्रसारः ।

दीक्षान्तः, पुं, (दीक्षायाः प्रधानयज्ञस्य अन्तः

अन्तोपलक्षितो यज्ञः ।) अवभृथः । इत्यमरः ।
२ । ७ । २७ ॥ “प्रधानयागो दीक्षा तस्याः अन्तः
समापको योऽपरो यज्ञो न्यूनत्वादिदोषशान्त्यर्थं
प्रघानयागस्य पूरणार्थं प्रतिष्ठार्थं क्रियते सोऽ-
वभृथ उच्यते । अवहीनं बिभर्त्ति पोषयतीति
नाम्नीति थक् । यज्ञावशेषे स्नाने चावभृथः ।
यज्ञावशेषे स्नानं यत् तदेवावभृथं विदुरिति
त्रिकाण्डशेषः ॥ यज्ञान्ते तमवभृथाभिषेकपूत-
मति रघुः ।” इत्यमरटीकायां भरतः ॥

दीक्षितः, त्रि, (दीक्ष + कर्त्तरि क्तः । यद्बा, दीक्षा

सञ्जाता अस्येति । तारकादित्वात् इतच् ।)
सोमपानविशिष्टयागकर्त्ता । यथा । स सोम-
वति दीक्षितः । इत्यमरः । २ । ७ । ८ ॥ “स व्रती
सोमपानवति अध्वरे यजमानः सन् दीक्षित
उच्यते । अन्यत्राप्युपचारात् । दीक्ष मौण्ड्ये-
ज्योपनयनव्रतादेशेषु क्तः दीक्षाशब्दादितो वा ।”
इति तट्टीकायां भरतः ॥ * ॥ गुरुमुखाद्-
गृहीतमन्त्रः । यथा, --
“अदीक्षिता ये कुर्व्वन्ति जपपूजादिकाः क्रियाः ।
न भवन्ति प्रिये ! तेषां शिलायामुप्तबीजवत् ॥
देवि ! दीक्षाविहीनस्य न सिद्धिर्न च सद्गतिः ।
तस्मात् सर्व्वप्रयत्नेन गुरुणा दीक्षितो भवेत् ॥
अदीक्षितोऽपि मरणे रौरवं नरकं व्रजेत् ॥”
इति तन्त्रसारः ॥ * ॥
काम्पिल्लनगरस्थयज्ञदत्तनामकव्राह्मणः । यथा,
“आसीत् काम्पिल्लनगरे सोमयाजिकुलोद्भवः ।
दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदाः ॥
वेदवेदाङ्गवेदार्थवेदोक्ताचारचञ्चुरः ।
राजमान्यो बहुघनो वदान्यः कीर्त्तिभाजनः ॥
अग्निशुश्रूषणरतो वेदाध्वयनतत्परः ॥”
इति स्कान्दे काशीखण्डे गन्धवत्यलकावर्णनं
नाम १३ अध्यायः ॥ * ॥ (स्वीकृतदीक्षः । यथा,
महाभारते । २ । ७३ । १ ।
“ततः पराजिताः पार्था वनवासाय दीक्षिताः ।
अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम् ॥”)

दीक्षिता, [ऋ] पुं, (दीक्ष + “सूददीपदीक्षश्च ।”

३ । २ । १५३ । इति युचं वाधित्वा शीनार्थे तृच् ।)
सोमयाजी । इति केचित् ॥ दीक्षाविशिष्टः ।
दीक्षधातोः कर्त्तरि तृण्प्रत्ययेन निष्पन्नः ॥

दीक्षितायनी, स्त्री, (दीक्षितः स्वनामख्यातब्राह्मण

एव अयनं गतिर्यस्याः । स्त्रियां टित्वात् ङीप् ।)
काम्पिल्लनगरस्थदीक्षितनामकब्राह्मणपत्नी ।
यथा, काशीखण्डे १३ अध्याये ।
“महापतिव्रतां सम्यक् पत्नीं प्रोवाच तामथ ।
दीक्षितायनि ! कुत्रासि क्व ते गुणनिधिः सुतः ॥
अथ तिष्टतु किन्तेन क्व सा मम शुभोर्म्मिका ।
अङ्गोद्वर्त्तनकाले या त्वया मेऽङ्गुलिका कृता ॥
नवरत्नमयीं शीघ्रं तामानीय प्रयच्छ मे ।
इति श्रुत्वाथ तद्बाक्यं भीता सा दीक्षितायनी ॥”

दीदिविः, पुं क्ली, (दिव्यन्त्यनेनेति । दिव + “दिवो

द्वे दीर्घश्चाभ्यासस्य ।” उणां । ४ । ५५ । इति
क्विन् अभ्यासस्य दीर्घश्च ।) अन्नम् । इत्यमरः ।
२ । ९ । ४८ ॥ (दिव्यतीति क्विन् ।) बृहस्पतौ,
पुं । इति मेदिनी । वे, ३७ ॥ (स्वर्गे भक्ष्ये च ।
इत्युणादिवृत्तौ उज्ज्वलदत्तः ॥)

दीदिविः, त्रि, (दिव् + क्विन् ।) उदितः । इति

शब्दरत्नावली ॥ (पुनपुनर्द्योतकः । यथा, ऋग्-
वेदे । १ । १ । ८ ॥
“राजन्तमध्वराणां गोपामृतस्य दीदिविम् ॥”
“दीदिविं पौनःपुन्येन भृशं वा द्योतकम् ।”
इति तद्भाष्ये सायनः ॥)

दीधितिः, स्त्री, (दीधीते दीप्यते इति । दीधी +

संज्ञायां क्तिच् । इट् । “अग्रहादीनाम् ।” इति
वार्त्तिकसूत्रात् “यीवर्णयोर्दीधीवेव्योः ।” ३ । ४ । ५३ ।
इति अन्त्यस्य लोपः ।) किरणः । इत्यमरः ।
१ । ४ । ३३ ॥ (यथा, रघुः । ३ । २२ ।
“पुपोष वृद्धिं हरिदश्वदीधिते-
रनुप्रवेशादिव बालचन्द्रमाः ॥”)

दीधी, र ङ लु क्ष देवने । दीप्तौ । इति कविकल्प-

द्रुमः ॥ (अदां-आत्मं-अकं-सेट् ।) दीर्घमध्यः ।
र वैदिकः । ङ लु, दीधीते । क्ष, अदीधयुः । बहुलं
ब्रह्मणीति परस्मैपदे अनुस्सिद्बेरिति अन् उस्
णुरुस्यठ्यामिति गुणः । इति दुर्गादासः ॥

दीनं, क्ली, (दीयते स्म इति । दी + क्तः । ततः निष्ठा-

तस्य नः ।) तगरपुष्पम् । इति राजनिर्घण्टः ।
(अस्य पर्य्यायो यथा, --
“कालानुसारिवा वक्रं तगरं कुटिलं शठम् ।
महोरगं नतं जिह्मं दीनं तगरपादिकम् ॥”
इति वैद्यकरत्नमालायाम् ॥)

दीनः, त्रि, (दीयते स्मेति । ओ दीङ् क्षये +

“गत्यर्थाकर्म्मकेति ।” ३ । ४ । ७२ । इति कर्त्तरि
क्तः । “ओदितश्च ।” ७ । २ । ४५ । इति निष्ठा-
तस्य नः । यद्वा, दी + “इण्षिञ्जिदीङुष्य-
विभ्यो नक् ।” उणां । ३ । २ । इति नक् ।)
दरिद्रः । इत्यमरः । ३ । १ । ४९ ॥ (यथा,
मनौ । ९ । २३८ ।
“चरेयुः पृथिवीं दीनाः सर्व्वधर्म्मवहिष्कृताः ॥”)
भीतः । इति मेदिनी । ने, २१ ॥ (दुःखितः ।
यथा, रघुः । २ । २५ ।
“सप्त व्यतीयुस्त्रिगुणानि तस्य
दिनानि दीनोद्धरणोचितस्य ॥”)

दीना, स्त्री, (दीन + टाप् । सततं भीतभीतेव

दृश्यत्वात् तथात्वम् ।) मूषिकस्त्री । इति
मेदिनी । ने १० ॥

दीनारः, पुं, (दीयते इति । दी + “दीङो नुट्च ।”

उणां । ३ । १४० । इति आरन् नुट् च ॥
स्वर्णभूषा । मुद्रा । इत्युणादिकोषः ॥ (यथा,
पञ्चतन्त्र ३ । १३६ ।
“अथ प्रातर्यावदेत्य पश्यति तावद्दीनारमेकं
शरावे दृष्टवान् ॥”) निष्कपरिमाणम् । इत्य-
मरः । ३ । ३ । १४ ॥ सुवर्णकर्षद्बयम् । इति
तट्टीकासारसुन्दरी ॥ सम्यग्व्यवहारार्थं मान-
वस्तु । लौकिकः । द्वात्रिंशद्रत्तिकापरिमितं
काञ्चनम् । इति भरतः ॥

दीप, ई ङ य ऋ दीपने । इति कविकल्पद्रुमः ॥

(दिवां-आत्मं-अकं-सेट् ।) दीपनमुज्ज्वली-
भावः । ई, दीप्तः । ङ य, दीप्यते निशि चन्द्रमाः ।
ऋ, अदीदिपत् अदिदीपत् । इति दुर्गादासः ॥

दीपः, पुं, (दीप्यते दीपयति वा स्वं परञ्चेति ।

दीप् दीपि वा + “इगुपधज्ञाप्रीकिरः कः ।” ३ ।
१ । १३५ । इति कः ।) वर्त्तिस्थज्वलदग्निशिखा ।
तत्पर्य्यायः । प्रदीपः २ स्नेहाशः ३ दीपकः
४ कज्जलध्वजः ५ शिखातरुः ६ गृहमणिः ७
पृष्ठ २/७१८
ज्योत्स्नावृक्षः ८ दशेन्धनः ९ दोषातिलकः १०
दोषास्यः ११ नयनोत्सवः १२ । इति शब्द-
रत्नावली ॥ (यथा, मनौ । ४ । २२९ ।
“वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः ।
तिलप्रदं प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥”)
तदर्थं स्नेहादिनियमो यथा, --
“घृतं तैलञ्च दीपार्थे स्नेहान्यन्यानि वर्ज्जयेत् ।”
इत्याद्ये वह्निपुराणे आह्गिकतपोनामाध्यायः ॥
अन्यच्च ।
“पुरश्चरणकृत्यञ्च दीपं शृण्विह भैरव ! ।
दीपेन लोकान् जयति दीपस्तेजोमयः स्मृतः ॥
चतुर्व्वर्गप्रदो दीपस्तस्माद्दीपैर्यजेत् श्रिये ॥”
इत्युपक्रम्य, --
“घृतप्रदीपः प्रथमस्तिलतैलोद्भवस्ततः ।
सार्षपः फलनिर्यासजातो वा राजिकोद्भवः ॥
दधिजश्चाणुजश्चैव प्रदीपाः सप्त कीर्त्तिताः ।
पद्मसूत्रभवा दर्भगर्भसूत्रभवाथवा ॥
शणजा वादरी वापि फलकोषोद्भवाथवा ।
वर्त्तिका दीपकृत्येषु सदा पञ्चविधाः स्मृताः ॥ * ॥
तैजसं दारवं लौहं मार्त्तिक्यं नारिकेलजम् ।
तृणध्वजोद्भवं वापि दीपपात्रं प्रशस्यते ॥ * ॥
दीपवृक्षाश्च कर्त्तव्यास्तैजसाद्यैश्च भैरव ! ।
वृक्षेषु दीपो दातव्यो न तु भूमौ कदाचन ॥
सर्व्वंसहा वसुमती सहते न त्विदं द्बयम् ।
अकार्य्यपादघातञ्च दीपतापं तथैव च ॥
तस्माद्यथा तु पृथिवी तापं नाप्नोति वै तथा ।
दीपं दद्यान्महादेव्यै अन्येभ्योऽपि च भैरव ! ॥
कुर्व्वन्तं पृथिवीतापं यो दीपमुत्सृजेन्नरः ।
स ताम्रतापं नरकमाप्नोत्येव शतं समाः ॥
सुवृत्तवर्त्तिसस्नेहपात्रेऽभग्ने सुदर्शने ।
मृण्मये वृक्षकोटौ तु दीपं दद्यात् प्रयत्नतः ॥
लभ्यते यस्य तापस्तु दीपस्य चतुरङ्गुलात् ।
न स दीप इति ख्यातो ह्योघवह्निस्तु स स्मृतः ॥
नेत्राह्लादकरः स्वर्च्चिर्दूरतापविवर्ज्जितः ।
सुशिखः शब्दरहितो निर्धूमो नातिह्रस्वकः ॥
दक्षिणावर्त्तवर्त्तिस्तु प्रदीपः श्रीविवृद्धये ।
दीपवृक्षस्थिते पात्रे शुद्धस्नहप्रपूरिते ॥
दक्षिणावर्त्तवर्त्त्या तु चारुदीप्तः प्रदीपकः ।
उत्तमः प्रोच्यते पुत्त्र ! सर्व्वतुष्टिप्रदायकः ॥
वृक्षेण वर्ज्जितो दीपो मध्यमः परिकीर्त्तितः ।
विहीनः पात्रतैलाभ्यामधमः परिकीर्त्तितः ॥
शाणं वा वादरं वास्त्रं जीर्णं मलिनमेव वा ।
उपयुक्तन्तु नो दद्यात् वर्त्तिकार्थन्तु साधकः ॥
उपादद्यान्मूलमेव सततं श्रीविवृद्धये ॥ * ॥
कोषजं रोमजं वस्त्रं वर्त्तिकार्थं न चाददेत् ।
न मिश्रीकृत्य दद्यात्तु दीपं स्नेहान् घृतादिकान् ॥
कृत्वा मिश्रीकृतं स्नेहं तामिस्रं नरकं व्रजेत् ।
वसामज्जास्थिनिर्यासैः स्नेहैः प्राण्यङ्गसम्भवैः ॥
प्रदीपं नैव कुर्य्यात्तु कृत्वा पङ्के विषीदति ।
अस्थिपात्रेऽथवा गव्ये दुगन्धाद्युपवासिनि ॥
नैव दीपः प्रदातव्यो विबुधः श्रीविवृद्धये ।
नैव निर्व्वापयेद्दीपं कदाचिदपि यत्नतः ॥
सततं लक्षणोपेतं देवार्थमुपकल्पितम् ।
न हरेज्ज्ञानतो दीपं तथा लोभादिना नरः ॥
दीपहर्त्ता भवेदन्धः काणो निर्व्वापको भवेत् ।
उद्दीप्तदीपप्रतिमः काष्ठकाण्डसमुद्भवः ॥
विल्वेध्मोद्भवमेवाथ दीपालाभे निवेदयेत् ।
उल्मूकं नैव दीपार्थे कदाचिदति चोत्सृजेत् ॥
प्रसन्नार्थन्तु तं दद्यादुपचाराद्बहिःकृतम् ।
एवं वां कथितो दीपो धूपञ्च शृणुतं सुतौ ॥”
इति कालिकापुराणे ६८ अध्यायः ॥
श्राद्धे वस्त्रवर्त्तियुक्तदीपनिषेधो यथा, --
“दीपं वर्जेत् वस्त्रवर्त्त्या प्रत्यक्षं तैलमेव च ।”
इति योगिनीतन्त्रे प्रथमतमे २ भागे ५ पटलः ॥
कार्त्तिकमासे दीपदानस्य माहाल्म्यं यथा, --
“शृणु दीपस्य माहाल्म्यं कार्त्तिके च हरि-
प्रिय ! ।
यस्य श्रवणमात्रेण दीपदाने मतिर्भवेत् ॥
सूर्य्यग्रहे कुरुक्षेत्रे नर्म्मदायां शशिग्रहे ।
तुलादानस्य यत् पुण्यं तदूर्ज्जे दीपदानतः ॥
घृतेन दीपकं यस्तु तिलतैलेन वा पुनः ।
ज्वालयेन्मुनिशार्द्दूल ! अश्वमेधेन तस्य किम् ॥
तेनेष्टं क्रतुभिः सर्व्वं कृतं तीर्थावगाहनम् ।
दीपदानं कृतं येन कार्त्तिके केशवाग्रतः ॥
तावद्गर्ज्जन्ति पापानि देहेऽस्मिन् मुनि-
सत्तम ! ।
यावत् कार्त्तिकमासेन दीपदानं कृतं भवेत् ॥
तावद्गर्ज्जन्ति पुण्यानि स्वर्गे मर्त्ये रसातले ।
यावत्तु ज्वलते दीपः कार्त्तिके केशवाग्रतः ॥
श्रूयतेऽत्रापि पितृभिर्गाथा गीता महामुने ! ।
भविष्यन्ति कुलेऽस्माकं कदाचित्ते सुता भुवि ॥
कार्त्तिके दीपदानैर्ये तोषयिष्यन्ति केशवम् ।
अपि नस्ते भविष्यन्ति कुले सुचरिता गुणैः ।
दीपदानं कार्त्तिके ये दास्यन्ति हरितुष्टिदम् ॥
गयायां पिण्डदानेन कृतं न प्रीणनं सुतैः ।
यैश्चापि कार्त्तिके दत्तो दीपस्तुष्टिकरो हरेः ॥
दीपं दास्यन्ति ये पुत्त्रास्तुष्ट्यर्थं चक्रपाणिनः ।
कार्त्तिके तैर्मुनिश्रेष्ठ ! नरकादुद्धृता वयम् ॥
मन्त्रहीनं क्रियाहीनं शुद्धिहीनं जनार्द्दन ! ।
व्रतं संपूर्णतां यातु कार्त्तिके दीपदानतः ॥
अनेनैव हि मन्त्रेण दीपं संकल्पयेन्मुने ! ।
मधुसूदनतुष्ट्यर्थं कार्त्तिके मुनिपुङ्गवः ॥”
इति पाद्मे उत्तरखण्डः ॥
अपि च ।
“दास्यते देवदेवाय दीपपुष्पानुलेपनम् ।
अपि नः स कुले भूयादेकादश्यां तिथौ नरः ॥
करिष्यत्युपवासन्तु सर्व्वपातकहानिदम् ।
इत्थं पितॄणां वचनं श्रुत्वा नृपतिसत्तमः ॥
ददौ च दीपान् विधिवत् विष्णोरायतने बलिः ।
सुगन्धतैलसंपूर्णान् दीपान् सघृततौलकान् ॥
सर्षपस्य सुतैलेन मधुकातसिसम्भवैः ।
दीपप्रदानान्नरकानन्धतामिस्रसंज्ञकान् ।
तीर्त्वा सभार्य्यया ब्रह्मन् । विष्णुलोकमगात्ततः ॥”
इति वामनपुराणम् ॥
दीपं स्पृष्ट्वा वैधकर्म्मकरणे दोषो यथा, --
“दीपं स्पृष्ट्वा तु यो देवि ! मम कर्म्माणि कारयेत् ।
तस्यापराधाद्वै भूमे ! पापं प्राप्नोति मानवः ।
तच्छृणुष्व महाभागे ! कथ्यमानं मयानघे ! ॥
जायते षष्टिवर्षाणि कुष्ठी गात्रपरिप्लुतः ।
चाण्डालस्य गृहे तत्र एवमेव न संशयः ॥
एवं भूत्वा तु तत् कर्म्म मम क्षेत्रे मृतो यदि ।
मद्भक्तश्चैव जायेत श्रुद्धे भागवते गृहे ॥
प्रायश्चित्तं प्रवक्ष्यामि दीपस्य स्पर्शनाद्भुवि ।
तरन्ति मनुजा येन कष्टं चाण्डालयोनिषु ॥
यस्य कस्यापि मासस्य शुक्लपक्षे च द्बादशी ।
चतुर्थभक्तमाहारमाकाशशयने स्वपेत् ॥
दीपं दत्त्वापराधाद्बै तरन्ति मनुजा भुवि ।
शुचिर्भूत्वा यथान्यायं मम कर्म्म पथे स्थितः ॥
एतत्ते कथितं देवि ! स्पर्शनात् दीपकस्य तु ।
संसारशोधनञ्चैव यत् कृत्वा लभते शुभम् ॥”
इति वराहपुराणम् ॥ * ॥
पुरुषस्य दीपनिर्व्वापणे दोषो यथा, --
“दीपनिर्व्वापणात् पुंसः कुष्माण्डच्छेदनात् स्त्रियः ।
अचिरेणैव कालेन वंशनाशो भवेद्ध्रुवम् ॥ * ॥
देवार्थकल्पितदीपस्य निर्व्वापणे दोषो यथा, --
नैव निर्व्वापयेद्दीपं देवार्थमुकल्पितम् ।
दीपहर्त्ता भवेदन्धः काणो निर्व्वापको भवेत् ॥”
इत्येकादशीतत्त्वे कालिकापुराणम् ॥
कार्त्तिककृष्णचतुर्द्दश्यां मरकनिवृत्तये दीपदानं
यथा, --
“नरकाय प्रदातव्यो दीपः संपूज्य देवताः ।”
इति तिथितत्त्वधृतलिङ्गपुराणम् ॥ * ॥
पृथिव्यां दीपो न संस्थाप्यः । यथा, --
“सर्व्वंसहा वसुमती सहते न त्विदं द्बयम् ।
अकार्य्यपादघातञ्च दीपतापस्तथैव च ॥”
इत्येकादशीतत्त्वधृतकालिकापुराणम् ॥

दीपकं, क्ली, (दीपयतीति । दीप् + णिच् + ण्वुल् ।)

वाक्यालङ्कारः । दीप्तिकारके, त्रि । इति मेदिनी ।
के, १०४ ॥ कुङ्कुमम् । इति शब्दरत्नावली ॥ * ॥
वाक्यालङ्कारस्य लक्षणं यथा, --
“पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् ।
एकधर्म्माभिसम्बन्धः स्यात्तदा तुल्ययोगिता ॥
अप्रस्तुतप्रस्तुतयोर्दीपकन्तु निगद्यते ।
अथ कारकमेकं स्यादनेकासु क्रियासु चेत् ॥
यथा, माघे ।
बलावलेपादधुनापि पूर्ब्बवत्
प्रसाध्यते तेन जगज्जिगीषुणा ।
सती च योषित् प्रकृतिश्च निश्चला
पुमांसमभ्येति भवान्तरेष्वपि ॥”
इति साहित्यदर्पणे । १० । ६७ ॥
अपि च काव्यचन्द्रिकायाम् ।
“जातिक्रियागुणद्रव्यवाचकेन पदेन तु ।
एकत्र वर्त्तिना सर्व्ववाक्यार्थो दीपकम्भवेत् ॥”
यथा, --
भ्रमद्भ्रमरझङ्कारपुंस्कोकिलकलध्वनिः ।
मन्दचन्दनवातोऽपि हरन्ति हृदयं नृणाम् ॥”
पृष्ठ २/७१९

दीपकः, पुं, (दीपयति जठराग्निमिति । दीपि +

ण्वुल् ।) यमानी । इति रत्नमाला ॥ (गुणा-
श्चास्य यमानीशब्दे ज्ञेयाः ॥) लोचमस्तकः ।
इति शब्दरत्नावली ॥ दीपः । (यथा, ब्रह्माण्ड-
पुराणे ।
“विष्णुवेश्मनि यो दद्यात् कार्त्तिके मासि दीपकम् ।
अग्निष्टोमसहस्रस्य फलमाप्नोति मानवः ॥”)
येन पक्षिणान्ये पक्षिणो गृह्यन्ते सः । इति
हेमचन्द्रः । ४ । ४०८ ॥ वाज् इति शिकरा इति
च भाषा । रागविशेषः । अयं हनूमन्मते
षड्रागेषु द्वितीयरागः । सूर्य्यनेत्रान्निर्गतः । अस्य
जातिः सम्पूर्णा । गृहन्तु षड्जस्वरः । गान-
समयस्तु ग्रीष्मर्त्तौ मधाह्नः । अस्य रूपं यथा ।
वर्णो रक्तः । वस्त्रं पाटलवर्णम् । गलभूषणं
बृहन्मुक्तामाल्यम् । मत्तहस्त्यारूढोऽयम् । बहु-
स्त्रीपरिवृतश्च । कस्यचिन्मते । लज्जया दीप-
निर्व्वापणेनान्धकारमयं गृहं कृत्वा स्त्रीभी
रमते । अस्य रागिण्यः पञ्च यथा । देशी १
कामोद् २ नट् ३ केदारा ४ कानरा वा कर्णाटी
५ । पुत्त्राश्चाष्टौ यथा । कुन्तलः १ कमलः २
कलिङ्गः वा कलिन्द्रः ३ चम्पकः ४ कुसुम्भः वा
कुसुमः ५ रामः ६ लहिलः ७ हिमालः ८ ।
भरतमते अस्य रागिण्यो यथा । केदारा १
गौरा २ गौण्ड ३ गुज्जरी ४ रुद्राणी ५ ।
तन्मते पुत्त्रा यथा । कुसुमः १ टङ्कः २ नट-
नारायणः ३ विहागराः ४ किरोदस्तः ५
रहसमङ्गला वा रभसमङ्गला ६ मङ्गलाष्टकः ७
अडानुः वा आडाना ८ । इति तहफतोल-
हिन्दाख्यसंगीतशास्त्रसंग्रहः ॥ (तालविशेषः ।
यथा, सङ्गीतदामोदरे ।
“प्लुतो लघुः प्लुतश्चैव ताले दीपकनामनि ॥”)

दीपकिट्टं, क्ली, (दीपस्य किट्टम् ।) दीपजात-

कज्जलम् । इति शब्दार्थकल्पतरुः ॥

दीपकूपी, स्त्री, (दीपस्य कूपीव तैलधारकत्वात् ।)

दीपवर्त्तिः । शलिता इति भाषा । तत्पर्य्यायः ।
तैलमाली २ दीपखोरी ३ विदाहिका ४ ।
इति शब्दमाला ॥

दीपखोरी, स्त्री, (दीपं खोरयति गत्याधातं

करोति स्थिरीकरोतीति । खोर् गत्याघाते +
णिच् + अच् । गौरादित्वादित् ङीष् ।) दीप-
कूपी । इति शब्दमाला ॥

दीपध्वजः, पुं, क्ली, (दीपस्य ध्वज इव ।) कज्ज-

लम् । इति जटाधरः ॥

दीपनं, क्ली, (दीपयति वह्निमिति । दीप + णिच्

+ ल्युः ।) तगरमूलम् । इति रत्नमाला ॥
कुङ्कुमम् । इति त्रिकाण्डशेषः ॥ (मन्त्रसंस्कार-
विशेषः । यथा, शारदातिलके ।
“मन्त्राणां दश कथ्यन्ते संस्कारा सिद्धिदायिनः ।
जननं जीवनं पश्चात्ताडनं बोधनं तथा ॥
अथाभिषेको विमलीकरणाप्यायने तथा ।
तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः ॥”
“तारमायारमायोगो मनोर्दीपनमुच्यते ॥”)

दीपनः, पुं, (दीप्यते इति । दीप + ल्युः ।) मयूर-

शिखा । (दीप + णिच् + ल्युः ।) शालिञ्चशाकः ।
इति शब्दचन्द्रिका ॥ कासमर्द्दः । पलाण्डुः ।
इति राजनिर्घण्टः ॥ दीपयितरि, त्रि ॥ (यथा,
ऋतुसंहारे । १ । ३ ।
“सुवासितं हर्म्यतलं मनोरमं
प्रियामुखोच्छासविकल्पितं मघु ।
सुतन्त्रिगीतं मदनस्य दीपनं
शुचौ निशीथेऽनुभवन्ति कामिनः ॥”)

दीपनी, स्त्री, (दीप्यते जठरवह्निरनया । दीप +

णिच् + ल्युट् । स्त्रियां ङीप् ।) मेथिका ।
(अस्याः पर्य्यायाः यथा, --
“मेथिका मिथिनी मेथिर्दीपनी बहुपत्रिका ।
बोधिनी गन्धबीजा च ज्योतिर्गन्धफला तथा ॥
वल्लरी चन्द्रिका मन्था मित्रपुष्पा च कैरवी ।
कुञ्चिका बहुपर्णी च पीतबीजा मुनिच्छदा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पाठा । यवानी । इति राजनिर्घण्टः ॥

दीपनीयः, पुं, (दीप्यते जठरवह्निरनेनेति । दीप +

णिच् + अनीयर् ।) यवानी । इति राज-
निर्घण्टः ॥ दीपनयोग्ये, त्रि । (यथा सुश्रुते ।
१ । ४५ ।
“दीपनीयमचक्षुष्यं वाडवं दधि वातलम् ॥”)
औषधवर्गविशेषः । यथा, --
“पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् ।
दीपनीयः स्मृतो वर्गः कफानिलगदापहः ॥”
इति चक्रदत्तः ॥

दीपपादपः, पुं, (दीपस्य पादप इव ।) दीप-

वृक्षः । इति शब्दार्थकल्पतरुः ॥

दीपपुष्पः, पुं, (दीप इव पुष्पं यस्य ।) चम्पक-

वृक्षः । इति राजनिर्घण्टः ॥

दीपवती, स्त्री, (दीपवत् तेजस्वित्वं अस्त्यस्या

इति । दीप + मतुप् । मस्य वः ।) कामाख्यायां
नदीविशेषः । यथा, --
और्व्व उवाच ।
“शाश्वती कथिता या तुनदी मत्स्यध्वजा सिता ।
तस्याः पूर्ब्बे समाख्याता नदी दीपवती मता ॥
एषा च हिमवज्जाता छिन्दन्ती दीपवत्तमः ।
तेन देवमनुष्येषु नदी दीपवती स्मृता ॥
दीपवत्याः पूर्ब्बतस्तु शृङ्गाटो नाम पर्व्वतः ॥”
इति कालिकापुराणे ८२ अध्यायः ॥

दीपवृक्षः, पुं, (दीपस्य वृक्ष इव आधारः ।) दीपा-

धारः । पिल्सुज् इति देलुका इति च भाषा ।
तत्पर्य्यायः । दीपतरुः २ ज्योत्स्नावृक्षः ३ । इति
त्रिकाण्डशेषः ॥ दीपपादपः ४ । इति शब्दार्थ-
कल्पतरुः ॥ (यथा, महाभारते । १२ । २०२ । ९ ।
“यथा प्रदीप्तः पुरतः प्रदीपः
प्रकाशमन्यस्य करोति दीप्यन् ।
तथेह पञ्चेन्द्रियदीपवृक्षा
ज्ञानप्रदीप्ताः परवन्त एव ॥”)

दीपशिखा, स्त्री, (दीपस्य शिखा कारणत्वेन

अस्त्यस्याः । अच् । टाप् ।) कज्जलम् । इति
शब्दार्थकल्पतरुः ॥ (दीपस्य शिखा ।) प्रदीप-
ज्वाला ॥ (यथा, रघुः । ६ । ६७ ।
“सञ्चारिणी दीपशिखेव रात्रौ
यं यं व्यतीयाय पतिंवरा सा ॥”)

दीपशृङ्खला, स्त्री, (दीपानां शृङ्खलेव ।) दीपाली ।

इति हारावली । १२४ ।

दीपान्विता, स्त्री, (दीपैरन्विता युक्ता ।) गौण-

चान्द्रकार्त्तिकस्यामावास्या । यथा, भविष्य-
पुराणम् ।
“येयं दीपान्विता राजन् ! ख्याता पञ्चदशी भुवि ।
तस्यां दद्यान्न चेद्दत्तं पितॄणां वै महालये ॥
पञ्चदशी अमावास्या । अमावास्यामधिकृत्य ।
दीपमालाश्च कर्त्तव्याः शक्त्या देवगृहेषु च ।
रथ्यापण्यश्मशानेषु नदीपर्व्वतसानुषु ॥
इति ब्रह्मपुराणोक्तनानास्थानदीपदानेन दीपा-
न्विता ख्याता येयमिति विशेषणाच्च ।” इति
श्राद्धतत्त्वम् ॥ * ॥ तत्र कर्म्माणि यथा, --
“प्रदोषसमये लक्ष्मीं पूजयित्वा यथाक्रमम् ।
दीपवृक्षास्तथा कार्य्या भक्त्या देवगृहेष्वपि ॥
चतुष्पथे श्मशानेषु नदीपर्व्वतसानुषु ।
वृक्षमूलेषु गोष्ठेषु चत्वरेषु गृहेषु च ॥
वस्त्रैः पुष्पैः शोभितव्याः क्रयविक्रयभूमयः ।
दीपमालापरिक्षिप्ते प्रदोषे तदनन्तरम् ॥
ब्राह्मणान् भोजयित्वादौ विभज्य च बुभुक्षि-
तान् ।
अलङ्कुतेन भोक्तव्यं नववस्त्रोपशोभिना ॥
स्निग्धैर्मुग्धैर्विदग्धैश्च बान्धवैर्भृतकैः सह ॥”
इति तिथितत्त्वम् ॥
तत्र श्यामापूजाप्रमाणं यथा, --
“दीपान्विता पार्व्वणाय स्मृता काल्यर्च्चनाय च
महानिशि द्बितीयं स्यात् पूर्ब्बेद्युर्व्याप्त्यनाप्तयोः
महानिशि व्याप्त्यनाप्तयोः पूर्ब्बेद्युरेव द्वितीयं
काल्यर्च्चनं स्यात् इत्यर्थः । प्रथमं पार्व्वणं द्बितीयं
काल्यर्च्चनमिति द्बितीयशब्दस्य तात्पर्य्यार्थः ।”
इति स्मृतिसारसंग्रहधृतव्योमकेशतन्त्रम् ॥ * ॥
अपरञ्च ।
“दीपोत्सर्गचतुर्द्दश्या संमिश्रा या भवेत् कुहूः ।
तस्यां या तामसी रात्रिः सोच्यते कालरात्रिका ॥
तस्यां पूजा प्रकर्त्तव्या काली तारा प्रियङ्करी ॥”
इति कालीकुलसद्भावः ॥

दीपाली, स्त्री, (दीपानां आली श्रेणी ।) दीप-

माला । तत्पर्य्यायः । दीपशृङ्खला २ । इति
हारावली । १२४ ॥ (दीपानां आली यत्र ।)
दीपान्वितामावास्या । तत्पर्य्यायः । यक्ष-
रात्रिः २ । इति त्रिकाण्डशेषः ॥

दीपिका, स्त्री, (दीपयति प्रकाशयति ग्रहादी-

निति । दीप + णिच् + ण्वुल् । टापि अत
इत्वम् ।) महिन्तापनीयश्रीनिवासकृतज्योति-
र्ग्रन्थविशेषः । यथा, अस्तं गतवति मिहिरेऽति-
मलिनदोषाकुले च गोविभवे । उद्वाहादिषु
शुद्धिग्रहणार्थं दीपिका क्रियते ॥ एतद्भिन्ना भुवन-
चण्डजातकशुद्ध्यादिदीपिकाः सन्ति ॥ रागिणी-
पृष्ठ २/७२०
विशेषः । सा हिण्डोलरागस्य पत्नी । अस्या
ध्यानं यथा, --
“प्रदोषकाले गृहसम्प्रविष्टा
प्रदीपहस्तारुणगात्रवस्त्रा ।
सीमन्तसिन्दूरविराजमाना
सुरक्तमाल्या किल दीपिकेयम् ॥”
तस्या गानकालः सायाह्नः । इति सङ्गीत-
दामोदरः ॥ (प्रदीपः । यथा, रघुः । ९ । ७० ।
“स ललितकुसुमप्रवालशय्यां
ज्वलितमहौषधिदीपिकासनाथाम् ॥”)
प्रकाशिकायाम्, त्रि ॥

दीपिता, [ऋ] त्रि, (दीपयतीति । दीप + णिच् +

तृच् ।) दीप्तिकर्त्ता । इति व्याकरणम् ॥

दीप्तं, क्ली, (दीपी दीप्तौ + क्तः । “श्वीदितो

निष्ठायाम् ।” ७ । २ । १४ । इति नेट् ।)
स्वर्णम् । हिङ्गु । इति राजनिर्घण्टः ॥ (स्वर्ण-
शब्दे हिङ्गुशब्दे च विवृतिरस्य ज्ञेया ॥)

दीप्तः, पुं, (दीप + क्तः ।) निम्बुकः । सिंहः ।

इति राजनिर्घण्टः ॥ (नासागतरोगविशेषः ।
यथा, सुश्रुते उत्तरतन्त्रे २२ अध्याये ।
“घ्राणे भृशं दाहसमन्विते तु
विनिःसरेद्धूम इवेह वायुः ।
नासा प्रदीप्तेव च यस्य जन्तो-
र्व्याधिस्तु तं दीप्तमुदाहरन्ति ॥”
अस्य प्रतिषेधमाह तत्रैव २३ अध्याये ।
“दीप्ते रोगे पैत्तिकं संविधानं
कुर्य्यात् सर्व्वं स्वादु यच्छीतलञ्च ॥”)

दीप्तः, त्रि, (दीप + क्तः ।) निर्भासितः । दग्धः ।

ज्वलितः । इति मेदिनी । ते, २५ ॥ (यथा,
हरिवंशे । १६८ । ३ ।
“ततः शकुनयो दीप्ता मृगाश्च क्रूरभाषिणः ।
दीप्तायां दिशि भाषन्तो भयमावेदयन्ति मे ॥”)

दीप्तकं, क्ली, (दीप्तमेव । स्वार्थे कन् ।) स्वर्णम् ।

इति राजनिर्घण्टः ॥

दीप्तजिह्वा, स्त्री पुं, (दीप्ता जिह्वा यस्याः ।)

उल्कामुखी शृगाली । इति हारावली । ७९ ॥
(प्रदीप्तजिह्वे, त्रि । यथा, महाभारते । १ ।
२२९ । ३७ ।
“दीप्ताक्षो दीप्तजिह्वश्च संप्रदीप्तमहाननः ॥”)

दीप्तपिङ्गलः, पुं, (दीप्तः पिङ्गलश्च । दीप्तं स्वर्णं

तद्वत् पिङ्गलो वा ।) सिंहः । इति राजनिर्घण्टः ॥

दीप्तरसः, पुं, (दीप्त डज्ज्वलो रसो यस्य ।) किञ्चु-

लुकः । इति शब्दचन्द्रिका ॥

दीप्तलोचनः, पुं, (दीप्ते लोचने नेत्रे यस्य ।)

विडालः । इति राजनिर्घण्टः ॥

दीप्तलोहं, क्ली, (दीप्तं लोहमिव ।) कांस्यम् ।

इति राजनिर्घण्टः ॥

दीप्ता, स्त्री, (दीप्त + टाप् ।) लाङ्गलिकावृक्षः ।

इति रत्नमाला ॥ ज्योतिष्मती । सातला । इति
राजनिर्घण्टः ॥

दीप्ताक्षः, पुं, (दीप्ते अक्षिणी यस्य ।) विडालः ।

इति शब्दरत्नावली ॥ (प्रदीप्तनेत्रे, त्रि ।
यथा, महाभारते । १ । २२९ । ३७ ।
“दोप्ताक्षो दीप्तजिह्वश्च संप्रदीप्तमहाननः ॥”)

दीप्ताग्निः, पुं, (दीप्तः अग्निर्जठराग्निर्यस्य ।)

अगस्त्यः । इति त्रिकाण्डशेषः ॥ (प्रदीप्तो वह्निः ।
यथा, भट्टिः । २ । २ ।
“सघूमदीप्ताग्निरुचीनि रेजु-
स्ताम्रोत्पलान्याकुलषट्पदानि ॥”)
तीक्ष्णजठरानलयुक्ते, त्रि ॥ (यथा, सुश्रुते ।
१ । २० ।
“सात्म्यतोऽल्पतया वापि दीप्ताग्नेस्तरुणस्य च ॥”)

दीप्ताङ्गः, पुं, (दीप्तं भासितमङ्गमस्य ।) मयूरः ।

इति शब्दरत्नावली ॥

दीप्तिः, स्त्री, (दीप + क्तिन् ।) दीपनम् । तत्-

पर्य्यायः । प्रभा २ रुक् ३ रुचिः ४ त्विट् ५ भा ६
भाः ७ छविः ८ द्युतिः ९ रोचिः १० शोचिः
११ । इत्यमरः । १ । ४ । ३४ ॥ बाणवेगस्य तीव्रता ।
स्त्रिया अयत्नजगुणः । इति हेमचन्द्रः । २ । १३ ॥
“कान्तिरेव वयोभोगदेशकालगुणादिभिः ।
उद्दीपितातिविस्तारं प्राप्ता चेद्दीप्तिरुच्यते ॥”
इत्युज्ज्वलनीलमणिः ॥
(यथा, साहित्यदर्पणे । ३ । १३१ ।
“कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते ॥”)
लाक्षा । कांस्यम् । इति राजनिर्घण्टः ॥

दीप्तिकः, पुं, (दीप्त्या कायतीति । कै + कः ।)

दुग्धपाषाणवृक्षः । इति राजनिर्घण्टः ॥

दीप्तोपलः, पुं, (दीप्तः सूर्य्यकिरणसम्पर्कात् ज्वलितः

उपलः ।) सूर्य्यकान्तमणिः । इति राज-
निर्घण्टः ॥

दीप्यः, पुं, (दीपाय अग्निदीपनाय हितमिति ।

दीप + “तस्मै हितम् ।” ५ । १ । ४ । इति
अपूपादित्वात् पक्षे यत् ।) यमानी । (अस्य
पर्य्यायो यथा, --
“यमानी दीप्यको दीप्यो भूतिकश्च यमानिका ॥”
इति वैद्यकरत्नभालायाम् ॥)
जीरकः । इति राजनिर्घण्टः ॥ (दीपाय साधु-
रिति । दीप + “तत्र साधुः ।” ४ । ४ । ९८ ।
इति यत् ।) मयूरशिखा । रुद्रजटा इति
ख्याता । इत्यमरः । २ । ४ । १११ ॥

दीप्यकं, क्ली, (दीपाय हितं साधुरिति वा ।

दीप + यत् । ततः स्वार्थे कन् ।) अजमोदा ।
यमानी । (यथा भावप्रकाशे क्षुद्ररोगाधिकारे ।
“सैन्धवं चन्दनं कुष्ठं दीपकञ्च फलं पृथक् ॥”)
बर्हिचूडा । इति मेदिनी । के, १०५ ॥

दीप्यकः, पुं, (दीप्य + संज्ञायां स्वार्थे वा कन् ।)

अलङ्कारः । यमानी । (अस्य पर्य्याया यथा, --
“यमानी दीप्यको दीप्यो भूतिकश्च यमानिका ॥”
इति वैद्यकरत्नमालायाम् ॥)
लोचमस्तकः । इति भरतधृतरभसः ॥ (अज-
मोदा । तत्पर्य्यायो यथा, --
“अजमोदा खराश्वा च मायूरो दीप्यकन्तथा ।
तथा ब्रह्मकुशा प्रोक्ता कारवी लोचमस्तका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)

दीप्रः, त्रि, (दीप्यते इति । दीप + “नमिकम्पि-

स्म्यजसकमहिंसदीपो रः ।” ३ । २ । १६७ ।
इति रः ।) दीप्तिविशिष्टः । इति व्याकरणम् ॥
(यथा कथासरित्सागरे । २५ । १३५ ।
“क्वचित् क्वचिच्चिताज्योतिर्दीप्रदीपप्रकाशितम् ॥”)

दीयमानः, त्रि, (दीयते इति । दा + कर्म्मणि

शानच् ।) वर्त्तमानदानसम्बन्धिवस्तु । इति
व्याकरणम् । यथा, कृत्यचिन्तामणौ ।
“विवाहोत्सवयज्ञेषु अन्तरा मृतसूतके ।
पूर्ब्बसङ्कल्पितं द्रव्यं दीयमानं न दुष्यति ॥”
इति तिथ्यादितत्त्वम् ।

दीर्घं, त्रि, (दृणातीति । दॄ विदारणे + बाहुल-

कात् घङ् ।) आथतम् । इत्यमरः । ३ । १ । ६९ ।
(यथा मेघदूते । १०३ ।
“दीर्घोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्त्ती
सङ्कल्पैस्ते विशति विधिना वैरिणा रुद्ध-
मार्गः ॥”)

दीर्घः, पुं, (दॄ + बाहुलकात् घङ् ।) लताशाल-

वृक्षः । (यथा, वैद्यकरत्नमालायाम् ।
“तार्क्ष्योऽश्वकर्णः कुशिको बल्यो दीर्घो लता-
द्रुमः ॥”)
इत्कटः । इति रत्नमाला ॥ रामशरः । उष्ट्रः ।
इति राजनिर्घण्टः ॥ पञ्चमषष्ठसप्तमाष्टमराशयः ।
यथा । वृश्चिककन्यामृगपतिवणिजो दीर्घाः ।
इति ज्योतिषतत्त्वम् ॥ द्विमात्रवर्णः । तद्यथा ।
आ ई ऊ ॠ ए ऐ ओ औ । गुरुवर्णः । इति
व्याकरणम् ॥ (दीर्घलक्षणं यथा, --
“एकमात्रो भवेद्ध्रस्वो द्बिमात्रो दीर्घ उच्यते ।
त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनञ्चार्द्धमात्रकम् ॥”)

दीर्घकणा, स्त्री, (दीर्घा कणेति नित्यकर्म्मघारयः ।)

गौरजीरकः ॥ इति राजनिर्घण्टः ॥

दीर्घकण्टकः, पुं, (दीर्घः कण्टकोऽस्य ।) वर्व्वुरः ।

इति राजनिर्घण्टः ॥

दीर्घकण्ठकः, पुं, (दीर्घः कण्ठोऽस्य । कप् ।)

वकपक्षी । इति शब्दचन्द्रिका ॥

दीर्घकन्दकं, क्ली, (दीर्घः कन्दो यस्य । कप् ।)

मूलकम् । इति राजनिर्घण्टः ॥ (मूलकशब्दे-
ऽस्य गुणादयो विज्ञेयाः ॥)

दीर्घकन्दिका, स्त्री, (दीर्घकन्दक + टाप् अत

इत्वञ्च ।) मुषली । इति राजनिर्घण्टः ॥

दीर्घकन्धरः, पुं, (दीर्घः कन्धरो यस्य ।) वकः ।

इति राजनिर्घण्टः ॥

दीर्घकाण्डः, पुं, (दीर्घः काण्डो यस्य ।) गुण्डतृणम् ।

इति राजनिर्घण्टः ॥

दीर्घकाण्डा, स्त्री, (दीर्घः काण्डोऽस्याः ।) पाताल-

गडुरीलता । इति राजनिर्घण्टः ॥

दीर्घकीलः, पुं, (दीर्घः कीलः शाखादण्डो यत्र ।)

अङ्कोठवृक्षः । इति राजनिर्घण्टः ॥

दीर्घकीलकः, पुं, (दीर्घकील + स्वार्थे कन् ।) अङ्कोठ-

वृक्षः । इति जटाधरः ॥

दीर्घकूरकं क्ली, (दीर्घं कूरकमन्नम् ।) राजान्नम् ।

इति राजनिर्घण्टः ॥
पृष्ठ २/७२१

दीर्घकेशः, पुं, (दीर्घाः केशा इव लोमान्यस्य ।)

भल्लूकः । इति राजनिर्घण्टः ॥ (देशभेदः ।
यथा, वृहत्संहितायाम् । १४ । २३ ।
“एकविलोचनशूलिकदीर्घग्रीवास्यकेशाश्च ॥”
दीर्घाः केशा यस्य ।) आयतकचे, त्रि ॥ (स्त्रियां
वा ङीष् स्वाङ्गत्वात् । यथा, महानाटके । १९१ ।
“विम्बोष्ठी चारुनेत्रा गजपतिगमना दीर्घकेशी
सुमध्या ॥”)

दीर्घकोशिका, स्त्री, (दीर्घः कोशो यस्याः । ततः

संज्ञायां कन् टाप् अत इत्वञ्च ।) दीर्घको-
षिका । इत्यमरटीकायां भरतः ॥

दीर्घकोषिका, स्त्री, (दीर्घः कोषोऽस्याः । कापि

अत इत्वम् ।) झिणायिका । झिणुक् इति
ख्याता । तत्पर्य्यायः । दुर्नामा २ । इत्यमरः ।
१ । १० । २५ ॥

दीर्घगतिः, पुं, (दीर्घा आयतस्थानग्रहा गतिः

पादविक्षेपो यस्य ।) उष्ट्रः । इति राज-
निर्घण्टः ॥

दीर्घग्रन्थिः, पुं, (दीर्घो ग्रन्थिः पर्व्वास्य ।) गज-

पिप्पली । इति राजनिर्घण्टः ॥ (विवृतिरस्य गज-
पिप्पलीशब्दे विज्ञेया ॥)

दीर्घग्रीवः, पुं, (दीर्घा ग्रीवास्य ।) उष्ट्रः । इति

हेमचन्द्रः । ४ । ३२९ ॥ नीलक्रौञ्चः । इति राज-
निर्घण्टः ॥ (देशभेदः । यथा, बृहत्संहितायाम् ।
१४ । २३ ।
“एकविलोचनशूलिकदीर्घग्रीवास्यकेशाश्च ॥”)

दीर्घघाटिकः, पुं, (दीर्घा घाटास्यास्तीति । ठन् ।)

उष्ट्रः । इति शब्दरत्नावली ॥

दीर्घजङ्गलः, पुं, (दीर्घं यथा तथा जङ्गलो गति-

शीलः ।) भङ्गानमत्स्यः । इति शब्दमाला ॥

दीर्घजङ्घः, पुं, (दीर्घा जङ्घास्य ।) वकः । इति

त्रिकाण्डशेषः ॥ उष्ट्रः । इति जटाधरः ॥ आय-
तजानुयुक्ते, त्रि ॥

दीर्घजिह्वः, पुं, (दीर्घा जिह्वा यस्य ।) सर्पः ।

इति हेमचन्द्रः । ४ । ३६९ ॥ (दानवविशेषः ।
यथा, महाभारते । १ । ६५ । ३० ।
“गरिष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः ॥”
स्त्रियां टाप् । राक्षसीविशेषः । यथा, महा-
भारते । ३ । २८९ । ४४ ।
“द्व्यक्षीं त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वा-
मजिह्विकाम् ॥”)

दीर्घतरुः, पुं, (दीर्घश्चासौ तरुश्चेति कर्म्मधारयः ।)

तालः । इति शब्दार्थकल्पतरुः ॥

दीघतिमिषा, स्त्री, (दीर्घस्तिमिषः । अभिधानात्

स्त्रीत्वम् ।) कर्कटी । इति शब्दमाला ॥

दीर्घतुण्डा, स्त्री, (दीर्घं तुण्डं यस्याः ।) छुछु-

न्दरी । इति कोषान्तरम् ॥

दीर्घतृणः, पुं, (दीर्घं तृणमिति नित्यकर्म्मधारयः ।

अभिधानात् पुंस्त्वम् ।) पल्लिवाहः । इति राज-
निर्घण्टः ॥

दीर्घदण्डः, पुं, (दीर्घो दण्ड इव काण्डावच्छेदेन ।)

एरण्डवृक्षः । इति भावप्रकाशः ॥

दीर्घदण्डकः, पुं, (दीर्घदण्ड + स्वार्थे कन् ।) एरण्ड-

वृक्षः । इति जटाधरः ॥

दीर्घदण्डी, स्त्री, (दीर्घदण्ड + गौरादित्वात् ङीष् ।)

गोरक्षी । इति राजनिर्घण्टः ॥

दीर्घदर्शी, [न्] पुं, (दीर्घं दीर्घात् वा पश्यतीति ।

णिनिः ।) पण्डितः । इत्यमरः । २ । ७ । ६ ॥
गृध्रः । इति शब्दरत्नावली ॥ भल्लूकः । इति
राजनिर्घण्टः ॥ दूरदर्शके, त्रि ॥ (यथा, महा-
भारते । २ । ४८ । ४३ ।
“स हि धर्म्मं पुरस्कृत्य दीर्घदर्शी परं हितम् ॥”)

दीर्घदृष्टिः, पुं, (दीर्घा दृष्टिर्दर्शनमस्य ।) दीर्घ-

दर्शी । इति हलायुधः ॥

दीर्घद्रुः, पुं, (दीर्घश्चासौ द्रुश्चेति कर्म्मधारयः ।)

तालवृक्षः । इति शब्दचन्द्रिका ॥

दीर्घद्रुमः, पुं, (दीर्घो द्रुम इति नित्यकर्म्मधारयः ।)

शाल्मलिः । इति राजनिर्घण्टः ॥

दीर्घनादः, पुं, (दीर्घो दूरगो नादोऽस्य ।) शङ्खः ।

इति राजनिर्घण्टः ॥

दीर्घनालं, क्ली, (दीर्घं नालमस्य ।) दीर्घरोहि-

षकम् । इति राजनिर्घण्टः ॥

दीर्घनालः, पुं, (दीर्घं नालं यस्य ।) वृत्तगुण्डः ।

यावनालः । इति राजनिर्घण्टः ॥

दीर्घनिद्रा, स्त्री, (दीर्घा निद्रेति नित्यकर्म्मधारयः ।)

मृत्युः । इति हेमचन्द्रः । २ । २३८ ॥ (यथा,
मार्कण्डेये । ७ । १३ ।
“सोऽद्य मत्कार्मुकाक्षेपविदीपितदिगन्तरैः ।
शरैर्विभिन्नसर्व्वाङ्गो दीर्घनिद्रां प्रवेक्ष्यति ॥”)

दीर्घपटोलिका, स्त्री, (दीर्घा पटोलिका ।) लता-

फलविशेषः । धुँदुल इति भाषा । अस्य
गुणाः । स्निग्धत्वम् । कटुत्वम् । विष्टम्भित्वम् ।
गुरुत्वम् । वायुपित्तश्लेष्मरुचिभेदकारित्वम् ।
मधुरत्वम् । शीतलत्वञ्च । इति राजवल्लभः ॥

दीर्घपत्रः, पुं, (दीर्घं पत्रमस्य ।) राजपलाण्डुः ।

विष्णुकन्दः । हरिदर्भः । कुन्दरः । तालः । इति
राजनिर्घण्टः ॥ कुपीलुः । इति भावप्रकाशः ॥
(इक्षुभेदः । यथा, सुश्रुते सूत्रस्थाने ४५ अः ।
“कान्तारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः ।
नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोषकृत् ॥”)

दीर्घपत्रकः, पुं, (दीर्घपत्र + संज्ञायां कन् ।)

रक्तलशुनः । एरण्डः । हिज्जलः । वेतसः । इति
राजनिर्घण्टः ॥ करीरवृक्षः । इति शब्द-
चन्द्रिका ॥ जलजमधूकः । इति जटाधरः ॥
लशुनः । इति हेमचन्द्रः । ४ । २५३ ॥ (इक्षु-
भेदः । यथा, सुश्रुते सूत्रस्थाने ४५ अः ।
“सूचिपत्रो नीलपोरो नैपालो दीर्घपत्रकः ।
वातलाः कफपित्तघ्नाः सकषाया विदाहिनः ॥”)

दीर्घपत्रा, स्त्री, (दीर्घपत्र + टाप् ।) चित्रपर्णिका ।

चाकुलियाभेदः । (यथा, भावप्रकाशस्य पूर्ब्ब-
खण्डे प्रथमे भागे ।
“शालिपर्णी स्थिरा सौम्या त्रिपर्णी पीरवी गुहा ।
विदारिगन्धा दीर्घाङ्गी दीर्घपत्रांशुमत्यपि ॥”)
ह्रस्वजम्बुः । इति रत्नमाला ॥ गन्धपत्रा ।
केतकी । डोडीक्षुपः । इति राजनिर्घण्टः ॥
(चिञ्चापरपर्य्याय उद्भिद्भेदः । यथा, भाव-
प्रकाशे पूर्ब्बखण्डे प्रथमे भागे ।
“चिञ्चा चञ्चुश्चञ्चुकी च दीर्घपत्रा सतिक्तका ॥”)

दीर्घपत्रिका, स्त्री, (दीर्घपत्र + संज्ञायां कन् टाप्

अत इत्वञ्च ।) श्वेतवचा । घृतकुमारी । शाल-
पर्णी । इति राजनिर्घण्टः ॥

दीर्घपत्री, स्त्री, (दीर्घपत्र + गौरादित्वात् ङीष् ।)

पलाशीलता । महाचञ्चुशाकः । इति राज-
निर्घण्टः ॥

दीर्घपर्णी, स्त्री, (दीर्घं पर्णमस्याः । गौरादित्वात्

ङीष् ।) पृश्निपर्णी । इति राजनिर्घण्टः ॥ (पृश्नि-
पर्णीशब्देऽस्या विवरणं ज्ञातव्यम् ॥)

दीर्घपल्लवः, पुं, (दीर्घः पल्लवो यस्य ।) शणवृक्षः ।

इति राजनिर्घण्टः । आयतच्छदे, क्ली । तद्बति,
त्रि ॥

दीर्घपात्, पुं, (दीर्घौ पादावस्य । समासे अन्त्य-

लोपः ।) कङ्कपक्षी । इति शब्दरत्नावली ॥

दीर्घपादः, पुं, (दीर्घौ पादौ यस्य । समासान्त-

विधेरनित्यत्वात् अन्त्यलोपाभावश्च ।) कङ्क-
पक्षी । इति हेमचन्द्रः । ४ । ४०० ॥

दीर्घपादपः, पुं, (दीर्घश्चासौ पादपश्चेति नित्य-

कर्म्मधारयः ।) तालः । पूगः । इति राज-
निघण्टः ॥

दीर्घपृष्ठः, पुं, (दीर्घं पृष्ठं यस्य ।) सर्पः । इत्य-

मरः । १ । ८ । ८ ॥

दीर्घफलः, पुं, (दीर्घं फलं यस्य ।) आरग्वधवृक्षः ।

इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, --
“आरग्वधो राजवृक्षः सम्पाकश्चतुरङ्गुलः ।
आरवेतो व्याधिघातः कृतमालः सुवर्णकः ॥
कणिकारो दीर्घफलः स्वर्णाङ्गः स्वर्णभूषणः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

दीर्घफलकः, पुं, (दीर्घफल + संज्ञायां कन् ।) अगस्त्य-

वृक्षः । इति राजनिर्घण्टः ॥ (गुणादयोऽस्या-
गस्त्यशब्दे व्याख्याताः ॥)

दीर्घफला, स्त्री, (दीर्घाणि फलानि यस्याः ।)

कपिलद्राक्षा । जतुका । इति राजनिर्घण्टः ॥

दीर्घबाला, स्त्री, (दीर्घः बालो यस्याः ।) चमरी ।

इति राजनिर्घण्टः ॥

दीर्घमारुतः, पुं, (दीर्घः अधिकसमयव्यापी

मारुतो निःश्वासवायुर्यस्य ।) हस्ती । इति
त्रिकाण्डशेषः ॥

दीर्घमूलं, क्ली, (दीर्घं मूलं यस्य ।) लामज्जकम् ।

इति राजनिर्घण्टः ॥

दीर्घमूलः, पुं, (दीर्घं मूलं यस्य ।) मोरटलता ।

विल्वान्तरवृक्षः । इति राजनिर्घण्टः ॥

दीर्घमूलकं, क्ली, (दीर्घमूल + संज्ञायां कन् ।)

मूलकम् । इति राजनिर्घण्टः ॥

दीर्घमूला, स्त्री, (दीर्घं मूलं यस्याः । टाप् ।)

श्यामालता । शालपर्णी । इति रत्नमाला ॥
(यथा, सुश्रुते । १ । ३८ ।
“प्रियङ्गु समङ्गधातकी पुन्नागरक्तचन्दनकुचन्दन-
पृष्ठ २/७२२
मोचरसरसाञ्जनकुम्भीकस्रोतोऽञ्जनपद्मकेसर-
योजनवल्ल्यो दीर्घमूला चेति ॥”)

दीर्घमूली, स्त्री, (दीर्घं मूलमस्याः । ङीप् ।) दुरा-

लभा । इति शब्दमाला ॥

दीर्घरदः, पुं, (दीर्घौ रदौ दन्तौ यस्य ।) शूकरः ।

इति त्रिकाण्डशेषः ॥ आयतदन्ते, त्रि ॥

दीर्घरसनः, पुं, (दीर्घा रसना जिह्वा यस्य ।)

सर्पः । इति शब्दचन्द्रिका ॥

दीर्घरागा, स्त्री, (दीर्घः अधिककालस्थायी रागो

यस्याः ।) हरिद्रा । इति राजनिर्घण्टः ॥

दीर्घरात्रं, क्ली, (दीर्घाः प्रचुरा रात्रयः सन्त्यत्र ।

अर्श आदित्वात् अच् ।) चिरकालम् । इति
त्रिकाण्डशेषः ॥ (पुं, दीर्घा चासौ रात्रिश्चेति
विग्रहे । “सर्व्वैकदेशसङ्खातपुण्यवर्षादीर्घाद्रात्रेः ।”
इति मुग्धबोधसूत्रात् षः । पुंस्त्वमभिधानात् ।)
दीर्घा निशा च ॥

दीर्घरोमा, [न्] पुं, (दीर्घाणि रोमाणि यस्य ।) भल्लूकः ।

इति शब्दार्थकल्पतरुः ॥ (महादेवस्य भूताना-
मन्यतमः । यथा, हरिवंशे भविष्यपर्व्वणि । १४ । २ ।
“तस्याग्रे समपद्यन्त भूतसङ्घाः सहस्रशः ।”
“दीर्घरोमा दीर्घभुजो दीर्घबाहुर्निरञ्जनः ॥”)

दीर्घरोहिषकं, क्ली, (दीर्घं रोहिषम् । ततः स्वार्थे

संज्ञायां वा कन् ।) कत्तृणभेदः । सुगन्धितृण-
विशेषः । वड रोहिष इति भाषा । तत्पर्य्यायः ।
दृढकाण्डम् २ दृढच्छदम् ३ यज्ञेष्टम् ४ दीर्घ-
नालम् ५ तिक्तसारम् ६ । अस्य गुणाः । तिक्त-
त्वम् । कटुत्वम् । उष्णत्वम् । कफवातभूतग्रह-
विषनाशित्वम् । व्रणक्षतविरोपणत्वञ्च । इति
राजनिर्घण्टः ॥

दीर्घवंशः, पुं, (दीर्घो वंश इव ।) नलः । इति

राजनिर्घण्टः ॥ आयते तृणध्वजे कुले च ॥

दीर्घवक्त्रः, पुं, स्त्री, (दीर्घं वक्त्रं मुखं यस्य ।) हस्ती ।

इति शब्दमाला ॥ (लम्बवदने, त्रि ॥)

दीर्घवच्छिका, स्त्री, कुम्भीरः । इति शब्दार्थकल्प-

तरुः ॥

दीर्घवल्ली, स्त्री, (दीर्घा वल्ली ।) महेन्द्रवारुणी ।

पातालगरुडी । पलाशी । इति राजनिर्घण्टः ॥
आयता लता च ॥

दीर्घवृन्तः, पुं, (दीर्घं वृन्तं यस्य ।) श्योणाक-

वृक्षः । इत्यमरः । २ । ४ । ५७ ॥ (अस्य पर्य्यायो
यथा, वैद्यकरत्नमालायाम् ।
“श्योणाको भूतपुष्पश्च पूतिवृक्षो मुनिद्रुमः ।
दीर्घवृन्तश्च कट्वङ्गो भल्लूकष्टुण्टकोऽरुणुः ॥”)

दीर्घवृन्तकः, पुं, (दीर्घवृन्त + स्वार्थे कन् ।)

श्योणाकः । इति शब्दमाला ॥ श्योणाकप्रभेदः ।
इति राजनिर्घण्टः ॥ (श्योनाकशब्देऽस्य विवरणं
ज्ञातव्यम् ॥)

दीर्घवृन्ता, स्त्री, (दीर्घं वृन्तं यस्याः ।) इन्द्र-

चिर्भिटी । इति राजनिर्घण्टः ॥

दीर्घवृन्तिका, स्त्री, (दीर्घं वृन्तं यस्याः । कप् ।

टापि अत इत्यम् ।) एलापर्णी । इति शब्द-
चन्द्रिका ॥

दीर्घशरः, पुं, (दीर्घः शरः ।) यावनालः । इति

राजनिर्घण्टः ॥

दीर्घशाखः, पुं, (दीर्घा शाखा यस्य ।) शणवृक्षः ।

इति राजनिर्घण्टः ॥ शालवृक्षः । इति शब्द-
चन्द्रिका ॥

दीर्घशाखिका, स्त्री, (दीर्घा शाखा यस्याः । कापि

अत इत्वम् ।) नीलाम्लीक्षुपः । इति राज-
निर्घण्टः ॥

दीर्घशिम्बिकः, पुं, (दीर्घा शिम्बिर्यस्य । कप् ।)

क्षवः । इति राजनिर्घण्टः ॥

दीर्घशूककं, क्ली, (दीर्घ शूकं यस्य । कप् ।) राजा-

न्नम् । इति राजनिर्घण्टः ॥

दीर्घसक्थं, त्रि, (दीर्घे सक्थिनी यस्य । “बहु-

व्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् ।” ५ । ४ ।
११३ । इति षच् ।) दीर्घोरु । इति व्याकरणम् ॥

दीर्घसक्थि, क्ली, (दीर्घे सक्थिनी यस्य । स्वाङ्गादि-

त्युक्तेरत्र न षच् ।) शकटम् । इति व्याकरणम् ॥

दीर्घसत्रं, क्ली, (दीर्घं बहुकालसाध्यं सत्रम् ।)

यज्ञविशेषः । (यथा, भागवते । १ । १ । २१ ।
“कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् ।
आसीना दीर्घसत्रेण कथानां स्रक्षणा हरेः ॥”)
तीर्थविशेषः । इति शब्दार्थकल्पतरुः ॥ (यथा,
महाभारते । ३ । ८२ । १०३ -- १०४ ।
“ततो गच्छेत राजेन्द्र ! दीर्घसत्रं यथाक्रमम् ।
तत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः ।
दीघसत्रमुपासन्ते दीक्षिता नियमव्रताः ॥
गमनादेव राजेन्द्र ! दीर्घसत्रमरिन्दम ! ।
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥”)

दीर्घसुरतः, पुं, (दीर्घं बहुकालव्यापकं सुरतं

मैथुनं यस्य ।) कुक्कुरः । इति त्रिकाण्डशेषः ॥

दीर्घसूत्रः, त्रि, (दीर्घेण बहुकालेन सूत्रं कार्य्या-

रम्भो यस्य ।) चिरक्रियः । इत्यमरः । ३ । १ । १७ ॥
“अदीर्घसूत्रश्च भवेत् सर्व्वकर्म्मसु पार्थिवः ।
दीर्घसूत्रस्य नृपतेः कर्म्महानिर्ध्रुवं भवेत् ॥
रागे द्वेषे च कामे च द्रोहे पापे च कर्म्मणि ।
अप्रिये चैव कर्त्तव्ये दीर्घसूत्रश्च शस्यते ॥”
इति मत्स्यपुराणम् ॥
(आयततन्तुकम् । यथा, माघे । १० । ६१ ।
“मेखलागुणविलग्नमसूयां
दीर्घसूत्रमकरोत् परिधानम् ॥”)
विस्तृते तन्तौ, क्ली ॥

दीर्घसूत्री, [न्] त्रि, (दीर्घसूत्रं बहुकालं व्याप्य

कर्म्मारम्भोऽस्त्यस्येति । दीर्घसूत्र + इनिः ।)
दीर्घसूत्रः । इति हलायुधः ॥ (यथा, गीता-
याम् । १८ । २८ ।
“विषादी दीर्घसूत्री च कर्त्ता तामस उच्यते ॥”)

दीर्घस्कन्धः, पुं, (दीर्घः स्कन्धो यस्य ।) तालवृक्षः ।

इति राजनिर्घण्टः ॥

दीर्घा, स्त्री, (दीर्घ + टाप् ।) पृश्निपर्णी । इति

राजनिर्घण्टः ॥ (अस्याः पर्य्याया यथा, --
“पृश्निपर्णी पृथक्पर्णी लाङ्गुली क्रोष्टुपुच्छिका ।
धामनिः कलशी तन्वी गूहा क्रोष्टुकमेखला ॥
दीर्घा शृगालविन्ना सा श्रीपर्णी सिंहपुच्छिका ।
दीर्घपत्रा त्वतिलुहा घृतिला चित्रपर्णिका ॥”
इति वैद्यकरत्नमालायाम् ॥)

दीर्घाध्वगः, त्रि, (दीर्घमध्वानं गच्छतीति । गम +

डः ।) लेखहारः । धाउडिया इति भाषा ।
उष्ट्रे, पुं । इति मेदिनी ॥ गे, ५७ ॥

दीर्घायुः, [स्] पुं, (दीर्घं आयुर्यस्य ।) शाल्मलि-

वृक्षः । काकः । जीवकवृक्षः । मार्कण्डेयः ।
चिरजीविनि, त्रि । इति मेदिनी । से, ५५ ॥
(यथा, महाभारते । ७ । ५७ । १४ ।
“दीर्घायुषः प्रजाः सर्व्वा युवा न म्रियते तदा ॥”)
“तत्र महापाणि-पाद-पार्श्वपृष्ठस्तनाग्रदशन-
वदनस्कन्धललाटं दीर्घाङ्गुलिपर्व्वोच्छ्वासप्रेक्षण-
बाहुं विस्तीर्णभ्रूस्तनान्तरोष्कं ह्रस्वजङ्घामेढ्रग्रीवं
गम्भीरसत्त्वस्वरनाभिमनुच्चैर्बद्धस्तनमुपचितमहा-
रोमशकर्णं पश्चान्मस्तिष्कं स्नातानुलिप्तं मूर्द्धानु-
पूर्ब्ब्या विशुष्यमाणशरीरं पश्चाच्च विशुष्यमाण-
हृदयं पुरुषं जानीयाद्दीर्घायुः खल्वयमिति ।”
“गूढसन्धिसिरास्नायुः संहताङ्गः स्थिरेन्द्रियः ।
उत्तरोत्तरसुक्षेत्रो यः स दीर्घायुरुच्यते ॥
गर्भात् प्रभृत्यरोगो यः शनैः समुपचीयते ।
शरीरज्ञानविज्ञानैः स दीर्घायुः समासतः ॥”
इति सुश्रुते सूत्रस्थाने ३५ अध्याये ॥)

दीर्घायुधः, पुं, (दीर्घ आयुधः ।) कुन्तास्त्रम् ।

इति त्रिकाण्डशेषः ॥ (दीर्घौ आयुधौ इव दन्तौ
यस्य ।) शूकरः । इति शब्दमाला ॥

दीर्घायुष्यः, पुं, (दीर्घं आयुष्यं जीवनं यस्य ।)

श्वेतमन्दारकः । इति राजनिर्घण्टः ॥

दीर्घालर्कः, पुं, (दीर्घ अलर्क इव ।) श्वेतमन्दा-

रकः । इति राजनिर्घण्टः ॥

दीर्घिका, स्त्री, (दीर्घैव । दीर्घा + संज्ञायां कन् ।

टापि अत इत्वम् ।) त्रिशतधनुःपरिमितजला-
शयः । दीघि इति भाषा । तत्पर्य्यायः । वापी २ ।
इत्यमरः । १ । १० । २८ ॥ (यथा, रघुः । १६ । १३ ।
“वनैरिदानीं महिषैस्तदम्भः
शृङ्गाहतं क्रोशति दीर्घिकाणाम् ॥”)
तज्जलगुणाः । गुरुत्वम् । कटुत्वम् । क्षारत्वम् ।
पित्तलत्वम् । कफवातनाशित्वञ्च । हिङ्गुपत्री ।
इति राजनिर्घण्टः ॥

दीर्घेर्व्वारुः, पुं, (दीर्घा इर्व्वारुः ।) डङ्गरी । इति

राजनिर्घण्टः ॥

दीर्णः, त्रि, (दॄ विदारे + क्तः ।) विदारितः ।

(यथा, गोः रामायणे । २ । ३९ । २९ ।
“आयसं हृदयं नूनं राममातुः सुसंहतम् ।
यन्न दीर्णं प्रिये पुत्त्रे वनवासाय निर्गते ॥”)
भीतः । इति मेदिनी । णे, १६ ॥ (यथा, महा-
भारते । ६ । ३ । ७६ ।
“एको दीर्णो दारयति सेनां सुमहतीमपि ।
तां दीर्णामनु दीर्य्यन्ते योधाः शूरतरा अपि ॥”)

दीविः, पुं, किकीदिविः । इति शब्दमाला ॥

दु, गतौ । इति कव्रिकल्पद्रुमः ॥ (भ्वां-परं-सकं-

अनिट् ।) दवति । इति दुर्गादासः ॥
पृष्ठ २/७२३

दु, टु ओ न उपतापे । इति कविकल्पद्रुमः ॥

(स्वां-परं-सकं-अकं च-अनिट् ।) टु, दवथुः ।
ओ, दूनः । न, दुनोति । उपताप इहोपतप्ती-
भावः उपतप्तीकरणञ्च । मन्मथेन दुनोमीति
जयदेवः । वर्णप्रकर्षे सति कर्णिकारं दुनोति
निर्गन्धतया स्म चेतः । इति कालिदासः ।
इति दुर्गादासः ॥

दुः, [र्] व्य, निषेधः । दुःखम् । निन्दा । अव-

क्षेपणम् । इति दुर्गादासधृतपुरुषोत्तमदेवः ॥

दुः, [स्] व्य, दुःखभावनम् । कोपः । इति दुर्गा-

दासधृतमेदिनी ॥

दुःकूलः, पुं, (दुर्दुःखं तज्जनकं कूलं रोधो यस्मात् ।

एतदुत्पत्त्या तटस्य विध्नत्वात् अस्य तथात्वम् ।)
चोरनामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥

दुःख, त् क तत्कृतौ । इति कविकल्पद्रुमः ॥

(अदन्त चुरां-परं-सकं-सेट् ।) विसर्गमध्यः ।
“काले तडिल्लताजाले घनपीनपयोधरे ।
कान्तः सर्व्वगुणोपेतो बालेन्दुः खे न लभ्यते ॥”
इति विन्दुच्युतकम् । अस्यार्थः । तडिल्लतासमूह-
वति घनस्थूलमेधे काले कमनीयः सर्व्वगुणोपेतो
बालेन्दुः खे आकाशे न लभ्यते पक्षे हे बाले
सर्व्वगुणोपेतः कान्तः पतिर्दुःखेन लभ्यते । दुःख-
यति दुःखापयति । मूर्द्धन्यषमध्यः । इति केचित् ।
तत्कृतिर्दुःखकरणम् । इति दुर्गादासः ॥

दुःखं, क्ली, (दुर् दुष्टं खनतीति । खन + डः ।

यद्वा, दुःखयतीति । दुःख + पचाद्यच् ।)
संसारः । इति त्रिकाण्डशेषः ॥ (रोगः । यथा,
भावप्रकाशे अर्शोरोगाधिकारे ।
“भेकाभः पीड्यते दुःखैः शोणितक्षयसम्भवैः ॥”
“दुःखै रोगैः ।” इति तट्टीका ॥) मनोधर्म्म-
विशेषः । न्यायमते आत्मगुणभेदः । तत् अधर्म्म-
जन्यं सचेतसां प्रतिकूलम् । इति भाषापरि-
च्छेदः ॥ तत्पर्य्यायः । पीडा २ वाधा ३ व्यथा ४
अमानस्यम् ५ प्रसूतिजम् ६ कष्टम् ६ कृच्छ्रम् ८
आभीलम् ९ । इत्यमरः । १ । १० । ३ ॥ अर्त्तिः १०
आर्त्तिः ११ पीडनम् १२ अवाधा १३ वाध-
नम् १४ आमनस्यम् १५ आमानस्यम् १६ विवा-
धनम् १७ पीडितम् १८ विहेठनम् १९ । इति
शब्दरत्नावली ॥ * ॥
“सुखं दुःखञ्च हर्षञ्च शोकञ्च मङ्गलालयम् ।
मया दत्तञ्च तत्त्वञ्च योगिनामपि दुर्लभम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥ * ॥
(दुःखन्तु आध्यात्मिकाधिदैविकाधिभौतिकभेदात्
त्रिविधम् । यदुक्तं तत्त्वकौमुद्याम् । “दुःख-
त्रयाभिघातात् ।” इति ।
“दुःखानां त्रयं दुःखत्रयं तत् खलु त्रिविधं
आध्यात्मिकमाधिभौतिकमाधिदैविकञ्च । तत्र
आध्यात्मिकं द्विविधं शारीरं मानसञ्च । शारीरं
वातपित्तश्लेष्मणां वैषम्यनिमित्तम् । मानसं
कामक्रोधलोभमोहभयेर्षाविषादविषयाविशेषा-
दर्शननिबन्धनम् । सर्व्वं चैतदान्तरोपायसाध्यत्वा-
दाध्यात्मिकं दुःखम् । वाह्योपायसाध्यञ्च दुःखं
द्वेधा आधिभौतिकमाधिदैविकञ्च । तत्र आधि-
भौतिकं मानुषपशुपक्षिसरीसृपस्थावरनिमित्तम् ।
आधिदैविकं यक्षराक्षसविनायकग्रहावेश-
निबन्धनम् । तदेतत्प्रत्यात्मवेदनीयं दुःखं रजः-
परिणामभेदी न शक्यते प्रत्याख्यातुम् । तदनेन
दुःखत्रिकेणान्तः करणवर्त्तिना चेतनाशक्तेः प्रति-
कूलतयाभिसम्बन्धोऽभिघातः इति । एतावता
प्रतिकूलवेदनीयत्वं जिहासाहेतुरुक्तः ॥”)
“दुःखमेवं प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ! ।
उचितेनोपचारेण दुःखं मोक्षविनाशनम् ॥
अहङ्कारकृतो नित्यं नरो मोहेन चावृतः ।
ये मां नैव प्रपद्यन्ते ततो दुःखतरन्नु किम् ॥
सर्व्वाशी सर्व्वविक्रेता नमस्कारविवर्ज्जितः ।
ये च मां न प्रपद्यन्ते ततो दुःखतरन्नु किम् ॥
सर्व्वान्नानि तु सिद्धानि पाकभेदन्तु कारयेत् ।
अवैश्वदेवं नरोऽश्नन्ति तत्र दुःखतरन्नु किम् ॥
प्राप्तकाले वैश्वदेवे दृष्टमतिथिमागतम् ।
अदत्त्वा तस्य यो भुड्क्ते तत्र दुःखतरन्नु किम् ॥
असन्तुष्टस्तु वैषम्ये परदाराभिमर्द्दकः ।
परोपतापी मन्दात्मा तत्र दुःखतरन्नु किम् ॥
अकृत्वायुर्ब्बलं कर्म्म गृहे संवसते नरः ।
मृत्युकालवशं प्राप्तस्तत्र दुःखतरन्नु किम् ॥
हस्त्यश्वरथयानानि गच्छमानानि पश्यति ।
न वै तस्याग्रतः पृष्ठे तत्र दुःखतरन्नु किम् ॥
अश्नन्ति पिशितं केचित् घृतशालिसमन्वितम् ।
शुष्कान्नं केचिदश्नन्ति तत्र दुःखतरन्नु किम् ॥
वरवस्त्रावृतां शय्यां समासेवन्ति भूषिताः ॥
केचित् तृणेषु शेरन्ते ततो दुःखतरन्नु किम् ॥
विद्बान् कृती गुणज्ञश्च सर्व्वशास्त्रविशारदः ।
केचिन्मूकात्र दृश्यन्ते तत्र दुःखतरन्नु किम् ॥
विद्यमाने वने केचित् कृपणा भोगवर्जिताः ।
दरिद्रो जायते दाता तत्र दुःखतरन्नु किम् ॥
पुरुषस्य द्वये भार्य्ये तयोरेकां प्रशंसयेत् ।
एकापि दुर्भगा तत्र ततो दुःखतरन्नु किम् ॥
लब्ध्वा तु मानुषीं संज्ञां पञ्चभूतसमन्विताम् ।
मामेव न प्रपद्यन्ते ततो दुःखतरन्नु किम् ॥
लब्ध्वा ब्राह्मणभावन्तु त्रयो वर्णाः सुमध्यमे ! ।
पापकर्म्मरता ह्यासंस्ततो दुःखतरन्नु किम् ॥
एतत्ते कथितं भद्रे ! दुःखकर्म्म विनिश्चयम् ।
सर्व्वभूतहितार्थाय यत्त्वया परिपृच्छ्यते ॥”
इति वराहपुराणम् ॥ * ॥
दुःखदानि यथा, --
पारतन्त्र्यम् १ आधिः २ व्याधिः ३ मानच्युतिः
४ शत्रुः ५ कुभार्य्या ६ नैःस्वम् ७ कुग्रामवासः ८
कुस्वामिसेवनम् ९ बहुकन्या १० वृद्धत्वम् ११
परगृहवासः १२ वर्षाप्रवासः १३ भार्य्याद्वयम्
१४ कुभृत्यः १५ दुर्हलकरणककृषिः १६ । इति
कविकल्पलता ॥ (तद्बिशिष्टे, त्रि । इत्यमरः ।
१ । ४ । २६ ॥ यथा, हरिवंशे । २२३ । ४९ ।
“सुसुखा न च दुःखा सा न शीता नच घर्म्मदा ॥”)

दुःखदोह्यां, स्त्री, (दुःखेन दुह्यते इति । दुह +

“ऋहलोर्ण्यत् ।” ३ । ४ । १२४ । इति ण्यत् ।)
दुर्दोहगवी । तत्पर्य्यायः । करटा २ । इति
हेमचन्द्रः । ४ । ३३५ ॥

दुःखितः, त्रि, (दुःखं सञ्जातमस्येति तारकादि-

त्वादितच् ।) यद्वा, दुःखधातोः कर्त्तरि क्तप्रत्ययः ।
दुःखी । (यथा, मनौ । ९ । २८८ ।
“बन्धनानि च सर्व्वाणि राजमार्गे निवेशयेत् ।
दुःखिता यत्र दृश्येरन् विकृताः पापकारिणः ॥”)
भावे क्ते, दुःखम् । तत्र क्ली ॥

दुःखी, [न्] त्रि, (दुःखमस्यास्तीति इनिः ।)

दुःखान्वितः । दुःखितः । यथा, --
“दुःखिनोऽदुःखिनो वापि प्राणिनो लब्धचक्षुषः ।
आत्मवत् परिपश्यन्ति ते यान्ति परमां गतिम् ॥
त्यक्त्वात्मसुखभोगेच्छां सर्व्वसत्त्वसुखैषिणः ।
भवन्ति परदुःखेन साधवो नित्यदुःखिताः ॥”
इति वह्निपुराणे शिवेरुपाख्याननामाध्यायः ॥)

दुःषमम्, व्य, (दुर्दुष्टं समं यत्र । “तिष्ठद्गुप्रभृतीनि

च ।” इत्यव्ययीभावः । “सुविनिर्दुभ्यः सुपि ।”
८ । ३ । ८८ । इति षत्वम् ।) निन्दनीयम् ।
तत्पर्य्यायः । निःषमम् २ गर्ह्यम् ३ । इत्यमरः ।
३ । ४ । १४ ॥

दुःसमम्, त्रि, (दुःषमम् । बाहुलकात् षत्वा-

भावः ।) असमञ्जसम् । इति त्रिकाण्डशेषः ॥

दुःसहा, स्त्री, (दुःखेन सह्यतेऽसौ । दुः + सह +

अच् । टाप् च ।) नागदमनी । इति राज-
निर्घण्टः ॥ (दुःसह्ये, त्रि । यथा, रघुः । ११ । २० ।
“राममन्मथशरेण ताडिता
दुःसहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता
जीवितेशवसतिं जगाम सा ॥”)

दुःसाधी, [न्] पुं, (दुर्दुष्टं कर्म्म साधयतीति । दुः +

साधि + णिनिः ।) दौवारिकः । इति शब्द-
रत्नमाला ॥

दुःसाध्यः, त्रि, (दुःखेन साध्यते इति । दुः +

साध + ण्यत् ।) दुःखनिष्पाद्यः । दुःखेन साध्यते
निष्पाद्यते यः ॥ (यथा, पञ्चतन्त्रे । १ । २५८ ।
“ततो दुर्गस्थो दुःसाध्यो रिपुर्भवति ॥”)

दुःस्थः, त्रि, (दुर्दुःखेण दुष्टं वा तिष्ठतीति । स्था +

कः ।) दुर्गतः । मूर्खः । दुःखेन तिष्ठति यः ।
इति मेदिनी । थे, ८ ॥ (यथा, भागवते । १ ।
१६ । ३४ ।
“त्वां दुःस्थमूनपदमात्मनि पौरुषेण
सम्पादयन् यदुषु रम्यमबिभ्रदङ्गम् ॥”)
लुब्धः । इति शब्दार्थकल्पतरुः ॥

दुःस्पर्शः, पुं, (दुःखेन स्पृश्यते इति । दुः + स्पृश् +

“ईषद्दःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ।” ३ । ३ । १२६ ।
इति कर्म्मणि खल् ।) दुरालभा । इत्यमरः । २ । ४ ।
९१ ॥ (अस्य पर्य्याया यथा, --
“यासो यवासो दुःस्पर्शो धनुर्यासो दुरालभा ॥”
इति वैद्यकरत्नमालायाम् ॥)
लताकरञ्जः । इति राजनिर्घण्टः ॥ खरस्पर्शे,
त्रि । इति मेदिनी । से, २१ ॥ (यथा, भाग-
वते । ३ । १७ । ५ ।
पृष्ठ २/७२४
“रवौ वायुः सुदुःस्पर्शः फूत्कारानीरयन् मुहुः ।
उन्मूलयन्नगपतीन् वात्यानीको रथध्वजः ॥”)

दुःस्पर्शा, स्त्री, (दुःखेन स्पृश्यते इति । स्पृश् +

खल् + टाप् च ।) कपिकच्छुः । आकाशवल्ली ।
कण्टकारी । (अस्याः पर्य्याया यथा, --
“कण्टकारी तु दुःस्पर्शा क्षुद्रा व्याघ्री निदिग्धिका ।
कण्ठालिका कण्टिकिनी धावनी बृहती तथा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
दुरालभा । इति राजनिर्घण्टः ॥

दुःस्फोटः, पुं, (दुर्दुष्टं स्फोटयतीति । स्फोटि +

अच् ।) शस्त्रभेदः । इति हेमचन्द्रः । ३ । ४५१ ॥

दुकूलं, क्ली, (दुष्टं कूलति आवृणोतीति । कूल +

“इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ । इति
कः । पृषोदरात् साधुः । यद्वा, दु + “खजिपि-
ञ्जादिभ्य उरोलोचौ ।” उणां । ४ । ९० । इति
ऊलच् । धातोः कुक् च ।) क्षौमवस्त्रम् । (यथा,
रधौ । ७ । १९ ।
“दुकूलवासाः स वधूसमीपं
निन्ये विनीतैरवरोधरक्षैः ॥”)
सूक्ष्मवस्त्रम् । इति मेदिनी । ले, ९९ ॥

दुगूलम्, क्ली, (दुकूलं पृषोदरात् कस्य गः ।) दुकू-

लम् । पट्टवस्त्रम् । इति हेमचन्द्रः । ३ । ३३३ ॥

दुग्धम्, क्ली, (दुह्यते स्मेति । दुह + कर्म्मणि क्तः ।)

स्त्रीजातिस्तननिःसृतद्रवद्रव्यविशेषः । दुघ इति
भाषा । तत्पर्य्यायः । क्षीरम् २ पीयूषम् ३
उधस्यम् ४ स्तन्यम् ५ पयः ६ अमृतम् ७ ।
इति राजनिर्घण्टः ॥ बालजीवनम् ८ । इति
भावप्रकाशः ॥ अस्य सामान्यगुणाः । स्वादु-
रसत्वम् । स्निग्धत्वम् । ओजःकारित्वम् । धातु-
वर्द्धनत्वम् । वातपित्तहरत्वम् । वृष्यत्वम् । श्लेष्म-
लत्वम् । गुरुत्वम् । शीतलत्वम् । पिष्टकादष्ट-
गुणगुरुत्वञ्च ॥ * ॥ गोदुग्धगुणाः । प्राणध र-
कत्वम् । बलायुःपुरुषत्वशुक्रकारित्वम् । मेध्यत्वम् ।
रक्तपित्तरोगवायुनाशित्वम् । रसायनत्वञ्च ॥ * ॥
छागीदुग्धगुणाः । मधुरत्वम् । शीतत्वम् । मल-
बन्धाग्निकारित्वम् । रक्तपित्तविकारश्वासकास-
सर्व्वदोषनाशित्वञ्च ॥ * ॥ मेषीदुग्धगुणाः ।
गुरुत्वम् । स्वादुत्वम् । स्निग्धत्वम् । उष्णत्वम् ।
कफपित्तनाशित्वञ्च ॥ * ॥ माहिषदुग्धगुणाः ।
अतिस्निग्धत्वम् । निद्राकारित्वम् । अग्निना-
शित्वञ्च ॥ * ॥ उष्ट्रीदुग्धगुणाः । रूक्षत्वम् ।
उष्णत्वम् । शोथवातकफनाशित्वम् ॥ * ॥
अश्वीदुग्धगुणाः । सलवणत्वम् । मधुराम्लरस-
त्वम् । लघुत्वञ्च ॥ * ॥ हस्तिनीदुग्धगुणाः ।
मधुरत्वम् । शुक्रकारित्वम् । कषायानुरसत्वम् ।
गुरुत्वञ्च ॥ * ॥ मानुप्यदुग्धगुणाः । प्राणधार-
कत्वम् । शरीरहितकारित्वम् । बृंहणत्वम् ।
तृप्तिजनकत्वञ्च ॥ * ॥ प्रत्यूषकाले गोदुग्धपान-
गुणाः । गुरुत्वम् । विष्टम्भित्वम् । दुर्जरत्वम् ।
तस्मात् सूर्य्योदयात् परं यामं यामार्द्धमेव वा
उत्तार्य्य पयो ग्राह्यम् । तत्पथ्यं दीपनं लघु ॥ *
विवत्साबालवत्सानां पयः दोषलम् । एक-
वर्णवत्सगोर्दुग्धं श्वेतवर्णकृष्णवर्णगोदुग्धञ्च प्रश-
स्तम् ॥ * ॥ इक्षुभक्षकमाषपर्णभक्षकोर्द्ध्वशृङ्ग-
गोदुग्धं पक्वमपक्वंवा हितकारकम् ॥ * ॥ पर्य्यु-
षितदुग्धगुणाः । गुरुत्वम् । विष्टम्भित्वम् । दुर्ज्ज-
रत्वञ्च ॥ * ॥ अपक्वदुग्धगुणः । प्रायोऽभिष्य-
न्दित्वम् । गुरुत्वञ्च ॥ * ॥ शृतोष्णं कफवात-
नाशनम् । शृतशीतं पित्तनाशनम् । धारोष्ण-
दुग्धं अमृततुल्यम् । स्त्रीस्तन्यदुग्धं विना सर्व्व-
मपक्वं दुग्धं त्याज्यम् । सलवणदुग्धं विग्रथितं
नट इति ख्यातं दुग्धञ्च त्याज्यम् ॥ * ॥ दुग्धान्न-
गुणाः । चक्षुर्हितत्वम् । बलकारित्वम् । पित्त-
नाशित्वम् । रसायनत्वञ्च ॥ * ॥
“शाकाम्लपलपिण्याककुलत्थलवणामिषैः ।
करीरदधिमाषैश्च प्रायः क्षीरं विरुध्यते ॥”
इति राजवल्लभः ।
अथ चतुर्व्विधक्षीरगुणः ।
“केऽप्याविकं पथ्यतमं शृतोष्णं
क्षीरं त्वजानां शृतशीतमाहुः ।
दोहान्तशीतं महिषीपयस्यं
गव्यन्तु धारोष्णमिदं प्रशस्तम् ॥
वृष्यं बृंहणमग्निवर्द्धनकरं पूर्ब्बाह्णपीतं पयो
मध्याह्रे बलदायकं रतिकरं कृच्छ्रस्य विच्छेदनम् ।
बाल्ये वह्निकरं ततो बलकरं वीर्य्यप्रदं बार्द्धके
रात्रौ क्षीरमनेकदोषशमनं सेव्यं ततः सर्व्वदा ॥
क्षीरं मुहूर्त्तत्रितयोषितं य-
दतप्तमेतद्विकृतिं प्रयाति ।
षण्णान्तु दोषं कुरुते तदूर्द्ध्वं
विषोपमं स्यादुषितं दशानाम् ॥
जीर्णज्वरे कफे क्षीणे क्षीरं स्यादमृतोपमम् ।
तदेव तरुणे पीतं विषवद्धन्ति मानुषम् ॥
क्षीरक्वाथगुणः ।
चतुर्थभागं सलिलं निघाय
यत्नाद्यदावर्त्तितमुत्तमं तत् ।
सर्व्वामयघ्नं बलपुष्टिकारि
वीर्य्यप्रदं क्षीरमतिप्रशस्तम् ॥
गव्यं पूर्ब्बाह्णकाले स्यादपराह्णे तु माहिषम् ।
क्षीरं सशर्करं पथ्यं यद्बा सात्म्यञ्च सर्व्वदा ॥
क्षीरं न भुञ्जीत कदाप्यतप्तं
तप्तञ्च नैतल्लवणेन सार्द्धम् ।
पिष्टान्नसन्धानकमाषमुद्ग-
कोशातकीकन्दफलादिकैश्च ॥
तथा च,
मत्स्यमांसगुडमुद्गमूलकैः
कुष्ठमावहति सेवितं पयः ।
शाकजाम्बवरसादिसेवितं
मारयत्यबुधमाशु सर्पवत् ॥ * ॥
स्निग्धं शीतं गुरु क्षीरं सर्व्वकालं न सेवयेत् ।
दीप्ताग्निं कुरुते मन्दं मन्दाग्निं नष्टमेव च ॥
नित्यन्तीव्राग्निना सेव्यं सुपक्वं माहिषं पयः ।
पुष्यन्ति धातवः सर्व्वे बलपुष्टिविवर्द्धनम् ॥
क्षीरं गवाजकादेर्मधुरं क्षारं नवप्रसूतानाम् ।
रूक्षञ्च पित्तदाहं करोति रक्तामयं कुरुते ॥ * ॥
मधुरं त्रिदोषशमनं क्षीरं मध्यप्रसूतानाम् ।
लवणंमधुरं क्षीरं विदाहजननं चिरप्रसूतानाम् ॥
गुणहीनं निःसारं क्षीरं प्रथमप्रसूतानाम् ।
मध्यमवयसां रसायनमुक्तमिदं दुर्ब्बलन्तु वृद्धा-
नाम् ॥
तासां मासत्रयादूर्द्ध्वं गुर्व्विणीनाञ्च यत् पयः ।
तद्दाहि लवणं क्षीरं मधुरं पित्तशोषकृत् ॥ * ॥
दुग्धाम्रं शीतलं स्वादु वृष्यं वर्णकरं गुरु ।
वातपित्तापहं रुच्यं बृंहणं बलवर्द्धनम् ॥”
इति राजनिर्घण्टः ॥ * ॥
अथ भावप्रकाशोक्तसामान्यदुग्धगुणाः ।
“दुग्धं सुमधुरं स्निग्धं वातपित्तहरं सरम् ।
सद्यःशुक्रकरं शीतं सात्म्यं सर्व्वशरीरिणाम् ॥
जीवनं बृंहणं बल्यं मेध्यं वाजीकरं परम् ।
वयःस्थापकमायुष्यं सन्धिकारि रसायनम् ॥
विरेकवान्तिवस्तीनां तुल्यमोजोविवर्द्धनम् ।
जीर्णज्वरे मनोरोगे शोषमूर्च्छाभ्रमेषु च ॥
ग्रहण्यां पाण्डुरोगे च दाहे तृषि हृदामये ।
शूलोदावर्त्तगुल्मेषु वस्तिरोगे गुदाङ्कुरे ॥
रक्तपित्तातिसारे च योनिरोगे श्रमे क्लमे ।
गर्भस्रावे च सततं हितं मुनिवरैः स्मृतम् ॥
बालवृद्धक्षतक्षीणाः क्षुद्ब्यवायकृशाश्च ये ।
तेभ्यः सदातिशयितं हितमेतदुदाहृतम् ॥”
इति भावप्रकाशः ॥
(दुग्धोत्पत्तिविवृतिर्यथा, --
“यद् यदाहारजातन्तु रसं क्षीरशिरानुगम् ।
सरं जलञ्च भुक्तञ्च तथा पित्तेन संयुतम् ॥
पाचितं जाठरे वह्नौ पित्तेन सह मूर्च्छितम् ।
पच्यमानं शिराप्राप्तं क्षीरं तद्बिद्धि पुत्त्रक ! ॥
तेन क्षीरमिति ख्यातमग्निसोमात्मकं पयः ।
अमृतं सर्व्वभूतानां जीवनं बलकृन्मतम् ॥
हारीतः संशयापन्नः पप्रच्छ पितरं पुनः ।
कथं रसस्य सम्पत्तिः कथं सञ्चीयते विभो ! ॥
कथं रक्तस्य संस्थाने क्षीरं पाण्डुत्वमीयते ।
कथं तत्र कुमारीणां बन्ध्यानां न कथं भवेत् ॥
एवं पृष्टो महाचार्य्यः प्रोवाच मुनिपुङ्गवः ।
अति हर्षप्रदं पुत्त्र ! परिपृष्टं भिषग्वर ! ॥
सितास्निग्धं तथा रक्तं पित्तेन पाकतां गतम् ।
रक्तं श्वेतत्वमायाति तथा क्षीरं सितं भवेत् ॥
क्षीरनाड्यः कुमारीणां बन्ध्यानां न कथं भवेत् ।
अल्पधातुबलं यस्मात्तस्मात् क्षीरं न जायते ॥
बन्ध्यानां क्षीरनाड्यस्तु वातेन परिपूरिताः ।
क्षीरञ्च न भवेत्तस्मादार्त्तवञ्चाधिकं यतः ॥
प्रसूतासु च नारीषु बलेन सह सूयते ।
तेन स्रोतो विशुद्धिः स्यात् क्षीरमाशु प्रवर्त्तते ॥
तस्मात् सद्यः प्रसूतायां जायते श्लैष्मिकं पयः ।
तेन काठिन्यमायाति तस्मात्तत् परिवर्ज्जयेत् ॥
पयश्चाविकृतं नार्य्या बलकृद्दोषनाशनम् ॥”
इति हारीते प्रथमे स्थाने अष्टमेऽध्याये ॥)
(कत्तृणम् । तत्पर्य्यायाश्च यथा, --
“कत्तृणं ध्यामकं दुग्धम् ।” इति च वैद्यकरत्न-
मालायाम् ॥
पृष्ठ २/७२५

दुग्धः, त्रि, (दुह + क्तः ।) प्रपूरितः । इति मेदिनी ।

धे, ८ ॥ कृतदोहः । (यथा, हरिवंशे । २ । २५ ।
“तेनेयं गौर्म्महाराज ! दुग्धा शस्यानि भारत ! ॥”
दुह + भावे क्तः ।) दोहने, क्ली ॥

दुग्धकूपिका, स्त्री, (दुग्धकूपः साधनत्वेनास्त्यस्या

इति । दुग्धकूप + ठन् । टाप् ।) पिष्टकविशेषः ।
यथा, --
“तण्डुलचूर्णविमिश्रितनष्टक्षीरेण सान्द्रपिष्टेन ।
दृढकूपिकां विदध्यात्ताञ्च पचेत् सर्पिषा सम्यक् ॥
अथ तां कौरितमध्यां घनपयसा पूर्णगर्भाञ्च ।
शट्टकमुद्रितवदनां तप्तघृतेन पक्ववदनाञ्च ।
अतिपाण्डुखण्डपाके स्नपयेत् कर्पूरवासिते
कुशलः ॥”
अस्या गुणाः ।
“अथ दुग्धकूपिका सा बल्या पित्तानिलापहा ।
वृष्या शीता गुर्व्वी शुक्रकरी तर्पणी रुच्या ।
विदधाति कायपुष्टिं दृष्टिं दूरप्रसारिणीरम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे २ भागे ॥

दुग्धतालीयं, क्ली, (दुग्धस्य तालाय प्रतिष्ठायै

हितम् । दुग्धताल + छः ।) दुग्धाम्रम् । क्षीर-
फेनः । इति मेदिनी । ये, १३३ ॥ दुग्धाग्रम् ।
इति हेमचन्द्रः ॥

दुग्धपाचनं, क्ली, (पच्यतेऽस्मिन्निति । पच +

अधिकरणे ल्युट् । दुग्धस्य पाचनं पात्रम् ।)
दुग्धपाकपात्रम् । तत्पर्य्यायः । वज्रकम् २ ।
इति हारावली । २२० ॥

दुग्धपाषाणः, पुं, (दुग्धं क्षीरं पाषाण इव कठिनं

यस्य ।) वृक्षविशेषः । शिरगोला इति भाषा ।
तत्पर्य्यायः । दुग्धपाषाणकः २ दुग्धाश्मा ३
क्षीरी ४ गोमेदसन्निभः ५ वज्राभः ६ दीप्तिकः ७
दुग्धी ८ क्षीरक्षवः ९ । अस्य गुणाः । रुच्यत्वम् ।
ईषदुष्णत्वम् । ज्वरपित्तहृद्रोगशूलकासाध्मान-
विनाशित्वञ्च । इति राजनिर्घण्टः ॥

दुग्धपुच्छी, स्त्री, (दुग्धवत् शुभ्रं पुच्छं मूलदेशो

यस्याः । गौरादित्वात् ङीष् ।) वृक्षविशेषः ।
दुग्धपेया इति ख्याता । तत्पर्य्यायः । सेव-
कालुः २ निशा ३ भङ्गा ४ नसङ्करी ५ । इति
शब्दचन्द्रिका ॥

दुग्धफेनः, पुं, (दुग्धस्य फेन इव फेनो यत्र ।) क्षीर-

हिण्डीरः । तत्पर्य्यायः । शार्करः २ । इति
राजनिर्घण्टः ॥

दुग्धफेनी, स्त्री, (दुग्धवत् शुभ्रः फेनो यस्याः ।

गौरादित्वात् ङीष् ।) क्षुद्रक्षुपविशेषः । तत्-
पर्य्यायः । पयःफेनी २ फेनदुग्धा ३ पयस्विनी ४
लूतारिः ५ व्रणकेतुघ्नी ६ गोजापर्णी ७ । अस्या
गुणाः । कटुत्वत् । तिक्तत्वम् । शिशिरत्वम् ।
विषव्रणनाशित्वम् । रुच्यत्वम् । युक्त्या रसायन-
त्वञ्च । इति राजनिर्घण्टः ॥

दुग्धबीजा, स्त्री, (दुग्धवत् शुभ्रं बीजं यस्याः ।)

यावनालाद्यकृतातप्ततण्डुलचिपिटः । अस्या
गुणाः । सुमधुरत्वम् । दुर्जरत्वम् । वीर्य्यपुष्टि-
दातृत्वञ्च । इति राजनिर्घण्टः ॥

दुग्धाक्षः, पुं, (दुग्धवत् शुभ्रं अक्षं नेत्रं चिह्नविशेषो

यस्य ।) उपलविशेषः । इति शब्दार्थकल्पतरुः ॥

दुग्धाब्धितनया, स्त्री, (दुग्धाब्देः क्षीरसमुद्रस्य

तनया ।) लक्ष्मीः । इति कविकल्पलता ॥

दुग्धाश्मा, [न्] पुं, (दुग्धं क्षीरं अश्मा प्रस्तर

इव कठिनं यस्य ।) दुग्धपाषाणः । इति राज-
निर्घण्टः ॥

दुग्धिका, स्त्री, (दुग्धं निर्य्यासो बहुलतया विद्यते

यस्याः । दुग्ध + ठन् । टाप् च ।) वृक्षविशेषः ।
दुधी इति दुध्याक्षीर इति च भाषा । तत्-
पर्य्यायः । स्वादुपर्णी २ क्षीरावी ३ क्षीरिणी ४
दुग्धी ५ क्षीरी ६ क्षीरात्मिका ७ । इति शब्द-
रत्नावली ॥ अस्या गुणाः । उष्णत्वम् । गुरुत्वम् ।
रूक्षत्वम् । वातलत्वम् । गर्भकारित्वम् । स्वादु-
क्षीरत्वम् । कटुत्वम् । तिक्तत्वम् । मलमूत्रोप-
सर्गकारित्वम् । पटुत्वम् । स्वादुत्वम् । विष्टम्भि-
त्वम् । वृष्यत्वम् । कफकुष्ठकृमिनाशित्वञ्च । इति
भावप्रकाशः ॥ वृक्षभेदः । गन्धिका इति ख्याता ।
तत्पर्य्यायः । उत्तमा २ युग्मफला ३ उत्तम-
फलिनी ४ । इति रत्नमाला ॥

दुग्धिनिका, स्त्री, रक्तापामार्गः । इति राज-

निर्घण्टः ॥

दुग्धी, स्त्री, (दुग्धं क्षीरं बहुलतया अस्त्यस्या

इति । अर्श आद्यच् । ततो गौरादित्वात्
ङीष् ।) क्षीरावी । इति मेदिनी । धे, ८ ॥
(पर्य्यायोऽस्या यथा, वैद्यकरत्नमालायाम् ।
“उत्तमादुग्धिका दुग्धी फलोत्तमा फलिन्यपि ॥”)
दुग्धपाषाणः । इति राजनिर्घण्टः ॥

दुच्छकः, पुं, (दु उपतापे + भावे क्विप् तुक् च ।

दुत् उपतापः । तन्निराकरणे शक्नोतीति ।
शक + पचाद्यच् ।) मुरानामगन्धद्रव्यम् । विहा-
राद्यवकाशकः । इति मेदिनी । के, १०५ ॥

दुडिः, स्त्री, (दुलिः + लस्य डः ।) दुलिः । कच्छपी ।

इत्यमरटीकायां रायमुकुटः ॥

दुण्डुकः, त्रि, दुष्टचित्तः । इति शब्दार्थकल्पतरुः ॥

दुण्डुभः, पुं, (द्रोडति मज्जतीति । द्रुड मज्जने +

“उभः कित् कुकिद्रडिभ्यां कन्णुनौ रलोपश्च ।”
१ । ४४० । इति उणादिकोषटीकाधृतसूत्रात्
उभः णुन् रलोपश्च ।) डुण्डुभसर्पः । इत्यु-
णादिकोषः ॥ (यथा, महाभारते । ६ । १५४ । १७० ।
“शरमीनां महारौद्रां प्रासशक्त्युग्रदुण्डुभाम् ।”
“शोणितौघवहां घोरां द्रोणिःप्रावर्त्तयन्नदीम् ॥”)

दुद्रुमः, पुं, (दुर् दुष्टो द्रुमः । पृषोदरादित्वात्

रलोपः ।) हरित्पलाण्डुः । इत्यमरः ॥ २ । ४ ।
१४८ ॥

दुन्दमः, पुं, (दुन्द इत्यव्यक्तशब्देन मणति शब्दा-

यते इति । मण शब्दे + डः ।) दुन्दुभिः । इति
शब्दरत्नावली ॥

दुन्दुः, पुं, वसुदेवः । इति त्रिकाण्डशेषः ॥ दुन्दुभि-

वाद्यम् । इति शब्दरत्नावली ॥

दुन्दुभिः, पुं, (दुन्दु इत्यव्यक्तशब्देन भातीति ।

भा + बाहुलकात् किः ।) बृहड्ढक्का । तत्-
पर्य्यायः । भेरी २ आनकः ३ । इत्यमरः । १ ।
७ । ६ ॥ (यथा, महाभारते । १ । १२३ । ४६ ।
“आकाशे दुन्दुभीनाञ्च बभूव तुमुलः स्वनः ॥”)
वरुणः । दैत्यभेदः । इति मेदिनो । भे, १६ ।
(दानवविशेषः । यथा, हरिवंशे । ३ । ८१ ।
“अभवन् दनुपुत्त्राश्च शतं तीव्रपराक्रमाः ।”
“शङ्कुकर्णो विदारश्च गवेष्ठो दुन्दुभिस्तथा ॥”)
रक्षोभेदः । वाद्यभेदः । इति शब्दरत्नावली ॥
विषम् । इति हेमचन्द्रः । २ । २०७ ॥ (कुकुर-
वंशीयस्य अन्धकस्य पुत्त्रः । यथा, भागवते ।
९ । २४ । २० ।
“अन्धकाद्दुन्दुभिस्तस्मादविद्योतः पुनर्व्वसुः ॥”
क्रौञ्चद्बीपाधिपतेर्द्युतिमतः पुत्त्राणामन्यतमः ।
क्रौञ्चद्बीपस्य देशभेदश्च यथा, ब्रह्माण्डे ३६
अध्याये ।
“मुनिश्च दुन्दुभिश्चैव सुता द्युतिमतस्तु वै ।
तेषाञ्च नामभिर्देशाः क्रौञ्चद्बीपाश्रयाः स्मृताः ॥”
“मुनेस्तु मुनिर्देशो वै दुन्दुभेर्दुन्दुभिः स्मृतः ॥”
पर्व्वतविशेषः । यथा, मत्स्यपुराणे । १२१ । १३ ।
“स एव दुन्दुभिर्नाम श्यामपर्व्वतसन्निभः ।
शब्दमृत्यः पुरा तस्मिन् दुन्दुभिस्ताडितः
सुरैः ॥”
असुरविशेषः । यथा, रामायणे । ४ । ९ । ४ ।
“मायावी नाम तेजस्वी पूर्ब्बजो दुन्दुभेः सुतः ।
तेन तस्य महद्बैरं बलिनः स्त्रीकृतं पुरा ॥”)

दुन्दुभिः, स्त्री, अक्षः । पाशकः । इत्यमरः । ३ ।

३ । १३५ ॥ अक्षे पाशकविषये दानविशेषो
वित्ति इति ख्यातः । इति केचित् ॥ अक्षविन्दु-
त्रिकद्वयम् । इति रभसः ॥ विन्द्वन्वितचतुष्पार्श्व-
स्वर्णशृङ्गादिमयद्यूतोपकरणं पाशटी इति
ख्याता । इति केचित् ॥ इति तट्टीकायां भरतः ॥

दुन्दुमारः, पुं, धुन्धुमारः । इति शब्दार्थकल्पतरुः ॥

दुरदृष्टं, क्ली, (दुर्दुष्टमदृष्टम् ।) दुर्भाग्यम् । इति

स्मृतितन्त्रे ॥

दुरध्वः, पुं, (दुर्दुष्टोऽध्वा । “उपसर्गादध्वनः ।”

५ । ४ । ८५ । इति अच् ।) कुपथः । इत्य-
मरः । २ । १ । १६ ॥

दुरभिग्रहः, पुं, (दुर्दुःखेन आभिमुख्येन गृह्यतेऽसौ

इति । दुर् + अभि + ग्रह + खल् ।) अपा-
मार्गः । इति राजनिर्घण्टः ॥ (दुरभि + ग्रह
+ कर्म्मणि खल् ।) दुःखग्राह्ये, त्रि ॥

दुरभिग्रहा, स्त्री, (दुरभिग्रह + टाप् ।) कपि-

कच्छुः । दुरालभा । इति राजनिर्घण्टः ॥

दुराकः, पुं, (दुनोतीति । दु न उपतापे + “आकः ।

खजादेः स तु कित् ।” १ । २१९ । इति उणादि-
कोषटीकाधृतसूत्रात् आकप्रत्ययेन निपातनात्
साधुः ।) म्लेच्छभेदः । इत्युणादिकोषः

दुराचारः, पुं, (आचर्य्यते इति भावे घञ् ।

दुर्दुष्ट आचारः इति प्रादिसमासः ।) विरुद्धा-
चरणम् । यथा, अध्यात्मरामायणे ।
“प्राप्ते कलियुगे घोरे नराः पुण्यविवर्ज्जिताः ।
दुराचाररताः सर्व्वे सत्यवार्त्तापराङ्मुखाः ॥”
पृष्ठ २/७२६
(दुष्ट आचारो यस्य ।) निन्दिताचारवति,
त्रि ॥ (यथा, देवीभागवते । १ । ११ । १६ ।
“महापातकयुक्तस्त्वं दुराचारोऽतिगर्हितः ॥”)

दुराधर्षः, पुं, (दुष्टान् यज्ञविघ्नकारिराक्षसादीन्

आधर्षति दूरीकरोतीति । धृष् + अच् ।) गौर-
सर्षपः । इति राजनिर्घण्टः ॥ (विष्णुः । यथा,
महाभारते । १३ । १४९ । २२ ।
“अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ।”
“दैत्यादिभिर्धर्षयितुं न शक्यते इति दुराधर्षः ।”
इति तद्भाष्ये शङ्करः ॥ दुःखेन आ ईषदपि
धर्षयितुमशक्यः इति । धृष् + “ईषद्दुःसु-
ष्विति । ३ । ३ । १२६ । इति खल् ।) अधर्ष-
णीये, त्रि ॥ (यथा, महाभारते । ६ । १९ ।
३२ ।
“भीमसेनो गदां भीमां प्रवार्षन् परिघोपमाम् ।
प्रचकर्ष महासैन्यं दुराधर्षो महामनाः ॥”)

दुराधर्षा, स्त्री, (दुराधर्ष + स्त्रियां टाप् ।) कुटु-

म्बिनीवृक्षः । इति राजनिर्घण्टः ॥

दुरारुहः, पुं, (दुःखेन आरुह्यते इति । दुर् +

आ + रुह + घञर्थे कर्म्मणि कः ।) विल्वः ।
नारिकेलः । इति राजनिर्घण्टः ॥ (दुःखा-
रोहणीये, त्रि । यथा, महाभारते । ३ ।
१४७ । ९१ ।
“क्व वा त्वयाद्य गन्तव्यं प्रब्रूहि पुरुषर्षभ ! ।
अतःपरमगम्योऽयं पर्व्वतः सुदुरारुहः ॥”)

दुरारुहा, स्त्री, (दुरारुह + टाप् ।) खर्ज्जुरी ।

इति राजनिर्घण्टः ॥

दुरारोहः, पुं स्त्री, (दुःखेन आरुह्यते इति ।

रुह + कर्म्मणि खल् ।) शरटः । इति राज-
निर्घण्टः ॥ दुःखारोहणीये, त्रि ॥ (यथा, महा-
भारते । ४ । ५ । १४ ।
“इयं कूटे मनुष्येन्द्र ! गहने महती शमी ।
भीमशाखा दुरारोहा श्मशानस्य समीपतः ॥”)

दुरारोहा, स्त्री, (दुरारोह + टाप् ।) शाल्मलि-

वृक्षः । इति त्रिकाण्डशेषः ॥ श्रीवल्ली । इति
राजनिर्घण्टः ॥

दुरालभा, स्त्री, (दुःखेन आलभ्यते गृह्यते स्पृश्यते

वासौ । दुर् + आ + लभ + खल् + टाप् ।
आगमविधेरनित्यत्वात् न नुम् ।) स्वनामख्यात-
कण्टकयुक्तक्षुद्रवृक्षविशेषः । स यवासप्रभेदः ।
हिङ्गुथा इति ख्याता । तत्पर्य्यायः । दुरालम्भा २
धन्वयासः ३ ताम्रमूला ४ कच्छुरा ५ दुस्पर्शा ६
धन्वी ७ धन्वयवासकः ८ प्रबोधनी ९ सूक्ष्म-
दला १० विरूपा ११ दुरभिग्रहा १२ दुर्लभा
१३ दुःप्रधर्षा १४ । इति राजनिर्घण्टः ॥ यासः
१५ यवासः १६ दुस्पर्शः १७ कुनाशकः १८
रोदनी १९ अनन्ता २० समुद्रान्ता २१ । इत्य-
मरः । २ । ४ । ९२ ॥ गान्धारी २२ काषाया
२३ । इति भावप्रकाशः ॥ धनुर्यासः २४ युवसः
२५ कच्छरा २६ । इति शब्दरत्नावली ॥ विक-
ण्ठकः २७ । इति जटाधरः ॥ (पद्ममुखी २८ ।
इति शब्दचन्द्रिका ॥) अस्या गुणाः । सार-
दत्वम् । ज्वरच्छर्द्दिश्लेष्मपित्तविसर्पवेदनानाशि-
त्वञ्च । इति राजवल्लभः ॥ कटुत्वम् । तिक्तत्वम् ।
उष्णत्वम् । क्षारत्वम् । अम्लत्वम् । मधुरत्वम् ।
वातगुल्मप्रमेहनाशित्वञ्च । इति राजनिर्घण्टः ॥
“यवासस्य गुणैस्तुल्या बुधैरुक्ता दुरालभा ॥”
इति भावप्रकाशः ॥
(गङ्गा । यथा, काशीखण्डे । २९ । ८८ ।
“दीर्घव्रता र्दीर्घदृष्टिर्दीप्ततोया दुरालभा ॥”)
दुरालभनीये, त्रि ॥

दुरालम्भा, स्त्री, (दुःखेन आलभ्यते इति । दुर +

आ + लभ + खल् + नुम् च ।) दुरालभा । इति
राजनिर्घण्टः ॥ (यथा, महाभारते । १३ ।
९८ । ३१ ।
“तीक्ष्णवीर्य्यास्तु भूतानां दुरालम्भाः सक-
ण्टकाः ।
रक्तभूयिष्ठवर्णाश्च कृष्णाश्चैवोपहारयेत् ॥”)

दुरालापः, पुं, (दुर्दुष्ट आलापः इति प्रादिसमासः ।

गालिः । इति शब्दार्थकल्पतरुः ॥

दुरासदः, त्रि, (दुःखेन आसद्यते इति । दुर् +

आ + सद् + “ईषद्दुःसुष्विति ।” ३ । ३ । १२६ ।
इति खल् ।) दुष्प्राप्यः । यथा, --
“दुरासदो दुर्विषहो भूतानां स बभूव ह ॥”
इति श्रीभागवतम् ॥
(यथा च, देवीभागवते । १ । १० । ३२ ।
“धर्म्मस्य पुरतः प्राप्ते कामभावे दुरासदे ॥”
(दुष्प्रवेशः । यथा, माघे । १६ । १० ।
“घनजालनिभैर्दुरासदाः
परितो नागकदम्बकैस्तव ।
नगरेषु भवन्तु वीथयः
परिकीर्णा वनजैर्मृगादिभिः ॥”)

दुरितं, क्ली, (इण भावे + क्तः । दुष्टमितं गमनं

नरकादिदुर्गतिप्राप्तिर्यस्मात् ।) पापम् । इत्य-
मरः । १ । ४ । २३ ॥ (यथा, रघौ । ८ । २ ।
“दुरितैरपि कर्त्तुमात्मसात्
प्रयतन्ते नृपसूनवो हि यत् ॥”)
तद्बति, त्रि ॥

दुरितदमनी, स्त्री, (दुरितं पापं दम्यते यया इति ।

दम + करणे ल्युट् । ङीप् च ।) शमी । इति
राजनिर्घण्टः ॥ (दम + ल्युः ।) पापनाशिनी च ॥

दुरिष्टकृत्, पुं, (दुरिष्टम् अभिचारयज्ञं करोतीति ।

दुरिष्ट + कृ + क्विप् तुगागमश्च ।) अभिचार-
कर्त्ता । तस्य नरकं यथा, --
“देवद्बिजपितॄन् द्बेष्टा रत्नदूषयिता च यः ।
स याति कृमिभक्षे वै कृमीशे च दुरिष्टकृत् ॥”
इति विष्णुपुराणे । २ । ६ । १४ ॥
“दुरिष्टकृत् अभिचारकर्त्ता ।” इति तट्टीका ॥

दुरिष्ठः त्रि (दुर् + इष्ठन् ।) अतिमन्दः । अयम-

नयोरेषां वा अतिशयेन दुः निन्दितः । इति
व्याकरणम् ॥

दुरीषणा, स्त्री, (दुर्दुष्टा ईषणा इच्छाभिशंसनम् ।

प्रादिसमासः ।) शापः । इति शब्दार्थकल्प-
तरुः ॥

दुरूहः, त्रि, (दुःखेन ऊह्यते इति । दुर् + ऊह +

कर्म्मणि खल् ।) दुर्विज्ञेयः । यथा, --
“काव्यप्रकाशस्य दुरूहपङ्क्ती-
र्गदाधरो व्याकरुते प्रयत्नात् ।”
इति गदाधरभट्टाचार्य्यकृतकाव्यप्रकाशटीका ॥

दुरोदरं, क्ली, (दुर्दुष्टमासमन्तादुदरं यस्य । दुष्ट-

मुदरमस्य वा । पृषोदरादित्वात् साधुः ।) द्यूत-
भेदः । पाशकक्रीडा । इत्यमरः । ३ । ३ । १७१ ॥
(यथा, वक्रोक्तिपञ्चाशिकायाम् । २६ ।
“व्यर्थं किं तनुषे दुरोदरमिदं न स्वापतेयं तव ॥”)

दुरोदरः, पुं, (दुष्टं आ समस्तात् उदरं यस्य ।)

द्यूतकृत् । (यथा, महाभारते । २ । ५६ । ९ ।
“दुरोदरा विहिता ये तु तत्र
महात्मना धृतराष्ट्रेण राज्ञा ॥”)
पणः । इति मेदिनी । रे, २६७ ॥

दुर्गं, क्ली, (दुःखेन गच्छत्यत्र । दुर् + गम +

“सुदुरोरधिकरणे ।” ३ । २ । ४८ । इतस्य
वार्त्तिकोक्त्या डः ।) पर्व्वतादिभिर्दुर्गमं पुरम् ।
इत्यमरः । २ । ८ । १७ ॥ गड इति केल्ला इति
च भाषा ॥ तत्पर्य्यायः । कोट्टम् २ । यथा, --
“स्कन्धावारो राजधानी कोट्टदुर्गे पुनः समे ॥”
इति हेमचन्द्रः ॥
“अथ कोट्टो राजधानी राजधानकमित्यपि ।”
इति शब्दरत्नावली ।
“पुरं दुर्गमधिष्ठानं कोट्टोऽस्त्री राजधान्यपि ।”
इति जटाधरः ॥
तत्तु षड्विधम् । यथा, --
“तत्र दुर्गं नृपः कुर्य्यात् षण्णामेकतमं बुधः ।
धन्वदुर्गं महीदुर्गं नरदुर्गं तथैव च ॥
वार्क्षञ्चैवाम्बुदुर्गञ्च गिरिदुर्गञ्च पार्थिव ! ।
सर्व्वेषाञ्चैव दुर्गाणां गिरिदुर्गं प्रशस्यते ॥
दुर्गञ्च परिखोपेतं वप्राट्टालकसंयुतम् ।
शतघ्नीयन्त्रमुख्यैश्च शतशश्च समावृतम् ॥”
इति मात्स्ये १९१ अध्यायः ॥
राज्ञस्तत्करणावश्यकत्वं तच्छुभाशुभलक्षणञ्च
यथा, --
“दुर्गांस्तु सततं कुर्य्यात् प्राकाराट्टालतोरणैः ।
दूषितान्नगराद्राजा दुर्गे दुर्गाश्रयं चरेत् ॥
दुर्गं बलं नृपाणान्तु नित्यं दुर्गं प्रशस्यते ।
शतमेको योधयति दुर्गस्थो यो धनुर्धरः ॥
शतं दश सहस्राणि तस्मात् दुर्गं प्रशस्यते ।
जलदुर्गं भूमिदुर्गं वृक्षदुर्गं तथैव च ॥
अरण्यवनदुर्गञ्च शैलजं परिखोद्भवम् ।
दुर्गं कार्य्यं नृपतिना यथायोग्यं स्वदेशतः ॥
दुर्गं कुर्व्वन् पुरं कुर्य्यात् त्रिकोणं धनुराकृति ॥
वर्त्तुलं वा चतुष्कोणं नान्यथा नगरं चरेत् ।
मृदङ्गाकृति दुर्गञ्च सततं कुलनाशनम् ॥
यथा राक्षसराजस्य लङ्कादुर्गा जिता पुरा ॥
बलेः पुरी शोणिताख्यं तेजो दुर्गे प्रतिष्ठितम् ।
यतस्तत् व्यजनाकारमतो भ्रष्टश्रियो बलिः ॥
सौभाग्यं शाल्वराजस्य नगरं पञ्चकोणकम् ।
दिवि यद्वर्त्तते राजंस्तच्च भ्रष्टं भविष्यति ॥
पृष्ठ २/७२७
यच्चायोध्याह्वयं भूप ! पुरमिक्ष्वाकुभूभुजाम् ।
धनुराकृति तच्चापि ततोऽभूद्विजयप्रदम् ॥
दुर्गभूमौ यजेद्दुर्गां दिक्पालांश्चैव द्बारतः ।
पूजयित्वा विधानेन जयं भूपः समाप्नुयात् ॥
अतो दुर्गं नृपः कुर्य्यात् सततं जयवृद्धये ॥”
इति कालिकापुराणे राजनीतिविशेषः ८५ अः ॥
(शैलभेदः । यथा, कालिकापुराणे । ७४ अः ।
“यत्र दुर्गाह्वयं शैलं शिवस्यास्ते महत्तरम् ॥”)

दुर्गः, पुं, असुरभेदः । यं हत्वा चण्डिकाया दुर्गेति

नामाभूत् । इति काशीखण्डम् ॥ (यथा, हरि-
वंशे । १६४ । ९ ।
“बिन्ध्यवासिनीं दुर्गघ्नीं रणदुर्गां रणप्रियाम् ॥”
विष्णुः । यथा, महाभारते । १३ । १४९ । ९६ ।
“दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥”)
गुग्गुलुः । इति राजनिर्घण्टः ॥ (दुःखेन गम्यते
अत्रेति । दुर् + गम् + अधिकरणे डः ।) दुर्गगे,
त्रि । इति मेदिनी । गे, ९ ॥

दुर्गकारकं, क्ली, (निजकृतवेष्टनेन दुर्गं करोतीति ।

कृ + “ण्वुल्तृचौ ।” ३ । १ । ३३ । इति ण्वुल् ।)
वृक्षविशेषः । इति शब्दमाला । दुर्गकर्त्तरि, त्रि ॥

दुर्गतः, त्रि, (दुर् दुरवस्थां गच्छति स्मेति । दुर् +

गम् + “गत्यर्थाकर्म्मकश्लिषेति ।” ३ । ४ । ७२ ।
इति कर्त्तरि क्तः ।) दरिद्रः । इत्यमरः । ३ ।
१ । ४९ ॥ (यथा आर्य्यासप्तशत्याम् । २९६ ।
“दुर्गतगृहिणी तनये करुणार्द्रा प्रियतमे च
रागमयी ।
मुग्धा रताभियोगं न मन्यते न प्रतिक्षिपति ॥”)

दुर्गतिः, स्त्री, (दुष्टा क्लेशदायिनी गतिः ।) नरकः ।

इत्यमरः । १ । ९ । १ ॥ (यथा, देवीभागवते ।
३ । १२ । ६८ ।
“कृत्वा यज्ञं विधानेन दत्त्वा पुण्यं मखार्ज्जितम् ।
समुद्धर महाराज ! पितरं दुर्गतिं गतम् ॥”)
दारिद्रम् । इति मेदिनी । ते, ११५ ॥ (यथा,
महाभारते । १३ । ७० । ८ ।
“कथं भवान् दुर्गतिमीदृशीं गतो
नरेन्द्र तद्ब्रूहि किमेतदीदृशम् ॥”)

दुर्गतिनाशिनी, स्त्री, (दुर्गतिं नाशयतीति । नश +

णिच् + णिनिः + ङीप् ।) दुर्गा । यथा, --
“ब्रह्माण्डविजयस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च गायत्त्री देवी दुर्गतिनाशिनी ॥”
इति ब्रह्मवैवर्त्ते गणेशखण्डम् ॥

दुर्गन्धं, क्ली, (दुर्दुष्टो गन्धो यस्य ।) सौवर्च्चल-

लवणम् । इति हेमचन्द्रः । ६ । २७ ॥

दुर्गन्धः, पुं, (दुष्टो गन्धः ।) दुष्टगन्धः । तत्-

पर्य्यायः । पूतिगन्धिः २ । इत्यमरः । १ । ५ । १२ ॥
(यथा, सुश्रुते । १ । ३० ।
“सुगन्धं वेत्ति दुर्गन्धं दुर्गन्धस्य सुगन्धिताम् ।
यो वा गन्धान्न जानाति गतासुं तं विनिर्द्दि-
शेत् ॥”)
आम्रवृक्षः । इति शब्दचन्द्रिका ॥ पलाण्डुः ।
इति भावप्रकाशः ॥ (दुर्दुष्टो गन्धो यत्र ।)
दुष्टगन्धयुक्ते, त्रि ॥ (यथा, मार्कण्डेये । ८ । ८१ ।
“अथाजगाम त्वरितो धर्म्मश्चाण्डालरूपधृक् ।
दुर्गन्धो विकृतो रूक्षः श्मश्रुलो दुन्तुरो घृणी ॥”)

दुर्गन्धी, [न्] त्रि, (दुर्गन्धोऽस्त्यस्येति । दुर्गन्ध

+ इनिः ।) दुर्गन्धयुक्तः । इत्यमरटीकायां
रायमुकुटः ॥ (यथा, मनुः । ६ । ७६ ।
“अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ।
चर्म्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥”)

दुर्गपुष्पी, स्त्री, (दुर्गं दुष्प्राप्यं पुष्पं यस्याः । जाति-

त्वात् ङीष् ।) वृक्षविशेषः । केशपुष्टा इति
ख्याता । तत्पर्य्यायः । मानसी २ बालाक्षी ३
केशधारिणी ४ । इति शब्दचन्द्रिका ॥

दुर्गमः, त्रि, (दुर्दुःखेन गम्यते इति । दुर् + गम

+ “ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ।” ३ ।
३ । १२६ । इति खल् ।) दुर्गः । दुःखेन
गमनीयस्थानादि । इति शब्दमाला ॥ (यथा,
महाभारते । ६ । १४ । ३५ ।
“पार्श्वतःकेऽभ्यरक्षन्त गच्छन्तो दुर्गमां गतिम् ॥”
दुर्दुःखेन गम्यते ज्ञायते इति । दुर्ज्ञेयः । यथा,
गहाभारते । १३ । १४ । २९५ ।
“नमो वृषभवाहाय गजेन्द्रगमनाय च ।
दुर्गमाय नमस्तुभ्यमगम्यगमनाय च ॥”
पुं, विष्णुः । यथा, तत्रैव । १३ । १४९ । ९६ ।
विष्णुसहस्रनामकीर्त्तने ।
“दुर्ल्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥”
असुरविशेषः । यथा, मार्कण्डेये । ९१ । ४४ ।
“तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरन् ॥”
क्ली, वनम् । सङ्कटस्थलम् । यथा, महाभारते ।
१ । ८१ । ३० ।
“राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत् ॥”)

दुर्गलङ्घनः, पुं, (दुर्गं दुर्गमस्थानं मरुभूम्यादिं

लङ्घ्यतेऽनेनेति । लङ्घि + करणे ल्युट् ।) उष्ट्रः ।
इति हेमचन्द्रः । ४ । ३२० ॥

दुर्गसञ्चरः, पुं, (दुर्गं दुर्गमस्थानं नद्यादिपरपारं

सञ्चर्य्यतेऽनेनेति । सम् + चर + पुंसीति घः ।)
संक्रमः । इत्यमरः । ३ । २ । २५ ॥ साँको
इति भाषा ॥

दुर्गसञ्चारः, पुं, (दुर्गं नद्यादिपारदुर्गमस्थानं

सञ्चर्य्यते गम्यतेऽनेनेति । सम् + चर + घञ् ।)
दुर्गसञ्चरः । इत्यमरटीकायां स्वामी ॥

दुर्गा, स्त्री, (दुर्दुःखेन गम्यते प्राप्यतेऽसौ । गम +

अन्यत्रापि दृश्यते । इति डः । दुर्दुःखेन गम्यते-
ऽस्यामिति । दुर् + गम + “सुदुरोरधिकरणे ।”
३ । २ । ४८ । इत्यस्य वार्त्तिकोक्त्या डः । ततष्टाप् ।)
नीली । इति मेदिनी । गे, ९ ॥ अपराजिता ।
इति शब्दचन्द्रिका ॥ श्यामापक्षी । इति राज-
निर्घण्टः ॥ (नववर्षा कुमारी । यथा, देवी-
भागवते । ३ । २६ । ४३ ।
“नववर्षा भवेद्दुर्गा सुभद्रा दशवार्षिकी ॥”
अस्याः पूजाफलमाह । तत्रैव । ३ । २६ । ५० ।
“दुःखदारिद्र्यनाशाय संग्रामे विजयाय च ।
क्रूरशत्रुविनाशार्थं तथोग्रकर्म्मसाधने ॥
दुर्गाञ्च पूजयेद्भक्त्या परलोकसुखाय च ॥”
अस्याः पूजामन्त्रं यथा, तत्रैव । ३ । २६ । ६० ।
“दुर्गा त्रायति भक्तं या सदा दुर्गार्त्तिनाशिनी ।
दुर्ज्ञेया सर्व्वदेवानां तां दुर्गां पूजयाम्यहम् ॥”)
हिमालयकन्या । सा शिवभार्य्या गणेशकार्त्ति-
कयोर्माता च । तत्पर्य्यायः ।
उमा २ कत्यायनी ३ गौरी ४ काली ५ हैम-
वती ६ ईश्वरा ७ शिवा ८ भवानी ९ रुद्राणी १०
सर्व्वाणी ११ सर्व्वमङ्गला १२ अपर्णा १३ पार्व्वती
१४ मृडानी १५ चण्डिका १६ अम्बिका १७ । इत्य-
मरः । १ । १ । ३८ ॥ शारदा १८ चण्डी १९ चण्ड-
वती २० चण्डा २१ चण्डनायिका २२ गिरिजा
२३ मङ्गला २४ नारायणी २५ महामाया २६
वैष्णवी २७ महेश्वरी २८ महादेवी २९ हिण्डी
३० ईश्वरी ३१ कोट्टवी ३२ षष्ठी ३३ माधवी
३४ नगनन्दिनी ३५ जयन्ती ३६ भार्गवी ३७
रम्भा ३८ सिंहरथा ३९ सती ४० भ्रामरी ४१
दक्षकन्या ४२ महिषमर्द्दिनी ४३ हेरम्बजननी
४४ सावित्री ४५ कृष्णपिङ्गला ४६ वृषाकपायी
४७ लम्बा ४८ हिमशैलजा ४९ कार्त्तिकेयप्रसूः
५० आद्या ५१ नित्या ५२ विद्या ५३ शुभङ्करी
५४ सात्त्विकी ५५ राजसी ५६ तामसी ५७
भीमा ५८ नन्दनन्दिनी ५९ महामायी ६०
शूलधरा ६१ सुनन्दा ६२ शुम्भघातिनी ६३ ।
इति शब्दरत्नावली ॥ ह्रीः ६४ पर्व्वतराजतनया
६५ हिमालयसुता ६६ महेश्वरवनिता ६७ । इति
कविकल्पलता ॥ सत्या ६८ भगवती ६९ ईशाना
७० सनातनी ७१ महाकाली ७२ शिवानी
७३ हरवल्लभा ७४ उग्रचण्डा ७५ चामुण्डा ७६
विधात्री ७७ आनन्दा ७८ महामात्रा ७९
महामुद्रा ८० माकरी ८१ भौमी ८२ कल्याणी
८३ कृष्णा ८४ मानदात्री ८५ मदालसा ८६
मानिनी ८७ चार्व्वङ्गी ८८ वाणी ८९ ईशा ९०
वलेशी ९१ भ्रमरी ९२ भूष्या ९३ फाल्गुनी
९४ यती ९५ ब्रह्ममयी ९६ भाविनी ९७ देवी
९८ अचिन्ता ९९ त्रिनेत्रा १०० त्रिशूला १०१
चर्चिका १०२ तीव्रा १०३ नन्दिनी १०४ नन्दा
१०५ घरित्रिणी १०६ मातृका १०७ चिदानन्द-
स्वरूपिणी १०८ मनस्विनी १०९ महादेवी ११०
निद्रारूपा १११ भवानिका ११२ तारा ११३
नीलसरस्वती ११४ कालिका ११५ उग्रतारा
११६ कामेश्वरी ११७ सुन्दरी ११८ भैरवी ११९
राजराजेश्वरी १२० भुवनेशी १२१ त्वरिता
१२२ महालक्ष्मीः १२३ राजीवलोचनी १२४
धनदा १२५ वागीश्वरी १२६ त्रिपुरा १२७
ज्वालामुखी १२८ वगलामुखी १२९ सिद्धविद्या
१३० अन्नपूर्णा १३१ विशालाक्षी १३२ सुभगा
१३३ संगुणा १३४ निर्गुणा १३५ धवला १३६
गीतिः १३७ गीतवाद्यप्रिया १३८ अट्टालवासिनी
१३९ अट्टट्टहासिनी १४० घोरा १४१ प्रेमा
१४२ वटेश्वरी १४३ कीर्त्तिदा १४४ बुद्धिदा १४५
अवीरा १४६ पण्डितालयवासिनी १४७ मण्डिता
१४८ संवत्सरा १४९ कृष्णरूपा १५० वलि-
पृष्ठ २/७२८
प्रिया १५१ तुमुला १५२ कामिनी १५३ काम-
रूपा १५४ पुण्यदा १५५ विष्णुचक्रधरा १५६
पञ्चमा १५७ वृन्दावनस्वरूपिणी १५८ अयोध्या-
रूपिणी १५९ मायावती १६० जीमूतवसना
१६१ जगन्नाथस्वरूपिणी १६२ कृत्तिवसना १६३
त्रियामा १६४ जमलार्ज्जुनी १६५ यामिनी १६६
यशोदा १६७ यादवी १६८ जगती १६९ कृष्ण-
जाया १७० सत्यभामा १७१ सुभद्रिका १७२
लक्ष्मणा १७३ दिगम्बरी १७४ पृथुका १७५
तीक्ष्णा १७६ आचारा १७७ अक्रूरा १७८
जाह्गवी १७९ गण्डकी १८० ध्येया १८१ जृम्भणी
१८२ मोहनी १८३ विकारा १८४ अक्षरवासिनी
१८५ अंशका १८६ पत्रिका १८७ पवित्रिका
१८८ तुलसी १८९ अतुला १९० जानकी १९१
वन्द्या १९२ कामना १९३ नारसिंही १९४
गिरीशा १९५ साध्वी १९६ कल्याणी १९७
कमला १९८ कान्ता १९९ शान्ता २०० कुला
२०१ वेदमाता २०२ कर्म्मदा २०३ सन्ध्या २०४
त्रिपुरसुन्दरी २०५ रासेशी २०६ दक्षयज्ञ-
विनाशिनी २०७ अनन्ता २०८ धर्म्मेश्वरी २०९
चक्रेश्वरी २१० स्वञ्जना २११ विदग्धा २१२
कुब्जिका २१३ चित्रा २१४ सुलेखा २१५ चतु-
र्भुजा २१६ राका २१७ प्रज्ञा २१८ ऋद्धिदा
२१९ तापिनी २२० तपा २२१ सुमन्त्रा २२२
दूती २२३ । इति तस्याः सहस्रनामान्तर्गतः ॥
अथ दुर्गानाम्नो व्युत्पत्तिर्यथा, --
“दुर्गो दैत्ये महाविघ्ने भवबन्धे कुकर्म्मणि ।
शोके दुःखे च नरके यमदण्डे च जन्मनि ॥
महाभयेऽतिरोगे चाप्याशब्दो हन्तृवाचकः ।
एतान् हन्त्येव या देवी सा दुर्गा परिकीर्त्तिता ॥”
अपि च ।
“दैत्यनाशार्थवचनो दकारः परिकीर्त्तितः ।
उकारो विघ्ननाशस्य वाचको वेदसम्मतः ॥
रेफो रोगघ्नवचनो गश्च पापघ्नवाचकः ।
भयशत्रुघ्नवचनश्चाकारः परिकीर्त्तितः ॥
स्मृत्युक्तिश्रवणाद्यस्या एते नश्यन्ति निश्चितम् ।
ततो दुर्गा हरेः शक्तिर्हरिणा परिकीर्त्तिता ॥
दुर्गेति दैत्यवचनोऽप्याकारो नाशवाचकः ।
दुर्गं नाशयति या नित्यं सा दुर्गा वा प्रकीर्त्तिता ॥
विपत्तिवाचको दुर्गश्चाकारो नाशवाचकः ।
तं ननाश पुरा तेन बुधैर्दुर्गा प्रकीर्त्तिता ॥” * ॥
अस्याः स्वरूपं यथा, नन्दं प्रति श्रीकृष्णवाक्यम् ।
“आद्या नारायणी शक्तिः सृष्टिस्थित्यन्तकारिणी ।
करोमि च यया सृष्टिं यया ब्रह्मादिदेवताः ॥
यया जयति विश्वञ्च यया सृष्टिः प्रजायते ।
यया विना जगन्नास्ति मया दत्ता शिवाय सा ॥
दया निद्रा च क्षुत्तृप्तिस्तृष्णा श्रद्धा क्षमा धृतिः ।
तुष्टिः पुष्टिस्तथा शान्तिर्लज्जाधिदेवता हि सा ॥
वैकुण्टे सा महासाध्वी गोलोके राधिका सती ।
मर्त्ये लक्ष्मीश्च क्षीरोदे दक्षकन्या सती च सा ॥
सा दुर्गा मेनकाकन्या दैन्यदुर्गतिनाशिनी ।
स्वर्गलक्ष्मीश्च दुर्गा सा शक्रादीनां गृहे गृहे ॥
सा बाणी सा च सावित्री विप्राधिष्ठातृदेवता ।
वह्नौ सा दाहिका शक्तिः प्रभाशक्तिश्च भास्करे ॥
शोभा शक्तिः पूर्णचन्द्रे जले शक्तिश्च शीतला ।
शस्यप्रसूतिशक्तिश्च धारणा च धरासु सा ॥
ब्राह्मण्यशक्तिर्विप्रेषु देवशक्तिः सुरेषु सा ।
तपस्विनां तपस्या सा गृहिणां गृहदेवता ॥
मुक्तिशक्तिश्च मुक्तानां माया सांसारिकस्य सा ।
गद्भक्तानां भक्तिशक्तिर्मयि भक्तिप्रदा सदा ॥
नृपाणां राज्यलक्ष्मीश्च बणिजां लभ्यरूपिणी ।
पारे सांसारसिन्धूनां त्रयी दुस्तरतारिणी ॥
सत्सु सद्बुद्धिरूपा च मेधाशक्तिस्वरूपिणी ।
व्याख्याशक्तिः श्रुतौ शास्त्रे दातृशक्तिश्च दातृषु ॥
क्षत्त्रादीनां विप्रभक्तिः पतिभक्तिः सतीषु च ।
एवंरूपा च या शक्तिर्मया दत्ता शिवाय सा ॥”
अपि च, शङ्करं प्रति पार्व्वतीवाक्यम् ।
“वैकुण्ठेऽहं महालक्ष्मीर्गोलोके राधिका स्वयम् ॥
शिवाहं शिवलोकेऽपि ब्रह्मलोके सरस्वती ।
अहं निहत्य दैत्यांश्च दक्षकन्या सती पुरा ।
तन्निन्दया पुरा त्यक्त्वा सा चाहं शैलकन्यका ।
रक्तबीजस्य युद्धे च काली च मूर्त्तिभेदतः ॥
सावित्री वेदमाताहं सीता जनककन्यका ।
रुक्मिणी द्बारवत्याञ्च भारते भीष्मकन्यका ॥
सुदाम्नः शापतो दैवात् वृषभानुसुताधुना ॥
धर्म्मपत्नी च कृष्णस्य पुण्ये वृन्दावने वने ॥” * ॥
अपरञ्च, कृष्णं प्रति पार्व्वतीवाक्यम् ।
“एकाहं राधिकारूपा गोलोके रासमण्डले ।
रासशून्यञ्च गोलोकं परिपूर्णं कुरु प्रभो ! ॥
परिपूर्णतमाहञ्च तव वक्षःस्थलस्थिता ।
तवाज्ञया महालक्ष्मीरहं वैकुण्ठवासिनी ।
सरस्वती च तत्रैव वामपार्श्वे हरेरपि ॥
तवाहं मनसा जाता सिन्धुकन्या तवाज्ञया ।
सावित्री वेदमाताहं कलया विधिसन्निधौ ॥
तेजःसु सर्व्वदेवानां पुरा सत्ये तवाज्ञया ।
अधिष्ठानं कृतं तत्र धृतं दिव्यं शरीरकम् ॥
शुम्भादयश्च दैत्याश्च निहताश्चावलीलया ।
दुर्गं निहत्य दुर्गाहं त्रिपुरा त्रिपुरे वधे ॥
निहत्य रक्तबीजञ्च रक्तबीजविनाशिनी ।
तवाज्ञया दक्षकन्या सती सत्यस्वरूपिणी ॥
योगेन त्यक्त्वा देहञ्च शैलजाहं तवाज्ञया ।
त्वया दत्ता शङ्कराय गोलोके रासमण्डले ॥
विष्णुभक्तिरहं तेन विष्णुमाया च वैष्णवी ।
नारायणस्य मायाहं तेन नारायणी स्मृता ॥
कृष्णप्राणाधिकाहञ्च प्राणाधिष्ठातृदेवता ।
महद्विष्णोश्च रासे स्वे जननी राधिका स्वयम् ॥
तवाज्ञया पञ्चधाहं पञ्चप्रकृतिरूपिणी ।
कलाकलांशयाहञ्च देवपत्न्यो गृहे गृहे ॥” * ॥
अथ तस्याः पूजाप्रकाशः ।
“प्रथमे पूजिता सा च कृष्णेन परमात्मना ।
वृन्दावने च सृष्ट्यादौ गोलोके रासमण्डले ॥
मधुकैटभभीतेन ब्रह्मणा सा द्बितीयतः ।
त्रिपुरप्रेषितेनैव तृतीये त्रिपुरारिणा ॥
भ्रष्टश्रिया महेन्द्रेण शापाद्दुर्व्वाससः पुरा ।
चतुर्थे पूजिता देवी भक्त्या भगवती सदा ॥
तदा मुनीन्द्रैः सिद्धेन्द्रैर्देवैश्च मनुमानवैः ।
पूजिता सर्व्वविश्वेषु बभुव सर्व्वतः सदा ॥
तेजःसु सर्व्वदेवानामाविर्भूता पुरा मुने ! ।
सर्व्वे देवा ददुस्तस्यै शस्त्राणि भूषणानि च ॥
दुर्गादयश्च दैत्याश्च निहता दुर्गया तया ।
दत्तं स्वाराज्यं देवेभ्यो वरञ्च यदभीप्सितम् ॥
कालान्तरे पूजिता सा सुरथेन महात्मना ।
राज्ञा मेधसशिष्येण मृण्मय्याञ्च सरित्तटे ॥
मेषादिभिश्च महिषैः कृष्णसारैश्च गण्डकैः ।
छागैर्मीनैश्च कुष्माण्डैः पक्षिभिर्बलिभिर्मुने ॥
वेदोक्तानि च दत्त्वैवमुपचाराणि षोडश ।
धृत्वा च कवचं ध्यात्वा संपूज्य च विधानतः ॥
राजा कृत्वा परीहारं वरं प्राप यथेप्सितम् ।
मुक्तिं सम्प्राप वैश्यश्च संपूज्य च सरित्तटे ॥
तुष्टाव राजा वैश्यश्च साश्रुनेत्रः पुटाञ्जलिः ।
विससर्ज मृण्मयीन्तां गभीरे निर्म्मले जले ॥
मृन्मयीं तृणमयीं दृष्ट्वा जलधौतां नराधिपः ।
रुरोद तत्र वैश्यश्च ततः स्थानान्तरं ययौ ॥
त्यक्त्रा देहञ्च वैश्यश्च पुष्करे दुष्करं तपः ।
कृत्वा जगाम गोलोकं दुर्गादेवीवरेण च ॥
राजा ययौ स्वराज्यञ्च पूज्यो निष्कण्टकं बली ।
भोगञ्च बुभुजे भूपः षष्टिवर्षसहस्रकम् ॥
भार्य्यां स्वबालं संन्यस्य पुत्त्रे स कालयोगतः ।
मनुर्ब्बभूव सावर्णिस्तप्त्वा च पुष्करे तपः ॥
इत्येवं कथितं वत्स ! समासेन यथागमम् ।
दुर्गाख्यानं मुनिश्रेष्ठ ! किं भूयः श्रोतुमिच्छसि ॥”
इति ब्रह्मवैवर्त्तपुराणम् ॥
अथ दुर्गापूजाविधिः ।
“शरत्काले महापूजा क्रियते या च वार्षिकी ।
शारदीया महापूजा चतुःकर्म्ममयी शुभा ॥
तां तिथित्रयमासाद्य कुर्य्याद्भक्त्या विधानतः ॥
चतुःकर्म्ममयी स्नपनपूजनबलिदानहोमरूपा सा
च प्रतिवर्षं कर्त्तव्या ।
‘द्बिशरीरे चरे चैव लग्ने केन्द्रगते रवौ ।
वर्षे वर्षे विधातव्यं स्थापनञ्च विसर्ज्जनम् ॥
यो मोहादथवालस्याद्देवीं दुर्गां महोत्सवे ।
न पूजयति दम्भाद्बा द्वेषाद्बाप्यथ भैरव ! ॥
क्रुद्धा भगवती तस्य कामानिष्टान् निहन्ति वै ॥’
वीप्सा अकरणे प्रत्यवायश्रुतेश्च सा पूजा नित्या
विधिसमभिव्याहृतफलश्रुतेः काम्या च ।
यथा, --
‘कृत्वैवं परमामापुर्निर्वृतिं त्रिदिवौकसः ।
एवमन्यैरपि सदा देव्याः कार्य्यं प्रपूजनम् ॥
विभूतिमतुलां लब्धुं चतुर्व्वर्गप्रदायकम् ।’
काम्यतया पूजने कृते प्रसङ्गान्नित्यपूजासिद्धिः ।
तत्तद्वचनात् कृष्णनवम्यादिप्रतिपदादिषष्ठ्यादि-
सप्तम्यादिमहाष्टम्यादिकेवलमहाष्टमीकेवलमहा-
नवभीपूजारूपाः कल्पा उन्नेयाः । तदनन्तर-
मशौचमपि न प्रतिबन्धकम् ॥ * ॥ सा पूजा
त्रिविधा । यथा, --
‘शारदी चण्डिकापूजा त्रिविधा परिगीयते ।
पृष्ठ २/७२९
सात्त्विकी राजसी चैव तामसी चेति विश्रुतिः ॥
सात्त्विकी जपयज्ञाद्यैनैवेद्यैश्च निरामिषैः ।
माहात्म्यं भगवत्याश्च पुराणादिषु कीर्त्तितम् ॥
पाठस्तस्य जपः प्रोक्तः पठेद्देवीमनास्तथा ।
देवीसूक्तजपश्चैव यज्ञो वह्निषु तर्पणम् ॥
राजसी वलिदानैश्च नैवेद्यैः सामिषैस्तथा ।
सुरामांसाद्युपाहारैर्जपयज्ञैर्विना तु या ॥
विना मन्त्रैस्तामसी स्यात् किरातानान्तु सम्मता ।
ब्राह्मणैः क्षत्त्रियैर्वश्यैः शूद्रैरन्यैश्च सेवकैः ॥
एवं नानाम्लेच्छगणैः पूज्यते सर्व्वदस्युभिः ।
स्वयं वाप्यन्यतो वापि पूजयेत् पूजयेत वा ॥
अर्च्चकस्य तपोयोगादर्च्चनस्यातिशायनात् ।
आभिरूप्याच्च विम्बानां देवः सान्निध्यमृच्छति ॥’
अथ नवम्यादिकल्पः ।
‘इघे मास्यसिते पक्षे कन्याराशिगते रवौ ।
नवम्यां बोधयेद्देवीं क्रीडाकौतुकमङ्गलैः ॥
ज्येष्ठानक्षत्रयुक्तायां षष्ठ्यां विल्वाभिमन्त्रणम् ।
सप्तम्यां मूलयुक्तायां पत्रिकायाः प्रवेशनम् ॥
पूर्ब्बाषाढयुताष्टम्यां पूजाहोमाद्युपोषणम् ।
उत्तरेण नवम्यान्तु वलिभिः पूजयेच्छिवाम् ॥
श्रवणेन दशम्यान्तु प्रणिपत्य विसर्जयेत् ॥’
प्रतिवर्षं कन्यार्के कर्त्तव्यत्वानुपपत्तेः सिंहार्केऽपि
बोधनं तुलार्केऽपि स्थापनादिकं क्रियते चान्द्र-
कृत्यत्वात् कन्यार्के मलमासे न तदारभ्यते यदि
पूर्ब्बमारब्धं तदा मलमासेऽपि पूजादेवी-
माहात्म्यपाठादिकं प्रत्यहं कर्त्तव्यमेव ।
‘यावद्भूर्वायुराकाशं जलं वह्निशशिग्रहाः ।
तावच्च चण्डिकापूजा भविष्यति सदा भुवि ॥’
तत्र कृष्णनवम्यां देवकृत्यत्वेन पूर्ब्बाह्णे बोधनम् ।
उभयदिने पूर्ब्बाह्णे नवमीलाभे पूर्ब्बदिने आर्द्रानु-
रोधे तु पूर्ब्बाह्णं विना दिवामात्रे युग्मादरं
विनापि परदिने बोधनं उभयदिने पूर्ब्बाह्णे नव-
म्यार्द्रालाभे पूर्ब्बदिने बोधनं युग्मात् ।
‘कन्यादिमीनपर्य्यन्तं यत्र संप्राप्यते शिवः ।
तत्र बोधः प्रकर्त्तव्यो देव्या राज्ञां शुभप्रदः ॥’
बोधनमन्त्रो यथा, --
‘इषे मास्यसिते पक्षे नवम्यामार्द्रयोगतः ।
श्रीवृक्षे बोधयामि त्वां यावत् पूजां करोम्यहम् ॥
ऐँ रावणस्य वधार्थाय रामस्यानुग्रहाय च ।
अकाले ब्रह्मणा बोधो देव्यास्त्वयि कृतः पुरा ॥
अहमप्याश्विने तद्वद्बोधयामि सुरेश्वरीम् ।
शक्रेणापि च सम्बोध्य प्राप्तं राज्यं सुरालये ॥
तस्मादहं त्वां प्रतिबोधयामि
विभूतिराज्यप्रतिपात्तहेतोः ॥
यथैव रामेण हतो दशास्य-
स्तथैव शत्रून् विनिपातयामि ॥
षष्ठीबोधने तु अहमप्याश्विने षष्ठ्यां सायाह्ने
बोधयाम्यत इति पठनीयम् ॥ * ॥
अथ प्रतिपदादिकल्पः ।
‘आश्विने शुक्लपक्षे तु कर्त्तव्यं नवरात्रकम् ।
प्रतिपदादिक्रमेणैव यावच्च नवमी भवेत् ॥’
प्रतिपदादितत्तत्तिथिषु कृत्यमाह भविष्ये ।
‘केशसंस्कारद्रव्याणि प्रदद्यात् प्रतिपद्दिने ।
पट्टडोरं द्वितीयायां केशसंयमहेतवे ।
दर्पणञ्च तृतीयायां सिन्दूरालक्तकं तथा ॥
मधुपर्कं चतुर्थ्यान्तु तिलकं नेत्रमण्डनम् ।
पञ्चम्यामङ्गरागञ्च शक्त्यालङ्करणानि च ॥
षष्ठ्यां विल्वतरौ बोधं सायं सन्ध्यासु कारयेत् ।
सप्तम्यां प्रातरानीय गृहमध्ये प्रपूजयेत् ॥
उपोषणमथाष्टम्यामष्टशक्तेः प्रपूजनम् ।
नवम्यामुग्रचण्डायास्तद्बद्देवार्च्चनं दिवा ॥
पूजा च वलिदानञ्च तद्वन्मातॄः प्रपूजयेत् ।
कुमारी पूजनीया च भूषणीया च भूषणैः ॥
संपूज्य प्रेषणं कुर्य्यात् दशम्यां शावरोत्सवैः ।
अनेन विधिना यस्तु देवीं प्रीणयते नरः ॥
स्कन्दवत् पालयेत्तन्तु देवी सर्व्वापदि स्थितम् ।
पुत्त्रदारधनर्द्धीनां संख्या तस्य न विद्यते ।
भुक्त्वेह परमान् भोगान् प्रेत्य देवीगणो भवेत् ॥’
अथ षष्ठ्यादिकल्पः ।
‘बोधयेद्बिल्वशाखायां षष्ठ्यां देवीं फलेषु च ।
सप्तम्यां विल्वशाखान्तामाहृत्य प्रतिपूजयेत् ॥
पुनः पूजां तथाष्टम्यां विशेषेण समाचरेत् ।
जागरञ्च स्वयं कुर्य्यात् वलिदानं महानिशि ॥
प्रभूतवलिदानञ्च नवम्यां विधिवच्चरेत् ।
ध्यायेद्दशभुजां देवीं दुर्गामन्त्रेण पूजयेत् ॥
विसजनं दशम्यान्तु कुर्य्याद्वै शावरोत्सवैः ।
धूलिकर्द्दमविक्षेपैः क्रीडाकौतुकमङ्गलैः ॥
भगलिङ्गाभिधानैश्च भगलिङ्गप्रगीतकैः ।
भगलिङ्गक्रियाभिश्च कुर्य्याच्च दशमीदिने ॥’ * ॥
नवमीबोधनासामर्थ्ये षष्ठ्यां सायं बोधनं यथा,
‘षष्ठ्यां विल्वतरौ बोधं सायंसन्ध्यासु कारयेत् ॥’
षष्ठ्यां बोधनामन्त्रणकरणेऽपि पत्रीप्रवेशपूर्ब्बदिने
सायं षष्ठीलाभे एकादैवोभयकरणं यदा तु पूर्ब्ब-
दिने सायं षष्ठीलाभः परदिने सायं विना षष्ठी-
लाभस्तदा पूर्ब्बेद्युर्बोधनं परदिने सायमामन्त्र-
णम् । यदा तूभयदिने सायं षष्ठीलाभस्तदा परे-
ऽह्नि षष्ठ्यां बोधनम् । उभयदिने सायं षष्ठ्य-
भावे पूर्ब्बाह्णेऽपि षष्ठ्यां बोधनम् । आमन्त्रण-
मन्त्रस्तु ।
‘मेरुमन्दरकैलासहिमवच्छिखरे गिरौ ।
जातः श्रीफलवृक्ष त्वमम्बिकायाः सदा प्रियः ॥
श्रीशैलशिखरे जातः श्रीफलः श्रीनिकेतनः ।
नेतव्योऽसि मया गच्छ पूज्यो दुर्गास्वरूपतः ॥
सायं षष्ठ्यान्तु कर्त्तव्यं पार्व्वत्या अधिवासनम् ।
षष्ठ्यभावेऽपि कर्त्तव्यं सप्तम्यामपि नारद ! ॥’ * ॥
अथ सप्तम्यादिकल्पः ।
आश्विने शुक्लपक्षे तु सप्तम्यादिदिनत्रये ।
तत्र पूजा विशेषेण कर्त्तव्या मम मानवैः ॥
विशेषं तत्र वक्ष्यामि शृणु पुत्त्रक ! मन्मतम् ।
सप्तम्यां पत्रिकापूजा रम्भादिनवभिर्युता ॥
महीमयी च मूर्त्तिर्मे पुत्त्रायुर्धनवृद्धये ।
अष्टमी सा महापुण्या तिथिः प्रीतिकरी मम ॥
कुर्य्यात्तत्र महास्नानं पञ्चगव्ययुतैस्तथा ।
गायत्त्रीभिः कषायैश्च गन्धाद्यैस्तीर्थवारिभिः ॥
ओषधीभिश्च सर्व्वाभिर्भृङ्गारैः कलसैस्तथा
पुष्परत्नादितोयैश्च गन्धैर्मलयजैस्तथा ॥
गीतवादित्रनाट्येन स्नापयेन्माञ्च भक्तितः ।
पूजा सदुपहारैश्च नैवेद्यैश्च मनोहरैः ॥
विल्वपत्रैर्घृताक्तैश्च तिलघान्यादिसंयुतैः ।
जुहुयाज्ज्वलिते वह्नौ तस्य पुण्यफलं शृणु ॥
संसारे यानि सौख्यानि काम्यानि नरपुङ्गव ! ।
दीर्घमायुर्यशः पुत्त्रं विपुलं धनधान्यकम् ॥
लभते मत्प्रसादेन अन्ते मम पुरं व्रजेत् ।
वलिस्तत्र विशेषेण देयो मत्प्रीतये नरैः ॥
अनेन विधिना यस्तु नवमीमतिवाहयेत् ।
भुङ्क्ते च विपुलान् भोगानन्ते शिवपुरं व्रजेत् ॥
ततः सप्तम्यां मूलयुक्तायां केवलायां वा पूर्ब्बाह्णे
पत्रीप्रवेश उभयत्र पूर्ब्बाह्णे सप्तमीलाभे परत्र
‘युगाद्या वर्षवृद्धिश्च सप्तमी पार्व्वतीप्रिया ।
रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता ॥’
पूर्ब्बाह्णे नवपत्रिका शुभकरी सर्व्वार्थसिद्धिप्रदा
आरोग्यं धनदा करोति विजयं चण्डीप्रवेशे
शुभा ।
मध्याह्ने जनपीडनक्षयकरी संग्रामघोरावहा
सायाह्ने वधबन्धनानि कलहं सर्पक्षतं सर्व्वदा ॥
सप्तम्यामस्तगायां यदि विशति गृहं पत्रिका
श्रीफलाढ्या
राज्ञः सप्ताङ्गराज्यं जनसुखमखिलं हन्ति
मूलानुरोधात् ।
तस्मात् सूर्य्योदयस्थां नरपतिशुभदां सप्तमीं प्राप्य
देवीं
भूपालो वेशयेत्तां सकलजनहितां राक्षसर्क्षं
विहाय ॥
लिङ्गस्थां पूजयेद्देवीं मण्डलस्थां तथैव च ।
पुस्तकस्थां महादेवीं पावके प्रतिमासु च ।
चित्रे चविशिखे खड्गे जलस्थाञ्चापि पूजयेत् ॥’
स्नात्वा यथाविधि विधौतकराननाङ्घ्रिराचम्य
सम्यगमलाम्बरयज्ञसूत्रः प्रागाननो धनददिग्व-
दनोऽथवापि बद्धासनो गणपतिञ्च गुरुञ्च नत्वा ।
‘कन्यासंस्थे रवावीशे शुक्लाष्टम्यां प्रपूजयेत् ।
सोपवासो निशार्द्धे तु महाविभवविस्तरैः ॥
पूजां समारभेद्देव्या नक्षत्रे वारुणेऽपि वा ।
पशुधातश्च कर्त्तव्यो गवलाजवधस्तथा ॥’
उक्तवचने पशुघातश्च कर्त्तव्य इति श्रुतेः ।
‘अष्टम्यां रुधिरैर्मांसैः कुसुमैश्च सुगन्धिभिः ।
पूजयेद्बहुजातीयैर्बलिभिर्भोजनैः शिवाम् ॥’
इति कालिकापुराणाच्च ॥
‘अष्टम्यां वलिदानेन पुत्त्रनाशो भवेद्ध्रुवम् ।’
इति देवीपुराणीयं सन्धिपूजावलिदानपरम् ॥
तत्पूजाया उभयतिथिकर्त्तव्यत्वेन तद्वलिदानस्य
नवम्यां सावकाशत्वात् । तत्पूजाविधानन्तु
कालिकापुराणे वचनान्तरम् ।
‘अष्टमीनवमीसन्धौ तृतीया खलु कथ्यते ।
तत्र पूज्या त्वहं पुत्त्र ! योगिनीगणसंयुता ॥
उपवासं महाष्टम्यां पुत्त्रवान्न समाचरेत् ।
यथा तथैव पूतात्मा व्रती देवीं प्रपूजयेत् ॥
पृष्ठ २/७३०
मूलेन प्रतिपूजयेद्भगवतीं चण्डीं प्रचण्डाकृति-
ञ्चाष्टम्यामुपवाससंयतधिया भक्त्या समा-
राध्य च ।
नानापाशुकमज्जमांसरुधिरैः कृत्वा नवम्यां
वलिं
नक्षत्रं श्रवणं तिथिञ्च दशमीं संप्राप्य संप्रेषयेत् ॥
भगवत्याः प्रवेशादिविसर्गान्ताश्च याः क्रियाः ।
तिथावुदयगामिन्यां सर्व्वास्ताः कारयेद्बुधः ॥’
अत्रोदयकालीनघटिकामात्रतिथौ सम्यक्पूज-
नासामर्थ्ये कालिकापुराणम् ।
‘सम्यक् कल्पोदितां पूजां यदि कर्त्तुं न शक्यते ।
उपचारांस्तदा दातुं पञ्चैतान् वितरेत्तदा ॥
गन्धं पुष्पञ्च धूपञ्च दीपं नैवेद्यमेव च ।
अभावे गन्धपुष्पाभ्यां तदभावे च भक्तितः ॥
संक्षेपपूजा कथिता तथा वस्त्रादिकं पुनः ॥
प्रातरावाहयेद्देवीं प्रातरेव प्रवेशयेत् ।
प्रातः प्रातश्च संपूज्य प्रातरेव विसर्जयेत् ॥’
अत्र प्रातःपदं पूर्ब्बाह्णपरम् ।
‘व्रती प्रपूजयेद्देवीं सप्तम्यादिदिनत्रये ।
द्वाभ्यां चतुरहोभिर्व्वा ह्रासवृद्धिवशात्तिथेः ॥’
अष्टम्यामुपवासः पुत्त्रवतो गृहस्थस्य निषिद्धः ।
यथा कालिकापुराणम् ।
‘उपवासं महाष्टम्यां पुत्त्रवान्न समाचरेत् ।
यथा तथैव पूतात्मा व्रती देवीं प्रपूजयेत् ॥
नवम्यां वलिदानन्तु कर्त्तव्यं वै यथाविधि ।
जपं होमञ्च विधिवत् कुर्य्यात्तत्र विभूतये ॥’
अत्र नवम्यां होमश्रुतेः पूर्ब्बाषाढायुताष्टम्यां
पूजाहोमाद्युपोषणं इति श्रुतेश्च उभयत्र एक-
तरस्मिन् वा होमः शारद्याः पूजाया नवम्यामेव
दक्षिणा देवा ॥ * ॥
अथाष्टम्यादिकेवलमहाष्टमी केवलमहानवमी-
कल्पा यथा, --
‘भद्रकालीं पटे कृत्वा तत्र संपूजयेद् द्बिजः ।
आश्विने शुक्लपक्षस्य चाष्टम्यां नियतस्ततः ॥
उपोषितो द्वितीयेऽह्नि पूजयेत् पुनरेव ताम् ॥’
इति विष्णुधर्म्मोत्तरम् ॥
‘यस्त्वेकस्यामथाष्टम्यां नवम्यां वाथ साधकः ।
पूजयेद्वरदां देवीं शुद्धभावेन चेतसा ॥’
इति कालिकापुराणम् ॥ * ॥
दुर्गाया ध्यानं यथा, --
‘जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम् ।
लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम् ॥
अतसीपुष्पवर्णाभां सुप्रतिष्ठां सुलोचनाम् ।
नवयौवनसम्पन्नां सर्व्वाभरणभूषिताम् ॥
सुचारुदशनां तद्बत् पीनोन्नतपयोधराम् ॥
त्रिभङ्गस्थानसंस्थानां महिषासुरमर्द्दिनीम् ॥
मृणालायतसंस्पर्शदशबाहुसमन्विताम् ।
त्रिशूलं दक्षिणे पाणौ खड्गं चक्रं क्रमादधः ॥
तीक्ष्णबाणं तथा शक्तिं दक्षिणे सन्निवेशयेत् ।
खेटकं पूर्णचापञ्च पाशमङ्कुशमेव च ॥
घण्टां वा परशुं वापि वामतः सन्निवेशयेत् ।
अधस्तान्महिषं तद्वद्विशिरस्कं प्रदर्शयेत् ॥
शिरश्छेदोद्भवं तद्बद्दानवं खड्गपाणिनम् ।
हृदि शूलेन निर्भिन्नं निर्यदन्त्रविभूषितम् ॥
रक्तरक्तीकृताङ्गञ्च रक्तविस्फुरितेक्षणम् ।
वेष्टितं नागपाशेन भ्रुकुटीभीषणाननम् ॥
सपाशवामहस्तेन धृतकेशञ्च दुर्गया ।
वमद्रुधिरवक्त्रञ्च देव्याः सिंहं प्रदर्शयेत् ॥
देव्यास्तु दक्षिणं पादं समं सिंहोपरिस्थितम् ।
किञ्चिदूर्द्ध्वं तथा वाममङ्गुष्ठं महिषोपरि ॥
शत्रुक्षयकरीं देवीं दैत्यदानवदर्पहाम् ।
प्रसन्नवदनां देवीं सर्व्वकामफलप्रदाम् ।
स्तूयमानञ्च तद्रूपममरैः सन्निवेशयेत् ॥
उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चण्डा चण्डवती चैव चण्डरूपातिचण्डिका ॥
आभिः शक्तिभिरष्टाभिः सततं परिवेष्टिताम् ।
चिन्तयेत् सततं दुर्गां धर्म्मकामार्थमोक्षदाम् ॥’
इति ध्यात्वा महास्नानपूर्ब्बकषोडशोपचारा-
दिना बलिदानादिभिः पूजयित्वा आवरणं
पूजयेत् ॥ * ॥
अथ दशमीकृत्यम् ।
‘संपूज्य प्रेषणं कुर्य्याद्दशम्यां शावरोत्सवैः ।’
देवीयात्राकाले निर्म्मञ्छनविधिमाह पूजारत्ना-
करे देवीपुराणम् ।
‘भक्त्या पिष्टप्रदीपाद्यैश्चूताश्वत्थादिपल्लवैः ।
ओषधीभिश्च मेध्याभिः सर्व्वबीजैर्यवादिभिः ॥
नवम्यां पर्व्वकाले तु यात्राकाले विशेषतः ।
यः कुर्य्यात् श्रद्धया वीर ! देव्या नीराजनं नरः ॥
शङ्खभेर्य्यादिनिनदैर्ज्जयशब्दैश्च पुष्कलैः ।
यावतो दिवसान् वीर ! देव्यै नीराजनं कृतम् ॥
तावत्कालसहस्राणि दुर्गालोके महीयते ।
यस्तु कुर्य्यात् प्रदीपेन सूर्य्यलोके महीयते ॥’ * ॥
तद्दिने अपराजितापूजनम् । यथा, --
‘आश्विने शुक्लपक्षस्य दशम्यां पूजयेत्तथा ।
एकादश्यां न कुर्व्वीत पूजनञ्चापराजितम् ॥’
तद्दिने राजा यात्रां कुर्य्यात् । यथा, --
‘दशमीं यः समुल्लङ्घ्य प्रस्थानं कुरुते नृपः ।
तस्य संवत्सरं राज्ये न क्वापि विजयो भवेत् ॥’
स्वयमशक्तौ खड्गादियात्रा कर्त्तव्या । यथा, --
‘कार्य्यवशात्स्वयमगमे भूभर्त्तुः केचिदाहुरा-
चार्य्याः ।
छत्त्रायुधाद्यमिष्टं वैजयिकं निर्गमे कुर्य्यात् ॥’ * ॥
खञ्जनदर्शनफलादिर्यथा, --
‘हस्तागते तु मित्रे यया दिशा खञ्जनं यान्तं
नृपः पश्येत् ।
तया प्रयातस्य क्षिप्रमरातिर्व्वशमुपैति ॥
कृत्वा नीराजनं राजा बलवृद्ध्यै यथाबलम् ।
शोभनं खञ्जनं पश्येत् जलगोगोष्ठसन्निधौ ॥
अब्जेषु गोषु गजवाजिमहोरगेषु
राज्यप्रदः कुशलदः शुचिशाद्वलेषु ।
भस्मास्थिकेशनखलोमतुषेषु दृष्टो
दुःखं ददाति बहुशः खलु खञ्जरीटः ॥
अशुभं खञ्जनं दृष्ट्वा देवब्राह्मणपूजनम् ।
दानं कुर्व्वीत कुर्य्याच्च स्नानं सर्व्वौषधीजलैः ॥’
अथ विसर्ज्जनम् ।
‘नौयानैर्नरयानैर्व्वा नीत्वा भगवतीं शिवाम् ।
स्रोतोजले प्रक्षिपेयुः क्रीडाकौतुकमङ्गलैः ॥
परैर्नाक्षिप्यते यस्तु परं नाक्षिपते तु यः ।
तस्य रुष्टा भगवती शापं दद्यात् सुदारुणम् ॥”
इति तिथ्यादितत्त्वदुर्गार्च्चातत्त्वे ॥
विसर्ज्जनमन्त्रो यथा, --
“दुर्गे देवि जगन्मातः ! स्वस्थानं गच्छ पूजिते ।
संवत्सरव्यतीते तु पुनरागमनाय वै ॥
निमज्जाम्भसि देवि त्वं चण्डिकाप्रतिमा शुभा ।
पुत्त्रायुर्धनवृद्ध्यर्थं स्थापितासि जले मया ॥” * ॥
विसर्ज्जनानन्तरं गृहमागत्य अच्छिद्रावधारणं
कृत्वा घटस्थजलेन एभिर्म्मन्त्रैर्यजमानमभि-
षिञ्चेत् । यथा, --
“ॐ उत्तिष्ठ ब्रह्मणस्पते देवा यजन्तस्त्वेमहे उप-
प्रयन्तु मरुतः सुदानवे इन्द्रप्रायुर्भवासचा ॥
ॐ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
वासुदेवो जगन्नाथस्तथा सङ्कर्षणः प्रभुः ॥
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ।
आखण्डलोऽग्निर्भगवान् यमो वै नैरृतस्तथा ।
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ॥
ब्रह्मणा सहितो शेषो दिक्पालाः पान्तु ते सदा ।
कीर्त्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्षमा मतिः ।
बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः कान्तिश्च मातरः ॥
एतास्त्वामभिषिञ्चन्तु धर्म्मपालाः सुसंयताः ।
आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः ॥
ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः ।
ऋषयो मुनयो गावो देवमातर एव च ॥
देवपत्न्योऽध्वरा नागा दैत्याश्चाप्सरसां गणाः ।
अस्त्राणि सर्व्वशस्त्राणि राजानो वाहनानि च ॥
औषधानि च रत्नानि कालस्यावयवाश्च ये ।
सरितः सागराः शैलास्तीर्थानि जलदा ह्रदाः ॥
देवदानवगन्धर्व्वा यक्षराक्षसपन्नगाः ।
एते त्वामभिषिञ्चन्तु धर्म्मकामार्थसिद्धये ॥”
इति बृहन्नन्दिकेश्वरपुराणपद्धतिः ॥ * ॥
अथ दुर्गानाममाहात्म्यम् ।
“तवर्गस्य तृतीयोऽर्णः पञ्चमस्वरसंयुतः ।
कवर्गस्य तृतीयोऽर्णो वह्निस्तस्योपरि स्थितः ॥
द्बितोयस्वरसंयुक्तं नामेदं परिकीर्त्तितम् ।
आरोग्यस्य च सम्पत्तेर्ज्ञानस्य च महोदये ॥
नामेदं परमो हेतुर्मुक्तये भवसङ्गिनाम् ।
कलिकाले विशेषेण महापातकिनामपि ॥
निस्तारबीजं विज्ञेयं नामसंस्मरणं प्रिये ! ॥
परदाररतोऽपि स्यात् परद्रव्यापहारकः ।
सोऽपि पापात् प्रमुच्येत यदि स्यादतिपातकी ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्व्वङ्गनागमः ।
एतेभ्योऽपि विमुच्येत यदि नाम स्मरेत् सुधीः ॥”
इति रुद्रयामलः ॥
“दुर्गा दुर्गेति दुर्गेति दुर्गानाम परं मनुम् ।
यो जपेत् सततं चण्डि ! जीवन्मुक्तः स मानवः ॥
महोत्पाते महारोगे महाविपदि सङ्कटे ।
महादुःखे महाशोके महाभयससुत्थिते ।
यः स्मरेत् सततं दुर्गां जपेत् यः परमं मनुम् ।
स जीवलोको देवेशि ! नीलकण्ठत्वमवाप्नुयात् ॥”
इति मुण्डमालातन्त्रम् ।