शब्दकल्पद्रुमः/तैली

विकिस्रोतः तः
पृष्ठ २/६५०

तैली, [न्] पुं, (तैलं निष्पाद्यत्वेन पण्यत्वेन

वास्त्यस्येति । तैल + इनिः ।) तैलकारः । इति
हेमचन्द्रः । ३ । ५८१ ॥ तैलसम्बन्धिनि, त्रि ॥

तैलीनं, क्ली, (तिलानां भवनं क्षेत्रम् । तिल +

“विभाषा तिलमाषेति ।” ५ । २ । ४ । इति
पक्षे खञ् ।) तिलक्षेत्रम् । इत्यमरः । २ । ९ । ७ ॥
(यथाच शब्दरत्नावल्याम् ।
“तिलोद्भवोचितं यत्तु तिल्यं तैलीनमित्यपि ॥”)

तैषः, पुं, (तैषी तिष्यनक्षत्रयुक्ता पौर्णमासी

अस्मिन्निति । तैषी + “सास्मिन् पौर्णमासीति ।”
४ । २ । २१ । इत्यण् ।) पौषमासः । इत्य-
मरः । १ । ४ । १५ ॥ (तिष्यनक्षत्रसम्बन्धिनि,
त्रि । “तैषमहः । तैषी रात्रिः ।” इति
सिद्धान्तकौमुदी ॥)

तैषी, स्त्री, (तिष्येण नक्षत्रेण युक्ता । “सन्धि-

वेलाद्यृतुनक्षत्रेभ्योऽण् ।” ४ । ३ । १ । इत्यण् ।
“तिष्यपुष्ययोर्नक्षत्रानि यलोप इति वाच्यम् ।”
इति यलोपः । ङीप् ।) पुष्यनक्षत्रयुक्ता पौर्ण-
मासी । इति मुग्धबोधम् ॥

तोकं, क्ली, (तौति पूरयति गृहमिति । तु पूर्त्तौ

+ बाहुलकात् कः ।) अपत्यम् । पुत्त्रो दुहिता
च । इत्यमरः । २ । ६ । २८ ॥ (यथा, ऋग्वेदे ।
१ । ६४ । १४ ।
“तोकं पुष्येम तनयं शतं हिमाः ॥”
शिशुः । बालकः । यथा, भागवते । २ । ७ । २७ ।
“तोकेन जीवहरणं यदुलूकिकाया-
स्त्रैमासिकस्य च पदा शकटोऽपवृत्तः ॥”)

तोक्मं, क्ली, कर्णमलम् । इति हेमचन्द्रः ॥ मेषः ।

इत्यजयपालः ॥

तोक्मः, पुं, (तकन्ति हसन्ति आनन्दिता भवन्ति

लोका अनेनेति । तक + बाहुलकात् मः
ओत्वञ्च ।) हरिद्यवः । अपक्वयवः । इत्य-
मरः । २ । ९ । १६ । (“यबास्तोक्माः भृष्ट-
ब्रीहयो लाजाः ।” इति वाजसनेयसंहितायां
महीधरः । १९ । १ ॥ क्वचित् क्लीवलिङ्गोऽयम् ।
यथा, वाजसनेयसंहितायाम् । १९ । १३ ।
“दीक्षायै रूपं£शष्पाणि प्रायणीयस्य
तोक्मानि ॥”)
पल्लवाद्यङ्कुरः । यथा, --
“पत्रपुष्पफलच्छायामूलवल्कलदारुभिः ।
गन्धनिर्यासभस्मास्थितोक्मैः कामान् वितन्वते ॥”
इति श्रीभागवते । १० । २२ । २५ ॥
“निर्यासो घनरसः तोक्माः पल्लवाद्यङ्कुराः ।”
इति तट्टीकायां श्रीधरस्वामी ॥

तोटकं, क्ली, द्वादशाक्षरपादच्छन्दः । इति छन्दो-

मञ्जरी ॥ (अस्य लक्षणादिकन्तु छन्दःशब्दे
द्रष्टव्यम् ॥)

तोड, ऋ नादरे । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-सेट् ।) ऋ, अतुतोडत् । नादरो-
ऽनादरः । इति दुर्गादासः ॥

तोत्त्रं, क्ली, (तुद्यते ताद्यतेऽनेनेति । तुद + “दाम्नी-

शसयुयुजस्तुतुदेति ।” ३ । २ । १८२ । इति
ष्ट्रन् ।) गवादिताडनदण्डः । पाँचनी इति
ख्यातः । तत्पर्य्यायः । प्राजनम् २ तोदनम् ३
गजस्य तोदनदण्डः । तत्पर्य्यायः । वैणुकम् २ ।
इत्यमरः । २ । ८ । ४१ ॥ वेणुकम् ३ । इति
भरतः ॥ (यथा, रामायणे । २ । ४० । ४१ ।
“न हि तत्पुरुषव्याध्रो दुःखजं दर्शनं पितुः ।
मातुश्च सहितुं शक्तस्तोत्त्रैर्नुन्न इव द्विपः ॥”)

तोदः, पुं, (तुद व्यथे + भावे घञ् ।) व्यथा ।

इति रत्नमाला ॥ (यथा, भागवते । ३ । १८ । ६ ।
“तोदं मृषन्निरगादम्बुमध्याद्-
ग्राहाहतः सकरेणुर्यथेभः ॥”
तुदतीति । तुद + अच् । पीडादायके, त्रि ।
यथा, ऋग्वेदे । ४ । १६ । ११ ।
“यासि कुत्सेन सरथमवस्युस्तोदो वातस्य
हर्य्योरीशानः ॥”
“तोदस्तोदकः ।” इति सायनः ॥)

तोदनं, क्ली, (तुद्यतेऽनेनेति । तुद + करणे ल्युट् ।)

तोत्त्रम् । इत्यमरः । २ । ९ । १२ ॥ (तुद +
भावे ल्युट् ।) व्यथा । इति मेदिनी ॥ ने, ७३ ॥
(यथा, सुश्रुते । १ । २२ ।
“तोदनभेदनताडनच्छेदनायमनमन्थनेत्यादि ॥”
वृक्षविशेषः । यथा, तत्रैव । १ । ४६ ।
“क्षीरवृक्षफलजाम्बवराजादनतोदनतिन्दुकवकुल-
धन्वनाश्मन्तकाश्वकर्णफल्गुपरूषकगाङ्गेरुकी-
पुष्करवर्त्तिविल्वविम्बीप्रभृतीनि ॥”)

तोमरः, पुं क्ली, (तुम्पति हिनस्तीति । तुम्प +

बाहुलकात् अरप्रत्ययेन साधुः । इत्युज्ज्वलदत्ते-
नोक्तम् । ३ । १३१ ।) अस्त्रविशेषः । शावली
इति भाषा । तत्पर्य्यायः । शर्व्वला २ । इत्य-
मरः । २ । ८ । ९३ ॥ (यथा, देवीभागवते ।
५ । ५ । २९ ।
“गदाभिः पट्टिशैः शूलैश्चक्रैश्च शक्तितोमरैः ॥”)
हस्तक्षेप्यसशल्यदण्डः । इति महाभारतटीका ॥
रायवाँश इति भाषा ॥ (अस्य आकृत्यादिक-
मुक्तं वैशम्पायनेन तद्यथा, --
“तोमरः काष्ठकायः स्यात् लौहशीर्षः
सुपुच्छवान् ।
हस्तत्रयोन्नताङ्गश्च रक्तवर्णस्त्ववक्रगः ॥”
शार्ङ्गधरेण तु, --
“फणवत् शीर्षदेशः स्यात्तोमरस्त्वायसस्तथा ॥”
वैशम्पायनोक्तान्यस्य कार्य्याणि यथा, --
“उद्धानं विनियुक्तिश्च वेधनञ्चेति तत्त्रिकम् ।
वल्गितं शस्त्रतत्त्वज्ञाः कथयन्ति नराधिपाः ॥”
अग्निपुराणोक्तधनुर्व्वेदमतेऽस्य कार्य्याणि यथा,
“दृष्टिघातं भुजाघातं पार्श्वघातं द्विजोत्तम ! ।
ऋजुपक्षेषुणा पातं तोमरस्य प्रकीर्त्तितम् ॥”
जनपदविशेषः । यथा, मात्स्ये । १२० । ५७ ।
“तोमरान् प्लावयन्ती च हंसमार्गान्
समूहकान् ॥”
नवाक्षरछन्दोविशेषे, क्ली । शब्दार्थचिन्ता-
मणिधृतं तल्लक्षणादिकं यथा, --
“प्रथमं सकं विनिधाय
जगणद्बयञ्च निधाय ।
कुरु तोमरं सुखकारि
फणिराजवक्त्रविहारि ॥”
उदाहरणम्, --
“सखि ! मादके मधुमासि
व्रज सत्वरं किमिहासि ।
सहते न किं विहरामि
किमु पावकं प्रविशामि ॥”)

तोमरधरः, पुं, (तोमरं धरतीति । धृ + अच् ।

यद्वा, तोमरस्य अस्त्रविशेषस्य धरः ।) अग्निः ।
इति शब्दार्थकल्पतरुः ॥

तोमरिका, स्त्री, (तोमर + संज्ञायां कन् ।

स्त्रीलिङ्गत्वात् टाप् अत इत्वञ्च ।) तुवरिका ।
इति शब्दरत्नावली ॥

तोयं, क्ली, (“तवतेर्वृद्धिकर्म्मणः + ‘अघ्न्यादयश्च ।’

उणां ४ । १०८ । इति यत्प्रत्ययो निपातितो
द्रष्टव्यः । वर्द्धते वर्षासु । ‘तुदति तोयम्’ इति
क्षीरस्वामी । तुदतेः पूर्ब्बवत् यत्प्रत्यये निपा-
तनात् दकारलोपे गुणः । यद्बा, तुदिः सौत्र
आवरणार्थः ।” इति निघण्टुनिर्व्वचने देव-
राजयज्वा । १ । १२ । ९२ ।) जलम् । इत्य-
मरः । १ । १० । ४ ॥ (यथा, देवीभागवते ।
१ । ६ । २९ ।
“तया ततमिदं तोयं तदाधारञ्च तिष्ठति ॥”
पूर्ब्बाषाढानक्षत्रम् । जलदैवतत्वादस्य तथा-
त्वम् ॥)

तोयकामः, पुं, (तोयं जलं कामयते इति ।

कम् + अण् ।) परिव्याधः । जलवेतसः । इति
जटाधरः ॥ जलाभिलाषिणि, त्रि ॥

तोयकृच्छ्रं, क्ली, (तोयेन तोयमात्रपानेन यत्

कृच्छ्रं व्रतम् ।) जलमात्रपानरूपव्रतविशेषः ।
इति मिताक्षरा ॥ (यथा, मार्कण्डेये ।
“मूलकृच्छ्रं स्मृतं मूलैस्तोयकृच्छ्रं जलेन तु ॥”)

तोयडिम्भः, पुं, (तोयस्य जलस्य डिम्भ इव ।)

घनोपलः । इति हारावली । ५८ ॥

तोयदः, पुं, (तोयं ददातीति । दा + कः ।) मेघः ।

(यथा, महानिर्व्वाणतन्त्रे । ४ । ५३ ।
“यदा क्षौणी स्वल्पफला तोयदाः स्तोकवर्षिणः
असम्यक्फलिनो वृक्षास्तदैव प्रबलः कलिः ॥”)
मुस्तकम् । घृते, क्ली । इति मेदिनी । दे, ३० ॥
जलदातरि त्रि ॥ (यथा, महाभारते शान्ति-
पर्व्वणि ।
“तोयदो मनुजव्याघ्र ! स्वर्गं गत्वा महाद्युते ! ।
अक्षयान् समवाप्नोति लोकानित्यब्रवीन् मनुः ॥”)

तोयधरः, पुं, (तोयं जलं धरतीति । धृ + अच् ।

तोयस्य धरो वा ।) मेघः । मुस्ता । सुनिष-
ण्णकशाकः । इति मेदिनी । रे, २६५ ॥ (जल-
घारिणि, त्रि । यथा, रामायणे । २ । ९३ । १० ।
“मुञ्चन्ति कुसुमान्येते नगाः पर्व्वतसानुषु ।
नीला इवातपापाये तोयन्तोयधरा घनाः ॥”)

तोयधिः, पुं, (तोयानि धीयन्तेऽत्र । धा + “कर्म्म-

ण्यधिकरणे च ।” ३ । ३ । ९३ । इति किः ।
आतो लोपः ।) समुद्रः । इति पुराणम् ॥
(यथा, सूर्य्यसिद्धान्ते भूगोलाध्याये । ३७ ।
“समन्तात् मेरुमध्यात्तु तुल्यभागेषु तोयधेः ॥”)
पृष्ठ २/६५१

तोयधिप्रियं, क्ली, (प्रीणातीति । प्री + “इगु-

पधेति ।” ३ । १ । १३५ । इति कः । तोयधिः प्रियो
यस्य ।) लवङ्गम् । इति शब्दचन्द्रिका ॥

तोयनिधिः, पुं, (तोयानि निधीयन्तेऽत्र । नि +

धा + किः । तोयानां निधिर्वा ।) समुद्रः ।
इति शब्दरत्नावली ॥ (यथा, कुमारे । १ । १ ।
“पूर्ब्बापरौ तोयनिधी वगाह्य
स्थितः पृथिव्या इव मानदण्डः ॥”)

तोयपिप्पली, स्त्री, (तोये जले पिप्पलीव ।)

काँचडा इति ख्यातजलजशाकभेदः । तत्-
पर्य्यायः । लाङ्गली २ शारदी ३ शकुलादनी
४ । इत्यमरः । २ । ४ । १११ ॥

तोयपुष्पी, स्त्री, (तोयेन बहुजलप्रदानेन पुष्पाणि

यस्याः ।) पाटलावृक्षः । इति शब्दमाला ॥

तोयप्रसादनं, क्ली, (प्रसादयतीति । प्र + सद् +

णिच् + ल्युः । तोयस्य प्रसादनम् । अस्य फल-
योगेन जलस्य निर्म्मलत्वं भवतीति तथात्वम् ।)
कतकम् । इति भूरिप्रयोगः ॥

तोयप्रसादनफलं, क्ली, (तोयप्रसादनस्य तोय-

प्रसादनाय वा फलम् ।) कतकफलम् । इति
रत्नमाला ॥

तोयफला, स्त्री, (तोयप्रधानं फलं यस्याः ।)

इर्व्वारुः । इति राजनिर्घण्टः ॥

तोयवल्ली, स्त्री, (तोये जलप्रधानस्थाने वल्ली लता-

सन्ततिर्यस्याः ।) कारवेल्लः । इति रत्न-
माला ॥ उच्छे इति भाषा ॥

तोयशुक्तिका, स्त्री, (तोयजाता शुक्तिका । शाक-

पार्थिवादिवत् समासः ।) जलशुक्तिः । इति
राजनिर्घण्टः ॥

तोयसूचकः, पुं, (तोयं जलवर्षणं सूचयति रवे-

णेति । सूच् + ण्वुल् ।) भेकः । इति शब्दार्थ-
कल्पतरुः ॥

तोयाधिवासिनी, स्त्री, (तोयं जलप्रधानस्थलं

अधिवसतीति । अधि + वस + णिनिः । यद्बा,
तोयेन अधिवास इव संस्कारोऽस्त्यस्येति ।
इनिः ।) पाटलावृक्षः । इति रत्नमाला ॥
तोयादिवासिन्यपि पाठः ॥ (पाटलाशब्देऽस्या
विवृतिर्ज्ञातव्या ॥)

तोरणं, क्ली, (तोलयति उन्नमयति मस्तकमिति ।

तुल + ल्युः । लस्य रः ।) कन्धरा । कण्ठी ।
इति हारावली । १७४ ॥

तोरणः, पुं क्ली, (तुतोर्त्ति त्वरया गच्छत्यनेनेति ।

तुर त्वरणे + करणे ल्युट् ।) बहिर्द्वारम् ।
इत्यमरः । २ । ३ । १६ ॥ (यथा, कुमारे ।
७ । ३ ।
“भासोज्ज्वलत्काञ्चनतोरणानां
स्थानान्तरं स्वर्ग इवावभासे ॥”)
मूलद्वाराद्वाह्यद्वारम् । इति कोक्कटादयः ॥
द्वाराग्रे निखातस्तम्भयोरुपरिनिबद्धं नानावस्त्र-
रत्नादिमयं घनुराकारं यल्लक्ष्यं तत् तोरण-
मिति बहवः ॥ उपरिस्रगादियुक्तस्तम्भादिद्बय-
निर्म्मितपुरादिबहिर्द्वारम् । इति साञ्जः ॥
बन्धनमालेति ख्यातं इति केचित् । इत्यमर-
टीकायां भरतः ॥ (महादेवे, पुं । यथा,
महाभारते । १३ । १७ । ११७ ।
“तोरणस्तारणो वातः परिधीपतिखेचरः ॥”)

तोलं, क्ली पुं, (तुल्यते परिमीयते इति । तुल +

कर्म्मणि घञ् ।) तोलकम् । यथा, --
“एकतोलं द्वितोलं वा त्रितोलं वेदतोलकम् ।
इतोऽधिकं नरः कृत्वा प्रायश्चित्तीयते ध्रुवम् ॥”
इत्यागमः ॥

तोलकं, क्ली पुं, (तोलमेव + स्वार्थे कन् ।) शाण-

द्वयमानम् । इति शब्दमाला ॥ अशीतिरक्ति-
परिमाणम् । तत्तु षोडशमासकः षण्णवतिरक्ति-
परिमाणञ्च । तोला इति भरि इति च भाषा ।
तत्पर्य्यायः । कोलम् २ द्रङ्क्षणम् ३ वटकम् ४
कर्षार्द्धम् ५ । इति वैद्यकपरिभाषा । कर्षम् ६ ।
इति लीलावती ॥ (यथा, वैद्यकरसेन्द्रसारसंग्रहे
ज्वराधिकारे बृहज्ज्वरान्तके ।
“रसं गन्धं तोलकञ्च जातीकोषफले तथा ।”
“किराततिक्तकं बालं तोलकञ्च समाहरेत् ॥”)

तोषः, पुं, (तुष सन्तोषे + भावे घञ् ।) तुष्टिः ।

इति धरणिः ॥ (यथा, --
“देवश्च परमं तोषं जगाम च सहोमया ॥”
इति हरिवंशे । १७३ । १३ ॥
स्वायम्भुवमन्वन्तरगततुषितानांदेवानामन्यतमः ।
यथा, भागवते । ४ । १ । ७ ।
“तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः ।
इध्मः कविर्विभुः स्वाह्नः सुदेवो रोचनो द्बिषट् ।
तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे ॥”)

तौक्षिकः, पुं, धनूराशिः । इति दीपिका ॥ (यथा,

दीपिकायाम् ।
“क्रियतावरिजित्तमकुलीरलेयपाथेययूक-
कौर्पाख्याः ।
तौक्षिक आकोकेरो हृद्रोगश्चान्त्यभं चेत्थम् ॥”)

तौतातिकं, क्ली, (तुतातेन निर्वृत्तम् । तुतात +

“तेन निर्वृत्तम् ।” ५ । १ । ७९ । इति ठक् ।)
तुतातभट्टकृतशास्त्रम् । यथा, --
“नैवाश्रावि गुरोर्म्मतं न विदितं तौतातिकं
दर्शनम् ।
तत्त्वं ज्ञातमहो न शालिकगिरां वाचस्पतेः का
कथा ॥”
इति प्रबोधचन्द्रोदयः । २ । ३ ॥

तौतिकं, क्ली, मुक्ता । इति राजनिर्घण्टः ॥

तौतिकः, पुं, शुक्तिः । इति राजनिर्घण्टः ॥

तौर्य्यं, क्ली, (तूर्य्ये मुरजादौ भवम् । तूर्य्य + अण् ।)

तूर्य्ये मुरजादौ भवं शब्दरूपम् । इत्यमर-
टीकायां भरतः ॥

तौर्य्यत्रिकं, क्ली, (त्रयोऽंशा यस्य तत् । त्रि +

“संख्याया अतिशदन्तायाः कन् ।” ५ । १ । २२ ।
इति कन् । तौर्य्योपलक्षितं त्रिकम् ।) नृत्य-
गीतवाद्यमिदं समुदितं त्रयं नाट्यञ्च । इत्य-
मरः । १ । ७ । १० ॥ नटसम्बन्धि नृत्यगीत-
वाद्यमिति त्रयम् । इति तट्टीकासारसुन्दरी ॥
(यथा, मनुः । ७ । ४७ ।
“मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः ।
तौर्य्यत्रिकं वृथाट्या च कामजो दशको गणः ॥”)
विष्णुगृहे गीतवाद्यनृत्यफलं यथा, --
“गायनं ये प्रकुर्व्वन्ति मम कर्म्मपरायणाः ।
तेषां यद्यत् फलं भूमे ! शृणुष्व गदतो मम ॥
यावन्ति चाक्षराण्येव गीयमाने यशास्विनि ! ।
तावद्बर्षसहस्राणि इन्द्रलोके महीयते ॥
रूपवान् गुणवान् सिद्धः सर्व्ववेदविदां वरः ।
नित्यं पश्यति वै वज्रपाणिं देवं न संशयः ॥
मद्भक्तश्चैव जायेत इन्द्रलोकपथे स्थितः ।
सर्व्वकर्म्मगुणश्रेष्ठस्तत्रापि मम पूजकः ॥
इन्द्रलोकात् परिभ्रष्टो मम गीतपरायणः ।
प्रमुक्तः सर्व्वसंसारान्मम लोकाय गच्छति ॥
यस्तु गायति सुश्रोणि ! कौमुद्याञ्चैव द्बादशीम् ।
सर्व्वसङ्गं परित्यज्य मम लोकाय गच्छति ॥
यस्तु गायति गीतानि मम जागरणे सदा ।
सर्व्वसङ्गात् प्रमुक्तो वै मम लोकाय गच्छति ॥
एतत्ते कथितं देवि ! गायनस्य फलं महत् ।
यस्य गीतस्य शब्देन तरेत् संसारसागरम् ॥ * ॥
वादित्रस्य प्रवक्ष्यामि तत् शृणुष्व वसुन्धरे ! ।
प्राप्तवान्मनुजो येन देवेभ्यः समतां स्वयम् ॥
सम्पत्कालप्रयोगेण सन्निपातेन वा पुनः ।
नववर्षसहस्राणि नववर्षशतानि च ॥
कुवेरभवनं गत्वा मोदते वै यदृच्छया ।
कुवेरभवनाद्भ्रष्टः स्वच्छन्दगमनालयः ॥
शय्यादितालसम्पातैर्मम लोकाय गच्छति ॥ * ॥
नृत्यमानस्य वक्ष्यामि तच्छृणुष्व वसुन्धरे ! ।
मनुजा येन गच्छन्ति छित्त्वा संसारसागरम् ॥
त्रिंशद्वर्षसहस्राणि त्रिंशद्बर्षशतानि च ।
पुष्करद्वीपमासाद्य स्वच्छन्दगमनालयः ॥
फलं प्राप्नोति सुश्रोणि ! मम कर्म्मपरायणः ।
रूपवान् गुणवान् शूरः शीलवान् सुपथे स्थितः ॥
मद्भक्तश्चैव जायेत संसारपरिमोचितः ॥ * ॥
यस्तु जागरतो नित्यं गीतवाद्येन नर्त्तकः ।
जम्बुद्वीपं समासाद्य राजराजस्तु जायते ॥
सर्व्वकर्म्मसमायुक्तो रक्षिता वै महीपतिः ।
मद्भक्तश्चैव जायेत मम कर्म्मपरायणः ॥”
इति वराहपुराणम् ॥

तौलं, क्ली, (तुला एव । स्वार्थे अण् । स्वार्थिका

अपि प्रत्ययाः क्वचित् प्रकृतितो लिङ्गवचनान्य-
तिवर्त्तन्ते इत्युक्तेरस्य क्लीवत्वम् ।) तुला । तुला-
राशौ, पुं । तौली । इति ज्योतिषम् ॥

तौलिकः, पुं, (तुल्या तुलिकया जीवतीति । तुलि

+ ठक् ।) चित्रकारः । इति शब्दमाला ॥
(तुलानिर्वृत्ते, त्रि । यथा, सुश्रुते चिकित्सित-
स्थाने १३ अध्याये ।
“शतं शतं तुलायान्तु सहस्रं दशतौलिके ॥”)

तौलिकिकः, पुं, (तुलिकया जीवतीति । तुलिका

+ ठक् ।) चित्रकारः । तत्पर्य्यायः । रङ्गा-
जीवः २ चित्रकृत् ३ । इति हेमचन्द्रः । ३ ।
५८५ ॥ तौलिकः ४ । इति शब्दमाला ॥
पृष्ठ २/६५२

तौषारं, क्ली, (तुषारस्येदम् । तुषार + “तस्ये-

दम् ।” ४ । ३ । १२० । इत्यण् ।) तुषारजलम् ।
इति राजनिर्घण्टः ॥ (यथा, सुश्रुते । १ । ४५ ।
“धारं कारं तौषारं हैममिति ॥”)

त्यक्तं, त्रि, (त्यज्यते स्मेति । त्यज त्यागे + क्तः ।)

कृतत्यागम् । तत्पर्य्यायः । हीनम् २ विधु-
तम् ३ समुज्झितम् ४ धूतम् ५ उत्सृष्टम् ६ ।
इत्यमरः । ३ । १ । १०७ ॥ विनाकृतम् ७
विरहितम् ८ निर्व्यूढम् ९ । इति त्रिकाण्ड-
शेषः ॥ (यथा, रामायणे । २ । ३७ । २ ।
“त्यक्तभोगस्य मे राजन् ! वने वन्येन जीवतः ।
किं कार्य्यमनुयात्रेण त्यक्तसङ्गस्य सर्व्वतः ॥”)

त्यज, औ हानौ । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-अनिट् ।) औ, अत्याक्षीत् । हानि-
र्वर्ज्जनम् । त्यजति दुष्टलोकं जनः । इति दुर्गा-
दासः ॥

त्यजनं, क्ली, (त्यज + भावे ल्युट् ।) त्यागः ।

वर्ज्जनम् ॥

त्यत्, [द्] त्रि, (त्यजति संसर्गमिति । त्यज् +

“त्यजितनियजिभ्यो डित् ।” उणां १ । १३१ ।
इति अदिः स च डित् ।) तत् । सेइ इति
भाषा । अस्य पुंलिङ्गस्त्रीलिङ्गयो रूपं स्यः
स्या । सर्व्वनामशब्दोऽयम् । इति व्याकरणम् ॥
(यथा, ऋग्वेदे । १ । ६३ । ४ ।
“त्वं ह त्यदिन्द्र चोदीः सखा वृत्रं यद्बज्रिन्
वृषकर्म्मन्नुभ्नाः ॥”)

त्यत्, [द्] क्ली, (त्यज् + “त्यजितनीति ।” उणां ।

१ । १३१ । इति अदिः स च डित् ।) वायुः ।
आकाशः । यथा, --
“सत्यव्रतं सत्यपरं त्रिसत्यं
सत्त्यस्य योनिं निहितञ्च सत्त्ये ।
सत्त्यस्य सत्यमृतसत्यनेत्रं
सत्यात्मकं त्वां शरणं प्रपन्नाः ॥”
इति भागवते । १० । २ । २६ ॥
“सत्यव्रतमिति । सत्यं व्रतं सङ्कल्पो यस्य तम् ।
सत्यपरं सत्यं परं श्रेष्ठं प्राप्तिसाधनं यस्मिन् तम् ।
त्रिसत्यं त्रिष्वपि कालेषु सृष्टेः पूर्ब्बं प्रलयानन्तरं
स्थितिसमये च सत्यं अव्यभिचारेण वर्त्तमानम् ।
तदेवाहुः सत्त्यस्य योनिमिति । सच्छब्देन
पृथिव्यप्तेजांसि त्यच्छब्देन वाय्वाकाशौ एवं
सच्च त्यच्च सत्त्यं भूतपञ्चकम् । ‘तत् सत्त्यमित्या-
चक्षते ।’ इति श्रुतेः । तस्य योनिं कारणम् ।
अनेन सृष्टेः पूर्ब्बं वर्त्तमानतोक्ता । तथा सत्त्ये
तस्मिन्नेव निहितं अन्तर्यामितया स्थितम् ।
अनेन स्थितिसमयेऽपि सत्यत्वमुक्तम् । तथा
मत्त्यस्य सत्यं तस्यैव सत्त्यस्य सत्यं पारमार्थिकं
नाशेऽप्यवशिष्यमाणरूपम् । अनेन प्रलयेऽप्य-
वधित्वे न सत्यत्वं दर्शितम् । एवं त्रिसत्यत्व-
मुपपादितम् । तथा ऋतसत्यनेत्रं ऋतं सूनृता
वाणी सत्यं समदर्शनम् । तथा भगवता व्याख्यास्य
मानत्वात् । सत्यञ्च समदर्शनम् । ऋतञ्च
सूनृता, वाणी कविभिः परिकीर्त्तिता इति ।
तयोर्नेत्रं नयनसाधनं नेतारं प्रवर्त्तकमिति
यावत् । एवं सर्व्वप्रकारेण सत्यात्मकं त्वां वयं
शरणं प्रपन्ना इत्यर्थः ।” इति तट्टीकायां श्रीधर-
स्वामी ॥

त्यागः, पुं, (त्यज् + घञ् ।) दानम् । इत्यमरः ।

२ । ७ । २९ ॥ (यथा, रघुः । १ । ७ ।
“त्यागाय सम्भृतार्थानां सत्याय मित-
भाषिणाम् ॥”)
वर्ज्जनम् । इति मेदिनी । गे, ८ ॥ (यथा,
मनुः । ८ । ३८९ ।
“न माता न पिता न स्त्री न पुत्त्रस्त्याग-
मर्हति ॥”)
विवेकिपुरुषः । इति शब्दरत्नावली ॥ सर्व्व-
कर्म्मफलविसर्ज्जनम् । यथा, --
“काम्यानां कर्म्मणां न्यासं सन्न्यासं कवयो विदुः ।
सर्व्वकभफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥
त्याज्यं दोषवदित्येके कर्म्म प्राहुर्म्मनीषिणः ।
यज्ञदानतपःकर्म्म न त्याज्यमिति चापरे ॥
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ! ।
त्यागो हि पुरुषव्याघ्र ! त्रिविधः संप्रकीर्त्तितः ॥
यज्ञो दानं तपः कर्म्म न त्याज्यं कार्य्यमेव तत् ।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥
एतान्यपि च कर्म्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्त्तव्यानीति मे पार्थ ! निश्चितं मतमुत्तमम् ॥
नियतस्य तु सन्न्यासः कर्म्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्त्तितः ॥
दुःखमित्येव यत् कर्म्म कायक्लेशभयात् त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥
कार्य्यमित्येव यत् कर्म्म नियतं क्रियतेऽर्ज्जुन ! ।
सङ्गं त्यक्त्वा फलञ्चैव स त्यागः सात्त्विको मतः ॥”
इति श्रीभगवद्गीतायाम् । १८ । २-९ ॥
(त्रि, दाता । यथा, ऋग्वेदे । ४ । २४ । ३ ।
“मिथो यत्त्यागमुभयासो अग्मन् नरः स्तोकस्य
तनयस्य सातौ ॥”
“उभयास उभये यजमानाः स्तोतारश्च त्यागं
त्थागकर्त्तारं दातारमिन्द्रं अग्मन् उपगच्छन्ति ॥”
इति सायनः ॥)

त्यागिमः, त्रि, (त्यागेन निर्वृत्तः । भावप्रत्ययत्वादि-

मप् ।) त्यक्तः । त्यागेन निष्पन्नः । इति व्याक-
रणम् ॥

त्यागी, [न्] त्रि, (त्यजतीति । त्यज् + “सम्पृ-

चानुरुधाङ्यमेति ।” ३ । २ । १४२ । इति
घिनुण् ।) दाता । (यथा, पञ्चतन्त्रे । ३ । २५९ ।
“त्यागिनि शूरे विदुषि च संसर्गरुचिर्जनो गुणी
भवति ॥”)
शूरः । इति मेदिनी । ने, ७१ ॥ वर्ज्जनशीलः ।
यथा, --
“यस्तु कर्म्मफलत्यागी स त्यागीत्यभिधीयते ॥”
इति भगवद्गीता । १८ । ११ ।
कर्म्मफलत्यागवान् । यथा, --
“न द्वेष्ट्यकुशलं कर्म्म कुशलेनानुषज्जते ।
त्यागी सत्त्वसमाविष्टो मेधावी च्छिन्नसंशयः ॥
न हि देहभृता शक्यं त्यक्तुं कर्म्माण्यशेषतः ।
यस्तु कर्म्मफलत्यागी स त्यागीत्यभिधीयते ॥”
इति श्रीभगवद्गीतायां १८ । १०-११ ।

त्याज्यः, त्रि, (त्यज्यते इति । त्यज + कर्म्मणि

ण्यत् । “त्यजेश्च ।” इति ७ । ३ । ६६ । इत्यस्य
वार्त्तिकोक्त्या न कुत्वम् ।) त्यागयोग्यः । वर्ज्ज-
नीयः । यथा, प्रायश्चित्ततत्त्वे ।
“तीरे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्म्मस्य विक्रयः ॥”
(यथा, च देवीभागवते । १ । ११ । ५९ ।
“तारामय्यनुरक्ता च यथा न तु तथा गुरौ ।
अनुरक्ता कथं त्याज्या घर्म्मतो न्घायतस्तथा ॥”)

त्रक, इ ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) दन्त्यवर्गादिः । इ, त्रङ्क्यते ।
ङ, त्रङ्कते । इति दुर्गादासः ॥

त्रग, इ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) इ, त्रङ्ग्यते । इति दुर्गादासः ॥

त्रङ्गः, पुं स्त्री, (त्रङ्गति शोभादिकं गच्छतीति ।

त्रङ्ग + अच् ।) पुरविशेषः । इति त्रिकाण्ड-
शेषः ॥

त्रद, इ चेष्टे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) दन्त्यवर्गाद्यादिः । इ, त्रन्द्यते
तत्रन्द । इति दुर्गादासः ॥

त्रप, ऊ ष मि ङ ह्रियि । इति कविकल्पद्रुमः ॥

(भ्वां-आत्मं-अकं-वेट् ।) ऊ, अत्रपिष्ट अत्रप्त ।
ष, त्रपा । मि, त्रपयति त्रापयति । ङ, त्रपते ।
ह्रियि लज्जायाम् । इति दुर्गादासः ॥

त्रपा, स्त्री पुं, (त्रप्यते इति । त्रप + “षिद्भिदा-

दिभ्योऽङ् ।” ३ । ३ । १०४ । इत्यङ् । तत-
ष्टाप् ।) लज्जा । इत्यमरः । १ । ७ । २३ ॥
(यथा, रत्नावल्याम् ।
“नीचं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा-
मन्तः कञ्चकिकञ्चुकस्य विशति त्रासादयं
वामनः ॥”
त्रपते अनया अस्याः वा । करणे अपादाने
वा अङ् ।) कुलटा । इति मेदिनी । पे, ७ ॥
कुलम् । कीर्त्तिः । इति शब्दरत्नावली ॥

त्रपाकः, पुं, (त्रपते लज्जते इति । त्रप + “आकः

खजादेः ।” १ । २१९ । इति उणादिकोष-
टीकाधृतसूत्रात् आकः ।) म्लेच्छविशेषः ।
इत्युणादिकोषः ॥

त्रपारण्डा, स्त्री, (त्रपायां रण्डेव । लज्जाहीन-

त्वादेव तथात्वम् ।) वेश्या । इति जटाधरः ॥

त्रपिष्ठः, त्रि, (अयमेषामतिशयेन तृप्रः । तृप्र +

“अतिशायने तमबिष्ठनौ ।” ५ । ३ । ५५ ।
इति इष्ठन् । “प्रियस्थिरेति ।” ६ । ४ । १५७ ।
इति तृप्रस्य त्रप्-आदेशः ।) अतिलज्जितः ।
इति मुग्धबोधम् ॥

त्रपीयान्, [स्] त्रि, (अयमनयोरतिशयेन तृप्रः ।

तृप्र + “द्विवचनविभज्योपपदे तरबीयसुनौ ।”
५ । ३ । ५७ । इति ईयसुन् । “प्रियस्थिरेति ।”
६ । ४ । १०७ । इति तृप्रस्य त्रबादेशः ।)
त्रपिष्ठः । इति व्याकरणम् ॥
पृष्ठ २/६५३

त्रपु, क्ली, (त्रपते अग्निस्पर्शेन लज्जते इव । त्रप

+ “शॄस्वृस्निहित्रपीति ।” उणां । १ । ११ ।
इति उः ।) सीसकम् । रङ्गम् । इति मेदिनी ।
पे, ६ ॥ (यथा, पञ्चतन्त्रे । १ । ८५ ।
“कनकभूषणसंग्रहणोचितो
यदि मणिस्त्रपुणि प्रतिबध्यते ।
न स विरौति न चाप्युपशोभते
भवति योजयितुर्वचनीयता ॥”)

त्रपुः, [स्] क्ली, (त्रपते वह्निं प्राप्य लज्जते इव ।

त्रप + “उस् स्यात्तपादेः स तु कित् ।” १ । ४६० ।
इति उणादिकोषटीकाधृतसूत्रात् उस् ।)
रङ्गम् । इत्युणादिकोषः ॥ (यथा, ग्रहभाव-
प्रकाशे ।
“भौमे त्रपुः शनौ लौहं राहावश्मानि कीर्त्त-
येत् ॥”
रङ्गशब्देऽस्य विवरणं ज्ञातव्यम् ॥)

त्रपुकर्कटी, स्त्री, (त्रपुवत् शुभ्रा कर्क्कटी ।)

त्रपुषी । इति राजनिर्घण्टः ॥

त्रपुटी, स्त्री, सूक्ष्मैला । इति रत्नमाला ॥

त्रपुलं, क्ली, (त्रपते वह्निसंस्पर्शेन लज्जते इव ।

त्रप + बाहुलकात् उलच् ।) रङ्गम् । इति
भरतकृतद्विरूपकोषः ॥

त्रपुषं, क्ली, (त्रप + बाहुलकादुषः ।) रङ्गम् ।

इति भरतकृतद्विरूपकोषः ॥ त्रपुषीफलम् ।
शसा इति भाषा । तत्पर्य्यायः । कण्टकिफलम्
२ सुधावासम् ३ सुशीतलम् ४ । तल्लघुफल-
गुणाः । नीलत्वम् । बलतृड्भ्रमदाहपित्तरक्त-
पित्तनाशित्वम् । स्वादुत्वम् । शीतत्वञ्च । तत्पक्व-
फलगुणाः । अस्लत्वम् । उष्णत्वम् । पित्तलत्वम् ।
कफवातनाशित्वञ्च । तद्बृहत्फलगुणाः । मूत्र-
लत्वम् । शीतत्वम् । रूक्षत्वम् । पित्तास्रकृच्छ्र-
नाशित्वञ्च । इति भावप्रकाशः ॥ अस्य सामान्य-
गुणाः । स्वादुत्वम् । गुरुत्वम् । विष्टम्भित्वम् ।
शीतलत्वम् । मुखप्रियत्वम् । रूक्षत्वम् । अति-
मूत्रलत्वञ्च । इति राजवल्लभः ॥

त्रपुषी, स्त्री, (त्रपुष + गौरादित्वात् ङीष् ।)

कर्क्कटी । इति हेमचन्द्रः । ४ । २५५ ॥ (यथा,
“पटोलकैर्व्वारुत्रपुष्यलावूः ॥”
इति हारीते प्रथमेस्थाने दशमेऽध्याये ॥)
दन्त्यसान्तोऽपि पाठः ॥

त्रपुसं, क्ली, (त्रपते वह्नियोगेन लज्जते इव । त्रप

+ बाहुलकात् उसः ।) रङ्गम् । इति राज-
निर्घण्टः ॥ कर्कटी । अस्य गुणा यथा, --
“बालं सुनीलं त्रपुसं तेषां पित्तहरं स्मृतम् ।
तत् पाण्डुकफकृज्जीर्णमस्लं वातकफापहम् ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥)

त्रपुसी, स्त्री, (त्रपुस + गौरादित्वात् ङीष् ।)

महेन्द्रवारुणी । कर्क्कठी । लताविशेषः । शसा
इति क्षीरा इति च भाषा । तत्पर्य्यायः ।
पीतपुष्पा २ काण्डालुः ३ त्रपुकर्क्कटी ४ बहु-
फला ५ कोषफला ६ तुन्दिलफला ७ कण्टकी-
लता ८ सुधावासा ९ । अस्याः फलस्य गुणाः ।
रुच्यत्वम् । मधुरत्वम् । शिशिरत्वम् । गुरुत्वम् ।
भ्रमपित्तविदाहार्त्तिवान्तिनाशित्वम् । बहुमूत्र-
दत्वञ्च । काण्डालुरित्यत्र कण्टालुरपि पाठः ।
इति राजनिर्घण्टः ॥ (अस्या व्यवहारो यथा,
सुश्रुते उत्तरतन्त्रे ४५ अध्याये ।
“त्रपुसीमूलकल्कं वा सक्षौद्रं तण्डुलाम्बुना ।
पिबेदक्षसमं कल्कं यष्टीमधुकमेव वा ॥”)

त्रप्स्यं, क्ली, (द्रप्स्यं निपातनात् दस्य तः ।)

द्रप्स्यम् । घनेतरदधि । इत्यमरटीकायां भरत-
धृतविद्याविनोदः ॥ पातला दै इति भाषा ॥

त्रयं, क्ली, (त्रयोऽवयवा यस्य । त्रि + “संख्याया

अवयवे तयप् ।” ५ । २ । ४२ । इति तयप् ।
“द्बित्रिभ्यां तयस्यायज्वा ।” ५ । २ । ४३ ।
इति तयस्यायच् ।) त्र्यवयवम् । इति मुग्ध-
बोधम् ॥ तिन इति भाषा ॥ (यथा, मनुः ।
२ । ७६ ।
“अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः ।
वेदत्रयात् निरदुहत् भूर्भुवःस्वरितीति च ॥”)

त्रयः, पुं, (तरतीति । तॄ + “तरतेर्ड्रिः ।” उणां

५ । ६६ । इति ड्रिः ।) त्रिसंख्या । तिन इति
भाषा । त्रिशब्दस्य बहुवचनान्तरूपोऽयम् ।
अस्य स्त्रीलिङ्गक्लीवलिङ्गयो रूपे तिस्रः त्रीणि ।
इति व्याकरणम् ॥ तद्वाचकानि यथा, --
कालः १ अग्निः २ भुवनम् ३ गङ्गामार्गः ४
शिवचक्षुः ५ गुणः ६ ग्रीवारेखा ७ कालिदास-
काव्यम् ८ वलिः ९ सन्ध्या १० पुरम् ११ पुष्क-
रम् १२ रामः १३ विष्णुः १४ ज्वरपादः १५ ।
इति कविकल्पलता ॥ त्रिसंख्याविशिष्टे, त्रि ।
इत्यमरः ॥
“तिस्रोभार्य्या त्रिशालाश्च त्रयो भृत्याश्च बान्धवाः ।
ध्रुवं वेदविरुद्धाश्च न ह्येते मङ्गलप्रदाः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥

त्रयी, स्त्री, (त्रय + “टिड्ढेति ।” ४ । १ । १५ ।

इति ङीप् ।) ऋक्सामयजुर्व्वेदा एतत्त्रितयम् ।
इत्यमरः । १ । ६ । ३ ॥ (यथा, मनुः । ७ । ४३ ॥
“त्रैविद्येभ्यस्त्रयींविद्यात् दण्डनीतिञ्च शाश्वतीम् ।
आन्वीक्षिकीञ्चात्मविद्यां वार्त्तारम्भांश्च
लोकतः ॥”)
पुरन्ध्री । सुमतिः । इति विश्वः ॥ सोमराजी-
वृक्षः । इति शब्दचन्द्रिका ॥ दुर्गा । यथा, --
“ऋग्यजुःसामभागेन साङ्गवेदगतापि वा ।
त्रयीति पठ्यते लोके दृष्टादृष्टार्थसाधिनी ॥”
इति देवीपुराणे ४५ अध्यायः ॥

त्रयीतनुः, पुं, (त्रयी वेदा एव तनुः शरीरं यस्य ।

“त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्य्यमात्मानं
यजन्ते ।” इति भागवतवाक्यात् । ५ । २० । ४ ।
अस्य तथात्वम् ।) सूर्य्यः । इति हलायुधः ॥

त्रयीधर्म्मः, पुं, (त्रय्या वेदत्रयेण विहितो धर्म्मः ।)

ऋग्यजुःसाम्नां विधानम् । त्रिवेदोक्तकर्म्म ।
इत्यमरः । १ । ६ । ३ ॥ (यथा, महाभारते ।
३ । १५० । ३२ ।
“सा चेद्धर्म्मकृता न स्यात्त्रयीधर्म्ममृते भुवि ॥”)

त्रयीमुखः, पुं, (त्रयी वेदा मुखे यस्य ।) ब्राह्मणः ।

इति हेमचन्द्रः । ३ । ४ । ७५ ॥

त्रयोदश, [न्] त्रि, (त्र्यधिका दश इति कर्म्म-

धारयः । “त्रेस्त्रयः ।” ६ । ३ । ४८ । इति
त्रयस् ।) संख्याविशेषः । १३ तेर इति भाषा ।
बहुवचनान्तोऽयम् । (यथा, मनुः । ९ । १२९ ।
“ददौ स दश धर्म्माय कश्यपाय त्रयोदश ॥”)
तत्संख्यायुक्तश्च । इत्यमरः ॥ तद्वाचकः ।
ताम्बूलगुणः १ । इति कविकल्पलता ॥

त्रयोदशः, त्रि, (त्रयोदशानां पूरणः । “तस्य

पूरणे डट् ।” ५ । २ । ४८ । इति डट् ।)
त्रयोदशानां पूरणः । इति व्याकरणम् ॥ तेरै
इत्यादि भाषा । (यथा, रामायणे । २ । ७७ । २२ ॥
“त्रयोदशोऽयं दिवसः पितुर्वृत्तस्य ते विभो ! ।
सावशेषास्थिनिचये किमिह त्वं विलम्बसे ॥”)

त्रयोदशी, स्त्री, (त्रयोदश + टित्त्वात् ङीप् ।)

तिथिविशेषः । सा चन्द्रस्य त्रयोदशकलाक्रिया-
रूपा त्रयोदशकलाक्रियावच्छिन्नकालरूपा वा ।
इति तिथ्यादितत्त्वम् ॥ तत्र जातस्य फलं यथा,
“रूपान्वितः सात्विकभावहीनः
सुखी च बाल्ये जननीप्रियश्च ।
सदालसः शिल्पगुणैकवेत्ता
त्रयोदशी जन्मतिथिर्यदि स्यात् ॥”
इति कोष्ठीप्रदीपः ॥
इयं धर्म्मस्य तिथिः । इति वराहपुराणम् ॥

त्रस, क धृतौ । ग्रहे । निषेधे । इति कविकल्पद्रुमः ॥

(चुरां-परं-सकं-सेट् ।) एतदाद्याश्चत्वारो रेफ-
युक्ताद्याः । क, त्रासयति मृगं व्याधः वधति
गृह्णाति निराकरोति वा इत्यर्थः । इति दुर्गा-
दासः ॥

त्रस, इ कि भासि । इति कविकल्पद्रुमः ॥ (चुरां-

पक्षे भ्वां-परं-अकं-सेट् ।) इ, त्रंस्यते । कि,
त्रंसयति त्रंसति । भासि दीप्तौ । इति दुर्गादासः ॥

त्रस, ई ण भये । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-सेट् । ईदित्वात् अनिड्निष्ठः ।) ई,
त्रस्तः । ण, त्रेसतुः तत्रसतुः । त्रसति । इति
दुर्गादासः ॥

त्रस, य ई भये । इति कविकल्पद्रुमः ॥ (दिवां-

परं-अकं-सेट् । ईदित्वादनिड्निष्ठः ।) य,
त्रस्यति । ई, त्रस्तः । इति दुर्गादासः ॥

त्रसं, क्ली, (त्रस्यति बिभेत्यस्मिन् इति । त्रस-

भये + घञर्थे कः ।) वनम् । इति त्रिकाण्ड-
शेषः ॥

त्रसः, त्रि, (त्रसतीति । त्रस भये + पचाद्यच् ।)

जङ्गमः । इत्यमरः । ३ । १ । ७४ ॥ (यथा,
महाभारते । १२ । ९ । १९ ।
“ऋजुः प्रणिहितो गच्छंस्त्रसस्थावरवर्ज्जकः ॥”)

त्रसरः, पुं, (त्रसन्ति घातूनामनेकार्थत्वात् सूत्राणि

वेष्टयन्त्यनेनेति । त्रस + बाहुलकात् अरन् ।)
तन्त्रवायोपकरणविशेषः । तासनी इति भाषा ।
तत्पर्य्यायः । सूत्रवेष्टनम् २ । इत्यमरः । ३ । २ । २४ ॥
तसरः ३ । इति भरतः ॥
पृष्ठ २/६५४

त्रसरेणुः, स्त्री, सूर्य्यभार्य्याविशेषः । इति त्रिकाण्ड-

शेषः ॥

त्रसरेणुः, पुं, (त्रसश्चञ्चलत्वात् भीत इव रेणुः ।)

त्रिंशत्परमाणुपरिमाणम् । स गवाक्षान्तर्गते
सूर्य्यकिरणे दृश्यते । तत्पर्य्यायः । ध्वंसी २ ।
यथा, वैद्यकपरिभाषायाम् ।
“जालान्तरगते सूर्य्यकरे ध्वंसी विलोक्यते ।
त्रसरेणुस्तु विज्ञेयस्त्रिंशता परमाणुभिः ॥”
(द्व्यणुकत्रयात्मकरेणुः । यथा, ब्रह्मवैवर्त्ते ।
“परमाणुद्वयेनाणुस्त्रसरेणुस्तु ते त्रयः ॥”
तथाच मनुः । ८ । १३२ ।
“जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः ।
प्रथमन्तत् प्रमाणानां त्रसरेणुं प्रचक्षते ॥”)

त्रसुरः, पुं, (त्रस्यतीति । त्रस भये + उरच् ।)

भीरुकः । इति संक्षिप्तसारे उणादिवृत्तिः ॥

त्रस्तः, त्रि, (त्रस भये + क्तः ।) भीतः । इति

जटाधरः ॥ (यथा, देवीभागवते । १ । ५ । २६ ।
“प्रत्यञ्चायां विमुक्तायां मुक्ता कोटिस्तथोत्तरा ।
शब्दः समभवद्घोरस्तेन त्रस्ताः सुरास्तदा ॥”)
शीघ्रे, क्ली । यथा, --
“सविरामं त्रितालञ्च एकं शून्यन्तथापरे ।
शेषे त्रस्तं त्रितालञ्च देवसार इतीर्य्यते ॥”
इति सङ्गीतदामोदरः ॥

त्रस्नुः, त्रि, (त्रस्यतीति । त्रस भये + “त्रसि-

गृधिधृषिक्षिपेः क्नुः ।” ३ । २ । १४० । इति
क्नुः ।) त्रासशीलः । इत्यमरः । ३ । १ । २६ ॥
(यथा, भट्टिः । ६ । ७ ।
“सीतां सौमित्रिणा त्यक्तां सध्रीचीं त्रस्नुमेकि-
काम् ।
विज्ञायामंस्त काकुत्स्थः क्षये क्षेमं सुदुर्ल्लभम् ॥”)

त्रा, ङ पालने । इति कविकल्पद्रुभः ॥ (भ्वां-

आत्मं-सकं-अनिट् ।) त्रै ङ पालन इत्यत्र
कैश्चिददादौ त्रा पठ्यते । इति क्रमदीश्वरः ॥
इति कविकल्पद्रुमटीकायां दुर्गादासः ॥

त्राणं, क्ली, (त्रै + भावे ल्युट् क्तो वा । नुदविदेति

पक्षे नत्वम् ।) रक्षणम् । (यथा, शाकुन्तले
१ अङ्के ।
“आर्त्तत्राणाय वः शस्त्रं न प्रहर्त्तुमनागसि ॥”
त्रायते इति कर्त्तरि ल्युः । रक्षिता । यथा,
महाभारते । १ । २३ । १८ ।
“त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम् ॥”
तथाच रघौ । १५ । ३ ।
“अवेक्ष्य रामं ते तस्मिन् न प्रजह्रुः स्वतेजसा ।
त्राणाभावे हि शापास्त्राः कुर्व्वन्ति तपसो
व्ययम् ॥”
त्रायतेऽनेनेति करणे ल्युट् । कवचम् । अस्त्रम् ।
यथा, महाभारते । ३ । १६८ । १४ ।
“दंशिता विविधैस्त्राणैर्षिचित्रायुधपाणयः ॥”)
त्रायमाणालता । रक्षिते, त्रि । इति मेदिनी ।
णे, १४ ॥

त्राणा, स्त्री, (त्रायते पालयतीति । त्रै + ल्युः ।

टाप् ।) त्रायमाणा । इति राजनिर्घण्टः ॥

त्रातं, त्रि, (त्रै + क्तः नुदविदेति नत्त्वाभावः ।)

रक्षितम् । इत्यमरः । ३ । १ । १०६ ॥ (यथा,
मार्कण्डेये । ८४ । २२ ।
“त्रैलोक्यमेतदखिलं रिपुनाशनेन
त्रातं त्वया समरमूर्द्धनि तेऽपि हत्वा ।
नीता दिवं रिपुगणा भयमप्यपास्त-
मस्माकमुन्मदसुरारिभवन्नमस्ते ॥”
भावे क्तः ।) रक्षणे, क्ली ॥

त्रापुषं, त्रि, (त्रपुषेण निर्वृत्तम् । त्रपुष + “तेन

निर्वृत्तम् ।” ४ । २ । ६८ । इत्यण् ।) त्रपुष-
निर्म्मितम् । इति व्याकरणम् ॥ (त्रपुणो विकारः ।
“त्रपुजतुनोः षुक् ।” ४ । ३ । १३८ । इत्यण्
षुगागमश्च । रङ्गस्य विकारः । इति सिद्धान्त-
कौमुदी ॥)

त्रायन्ती, स्त्री, (त्रै + सम्पदादित्वात् क्विप् । त्रां

त्राणं अयतीति । इ गतौ + शतृ । यद्वा, त्रै
ङ पालने + क्वचित् आत्मनेपदी धातुरपि पर-
स्मैपदमिछतीति न्यायात् शतृ । “उगितश्च ।”
इति ङीप् ।) त्रायमाणा लता । इत्यमरः । २ ।
४ । १५० ॥ (यथा, --
“त्रायन्ती तु वरा तिक्ता सरा पित्तकफापहा ।
ज्वरहृद्रोगगुल्मार्शोभ्रमशूलविषप्रणुत् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
त्राणकर्त्री च ॥

त्रायमाणं, त्रि, (त्रायते इति । त्रै + कर्म्मणि

शानच् ।) रक्ष्यमाणम् । इति व्याकरणम् ॥
(यथा, अथर्व्ववेदे । ६ । ४ । १ ।
“त्वष्टा मे दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः ।
पुत्त्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रायमाणं
सहः ॥”)

त्रायमाणा, स्त्री, (त्रायते इति । त्रै + शानच् ।)

बला इति बहुला इति च ख्याता । तत्पर्य्यायः ।
वार्षिकम् २ त्रायन्ती ३ बलभद्रिका ४ । इत्य-
मरः । २ । ४ । १०५ ॥ कृतत्रा ५ त्रायमाणिका ६
बलभद्रा ७ सुकामा ८ वार्षिकी ९ गिरिजा १०
अनुजा ११ माङ्गल्यार्हा १२ देवबला १३
पालिनी १४ भयनाशिनी १५ अवनी १६
रक्षणी १७ त्राणा १८ । इति राजनिर्घण्टः ॥
सुभद्राणी १९ भद्रनामिका २० । इति रत्न-
माला ॥ अस्य गुणाः । शीतत्वम् । मधुरत्वम् ।
गुल्मज्वरकफास्रभ्रमतृष्णाक्षयग्लानिविषच्छर्द्दि-
विनाशित्वञ्च । इति राजनिर्घण्टः ॥ पित्त-
नाशित्वम् । इति राजवल्लभः ॥ (यथा, --
“पटोलं पिचुमर्द्दञ्च दार्व्वीं कटुकरोहिणीम् ।
षष्ठ्याह्वां त्रायमाणाञ्च दद्याद्बीसर्पशान्तये ॥”
इति चरके चिकित्सास्थाने एकादशेऽध्याये ॥)

त्रासः, पुं, (त्रस + भावे घञ् ।) भयम् । इत्यमरः ।

१ । ७ । २१ ॥ (यथा आर्य्यासप्तशत्याम् । ३७६ ।
“प्रणयचलितोऽपि सकपटकोपकटाक्षैर्भया-
हितस्तम्भः ।
त्रासतरलो गृहीतः सहासरभसं प्रियः कण्ठे ॥”)
मणेर्दोषः । इति मेदिनी । से, ४ ॥

त्रासदायी, [न्] त्रि, (त्रासं भयं ददातीति ।

दा + णिनिः ।) भयदाता । तत्पर्य्यायः । शङ्कुरः
२ । इति हेमचन्द्रः । ३ । १४३ ॥

त्रिंशः, त्रि, (त्रिंशत् + “तस्य पूरणे डट् ।” ५ ।

२ । ४८ । इति डट् ।) त्रिंशतः पूरणः । इति
व्याकरणम् ॥ (यथा, तिथ्यादितत्त्वे ।
“त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते ॥”)

त्रिंशकः, त्रि, त्रिंशत्समूहः । समूहार्थे डक-

प्रत्ययः । इति सुपद्मव्याकरणम् ॥ (त्रिंशता
क्रीतः । त्रिंशत् + “विंशतित्रिंशद्भ्यां ड्वुन्न-
संज्ञायाम् ।” ५ । १ । २४ । इति असंज्ञायां
ड्वुन् । त्रिंशत्संख्यकद्रव्येण क्रीतः । इति
सिद्धान्तकौमुदी ॥)

त्रिंशत्, स्त्री, (त्रयोदशतः परिमाणमस्य । “पङ्क्ति-

त्रिंशदिति ।” ५ । १ । ५९ । इति निपातनात्
साधुः ।) संख्याविशेषः । त्रिश इति भाषा ।
एकवचनान्तोऽयम् । त्रिंशद्द्वये त्रिंशतौ ।
त्रिंशतो बहुत्वे त्रिंशतः । इति व्याकरणम् ॥
(यथा, मनुः । १ । २२ ।
“निमेषा दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कलाः ।
त्रिंशत्कला मुहूर्त्तः स्यादहोरात्रन्तु तावतः ॥”)

त्रिंशत्पत्रं, क्ली, (त्रिंशत्संख्यकानि पत्राणि

दलानि यस्य ।) कुमुदम् । इति शब्दमाला ॥

त्रिकं, क्ली, (त्रयाणां सङ्घः । “संख्यायाः संज्ञा-

सङ्घसूत्राध्ययनेषु ।” ५ । १ । ५८ । इति कन् ।)
पृष्ठवंशाधरः । इत्यमरः । २ । ६ । ७६ ॥ (यथा,
माघे । १२ । १० ।
“नस्या गृहीतोऽपि धुवन्विषाणयो-
र्युगं ससूत्कारविवर्त्तितत्रिकः ॥”)
त्रयम् । इति मेदिनी । के, २६ ॥ (यथा,
मनुः । ७ । ५१ ।
“दण्डस्य पातनञ्चैव वाक्पारुष्यार्थदूषणे ।
क्रोधजेऽपि गणे विद्यात् कष्टमेतत्त्रिकं सदा ॥”)
त्रिपथसंस्थानम् । इति हेमचन्द्रः । ४ । ५२ ॥
त्रिफला । त्रिकटु । त्रिमदः । यथा, सुखबोधे ।
गुडूचीसारसंयुक्तात्त्रिकत्रयसमन्वयात् ।
वातरक्तं निहन्त्याशु सर्व्वरोगहरन्त्वयः ॥”
(तृतीयेन रूपेण ग्रहणं यस्य । तृतीय +
“तावतिथं ग्रहणमिति लुग्वा ।” ५ । २ । ७७ ।
इति कन् पूरणप्रत्ययस्य च लुक् । तृतीयके,
त्रि । यथा, मनुः । ८ । १४२ ।
“द्विकं त्रिकं चतुष्कञ्च पक्षकञ्च शतं समम् ।
मासस्य वृद्धिं गृह्णीयात् वर्णानामनुपूर्ब्बशः ॥”)

त्रिककुत्, [द्] पुं, (त्रीणि ककुत्-सदृशानि ध्वज-

तुल्याणि शृङ्गाणि यस्य ।) त्रिकूटपर्व्वतः ।
इत्यमरः । २ । ३ । २ ॥ (यथा, शतपथब्राह्मणे ।
३ । १ । ३ । १२ । “यत्र वा इन्द्रो वृत्रमहं-
स्तस्य यदक्ष्यासीत्तं गिरिं त्रिककुदमकरोत् ॥”
विष्णोर्नामविशेषः । यथा, महाभारते । १२ ।
३४२ । ९० ।
“तथैवासं त्रिककुदो वाराहं रूपमास्थितः ।
त्रिककुत्त्वेन विख्यातः शरीरस्य प्रमापणात् ॥”
पृष्ठ २/६५५
दशरात्रसाध्ययज्ञविशेषः । यथा, तैत्तिरीय-
संहितायाम् । ७ । २ । ५ । २ ।
“त्रिककुद्वा एष यज्ञो यद्दशरात्रः ककुत्पञ्च-
दशः ककुदेकविंशः कुकुत्त्रयस्त्रंशो य एवं
विद्वान् दशरात्रेण यजते त्रिककुदेव समानानां
भवति ॥”)

त्रिकटः, पुं, (त्रीन् वातपित्तश्लेष्मदोषान् कटति

नाशयतीति । कट + अच् ।) गोक्षुरकः । इति
शब्दरत्नावली ॥

त्रिकटु, क्ली, (त्रयाणां कटूनां शुण्ठीमरीचपिप्प-

लीनांसमाहारः ।) मिश्रितशुण्ठीमरीचपिप्पल्यः ।
तत्पर्य्यायः । त्र्युषणम् २ व्योषम् ३ । इत्यमरः ।
२ । १० । १११ ॥ कटुत्रयम् ४ कटुत्रिकम् ५ ।
अस्य गुणाः । दीपनत्वम् । श्वासकासत्वगामय-
गुल्ममेहकफस्थौल्यमेदःश्लीपदपीनसनाशित्वञ्च ।
इति राजनिर्घण्टः ॥ तन्नामगुणाः ।
“विश्वोपकुल्या मरिचं त्रयं त्रिकटु कथ्यते ।
कटुत्रयन्तु त्रिकटु त्र्युषणं व्योषमुच्यते ॥
त्र्युषणं दीपनं हन्ति श्वासकासत्वगामयान् ।
गुल्ममेहकफस्थौल्यमेदःश्लीपदपीनसान् ॥”
इति भावप्रकाशः ॥

त्रिकण्टं, क्ली, (त्रयाणां कण्टानां बृहत्यग्निदमनी-

दुस्पर्शारूपाणां समाहारः ।) मिलितबृहत्यग्नि-
दमनीदुस्पर्शात्रयरूपम् । तत्पर्य्यायः । कण्ट-
कारीत्रयम् २ कण्टकत्रयम् ३ । इति राज-
निर्घण्टः ॥

त्रिकण्टः, पुं, (त्रीणि कण्टानि कण्टकानि यस्य ।)

गोक्षुरकः । इति शब्दरत्नावली ॥ पत्रगुप्तवृक्षः ।
इति शब्दचन्द्रिका ॥ तेकाँटासिज इति भाषा ।
मत्स्यभेदः । टेङ्गरा इति भाषा । अस्य गुणाः ।
पित्तकफनाशित्वम् । रूक्षत्वम् । अग्निदीपन-
त्वम् । लघुत्वञ्च । इति राजवल्लभः ॥
(पर्य्यायोऽस्य यथा, वैद्यकरत्नमालायाम् ॥
“त्रिकण्टः स्थलशृङ्गाटो गोकण्टोऽथ त्रिकण्टकः ।
त्रिपुटः कण्टकफलः श्वदंष्ट्रा गोक्षुरः क्षुरः ॥”)
कण्टकः, पुं, (त्रीणि कण्टकानि यस्य ।) लघु-
गर्गमत्स्यः । इति त्रिकाण्डशेषः ॥ गोक्षुरक-
वृक्षः । इति हेमचन्द्रः । ४ । २२२ ॥ (यथा, --
“त्रिकण्टः स्थलशृङ्गाटो गोकण्टोऽथ त्रिक-
ण्टकः ॥”
इति वैद्यकरत्नमालायाम् ॥)

त्रिका, स्त्री, (तिस्रोऽस्रयो यस्याः । “संख्यायाः

संज्ञासङ्घसूत्राध्ययनेषु च ।” ५ । १ । ५८ । इति
कन् । ततष्टाप् ।) कूपोपरिस्थपट्टप्रान्तभागः ।
भूमिष्ठकूपपट्टम् । इत्यन्ये ॥ कूपस्य समीपे
रज्जुधारणार्थं त्रिस्त्रिदारुयन्त्रम् । इति स्वामी ॥
इत्यमरटीकायां भरतः ॥

त्रिकायः, पुं, (त्रिकं आध्यात्मिकाधिभौतिकाधि-

दैविकदुःखत्रयं अयति गच्छत्यस्मादिति । अय
गतौ + अपादाने घञ् । यद्वा, त्रिकं त्रिकाल-
मयति वेत्तीति । अय + अच् ।) बुद्धः । इति
हेमचन्द्रः । २ । १४८ ॥

त्रिकार्षिकं, क्ली, (कर्षाय हितम् कार्षिकम् ।

त्रयाणां कार्षिकाणां समाहारः ।) मिलित-
नागरातिविषामुस्तात्रयरूपम् । इति राज-
निर्घण्टः ॥

त्रिकालज्ञः, पुं, (त्रिकालं वर्त्तमानातीतभवि-

ष्यत्कालविवरणं जानातीति । ज्ञा + “आतो-
ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) बुद्धः ।
इति हेमचन्द्रः । २ । १४६ ॥ सर्व्वज्ञे, त्रि ॥
(यथा, बृहत्संहितायाम् । १७ । १ ।
“युद्धं यथा यदा वा भविष्यदादिश्यते त्रिका-
लज्ञैः ॥”)

त्रिकालदर्शी, [न्] पुं, (त्रिकालं वर्त्तमानातीत-

भविष्यद्रूपं पश्यतीति । दृश + णिनिः ।) ऋषिः ।
इति हलायुधः ॥ भूतभविष्यद्वर्त्तमानवेत्तरि, त्रि ॥
(यथा, बृहसंहितायाम् । २१ । ४ ।
“प्रध्वंसिन्यपि काले त्रिकालदर्शी कलौ
भवति ॥”)

त्रिकालवित्, पुं, (त्रिकालं वेत्तीति । विद् +

क्विप् ।) बुद्धः । इति हलायुधः ॥ त्रिकालज्ञे, त्रि ॥

त्रिकूटं, क्ली, (त्रिकूटः पर्व्वतः उत्पत्तिस्थानत्वे-

नास्त्यस्येति अर्श आदित्वादच् ।) सिन्धुलवणम् ।
सामुद्रलवणम् । इति रत्नमाला ॥

त्रिकूटः, पुं, (त्रीणि कूटानि शृङ्गाणि यस्य ।)

पर्व्वतविशेषः । यस्योपरि लङ्का । (यथा, रामा-
यणे । ५ । २ । १ ।
“स सागरमनाधृष्यमतिक्रम्य महाबलः ।
त्रिकूटस्य तटे लङ्कां स्थितः स्वस्थो ददर्श ह ॥”)
तत्पर्य्यायः । त्रिककुत् २ । इत्यमरः । २ । ३ । २ ॥
सुवेलः ३ त्रिमुकुटः ४ । इति हेमचन्द्रः ॥
त्रिशृङ्गः ५ । चित्रकूटकः ६ । इति शब्दरत्ना-
वली ॥ (अयन्तु पीठस्थानानामन्यतमः । अत्र
भगवती रुद्रसुन्दरीरूपेण विराजते । यथा,
देवीभागवते । ७ । ३० । ६६ ।
“नारायणी सुपार्श्वे तु त्रिकूटे रुद्रसुन्दरी ॥”)
क्षीरोदसमुद्रतीरस्थपर्व्वतः । यथा, --
“सर्व्वरत्नमयः श्रीमान् त्रिकूटो नामः पर्व्वतः ।
सुतः पर्व्वतराजस्य सुमेरोर्भास्करद्युतेः ॥
क्षीरोदजलवीच्या यो धौतामलशिलातलः ।
उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः ॥
अप्सरोभिः परिवृतः श्रीमान् प्रस्रवणाकुलः ।
गन्धर्व्वैः किन्नरैर्यक्षैः सिद्धचारणपन्नगैः ॥
विद्याधरैः सपत्नीकैः संयुतैस्तु तपस्विभिः ।
मृगद्वीपिगजेन्द्रैश्च वृतगात्रो विराजते ॥
पुन्नागैः कर्णिकारैश्च विल्वामलकपाटलैः ।
चूतनिम्बकदम्बैश्च चन्दनागुरुचम्पकैः ॥
शालैस्तालैस्तमालैश्च शरलार्ज्जुनपिप्पलैः ।
तथान्यैर्व्विविधैर्वृक्षैः सर्व्वतः समलङ्कृतः ॥
नानाधात्वङ्कितैः शृङ्गैः प्रस्रवद्भिः समन्ततः ।
शोभितो रुचिरप्रख्यैस्त्रिभिर्व्वर्णैश्च सानुभिः ॥
मृगैः शाखामृगैः सिंहैर्म्मातङ्गैश्च सदामदैः ।
जीवञ्जीवकसंधुष्टैश्चकोरशिखिनादितैः ॥
तस्यैकं काञ्चनं शृङ्गं सेवते यद्दिवाकरः ।
नानापुष्पसमायुक्तं नानागन्धाधिवासितम् ॥
द्वितीयं राजतं शृङ्गं सेवते यन्निशाकरः ।
पाण्डराम्बुदसं काशं तुषारचयसन्निभम् ॥
वज्रेन्द्रनीलवैदूर्य्य्यतेजोभिर्भासयन् दिशः ।
तृतीयं ब्रह्मसदनं प्रकृष्टं शृङ्गमुत्तमम् ॥
न तत् कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ।
नातप्ततपसो लोके ये च पापकृतो जनाः ॥
तस्य सानुमतः पृष्ठे सरः काञ्चनपङ्कजम् ।
कारण्डवसमाकीर्णं राजहंसोपशोभितम् ॥
गजो ह्यचलसंकाशो मदाच्चलितलोचनः ।
तृषितः पातुकामोऽसाववतीर्णश्च तज्जलम् ॥
स लीनः पङ्कजवने यूथमध्यगतश्चरन् ।
गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्त्तिना ॥
गरुडस्थो जगन्नाथो लोकाधारस्तपोधन ! ।
ग्राहग्रस्तं गजेन्द्रं तं तञ्च ग्राहं जलाशयात् ॥
उज्जहाराप्रमेयात्मा तरसा मधुसूदनः ।
स्थलस्थं दारयामास ग्राहं चक्रेण माधवः ॥
मोक्षयामास नागेन्द्रं पापेभ्यः शरणागतम् ॥”
इति वामनपुराणम् ॥
(घोटकविशेषः । यथा, नकुलकृताश्वचिकित्-
सिते । ४ । ९ ।
“त्रयो यस्य ललाटस्था आवर्त्ता अधरोत्तराः ।
त्रिकूटः स परिज्ञेयो वाजिवृद्धिकरः परः ॥”)

त्रिकूटलवणं, क्ली, (त्रिकूर्ट सामुद्रमिव लवणम् ।)

द्रोणीलवणम् । इति राजनिर्घण्टः ॥

त्रिकोणं, क्ली, (त्रयः कोणा यस्य ।) योनिः ।

इति शब्दार्थकल्पतरुः ॥ (कामरूपपीठ-
विशेषः । यथा, शब्दार्थचिन्तामणिधृतवचनम् ।
“करतोयां समारभ्य यावद्दिक्करवासिनी ।
शतयोजनविस्तारं त्रिकोणं सर्व्वसिद्धिदम् ॥”)
लग्नात् नवपञ्चमलग्ने । इति दीपिका ॥ (त्रिभुज-
क्षेत्रभेदः । इति लीलावती ॥) त्र्यस्रे, त्रि ।
त्रिकोणवस्तूनि यथा । हलः १ शिवचक्षुः २
कामाख्या ३ वह्निमण्डलम् ४ एकारः ५ वज्रम्
६ शृङ्गाटम् ७ शकटादि ८ योनिः ९ । इति
कविंकल्पलता ॥

त्रिकोणफलं, क्ली, (त्रिकोणं त्र्यस्रं फलं यस्य ।)

शृङ्गाटकम् । इति भावप्रकाशः ॥

त्रिक्षारं, क्ली, (त्रयाणां क्षाराणां समाहारः ।)

क्षारत्रयम् । मिलितस्वर्जिकाक्षारयवक्षार-
टङ्कणक्षाराणि । इति राजनिर्घण्टः ॥ (यथा,
वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधिकारे ।
“सर्ज्जिका टङ्कणञ्चैव यवक्षार उदाहृतः ॥”)

त्रिक्षुरः, पुं, (त्रीणि क्षुराणीवाग्राणि यस्य ।)

कोकिलाक्षवृक्षः । इति रत्नमाला ॥ कुलेखारा
इति भाषा ॥

त्रिखं, क्ली, त्रपुषम् । इति शब्दचन्द्रिका ॥

त्रिखट्टं, क्ली, तिसृणां खट्टानां समाहारः । खट्टा-

त्रयम् । इत्यमरः । ३ । ५ । ४१ ॥

त्रिखट्टी, स्त्री, (तिसृणां खट्टानां समाहारः ।

“द्विगोः ।” ४ । १ । २१ । इति ङीप् ।) त्रिख-
ट्टम् । इत्यमरः । ३ । ५ । ४१ ॥
पृष्ठ २/६५६

त्रिगणः, पुं, (त्रयाणां धर्म्मार्थकामानां गणो

वर्गः ।) त्रिवर्गः । धर्म्मार्थकामाः । इत्यमर-
टीकायां नीलकण्ठः ॥ (यथा, किरातार्ज्जुनीये ।
१ । ११ ।
“गुणानुरागादिव सख्यमीयिवा-
न्न वाधतेऽस्य त्रिगणः परस्परम् ॥”)

त्रिगर्त्तः, पुं, (त्रयो गर्त्ता यत्र ।) देशविशेषः ।

लाहोराख्यदेशैकभागः । तत्पर्य्यायः । जाल-
न्धरः २ । इति हेमचन्द्रः । ४ । २४ ॥ (देशो-
ऽयं कूर्म्मविभागे उत्तरस्यामुक्तः । यथा, बृहत्-
संहितायाम् । १४ । २५ ।
“उत्तरतः कैलासः” इत्युपक्रम्य, --
“त्रिगर्त्ततुरगाननाश्वमुखाः ॥”
इत्युक्तवान् ॥)
तद्देशस्थे पुं भूम्नि । (यथा, महाभारते । २ ।
२७ । १८ ।
“ततस्त्रिगर्त्ताः कौन्तेयं दार्व्वाः कोकनदास्तथा ।
क्षत्त्रिया बहवो राजन्नुपावर्त्तन्त सर्व्वशः ॥”)
गणितान्तरम् । इति मेदिनी । ते, ११३ ॥

त्रिगर्त्तकः, पुं, (त्रिगर्त्त एव । स्वार्थे कन् ।)

त्रिगर्त्तदेशः । इति त्रिकाण्डशेषः ॥

त्रिगर्त्ता, स्त्री, (त्रयो गर्त्ता यस्याः ।) घुर्घुरिका ।

(त्रयो बहवो गर्त्ता इव योनिद्वाराणि यस्याः ।)
कामुकाङ्गना । इति मेदिनी । ते, ११३ ॥

त्रिगर्त्तिकः, पुं, (त्रयो गर्त्ताः सन्ति यत्र । त्रिगर्त्त

+ बहुलवचनात् ठन् ।) त्रिगर्त्तदेशः । इति
भूरिप्रयोगः ॥

त्रिगुणं, क्ली, (त्रयाणां सत्त्वरजस्तमसां गुणानां

समाहारः ।) सत्त्वरजस्तमांसि । इति श्रीभाग-
वतम् ॥ (प्रधानः । यथा, भागवते । ४ । २४ । २८ ।
“यः परं रहसः साक्षात्त्रिगुणाज्जीवसंज्ञितात् ।”
“रहसः सूक्ष्मात् त्रिगुणात् प्रधानात् जीव-
संज्ञितात् पुरुषाच्च परम् ॥” इति तट्टीकायां
स्वामी ॥) त्रयाणां पूरणे गुणत्रययुक्ते च त्रि ॥
(यथा, मनुः । १ । १५ ।
“महान्तमेव चात्मानं सर्व्वाणि त्रिगुणानि च ।
विषयाणां ग्रहीतॄणि शनैः पञ्चेन्द्रियाणि च ॥”
त्रयो गुणा आवृत्तयो यस्य । त्रिभिर्गुणिते ।
यथा, रघुः । २ । २५ ।
“सप्त व्यतीयुस्त्रिगुणानि तस्य
दिनानि दीनोद्धरणोचितस्य ॥”)

त्रिगुणा, स्त्री, (त्रयो गुणा यस्याः ।) दुर्गा ।

यथा, देवीपुराणे ४५ अध्याये ।
“पदैस्त्रिभिर्व्वलिर्बद्धो रागादित्रिपदाथ वा ।
उत्पत्तिस्थितिनाशेषु रजादित्रिगुणा मता ॥”
(तथाच देवीभागवते । १२ । ६ । ६५ ।
“त्रिगुणा त्रिपदा तन्द्रीस्तुलसी तरुणातरुः ॥”
स्वनामख्यातो बीजभेदः । इति तन्त्रसारः ॥)

त्रिगुणाकृतं, त्रि, (त्रिगुणं कर्षणं कृतम् । त्रिगुण

+ कृतम् । “संख्यायाश्च गुणान्तायाः ।” ५ ।
४ । ५९ । इति डाच् ।) वारत्रयकृष्टक्षेत्रम् ।
इत्यमरः । २ । ९ । ९ ॥

त्रिजटा, स्त्री, (तिस्रो जटा यस्याः ।) राक्षसी-

विशेषः । यथा, --
“सीतां ताभिरनार्य्याभिर्दृष्ट्वा सन्तर्ज्जितां तदा ।
राक्षसी त्रिजटा वृद्धा प्रबुद्धा वाक्यमब्रवीत् ॥”
इति रामायणे सुन्दरकाण्डे २७ अध्यायः ॥ * ॥
विल्ववृक्षः । यथा, ज्ञानभैरवतन्त्रे ६ पटोले ।
“शृणु देवि ! प्रवक्ष्यामि रहस्यं त्रिजटोत्तमम् ।
पत्रं ब्रह्ममयं देवि ! अद्भुतं वरवर्णिनि ! ॥
श्रीशैलशिखरे जातः श्रीफलः श्रीनिकेतनः ।
विष्णुप्रीतिकरश्चैव मम प्रीतिकरः सदा ॥
ब्रह्मविष्णुशिवाः पत्रे वृन्तञ्च शक्तिरूपिणी ।
वृन्तमूले तु वज्रं स्यात् पत्रं ब्रह्म त्विदं प्रिये ! ॥
एकञ्च त्रिजटापत्रैर्हरं वा हरिमर्च्चयेत् ।
कैवल्यं तस्य तेनैव शक्तिपूजा विशेषतः ॥”
अन्यत् विल्वशब्दे द्रष्टव्यम् ॥ (भगवती । सा च
गायत्त्रीस्वरूपा । यथा, देवीभागवते । १२ । ६ । ७२ ।
“त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः ॥”)

त्रिजातकं, क्ली, (त्रिगुणितं जातं सुगन्धिद्रव्य-

रूपम् । ततः स्वार्थे कन् ।) मिलिततुल्य-
त्वगेलापत्राणि । यथा, --
“एलादित्रिभिरुद्दिष्टं त्रिजातं त्रिसुगन्धिकम् ।
चातुर्जातं सनागन्तु द्वयं वातकफापहम् ॥”
अपि च ।
“त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम् ।
नागकेशरसंयुक्तं चातुर्जातकमुच्यते ॥”
इति स्रजनिर्घण्टः ॥
(अस्य लक्षणपर्य्याया यथा, --
“त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम् ।
तद्द्वयं रेचनं रूक्षं तीक्ष्णोष्णं मुखगन्धहृत् ।
लघुपित्ताग्निकृद्बल्यं कफवातविषापहम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

त्रिणं, क्ली, (तृण + पृषोदरादित्वात् साधुः ।)

तृणम् । इति शब्दरत्नावली ॥ (यथा, तृण-
शब्दव्युत्पत्तौ उज्ज्वलदत्तः । ५ । ८ ।
“रेफेकारसंयुक्तमव्युत्पन्नं शब्दान्तरमस्ति ।
‘उत्क्षिप्तत्रिणपत्रपांशुविहगः सौम्यस्वनः
पूजितः ।’
इति वराहः ॥”)

त्रिणता, स्त्री, (त्रिषु स्थानेषु नता । “पूर्ब्बपदात्

संज्ञायामगः ।” ८ । ४ । ३ । इति णत्वम् ।)
धनुः । इति त्रिकाण्डशेषः ॥ (यथा, माघे ।
१९ । ६१ ।
“स्वगुणेराप्तफलप्राप्तेराकृष्य गणिका इव ।
कामुका इव नालीकांस्त्रिणताः सहसामुचन् ॥”
त्रिणस्य भावः । त्रिण + तल् ।) त्रिणत्वञ्च ।
(त्रिषु स्थानेषु नते, त्रि । यथा, रामायणे ।
६ । २० । २८ ।
“भिन्नमुष्टिपरिध्वस्तं त्रिणतं रुक्मरञ्जितम् ।
बाणपातान्तरे रामः पतितं पुरुषर्षभम् ।
शयानं लक्ष्मणं दृष्ट्वा निराशो जीवितेऽभवत् ॥”)

त्रिणाचिकेतः, पुं, (त्रिकृत्वश्चितो नाचिकेतोऽग्नि-

र्येन । पूर्ब्बपदादिति णत्वम् ।) यवुर्व्वेदैक-
देशो ग्रन्थः । तद्वेदाध्यायी । (यथा, मनुः ।
३ । १८५ ।
“त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ॥”
“त्रिणाचिकेतः अध्वर्य्युवेदभागस्तद्व्रतञ्च तद्-
योगात् पुरुषोऽपि त्रिणाचिकेतः ॥” इति तट्टी-
कायां कुल्लूकभट्टः ॥ नारायणस्य नामविशेषः ।
यथा, महाभारते १२ । ३३८ । ४ ।
“पञ्चाग्ने ! त्रिणाचिकेत ! षडङ्गनिधान ! ॥”)

त्रितक्षं, क्ली स्त्री, त्रयाणां तक्षाणां समाहारः ।

तक्षत्रयम् । इत्यमरः । ३ । ५ । ४१ ॥

त्रितयं, क्ली, (त्रयोऽवयवा अस्य । त्रि +

“संख्याया अवयवे तयप् ।” ५ । २ । ४२ ।
इति तयप् ।) त्रयम् । इति व्याकरणम् ॥
(यथा, महाभारते । १३ । १११ । १८ ।
“धर्म्मश्चार्थश्च कामश्च त्रितयं जीविते फलम् ।
एतत्त्रयमवाप्तव्यमधर्म्मपरिवर्ज्जितम् ॥”
त्रिप्राकारे, त्रि । यथा, पञ्चदश्याम् । १ । ४६ ।
“त्रितयीमपि तां मुक्त्रा परस्परविरोधिनीम् ।
अखण्डं सच्चिदानन्दं महावाक्येन लक्ष्यते ॥”)

त्रिदण्डः, पुं, (त्रिदण्डं चतुरङ्गुलगोबालवेष्टना-

दन्योन्यसम्बन्धं अस्त्यस्येति । अर्शआदित्वा-
दच् ।) सन्न्यासाश्रमः । यथा, --
“यस्त्वसंयतषड्वर्गः प्रचण्डेन्द्रियसारथिः ।
ज्ञानवैराग्यरहितस्त्रिदण्डमुपजीवति ॥”
इति श्रीभागवतम् ॥
(त्रयाणां दण्डानां समाहारः । यतित्रिदण्डे,
क्ली । यथा, महाभारते । १२ । ३२० । १५५ ।
“सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः ।
अन्योन्यगुणयुक्तस्य कः केन गुणतोऽधिकः ॥”
कायवाङ्मनोदण्डत्रये । यथा, मनुः । १२ । ११ ।
“त्रिदण्डमेतन्निक्षिप्य सर्व्वभूतेषु मानवः ।
कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति ॥
“सत्त्वमात्मा शरीरञ्च त्रयमेतत्त्रिदण्डवत् ।
लोकास्तिष्ठति संयोगात्तत्र सर्व्वं प्रतिष्ठितम् ॥”
इति चरके सूत्रस्थाने प्रथमेऽध्याये ॥)

त्रिदण्डी, [न्] पुं, (त्रिदण्डमस्त्यस्येति । इनिः ।)

त्रिदण्डधारियतिः । (यथा, महाभारते । १२ ।
३२० । ८ ।
“तया जगदिदं कृत्स्नमटन्त्या मिथिलेश्वरः ।
तत्र तत्र श्रुतो मोक्षे कथ्यमानस्त्रिदण्डिभिः ॥”)
कायवाङ्मनोदण्डयुक्तः । इति श्रीभागवतम् ॥
(यथा, मनुः । १२ । १० ।
“वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च ।
यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥”)
यज्ञोपवीतम् । इति लोकप्रसिद्धिः ॥

त्रिदला, स्त्री, (त्रीणि त्रीणि दलानि पत्राणि

यस्याः ।) गोधापदी लता । इति जटाधरः ॥

त्रिदलिका, स्त्री, (त्रीणि दलानि यस्याः । कापि

अत इत्वम् ।) चर्म्मकषा । इति शब्दचन्द्रिका ॥

त्रिदशः, पुं, (तृतीया यौवनाख्या दशा यस्य ।

त्रिशब्दस्यात्र त्रिभागवत् तृतीयार्थकता । यद्बा,
तिसो जन्मसत्त्वाविनाशाख्याः न तु मर्त्त्यानामिव
पृष्ठ २/६५७
वृद्धिपरिणामक्षयाख्याः दशा यस्य । यद्बा,
त्रीन् तापान् दशति नाशयतीति । दन्श +
मूलविभुजादित्वात् कः पृषोदरादित्वात् न-
लोपः । यद्बा, त्र्यधिकास्त्रिरावृत्ताश्च दश
परिमाणमस्य । समासे डच् । शाकपार्थि-
वादिवत् मध्यलोपः ।) देवः । इत्यमरः ।
१ । १ । ७ ॥ (यथा, महाभारते । ३ । ८५ । १९ ।
“न्यवसत् परमप्रीतो ब्राह्मा च त्रिदशैः सह ॥”
ते च अर्का द्वादश १२ रुद्रा एकादश ११
वसवोऽष्टौ ८ विश्वेदेवौ द्वौ २ समुदायेन त्रय-
स्त्रिंशत् ३३ ॥ त्रिंशत् परिमिते, त्रि । यथा,
महाभारते । १ । ११३ । २१ ।
“ततः स कौवरो राजा विहृत्य
त्रिदशा निशाः ॥”)

त्रिदशदीर्घिका, स्त्री, (त्रिदशानां देवानां

दीर्घिका ।) स्वर्गङ्गा । इति हेमचन्द्रः । ४ ।
१४७ ॥

त्रिदशमञ्जरी, स्त्री, (त्रिदशप्रिया मञ्जरी

यस्याः ।) तुलसी । इति राजनिर्घण्टः ॥
(तुलसीशब्देऽस्या गुणादयो व्याख्याताः ॥)

त्रिदशायुधं, क्ली, (त्रिदशानां देवानां आयुधम् ।)

वज्रम् । इति त्रिकाण्डशेषः ॥

त्रिदशारिः, पुं, (त्रिदशानामरिः शत्रुः ।)

असुरः । इति शब्दरत्नावली ॥

त्रिदशालयः, पुं, (त्रिदशानां देवानां आलयः ।)

स्वर्गः । इत्यमरः । १ । १ । ६ ॥ (यथा, महा-
भारते । १ । ७६ । ६६ ।
“गुरोरुष्य सकाशे तु दशवर्षशतानि सः ।
अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् ॥”)
सुमेरुपर्व्वतः । इति हलायुधः ॥

त्रिदशावासः, पुं, (त्रिदशानां सुराणां आवासो

वासस्थानम् ।) स्वर्गः । इति हलायुधः ॥

त्रिदशाहारः, पुं, (त्रिदशानां आहारः ।) अमृ-

तम् । इति हलायुधः ॥

त्रिदशेश्वरी, स्त्री, (त्रिदशानामिन्द्रादिदेवाना-

मीश्वरी ।) दुर्गा । यथा, --
“सुराङ्गास्त्रिदशा देवा नन्दिनी दुन्दूभिर्म्मता ।
तेषाञ्च वन्दिनी नन्दी ईशत्वात् त्रिदशेश्वरी ॥”
इति देवीपुराणे ४५ अध्यायः ॥
(गङ्गा । यथा, काशीखण्डे । २९ । ७२ ।
“तपणी तीर्थतीर्था च त्रिपथा त्रिदशेश्वरी ॥”)

त्रिदिनस्पृक्, [श्] पुं, (त्रिदिनं चान्द्रदिनत्रयं

स्पृशतीति । स्पृश् + क्विप् ।) त्र्यहस्पर्शः । यथा,
“तिथ्यन्तद्बयमेको दिनवारः स्पृशति यत्र तद्-
भवत्यवमदिनम् । त्रिदिनस्पृक् दिनत्रयस्पर्शना-
दह्नः ।” इति ज्योतिषतत्त्वम् ॥

त्रिदिवः, पुं, (त्रयो ब्रह्मविष्णुरुद्रा दीव्यन्त्यत्रेति ।

दिव + “हलश्च ।” ३ । २ । १२१ । इति घञ् ।
संज्ञापूर्ब्बकत्वात् न गुणः । यद्वा, दीव्यन्तीति
दिवाः । इगुपधज्ञेति कः । त्रयः सत्त्वरजस्तमो-
रूपाः दिवाः क्रीडका विलासका इत्यर्थः यत्र ।
“तृतीया द्यौस्त्रिदिवः । घञर्थे कविधानं वृत्ति-
विषये संख्याशब्दस्य पूरणार्थत्वं त्रिभागवत् ।”
इति शिशुपालवधटीकायां मल्लिनाथः । १ ।
३६ ।) स्वर्गः । इत्यमरः । १ । १ । ६ ॥ (यथा,
मनुः । ९ । २५३ ।
“रक्षणादार्य्यवृत्तानां कण्टकानाञ्च शोधनात् ।
नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः ॥”)
क्ली, आकाशः । इति हेमचन्द्रः ॥

त्रिदिवा, स्त्री, नदीभेदः । इति मेदिनी । वे, ३७ ॥

(यथा, मत्स्यपुराणे । ११३ । ३१ ।
“त्रिभामा ऋषिकुल्या च इक्षुदा त्रिदिवा-
चला ॥”)

त्रिदिवेशः, पुं, (त्रिदिवस्य स्वर्गस्य ईशः ।)

देवः । इत्यमरः । १ । १ । ७ ॥

त्रिदिवोद्भवा, स्त्री, (त्रिदिवादुद्भवो यस्याः ।)

स्थूलैला । इति राजनिर्घण्टः ॥ (गङ्गा ।
स्वर्गोद्भवमात्रे, त्रि । इति व्युत्पत्तिलब्धोऽर्थः ॥)

त्रिदृक्, [श्] पुं, (तिस्रः दृशो नेत्राणि यस्य ।)

शिवः । इति हेमचन्द्रः । २ । ११० ॥

त्रिदोषं, क्ली, (त्रयाणां दोषानां समाहारः ।)

दोषत्रयम् । वातपित्तकफरूपम् । इति राज-
निर्घण्टः ॥

त्रिदोषजः, त्रि, (त्रिदोषाज्जायते इति । जन +

“पञ्चम्यामजातौ ।” ३ । २ । ९८ । इति डः ।)
त्रिदोषजनितः । सन्निपातरोगः । यथा, --
“चिरज्वरे वातकफोल्वणे वा
त्रिदोषजे वा दशमूलमिश्रः ।
किराततिक्तादिगणः प्रयोज्यः
शुद्ध्यर्थिने वा त्रिवृता विमिश्रः ॥”
इति चक्रपाणिदत्तः ॥
(“दृष्ट्वा त्रिदोषजं घोरं ज्वरं प्राणापहारकम् ।
तस्मादादौ कफस्यास्य शोधनं परिकीर्त्तितम् ॥
न कुर्य्यात् पित्तशमनं यदीच्छेदात्मनो यशः ।
कफो वातो बलीयांस्तु सद्यो हन्ति रुजातुरम् ॥
लङ्घनं वमनं वारि ष्ठीवनं स्यात्त्रिदोषजे ।
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा ॥
लङ्घनञ्च समुद्दिष्टं ज्ञात्वा दोषबलाबलम् ।
कफं विशोधितं ज्ञात्वा ततो वातनिवारणम् ॥
पित्तसंशमनं कार्य्यं ज्ञात्वा पित्तस्य कोपनम् ।
शोधनीयौ वातकफौ न तु पित्तं विनाशयेत् ॥”
इति हारीते चिकित्सितस्थाने द्बितीयेऽध्याये ॥)

त्रिधा, व्य, (त्रि + “संख्याया विधार्थे धा ।” ५ ।

३ । ४२ । इति धा ।) त्रिप्रकारः । इति
मुग्धबोधम् ॥ यथा, वराहपुराणे ।
“नारायणः परो देवः सत्त्वरूपो जनार्द्दनः ।
त्रिधात्मानं स भगवान् ससर्ज परमेश्वरः ॥”
(यथा, महाभारते । १३ । १४१ । ७८ ।
“धर्म्मेणार्थः समाहार्य्यो धर्म्मलब्धं त्रिधा धनम् ।
कर्त्तव्यं धर्म्मपरमं मानवेन प्रयत्नतः ॥”)

त्रिधातुः, पुं, (त्रीन् धर्म्मार्थकामान् दधाति पुष्णा-

तीति । धा + तुन् ।) गणेशः । इति त्रिकाण्ड-
शेषः ॥ (त्रयाणां घातूनां समाहारः ।) धातु-
त्रये, क्ली ॥

त्रिधामा, [न्] पुं, (त्रीणि भूरादीनि सत्त्वा-

दीनि वा धामानि स्थानानि यस्य ।) विष्णुः ।
(यथा, मुकुन्दमालायाम् । ११ ।
“तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले
दारावर्त्ते सहजतनयग्राहसङ्घाकुले च ।
संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन् !
पादाम्भोजे वरद ! भवतो भक्तिनावे प्रसीद ॥”)
शिवः । अग्निः । मृत्युः । इति शब्दार्थकल्प-
तरुः ॥ (दशमद्वापरस्य व्यासः । यथा, देवी-
भागवते । १ । ३ । २८ ।
“स्वारस्वतस्तु नवमे त्रिधामा दशमे तथा ॥”)
धामत्रये, क्ली स्त्री च ॥ (क्ली, स्वर्गः । यथा,
भागवते । ३ । २४ । २० ।
“हंसो हंसेन यानेन त्रिधाम परमं ययौ ॥”
“त्रिधाम तृतीयं धाम स्वर्गः तस्य परां काष्ठां
सत्यलोकम् ॥” इति तट्टीकायां स्वामी ॥)

त्रिधारकः, पुं, (त्रिस्रो धारा यस्य । ततः स्वार्थे

संज्ञायां वा कन् ।) गुण्डतृणम् । इति राज-
निर्घण्टः ॥ (त्रयाणां धारकानां समाहारः ।)
धारकत्रये, क्ली ॥

त्रिधारस्नुही, स्त्री, (त्रिषु भागेषु धारा यस्याः ।

सा एव स्नुही ।) स्नुहीविशेषः । तत्पर्य्यायः ।
त्र्यस्रः २ धारास्नुही ३ । इति राजनिर्घण्टः ॥

त्रिनयनः, पुं, (त्रीणि चन्द्रसूर्य्याग्निरूपाणि नय-

नानि यस्य । “क्षुभ्नादिषु च ।” ८ । ४ । ३९ ।
इति निषेधात् न णत्वम् ।) शिवः । इति हला-
युधः ॥ (यथा, महाभारते । १४ । ८ । २७ ।
“त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् ॥”)
नयनत्रये, स्त्री ॥ (लोचनत्रयविशिष्टे, त्रि ।
यथा, मातृकासरस्वतीध्याने ।
“मुद्रामोक्षगुणं सुधाढ्यकलसं विद्याञ्च
हस्ताम्बुजै-
र्बिभ्राणां विशदप्रभां त्रिनयनां वाग्देवता-
माश्रये ॥”)

त्रिनयना, स्त्री, (त्रीणि नयनानि यस्याः । टाप् ।)

दुर्गा । यथा, देवीपुराणे ४५ अध्याये ।
“पक्षिणां चोत्तरं लोकं तथा ब्रह्मायनं परम् ।
नयं सन्मार्गधर्म्मत्वं दृष्टौ त्रिनयना मता ॥”

त्रिनेत्रः, पुं, (त्रीणि नेत्राणि यस्य ।) शिवः ।

यथा, नैषधे । १ । ६ ।
“दिगीशवृन्दांशविभूतिरीशिता
दिशां स कामप्रसरावरोधिनीम् ।
दधार शास्त्राणि दृशं द्वयाधिकां
निजत्रिनेत्रावतरत्वबोधिकाम् ॥”
तस्य गणाः । यथा, मत्स्यपुराणे ।
“ततः साध्यगणानीशस्त्रिनेत्रानसृजत् पुनः ।
कोटयश्चतुराशीतिर्जरामरणवर्जिताः ॥
वामः सृजन्नमर्त्त्यांस्तान् ब्रह्मणा विनिवारितः ।
नैवंविधा भवेत् सृष्टिर्ज्जरामरणवर्ज्जिता ॥”

त्रिनेत्रचूडामणिः, पुं, (त्रिनेत्रस्य महादेवस्य

चूडामणिः शिरोभूषणम् ।) चन्द्रः । इति
त्रिकाण्डशेषः ॥
पृष्ठ २/६५८

त्रिनेत्रा, स्त्री, (त्रीणि नेत्राणीव शरीरे यस्याः ।)

वाराहीकन्दूः । इति राजनिर्घण्टः ॥ नेत्रत्रय-
युक्ता च ॥

त्रिपताकं, क्ली, (तिस्रः पताका इव रेखा यत्र ।)

रेखात्रयाङ्कितभालम् । इति हारावली । ११४ ॥
(तिस्रः पताका इव अङ्गुलयो यत्र । त्रिपताक-
लक्षणान्विते हस्ते, पुं । यथा, साहित्यदर्पणे ।
६ । १५४ ।
“त्रिपताककरेणान्यानपवार्य्यान्तरा कथाम् ।
अन्योन्यामन्त्रणं यत् स्याज्जनान्ते तज्जनान्ति-
कम् ॥”
“यः कश्चिदर्थो यस्माद् गोपनीयस्तस्यान्तरत
ऊर्द्ध्वं सर्व्वाङ्गुलिनामितानामिकं त्रिपताकलक्षणं
करं कृत्वान्येन सह यन्मन्त्र्यते तत्जनान्तिकम् ॥”)

त्रिपत्रं, क्ली, (त्रीणि त्रीणि पत्राणि यत्र ।) दल-

त्रययुक्तविल्वपत्रम् । यथा, --
विष्णुरुवाच ।
“ऊर्द्ध्वपत्रं हरो ज्ञेयः पत्रं वामं विधिः स्वयम् ।
अहं दक्षिणपत्रञ्च त्रिपत्रदलमित्युत ॥”
इति बृहद्धर्म्मपुराणे बिल्वपत्रमाहात्म्ये
११ अध्यायः ॥

त्रिपत्रः, पुं, (त्रीणि त्रीणि पत्राणि यस्य ।) बिल्वः ।

इति राजनिर्घण्टः ॥ पत्रत्रये, स्त्री ॥

त्रिपत्रकः, पुं, (त्रीणि त्रीणि पत्राणि यस्य ।)

पलाशवृक्षः । इति हेमचन्द्रः । ४ । २०२ ॥
(त्रयाणां पत्राणां समाहारः । ततः कन् ।
तुलस्यादि पत्रत्रये, क्ली । यथा, देवीपुराणे ।
“तुलसीकुन्दमालूरपत्राण्याहुस्त्रिपत्रकम् ॥”)

त्रिपथं, क्ली, (त्रयाणां पथां समाहारः । “ऋक्-

पूरिति ।” ५ । ४ । ७४ । इत्यः ।) त्रिमार्गम् ।
तेमाथा पथ इति भाषा । तत्पर्य्यायः ।
त्रिकम् २ । इति हेमचन्द्रः । ४ । ५२ ॥
“शून्यागारे श्मशाने वा निर्जने वा चतुष्पथे ।
बिल्वधात्रीद्रुमस्यान्तस्त्रिपथे वा भजेन्निशि ।
स भवेत् सर्व्वसिद्धीशः सर्व्ववेदविदां वरः ॥”
इति गुप्तसाधनतन्त्रम् ॥
(तिसृणां नाडीनां पन्थाः । इति विग्रहे कपाल-
कुहरे, पुं । यथा, हठयोगप्रदीपिकायाम् । ३ । ३७ ।
“कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत् ।
सा भवेत् खेचरी मुद्रा व्योमचक्रं तदुच्यते ॥”)

त्रिपथगा, स्त्री, (त्रिपथे स्वर्गमर्त्त्यपातालमार्गे

गच्छतीति । गम + डः ।) गङ्गा । इत्यमरः । १ ।
१० । ३१ ॥ (अस्या निरुक्तिरुक्ता यथा, रामा-
यणे । १ । ४३ । ६ ।
“गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च ।
त्रीन् पथो भावयन्तीति तस्मात् त्रिपथगा
स्मृता ॥”)

त्रिपदा, स्त्री, (त्रयः पादा मूलानि यस्याः ।

टापि पादस्य पद्भावः ।) हंसपदीवृक्षः । इति
राजनिर्घण्टः ॥ (पर्य्यायोऽस्या यथा, --
“गोधापदी तु सुवहा त्रिपदा हंसपद्यपि ॥”
इति वैद्यकरत्नमालायाम् ॥
(त्रयः पादाश्चरणानि यस्याः । त्रिपादयुक्ते,
त्रि । यथा, मनुः । २ । ८१ ।
“ओङ्कारपूर्व्विकास्तिस्रो महाव्याहृतयोऽव्ययाः ।
त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥”)

त्रिपदिका, स्त्री, (त्रयः पादा अस्याः इति त्रिपदी

ततः संज्ञायां कन् ततष्टाप् ।) अर्घ्यार्थधातु-
निर्म्मितत्रिपादयुक्तशङ्खाधारः । इति तन्त्र-
सारः ॥ (“तत्र त्रिपदिकामारोप्य तदुपरि
शङ्खं स्थापयेत् ।” इति पूजापद्धतिः ॥)

त्रिपदी, स्त्री, (त्रयः पादा अस्याः । ङीपि

पद्भावः ।) गोधापदी । इति रत्नमाला ॥ हस्ति-
गात्रबन्धः । इति हेमचन्द्रः । ४ । २९६ ॥ (हस्ति-
पादबन्धनम् । इति यादवः ॥ यथा, रघुः ।
४ । ४८ ।
“नास्रसत् करिणां ग्रैवं त्रिपदीच्छेदिनामपि ॥”)
त्रिपादयुक्ता । पदत्रयम् । इति व्याकरणम् ॥
भाषाकवितायाश्छन्दोविशेषः । यथा, --
“पज्झटिकान्ता यदि यमकान्ता
द्बादश परिणतमात्रा ।
किन्नरगीतिः तदिति निवीतिः
स्यार्द्धसमाक्षरगात्रा ॥”
स्यपादान्त उदाहृतः ।
“यैषा सङ्गीतके नित्यं निवीतिः किन्नराख्यिका ।
सैव स्यात् प्राकृते गाने त्रिपदीति परिश्रुता ॥”
इति काव्योदयः ॥
(त्रिषु मार्गेषु पादो गमनं यस्याः । गङ्गा ।
यथा, काशीखण्डे । २९ । ७६ ।
“त्रैलोक्यलक्ष्मीस्त्रिपदी तथ्या तिमिरचन्द्रिका ॥”)

त्रिपर्णः, पुं, (त्रीणि त्रीणि पर्णानि यस्या ।) पलाशः ।

इति राजनिर्घण्टः ॥

त्रिपर्णिका, स्त्री, (त्रीणि त्रीणि पर्णानि यस्याः ।

संज्ञायां कन् । टापि अत इत्वञ्च ।) कन्द-
विशेषः । तत्पर्य्यायः । बृहत्पत्रा २ छिन्न-
ग्रन्थिनिका ३ कन्दालुः ४ कन्दवहुला ५ आम्ल-
वल्ली ६ विनारुहा ७ त्रिपर्णी ८ । अस्या
गुणाः । मधुरत्वम् । शीतत्वम् । श्वासकासविष-
व्रणविनाशित्वम् । पित्तप्रकोपशमनत्वञ्च । इति
राजनिर्घण्टः ॥

त्रिपर्णी, स्त्री, (त्रीणि त्रीणि पर्णानि यस्याः ।

गौरादित्वात् ङीष् ।) शालपर्णी । इति भाव-
प्रकाशः ॥ (अस्या गुणा यथा, --
“यातुकः शालकल्याणी त्रिपर्णी पीलुपर्णिका ।
शाकङ्गुरु च रूक्षञ्च प्रायो विष्टभ्य जीर्य्यति ।
मधुरं शीतवीर्य्यञ्च पुरीषस्य च भेदनम् ॥”
इति चरके सूत्रस्थाने २७ अध्याये ॥)
वनकार्पासी । पृश्निपर्णीभेदः । इति रत्नमाला ॥

त्रिपात्, [द्] पुं, (त्रयः पादा अस्य । “संख्या

सुपूर्ब्बस्य ।” ५ । ४ । १४० । इति पादस्यान्त-
लोपः ।) विष्णुः । इति त्रिकाण्डशेषः ॥ (वेदादि-
मते संसाररहितो ब्रह्मस्वरूपः पुरुषः । यथा,
ऋग्वेदे । १० । ९० । ४ ।
“त्रिपादूर्द्ध्व उदैत् पुरुषः पादोऽस्येहाभवत् पुनः ॥”
पुराणादिमते वामनावतारे त्रिपात् भूत्वा
बलिसकाशात् सर्व्वं राज्यादिकं गृहीतवानित्य-
तोऽस्य तथात्वम् । तथाच भागवते । ८ । २० । ३४ ।
“क्षितिं पदैकेन बलेर्विचक्रमे
नभः शरीरेण दिशश्च बाहुभिः ॥
पदं द्वितीयं क्रमतस्त्रिविष्टपं
न वै तृतीयाय तदीयमण्वपि ।
उरुक्रमस्याङ्घ्रिरुपर्य्युपर्य्यथो
महर्जनाभ्यां तपसः परं गतः ॥”)
ज्वरः । यथा, --
“विद्राविते भूतगणे ज्वरस्तु त्रिशिरास्त्रिपात् ॥”
इति श्रीभागवतम् ॥

त्रिपादिका, स्त्री, (त्रयः पादाः मूलानि यस्याः ।

कप् ततष्टापि अत इत्वम् ।) हंसपदीलता ।
इति राजनिर्घण्टः ॥ (पर्य्यायोऽस्या यथा, --
“हंसपादी हंसपदी कीटमाता त्रिपादिका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)

त्रिपिष्टपं, क्ली, (त्रिदशानां देवानां पिष्टपं वास-

स्थानम् । पृषोदरादित्वात् दशशब्दस्य लोपः ।
यद्बा, मर्त्त्यपातालापेक्षया तृतीयं पिष्टपम्
भुवनम् । वृत्तौ त्रिशब्दस्य त्रिभागवत् पूरणा-
र्थता ।) स्वर्गः । इत्यमरः । १ । १ । ६ ॥ (यथा,
महाभारते । १ । २०८ । ३५ ।
“तत् त्रिपिष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत ॥”)
आकाशम् । इति शब्दरत्नावली ॥

त्रिपिष्टपसत्, [द्] पुं, (त्रिपिष्टपे स्वर्गे सीदतीति ।

सद + क्विप् ।) देवता । इति हलायुधः ॥

त्रिपुटः, पुं, (त्रीणि पुटानि यस्य ।) सतीलकः ।

तीरम् । इति मेदिनी । के, ४५ । हस्तभेदः ।
तालकः । इति शब्दरत्नावली ॥ गोक्षुरवृक्षः ॥
इति रत्नमाला ॥ (कलायविशेषः । खेसारी
इति भाषा ॥ अस्य पर्य्याया गुणाश्च यथा, --
“त्रिपुटः खण्डिकोऽपि स्यात् कथ्यन्ते तद्गुणा
अथ ।
त्रिपुटो मधुरस्तिक्तस्तुवरो रूक्षणो भृशम् ॥
कफपित्तहरो रुच्यो ग्राहकः शीतलस्तथा ।
किन्तु खञ्जत्वपङ्गुत्वकारी वातातिकोपनः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
“अन्यानि चैव शस्तानि कौलत्थान्युषितानि च ।
मसूरास्त्रिपुटा बल्याः कलायाद्याश्च वर्ज्जिताः ॥”
इति हारीते प्रथमे स्थाने नवमेऽध्याये ॥)

त्रिपुटा, स्त्री, (त्रीणि पुटानि दलवृत्तयो यस्याः ।)

मल्लिका । सूक्ष्मैला । त्रिवृत् । इति मेदिनी ।
के, ४५ ॥ कर्णस्फोटा । स्थूलैला । रक्तत्रिवृत् ।
इति राजनिर्घण्टः ॥ देवीविशेषः । यथा, --
“ऋषिः सम्नोहनश्छन्दो गायत्त्री देवता पुनः ।
त्रिपुटाख्या द्बिरुक्तैस्तैर्व्वीजैरङ्गानि षट्
क्रमात् ॥”
अस्या रूपं यथा, --
“पारिजातवने रम्ये मण्डपे मणिकुट्टिमे ।
रत्नसिंहासने रम्ये पद्मे षट्कोणशोभिते ॥
अधस्तात् कल्पवृक्षस्य निषण्णां देवतां स्मरेत् ।
पृष्ठ २/६५९
चापं पाशाम्बुजसरसिजान्यङ्कुशं पुष्पबाणान्
संबिभ्राणां करसरसिजै रत्नमौलिं त्रिनेत्राम् ।
हेमाब्जाभां कुचभरनतां रत्नमञ्जीरकाञ्ची-
ग्रैवेयाद्यैर्व्विलसिततनुं भावयेच्छक्तिमाद्याम् ॥
चामरादर्शताम्बूलकरण्डकसमुद्गकान् ।
वहन्तीभिः कुचार्त्ताभिर्दूतीभिः परिवारिताम् ॥
करुणामृतवर्षिण्या पश्यन्तीं साधकं दृशा ॥”
इति तन्त्रसारः ॥

त्रिपुटी, [न्] पुं, (त्रिपुट इव आकारोऽस्त्य-

स्येति । त्रिपुट + इनिः ।) एरण्डवृक्षः । इति
शब्दमाला ॥

त्रिपुटी, स्त्री, (त्रीणि पुटानि यस्याः । गौरादि-

त्वात् ङीष् ।) त्रिवृता । इत्यमरटीकायां भरतः ॥
(त्रयाणां ज्ञातृज्ञानज्ञेयरूपाणां पुटानामाका-
राणां समाहारः । “द्विगोः ।” इति ङीप् ।
ज्ञातृज्ञानज्ञेयरूपपुटत्रयम् । यथा, पञ्चदश्याम् ।
११ । १४ ।
“भूतोत्पत्तेः पुरा भूमा त्रिपुटीद्वैतवर्जनात् ।
ज्ञातृज्ञानज्ञेयरूपा त्रिपुटी प्रलये हि नो ॥”)

त्रिपुटीफलः, पुं, (त्रिपुटी पुटत्रयं फले यस्य ।)

एरण्डः । इति हारावली । १०८ ॥

त्रिपुण्ड्रं, क्ली, (त्रयाणां पुण्ड्राणां इक्षुवदाका-

राणां समाहारः ।) भस्मादिकृतकपालस्थ-
तिर्य्यग्रेखात्रयम् । यथा, --
“विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया ।
पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः ॥
तस्मान्मृदापि कर्त्तव्यं ललाटेऽपि त्रिपुण्ड्रकम् ॥”
इति तिथ्यादितत्त्वम् ॥
ब्रह्माण्डपुराणे ।
“ऊर्द्ध्वपुण्ड्रं मृदा कुर्य्यात् त्रिपुण्ड्रं भस्मना सदा ।
तिलकं वै द्बिजः कुर्य्यात् चन्दनेन यदृच्छया ॥
ऊर्द्ध्वपुण्ड्रं द्बिजः कुर्य्यात् क्षत्त्रियश्च त्रिपुण्ड्रकम् ।
अर्द्धचन्द्रञ्च वैश्यश्च वर्त्तुलं शूद्रयोनिजः ॥”
इत्याह्निकाचारतत्त्वम् ॥
“शिवागमे दीक्षितैस्तु धार्य्यं तिर्य्यक्त्रिपुण्ड्रकम् ।
विष्ण्वागमे दीक्षितस्तु ऊर्द्द्वपुण्ड्रं विधारयेत् ॥”
इति नागोजीभट्टधृतसूतसंहिता ॥
(यथा, शब्दचिन्तामणिधृतदेवीभागवतम् ।
“येषां वपुर्मनुष्याणां त्रिपुण्ड्रेण विना स्थितम् ।
श्मशानसदृशं तत् स्यान्न प्रेक्ष्यं पुण्यकृज्जनैः ॥”
“त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति शिवमेव ते ।
धारयन्ति च ये भक्त्या धारयन्ति तमेव ते ॥
तिर्य्यग्रेखा प्रदृश्यन्ते ललाटे सर्व्वदेहिनाम् ।
तथापि मानवा मूर्खा न कुर्व्वन्ति त्रिपुण्ड्रकम् ॥”)

त्रिपुण्ड्रकं, क्ली, (त्रिपुण्ड्रमेव । स्वार्थे कः ।)

त्रिपुण्ड्रम् । यथा, --
“वक्रा ललाटगास्त्रिस्रो भस्मरेखास्त्रिपुण्ड्रकम् ॥”
इति हारावली । ६२ ॥

त्रिपुरं, क्ली, (त्रयाणां पुराणां समाहारः । तद्धि-

तार्थेति समासः । पात्रादित्वात् स्त्रीत्वाभावः ।)
मयदानवनिर्म्मितं पुरत्रयम् । (यथा, महा-
भारते । ३ । ४१ । ३८ ।
“महात्मना शङ्करेण त्रिपुरं निहतं यदा ।
तदैतदस्त्रं निर्म्मुक्तं येन दग्धा महासुराः ॥”)
पुरा असुरा देवैर्निर्जिताः सन्तो मायिनां
परमाचार्य्यं मयं शरणमाययुः । स गमनागमने
अदृश्या दुर्व्वितर्क्यपरिच्छदा हैमी रौप्यायसीति
तिस्रः पुरो निर्म्माय तेभ्यो ददौ ते असुरास्ताभिः
पुरीभिरलक्षिताः पूर्ब्बवैरमनुस्मरन्तः सेश्वरान्
त्रीन् लोकान् नाशयाञ्चक्रुस्ततः सेश्वरा लोका
हरं उपासाञ्चक्रिरे । हरो मा भैष्टेति सुरानु-
च्चार्य्य धनुषि शरं सन्धाय पुरेषु व्यमुञ्चत् । तैः
शरैः स्पृष्टाः पुरौकसोऽसुरा व्यसवः सन्तो
निपेतुः । महायोगी मयस्तानसुरानानीय
त्रिपुरस्थितसिद्धामृतरसकूपेऽक्षिपत् तेऽसुरा-
स्तद्रसं प्सृष्ट्वा दृढशरीराः सन्त उत्तस्थुस्तदा
विष्णुर्गौर्ब्रह्मा च वत्सो भूत्वा त्रिपुरं प्रविश्य
रसकूपामृतं पपौ असुरा विष्णुमायया मोहिताः
सन्तो न न्यषेधन् तदा विष्णुः स्वाभिः शक्तिभिः
शम्भोर्युद्धोपकरणं रथसारथिधनुर्बाणादिकं
व्यधात् । ततः शम्भुः सन्नद्धो रथमास्थाय
शरन्धनुषि सन्धाय मध्याह्नकाले त्रिपुरं ददाह ।
इति श्रीभागवतम् ॥ (त्रीणि पुराणि यस्येति
विग्रहे त्रिपुरासुरे, पुं । यथा, महाभारते ।
७ । २०० । ७६ ।
“आरुह्य स रथं दिव्यं सर्व्वदेवमयं शिवः ।
त्रिपुरस्य वधार्थाय स्थाणुः प्रहरतां वरः ॥”)

त्रिपुरदहनः, पुं, (त्रिपुरं दहतीति । दह + ल्युः ।)

शिवः । इति हारावली । ८ ॥

त्रिपुरभैरवी, स्त्री, (त्रिपुरा धर्म्मार्थकामानां

दात्री । सा चासौ भैरवी चेति ।) देवीविशेषः ।
तन्मन्त्रादि यथा, --
“वैष्णव्या मन्त्रमुख्येषु त्रिपुरायास्ततः शृणु ।
तस्यास्तु सर्व्वमन्त्राणि त्रयोदशयुतानि वै ॥
विंशतिस्तु सहस्राणि तत्राद्यं वाग्भवं स्मृतम् ।
द्बितीयं कामराजाख्यं मोहनञ्च तृतीयकम् ॥
आम्रेडितं वाग्भवन्तु चतुर्थं परिकीर्त्तितम् ।
नेत्रवीजं द्वितीयन्तु द्विरुक्तं वाग्भवं तथा ॥
आद्यं तत् पञ्चमं प्रोक्तं चतुर्भिरपि चाक्षरैः ।
नेत्रवीजं द्वितीयन्तु प्रथमं परिकीर्त्तितम् ॥
द्वितीयं कामराजन्तु तृतीयं वाग्भवं तथा ।
एभिस्त्रिभिश्च यन्मन्त्रं तत् षष्ठं परिकीर्त्तितम् ॥
नेत्रवीजद्वितीयेन वाग्भवान्तेन सप्तमम् ।
तदेव वाग्भवाद्यन्तु अष्टमं परिकीर्त्तितम् ॥
वाग्भवं कामराजञ्चेत्येताभ्यां नवमं स्मृतम् ।
कामराजं तथैवाद्यं द्वितीयञ्चैव मोहनम् ॥
एकादशमिदं प्रोक्तं तदेवाद्यन्तु वाग्भवम् ।
द्वादशं कीर्त्तितं मन्त्रं शेषतस्त्रैपुरं महत् ॥
तन्महत् त्रैपुरं मन्त्रं शृणुष्वैकमनास्त्विदम् ।
प्रान्तादिस्तस्य चाप्यादिर्वह्निर्व्वाग्भवसंज्ञितः ॥
आद्यं त्रिपुरभैरव्या वीजमाद्यं प्रकीर्त्तितम् ।
उपान्त्यश्च तदादिश्च व्यञ्जनाद्यं वृषाणकः ॥
चतुर्थस्वरविन्द्विन्दूयुक्तश्चैतत् द्वितीयकम् ।
उपान्त्यश्च तदादिश्च वह्निः शेषस्वरस्तथा ॥
समाप्तिर्बिन्दुसहिता संहितास्तु तृतीयकम् ।
एतत्तत्त्वं विजानाति यो नरो भुवि भूमणिः ॥
सिद्धविद्याधरेभ्यश्च सोऽधिको मन्मथो महान् ।
एतत्त्रयोदश प्रोक्ता मन्त्रा मन्त्रेषु चोज्ज्वलाः ॥
विंशतेस्तु सहस्रेभ्यः पराश्चैते प्रकीर्त्तिताः ।
विंशतेस्तु सहस्राणामाद्यमेतत् प्रकीर्त्तितम् ॥”
तस्या ध्यानं यथा, --
“चतुर्भुजां रक्तवर्णां रक्तवस्त्रविभूषिताम् ।
दक्षिणोर्द्ध्वे स्रजञ्चाधो बिभ्रतीं पुस्तकोत्तमम् ॥
अभयं वामहस्ताभ्यां वरञ्च दधतीं तथा ।
सहस्रसूर्य्यसङ्काशां त्रिनेत्रां गजगामिनीम् ॥
पीनोत्तुङ्गस्तनयुगां सितप्रेतासनस्थिताम् ।
स्मितप्रभिन्नवदनां सर्व्वालङ्कारसंयुताम् ॥
तिसृभिर्म्मुण्डमालाभिः शिरोवक्षःकटीषु च ।
त्रिगुणं त्रिगुणीभूतैः प्रत्येकं परिभूषिताम् ॥
मदिराघूर्णनयनां रक्तदन्तच्छदद्बयाम् ।
चिन्तयेद्वरदां देवीमेवं त्रिपुरभैरवीम् ॥”
इति कालिकापुराणे ७७ अध्यायः ॥

त्रिपुरमल्लिका, स्त्री, (त्रीणि पुराणि दलावृत्तयो

यस्याः । सा चासौ मल्लिका चेति ।) पुष्पवृक्ष-
विशेषः । त्रिपुरमालिका इति ख्याता । तत्-
पर्य्यायः । श्लेष्मघ्ना २ । इति त्रिकाण्डशेषः ॥

त्रिपुरा, स्त्री, (त्रीन् धर्म्मार्थकामान् पुरति पुरतो

ददातीति । पुरअग्रगमने अत्र अग्रदाने + “इगु-
पधज्ञेति ।” ३ । १ । १३५ । इति कः । ततष्टाप् ।)
देवीविशेषः । तन्मन्त्रध्यानादिकं यथा, --
“शृणुतं त्रिपुरामूर्त्तेः कामाख्यायास्तु पूजनम् ।
एतस्या मूलमन्त्रन्तु पूर्ब्बमुत्तरतन्त्रके ॥
युवयोरिष्टयोः सम्यक् क्रमात्तु प्रतिपादितम् ।
वाग्भवं कामराजन्तु डामरञ्चेति तत्त्रयम् ॥
सर्व्वधर्म्मार्थकामादिसाधनं कुण्डलीयुतम् ।
त्रीन् यस्मात् पुरतो दद्यात् दुर्गा ध्याता महेश्वरी ॥
त्रिपुरेति ततः ख्याता कामाख्या कामरूपिणी ।
तस्यास्तु स्नापनं यादृक् कामाख्यायाः प्रकी-
र्त्तितम् ॥
तेनैव स्नापनं कुर्य्यात् मूलमन्त्रेण साधकः ।
त्रिकोणं मण्डलं चास्यास्त्रिपुरन्तु त्रिरेखकम् ॥
मन्त्रन्तु त्र्यक्षरं ज्ञेयं तथा रूपत्रयं पुनः ।
त्रिविधा कुण्डलीशक्तिस्त्रिदेवानाञ्च सृष्टये ॥
सर्व्वं त्रयं त्रयं यस्मात् तस्मात्तु त्रिपुरा मता ॥ * ॥
दहनं प्लवनं कृत्वा आद्यां मूर्त्तिं विचिन्तयेत् ।
त्रिधावर्त्याथ हृदये तां मूर्त्तिं शृणु भैरव ! ॥
सिन्दूरपुञ्जसङ्काशां त्रिनेत्रान्तु चतुर्भुजाम् ।
वामोर्द्ध्वे पुष्पकोदण्डं धृत्वाधः पुस्तकं तथा ॥
दक्षिणोर्द्ध्वे पञ्चबाणानक्षमालां दधात्यधः ।
चतुर्णां कुणपानान्तु पृष्ठेऽन्यं कुणपान्तरम् ॥
निधाय तस्य पृष्ठे तु समपादेन संस्थिताम् ।
जटाजूटार्द्धचन्द्रैस्तु समाबद्धशिरोरुहाम् ॥
नग्नां त्रिवलिभङ्गेन चारुमध्यां मनोहराम् ।
सर्व्वालङ्कारसम्पूर्णां सर्व्वाङ्गसुन्दरीं शुभाम् ॥
स्रवद्द्रविणसन्दोहां सर्व्वलक्षणसंयुताम् ।
एवन्तु प्रथमं ध्यात्या त्रिधात्मानञ्च चिन्तयेत् ॥ * ॥
पृष्ठ २/६६०
द्वितीयं त्रिपुरारूपं तथैव तु तृतीयकम् ।
आवाहनार्थं देव्यास्तु चिन्तयेत् योनिमुद्रया ॥
वन्धूकपुष्पसङ्काशां जटाजूटेन्दुमण्डिताम् ।
सर्व्वलक्षणसम्पूर्णां सर्व्वालङ्कारभूषिताम् ॥
उद्यद्रविप्रख्यवस्त्रां पद्मपर्य्यङ्कसंस्थिताम् ।
मुक्तारत्नावलीयुक्तां पीनोन्नतपयोधराम् ॥
बलीविभङ्गचतुरामासवामोदमोदिताम् ।
नेत्राह्लादकरीं शुद्धां क्षोभिणीं जगतां तथा ॥
त्रिनेत्रां योगनिद्रां यामीषद्धाससमायुताम् ।
नवयौवनसम्पन्नां मृणालाभचतुर्भुजाम् ॥
वामोर्द्ध्वे पुस्तकं धत्ते अक्षमालान्तु दक्षिणे ।
वामेनाभयदां देवीं दक्षिणाधोवरप्रदाम् ॥
प्रस्रवद्रक्तसूर्य्याभां शिरोमालान्तु बिभ्रतीम् ।
आपादलम्बिनीं कल्पद्रुममासाद्य संस्थिताम् ॥
कदम्बोपवनान्तःस्थां कामाह्लादकरीं शुभाम् ।
द्वितीयां त्रिपुरां ध्यायेदेवं रूपां मनोहराम् ॥ * ॥
तृतीयं त्रिपुरारूपं शृणु वेतालभैरव ! ।
जवाकुसुमसङ्काशां मुक्तकेशीं वराननाम् ॥
सदाशिवं हसन्तन्तु प्रेतवद्बिनिधाय वै ।
हृदये तस्य देवस्य ह्यर्द्धपद्मासनस्थिताम् ॥
रक्तोत्पलैर्म्मिश्रितान्तु मुण्डमालां पदानुगाम् ।
ग्रीवायां धारयन्तीन्तु पीनोन्नतपयोधराम् ॥
चतुर्भुजां तथा नग्नां दक्षिणोर्द्ध्वेऽक्षमालिनीम् ।
वरदां तदधो वामे जगन्मायां तथाभयम् ॥
अधस्तु पुस्तकं धत्ते त्रिनेत्रां हसिताननाम् ।
स्रवद्द्रविणभोगार्त्तां तथा सर्व्वाङ्गसुन्दरीम् ॥
एवंविधं तृतीयन्तु रूपं ध्यायेत्तु पूजकः ।
आद्यन्तु वाग्भवं रूपं द्बितीयं कामराजकम् ॥
डामरं मोहनञ्चापि तृतीयं परिकीर्त्तितम् ।
एकैकन्तु त्रिरूपाणि प्राग्विचिन्त्याथ साधकः ॥
मन्त्रत्रयेण प्रत्येकं हृदि षोडशकैस्तथा ।
पूजयेदुपचारैस्तु बहिर्यद्वत्तथैव च ॥”
इति कालिकापुराणे ६२ अध्यायः ॥
(अस्याः वीजम् । “हसरैँ” “हसकलरीँ”
“हसरौँ” इति मन्त्रकोषः ॥ ऋग्वेदान्तर्गतोप-
निषद्विशेषः । यथा, मुक्तिकोपनिषदि । “सहो-
वाच श्रीरामः । ऐतरेयकौषीतकीनादबिन्द्वात्म-
प्रबोधनिर्व्वाणमुद्गलाक्षमालिकात्रिपुरासौभाग्य-
बह्वृचानामृग्वेदगतानां दशसंख्यकानामुपनिषदां
वाङ्मे मनसीति शान्तिः ॥” नगरीविशेषः ।
यथा, महाभारते । ३ । २५३ । ९ ।
“मोहनं पत्तनञ्चैव त्रिपुरां कोशलां तथा ।
एतान् सर्व्वान् विनिर्जित्य करमादाय सर्व्वशः ॥”)

त्रिपुरान्तकः, पुं, (त्रिपुरस्य अन्तकः ।) शिवः ।

इत्यमरः । १ । १ । ३५ ॥ (यथा, काशीखण्डे
१०० अध्याये ।
“लाङ्गलीशमथालोक्य ततस्तु त्रिपुरान्तकम् ॥”
तथाच महालिङ्गेश्वरतन्त्रे शिवशतनामस्तोत्रे ।
“आशुतोषो मित्रमध्ये शत्रूणां त्रिपुरान्तकः ॥”)

त्रिपुरी, स्त्री, देशविशेषः । त्रिपुरा इति ख्याता ।

तत्पर्य्यायः । चेदिनगरी २ । इति हेमचन्द्रः ।
४ । ४१ ॥

त्रिपुषा, स्त्री, (त्रीन् वातादिदोषत्रयान् पुष्णा-

तीति । पुष + कः । ततष्टाप् ।) कृष्णत्रिवृत् ।
इति शब्दचन्द्रिका ॥

त्रिपृष्ठः, पुं, (त्रयो वंश्याः पृष्ठे पश्चिमप्रदेशे-

ऽस्येति ।) राजभेदः । तत्पर्य्यायः । प्राजा-
पत्यः २ । इति हेमचन्द्रः । ३ । ३५९ ॥

त्रिफला, स्त्री, (त्रयाणां फलानां समाहारः ।

अजादित्वात् “द्विगोः ।” ४ । १ । २१ । इति
न ङीप् ।) मिलितसमभागहरीतकीविभीतका-
मलकीफलानि । तत्पर्य्यायः । त्रिफली २
फलत्रयम् ३ फलत्रिकम् ४ । इति राजनिर्घण्टः ॥
अस्या गुणाः । त्रिदोषनाशित्वम् । नात्युष्णत्वम् ।
मलभेदित्वञ्च । इति राजवल्लभः ॥ तन्नामगुणाः ।
“पथ्याविभीतधात्रीणां फलैः स्यात्त्रिफला समैः ।
फलत्रिकञ्च त्रिफला सा वरा च प्रकीर्त्तिता ॥
त्रिफला कफपित्तघ्नी मेहकुष्ठहरा सरा ।
चक्षुष्या दीपनी रुच्या विषमज्वरनाशिनी ॥”
इति भावप्रकाशः ॥
(“हरीतक्याश्चामलक्या विभीतस्य फलन्तथा ।
त्रिफलेत्युच्यते वैद्यैर्वक्ष्यामि भागनिर्णयम् ॥
एकभागं हरीतक्या द्बौ भागौ च विभीतकम् ।
आमलक्यास्त्रिभागञ्च सहैकत्र प्रयोजयेत् ।
त्रिफला कफपित्तघ्नी महाकुष्ठविनाशिनी ॥
आयुष्या दीपनी चैव चक्षुष्या व्रणशोधिनी ।
वणप्रदायिनी घृष्ट्वा विषमज्वरनाशिनी ॥
सर्व्वरोगप्रशमनी मेधास्मृतिकरी परा ।
वक्ष्यामि योगयुक्तिञ्च रोगे रोगे पृथक् पृथक् ॥
वाते घृतगुडोपेता पित्ते समधुशर्करा ।
श्लेष्मणि त्रिकटूपेता मेहे समधुवारिणा ॥
कुष्ठे च घृतसंयुक्ता सैन्धवेनाग्निमान्द्यहा ।
चक्षुर्धावनके क्वाथो नेत्ररोगनिवारणः ॥
घृतेन हरते कण्डूं भातुलुङ्गरसैर्वमिम् ।
गुल्मार्शः शूरणगुडैः सद्यः स्याद्गुणकारकः ॥
क्षीरेण राजयक्ष्माणं पाण्डुरोगं गुडेन च ।
भृङ्गराजरसेनापि घृतेन सह योजितः ॥
बलीपलितहन्ता च तथा मेधाकरः स्मृतः ।
सक्षीरः सगुडः क्वाथो विषमज्वरनाशनः ॥
सशर्कराघृतक्वाथः सर्व्वजीर्णज्वरापहः ॥
एषा नराणां हितकारिणी च
सर्व्वप्रयोगे त्रिफला स्मृता च ।
सर्व्वामयानां शमनी त्त सद्यः
सतेजकान्तिं प्रतिमां करोति ॥
शोथे तथा कामलपाण्डुरोगे
तथोदरे मूत्रयुता हिता च ।
हितातिसारे ग्रहणीविकारे
हिता च तक्रेण फलत्रिका च ॥
क्षीणेन्द्रिये यक्ष्मणि जीर्णरोगे
क्षीरेण यक्ता त्रिफला हिता च ।
स्यान्नेत्ररोगे च शिरोगदे च
कुष्ठे च कण्डूव्रणपीडिते च ।
मूत्रग्रहे कामलकेऽग्निमान्द्ये
हिता जलेन त्रिफला हि कल्कः ॥
स शीतकाले गुडनागरेण
सशर्करा क्षीरयुता तथोष्णे ।
वर्षासु शुण्ठी सहिता नराणां
फलत्रिका सर्व्वरुजाहरा स्यात् ॥”
इति महर्ष्यात्रेयभाषिते हारीतोत्तरे कल्प-
स्थाने त्रिफलाकल्पोनाम द्बितीयोऽध्यायः ॥)

त्रिफली, स्त्री, त्रिफला । इति राजनिर्घण्टः ॥

त्रिबलीकं, क्ली, (तिस्रो बल्यो यत्र । कप् ।)

पायुः । इति हेमचन्द्रः । ३ । २७६ ॥

त्रिभण्डी, स्त्री, (त्रीन् वातादिदोषान् भण्डति

परिहसतीति । भण्ड परिहासे + अण् । ततो
ङीप् ।) त्रिवृता । इत्यमरः । २ । ४ । १०८ ॥
(पर्य्यायोऽस्या यथा, --
“त्रिवृद्वृकाक्षी सुवहा त्रिभण्डी त्रिपुटा च सा ।
व्याघ्रादनी कूटरणा निःसृता त्रिवृता कणा ॥”
इति वैद्यकरत्नमालायाम् ॥
यथाच सुश्रुते चिकित्सितस्थाने । १७ ।
“श्यामा त्रिभण्डी त्रिफला सुसिद्धं
हरिद्रयो रोध्रकवृक्षयोश्च ।
घृतं सदुग्धं व्रणतर्पणेन
हन्याद्गतिं कोष्ठगतापि या स्यात् ॥”)

त्रिभद्रं, क्ली, (त्रिषु नखक्षतदन्तक्षतमर्द्दनेष्वपि

भद्रं यस्मिन् ।) सुरतम् । इति त्रिकाण्डशेषः ॥

त्रिभुवनं, क्ली, त्रयाणां भुवनानां समाहारः ।

(तद्धितार्थेत्यादिना समासः । पात्रादित्वात् न
ङीप् । पां २ । ४ । १७ ।) त्रिलोकी । इति
व्याकरणम् ॥ (यथा, भागवते । ३ । ११ । ३० ।
“तावत्त्रिभुवनं सद्यः कल्पान्तैधितसिन्धवः ।
प्लावयन्त्युत्कटाटोपचण्डवातेरितोर्म्मयः ॥”)

त्रिमदः, पुं, (त्रयानां मदानां ससाहारः । अभि-

धानात् पुंस्त्वम् ।) मुस्ताचित्रकविडङ्गानि ।
इति वैद्यकम् ॥ (यथा, वैद्यकपरिभाषायाम् ।
विडङ्गमुस्तचित्रञ्च त्रिमदः समुदाहृतः ॥”
त्रिगुणितो मदः । विद्याधनाभिजनोत्पन्नं गर्व्व-
त्रयम् । यथा, भागवते । ३ । १ । ४३ ।
“नूनं नृपाणां त्रिमदोत्पथानां
महीं मुहुश्चालयतां चमूभिः ।
वधात् प्रपन्नार्त्तिजिहीर्षयेशो
व्युपैक्षताघं भगवान् कुरूणाम् ॥”)

त्रिमधु, क्ली, (त्रयाणां मधूनां मधुराणां समा-

हारः ।) मिलितसितामाक्षिकसर्पींषि । तत्-
पर्य्यायः । मधुरत्रयम् २ मधुत्रयम् ३ । इति
राजनिर्घण्टः ॥

त्रिमधुः, पुं, (मधुवाता इत्यादयस्त्रयो मधुशब्दा

यत्र ।) ऋग्वेदैकदेशः । (यथा, ऋग्वेदे ।
१ । ९० । ६ -- ८ ।
“मघुवाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्तोषधीः ॥
मधुनक्तमुतोषसो मधुमत् पार्थिवं रजः ।
मधु द्यौरस्तुनः पिता ॥
मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्य्यः ।
माध्वीर्गावो भवन्तु नः ॥”)
पृष्ठ २/६६१
मधुवातादिऋक्त्रयवेत्ता । यथा, --
“त्रिनाचिकेतस्त्रिमधुस्त्रिसुवर्णः षडङ्गवित् ॥”
इति पङ्क्तिपावनवर्णने मार्कण्डेयपुराणम् ।
३१ । २३ ॥ तद्व्रतञ्च । तद्व्रताचरणेन यस्तद-
ध्यायी सोऽपि । इति विज्ञानेश्वरः ॥ * ॥ श्राद्धे
त्रिवारमधुशब्दोच्चारणविधिर्यथा, --
“गायत्त्रीं त्रिः सकृद्बापि जपेद्ब्याहृति-
पूर्ब्बिकाम् ।
मधुवाता इति त्र्यृचं मध्वित्येतत् त्रिकं जपेत् ॥”
इति श्राद्धतत्त्वे मिताक्षराधृतपारस्करवचनम् ॥)

त्रिमार्गी, स्त्री, त्रयाणां मार्गानां समाहारः ।

त्रिपथम् । इति व्याकरणम् ॥

त्रिमुकुटः, पुं, (त्रीणि मुकुटानीव शृङ्गान्यस्य ।)

त्रिकूटपर्व्वतः । इति हेमचन्द्रः । ४ । ९६ ॥

त्रिमुखः, पुं, (त्रीणि मुखानि यस्य ।) बुद्ध-

विशेषः । इति हेमचन्द्रः । १ । ४१ ॥

त्रिमुखा, स्त्री, (त्रीणि मुखानि यस्याः ।) बुद्ध-

देवताभेदः । सा मायादेवी । तत्पर्य्यायः ।
मारीची २ वज्रकालिका ३ विकटा ४ वज्र-
वाराही ५ गौरी ६ पात्रिरथा ७ । इति
त्रिकाण्डशेषः ॥

त्रिमूर्त्तिः, पुं, (तिस्रो मूर्त्तयो यस्य ।) बुद्धः ।

इति त्रिकाण्डशेषः ॥ त्रि, ब्रह्मविष्णुशिवाख्य-
मूर्त्तित्रयवान् । यथा, --
“त्रिमूर्त्तिर्यः सर्गस्थितिविलयकर्म्माणि तनुते ।”
इति गङ्गेशोपाध्यायः ॥
(यथाच कुमारे । २ । ४ ।
“नमस्त्रिमूर्त्तये तुभ्यं प्राक् सृष्टेः केवलात्मने ॥”)

त्रियष्टिः, पुं, (त्रिषु वातपित्तकफात्मकेषु दोषेषु

यष्टिरिव तन्नाशकत्वात् ।) क्षेत्रपर्पटी । इति
रत्नमाला ॥

त्रियामकं, क्ली, (त्रीन् धर्म्मार्थकामरूपान्

त्रिवर्गानपि यमयति नाशयतीति । यम +
णिच् + ण्वुल् ।) पापम् । इति शब्दमाला ॥

त्रियामा, स्त्री, (त्रयो यामाः प्रहरा यस्याः ।

“त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतुष्टयम् ॥”
इति वचनात् आद्यन्तयोरर्द्धयामयोश्चेष्टाकाल-
त्वेन दिनप्रायत्वात् तथात्वम् ।) रात्रिः । (यथा,
हरिवंशे । १०२ । २९ ।
“स मत्तो बलिनां श्रेष्ठो रराजाघूर्णिताननः ।
शैशिरीषु त्रियामासु यथा खेदालसः शशी ॥”
त्रिप्रहरान्विते, त्रि । यथा, गोः रामायणे ।
२ । १० । १७ ।
“त्रियामापि भृशार्त्तस्य सा रात्रिरभवत्तदा ।
तथा विलपतस्तस्य राज्ञो वर्षशतोपमा ॥”)
हरिद्रा । इत्यमरः । २ । ९ । ४१ ॥ यमुना ।
नीली । कृष्णत्रिवृत् । इत्युणादिकोषः ॥

त्रियुगः, पुं, (त्रीणि युगानि सत्यत्रेताद्बापर-

रूपाणि आविर्भावकालोऽस्य ।) विष्णुः । यथा,
भागवते । ७ । ९ । ३८ ।
“इत्यं नृतिर्य्यगृषिदेवझषावतारै-
र्लोकान् विभावयसि हंसि जगत्प्रतीपान् ।
धर्म्मं महापुरुष ! पासि युगानुवृत्तं
छन्नः कलौ यदभवस्त्रियुगोऽथ स त्वम् ॥”
“एकस्तमेव इत्यादिभिरष्टभिः श्लोकैर्यदुक्तं पक्ष-
पातेन रक्षणं तद्बिपक्षवधश्च सत्त्वोपाधितो न
स्वत इति तदुपसंहरति इत्थमिति विभावयसि
पालयसि हंसि घातयसि । कलौ तु तन्न करोषि
यतस्तदा त्वं छन्नोऽभवः यतस्त्रिष्वेव युगेष्वावि-
र्भावात् स एवम्भूतस्त्वं त्रियुग इति प्रसिद्धः ।”
इति तट्टीकायां श्रीधरस्वामी ॥ (तथा च तत्रैव ।
३ । २४ । २६ ।
“स चावतीर्णं त्रियुगमाज्ञाय विबुधर्षभम् ।
विविक्त उपसंगम्य प्रणम्य समभाषत ॥”
वसन्तप्रावृट्शरद्रूपकालत्रये, क्ली । यथा, वाज-
सनेयसंहितायाम् । १२ । ७५ ।
“या ओषधीः पूर्ब्बा जाता देवेभ्यस्त्रियुगं पुरा ॥”
“युगशब्दः कालवाची । त्रयाणां युगानां समा-
हारस्त्रियुगं त्रिकालं वसन्ते प्रावृषि शरदि
च ।” इति तद्भाष्ये महीधरः ॥ कृतत्रेताद्वापर-
रूपयुगत्रयम् । इति ऋग्वेदस्य । १० । ९७ । १ ।
भाष्ये सायनः ॥ षडैश्वर्य्यशालिनि, त्रि । यथा,
महाभारते । ३ । ८६ । ५ ।
“त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनञ्जयौ ॥”
“त्रियुगौ धर्म्मस्य भार्य्यायां मूर्त्तिसंज्ञायां कृत-
युगेऽवतीर्णौ नरनारायणौ तावेव द्बापरान्ते
केशवार्ज्जुनौ इति पुराणपुरुषावेतौ नास्मदादि-
वन्मानुषाविति भावः । यद्वा, त्रीणि युगानि
युगलानि षडैश्वर्य्याणि भगसंज्ञानि वा षड-
ङ्गानि वा ययोस्तौ त्रियुगौ ॥” इति तट्टी-
कायां नीलकण्ठः ॥)

त्रियूहः, पुं, कपिलाश्वः । इति हेमचन्द्रः ॥ (यथा,

अश्ववैद्यके । ३ । १०२ ।
“नीलो नीलक एवाश्वस्त्रियूहः कपिलः
स्मृतः ॥”)

त्रिरात्रं, क्ली, रात्रित्रयम् । तिसृणां रात्रीणां

समाहारः । इति लिङ्गादिसंग्रहटीकायां
भरतः ॥ (यथा, मनुः । ४ । ११९ ।
“उपाकर्म्मणि चोत्सर्गे त्रिरात्रं क्षेपणं
स्मृतम् ।
अष्टकासु त्वहोरात्रमृत्वन्तासु च रात्रिषु ॥”)

त्रिरेखः, पुं, (तिस्रो रेखा यत्र ।) शङ्खः । इति

हेमचन्द्रः । ४ । २७२ ॥

त्रिलवणं, क्ली, (त्रयाणां लवणानां समाहारः ।

पात्रादित्वात् न ङीप् ।) सैन्धवं विडं रुचकं
मिलितैतल्लवणत्रयम् । इति राजनिर्घण्टः ॥
(“सिन्धुसौवर्च्चलञ्चैव विडं सामुद्रमौद्भिदम् ।
एक-द्बि-त्रि-चतुः-पञ्च लवणानि क्रमादिह ॥”
इति वैद्यकपरिभाषा ॥)

त्रिलोकी, स्त्री, त्रयाणां लोकानां समाहारः ।

(“द्विगोः ।” ४ । १ । २१ । इति ङीप् ।)
लोकत्रयम् । यथा, भूर्लोकः भुवर्लोकः स्वर्लो-
कश्च । इति लिङ्गादिसंग्रहटीकायां भरतः ॥
(यथा, भागवते । १ । ५ । ७ ।
“त्वं पर्य्यटन्नर्क इव त्रिलोकी-
मन्तश्चरो वायुरिवात्मसाक्षी ॥”)

त्रिलोकेशः, पुं, (त्रयाणां लोकानामीशः ।) सूर्य्यः ।

इति शब्दचन्द्रिका ॥ (विष्णुः । यथा, महा-
भारते । १३ । १४९ । ८२ ।
“त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा
हरिः ॥”
“त्रयो लोकास्तदाज्ञप्ताः स्वेषु स्वेषु कर्म्मसु
वर्त्तन्त इति त्रिलोकेशः ॥” इति शाङ्करभाष्यम् ॥
महादेवः । यथा, महाभारते । १४ । ८ । २७ ।
“त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् ॥”
त्रिलोकाधिपतौ, त्रि । यथा, तत्रैव । ३ । ८४ ।
११७ ।
“अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम् ।
अश्वमेधमवाप्नोति विष्णु लोकञ्च गच्छति ॥”)

त्रिलोचनः, पुं, (त्रीणि चन्द्रसूर्य्याग्निरूपाणि

लोचनानि यस्य ।) शिवः । इत्यमरः । १ । १ । ३४ ॥
(यथा, कुमारे । ५ । ७२ ।
“वपुर्विरूपाक्षमलक्ष्यजन्मता
दिगम्बरत्वेन निवेदितं वसु ।
वरेषु यद् बालमृगाक्षि ! मृग्यते
तदस्ति किं व्यस्तमपि त्रिलोचने ॥”
लोचनत्रयविशिष्टे, त्रि । यथा, माघे । १ । ७०
“स बाल आसीद्बपुषा चतुर्भुजो
मुखेन पुर्णेन्दुनिभस्त्रिलोचनः ॥”)

त्रिलोचना, स्त्री, (त्रीणि लोचनानि यस्याः ।)

बुद्धदेवीभेदः । इति त्रिकाण्डशेषः । दुर्गा च ॥
(सा च गायत्त्रीस्वरूपिणी । यथा, देवीभाग-
वते । १२ । ६ । ६७ ।
“त्रिकालज्ञानसम्पन्ना त्रिवली च त्रिलोचना ॥”)

त्रिलोचनाष्टमी, स्त्री, (त्रिलोचनाय त्र्यम्बक-

पूजायै या अष्टमी ।) गौणचान्द्रज्यैष्ठकृष्णा-
ष्टमी । यथा, --
“ज्यैष्ठे मासि नृपश्रेष्ठ ! कृष्णाष्टम्यां त्रिलोचनम् ।
यः पूजयति देवेशमीशलोकं स गच्छति ॥”
इति संवत्सरकौमुदीधृतभविष्यपुराणवचनम् ॥
अपि च ।
“ज्यैष्ठे मास्यसिते पक्षे अष्टम्याञ्च महेश्वरि ! ।
शिवार्च्चने च तल्लोकं लभते नात्र संशयः ॥”
इत्युत्तरकामाख्यातन्त्रे ११ पटलः ॥

त्रिलोचनी, स्त्री, (त्रीणि लोचनानि यस्याः ।)

दुर्गा । इति पुराणम् ॥

त्रिलोहकं, क्ली, (त्रयाणां लोहकानां समाहारः ।)

सुवर्णं रजतं ताम्रं एतद्धातुत्रयम् । इति राज-
निर्घण्टः ॥

त्रिलौही, स्त्री, (त्रीणि लौहानि साधनत्वेना-

स्त्यस्याः । अच् । गौरादित्वात् ङीष् ।)
मुद्राविशेषः । यथा, अथ मन्त्रिणां हितर्थाय
त्रिलौही मुद्रा निरूप्यते ।
“सोमसूर्य्याग्निरूपाः स्युवेर्णा लौहत्रयं तथा ।
रौप्यमिन्दूः स्मृतो हेम सूर्य्यस्ताम्रो हुताशनः ॥
लौहभागाः समुद्दिष्टाः स्वराद्यक्षरसंख्यया ।
पृष्ठ २/६६२
तैर्लौहैः कारयेन्मुद्रामसङ्कलितसङ्गताम् ॥
एषु स्वराः स्मृताः सौम्याः स्पर्शाः सौराः
शुभोदयाः ।
आग्नेया व्यापकाः सर्व्वे सोमसूर्य्याग्निदेवताः ॥
स्वराः षोडश विख्याताः स्पर्शास्ते पञ्चविंशतिः ।
व्यापका दश ते कामधनधर्म्मप्रदायिनः ॥
साष्टं सहस्रं संजप्य स्पृष्ट्वा तां जुहुयात्ततः ।
तस्यां सम्पातयेन्मन्त्री सर्पिषा पूर्ब्बसंख्यया ॥
निःक्षिप्य कुम्भे तां मुद्रामभिषेकोक्तवर्त्मना ।
आवाह्य पूजयेद्देवीमुपचारैर्व्विधानतः ॥
अभिषिच्य विनीताय दद्यात्तां मुद्रिकां गुरुः ।
इयं मुद्रा क्षुद्ररोगविषज्वरविनाशिनी ॥
व्यालचौरमृगादिभ्यो रक्षां कुर्य्याद्बिशेषतः ।
युद्धे विजयमाप्नोति धारयन् मनुजेश्वरः ॥
मन्त्रसिद्धिकरी पुंसां चतुर्व्वर्गफलप्रदा ।
धारयन्मनुजो नित्यं देवतुल्यो भवेद्भुवि ॥”
इति तन्त्रसारः ॥

त्रिवर्गः, पुं, (त्रयानां वर्गः समूहः ।) धर्म्म-

कामार्थाः । इत्यमरः । २ । ७ । ५८ ॥ (यथा,
महाभारते । १ । १८१ । ३ ।
“यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति ।
नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम् ॥”)
त्रिफला । त्रिकटु । (यथा, सुश्रुते उत्तरतन्त्रे
४१ अध्याये ।
“भागान् दशैतान् विपचेद्विधिज्ञो
दत्त्वा त्रिवर्गं मधुरञ्च कृत्स्नम् ॥”)
वृद्धिस्थानक्षयाः । (यथा, महाभारते । १२ ।
६९ । ६९ ।
“त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु ।
क्षयः स्थानञ्च वृद्धिश्च त्रिवर्गः परमस्तथा ॥”)
सत्त्वरजस्तमांसि । इति मेदिनी । गे, ३७ ॥
सुनीतिः । इति शब्दरत्नावली ॥

त्रिवर्णकं, क्ली, (त्रयो वर्णाः सन्त्यवयवादौ यस्य ।

कप् ।) गोक्षुरकः । त्रिफला । (यथा,
सुश्रुते । १ । ४४ ।
“त्रिवर्णकत्र्यूषणयुक्तमेतद्
गुडेन लिह्यादनवेन चूर्णम् ॥”)
त्रिकटु । इति मेदिनी । के, १९२ ॥ (ब्राह्म
णादिवर्णत्रये, श्यामरक्तपीतात्मके वर्णत्रये च ॥)

त्रिवर्षिका, स्त्री, (त्रीणि वर्षाणि वयो यस्याः सा

त्रिवर्षा । ततः स्वार्थे कन् । टापि अत इत्वञ्च ।)
त्रिहायणी । त्रिवर्षा गौः । इति हेमचन्द्रः ।
४ । ३३८ ॥

त्रिवलिः, स्त्री, (त्रिगुणिता वलिस्त्वक्तरङ्गः ।) जठरा-

वयवविशेषः । (यथा, देवीभागवते । ५ । ८ । ७१ ।
“ऐन्द्रेणास्यास्तथा मध्यं जातं त्रिवलिसंयुतम् ॥”
कृदिकारादिति पक्षे ङीपि त्रिवलीत्यपि ।) यथा,
“त्रिवलीवलयोपेताम् ॥”
इति जगद्धात्रीध्यानम् ॥

त्रिविक्रमः, पुं, (त्रीन् लोकान् विशेषेण क्रामति

व्याप्नोतीति । वि + क्रमं + अच् । यद्बा, त्रिषु
लोकेषु बलिवञ्चनार्थं भूव्योमस्वर्गेषु क्रमः पाद-
न्यासो यस्य ।) विष्णुः । इत्यमरः । १ । १ । २० ॥
(यथा, महाभारते । १३ । १४९ । ६९ ।
“आनन्दो नन्दनो नन्दः सत्यधर्म्मस्त्रिविक्रमः ॥”
“त्रयो विक्रमास्त्रिषु लोकेषु यस्य स त्रिविक्रमः ।
‘त्रीणि पदानि विचक्रमे’ इति श्रुतेः ।
‘त्रिरित्येवं त्रयो लोकाः कीर्त्तिता मुनिसत्तमैः ।
विक्रामंस्तु ततः सर्व्वांस्त्रिविक्रमोऽसि जनार्द्दन ! ।’
इति हरिवंशे ॥” इति शाङ्करभाष्यम् ॥)

त्रिविष्टपं, क्ली, (तृतीयं विष्टपं भुवनम् ।) त्रिपि-

ष्टपम् । स्वर्गः । इत्यमरटीकायां स्वामी ॥
(यथा, रामायणे । २ । १०८ । ९ ।
“विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ॥”)
त्रिभुवनञ्च ॥

त्रिविष्टपसत्, [द्] पुं, (त्रिविष्टपे स्वर्गे सीद-

तीति । सद् + क्विप् ।) त्रिपिष्टपसत् । (देवः ।)
इति हलायुधः ॥

त्रिवीजः, पुं, (त्रीणि त्रीणि वीजानि यस्य ।)

श्यामाकः । इति राजनिर्घण्टः ॥

त्रिवृत्, स्त्री, (त्रीनवयवान् वृणोतीति । वृ +

क्विप् तुक् च ।) लताविशेषः । तेउडी इति
भाषा । तत्पर्य्यायः । सर्व्वानुभूतिः २ सुवहा ३
त्रिपुटा ४ त्रिवृता ५ त्रिभण्डी ६ रेचनी ७ ।
इत्यमरः । २ । ४ । १०८ ॥ सवहा ८ सरणा ९
सरसा १० त्रिपुटी ११ रोचनी १२ । एते
त्रिवृता सामान्ये शुक्लत्रिवृतायामिति केचित् ।
इति भरतः ॥ मालविका १३ मसूरी १४
श्यामा १५ अर्द्धचन्द्रा १६ विदला १७ सुषेणी
१८ कालिङ्गिकम् १९ कालमेषी २० काली २१
त्रिवेला २२ त्रिवृत्तिका २३ । इति राज-
निर्घण्टः ॥ श्वेता २४ सारा २५ । इति शब्द-
रत्नावली ॥
कृष्णायाः पर्य्यायः । श्यामा १ पालिन्दी २
मुषेणिका ३ काला ४ मसूरविदला ५ अर्द्ध-
चन्द्रा ६ कालमेषिका ७ । इत्यमरः । २ । ४ ।
१०८ ॥ पालिन्धी ८ कालमेशिका ९ । इति
भरतः ॥ श्वेतायाः पर्य्यायः । त्रिवृत् १ वृकाक्षी
२ सुवहा ३ त्रिभण्डी ४ त्रिपुटा ५ ॥ अरु-
णायाः पर्य्यायः । व्याघ्रादनी १ कुटरुणा २
निःसृता ३ त्रिवृता ४ अरुणा ५ । इति रत्न-
माला ॥ सामान्यत्रिवृतागुणाः । कटुत्वम् ।
उष्णत्वम् । कृमिश्लेष्मोदरार्त्तिकुष्ठकण्डुव्रणनाशि-
त्वम् । विरेचने प्रशस्तत्वञ्च । इति राज-
निर्घण्टः ॥ अरुणवर्णत्रिवृद्गुणाः । स्वादु-
त्वम् । कषायत्वम् । मृदुत्वम् । रेचनत्वम् ।
रूक्षत्वम् । कटुत्वम् । दोषपाके पित्तकफापह-
त्वञ्च ॥ अस्याश्चाल्पान्तरगुणा विज्ञेया त्रिवृता
सिता । इति राजवल्लभः ॥
श्वेतत्रिवृद्गुणाः । विरेचनत्वम् । स्वादुत्वम् ।
उष्णत्वम् । वायुकारित्वम् । रूक्षत्वम् । पित्त-
ज्वरश्लेष्मपित्तशोफोदरापहत्वञ्च ॥ कृष्णत्रिवृता-
गुणाः । श्वेताद्धीनगुणत्वम् । तीव्रत्वम् । विरे-
चनत्वम् । मूर्च्छादाहमदभ्रान्तिकण्ठोत्कर्षण-
कारित्वञ्च । इति भावप्रकाशः ॥ (त्रिभिर्युक्ते,
त्रि । यथा, ऋग्वेदे । १ । ३४ । ९ ।
“क्व त्री चक्रा त्रिवृतो रथस्य ॥”
यथा च मनुः । २ । ४२ ।
“मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्य्या विप्रस्य
मेखला ॥”)

त्रिवृत्करणं, क्ली, (त्रिवृतस्त्र्यवयवस्य करणं

मिश्रीकरणम् ।) क्षित्यप्तेजसां मिश्रीकरणम् ।
यथा, “तेजोजलक्षितयः प्रत्येकं द्वेधा विभज्य
एकस्मिन्नर्द्धे स्वेतरयोरर्द्धार्द्धं प्रक्षिपेत् ।” इति
मोक्षधर्म्मटीकायां नीलकण्ठः ॥

त्रिवृत्पर्णी, स्त्री, (त्रीन् दोषान् नाश्यत्वेन वृणोति

प्राप्नोतीति त्रिवृत् त्रिदोषघ्नम् । त्रिवृत् पर्णं
यस्याः । ङीप् ।) हिलमोचिका । इति शब्द-
चन्द्रिका ॥ (हिलमोचिकाशब्दे विवृतिरस्या
ज्ञेया ॥)

त्रिवृता, स्त्री, (त्रिभिरवयवैर्वृता ।) त्रिवृत् ।

इत्यमरः । २ । ४ । १०८ ॥ (अस्याः पर्य्यायो
यथा, --
“त्रिभण्डी त्रिवृता श्यामा सुरभा कोटरा तथा ।
सर्व्वानुभूतिः सुवहा शब्दैः पर्य्यायवाचकैः ॥”
“त्र्यषणं त्रिफला हिङ्गु कार्षिकं त्रिवृतापलम् ।
सौवर्च्चलार्द्धकर्षञ्च पलार्द्धञ्चाम्लवेतसाम् ॥
तच्चूर्णं शर्करातुल्यं मद्येनाम्लेन वा पिबेत् ।
गुल्मपार्श्वार्त्तिनुत् सिद्धं जीर्णे चाद्याद्रसौदनम् ॥”
“तुल्याम्लं त्रिवृताकल्कं सिद्धं गुल्महरं घृतम् ।
मूलं श्यामात्रिवृतयोः पचेदामलकैः सह ।
जले तेन कषायेण पक्त्वा सर्पिः पिबेन्नरः ॥”
इति चरके कल्पस्थाने सप्तमेऽध्याये ॥)

त्रिवेणी, स्त्री, (तिस्रो वेण्यः वारिप्रवाहा

वियुक्ताः संयुक्ता वा यत्र ।) स्थानविशेषः ।
यत्र गङ्गया यमुनासरस्वत्योर्वियोगः । सा
दक्षिणप्रयागः । तस्य सीमनिर्णयः । यथा, --
“प्रद्युम्नस्य ह्रदात् याम्ये सरस्वत्यास्तथोत्तरे ।
तद्दक्षिणप्रयागस्तु गङ्गातो यमुना गता ॥”
इति प्रायश्चित्ततत्त्वम् ॥
इयं मुक्तवेणीति कथ्यते । प्रयागे युक्तवेणी ॥
(अत्र गङ्गया यमुनासरस्वत्योः सङ्गमात् ॥ * ॥
हठयोगोक्तेडापिङ्गलासुषुम्नारूपपारिभाषिक-
नदीत्रयसङ्गमस्थानम् । यथा, हठयोगप्रदीपि-
कायाम् । ३ । २४ ।
“कालपाशमहाबन्धविमोचनविचक्षणः ।
त्रिवेणीसङ्गमं धत्ते केदारं प्रापयेन्मनः ॥”
इदन्तत्वाद्वा ङीबिति त्रिवेणिरपि पाठः ॥)

त्रिवेला, स्त्री, (तिस्रो वेला अवयवसीमानो यस्याः ।)

त्रिवृत् । इति राजनिर्घण्टः ॥

त्रिशङ्कुः, पुं, (त्रीणि शङ्कूनि व्यतिक्रमाणि यस्य ।)

सूर्य्यवंशीयराजविशेषः । स तु इक्ष्वाकुवंशोद्भव-
पृथुराजपुत्त्रः । (अस्य नामनिरुक्तिर्यथा, हरि-
वंशे । १३ । १९ ।
“एवं त्रीण्यस्य शङ्कूनि तानि दृष्ट्वा महायशाः ।
त्रिशङ्कुरिति होवाच त्रिशङ्कुरिति स स्मृतः ॥”)
पृष्ठ २/६६३
एष वशिष्ठमाह अहं सशरीरेण स्वर्गं गन्तुं
यजेयं वशिष्ठ एतदशक्यमित्याह ततो राजा
तस्य पुत्त्रानुवाच सशरीरो यज्ञेन स्वर्गं यथा-
प्नुयां तथा कुरुत यदि भवद्भिः परित्यक्तस्तदान्यं
गुरुमुपासिष्ये वशिष्ठपुत्त्रास्तच्छ्रुत्वा राजानमूचु-
र्वशिष्ठो भगवान् अशक्यमिति यत् प्राह तद-
स्माभिः कथं शक्यम् । राजोवाच यष्टुमन्यां गतिं
गमिष्यामि तच्छ्रुत्वा ऋषिपुत्त्रा राजानं शेपुः
श्वश्चाण्डालो भविष्यसि । ततस्तस्यां रात्र्यामती-
तायां स चाण्डालदर्शनो भूत्वा विश्वामित्रं शरण-
माययौ विश्वामित्रस्तं स्वीयद्रव्येण याजयामास
तस्मिन् यज्ञे देवा भागार्थं नागच्छन् ततो
विश्वामित्रः क्रोधात् राजानमब्रवीत् मया
बाल्यात् प्रभृति यत्तपः कृतं तेन त्वं दिवं व्रज
तदा राजा सशरीरो दिवं ययौ । तदा शक्रस्तमु-
वाच त्रिशङ्को ! त्वं भूमौ पत ततोऽवाक्शिराः
पतन् राजा पाहीति विश्वामित्रमुवाच विश्वा-
मित्रस्तिष्ठेति तमुक्त्वा स्वर्गदक्षिणमार्गेऽपरान्
सप्तर्षीन् सृष्ट्वापरं नक्षत्रचक्रं स्रष्टुमुपचक्रमे
देवाः सम्भ्रान्ता ऋषिमूचुरयं सशरीरः स्वर्गं गन्तुं
नार्हति विश्वामित्रस्तानुवाच अहमस्य स्वर्गा-
रोहणं प्रतिज्ञाय कथमनृतं करिष्यामि अतो
यावल्लोकाः स्थास्यन्ति तावदमूनि नक्षत्राण्य-
त्रैव तिष्ठन्तु त्रिशङ्कुरप्यवाक्शिरास्तिष्ठतु । इति
रामायणम् ॥ * ॥ विडालः । शलभः । इति
मेदिनी । के, १०१ ॥ चातकपक्षी । इति शब्द-
रत्नावली ॥ खद्योतः । इति शब्दमाला ॥ (महा-
देवः । यथा, महाभारते । १३ । १७ । १०२ ।
“अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥”)

त्रिशङ्कुजः, पुं, (त्रिशङ्कोर्जायते इति । जन + डः ।)

हरिश्चन्द्रराजः । इति हेमचन्द्रः । ३ । ३६५ ॥

त्रिशङ्कुयाजी, [न्] पुं, (त्रिशङ्कुं सूर्य्यवंशीयराज-

विशेषं याजयतीति । यज + णिच् + णिनिः ।)
विश्वामित्रः । इति हेमचन्द्रः । ३ । ५१४ ॥

त्रिशरणः, पुं, (त्रीणि शरणान्यस्येति ।) जिनः ।

इति त्रिकाण्डशेषः ॥

त्रिशर्करा, स्त्री, (त्रिभिर्गुणिता शर्करा । शाक-

पार्थिवादित्वात् समासः ।) मिलितगुडोत्पन्ना
हिमोत्था मधुरा । इति राजनिर्घण्टः ॥

त्रिशला, स्त्री, (तिस्रः शाला यस्याः । पृषोदरा-

दित्वात् साधुः ।) वृत्तार्हन्मातृविशेषः । सा
वर्द्धमानमाता । इति हेमचन्द्रः । १ । ४१ ॥

त्रिशाखपत्रः पुं, (त्रिशाखं त्रिदलं पत्रमस्य ।)

विल्वः । इति राजनिर्घण्टः ॥

त्रिशिखं, क्ली, (तिस्रः शिखा यस्य ।) त्रिशूलम् ।

किरीटम् । इति हेमचन्द्रः ॥

त्रिशिखः, पुं, (तिस्रः शिखा अस्य ।) राक्षस-

विशेषः । स रावणपुत्त्रः । इति हेमचन्द्रः ॥
विल्वः । इति राजनिर्घण्टः ॥ (तामसमन्व-
न्तरस्य इन्द्रः । यथा, भागवते । ८ । १ । २८ ।
“सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः ।
ज्योतिर्धामादयः सप्त ऋषयस्तामसेऽन्तरे ॥”
शिखात्रययुक्ते, त्रि, । यथा, महाभारते । २ ।
४२ । ११ ।
“त्रिशिखां भ्रुकुटीञ्चास्य ददृशुः सर्व्वपार्थिवाः ।
ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव ॥”)

त्रिशिखिदला, स्त्री, (तिस्रः शिखाः सन्त्यस्येति

इनिः । त्रिशिखि दलं अस्याः ।) मालाकन्दः ।
इति राजनिर्घण्टः ॥

त्रिशिराः, [स्] पुं, (त्रीणि शिरांसि मस्तकानि

यस्येति ।) कुवेरः । इति हेमचन्द्रः । २ । १०३ ॥
ज्वरः । यथा, --
“त्रिशिरास्ते प्रसन्नोऽहं व्येतु ते मज्ज्वराद्भयम् ।”
इति श्रीभागवतम् ॥
रावणपुत्त्रविशेषः । (यथा, रामायणे । ६ ।
१२५ । ९ ।
“अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः ।
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ॥”)
खरसेनापतिः । इति रामायणम् ॥ (यथा,
रघुवंशे । १२ । ४७ ।
“तं शरैःप्रतिजग्राह खरत्रिशिरसौ च सः ॥”
स्वनामख्यातस्त्वष्टुः प्रजापतेः पुत्त्रः । यथा,
महाभारते । ५ । ९ । २ ।
“त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः ।
सपुत्त्रं वै त्रिशिरसमिन्द्रद्रोहात् किलासृजत् ॥”
असुरविशेषः । यथा, तत्रैव । ९ । ३१ । १२ ।
“वातापिरिल्ललश्चैव त्रिशिराश्च तथा विभो ! ॥”
शिखात्रयविशिष्टे, त्रि । यथा, तत्रैव । २३ ।
१४७ । ५४ ।
“त्रिशिरास्तस्य देवस्य शातकुम्भमयो द्रुमः ।
ध्वजस्तृणेन्द्रो देवस्य भविष्यति रथाश्रितः ॥”)

त्रिशीर्षकं, क्ली, (त्रीणि शीर्षाणि यस्य । कप् ।)

त्रिशूलम् । इति हेमचन्द्रः । ३ । ४५१ ॥

त्रिशूलं, क्ली, (त्रीणि शूलानि इव अग्राणि यस्य ।)

अस्त्रविशेषः । तत्र्य्यायः । त्रिशिखम् २ । इति
मेदिनी । खे, ९ ॥ शूलम् ३ त्रिशीर्षकम् ४ ।
इति हेमचन्द्रः ॥ (यथा, महाभारते । २ । ३० । ४९ ।
“चक्राणि परिघाश्चैव त्रिशूलानि परश्वधान् ॥”)

त्रिशूली, [न्] पुं, (त्रिशूलमस्त्रमस्त्यस्येति ।

त्रिशूल + इनिः ।) शिवः । यथा, --
“त्र्यक्षोऽभेद्यस्त्रिशूली च वृषकेतुर्म्महाबलः ॥”
इति स्कन्दपुराणे नीलकण्ठस्तवः ॥
(त्रिशूलघारिणि, त्रि । स्त्रियां ङीप् । यथा,
हरिवंशे । १६४ । ११ ।
“त्रिशूलिनीं नमस्यामि महिषासुरधातिनीम् ॥”)

त्रिशृङ्गः, पुं, (त्रीणि शृङ्गाणि यस्य ।) त्रिकूट-

पर्व्वतः । इति शब्दरत्नावली ॥ (यथा, ब्रह्माण्डे ।
३९ । १२ ।
“त्रिशृङ्गो जरुथिश्चैव पर्व्वतावुत्तरौ वरौ ॥”)
त्रिकोणः । यथा, कुरङ्गेण हीनस्त्रिशृङ्गस्तदन्त-
रिति सारसमुच्चयः ॥

त्रिशृङ्गी, [न्] पुं, (त्रीणि शृङ्गानीव सन्त्यस्येति ।

त्रिशृङ्ग + इनिः ।) रोहितमत्स्यः । इति
शब्दार्थकल्पतरुः ॥

त्रिष्टुप्, [भ्] स्त्री, (त्रिषु स्थानेषु स्तुभ्यते जडी-

क्रियते इति । स्तुभ जडीकरणे + क्विप् । षत्वम् ।)
छन्दोविशेषः । इति छन्दोमञ्जरी ॥ (यथा,
वाजसनेयसंहितायाम् । ९ । ३३ ।
“इन्द्र एकादशाक्षरेण त्रिष्टु भमुदजयत्तामुज्जे-
षम् ॥”) अस्य विवरणं छन्दस्शब्दे द्रष्टव्यम् ।
अस्योत्पत्तिविवरणं यथा, श्रीभागवते । ३ ।
१२ । २९ ।
“तस्योष्णिगासील्लोमभ्यो गायत्त्री च त्वचो विभोः ।
त्रिष्टुप् मांसात् स्नुतोऽनुष्टुप् जगत्यस्थ्नः प्रजा-
पतेः ॥
मज्जायाः पङ्क्तिरुत्पन्ना बृहती प्राणतोऽभ-
वत् ॥”

त्रिसन्धिः, स्त्री, (त्रयः सन्धयो विकाशकाला यस्य ।)

पुष्पविशेषः । तत्पर्य्यायः । सान्ध्यकुसुमा २
सन्धिवल्ली ३ सदाफला ४ त्रिसन्ध्यकुसुमा ५
कान्ता ६ सुकुमारा ७ सन्धिजा ८ । सा
त्रिविधा । रक्ता १ सिता २ असिता च ३ ।
अस्या गुणाः । कफकासहरत्वम् । रुच्यत्वम् ।
त्रिदोषशमनत्वञ्च । इति राजनिर्घण्टः ॥

त्रिसन्ध्यं, क्ली, (तिसृणां सन्ध्यानां समाहारः ।

आबन्तोवेति पाक्षिकी क्लीवता ।) पूर्ब्बाह्ण-
मध्याह्नापराह्णकालः । इत्यमरः । १ । ४ । ३ ॥
अस्य रूपान्तरम् । त्रिसन्ध्यी । इत्यमरटीकायां
भरतः ॥ (यथा, महाभारते । ३ । ८२ । २१ ।
“सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुरुनन्दन ! ।
आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः ।
गन्धर्व्वाप्सरसश्चैव नित्यं सन्निहिता विभो ! ॥”)

त्रिसन्ध्यव्यापिनी, स्त्री, (त्रिसन्ध्यं व्याप्नोतीति ।

वि + आप् + णिनि + ङीप् ।) त्रिसन्ध्यघटकी-
भूतयावत्क्षणव्यापिनी तिथिः । यथा, --
“त्रिसन्ध्यव्यापिनी या तु सैव पूज्या सदा तिथिः ।
न तत्र युग्मादरणमन्यत्र हरिवासरात् ॥”
इति पराशरीयेण त्रिसन्ध्यव्यापित्वेन नियमाभि-
घानं तदपवादकम् । इति तिथ्यादितत्त्वम् ॥
तयोर्युग्मसांमुख्योरपवादकं तदपवादकम् । इति
तट्टीका ॥

त्रिसमं, क्ली, (त्रीणि हरीतकीनागरगुडानि

समानि यत्र ।) समत्रयम् । समहरीतुकीनागर-
गुडरूपम् । इति राजनिर्घण्टः ॥

त्रिसरः, पुं, (त्रिभिः स्रीयते इति । सृ + अप् ।)

कृशरः । इति हेमचन्द्रः । ३ । ६२ ॥

त्रिसवनं, क्ली, (त्रयाणां सवनानां कालानां समा-

हारः ।) त्रिकालम् । इति प्रायश्चित्ततत्त्वम् ॥

त्रिसवनस्नायी, [न्] पुं, (त्रिसवने त्रिकाले

स्नातीति । स्ना + णिनिः ।) त्रिकालस्नायी ।
इति स्मृतिः ॥

त्रिसिता, स्त्री, (त्रिगुणिता सिता शर्करा ।)

त्रिशर्करा । इति राजनिर्घण्टः ॥

त्रिसीत्यं, क्ली, (त्रिवारं सीतया सहितम् । “नौ-

वयोधर्म्मेति ।” ४ । ४ । ९१ । इति यत् ।) वार-
त्रयकृष्टक्षेत्रम् । इत्यमरः । २ । ९ । ९ ॥
पृष्ठ २/६६४

त्रिसुगन्धि, क्ली, (त्रयाणां सुगन्धिद्रव्यानां समा-

हारः ।) त्रिजातकम् । इति राजनिर्घण्टः ॥
(यथा, अश्ववैद्यके । १२ । ७३ ।
“त्वगेलापत्रसंयोगे त्रिसुगन्धि त्रिजातकम् ।
नागकेसरसंयुक्तं चतुर्जातकमुच्यते ॥”)

त्रिसुपर्णः, पुं, बह्वृचानां वेदभागः । तद्व्रतञ्च ।

तद्योगात् पुरुषोऽपि त्रिसुपर्णः । इति मनु-
टीकायां कुल्लूकभट्टः ॥ (यथा, मनुः । ३ । १८५ ।
“त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ॥”)

त्रिस्रोताः, [स्] स्त्री, (त्रीणि स्रोतांसि यस्याः ।

यद्वा, त्रिषु लोकेषु स्वर्गमर्त्त्यपातालेषु स्रोतांसि
यस्याः ।) गङ्गा । (यथा, माघे । ३ । १० ।
“अङ्गुष्ठनिष्ठ्यूतमिवोर्द्धमुच्चै-
स्त्रिस्रोतसः सन्ततधारमम्भः ॥”)
नदीभेदः । इति मेदिनी । से, ५४ ॥

त्रिहल्यं, त्रि, (त्रिवारं हलेन कृष्टम् । हल +

“मतजनहलात् करणजल्पकर्षेषु ।” ४ । ४ । ९७ ।
इति यत् ।) वारत्रयकृष्टक्षेत्रम् । तत्पर्य्यायः ।
त्रिगुणाकृतम् २ तृतीयाकृतम् ३ त्रिसीत्यम् ४ ।
इत्यमरः । २ । ९ । ९ ॥

त्रिहायणी, स्त्री, (त्रयो हायना यस्याः । “दाम-

हायनान्ताच्च ।” ४ । १ । २७ । इति ङीप् ।
“त्रिचतुर्भ्यां हायनस्य ।” इति णत्वम् ।)
त्रिवर्षा गौः । इत्यमरटीकायां रमानाथः ॥
(यथा, कात्यायनश्रौतसूत्रे । २२ । ९ । १३ ।
“वत्सतर्य्यश्च त्रिहायण्योऽप्रीताः पञ्चवर्णा
राजीव पृश्नयो नवनीतपृश्नयोऽरुणाः पिशङ्न्यः
सारङ्न्यः ॥”) द्रौपदी । यथा, --
“कृते युगे वेदवती त्रेतायां जनकात्मजा ।
द्वापरे द्रौपदीच्छाया तेन कृष्णा त्रिहायणी ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥
(त्रिवत्सरे, त्रि । यथा, महाभारते । ३ ।
२३९ । ६ ।
“अथ संस्मारणां कृत्वा लक्षयित्वा त्रिहायणान् ।
वृतो गोपालकैः प्रीतो व्यहरत् कुरुनन्दनः ॥”)

त्रुट, क ङ छिदि । इति कविकल्पद्रुमः ॥

(चुरां-आत्मं-दिवां-तुदां-परं-अवयव-
द्बिधाभावमात्रे अकं-छेदनमात्रे सकं-सेट् ।)
द्बौ दन्त्यवर्गप्रथमादी । क ङ, त्रोटयते । य,
त्रुट्यति त्रोटिष्यति । तुदाद्यन्तर्गणस्यैव कुटा-
दित्वमिति । दिवादिपक्षे न कुटादित्वम् । शि,
त्रुटति अत्रुटीत् । शेषस्तु विदीर्णभावेऽपि ।
यथा, त्रुट्यद्भीमधनुःकठोरनिनद इति महा-
नाटकम् । मयूग्वनखरत्रुटत्तिमिरकुम्भिकुम्भ-
स्थले । क्वचिल्लूनीभावेऽपि यथा । आवृणुते
यदि वक्षस्त्रुट्यति वासस्तदा जघने इत्युद्भटः ।
इति दुर्गादासः ॥

त्रुट, यशि छिदि । इति कविकल्पद्रुमः ॥

(चुरां-आत्मं-दिवां-तुदां-परं-अवयव-
द्बिधाभावमात्रे अकं-छेदनमात्रे सकं-सेट् ।)
द्बौ दन्त्यवर्गप्रथमादी । क ङ, त्रोटयते । य,
त्रुट्यति त्रोटिष्यति । तुदाद्यन्तर्गणस्यैव कुटा-
दित्वमिति । दिवादिपक्षे न कुटादित्वम् । शि,
त्रुटति अत्रुटीत् । शेषस्तु विदीर्णभावेऽपि ।
यथा, त्रुट्यद्भीमधनुःकठोरनिनद इति महा-
नाटकम् । मयूग्वनखरत्रुटत्तिमिरकुम्भिकुम्भ-
स्थले । क्वचिल्लूनीभावेऽपि यथा । आवृणुते
यदि वक्षस्त्रुट्यति वासस्तदा जघने इत्युद्भटः ।
इति दुर्गादासः ॥

त्रुटिः, स्त्री, (त्रुट्यते इति । त्रुट् + “इगुपघात्

कित् ।” उणां । ४ । २१८ । इति इन् सच कित् ।)
न्नहैला । (यथा, सुश्रुते । उत्तरतन्त्रे । ५२ ।
“उतुकारिकां सर्पिषि नागराढ्यां
पक्वा समूलैस्त्रुटिकोलपत्रैः ॥”
अस्याः पर्य्यायो यथा, --
“वयस्था तीक्ष्णगन्धा च सूक्ष्मैला त्रिपुटा
त्रुटिः ॥”
इति वैद्यकरत्नमालायाम् ॥)
अल्पम् । संशयः । कालभेदः । स च ह्रस्वा-
क्षरचतुर्भागग्रहणात्मकः । इत्यमरः । ३ । ३ । ३७ ॥
क्षणद्वयात्मकः । इति तट्टीकायां स्वामी ॥
यथा, भागवते । ३ । ११ । ५ ।
“अणुर्द्वौ परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः ।
जालार्करश्म्यवगतः खमेवानुपतन्नगात् ।
त्रसरेणुस्त्रिकं भुङ्क्ते यः कालः सा त्रुटिः
स्मृता ॥”)

त्रुटिवीजः, पुं, (त्रुटिरल्पं वीजमस्य ।) कचुः ।

इति शब्दमाला ॥

त्रुटी, स्त्री, (त्रुटि + “कृदिकारादक्तिनः ।” इति

वा ङीष् ।) त्रुटिः । इत्यमरटीकायां भरतः ॥

त्रुन्प, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) त्रुम्पति । इति दुर्गादासः ॥

त्रुन्फ, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) त्रुम्फति । इति दुर्गादासः ॥

त्रुप, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) त्रोपति । इति दुर्गादासः ॥

त्रुफ, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) त्रोफति । इति दुर्गादासः ॥

त्रेता, स्त्री, (त्रीन् भेदान् एति प्राप्नोतीति । यद्बा,

त्रित्वमिता । पृषोदरादित्वात् साधुः । एतन्नि-
रुक्तिर्यथा, हरिवंशे । २०५ । ५ ।
“त्रिधा प्रणीतो ज्वलनो मुनिभिर्व्वेदपारगैः ।
अतस्त्रेतात्वमापन्नो यदेकस्त्रिविधः कृतः ॥”)
दक्षिणाग्निः गार्हपत्यः आहवनीयः एकोक्त्या
इदमग्नित्रयम् । इत्यमरः । २ । ७ । २० ॥ (यथा,
हरिवंशे । २६ । ४५-४६ ।
“मथित्वाग्निं त्रिधा कृत्वा अयजत् स नराधिपः ।
इष्ट्वा यज्ञैर्ब्बहुविधैर्गतस्तेषां सलोकताम् ॥
गन्धर्व्वेभ्यो वरं लब्धा त्रेताग्निं समकारयत् ।
एकोऽग्निः पूर्ब्बमेवासीदैलस्त्रेतामकारयत् ॥”)
द्वितीययुगम् । तस्य परिमाणं यथा, --
“त्रिचत्वारिंशल्लक्षेण विंशत्सहस्राधिकेन च ।
चतुर्युगं परिमितं नरमानक्रमेण च ॥
द्बिषट्लक्षपरिमितं षण्णवतिसहस्रकम् ।
त्रेतायुगं परिमितं कालविद्भिः प्रकीर्त्तितम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ * ॥
तस्य धर्म्मा यथा, --
“त्रेतायुगे समायाते धर्म्मः पादोनतां गतः ।
अल्पक्लेशान्विता लोकाः केचित् केचित् दया-
शयाः ॥
विष्णुध्यानरता लोका यज्ञदानपरायणाः ।
वर्णाश्रमाचाररताः सुखिनः सुस्थचेतसः ॥
क्षत्त्रा भूमिस्पृशः शूद्राः सर्व्वे ब्राह्मणसेविनः ।
ब्राह्मणाश्च महात्मानो वेदवेदाङ्गपारगाः ॥
प्रतिग्रहनिवृत्ताश्च सत्यसन्धा जितेन्द्रियाः ।
तपोव्रतरता नित्यं दातारो विष्णुसेविनः ॥
कालवर्षी तडित्वांश्च स्त्रियः सर्व्वाः पतिव्रताः ।
वसुन्धरा च शस्याढ्या पुत्त्राश्च पितृसेविनः ॥”
इति पाद्मे क्रियायोगसारः ॥

त्रेतायुगं, क्ली, (त्रेतैव युगम् ।) द्बितीययुगम् ।

तस्योत्पत्त्यादि यथा, --
“कार्त्तिकशुक्लनवम्यां सोमवारे त्रेतायुगोत्पत्तिः ।
तत्र अवतारत्रयम् । वामनपरशुरामंश्रीराम-
चन्द्राः । पुण्यं त्रिपादम् । पापमेकपादम् ।
पुष्करनामकं तीर्थम् । साग्निको ब्राह्मणः ।
अस्थिगताः प्राणाः । चतुर्द्दशहस्तपरिमितो
मानवदेहः । दशसहस्रवर्षं परमायुः । व्यव-
हार्य्यं रौप्यपात्रम् । तद्युगाब्दाः १२९६००० ।
तत्र राजानः सूर्य्यवंशीयबाहुकसगरांशुमदस-
मञ्जसदिलीपभगीरथाजदशरथश्रीरामचन्द्रकुशी-
लवा एते चक्रवर्त्तिनः । तल्लक्षणम् ।
दानधर्म्मरता नित्यं तपस्या तीर्थदर्शनम् ।
अग्निहोत्रपरा लोका राजानो यज्ञकारिणः ॥
तत्र तारकब्रह्मनाम ।
रामनारायणानन्त मुकुन्द मधुसूदन ।
कृष्ण केशव कंसारे हरे वैकुण्ठ वामन ! ॥”
इति मुद्राङ्कितपञ्जिकातः संगृहीतम् ॥

त्रेतायुगाद्या, स्त्री, (त्रेतायुगस्य आद्या प्रथमा

तिथिः ।) त्रेतायुगारम्भतिथिः । सा च
कार्त्तिकशुक्लनवमी । तत्प्रमाणं युगाद्याशब्दे
द्रष्टव्यम् ॥

त्रेधा, व्य, (त्रिप्रकारम् । “संख्याया विधार्थे धा ।”

५ । ३ । ४२ । इति धा । “एधाच्च ।” ५ । ३ ।
४६ । इति धा इत्येतस्य एधाच् ।) त्रिधा ॥
इति मुग्धबोधम् ॥ (यथा, ऋग्वेदे । १ । २२ । १७ ।
“इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।
समूळहमस्य पांसुरे ॥”)

त्रै, ङ पालने । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

सकं-अनिट् ।) दन्त्यवर्गाद्यादिः । ङ, त्रायते ।
चक्रिंस्त्राहीत्याद्यौ त्राहीति त्रायते त्रा विच्
पश्चात् त्रा इवाचरतीति क्वौ साध्याम् । कैश्चिद-
दादौ त्रा पठ्यते । इति क्रमदीश्वरः । इति
दुर्गादासः ॥

त्रैगुण्यं, क्ली, (त्रिगुणानां भावः कर्म्म वा ।

त्रिगुण + ष्यञ् ।) त्रिगुणधर्म्मः । सत्वरजस्त-
मस्त्वम् । यथा, --
“त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्ज्जुन ! ।”
इति श्रीभगवद्गीता ॥
शैत्यसौगन्ध्यमान्द्यम् । यथा, --
“त्रैगुण्यललितैश्चारुमरुद्भिरुपवीजिते ॥”
इति शिवरात्रिव्रतकथा ॥
त्रिभिः पूरणञ्च ॥

त्रैधं, व्य, (त्रिप्रकारमिति त्रिधा । ततः “द्बित्र्योश्च

धमुञ् ।” ५ । ३ । ४५ । इति धा इत्यस्य धमुञ् ।)
त्रिधा । इति मुग्धबोधम् ॥ (यथा, महा-
भारते । ३ । ३२ । ३२ ।
“सर्व्वमेव हठेनैके दैवेनैके वदन्त्युत ।
पुंसः प्रयत्नजं किञ्चित् त्रैधमेतन्निरुच्यते ॥”)
पृष्ठ २/६६५

त्रैपुरः, पुं, (त्रिपुर एव । स्वार्थे अण् ।) त्रिपुर-

देशः । तत्पर्य्यायः । डाहलः २ चैद्यः ३ चेदिः
४ । इति हेमचन्द्रः । ४ । २२ ॥ (देशोऽयं
कामरूपस्य सीमाप्रदेशः । यथा, कामाख्या-
तन्त्रे ।
“कालेश्वरं श्वेतगिरिं त्रैपुरं नीलपर्व्वतम् ।
कामरूपाभिधो देशो गणेशगिरिमूर्द्धनि ॥”
कालेश्वरं श्वेतगिरिं त्रैपुरं नीलपर्व्वतं यावत् ॥
त्रिपुरस्य राजा । यथा, महाभारते । २ । ३१ । ५८ ।
“माद्रीसुतस्ततः प्रायाद्विजयी दक्षिणां दिशम् ।
त्रैपुरं स्ववशे कृत्वा राजानममितौजसम् ।
निजग्राह महाबाहुस्तरसा पौरवेश्वरम् ॥”
तद्देशवासिनि, पुंभूम्नि । यथा, मात्स्ये ।
११३ । ५३ ।
“स्तोशलाः कोसलाश्चैव त्रैपुरा वैदिशास्तथा ॥”
त्रिपुराधिष्ठितासुरभेदे । यथा, हरिवंशे ।
१२९ । ५४ ।
“येनोद्धृतास्त्रैपुरा मायिनो वै
दग्धा घोरेण वितथान्ताः शरेण ॥”)

त्रैलोक्यं, क्ली, (त्रिलोकी एव । चतुर्वर्णादित्वात्

स्वार्थे ष्यञ् ।) त्रिलोकी । यथा, मार्कण्डेये ।
“त्रैलोक्यमेतदखिलं रिपुनाशनेन
त्रातं त्वया समरमूर्द्धनि तेऽपि हत्वा ॥”

त्रैलोक्यविजया, स्त्री, (त्रैलोक्यस्य विजयो यस्याः ।

एतस्याः सेवनेन हि त्रैलोक्यमधीनमिव प्रति-
भातीति ज्ञानात् तथात्वम् ।) भङ्गा । इति
शब्दचन्द्रिका ॥ भाङ् इति ख्याता ॥

त्रैविद्यः, पुं, (ऋग्वेदयजुर्व्वेदसामवेदरूपास्त्रिस्रो

विद्या यस्येति त्रिविद्यस्ततः स्वार्थ अण् । यद्बा,
तिसो विद्या अधीते वेद वा । “तदधीते तद्वेद ।”
४ । २ । ५९ । इति अण् ।) त्रिवेदज्ञः । त्रिविद्या-
वेत्ता । यथा । मनुः । १२ । १११ ।
“त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्म्मपाठकः ।
त्रयश्चाश्रमिणः पूर्ब्बे परिषत् स्याद्दशावरा ॥”
(व्रतविशेषे, क्ली । यथा, मनुः । २ । २८ ।
“स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः ।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥”
“त्रैविद्याख्येन च व्रतेन ।” इति तट्टीकायां
कुल्लूकभट्टः ॥ वेदत्रयप्रतिपाद्ये, त्रि । यथा,
भागवते । ६ । २ । २४ ।
“धर्म्मं भागवतं शुद्धं त्रैवेद्यञ्च गुणाश्रयम् ॥”
“त्रैवेद्यं वेदत्रयप्रतिपाद्यं गुणाश्रयं यमदूतानां
धर्म्मम् ।” इति तट्टीकायां स्वामी ॥)

त्रोटकी, स्त्री, रागिणीविशेषः । इति हलायुधः ॥

त्रोटिः, स्त्री, (त्रोट्यते भिद्यतेऽनयेति । त्रोटि +

“अच इः ।” उणां । ४ । १३८ । इति इः ।)
चञ्चुः । कट्फलम् । पक्षी । मीनभेदः । इति
मेदिनी । टे, १८ ॥

त्रोटिहस्तः, पुं, (त्रोटिश्चञ्चुर्हस्त इव ग्रहणसाधनं

यस्य ।) पक्षी । इति शब्दचन्द्रिका ॥

त्रोटी, स्त्री, (त्रोटि + कृदिकारादिति वा ङीष् ।)

त्रोटिः । इति शब्दरत्नावली ॥

त्रोत्रं, क्ली, (त्रायते शित्त्यते नियम्यतेऽनेनेति ।

त्रै पालने + “अशित्रादिभ्य इत्रोत्रौ ।” उणां ।
४ । १७२ । इति उत्रः ।) गवादिताडनदण्डः ।
पाँचनी इति ख्यातः । तत्पर्य्यायः । प्राजनम् २
तोदनम् ३ प्रवयणम् ४ । गजस्य तोदनदण्डः ।
तत्पर्य्यायः । वैणुकम् २ वेणुकम् ३ इत्यमर-
भरतौ ॥ अस्त्रम् । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥ आरूपक्रिया । व्याधिभेदः ।
इति संक्षिप्तसारे उणादिवृत्तिः ॥

त्रौक, ऋ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) चतुर्द्दशस्वरी । रेफमध्यः ।
ऋ, अतुत्रौकत् । ङ, त्रौकते । इति दुर्गादासः ॥

त्र्यक्षः, पुं, (त्रीणि अक्षीणि नेत्राणि यस्य ।

ततः समासान्तषप्रत्ययः ।) शिवः । इति
त्रिकाण्डशेषः ॥ (यथा, महाभारते । ३ ।
१०६ । ११ ।
“आससाद महात्मानं त्र्यक्षं त्रिपुरमर्द्दनम् ॥”
दैत्यविशेषः । यथा, भागवते । ७ । २ । ४ ।
“भो भो दानवदैतेया द्विमूर्द्धंस्त्र्यक्ष ! शम्बर ! ।
शतबाहो ! हयग्रीव ! नमुचे ! पाक ! इल्वल ! ॥”
नेत्रत्रयविशिष्टे, त्रि । यथा, महाभारते । २ ।
४३ । १ ।
“चेदिराजकुले जातस्त्र्यक्ष एष चतुर्भुजः ॥”)

त्र्यक्षरः, पुं, (त्रीणि अक्षराणि यत्र ।) घटकः ।

इति त्रिकाण्डशेषः ॥ (त्रीणि अकारोकार-
मकारात्मकानि अक्षराणि यत्र । प्रणवादौ,
त्रि । यथा, मनुः । ११ । २६६ ।
“आद्यं यत्त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता ।
स गुह्योऽन्यस्त्रिवृद्बेदो यस्तं वेद स वेदवित् ॥”
छन्दोभेदे, क्ली । यथा, वाजसनेयसंहिता
याम् । ९ । ३१ ।
“विष्णुस्त्र्यक्षरेण त्रीँल्लोकानुदजयत्तानुज्जेषम् ॥”
“विष्णु स्त्र्यक्षरेणाक्षरत्रयात्मकेन छन्दसा तान्
तादृशान् मनुष्यानुज्जेषमधिकं जयेयम् ।” इति
वेददीपे महीधरः ॥)

त्र्यङ्गटं, क्ली, (त्रिभिरङ्गैरट्यते गम्यते इति ।

त्र्यङ्ग + अट् + अप् । शकन्ध्वादित्वादलोपः ।)
शिक्यभेदः । धौताञ्जनी । इति मेदिनी । टे, ४४ ॥

त्र्यङ्गटः, पुं, (त्रिभिरङ्गैरटतीति । अट् + अच् ।)

धौताञ्जनी । शिक्यभेदः । ईश्वरः । इति हेम-
चन्द्रः ॥

त्र्यञ्जनं, क्ली, (त्रयाणां अञ्जनानां समाहारः ।)

अञ्जनत्रयम् । यथा, कालाञ्जनं पुष्पाञ्जनं रसा-
ञ्जनम् । इति राजनिर्घण्टः ॥

त्र्यध्वगा, स्त्री, (त्रिषु अध्वसु मार्गेषु गच्छतीति ।

गम + डः ।) गङ्गा । इति त्रिकाण्डशेषः ॥

त्र्यम्बकः, पुं, (त्रीणि चन्द्रसूर्य्याग्निरूपाणि अम्ब-

कानि नेत्राणि यस्य । शिवः । इत्यमरः । १ ।
१ । ३५ ॥ (यथा, ऋग्वेदे । ७ । ५९ । १२ ।
“त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ॥”
“त्रयाणां ब्रह्मविष्णुरुद्राणामम्बकः पिता ।” इति
ऋग्वेदभाष्ये सायनः ।) एकादशरुद्राणामन्य-
तमः । यथा, मात्स्ये । ५ । २९ -- ३० ।
“अजैकपादहिव्रध्नो विरूपाक्षोऽथ रैवतः ।
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ॥
सावित्रश्च जयन्तश्च पिनाकी चापराजितः ।
एते रुद्राः समाख्याता एकादशगणेश्वराः ॥”)
शिवांशचन्द्रशेखरनामकपौष्यराजपुत्त्रः । यथा,
“एवं तिसृणामम्बानां गर्भे जातो यतो हरः ।
अतस्त्यम्बकनामाभूत् प्रथितो लोकदेवयोः ॥
स राजपुत्त्रः कौमारावस्थां प्राप यदा तदा ।
सर्व्वशास्त्रार्थतत्त्वज्ञो जिष्णोस्तुल्यो बभूव ह ॥
बले वीर्य्ये प्रहरणे शास्त्रे शीले च तत्समः ।
नान्योऽभून्नृपशार्दूल ! नो वा भूमौ भविष्यति ॥
अभिषिच्याथ तं राजा कुमारं बलवत्तरम् ।
दशपञ्चैकवर्षीयं सर्व्वराजगुणैर्यतम् ॥
तिसृभिः सह भार्य्याभिर्व्वनं पौष्यो विवेश ह ।
वृद्धोचितक्रियां कर्त्तुं राजा परमधार्म्मिकः ॥
गते पितरि राजा स वनवासं महाबलः ।
सर्व्वां क्षितिं वशे चक्रेऽमात्यैः स चन्द्रशेखरः ॥
सार्व्वभौमो नृपो भूत्वा राजभिः परिषेवितः ।
अमरैरिव देवेन्द्रो विजहार श्रिया युतः ॥
एवं पौष्यसुतो भूत्वा त्र्यम्बकः प्राप्य निर्व्वृतिम् ।
ब्रह्मावर्त्ताह्वये रम्ये करवीराह्वये पुरे ॥
दृषद्बतीनदीतीरे राजा भूत्वा मुमोद ह ॥”
इति कालिकापुराणे ४६ अध्यायः ॥ * ॥
अन्यत् चन्द्रशेखरशब्दे द्रष्टव्यम् ॥

त्र्यम्बकसखः, पुं, (त्र्यम्बकस्य महादेवस्य सखा

बन्धुः । “राजाहःसखिभ्यष्टच् ।” ५ । ४ । ९१ ।
इति टच् ।) कुवेरः । इत्यमरः । १ । १ । ७१ ॥

त्र्यम्बका, स्त्री, (त्रीणि चन्द्रसूर्य्याग्निरूपाणि

अम्बकानि नेत्राणि यस्याः ।) दुर्गा । यथा, --
“सोमसूर्य्यानलास्त्रीणि यस्या नेत्राणि अम्बिका ।
तेन सा त्र्यम्बका देवी मुनिभिः परिकीर्त्तिता ॥”)
इति देवीपुराणे ४५ अध्यायः ॥

त्र्यहप्सर्शः, पुं, (त्र्यहं चान्द्रदिनत्रयं स्पृशतीति ।

स्पृश + पचाद्यच् ।) त्रिदिनस्पृक् । तिथित्रय-
स्पर्शयुक्तमहः । इति ज्योतिषम् ॥

त्र्यहस्पृशं, क्ली, (त्र्यहं स्पृशतीति । स्पृश +

“इगुपधज्ञेति ।” ३ । १ । १३५ । इति कः ।)
त्र्यहस्पर्शः । तथा च वशिष्ठः ।
“एकस्मिन् सावने त्वह्नि तिथीनां त्रितयं यदा ।
तदा दिनक्षयः प्रोक्तस्तत्र साहस्रिकं फलम् ॥
फलमिति वैदिककर्म्मपरम् ॥
अधिमासे दिनपाते धनुषि रवौ भानुलङ्घिते
मासि ।
चक्रिणि सुप्ते कुर्य्यान्नो माङ्गल्यं विवाहञ्च ॥
इति भीमपराक्रमः ॥
दिनपाते दिनक्षये ।
त्र्यहस्पृशं नाम यदेतदुक्तं
तत्र प्रयत्नः कृतिभिर्व्विधेयः ॥
विवाहयात्राशुभपुष्टिकर्म्म
सर्व्वं न कार्य्यं त्रिदिनस्पृशे तु ॥”
इति ज्योतिस्तत्त्वम् ॥
पृष्ठ २/६६६

त्र्यहैहिकः, त्रि, (ईहायां चेष्टायां भवमैहिकं

घनम् । “तत्र भवः ।” ४ । ३ । ५३ । इति
ठञ् । त्र्यहे दिनत्रये पर्य्याप्तं ऐहिकं धनं
यस्य ।) दिनत्रयनिर्व्वाहोचितधनयुक्तः । यथा,
“कुशूलधान्यको वा स्यात् कुम्भीधान्यक एव वा ।
त्र्यहैहिको षापि भवेदश्वस्तनिक एव वा ॥”
इति मानवे । ४ । ७ ॥
“कुशूलधान्यक इति । कुशूलो व्रीह्यागारं
स्यादित्याभिधानिकाः । इष्टकादिनिर्म्मितागार-
धान्यसञ्चयो भवेत् । अत्र कालविशेषापेक्षायाम् ।
यस्य त्रैवार्षिकं भक्तं पर्य्याप्तं भृत्यवृत्तये ।
अधिकं वापि विद्येत स सोमं पातुमर्हति ॥
इति मनूक्त एव कालो ग्राह्यः । तेन नित्य-
नैमित्तिकधर्म्मकृत्यपोव्यवर्गसहितस्य गृहिणो
यावता धान्यादिधनेन वर्षत्रयं समथिकं वा
निर्व्वाहो भवति तावद्धनः कुशूलधान्यक
उच्यते । वषनिर्व्वाहोचितधान्यादिधनः कुम्भी-
धान्यः । प्राक् सौमिकीः क्रियाः कुर्य्यात्
यस्यान्नं वार्षिकं भवेदिति याज्ञ्यवल्क्येन गृह-
स्थस्य वार्षिकसञ्चयाभ्यनुज्ञानात् । मनुरपि
यदा वानप्रस्थस्यैव समानिचय एव वेत्यनेन
समासञ्चयं वक्ष्यति तदपेक्षया बहुपोष्यवर्गस्य
गृहिणः समुचितः संवत्सरसञ्चयः । मेधा-
तिथिस्तु । यावता धान्यादिधनेन बहुभृत्य-
दारादिमतस्त्रिसंवत्सरस्थितिर्भवति तावत् सुव-
र्णादिधनवानपि कुशूलधान्यक इत्यभिधाय
कुम्भी उष्ट्रिका षाण्माषिकधान्यादिनिचयः
कुम्भीधान्यक इति व्याख्यातवान् । गोविन्द-
राजस्तु कुशूलधान्यक इत्येतद्व्याचक्ष्य कोष्ठ-
प्रमाणधान्यसञ्चयो वा स्यात् द्बादशाह-
मात्रपर्य्याप्तधनः । कुम्भीधान्यक इत्येतद्ब्याचष्टे
उष्ट्रिकाप्रमाणधान्यादिसञ्चयो वा षडहमात्र-
पर्य्याप्तधनः ।
द्वादशाहं कुशूलेन वृत्तिः कुम्भ्या दिनानि षट् ।
इमाममूलां गोविन्दराजोक्तिं नानुरुन्धहे ।
इहा चेष्टा तस्यां भवं ऐहिकं त्र्यहपर्य्याप्तमैहिकं
धनं यस्य स त्र्यहैहिकः तथा वा स्यात् दिन-
त्रयनिर्व्वाहोचितधन इत्यर्थः । श्वोभवं श्वस्तनं
भक्तं तदस्यास्तीति मत्वर्थीयमिकं कृत्वा नञ्
समासः तथा वा भवेत् ।” इति कुल्लूकभट्टः ॥

त्र्यार्षेयाः, पुं, (ऋषेरयं आर्षेयः । ऋषि + ढक् ।

त्रय आर्षेयाः ऋषिधर्म्मा नेत्रादीन्द्रियक्रिया-
भावरूपा येषाम् ।) अन्धवधिरमूकाः । यथा ।
“अत्रोक्तानि वचनानि सर्व्वाणि तिर्य्यगधिकरण-
न्यायमूलानि । तथा हि तिर्य्यगधिकरणे ।
तिर्य्यक्पङ्गुत्र्यार्षेयदेवतानामनधिकार इति
यागमात्रे उक्तम् । तत्र हेतवः तिरश्चां विशि-
ष्टान्तःकरणविरहात् पङ्गोः प्रचरणविरहात्
त्र्यार्षेयाणामन्धवधिरमूकानां अवेक्षणश्रवणो-
च्चारणविरहादिति श्रीचन्द्रशेखरवाचप्सतिकृत-
चन्दनधेनु-विधिधृततिर्य्यगधिकरणम् ॥ (त्रय
आर्षेया ऋषयो यत्र । त्रिप्रवरो गोत्रभेदः ॥)

त्र्याहिकः, त्रि, (त्र्यहे भवः । त्र्यह + ठञ् ।)

तृतीयेऽह्नि भवः । यथा, ऐकाहिकद्ब्याहिक-
त्र्याहिकचातुर्थिकसततज्वरविषमज्वर इत्याद्य-
पराजितास्तोत्रम् ॥
(“ऐकाहिको द्ब्याहिकश्च त्र्याहिकश्च तथापरः ।
वेलाज्वरश्चतुर्थोऽपि विजानीयाद्विचक्षणः ॥”
इति हारीते चिकित्सितस्थाने द्बितीयेऽध्याये ॥
अस्यौषधं यथा, --
“रसेन गन्धं शङ्खञ्च शिखिग्रीवञ्च पादिकम् ।
गोजिह्वया जयन्त्या च तण्डुलीयैश्च भावयेत् ॥
प्रत्येकं सप्तसप्ताथ शुष्कं गुञ्जाचतुष्टयम् ।
जरणेन घृतेनाद्यात् त्र्याहिकज्वरशान्तये ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे ॥)

त्र्युषणं, क्ली, (त्रयाणां उषणानां समाहारः ।

पात्रादित्वात् स्त्रीत्वं न ।) मिलितशुण्ठीपिप्पली-
मरिचम् । इत्यमरः । २ । १० । १११ । (यथा,
गारुडे १९८ अध्याये ।
“यमानी चित्रकं धान्यं त्र्युषणं जीरकं तथा ॥”)

त्र्यूषणं, क्ली, (त्रयाणां ऊषणानां पिप्पलीमरिच-

शुण्ठीनां समाहारः ।) त्र्युषणम् । इत्यमर-
टीकायां भरतः ॥
(“पिप्पलीमरिचं शुण्ठीत्रयमेतद्विमिश्रितम् ।
त्रिकटु त्र्यूषणं व्योषं कटुत्रयमथोच्यते ॥”
इति वैद्यकपरिभाषायाम् ॥
अस्य गुणा यथा, --
“त्र्यूषणं दीपनं हन्ति श्वासकासत्वगामयान् ।
गुल्ममेहकफस्थौल्यमेदश्लीपदपीनसान् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
(घृतविशेषः । यथा, चरके चिकित्सास्थाने
२२ अध्याधे ।
“त्र्यूषणां त्रिफलां द्राक्षां काश्मर्य्याणि परूषकम् ।
द्वे पाठे सरलं व्याघ्रीं स्वगुप्तां चित्रकं शटीम् ॥
ब्राह्मीं तामलकीं मेदां काकनासां शतावरीम् ।
त्रिकण्टकां विदारीञ्च पिष्ट्वा कर्षसमं घृतात् ॥
प्रस्थं चतुर्गुणं क्षीरं सिद्धं कासहरं पिबेत् ।
ज्वरगुल्भारुचिप्लीहशिरोहृत्पार्श्वशूलनुत् ॥
कामलार्शोऽनिलाष्ठीलाक्षतशोषक्षयापहम् ।
त्र्यूषणं नाम विख्यातमेतद्घृतमनुत्तमम् ॥”)

त्वं, त्रि, (युष्मद् + सु । “त्वाहौ सौ ।” ७ । २ ।

९४ । इति त्वादेशः ।) भवान् । तुमि इति
भाषा । युष्मच्छब्दस्य प्रथमैकवचनान्तरूपोऽयं
लिङ्गत्रये समानः । इति व्याकरणम् ॥

त्वः, त्रि, (तनोति विस्तारयतीति । तन + “तनो-

तेरनश्च वः ।” उणां । २ । ६३ । इति चात्
क्विप् अनश्च वः । आगमानित्यत्वात् तुग्वै-
कल्पिकः ।) भिन्नः । अन्यः । इत्यमरः । ३ ।
१ । ८२ ॥ (एकः । इति निरुक्तिः । १ । ७ ॥
यथा, ऋग्वेदे । १० । ७१ । ४ ।
“उत त्वः पश्यन्न ददर्श वात्तमुत त्वः शृण्वन्न
शृणोत्येनाम् ।
उतो त्वस्मै तन्वं वि सस्रे जायेव पत्य उशती
सुवासाः ॥”
“त्वशब्द एकवाची । एकः । उतशब्दोऽप्यर्थे ।
पश्यन्नपि मनसा पर्य्यालोचयन्नपि वायं न ददर्श ।
दर्शनफलाभावान्न पश्यति । त्व एकः शृण्वन्न-
प्येनां वाचं न शृणोति श्रवणफलाभावात् ।
इत्यनेनार्धेनाविद्वानभिहितः ॥” इति तद्भाष्ये
सायनः ॥)

त्वक्, [च्] स्त्री, (त्वचति संवृणोति मेदशोणिता-

दिकमिति । त्वच संवरणे + क्विप् । यद्वा,
तनोति विस्तारयतीति । तन + “तनोतेरनश्च
वः ।” उणां । २ । ६३ । इति चिक् अनश्च
वः ।) इन्द्रियविशेषः । यथा, --
“पूर्ब्बवन्नित्यतायुक्तं देहव्यापि त्वगिन्द्रियम् ।
प्राणादिस्तु महावायुपर्य्यन्तो विषयो मतः ॥”
उद्भूतस्पर्शवद्द्रव्यं गोचरः सोऽपि च त्वचः ।
रूपान्यच्चक्षुषो योग्यं रूपमत्रापि कारणम् ॥
द्रव्याध्यक्षे त्वचो योगो मनसा ज्ञानकारणम् ॥”
इति भाषापरिच्छेदः ॥
वल्कलम् । (यथा, रघुः । २ । ३७ ।
“कण्डूयमानेन कटं कदाचित्
वन्यद्बिपेनोन्मथिता त्वगस्य ॥”)
गुडत्वक् । (यथा, बृहत्संहितायाम् । ७७ । १२ ।
“त्वगुशीरपत्रभागैः सूक्ष्मैलार्धेन संयुतैश्चूर्णः ।
पटवासः प्रवरोऽयं मृगकर्पूरप्रबोधेन ॥”)
चर्म्म । इति मेदिनी । चे, ६ ॥ अस्य पर्य्यायः ।
असृग्धरा २ । इत्यमरः ॥ असृग्वरा ३ । इति
तट्टीका ॥ त्वचम् ४ त्वचा ५ चर्म्म ६ छली ७
छल्ली ८ । इति शब्दरत्नावली ॥ (यथा,
रघुः । ३ । ३१ ।
“त्वचं स मेध्यां परिधाय रौरवी
मशिक्षितास्त्रं पितुरेव मन्त्रवत् ।
न केवलं तद्गुरुरेकपार्थिवः
क्षितावभूदेकधनुर्द्धरोऽपि सः ॥”
कञ्चुकः । यथा, मनुः । २ । ७९ ।
“महतोऽप्येनसो मासात् त्वचेवाहिर्विमुच्यते ॥”)
त्वचम् । इति राजनिर्घण्टः ॥ दारचिनी इति
भाषा ॥

त्वक्कण्डुरः, पुं, (कण्डुं रातीति । रा + कः । त्वचः

कण्डुरः ।) व्रणः । इति हारावली । १५६ ॥

त्वक्क्षीरा, स्त्री, (वंशत्वचः क्षीरमस्त्यत्र ।)

वंशरोचना । इत्यमरः । २ । ९ । १०९ ॥
(वंशरोक्षनाशब्दे विवृतिरस्या ज्ञातव्या ॥)

त्वक्क्षीरी, स्त्री, (वंशत्वचः क्षीरमत्र । गौरा-

दित्वात् ङीष् ।) त्वक्क्षीरा । इति राज-
निर्घण्टः ॥ (यथा, सुश्रुते । १ । ४४ ।
“सिताजगन्धा त्वक्क्षीरी विदारी त्रिवृतः
समाः ॥”
(पर्य्यायोऽस्या यथा, --
“स्याद्वंशरोचना वांशी तुगाक्षीरी तुगा शुभा ।
त्वक्क्षीरी वंशला शुभ्रा वंशक्षीरी च वैणवी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

त्वक्छदः, पुं, (त्वगेव छदो यस्य ।) क्षीरीशवृक्षः ।

इति रत्नमाला ॥ क्षीरकञ्चुकी इति भाषा ॥
पृष्ठ २/६६७

त्वक्पत्रं, क्ली, (त्वगिव पत्राण्यस्य ।) गुडत्वक् ।

इत्यमरः । २ । ४ । १३४ ॥ तेजपत्रम् । इति केचित् ।
इति भरतः ॥ तत्पर्य्यायः । सूत्कटम् २ भृङ्गम् ३
त्वचम् ४ चोचम् ५ वराङ्गकम् ६ । इत्यमरः । २ ।
४ । १३४ ॥ (यथा, महाभारते । १२ । १७० । १८ ।
“चन्दनागुरुमुख्यानि त्वक्पत्राणां वनानि च ॥”
यथा, सुश्रुते । १ । ४४ ।
“रेचनं सुकुमाराणां त्वक्पत्रमरिचांशकम् ॥”)

त्वक्पत्री, स्त्री, (त्वक्पत्र + गौरादित्वात् ङीष् ।)

हिङ्गुपत्री । तत्पर्य्यायः । कारवी २ पृथ्वी ३
वास्पीका ४ कवरी ५ पृथुः ६ । इत्यमरः । २ ।
९ । ४० ॥ तत्पत्री ७ । इति भरतः ॥

त्वक्पुष्पं, क्ली, (त्वचश्चर्म्मणः पुष्पमिव ।) रोमाञ्चः ।

इति त्रिकाण्डशेषः । किलासम् । इति हेम-
चन्द्रः । ३ । १३१ ॥

त्वक्पुष्पिका, स्त्री, (त्वक्पुष्पी + स्वार्थे कन् पूर्ब्ब-

ह्रस्वः ।) किलासम् । इति त्रिकाण्डशेषः ॥ छुली
इति भाषा ॥

त्वक्पुष्पी, स्त्री, (त्वक्पुष्प + गौरादित्वात् ङीष् ।)

किलासम् । इति जटाधरः ॥

त्वक्ष, त्वचोग्राहे । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-सेट् ।) त्वचो ग्राहश्चर्म्मणो ग्रहणम् ।
त्वक्ष त्वचने इति प्राञ्चः । त्वचनं संवरणमिति
रमानाथः । त्वक्षति कायं वर्म्मणा भटः । इति
दुर्गादासः ॥

त्वक्ष, ऊ कार्श्ये । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-वेट् ।) ऊ, त्वक्षिष्यति त्वक्ष्यति । कार्श्यं
कृशीकरणम् । त्वक्षति काष्ठं तक्षा । इति दुर्गा-
दासः ॥

त्वक्सारः, पुं, (त्वचि सारो यस्य ।) वंशः । इत्य-

मरः । २ । ४ । १६० ॥ (यथा, मनुः । १० । ३७ ।
“चण्डालात् पाण्डुसोपाकस्त्वक्सारव्यवहार-
वान् ॥”
वंशस्य त्वगपि । चेँ चाडि इति भाषा ॥ यथा,
सुश्रुते । १ । ८ ।
“अनुशस्त्राणि तु त्वक्सारस्फटिककाचकुरु-
विन्दजलौकाग्निक्षारनखगोजीशोफालिका-
शाकपत्रकरीरबालाङ्गुलय इति ॥”) गुडत्वक् ।
इति शब्दचन्द्रिका ॥ शोणवृक्षः । रन्ध्रवंशः ।
इति राजनिर्घण्टः ॥ (तल्तावाँश इति भाषा ॥
यथा, माघः । ४ । ६१ ।
“त्यक्साररन्ध्रपरिपूरितलब्धगीति-
रस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः ॥”)

त्वक्सारभेदिनी, स्त्री, (त्वचः सारं भिनत्तीति ।

भिद् + णिनिः + ङीप् ।) क्षुद्रचञ्चुवृक्षः । इति
राजनिर्घण्टः ॥

त्वक्सारा, स्त्री, (त्वक्सारो वंश उत्पत्तिकारण-

त्वेनास्त्यस्याः अच् ततष्टाप् ।) वंशरोचना ।
इति राजनिर्घण्टः ॥ (वंशरोचनाशब्देऽस्या
विवरणं ज्ञातव्यम् ॥)

त्वक्सुगन्धः, पुं, (त्वचि सुगन्धः सद्गन्धो यस्य ।)

नारङ्गः । इति भावप्रकाशः ॥

त्वक्सुगन्धा, स्त्री, (त्वचि सुगन्धो यस्याः ।) एल-

बालुकनामगन्धद्रव्यम् । इति जटाधरः ॥

त्वग, इ कम्पे । गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-गतौ सकं-सेट् ॥)

त्वगङ्कुरः, पुं, (त्वचश्चर्म्मणः अङ्कुर इव ।) रोमाश्चः ।

इति त्रिकाण्डशेषः ॥

त्वगाक्षीरी, स्त्री, (त्यक्क्षीरी । पृषोदरादित्वात्

साधुः ।) तुगाक्षीरी । वंशलोचना । इति
जटाधरः ॥

त्वग्गन्धः, पुं, (त्वचि गन्धो यस्य ।) नागरङ्गः ।

इति राजनिर्घण्टः ॥

त्वग्जं, क्ली, (त्वचः जायते इति । जन + डः ।)

रोम । रुधिरम् । इति राजनिर्घण्टः ॥

त्वग्दोषः, पुं, (त्वचो दोषो दूषणं यस्मात् ।)

कोठरोगः । इति राजनिर्धण्टः ॥ त्वग्जात-
रोगः । तस्यौषधं यथा, --
“मन्दोष्णलोध्रनीराम्लचूर्णन्तु कनकस्य च ।
तेनोद्वर्त्तितदेहस्य हरेद्ग्रीष्मप्रसारिकाम् ॥
त्वद्दोषश्चैव सेकश्च घर्म्मदोषश्च नश्यति ॥”
इति गारुडे १९४ अध्यायः ॥
स तु महारोगः । यथा, “महारोगिणः पाप-
रोगाष्टकान्यतमरोगवतः । ते च उन्मादस्त्वद्-
दोषो राजयक्ष्मा श्वासो मधुमेहो भगन्दरः
उदरोऽश्मरी इत्यष्टौ पापरोगा नारदोक्ताः ।”
इति शुद्धितत्त्वम् ॥

त्वग्दोषापहा, स्त्री, (त्वग्दोषं रोगविशेषं अप-

हन्तीति । हन + डः ।) वाकुची । इति राज-
निर्घण्टः ॥

तग्दोषारिः, पुं, (तग्दोषस्य रोगविशेषस्य अरिः

शत्रुः । तन्नाशकत्वात् तथात्वम् ।) हस्तिकन्दः ।
इति राजनिर्घण्टः ॥

त्वच्, श वृत्याम् । इति कविकल्पद्रुमः ॥ (तुदां-

परं-सकं-सेट् ।) वकारयुक्तः । दन्त्यवर्गाद्यादिः ।
श, त्वचती त्वचन्ती । वृतिः संवरणम् । त्वचति
कवचेन देहं वीरः । इति दुर्गादासः ॥

त्वचं, क्ली, (प्रशस्ता त्वगस्त्यस्येति । अर्श आदि-

त्वात् अच् ।) वृक्षविशेषः । दारचिनी इति
भाषा ॥ (यथा, सुश्रुते कल्पस्थाने १ अध्याये ।
“सोमवल्ल्यमृता श्वेता पद्मं कालीयकं त्वचम् ॥”)
तत्पर्य्यायः । त्वक् २ वल्कलम् ३ भृङ्गम् ४
वराङ्गम् ५ मुखशोधनम् ६ शकलम् ७ सिंह-
लम् ८ वन्यम् ९ सुरसम् १० कामवल्लभम् ११
उत्कटम् १२ बहुगन्धम् १३ विज्जुलम् १४ वन-
प्रियम् १५ नटपर्णम् १६ गन्धवल्कम् १७ वरम्
१८ शीतम् १९ । अस्य गुणाः । कटुत्वम् ।
शीतलत्वम् । कफकासविनाशित्वम् । शुक्राम-
शमनत्वम् । कण्ठशुद्धिकरत्वम् । लघुत्वम् । इति
राजनिर्घण्टः ॥ वल्कलम् । चर्म्म । (यथा,
हरिवंशे । १७७ । १३६ ।
“श्रीवत्साङ्कोऽरविन्दाक्ष ऊर्द्ध्वरोमा मृदुत्वचः ॥”
कञ्चुकः । खोलस् इति भाषा ॥ यथा, महा-
भारते । १२ । २४९ । ११ ।
“विमुक्तः सर्व्वपापेभ्यो मुक्तत्वच इवोरगः ॥”)
गुडत्वक् । इति धरणिः ॥

त्वचा, स्त्री, (त्वच् + पक्षे टाप् । यद्वा, त्वचति

संवृणोति सर्व्वशरीरमिति अच् ततष्टाप् ।)
त्वक् । इति शब्दरत्नावली ॥

त्वचापत्रं, क्ली, (त्वचा त्वक् पत्रमिव यस्य ।)

त्वक्पत्रम् । इति शब्दरत्नावली ॥

त्वचिष्ठः, त्रि, (अतिशयेन त्वग्वान् । त्वग्वत् +

इष्ठन् । “विन्मतोर्लुक् ।” ५ । ३ । ६४ । इति
मतुपो लुक् ।) त्वचीयान् । अतिशयत्वग्विशिष्टः ।
इति व्याकरणम् ॥

त्वचिसारः, पुं, (त्वचि सारो यस्य । “हलदन्तात्

सप्तम्याः संज्ञायाम् ।” ६ । ३ । ९ । इति सप्तम्या
अलुक् ।) वंशः । इत्यमरः । २ । ४ । १६० ॥

त्वचिसुगन्धा, स्त्री, (त्वचि सुगन्धो यस्याः ।

सप्तभ्या अलुक् ।) क्षुद्रैला । इति हारावली । ९७ ॥

त्वत्, त्रि, (तनोतीति । तन + “तनोतेरनश्च वः ।”

उणां २ । ६३ । इति चकारात् क्विप् तुक् अनश्च
वः ।) भिन्नः । इति जटाधरः ॥ (युष्मद्शब्दस्य
पञ्चम्येकवचनस्य रूपम् ।) भवतः । इति व्याक-
रणम् ॥ तोमा हैते इति भाषा ॥

त्वन्च, उ इतौ । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-सेट् । क्त्वावेट् ।) वकारयुक्तादिः । उ,
त्वञ्चित्वा त्वक्त्वा । इतिर्गतिः । इति दुर्गादासः ॥

त्वन्च, उ ध सङ्कोचे । इति कविकल्पद्रुमः ॥ (रुधां-

परं-सकं-सेट् । क्त्वावेट् ॥)

त्वदीयं, त्रि, (तव इदम् । युष्मद् + छः । “प्रत्य-

योत्तरपदयोश्च ।” ७ । २ । ९८ । इति मप-
र्य्यन्तस्य त्वादेशः ।) भवदीयम् । इति व्याक-
रणम् ॥ (यथा, रघुः । ३ । ५० ।
“अतोऽयमश्वः कपिलानुकारिणा
पितुस्त्वदीयस्य मयापहारितः ॥”)

त्वर, ञि ष म ङ स्यदे । इति कविकल्पद्रुमः ॥

(भ्वां-आत्मं-अकं-सेट् ।) ञि, त्वरितः तूर्णो-
ऽस्ति । वा रुषामहृषत्वरसंघुषास्वनिभ्यो निष्ठायां
वेमत्वेऽपि वेदेषूच्चारणभेदार्थमेतदनुबन्धमन्ये
मन्यन्ते । ष, त्वरा । म, त्वरयति । ङ, त्वरते ।
स्यद इह शीघ्रमनुष्ठानम् । नानुनेतुमबलाः स
तत्वरे । इति दुर्गादासः ॥

त्वरणं, क्ली, (त्वर + भावे ल्युट् ।) त्वरा । इति

व्याकरणम् ॥ (त्वरते शीघ्रं गच्छतीति । त्वर +
ल्युः । द्रुतगामिनि, त्रि । यथा, अथर्व्ववेदे । ११ ।
८ । २८ ।
“आस्नेयीश्च वास्तेयीश्च त्वरणाः कृपणाश्च याः ॥”)

त्वरा, स्त्री, (त्वरणमिति । त्वर + “घटादयः

षितः ।” इति अङ् । ततः स्त्रीलिङ्गत्वात् टाप् ।)
वेगः । तत्पर्य्यायः । सम्भ्रमः २ । इत्यमरः । ३ ।
२ । २६ ॥ आवेगः ३ त्वरिः ४ तूर्णिः ५ संवेगः
६ । इति हेमचन्द्रः । २ । २३६ ॥ (यथा, महा-
भारते । ३ । २७९ । २७ ।
“असकृत्त्वं मया पूर्ब्बं निर्ज्जितो जीवितप्रियः ।
मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः ॥”)
पृष्ठ २/६६८

त्वरिः, स्त्री, (त्वरणमिति । त्वर + भावे इन् ।)

त्वरा । इति हेमचन्द्रः । २ । २३६ ॥

त्वरितं, क्ली, (त्वर + क्तः ।) शीघ्रम् । (त्वरते

स्मेति । त्वर + गत्यार्थाकर्म्मकेति कर्त्तरि क्तः ।
यद्बा, त्वरा सञ्जातास्य । त्वरा + तारकादित्वात्
इतच् ।) तद्बिशिष्टे, त्रि । इत्यमरः । १ । १ । ६८ ॥
(यथा, पञ्चतन्त्रे । ३ । १०२ ।
“बह्वन्तराययुक्तस्य धर्म्मस्य त्वरिता गतिः ॥”)

त्वरितोदितं, त्रि, (त्वरितं शीघ्रं यथा तथा

उदितं कथितम् ।) शीघ्रोच्चारितवचः । तत्-
पर्य्यायः । निरस्तम् २ । इत्यमरः । १ । ६ । २० ॥

त्वष्टः, त्रि, (त्वक्ष्यते तनूक्रियते स्मेति । त्वक्ष तनू-

करणे + क्तः ।) तनूकृतः । चाँचा छोला इत्यादि
भाषा । तत्पर्य्यायः । तष्टः २ । इत्यमरः ।
३ । ११ । ९९ ॥

त्वष्टा, [ऋ] पुं, (त्वेषति दीप्यतीति । त्विष

दीप्तौ + “नप्तृनेतृत्वष्टृहोत्रिति ।” उणां । २ । ९६ ।
इति तृच् इतोऽत्वञ्च ।) आदित्यविशेषः ।
(यथा, महाभारते । १ । ६५ । १४-१५ ।
“अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः ।
ये राजन्नामतस्तांस्ते कीर्त्तयिष्यामि भारत ! ॥
धाता मित्रोऽर्य्यमा शक्रो वरुणस्त्वंश एव च ।
भगो विवस्वान् पूषा च सविता दशमस्तथा ।
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते ॥”
एते तु चाक्षुषस्य मनोरन्तरे तुषिता नाम देवा
आसन् वैवस्वतेऽन्तरे तु द्वादश आदित्याः ।
इति विष्णुपुराणे । १ । १५ । १३१ -- १३३ ॥
तथा मात्स्ये च । ६ । ३ -- ५ ॥ त्वक्षति तनू-
करोति काष्ठादिकं शिल्पकार्य्यत्वात् । तक्ष +
तृच् ।) विश्वकर्म्मा । इति हेमचन्द्रः । ३ । ५८१ ॥
(यथा, माघे । ३ । ३५ ।
“त्वष्टुः सदाभ्यासगृहीतशिल्प-
विज्ञानसम्पत्प्रसवस्य सीभा ॥”
अयन्तु माघमासे सूर्य्यरथपरिभ्रमणाधिकारिणा-
मन्यतमः । यथा, विष्णुपुराणे । २ । १० । १५ ।
“त्वष्टाथ जमदग्निश्च कम्बलोऽथ तिलोत्तमा ।
ब्रह्मापेतोऽथ ऋतजित् धृतराष्ट्रोऽथ सत्तमः ।
माघमासे वसन्त्येते सप्त मैत्रेय ! भास्करे ॥”
विश्वकर्म्मणः पुत्त्रविशेषः । यथा, विष्णुपुराणे ।
१ । १५ । १२२ ।
“तस्य पुत्त्रास्तु चत्वारस्तेषां नामानि मे शृणु ।
अजैकपादहिर्व्रध्नस्त्वष्टा रुद्रश्च बुद्धिमान् ॥”
प्रजापतिविशेषः । यथा, महाभारते । ५ । ९ । ३ ।
“त्वष्टा प्रजापतिर्ह्यासीत् देवश्रेष्ठो महातपाः ।
स पुत्त्रं वै त्रिशिरसमिन्द्रद्रोहात् किलासृजत् ॥”
महादेवः । यथा, महाभारते । १३ । १७ । १०३ ।
“धाता शक्रश्च विष्णु श्च मित्रख्वष्टा ध्रुवो धरः ॥”)
वर्णसङ्करजातिविशेषः । इत्यमरः । २ । १० । ९ ॥
अस्य पर्य्यायः । काष्ठतट्शब्दे उत्पत्तिश्च सूत्र-
धारशब्दे द्रष्टव्या ॥ (इन्द्रः । इति ऋग्वेद-
भाष्ये सायनः । १ । ११७ । २२ ॥ असुरभेदः ।
इति तत्रैव सायनः । ३ । ४८ । ४ ॥)

त्वाचप्रत्यक्षं, क्ली, (त्वाचं त्वच्-सम्बन्धि प्रत्यक्षम् ।)

स्पर्शज्ञानम् । द्रव्यादेः स्पर्शद्बारा बोधः ।
यथा, “अथ ज्ञानमात्रे त्वङ्मनःसंयोगस्य यदि
कारणत्वं तदा रासनचाक्षुषादिकाले त्वाच-
प्रत्यक्षं स्यात् ।” इति सिद्धान्तमुक्तावली ॥

त्वाष्टी, स्त्री, दुर्गा । यथा, --

“तुष तुष्टौ स्मृतो धातुस्तस्य तुष्टी निपातने ।
सृजत्येषा प्रजास्तुष्टी त्वाष्टी तेन प्रकीर्त्तिता ॥”
इति देवीपुराणे ४५ अध्यायः ॥

त्वाष्ट्रः, पुं, (त्वष्टुरपत्यं पुमान् । अण् ।) वृत्रा-

सुरः । इति त्रिकाण्डशेषः ॥ (यथा, देवी-
भागवते । ५ । ५ । ४ ।
“उद्यमेन हतस्त्वाष्ट्रो नमुचिर्ब्बल एव च ॥”
विश्वरूपः । यथा, भागवते । ६ । ८ । ३ ।
“वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ॥”
त्वष्टृसम्बन्धिनि, त्रि । यथा, मार्कण्डेये । २१ । ८५ ।
“ततोऽस्त्रं त्वाष्ट्रमादाय चिक्षेप प्रति दान-
वान् ॥”
तथा, भागवते । ६ । १४ । २७ ।
“श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमजयद्बिभुः ॥”
त्वष्टा अधिष्ठात्री देवतास्येति अण् । चित्रा-
नक्षत्रम् । यथा, बृहत्संहितायाम् । ७ । ११ ।
“घोरा श्रवणस्त्वाष्ट्रं वसुदेवं वारुणञ्चैव ॥”)

त्वाष्ट्री, स्त्री, (त्वष्टा अधिष्ठात्री देवतास्याः ।

त्वष्टृ + अण् + ङीप् ।) चित्रानक्षत्रम् । इति
हेमचन्द्रः ॥ (त्वष्टुर्व्विश्वकर्म्मणोऽपत्यं स्त्री ।)
संज्ञानामसूर्य्यपत्नी । इति शब्दरत्नावली ॥
(यथा, महाभारते । १ । ६६ । ३५ ।
“त्वाष्ट्री तु सवितुर्भार्य्या वडवा रूपधारिणी ।
असूयत महाभागा सान्तरीक्षेऽश्विनावुभौ ॥”)
रथिका । क्षुद्ररथः । इति त्रिकाण्डशेषः ॥

त्विट्, [ष्] स्त्री, (त्विष दीप्तौ + सम्पदादित्वात्

क्विप् ।) शोभा । (यथा, महाभारते । ३ ।
२० । २ ।
“अपश्यं द्बारकाञ्चाहं महाराज ! हतत्विषम् ॥”)
प्रभा । (यथा, माधे । १ । ३ ।
“चयस्त्विषामित्यवधारितं पुर-
स्ततः शरीरीति विभाविताकृतिम् ॥”)
वाक् । इति मेदिनी । षे, १३ ॥ व्यवसायः ।
जिगीषा । इति विश्वः ॥ (दीप्यमाने, त्रि ।
यथा, ऋग्वेदे । ४ । १७ । २ ।
“तव त्विषो जनिमन्रेजत द्यौरेजद्भूमिर्भियसा
स्वस्य मन्योः ॥”
“हे इन्द्र त्विषो दीप्यमानस्य तव त्वदीये
जनिमन् जन्मनि सति ।” इति तद्भाष्ये सायनः ॥)

त्विष, औ ञ भासे । इति कविकल्पद्रुमः ॥ (भ्वां-

उभं-दाने-सकं-अन्यत्र अकं-अनिट् ।) औ,
अत्विक्षत् । ञ, त्वेषति त्वेषते । भासो दीप्तिः ।
अवान्निवासे दाने च त्विषौ ञ अनुवर्त्तते । औ,
अवात्विक्षत् । ञ, अवत्वेषति अवत्वेषते । जनो
निवसति ददाति दीप्यते वा इत्यर्थः । इति
दुर्गादासः ॥

त्विषा, स्त्री, (त्विष् + हलन्तात् वा टाप् ।)

दीप्तिः । इति शब्दरत्नावली ॥

त्विषाम्पतिः, पुं, (त्विषां प्रभाणां पतिः । षष्ठ्या

अलुक् ।) सूर्य्यः । इत्यमरः । १ । ३ । ३० ॥

त्विषिः, स्त्री, (त्विष दीप्तौ + “इगुपधात् कित् ।”

उणां ४ । ११९ । इति इन् स च कित् ।)
किरणम् । इति हेमचन्द्रः । २ । १४ ॥ (यथा,
ऋग्वेदे । ९ । ७१ । ९ ।
“उक्षेव यूथा परियन्नरावीदधि
त्विषीरधित सूर्य्यस्य ॥”)

त्सर, छद्मगतौ । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-सकं च-सेट् ।) दन्त्यवर्गाद्यस्याधो-
दन्त्यसकारः । त्सरति धूर्त्तः छलेन गच्छती-
त्यर्थः । इति दुर्गादासः ॥ (यथा, अथर्व्ववेदे ।
८ । ६ । ८ ।
“यस्त्वा स्वपन्तीं त्सरति यस्त्वा दिप्सति
जाग्रतीम् ॥”)

त्सरुः, पुं, (त्सरति कौटिल्यं गच्छतीति । त्सर

+ “भृमृशीतॄचरित्सरीति ।” उणां १ । ७ ।
इति उः ।) खड्गमुष्टिः । इत्यमरः । २ ।
८ । ९० ॥ तत्पर्य्यायः । मुष्टिः २ तालतलः ३ ।
इति शब्दरत्नावली ॥ (यथा, आर्य्यासप्त-
शत्याम् । २४३ ।
“ज्योत्स्नाभिसारसमुचितवेशे ! व्याकोष-
मल्लिकोत्तंसे ! ।
विशसि मनो निशितेव स्मरस्य कुमुदत्सरुच्छ-
रिका ॥”
सर्पः । यथा, ऋग्वेदे । ५ । ५० । १ ।
“मा मां पद्येन रपसा विदत्त्सरुः ।”
“तथा त्सरुश्छद्मगामी जिह्मगः सर्प इत्यर्थः
मां पद्येन पादभवेन रपसा । रपि शब्दकर्म्मा ।
शब्देन मा विदत् मा जानातु ।” इति
तद्भाष्ये सायनः ॥)
पृष्ठ २/६६९

, थकारः । स व्यञ्जनसप्तदशवर्णः । तवर्ग-

द्वितीयवर्णश्च । अस्योच्चारणस्थानं दन्तः ।
इति व्याकरणम् ॥ (यथा, शिक्षायाम् । १७ ।
“स्युर्मूर्द्धन्या ऋटुरसा दन्त्या ऌतुलसाः स्मृताः ॥”)
अस्य स्वरूपं यथा, --
“थकारं चञ्चलापाङ्गि ! कुण्डली मोक्षरूपिणी ।
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा ॥
पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा ।
अरुणादित्यसङ्काशं थकारं प्रणमाम्यहम् ॥”
इति कामधेनुतन्त्रम् ॥
(वङ्गीयवर्णमालायाम्) अस्य लेखनप्रकारो
यथा, --
“कुञ्चिता कुण्डली भूत्वा वामाद्दक्षिणतस्ततः ।
वामतः कुञ्चिता भूत्वा दक्षाधोदक्षतो गता ॥
ऊर्द्ध्व ऋज्वायता रेखा सुरा गङ्गादयः क्रमात् ।
वाणी भवानी लक्ष्मीश्च ध्यानमस्य प्रचक्षते ॥”
अस्य ध्यानादि यथा, --
“नीलवर्णां त्रिनयनां षड्भुजां वरदां पराम् ।
पीतवस्त्रपरीधानां सदा सिद्धिप्रदायिनीम् ॥
एवं ध्यात्वा थकारन्तु तन्मन्त्रं दशधा जपेत् ।
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ॥
तरुणादित्यसङ्काशं थकारं प्रणमाम्यहम् ॥”
इति वर्णोद्धारतन्त्रम् ॥ * ॥
अस्य नामानि यथा, --
“थः स्थिरामी महाग्रन्थिर्ग्रन्थिग्राहो भयानकः ।
शिली शिरसिजो दण्डी भद्रकाली शिलोच्चयः ॥
कृष्णो बुद्धिर्व्विकर्म्मा च दक्षनाशाधिपोऽमरः ।
वरदा भोगदा केशो वामजानुरसोऽनलः ॥
लोलौजज्जयिनी गुह्यः शरच्चन्द्रविदारकः ॥”
इति नानातन्त्रशास्त्रम् ॥

थं, क्ली, रक्षणम् । मङ्गलम् । साध्वसम् । इति

मेदिनी । थे, १ ॥

थः, पुं, (थुड संवृतौ + डः ।) पर्व्वतः । भय-

रक्षकः । इति मेदिनी । थे, १ ॥ व्याधिभेदः ।
भयचिह्नम् । भक्षणम् । इति शब्दरत्नावली ॥

थुड, शि संवृतौ । इति कविकल्पद्रुमः ॥ (तुदां-

परं-सकं-सेट् ।) शि, थुडति । अथुडीत्
तुथोड । इति दुर्गादासः ॥

थुत्कारः, पुं, (कृ + भावे घञ् । थुदित्यव्यक्त-

शब्दस्य कारः करणं यत्र ।) निष्ठीवनत्यागा-
नुकरणशब्दः ॥

थुर्व्व, ई वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) पञ्चमस्वरी । थूः थुरौ थुरः ।
ई, थूर्णः । इति दुर्गादासः ॥

थुर्व्वणं, क्ली, हननम् । थुर्व्वधातोर्भावे अनटि

(ल्युटि) निष्पन्नम् ॥

थूथू, व्य, निष्ठीवनत्यागानुकरणशब्दः । यथा, --

थूथूकृत्य वमद्भिरध्वगजनैरिति सूक्तिकणा-
मृतम् ॥

थैथै, व्य, वाद्यानुकरणशब्दविशेषः । इति सङ्गीत-

दामोदरः ॥

थोडनं, क्ली, संवरणम् । इति थुङधातोर्भावेऽनट्

प्रत्ययः (ल्युट्) ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/तैली&oldid=43970" इत्यस्माद् प्रतिप्राप्तम्