शब्दकल्पद्रुमः/गोडः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २/३५५

गोडः, पुं, (गोरण्ड इव । पृषोदरादित्वात् साधुः ।)

गोण्डः । स तु नाभौ प्रवृद्धमांसगुडकः । इति
लिङ्गादिसंग्रहटीकायां भरतः ॥

गोडुम्बः, पुं, (गां भुवं तुम्बति अर्द्दतीति । गो +

तुम्ब + कः । पृषोदरादित्वात् साधुः ।) शीर्ण-
वृन्तः । इति मेदिनी । बे । १२ ॥ तरमूज् इति
ख्यातः ॥

गोडुम्बा, स्त्री, (गोडुम्ब + स्त्रियां टाप् ।) गवा-

दनी । इति मेदिनी । वे । १२ ॥ गोमुक इति
ख्याता गोमा इति राजगोमुक् इति च ख्याता
इत्येके । इति भरतः ॥ तत्पर्य्यायः । चित्रा २
गवाक्षी ३ । इत्यमरः । २ । ४ । १५६ ॥ गोडु-
म्बिका ४ । इति रत्नमाला ॥

गोडुम्बिका, स्त्री, (गोडुम्ब + स्वार्थे कन् + स्त्रियां

टाप् अत इत्वञ्च ।) गोडुम्बा । इति रत्नमाला ॥

गोणी, स्त्री, (शणादिगुणाद् जातः गोणः निपा-

तनादुकारस्य गुणः । गोणशब्दात् आवपने-
ऽर्थे “जानपदकुण्डगोणेति ।” ४ । १ । ४२ ।
इति ङीष् ।) धान्यादिवहनार्थाधारविशेषः ।
इति मुग्धबोधम् । गुण् इति भाषा ॥ द्रोणी-
परिमाणम् । इति वैद्यकपरिभाषा ॥ (यथा,
सुश्रुते चिकित्सितस्थाने चतुर्थाध्याये ।
“विडालनकुलोष्ट्राणां चर्म्मगोण्यां मृगस्य वा ।
प्रबेशवेद्वा स्वभ्यक्तं श्वाल्वणेनोपनाहितम् ॥”
“शूर्पाभ्याञ्च भवेद्द्रोणी वाहो गोणी च सा
स्मृता ।
माषटङ्काक्षविल्वानि कुडवः प्रस्थमाढकम् ।
राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणाः ॥”
इति शार्ङ्गधरेण पूर्ब्बखण्डे प्रथमेऽध्याय उक्तम् ॥
“गोणी शूर्पद्वयं विद्यात् खारीं भारीन्तथैव च ।
द्वात्रिंशतं विजानीयात् वाहं शूर्पाणि बुद्धिमान् ॥”
इति कल्पस्थाने द्वादशेऽध्याये चरकेणोक्तम् ॥)
छिद्रवस्त्रम् । तत्पर्य्यायः । शानी २ । इति हेम-
चन्द्रः । ३ । ३४३ ॥

गोण्डः, पुं, (गोः अण्ड इव ।) नाभौ वृद्धमांस-

गुडकः । इति लिङ्गादिसंग्रहे अमरः । ३ । ५ ।
१८ ॥ गेँड् इति भाषा । पामरजातिः ।
वृद्धनाभियुक्ते त्रि । इति मेदिनी । डे । ११ ॥
अस्य रूपान्तरं गोडः गौडः । इत्यमरटीका ॥

गोतमः, पुं, (गोभिर्ध्वस्तं तमो यस्य । पृषोदरादि-

त्वात् साधुः । एतन्निरुक्तिर्यथा, महाभारते ।
१३ । ९३ । ९५ ।
“गोदमोऽहमतोऽधूमोऽदमस्ते समदर्शनात् ।
गोभिस्तमो मम ध्वस्तं जातमात्रस्य देहतः ।
विद्धि मां गोतमं कृत्ये यातुधानि ! निबोध माम् ॥”)
गौतममुनिः । स तु ब्रह्मपुत्त्रः । इति गया-
माहात्म्ये वायुपुराणम् ॥

गोतमान्वयः, पुं, (गोतमोऽन्वयो वंशप्रवर्त्तको यस्य ।)

शाक्यमुनिः । इति हेमचन्द्रः ॥

गोतल्लजः, पुं, (प्रशस्तो गौः “प्रशंसावचनैश्च ।”

२ । १ । ६६ । इति कर्म्मधारयः ।) उत्तमगौः ।
गोषु मध्ये तल्लजः प्रशस्तः इति वा व्युत्पत्तिः ॥

गोत्रं, क्ली, गवते शब्दयति पूर्ब्बपुरुषान् यत् ।

इति भरतः ॥ (गु + “गुधृवीपतीति ।” उणां ।
४ । १६६ । इति त्रः ।) तत्पर्य्यायः । सन्ततिः
२ जननम् ३ कुलम् ४ अभिजनः ५ अन्वयः ६
वंशः ७ अन्ववायः ८ सन्तानः ९ । इत्यमरः ।
२ । ७ । १ ॥ आख्या । (यथा, कुमारे । ४ । ८ ।
“स्मरसि स्मरमेखलागुणै-
रुत गोत्रस्खलितेषु बन्धनम् ॥”)
सम्भावनीयबोधः । काननम् । क्षेत्रम् । वर्त्म ।
इति मेदिनी । रे । २६ ॥ छत्रम् । इति हेम-
चन्द्रः ॥ संघः । वृद्धिः । इति शब्दचन्द्रिका ॥
वित्तम् । इति विश्वः ॥ * ॥ “वंशपरम्पराप्रसिद्धं
आदिपुरुषं ब्राह्मणरूपम् ।
क्षत्त्रियवैश्ययोरुपदिष्टातिदिष्टगोत्रं शूद्रस्याति-
दिष्टातिदिष्टगोत्रम् ।” इत्युद्वाहतत्त्वम् ॥ क्षत्त्रिय-
वैश्य शूद्राणामतिदिष्टातिदिष्टगोत्रप्रवरमतएवै-
तेषां पुरोहितगोत्रप्रवरमित्यर्थः । तथा चाग्नि-
पुराणे वर्णसङ्करोपाख्याने ।
“क्षत्त्रियवैश्यशूद्राणां गोत्रञ्च प्रवरादिकम् ।
तथान्यवर्णसङ्कराणां येषां विप्राश्च याजकाः ॥”
गोत्राणि तु चतुर्व्विंशतिः तथा च मनुः ।
“शाण्डिल्यः काश्यपश्चैव वात्स्यः सावर्णकस्तथा ।
भरद्वाजो गौतमश्च सौकालीनस्तथापरः ॥
कल्किषश्चाग्निवेश्यश्च कृष्णात्रेयवशिष्ठकौ ।
विश्वामित्रः कुशिकश्च कौशिकश्च तथापरः ॥
घृतकौशिकमौद्गल्यौ आलम्यानः पराशरः ।
सौपायनस्तथात्रिश्च वासुकी रोहितस्तथा ॥
घैयाघ्रपद्यकश्चैव जामदग्न्यस्तथापरः ।
चतुर्व्विंशतिर्वै गोत्रा कथिताः पूर्ब्बपण्डितैः ॥”
तथा च मनुः ।
“जमदग्निर्भरद्वाजो विश्वामित्रात्रिगौतमाः ।
वशिष्ठकाश्यपागस्त्या मुनयो गोत्रकारिणः ॥
एतेषां यान्यपत्यानि तानि गोत्राणि मन्यते ॥”
एतदुपलक्षणमन्येषामपि दर्शनात् । तथा च ।
“सौकालीनकभौद्गल्यौ पराशरबृहस्पती ।
काञ्चनो विष्णुकौशिक्यौ कात्यायनात्रेय-
काण्वकाः ॥
कृष्णात्रेयः साङ्कृतिश्च कौण्डिल्यो गर्गसंज्ञकः ।
आङ्गिरस इति ख्यातः अनावृकाख्यसङ्गितः ॥
अव्यजैमिनिवृद्धाख्याः शाण्डिल्यो वात्स्य
एव च ।
सावर्ण्यालम्यानवैयाघ्रपद्यश्च घृतकौशिकः ॥
शक्त्रिः काण्वायनश्चैव वासुकी गौतमस्तथा ।
शुनकः सौपायनश्चैव मुनयो गोत्रकारिणः ॥
एतेषां यान्यपत्यानि तानि गोत्राणि मन्यते ॥”
सर्व्वे चत्वारिंशद्गोत्राः । इति कुलदीपिका-
धृतधनञ्जयकृतधर्म्मप्रदीपः ॥ (मेघः । इति
निघण्टुः । १ । १० । यथा, ऋग्वेदे । १ । ५१ । ३ ।
“त्वं गोत्रमङ्गिरोभ्योऽवृणोरपोतात्रये शत-
दुरेषु गातुवित् ॥”)

गोत्रः, पुं, (गां पृथिवीं त्रायते रक्षतीति । गो + त्रै

+ “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।)
पर्व्वतः । इत्यमरः । २ । ३ । १३ ॥ (यथा, भागवते ।
२ । ६ । ९ ।
“नाड्यो नदनदीनान्तु गोत्राणामस्थिसंहतिः ॥”)

गोत्रजः, त्रि, (गोत्रे जायते इति । गोत्र + जन् +

डः ।) गोत्रोत्पन्नः । स तु जन्मनामस्मृतिपर्य्यन्त-
समानोदकभावात् पश्चाद्भवति । इति शुद्धि-
तत्त्वम् ॥ (यथा, याज्ञवल्क्ये । २ । १३८ ।
“पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा ।
तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः ॥”)

गोत्रभित्, [द्] पुं, (गोत्रं पर्व्वतं भिनत्तीति ।

“सत्सुद्विषेत्यादि ।” ३ । २ । ६१ । इति क्विप् ।
ततस्तुगागमः ।) इन्द्रः । इत्यमरः । १ । १ । ४५ ॥
(यथा, ऋग्वेदे । ६ । १७ । २ ।
“यो गोत्रभिद्वज्रभृद्यो हरिष्ठाः
स इन्द्र चित्राँ अभितृंधि वाजान् ॥”
यथा च भट्टौ । १ । ३ ।
“सहासनं गोत्रभिदाध्यवात्सीत् ॥”)

गोत्रवृक्षः, पुं, (गोत्रजातः पर्व्वतजातो वृक्षः ।)

धन्वनवृक्षः । इति भावप्रकाशः ॥
“धन्वङ्गस्तु धनुर्वृक्षो गोत्रवृक्षः सुतेजनः ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

गोत्रा, स्त्री, (गाः पशून् सर्व्वान् जीवानित्यर्थः

त्रायते इति । त्रै + कः । स्त्रियां टाप च ।)
पृथिवी । (गवां समूहः । “इनित्रकड्यचश्च ।”
४ । २ । ५१ । इति त्रः । टाप् च ।) गोसमूहः ।
इति मेदिनी । रे । २६ ॥ (गायत्त्रीस्वरूपा
महादेवी । यथा, देवीभागवते । १२ । ६ । ४१ ।
“गन्धर्व्वी गह्वरी गोत्रा गिरिशा गहना गमी ॥”)

गोदः, पुं, (गा इन्द्रियाणि दायति शोधयतीति ।

गो + दै + कः ।) मस्तकस्नेहः । मस्तिष्कम् ।
इति हेमचन्द्रः ॥ (गाः ददातीति । + दा + कः ।)
गोदातरि त्रि । इति मुग्धबोधम् ॥ (यथा,
मनुः । ४ । २३१ ।
“वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः ।
अनडुद्दः श्रियं पुष्टां गोदो ब्रध्नस्य पिष्टपम् ॥”)

गोदन्तं, क्ली, (गोदन्त इव अवयवो विद्यते यस्य ।)

हरितालम् । इति राजनिर्घण्टः ॥ (हरिताल-
शब्देऽस्य गुणादयो बोध्यव्याः ॥)

गोदा, स्त्री, (गां जलं स्वर्गं वा ददातिं स्नानेनेति ।

गो + दा + कः । स्त्रियां टाप् ।) गोदावरी
नदी । इति हेमचन्द्रः । ४ । १५० ॥ (गायत्त्री-
स्वरूपा महादेवी । यथा, देवीभागवते । १२ ।
६ । ४३ ।
“गर्व्वापहारिणी गोदा गोकुलस्था गदाधरा ॥”
गाः ददातीति । दा + क्विप् । गोदातरि त्रि ।
यथा, ऋग्वेदे । १ । ४ । २ ।
“गोदा इन्द्रेवतो मदः ।”
“गोदाश्चक्षुरिन्द्रियव्यवहारप्रदः ।” इति दया-
नन्दभाष्यम् ॥)

गोदारणं, क्ली, (गौर्भूमिर्दार्य्यतेऽनेनेति । गो + दॄ

+ णिच् + करणे ल्युट् ।) लाङ्गलम् । इत्यमरः ।
२ । ९ । १४ ॥ कुद्दालः । इति हेमचन्द्रः । ४ । ५५६ ॥
पृष्ठ २/३५६

गोदावरी, स्त्री, (गां जलं स्वर्गं वा ददातीति

गोदा । तासु वरी श्रेष्ठा । वर + ङीष् संज्ञा-
याम् । यद्वा गां स्वर्गं ददाति । गो + दा +
वणिप् + ङीप् रान्तादेशश्च ।) नदीविशेषः ।
(अस्या उत्पत्तिकथा यथा, ब्रह्मवैवर्त्ते । १० ।
१२६--१३० ।
“गच्छन्तीं तीर्थयात्रायां ब्राह्मणीं रविनन्दनः ।
ददर्श कामुकः शान्तः पुष्पोद्याने च निर्ज्जने ॥
तया निवारितो यत्नात् कालेन बलवान् सुरः ।
अतीवसुन्दरीं दृष्टा वीर्य्याधानं चकार सः ॥
द्रुतं तत्याज गर्भं सा पुष्पोद्याने मनोहरे ।
सद्यो बभूव पुत्त्रश्च तप्तकाश्चनसन्निभः ॥
सपुत्त्रा स्वामिनो गेहं जगाम व्रीडिता तदा ।
स्वामिनं कथयामास यन्मार्गे देवसङ्कटम् ॥
विप्रो रोषेण तत्याज तञ्च पुत्त्रं स्वकामिनीम् ।
सरिद् बभूव योगेन सा च गोदावरी स्मृता ॥”)
तत्पर्य्यायः । गोदा २ । इति हेमचन्द्रः ॥
गौतमसम्भवा ३ ब्राह्माद्रिजाता ४ गौतमी ५ ।
(यथा, हितोपदेशे ।
“अस्ति गोदावरीतीरे विशालः शाल्मलीतरुः ॥”)
इयमेब पीठस्थानविशेषः । अत्र देवी त्रिसन्ध्या-
मूर्त्त्याविराजते । यथा, देवीभागवते । ७ । ३० । ६८ ।
“गोदावर्य्यां त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ॥”)
अस्या जलस्य गुणाः । पित्तार्त्तिरक्तार्त्तिवायु-
पापकुष्ठादिदुष्टामयदोषतृष्णानाशित्वम् । परम-
पथ्यत्वम् । दीपनत्वञ्च । इति राजनिर्घण्टः ॥

गोदुग्धदा, स्त्री, (गवां दुग्धं ददाति आधिक्येन

सम्पादयतीति । गो + दा + कः । तद्भक्षणेन गवां
दुग्धवर्द्धनादस्यास्तथात्वम् ।) चणिकातृणम् ।
इति राजनिर्घण्टः ॥

गोदोहनी, स्त्री, (गावो दुह्यन्त्येऽस्यामिति । गो +

दुह् + अधिकरणे ल्युट् ।) गोदोहनपात्रम् ।
तत्पर्य्यायः । पारी २ । इति जटाधरः ॥

गोद्रुवः, पुं, (द्रवति स्रवतीति । द्रु + अच् द्रवः ।

गवां द्रवः ।) गोमूत्रम् । इति राजनिर्घण्टः ॥

गोधनं, क्ली, (गवां धनं समूहः ।) गोसमूहः ।

इत्यमरः । २ । ९ । ५८ ॥ (यथा, गोः रामायणे ।
२ । ३२ । ४२ ।
“स आत्मनो दृढां कक्षां बद्ध्वा सम्भ्रान्तमानसः ।
दण्डमुद्यम्य सहसा प्रतस्थे गोधनं प्रति ॥”)

गोधनः पुं, (धन शब्दे भावे अप् धनं शब्दः ।

गोर्वज्रस्येव धनं शब्दो यस्य ।) स्थूलाग्रवाणः ।
इति हरिवंशः ॥ तुक्का इति भाषा ॥

गोधा, स्त्री, (गुध्यते परिवेष्ट्यते बाहुर्यया । गुध्

+ “हलश्चेति ।” करणे घञ् ।) धनुर्गुणाघात-
वारणाय प्रकोष्ठबद्धा चर्म्मकृतपट्टिका । तत्-
पर्य्यायः । तला २ ज्याघातवारणा ३ । इत्य-
मरः । २ । ८ । ८४ ॥ तलम् ४ । इति तट्टीका ॥
(यथा, महाभारते । ३ । १७ । ३ ।
“विक्षिपन्नादयंश्चापि धनुः श्रेष्टं महाबलैः ।
तूणखड्गधरः शूरो बद्धगोधाङ्गलित्रवान् ॥”)
जस्तुबिशेषः । गोसाप् इति भाया ॥ सा तु
स्थलजजलजभेदात् द्विविधा । तत्पर्य्यायः ।
निहाका २ गोधिका ३ । इत्यमरः । १ । १० । २२ ॥
दारुमुख्याह्वा ४ । (यथा, बृहत्संहितायाम् ।
५४ । १३ ।
“श्वेता गोधार्द्धनरे पुरुषे मृद्धूसरा ततः कृष्णा ।
पीता सिता ससिकता ततो जलं विनिर्द्दिशेद-
मितम् ॥”
पञ्चनखतया गोधाया मांसं भक्ष्यत्वेन ग्राह्य-
मित्यभिहितं मन्वादिभिर्धर्म्मशास्त्रप्रयोक्तृभिः ।
यथा, मनुः । ५ । १८ ।
“श्वाविकं शल्लकं गोधां खड्गकूर्म्मशशांस्तथा ।
भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्राञ्चैकतोदतः ॥”)
अस्या मांसगुणाः । वातश्वासकासनाशित्वम् ।
इति राजनिर्घण्टः ॥ पाके मधुरत्वम् । कषाय-
त्वम् । कटुरसत्वम् । पित्तनाशित्वम् । रक्तशुक्र-
बलकारित्वम् । इति राजवल्लभः ॥
(“गोधा विपाके मधुरा कषायकटुका रसे ।
वातपित्तप्रशमनी बृंहणी बलवर्द्धनी ॥”
इति चरके सूत्रस्थाने २७ अध्याये ॥)

गोधापदिका, स्त्री, (गोधाया इव पादो मूल-

मस्याः । स्वाङ्गत्वात् ङीष् । ततः “कुम्भपदीषु
च ।” ५ । ४ । १३९ । इति पद्भावः ।
गोधापदी । ततः स्वार्थे कन् टाप् पूर्ब्बह्रस्वश्च ।)
गोधापदीलता । इति शब्दरत्नावली ॥

गोधापदी, स्त्री, (गोधाया इव पादो मूलं यस्याः ।

स्वाङ्गत्वात् ङीष् । “कुम्भपदीषु च” ५ । ४ ।
१३९ । इति पद्भावः ।) लताविशेषः । गोया-
लिया इति भाषा ॥ तत्पर्य्यायः । सुवहा २ ।
इत्यमरः । २ । ४ । ११९ ॥ हंसपदी ३ गोधाङ्घ्री ४
त्रिफला ५ । इति भरतः ॥ त्रिपदी ६ मधु-
स्रवा ७ हंसपादी ८ । इति रत्नमाला ॥ हंस-
पादिका ९ हंसाङ्घ्रिः १० रक्तपादी ११
त्रिपदा १२ घृतमण्डलिका १३ विश्वग्रन्थिः १४
त्रिपादिका १५ त्रिपादी १६ कीटमारी १७
कर्णाटी १८ ताम्रपादी १९ विक्रान्ता २०
ब्रह्मादनी २१ पदाङ्गी २२ शीताङ्गी २३
सुतपादिका २४ सञ्चारिणी २५ पदिका २६
प्रह्लादी २७ कीटपादिका २८ धार्त्तराष्ट्र-
पदी २९ गोधापदिका ३० । इति शब्दरत्ना-
वली ॥ द्विदला ३१ हंसवती ३२ । इति जटा-
धरः ॥ अस्या गुणाः । कटुत्वम् । उष्णत्वम् ।
विषभूतभ्रान्त्यपस्मारदोषनाशित्वम् । रसायन-
त्वञ्च । मुषली । तालमूली इति ख्याता । इति
राजनिर्घण्टः ॥

गोधास्कन्धः पुं, (गोधेव स्कन्धोऽस्य ।) विट्-

खदिरः । इति राजनिर्घण्टः ॥

गोधिः, पुं, (गावौ नेत्रे धीयेते अस्मिन् । “कर्म्म-

ण्यधिकरणे च ।” ३ । ३ । ९३ । इति किः ।)
ललाटम् । इत्यमरः । २ । ६ । ९२ ॥ (गुध्नाति
कुप्यतीति । गुध् + “सर्व्वधातुभ्य इन् ।” उणां ।
४ । ११८ । इति इन् ।) गोधिका । इति शब्द-
रत्नावली ॥

गोधिका, स्त्री, (गुध्नातीति । गुध् + ण्वुल् । टाप्

अत इत्वञ्च ।) गोधा । इत्यमरः । १ । १० । २२ ॥
गोसाप इति भाषा ॥

गोधिकात्मजः, पुं, (गोधिकाया आत्मजः ।) स्थूल-

गोधिका । गोधाशिशुतुल्याकारकोटरस्थजन्तु-
विशेषः तोक्के इति ख्यात इति भगी । इति
सारसुन्दरी ॥ तत्पर्य्यायः । गौधेरः २ ।
गौधारः ३ गौधेयः ४ । इत्यमरः । २ । ५ । ६ ॥
(सर्पाद्गोधायामुत्पन्ने जन्तुविशेषे इति
गोधिकापुत्त्रशब्दार्थे शब्दार्थचिन्तामणिः ॥)

गोधिनी, स्त्री, (गोधः क्रीडाभेदः सोऽस्त्यस्याः

इति इनिः ङीप् च ।) क्षविका । सा तु
बृहतीभेदः । इति राजनिर्घण्टः ॥

गोधुक्, [ह्] त्रि, (गां दोग्धीति । गो + दुह + “सत्सु

द्बिषद्रुहदुहयुजैत्यादि ।” ३ । २ । ६१ । इति
क्विप् ।) गोदोग्धा । इति व्याकरणम् ॥ (यथा,
ऋग्वेदे । १ । १६४ । २६ ।
“उप ह्वये सुदुषां धेनुमेतां
सुहस्तो गोधुगुत दोहदेनाम् ॥”)

गोधुमः, पुं, (गुध + “गुधेरूमः ।” उणां । ५ । २ ।

इति ऊमः । निपातनात् ह्रस्वः ।) गोधूमः ।
इति शब्दचन्द्रिका ॥

गोधूमः, पुं, (गुध्यते वेष्ट्यते त्वगादिभिः । गुध +

“गुधेरूमः ।” उणां । ५ । २ । इति ऊमः ।)
नागरङ्गः । ओषधीविशेषः । ब्रीहिभेदः । इति
मेदिनी ॥ मे । ४३ । गम गोम् इति च भाषा ॥
शेषस्य पर्य्यायः । बहुदुग्धः २ अपूपः ३ स्नेच्छ-
भोजनः ४ यवनः ५ निस्तुषक्षीरः ६ रसालः ७
सुमनाः ८ । (यथा, मनुः । ५ । २५ ।
“यवगोधूमजं सर्व्वं पयसश्चैव विक्रियाः ॥”)
अस्य गुणाः । स्निग्धत्वम् । मधुरत्वम् । वात-
पित्तदाहनाशित्वम् । गुरुत्वम् । श्लेष्ममदबल-
रुचिवीर्य्यकारित्वञ्च । इति राजनिर्घण्टः ॥
बृंहणत्वम् । जीवनहितत्वम् । शीतत्वम् । भग्न-
सन्घानस्थैर्य्यकारित्वम् । सारकत्वञ्च । इति
राजवल्लभः ॥ (अथ गोधूमस्य नामानि लक्षणं
गुणाश्च ।
“गोधूमः सुमनोऽपि स्यात् त्रिविधः स च
कीर्त्तितः ।
महागोधूम इत्याख्यः पश्चाद्देशात् समागतः ॥
महागोधूमः वड गोधूमा इति लोके ।
मधुली तु ततः किञ्चिदल्पा सा मध्यदेशजा ।
निःशूको दीर्घगोधूमः क्वचिन्नन्दीमुखाभिधः ॥
गोधूमो मधुरः शीतो वातपित्तहरो गुरुः ।
कफशुक्रप्रदो बल्यः स्निग्धः सन्धानकृत् सरः ॥
जीवनो बृंहणो वर्ण्यो व्रर्ण्यो रुच्यः स्थिरत्वकृत् ।
कफप्रदो नवीनो न तु पुराणः ।
पुराणयवगोधूमः क्षौद्रजाङ्गलशूलभागिति ।
वाग्भटेन वसन्ते गृहीतत्वात् ।
मधुली शीतला स्निग्धा पित्तघ्नी मधुरा लघुः ।
शुक्रला बृंहणी पथ्या तद्बन्नन्दीमुखः स्मृतः ॥”)
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
पृष्ठ २/३५७

गोधूमचूर्णं, क्ली, (गोधूमस्य चूर्णम् ।) चूर्णीकृत-

गोधूमः । मयदा इति भाषा ॥ यथा, --
“शुष्कगोधूमचूर्णेन किञ्चित्पुष्टाञ्च रोटिकाम् ॥”
इति भावप्रकाशः ॥

गोधूमसम्भवं, क्ली, (सम्भवत्यस्मादिति सम्भव उत्-

पत्तिस्थानम् । गोधूमः सम्भवोऽस्य ।) सौवीरम् ।
काञ्जिकभेदः । इति राजनिर्घण्टः ॥

गोधूमसारः, पुं, गोधूमस्य सारभागः । पालो

इति भाषा ॥ तत्करणविधिर्यथा । “निस्तुष-
गोधूमं उढूखले कण्डयित्वा सन्ध्याकाले मृत्तिका-
दिपात्रे जले मग्नं कारयित्वा परदिने प्रभाते
उपरिस्थजलं क्रमेण दूरीकृत्य नीचस्थसारं रौद्रे
शुष्कं कृत्वा पात्रान्तरे स्थापयेत् ।” इति पाक-
राजेश्वरः ॥

गोधूमी, स्त्री, (गां धूमयतीति । धूमि + अण् ।

गौरादित्वाद् ङीष् ।) गोलोमिका । इति
राजनिर्घण्टः ॥ (गोलोमिकाशब्देऽस्या विवरणं
ज्ञेयम् ॥)

गोधूलिः, स्त्री, (गवां क्षुरोत्थिता धूलिर्यत्र-

काले ।) कालविशेषः । गोधूलिकालस्तु त्रिविधः ।
यथा, ग्रीष्मे अर्द्धास्तरविकालः । हेमन्तशिशि-
रयोर्मृदुताप्राप्तपिण्डीकृतरविकालः । वर्षाशरद्-
वसन्तेष्वस्तगतरविकालः । यथा, --
“गोधूलिं त्रिविधां वदन्ति मुनयो नारीविवाहादिके
हेमन्ते शिशिरे प्रयाति मृदुतां पिण्डीकृते
भास्करे ।
ग्रीष्मेऽर्द्धास्तमिते वसन्तसमये भानौ गतेऽदृश्यतां
सूर्य्ये चास्तमुपागते च नियतं वर्षाशरत्-
कालयोः ॥”
इति दीपिका ॥

गोधेनुः, स्त्री, (गौरेवं धेनुः ।) दुग्धवती गवी ।

इति संक्षिप्तसारव्याकरणम् ॥

गोधेरः, पुं, (गोधति धातूनामनेकार्थत्वात् रक्ष-

तीति । गुध् + बाहुलकादेरक् ।) गोप्ता । इति
संक्षिप्तसारे उणादिवृत्तिः ॥

गोनन्दी, स्त्री, (गवि जले नन्दतीति । नन्द + अच् ।

गौरादित्वात् ङीष् ।) सारसपक्षिणी । इति
हारावली ॥

गोनर्द्दं, क्ली, (गवि पृथिव्यां नर्द्द्यते स्वनाम्ना आख्या-

यते इत्यर्थः । नर्द्द + अप् ।) मुस्तकम् । इति
मेदिनी । दे । २८ ॥

गोनर्द्दः, पुं, (गवि जले नर्द्दति कूजतीति । गो +

नर्द्द + “नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ।” ३ ।
१ । १३४ । इति पचादित्वादच् ।) सारस-
पक्षी । इति मेदिनी । दे । २८ ॥ (गोभिर्वाग्भि-
र्नर्द्दतीति । अच् ।) देशविशेषः । यथा, बृहत्-
संहितायाम् । १४ । १२ ।
“कङ्कटटङ्कणवनवासि-
शिविकफणिकारकोङ्कणाभीराः ।
आकरवेणावन्तक-
दशपुरगोनर्द्दकेरलकाः ॥”
गोनर्द्दस्य देशस्य राजा । “तद्राजेऽपि ।” २ ।
४ । ६२ । इत्यण् । गोनर्द्दराजः । यथा, राज-
तरङ्गिण्याम् । १ । ५७ ।
“काश्मीरेन्द्रः स गोनर्द्दो वेल्लद्गङ्गादुकूलया ।
दिशा कैलासहासिन्या प्रतापी पर्य्युपास्यत ॥”)

गोनर्द्दीयः, पुं, (गोनर्द्दे देशे भवः । गोनर्द्द + “एङ्

प्राचां देशे ।” १ । १ । ७५ । इति वृद्धसंज्ञ-
त्वात् छः ।) पतञ्जलिमुनिः । इति हेमचन्द्रः ।
३ । ५१५ ॥ (अस्य गोनर्द्ददेशोद्भूतत्वात् तथा-
त्वम् । तद्देशभवे, त्रि ॥)

गोनसः, पुं, (गोरिव नासिका यस्य । “अञ् नासि-

कायाः संज्ञायां नसं चास्थूलात् ।” ५ । ४ ।
११८ । इति अच् नसादेशश्च ।) सर्पविशेषः ।
वोडा इति ख्यात इत्यन्ये । इति भरतः ॥ तत्-
पर्य्यायः । तिलित्सः २ । इत्यमरः । १ । ८ । ४ ॥
गोनासः ३ घोनसः ४ । इति हेमचन्द्रः ॥ मण्डली-
वोड्रः ५ । इति विक्रमादित्यः ॥ वोड्रः ६ । इति
शब्दरत्नावली ॥ (यथा, सुश्रुते कल्पस्थाने
चतुर्थाध्याये ।
“मिलिन्दको गोनसो वृद्धगोनसः पनसी ॥”)
वैक्रान्तमणिः । इति राजनिर्घण्टः ॥

गोनाथः, पुं, (गवां नाथः ।) अनड्वान् । इति

राजनिर्घण्टः ॥

गोनासं, क्ली, (गोर्नासा इव आकृतियस्य ।

गोनसाकारत्वादस्य तथात्वम् ।) वैक्रान्तमणिः ।
इति राजनिर्घण्टः ॥

गोनासः, पुं, (गोर्नासा इव नासा यस्य ।) गोनस-

सर्पः । इति हेमचन्द्रः । ४ । ३७२ ॥

गोनिष्यन्दः, पुं, (गोर्निष्यन्दते क्षरतीति । नि +

स्यन्द + पचाद्यच् । यद्वा गवां निष्यन्दः । “कृद्-
विहितो भावो द्रव्यवत् प्रकाशते ।” इति
न्यायात् ।) गोमूत्रम् । इति राजनिर्घण्टः ॥

गोपः, पुं, (गोर्जलात् कफपित्तादिदूषितरसात

पाति रक्षतीति । गो + पा + “आतोऽनुपसर्गे
कः ।” ३ । २ । ३ । इति कः ।) बोलः । (गां
गोजातिं पाति रक्षतीति । गो + पा + कः ।)
जातिविशेषः । गोयाला इति भाषा ॥ तत्-
पर्य्यायः । गोसंख्यः २ गोधुक् ३ आभीरः ४
वल्लवः ५ गोपालः ६ । इत्यमरः । २ । ९ । ५७ ॥
तस्योत्पत्तिर्यथा, --
“मणिबन्ध्यां तन्त्रवायात् गोपजातेश्च सम्भवः ।”
इति पराशरपद्धतिः ॥
(यथा, मनुः । ८ । २६० ।
“व्याधाञ्छाकुनिकान् गोपान् कैवर्त्तान् मूल-
खानकान् ।
व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः ॥”)
गोष्ठाध्यक्षः । (गां पृथिवीं पाति रक्षतीति ।
पा + कः ।) पृथ्वीपतिः । बहुग्रामस्याधिकृतः ।
इति मेदिनी । पे । ५ ॥ (गाः पाति रक्षतीति ।
पा + कः । गोरक्षकः । यथा, मनुः । ८ । २३१ ।
“गोपः क्षीरभृतो यस्तु स दुह्याद्दशतो वराम् ।
गोस्वाम्यनुमते भृत्यः सा स्यात् पाले भृते भृतिः ॥”
गन्धर्व्वविशेषः । यथा, रामायणे । ६ । ९१ । ४६ ।
“नारदस्तुम्बुरुर्गोपः प्रभया सूर्य्यवर्च्चसः ।
एते गन्धर्व्वराजानो भरतस्याग्रतो जगुः ॥”)

गोपः, त्रि, (गोपायति रक्षतीति । गुपू ञ् रक्षणे

गुप + आय + “आयादय आर्द्धधातुके वा ।”
३ । १ । ३१ । इति अच् ।) रक्षकः । उप-
कारकः । इति शब्दरत्नावली ॥ (यथा, ऋग्-
वेदे । १० । ६१ । १० । “द्विबर्हसो य उप गोप-
मागुरदक्षिणासो अच्युता दुदुक्षन् ॥”)

गोपकः, पुं, (गोप + स्वार्थे कन् ।) बोलः । बहु-

ग्रामाधिपतिः । इति शब्दरत्नावली ॥

गोपकन्या, स्त्री, (इन्द्रियाद्युपलक्षितशरीररक्षकस्य

गोपस्य वैद्यस्य कन्येव हितकारित्वात् ।) शारिवौ
षधिः । इति राजनिर्घण्टः ॥ (गोपस्य कन्या ।)
आभीरसुता ॥ (यथा, --
“युवतीर्गोपकन्याश्च रात्रौ संकाल्य कालवित् ।
कैशोरकं मानयन् वै सह ताभिर्मुमोद ह ॥”
इति हरिवंशे । ७६ । १८ ॥)

गोपघोण्टा, स्त्री, (गोपप्रिया घोण्टावदरीविशेषः ।)

हस्तिकोलिः । इति रत्नमाला ॥ वदरीसदृश-
सूक्ष्मफलवृक्षः । शेयाकुल इति भाषा ॥ यथा,
शब्दरत्नावल्याम् ।
(“वदरीसदृशाकारो वृक्षः सूक्ष्मफलो भवेत् ।
अटव्यामेव सा घोण्टा गोपघोण्टेति चोच्यते ॥”)
विकङ्कतवृक्षः । इति राजनिर्घण्टः ॥

गोपतिः, पुं, (गोर्वृषभस्य पतिः । यद्वा गवां पशूनां

जीवानां पतिः ।) शिवः । (यथा, महा-
भारते । १३ । १७ । १३ ।
“गोपालिर्गोपतिर्ग्रामो गोचर्म्मवसनो हरिः ॥”
गां पृथ्वीं जगदित्यर्थः पाति पालयतीति ।
गो + पा + डतिः । विष्णुः । यथा, महाभारते ।
१३ । १४९ । ६६ ।
“उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥”
गोपेन्द्रनन्दनकृष्णः । यथा, हरिवंशे । ७६ । ४ ।
“अमानुषाणि कर्म्माणि पश्यामस्तव गोपते ! ॥”
असुरभेदः । यथा, महाभारते । ३ । १२ । ३५
“गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ ॥”
गवां रश्मीनां पतिः ।) सूर्य्यः । (यथ
भागवते । १ । १२ । १० ।
“परिभ्रमन्तमुल्काभां भ्रामयन्तं गदां मुहुः ।
अस्त्रतेजः स्वगदया नीहारमिव गोपतिः ॥”
गोः पृथिव्याः पतिः ।) राजा । (गवां सौर-
भेयाणां पतिः ।) वृषः । इति मेदिनी ॥ ते ।
१०७ ॥ (यथा, बृहत्संहितायाम् । ६८ । ११५ ।
“शार्द्दूलहंससमदद्विपगोपतीनां
तुल्या भवन्ति गतिभिः शिखिनां च भूपाः ।
येषाञ्च शब्दरहितं स्तिमितं च यातं
तेऽपीश्वरा द्रुतपरिप्लुतगा दरिद्राः ॥”)
ऋषभनामौषधिः । इति राजनिर्घण्टः ॥

गोपदलः, पुं, (गोपदं गोचरणन्यासयोग्यं स्थानं

लाति गृह्णातीति । गोपद + ला + कः ।) गुबाकः ।
इति त्रिकाण्डशेषः ॥
पृष्ठ २/३५८

गोपनं, क्ली, (गुप् + भावे ल्युट् ।) अपह्नवः ।

(यथा, महानिर्व्वाणतन्त्रे । ४ । ७९ ।
“गोपनाद्धीयते सत्यं न गुप्तिरनृतं विना ।
तस्मात् प्रकाशतः कुर्य्यात् कौलिकः कुलसाध-
नम् ॥”)
कुत्सनम् । रक्षा । (यथा, राजेन्द्रकर्णपूरे । ३४ ।
“अधिकं समाप्तसमरः प्रथितो भुवनेषु गोपन-
रसोत्कः ॥”)
व्याकुलत्वम् । दीप्तिः । इति कविकल्पद्रुमे गुप-
धात्वर्थदर्शनात् ॥ तमालपत्रम् । इति राज-
निर्घण्टः ॥ तेजपात इति भाषा ॥

गोपनीयं, क्ली, (गुप् + अनीयर् ।) गोप्यम् ।

गोपितव्यम् । यथा, --
“स्वर्गेऽपि दुर्लभा विद्या गोपनीया प्रयत्नतः ।”
इति नाडीप्रकाशः ॥

गोपबधूः, स्त्री, (गोपस्य बधूरिव प्रियत्वात् ।

गोपान् बध्नाति स्वगुणेन इति वा । बन्ध + बाहु-
लकात् ऊन् ।) शारिवा । इति भावप्रकाशः ॥
गोपस्य पत्नी च ॥ (यथा, गीतगोविन्दे । १ । ४१ ।
“पीनपयोधरभारभरेण हरिं परिरभ्य सरागम् ।
गोपबधूरनुगायति काचिदुदञ्चितपञ्चम-
रागम् ॥”)

गोपभद्रं, क्ली, (गोपे भद्रमिव ।) शालूकम् । इति

शब्दचन्द्रिका ॥

गोपभद्रा, स्त्री, (गोपानां भद्रं मङ्गलं यस्याः

यस्यां वा गोपाद्यारण्यकजातिभिः पूज्यत्वा-
दस्यास्तथात्वम् ।) काश्मरीवृक्षः । इति राज-
निर्घण्टः ॥

गोपभद्रिका, स्त्री, (गोपभद्रा संज्ञायां कन् । टापि

अत इत्वञ्च ।) गम्भारीवृक्षः । इति रत्नमाला ॥

गोपरसः, पुं, (गोपः गन्धद्रव्यविशेषः । गोपः रसो-

ऽस्य । गोपः अभ्यन्तरगुप्तो रसो यस्मिन् वा ।)
बोलः । इति शब्दरत्नावली ॥

गोपवल्ली, स्त्री, (गां पाति रक्षतीति । पा + कः ।

टाप् । गोपा चासौ वल्ली चेति कर्म्मधारयः ।)
मूर्व्वा । शारिबा । इति राजनिर्घण्टः ॥ (अस्याः
पर्य्याया यथा, --
“गोपवल्ली कराला च सुगन्धा भद्रवल्लिका ।
गोपीभद्रा तथानन्ता नागजिह्वातिशारिवा ॥”
इति वैद्यकरत्नमालायाम् ॥
यथा च सुश्रुते उत्तरतन्त्रे ५१ अध्याये ।
“गोपवल्ल्युदके सिद्धं स्यादन्यद्द्विगुणे घृतम् ॥”)
श्यामालता । इति शब्दरत्नावली ॥

गोपा, स्त्री, (गां पाति रक्षतीति । पा + “आतो-

ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः । स्त्रियां टाप् ।)
श्यामालता । इत्यमरटीका शब्दरत्नावली च ॥
(गाः पाति रक्षतीति । पा रक्षणे + कप्राप्ति-
विषये वासरूपन्यायेन “आतो मनिन्क्वनिप्-
बनिपश्च ।” ३ । २ । ७४ । इति चेन विचि
अदन्तत्वाभावादाप् विधेरभावे गोपा गोरक्षा-
कर्त्त्री । गोपा विश्वपावदिति मुग्धबोध-
व्याकरणम् ॥)

गोपानसी, स्त्री, (गोपायति रक्षति गृहमिति । गुपू

ञ रक्षणे + बाहुलकात् नसट् यलोपस्ततो ङीप्
च ।) वडभी । गृहाणामग्रभागे दत्तवक्रकाष्ठम् ।
मुदनी इति भाषा ॥ इत्यमरटीकासारसुन्दरी ॥
गृहचूडा वडभी तच्छादनार्थं वक्रीकृत्य यत्
काष्ठं दीयते सा वडभी चतुष्किकादिचूडा
तच्छादनाय वक्रीकृत्य यत् काष्ठं दीयते सा ।
इति मधुः ॥ पटलाधोवंशपञ्जरम् । इति भट्टः ॥
कर्णिकाविष्कम्भिदारु इत्यन्ये । वक्रीभूतं धरण-
काष्ठम् । इत्येके । इत्यमरटीकायां भरतः ॥
(यथा, माघे । ३ । ४९ ।
“गोपानसीषु क्षणमास्थिताना-
मालम्बिभिश्चन्द्रकिणां कलापैः ।
हरिण्मणिश्यामतृणाभिरामै-
र्गृहाणि नीध्रैरिव यत्र रेजुः ॥”)

गोपायितं, त्रि, (गुपू ञ् रक्षणे । गोपाय्यते स्म

इति । गोपाय + कर्म्मणि क्तः । “आयादय आर्द्ध-
धातुके वा ।” ३ । १ । ३१ । इति आयागमश्च ।)
रक्षितम् । इत्यमरः । ३ । १ । १०६ ॥ (भावे क्तः
रक्षणम् ॥)

गोपालः, पुं, (गाः पालयतीति । गा + पाल +

“कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) गवां
पालकः । वृन्दावनस्थगोपालानां स्वरूपं यथा,
“गोपाला मुनयः सर्व्वे वैकुण्ठानन्दमूर्त्तयः ॥”
इति पद्मपुराणे पातालखण्डे व्यासं प्रति श्रीकृष्ण-
वाक्यम् ॥ * ॥ (गां पृथिवीं पालयतीति । गो
+ पाल + अण् ।) राजा । (गां पृथिवीं वेदं
वा पालयतीति ।) नन्दनन्दनः कृष्णः । इति
मेदिनी । ले । ८६ ॥ * ॥ श्रीगोपालस्य ध्यानं यथा,
“अव्याद्व्याकोषनीलाम्बुजरुचिररुणाम्भोज-
नेत्रोऽम्बुजस्थो
बालो जङ्घाकटीरस्थलकलितरणत्किङ्किणीको
मुकुन्दः ।
दोर्भ्यां हैयङ्गवीनं दधदतिविमलं पायसं विश्व-
वन्द्यो
गोगोपीगोपवीतो रुरुनखविलसत्कण्ठभूष-
श्चिरं वः ॥”
इति तन्त्रसारः ॥ * ॥
तस्य स्वरूपं यथा, --
श्रीव्यास उवाच ।
“ततोऽहमब्रुवं हृष्टः पुलकोत्फुल्लविग्रहः ।
त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन ! ॥
यत्तत् सत्यं परं ब्रह्म जगद्योनिर्जगत्पतिः ।
वसन्तं वेद शिरसि चाक्षुषं नाथ ! मेऽस्तु तत् ॥
श्रीभगवानुवाच ।
ब्रह्मणैवं पुरा पृष्टः प्रार्थितश्च यथा पुरा ।
यदवोचमहं तस्मै तत्तुभ्यमपि कथ्यते ॥
मामेके प्रकृतिं प्राहुः पुरुषञ्च तथेश्वरम् ।
धर्म्ममेके धनञ्चैके मोक्षमेकेऽकुतोभयम् ॥
शून्यमेके भावमेके परमार्थमथापरे ।
दैवमेके देवमेके ग्रहमेके मनः परे ॥
बुद्धिमेके कालमेके शिवमेके सदाशिवम् ।
अपरे वेदशिरसि स्थितमेकं सनातनम् ॥
सद्भावं विक्रियाहीनं सच्चिदानन्दविग्रहम् ।
मन्मायामोहितधियः सर्व्वकालेषु वञ्चिताः ॥
कोऽपि वेद पुमान् लोके मदनुग्रहभाजनः ।
पश्याद्य दर्शयिष्यामि स्वं रूपं वेदगोपितम् ॥
ततोऽपश्यमहं भूप ! बालं बालाम्बुदप्रभम् ।
गोपकन्यावृतं गोपं हसन्तं गोपबालकैः ॥
कदम्बमूलमासीनं पीतवाससमद्भुतम् ।
वनं वृन्दावनं नाम नवपल्लवमण्डितम् ॥
कोकिलभ्रमरारावमनोभवमनोहरम् ।
नदीमपश्यं कालिन्दीमिन्दीवरदलप्रभाम् ॥
गोवर्द्धनं तथापश्यं कृष्णवामकरोद्धृतम् ।
महेन्द्रदर्पनाशाय गोगोपालसुखावहम् ॥
दृष्ट्वा विहृष्टो ह्यभवं सर्व्वभूषणभूषणम् ।
गोपालमबलासङ्गमुदितं वेणुनादितम् ॥
ततो मामाह भगवान् वृन्दावनवचः स्वयम् ।
यदिदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् ॥
निष्कलं निष्क्रमं शान्तं सच्चिदानन्दविग्रहम् ।
पूर्णं पद्मपलाशाक्षं नातः पंरतरं मम ॥
इदमेव वदन्त्येते वेदाः कारणकारणम् ।
सत्यं व्यापि परानन्दचिद्घनं शाश्वतं शिवम् ॥
नित्यां मे मथुरां विद्धि वनं वृन्दावनं तथा ।
यमुनां गोपकन्याश्च तथा गोपालबालकान् ॥
ममावतारो नित्योऽयमत्र मा संशयं कृथाः ।
ममेष्टा हि सदा राधा सर्व्वज्ञोऽहं परात्परः ॥
मयि सर्व्वमिदं विश्वं भाति मायाविजृम्भितम् ॥”
इति पद्मपुराणे पातालखण्डम् ॥ * ॥
द्बादशगोपालाश्चैतन्यशब्दे द्रष्टव्याः ॥

गोपालकः, पु, (गां पशुं जीवजातमित्यर्थः पाल-

यति रक्षतीति । गो + पालि + ण्वुल् ।) शिवः ।
इति त्रिकाण्डशेशः ॥ श्रीकृष्णः । यथा, --
“दाता फलानामभिवाञ्छितानां
प्रागेव गोपालकमन्त्र एषः ।
क्रमदीपिका ॥
गोपालशब्दात् स्वार्थे के गोरक्षकश्च ॥ (यद्वा
गवां पालकः रक्षकः । पालि + ण्वुल् । यथा,
महाभारते । ३ । २३९ । ६ ।
“अथ संस्मारणां कृत्वा लक्षयित्वा त्रिहायणान् ।
वृतो गोपालकैः प्रीतो व्यहरत् कुरुनन्दनः ॥”
चण्डमहासेननपतेः पुत्त्रयोरन्यतरः । यथा,
कथासरित्सागरे । ११ । ७४ ।
“जातौ द्वौ तनयौ चण्डमहासेनस्य भूपतेः ।
एको गोपालको नाम द्बितीयः पालकस्तथा ॥”)

गोपालकर्कटी, स्त्री, (गोपालप्रिया कर्कटी फल-

विशेषः ।) कर्कटीभेदः । गोयालकाँकरी गुरुभा
इति च हिन्दी भाषा ॥ तत्पर्य्यायः । वन्या २
गोपकर्कटिका ३ क्षुद्रेर्व्वारुः ४ क्षुद्रफला ५
गोपाली ६ क्षुद्रचिर्भिटा ७ । अस्या गुणाः ।
शीतत्वम् । मधुरत्वम् । पित्तमूत्रकृच्छ्राश्मरी-
मेहदाहशोषनाशित्वञ्च । इति राजनिर्घण्टः ॥

गोपालिका, स्त्री, (गोपालकस्य गोरक्षकस्य पत्नी ।

“पालकान्तात् न ।” ४ । १ । ४८ । इत्यस्य
पृष्ठ २/३५९
वार्त्तिं इति न ङीष् अतष्टापि अत इत्वम् ।)
गोपालपत्नी । इति मुग्धबोधम् ॥ कीटविशेषः ।
ततपर्य्यायः । महाभीरुः २ । इति हेम-
चन्द्रः । ४ । २७४ ॥

गोपाली, स्त्री, (गोपालानां प्रिया । गोपाल +

जातौ ङीष् ।) गोपालकर्कटी । गोरक्षी । इति
राजनिर्घण्टः ॥ (गोपालस्य पत्नी । गोपाल +
स्त्रियां ङीष् । गोपपत्नी ॥ स्कन्दानुचरमातृ-
विशेषः । यथा, महाभारते । ९ । ४६ । ४ ।
“अप्सु जाता च गोपाली बृहदम्बालिका तथा ॥”)

गोपाष्टमी, स्त्री, (गोपप्रिया अष्टमी । शाक-

पार्थिवादिवत् समासः ।) कार्त्तिकशुक्लाष्टमी ।
यथा, --
“शुक्लाष्टमी कार्त्तिके तु स्मृता गोपाष्टमी बुधैः ।
तद्दिने वासुदेवोऽभूद्गोपः पूर्ब्बन्तु वत्सपः ॥
तत्र कुर्य्यात् गवां पूजां गोग्रासं गोप्रदक्षिणम् ।
गवानुगमनं कार्य्यं सर्व्वान् कामानभीस्पता ॥”
इति कूर्म्मपुराणम् ॥

गोपिका, स्त्री, (गोप्येव स्वार्थे कन् ह्रस्वश्च ।)

गोपी । यथा, --
“न खलु गोपिकानन्दनो भवा-
नखिलदेहिनामन्तरात्मदृक् ।”
इति श्रीभागवते । १० । ३१ ४ ॥
(गोपायति रक्षति या । गुपू ञ रक्षणे + ण्वुल् ।
स्त्रियां टापि अत इत्वम् ।) रक्षित्री ॥

गोपिनी, स्त्री, (गोपायति रक्षतीति । गुप् +

णिनिः ङीप् च ।) श्यामालता । इति शब्द-
चन्द्रिका ॥ (वीराचारि-पश्वाचारिणां पूज-
नीयनायिकाविशेषः । यदुक्तं गुप्तसाधनतन्त्रे
१ म पटले ।
“नटी कापालिकी वेश्या रजकी नापिताङ्गना ।
ब्राह्मणी शूद्रकन्या च तथा गोपालकन्यका ॥”
अस्याः निरुक्तिर्यथा, कुलार्णवतन्त्रे ।
“आत्मानं गोपयेत् या च सर्व्वदा पशुसङ्कटे ।
सर्व्ववर्णोद्भवा रम्या गोपिनी सा प्रकीर्त्तिता ॥”)

गोपिलः, त्रि, (गोपायति रक्षतीति । गुपू रक्षणे

+ “मिथिलादयश्च ।” उणां । १ । ५८ । इति
इलच् निपातनात् किदभावः ।) गोप्ता । इति
संक्षिप्तसारे उणादिवृत्तिः ॥

गोपी, स्त्री, (गोपस्य स्त्री । “पुंयोगादाख्या-

याम् ।” ४ । १ । ४८ । इति ङीष्) गोपपत्नी ।
वृन्दावनस्थगोपीनां स्वरूपं यथा, --
“गोप्यस्तु श्रुतयो ज्ञेयाः स्वाधिजा गोपकन्यकाः ।
देवकन्याश्च राजेन्द्र ! न मानुष्यः कथञ्चन ॥” * ॥
तत्र व्रजबाला यथा, --
पूर्णरसा रसमन्थरा रसालया रससुन्दरी
रसपीयूषधामा रसतरङ्गिणी रसकल्लोलिनी
रसवापिका अनङ्गमञ्जरी अनङ्गमानिनी मद-
यन्ती रङ्गविह्वला ललिता ललितयौवना अनङ्ग-
कुसुमा मदनमञ्जरी कलावती रतिकला कल-
कण्ठी अब्जास्या रतोत्सुका रतिसर्व्वस्वा रति-
चिन्तामणिः इत्याद्याः ॥ * ॥
शुतिगणा यथा, --
उद्गीता रसगीता कलगीता कलस्वरा कल-
कण्ठिता विपञ्ची कलपदा बहुमता बहुकर्म्म-
सुनिष्ठा बहुहरिः बहुशाखा विशाखा सुप्र-
योगतमा विप्रयोगा बहुप्रयोगा बहुकला कला-
वती क्रियावती इत्याद्याः ॥ * ॥
मुनिगणा यथा, --
उग्रतपाः सुतपाः प्रियव्रता सुरता सुरेखा
सुपर्व्वा बहुप्रदा रत्नरेखा मणिग्रीवा अपर्णा
सुपर्णा मत्ता सुलक्षणा सुदती गुणवती सौका-
लिनी सुलोचना सुमनाः सुभद्रा सुशीला
सुरभिः सुखदायिका इत्याद्याः ॥ * ॥
गोपबाला यथा--
चन्द्रावली चन्द्रिका काञ्चनमाला रुक्ममाला-
वती चन्द्रानना चन्द्ररेखा चान्द्रवापी चन्द्रमाला-
चन्द्रप्रभा चन्द्रकला सौवर्णमाला मणिमालिका
वर्णप्रभा शुद्धकाञ्चनसन्निभा मालती यूथी
वासन्ती नवमल्लिका मल्ली नवमल्ली शेफालिका
सौगन्धिका कस्तूरी पद्मिनी कुमुद्वती रसाला
सुरसा मधुमञ्जरी रम्भा उर्व्वशी सुरेखा स्वर्ण-
रेखिका वसन्ततिलका इत्याद्याः । इति पाद्मे
पातालखण्डम् ॥ अस्या विवरणं कृष्णशब्दे
द्रष्टव्यम् ॥ * ॥ (गोपायति रक्षतीति । गुप् +
अच् + गौरादित्वात् ङीष् ।) शारिवा ।
रक्षिका । इति विश्वः ॥ (रक्षित्री यथा,
रघुः । ४ । २० ।
“इक्षुच्छाया निषादिन्यस्तस्य गोप्तुर्गुणोदयम् ।
आकुमारकथोद्घातं शालिगोप्यो जगुर्यशः ॥”)
प्रकृतिः । यथा, गोपायति सकलमिदं गोपायति
परं पुमांसं गोपीप्रकृतिरिति क्रमदीपिका ॥

गोपीथं, क्ली, (गोपायति रक्षति भवबन्धना-

दिति । यद्वा गाः पशून् पाति रक्षतीति । गुप्
अथवा गो + पा + “निशीथगोपीथावगाथाः ।”
उणां । २ । ९ । इति थक्प्रत्ययेन निपातनात्
साधुः ।) तीर्थस्थानम् । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥ (गावः पिबन्त्यस्यामिति व्युत्-
पत्त्या जलाशयादि । इति चिन्तामणिः ॥)

गोपीथः, पुं, (गुप्यते रक्ष्यते इति । गुप् +

“निशिथगोपीथावगाथाः ।” उणां । २ । ९ ।
इति भावे थक्प्रत्ययेन निपातनात् साधुः ।)
रक्षणम् । इति संक्षिप्तसारे उणादिवृत्तिः ॥
(यथा, ऋग्वेदे । १ । १९ । १ ।
“प्रति त्यं चारुमध्वरं गोपीथाय प्रहूयसे ।
मरुद्भिरग्न आ गहि ॥”
“गोपीथाय पृथिवीन्द्रियादीनां रक्षणाय ॥”
इति दयानन्दभाष्यम् ॥ गां वाणीं पृथिवीं वा
पातीति व्युत्पत्या । गो + पा + थक् । निपा-
तनात् ईत्वम् । पण्डितः । राजा । इति कश्चित् ॥)

गोपुच्छः, पुं, (गोः पुच्छ इव आकृतिर्यस्य

गोपुच्छाकारत्वादस्य तथात्वम् ।) हारभेदः ।
इति हेमचन्द्रः । ३ । ३२५ ॥ (वाद्यविशेषः ।
इति तट्टीका ॥) गोलाङ्गूलवानरः । यथा, --
“शार्दूलमृगसंघुष्टं सिंहैभींमबलैर्वृतम्
ऋक्षवानरगोपुच्छैर्मार्ज्जारैश्च निषेवितम् ॥
इति रामायणे किष्किन्ध्याकाण्डम् ॥
गवां लाङ्गूलञ्च ॥ (यथा, बृहत्संहितायाम् ।
९५ । ३५ ।
“गोपुच्छस्थे वल्मीकगेऽथवा दर्शनं भुजङ्गस्य ॥”)

गोपुटा, स्त्री, (गौर्वज्रं तद्वदतिकठिनमिति भावः

पुटं आच्छादनं यस्याः ।) स्थूलैला । इति
राजनिर्घण्टः ॥

गोपुटिकं, क्ली, (गोः शिववृषभस्य पुटिकं आच्छा-

दनयुक्तं गृहम् ।) शिववृषस्य मण्डपः । इति
त्रिकाण्डशेषः ॥

गोपुरं, क्ली, (गोपायति नगरं रक्षतीति । गुप् +

बाहुलकात् उरच् । यद्वा गाः पिपर्त्तीति । पॄ
पालनपूरणयोः + “मूलविभुजादिभ्य उपसंख्या-
नम् ।” इति कः ।) नगरद्वारम् । सहरेर फटक्
इति भाषा ॥ तत्पर्य्यायः । पुरद्वारम् २ । इत्य-
मरः । २ । ३ । १६ ॥ दुर्गपुरद्वारम् । इत्यन्ये ॥
द्वारमात्रम् । इति भरतः ॥ (यथा, महा-
भारते । १ । २०८ । ३१ ।
“द्विपक्षगरुडप्रख्यैर्द्वारैः सौधैश्च शोभितम् ।
गुप्तमभ्रचयप्रख्यैर्गोपुरैर्म्मन्दरोपमैः ॥” * ॥
गौर्जलं पुरमस्य यद्बा गवा जलेनं पिपर्त्ति
पूरयति आत्मानमिति । पृ + कः ।) कैवर्त्ती-
मुस्तकम् । इति मेदिनी । रे । १५० ॥ (वैद्यक-
शास्त्रप्रणेता ऋषिभेदः । यथा, सुश्रुते सूत्रस्थाने
१ अध्याये । “अथ खलु भगवन्तममरवरमृषि-
गणपरिवृतं आश्रमस्थं काशिराजं दिवोदासं
धन्वन्तरिमौपधेनववैतरणौरभ्रपौष्कलावत कर-
वीर्य्यगोपुररक्षितसुश्रुतप्रभृतय ऊचुः ॥”)

गोपुरकः, पुं, (गां भूमिं पिपर्त्तीति । प पूर्त्तौ +

“मूलविभुजादिभ्य उपसंख्यानम् ।” इति कः ॥
ततः संज्ञायां कन् ।) कुन्दुरुकः । इति राज-
निर्घण्टः ॥

गोपुरीषं, क्ली, (गोः पुरीषम् विष्ठा ।) गोमयम् ।

इति राजनिर्घण्टः ॥

गोपेन्द्रः, पुं, (गोपेषु गोकुलस्थगोपालेषु मध्ये इन्द्रः

श्रेष्ठः । गोप इन्द्र इव वा । यद्वा गां वाचं
पाति रक्षतीति गोपो वेदस्तत्र इन्दति सर्व्वै-
श्वर्य्यवत्तया विराजते । इदि परमैश्वर्य्ये +
“ऋजेन्द्रेति ।” उणां । २ । २९ । इति रन्प्रत्य-
येन निपातनात् साधुः ।) विष्णुः । इति हेम-
चन्द्रः । २ । १३२ ॥ (श्रीकृष्णः । इति भागवतम् ।
गोपानामिन्द्र ईश्वरः । गोपपतिः । स तु नन्दः ।
यथा, महाभारते । ६ । २२ । २३ ।
“गोपेन्द्रस्यात्मजे ज्येष्ठे नन्दगोपकुलोद्भवे ॥”)

गोपेशः, पुं, (गां पृथिवीं पान्ति रक्षन्तीति गोपा

राजानस्तेषामीशः सर्व्वहिंसानिवारणादिति
भावः । प्राप्तराज्योऽप्ययं विषयभोगं तुच्छीकृत्य
सन्न्यासेन निर्व्वाणमलभताऽतोऽस्य राजसु श्रेष्ठ-
त्वमायातमिति तात्पर्य्यार्थः ।) शाक्यमुनिः ।
इति त्रिकाण्डशेषः ॥ (गोपानां गोकुलस्थ
पृष्ठ २/३६०
गोपालानामीशः ।) नन्दघोषः । यथा, --
“रामकृष्णावुभयतो गोपेशं परितः परे ॥”
इति मुग्धबोधम् ॥
श्रीकृष्णश्च ॥

गोप्ता, [ऋ] त्रि, (गोपायति रक्षतीति । गुपू ञ

रक्षणे + “ण्वुल्तृचौ ।” ३ । १ । १३३ । इति
तृच् ।) रक्षकः । यथा, --
“विप्राणामभयार्थमध्वरविधेर्गोप्ता गुरो-
राज्ञया ।”
इति राघवपाण्डवीये कविराजः ॥
(तथा च मनुः । ११ । ७९ ।
“ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजन् ।
मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च ॥”
गोपायति सर्व्वाणि यद्वा आत्मानं गोपायति
स्वमायया संवृणोतीति व्युत्पत्या विष्णौ पुं ।
यथा, महाभारते । १३ । १४९ । ७६ ।
“गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥”
स्त्री, गङ्गा । यथा, काशीखण्डे । २९ । ५१ ।
“गोमती गुह्यविद्या गौर्गोप्त्री गगनगामिनी ॥”)

गोप्यः, पुं, (गोप्यते रक्ष्यतेऽसौ इति । गुपू रक्षणे +

“ऋहलोर्ण्यत् ।” ३ । १ । १२४ । इति ण्यत् ।)
दासः । इत्यमरटीकायां भरतः ॥ दासीपुत्त्रः ।
रक्षणीये त्रि । इति भेदिनी । ये । २० ॥ (यथा,
महाभारते । १२ । ४१ । १५ ।
“महदेवं समीपस्थं नित्यमेव समादिशत् ।
तेन गोप्यो हि नृपतिः सर्व्वावस्थो विशाम्पते ! ॥”
गोप्यतेऽसाविति । गुपू ञ गोपने + कर्म्मणि
गयत् ।) गोपनीयः । यथा, --
“आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् ।
अपमानन्तपो दानं नव गोप्यानि यत्नतः ॥”
इति पुराणम् ॥
गीपीसमूहश्च ॥ (तत्र गोपीशब्दात् प्रथमावि-
भक्तेर्बहुवचनप्रयोगः ॥)

गोप्यकः, पुं, (गोप्य एव । स्वार्थे कन् ।) दासः ।

इत्यमरः । २ । १० । १७ ॥

गोप्याधिः, पुं, (गोप्यो रक्षणीय आधिर्बन्धकः ।)

बन्धकविशेषः । (यथा, याज्ञवल्क्ये । २ । ६० ।
“गोप्याधिभोगे नो वृद्धिः सोपकारेऽथ तापिते ॥”)
“तया च नारदः ।
अधिक्रियत इत्याधिः स विज्ञेयो द्विलक्षणः ।
कृतकालोपनेयश्च यावद्देयोद्यतस्तथा ॥
स पुनर्द्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव च ।
गोप्यो रक्षणीयः ।” इति मिताक्षरा ॥

गोप्रकाण्डं, क्ली, (प्रशस्ता गौर्गोजातिः । “प्रशंसा-

वचनैश्च ।” २ । १ । ६६ । इति परनिपातः ।
प्रकाण्डशब्दस्य नियतलिङ्गतया क्लीवत्वम् ।)
श्रेष्ठगौः ॥ इति सिद्धान्तकौमुदी ॥

गोभण्डीरः, पुं, (गवि जले भण्डीरः अतिवाचालः ।)

जलकुक्कुभपक्षी । इति त्रिकाण्डशेषः ॥

गोम, त् क लेपने । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरां-परं-सकं-सेट् ।) अजुगोमद्गोमयेन स्थानं
चेटी । इति दुर्गादासः ॥

गोमक्षिका, स्त्री, (गीसन्निकटस्था गोप्रिया वा

मक्षिका ।) दंशः । इति शब्दरत्नावली ॥ डाँश
इति भाषा ॥

गोमतल्लिका, स्त्री, (प्रशस्ता गौर्गोजातिः ।

“प्रशंसावचनैश्च ।” २ । १ । ६६ । इति नित्य-
समासेन परनिपातः ।) सुशीला गौः । इति
हलायुधः ॥

गोमती, स्त्री, (बहवो गावो जलानि सन्त्यस्या-

मिति । भूम्नि “तदस्यास्तीति ।” ५ । २ । ९४ ।
मतुप् । “उगितश्च ।” ४ । १ । ६ । इति ङीप् ।)
स्वनामख्याता नदी । तत्पर्य्यायः । वाशिष्ठी २ ।
इति हेमचन्द्रः ॥ (यथा, महाभारते । ६ । ९ । १७ ।
“गोमतीं धूतपापाञ्च चन्दनाञ्च महानदीम् ॥”
अस्यास्तीरे महादेवस्त्र्यम्बकमूर्त्त्या विराजते ।
यदुक्तं महालिङ्गेश्वरतन्त्रे शिवशतनामस्तोत्रे ।
“त्र्यम्बको गोमतीतीरे गोकर्णे च त्रिलोचनः ॥”
गङ्गा । यथा, काशीखण्डे । २९ । ५१ ।
“गोमती गु ह्यविद्या गौर्गौप्त्री गगनगामिनी ॥”
पीठस्थानस्था भगवती । सा तु गोमन्तपर्व्वते
वर्त्तते । यथा, देवीभागवते । ७ । ३० । ५७ ।
“गोमन्ते गोमती देवी मन्दरे कामचारिणी ॥”
वैदिकमन्त्रभेदः । यथा, --
“पञ्चगव्येन गोघाती मासैकेन विशुध्यति ।
गोमतीञ्च जपेद् विद्यां गवां गोष्ठे च संवसेत् ॥”
इति प्रायश्चित्ततत्त्वे शातातपः ॥
(गोविशिष्टायाम् ॥)

गोमन्तः, पुं, पर्व्वतविशेषः । इति जटाधरः ॥

(अयं हि सह्यपर्व्वतविवरस्थितो गिरिः यदुक्तं
हरिवंशे । ९५ । ६३ ।
“ततश्च्युता गमिष्यामः सह्यस्य विवरे गिरिम् ।
गोमन्त इति विख्यातं नैकशृङ्गविभूषितम् ॥”
अत्र पर्व्वते भगवती गोमतीरूपेण विराजते ।
यदुक्तं देवीभागवते । ७ । ३० । ५७ ।
“गोमन्ते गोमती देवी मन्दरे कामचारिणी ॥”
अयं हि द्वितीयमेरुरिव महान् पर्व्वतः । अस्य
वर्णनं यथा, हरिवंशे । ९६ । ४--२७ ।
“ते चाध्वविधिना सर्व्वे ततो वै दिवसक्रमात् ।
गोमन्तमचलं प्राप्ता मन्दरं त्रिदशा इव ॥
लताचारुविचित्रञ्च नानाद्रुमविभूषितम् ।
गन्धागुरुपिनद्धाङ्गं चित्रं चित्रैर्मनोरमैः ॥
द्विरेफगणसङ्कीर्णं शिलासङ्कटपादपम् ।
मत्तवर्हिणनिर्घोषैर्नादितं मेघनादिभिः ॥
गगनालग्नशिखरं जलदासक्तपादपम् ।
मत्तद्विपविषाणाग्रपरिधृष्टोपलाङ्कितम् ॥
कूजद्भिश्चाण्डजगणैः समन्तात् प्रतिनादितम् ।
दरीप्रपाताम्बुरवैश्छन्नं शाद्बलपल्लवैः ॥
नीलाश्मचयङ्घातैर्ब्बहुवर्णं यथा घनम् ।
धातुविस्रावदिग्धाङ्गं सानुप्रस्रवभूषितम् ॥
कीण सुरगणैः कान्तैर्मैनाकमिव कामगम् ।
उच्छ्रितं सुविशालाग्रं समूलाम्बुपरिस्रवम् ॥
सकाननदरीप्रस्थं श्वेताभ्रगणभूषितम् ।
पनसाम्रातकाम्रौघैर्व्वेत्रस्यन्दनचन्दनैः ॥
तमालैलावनयुतं मरिचक्षुपसङ्कलम् ।
पिप्पलीवल्लिकलिलं चित्रमिङ्गुदपादपैः ॥
द्रुमैः सर्ज्जरसानाञ्च सर्व्वतः प्रतिशोभितम् ।
प्रांशुशालवनैर्गुप्तं बहुचित्रवनैर्युतम् ॥
सर्ज्जनिम्बार्ज्जुनवनं पाटलीकुलसङ्कुलम् ।
हिन्तालैश्च तमालैश्च पुन्नागैश्चोपशोभितम् ॥
जलेषु जलजैश्छन्नं स्थलेषु स्थलजैरपि ।
पङ्कजैर्द्रुमषण्डैश्च सर्व्वतः प्रतिभूषितम् ॥
जम्बूजम्बूलवृक्षाढ्यं कन्दकन्दलभूषितम् ।
चम्पकाशोकबहुलं विल्वतिन्दुकशोभितम् ॥
कुटजैर्नागपुष्पैश्च समन्तादुपशोभितम् ।
नागयूथसमाकीर्णं मृगसङ्घातशोभितम् ॥
सिद्धचारणरक्षोभिः सेवितप्रस्तरान्तरम् ।
विद्याधरगणैर्नित्यमनुकीर्णशिलातलम् ।
सिंहशार्द्दलसन्नादैः सततं प्रतिनादितम् ।
सेवितं वारिधाराभिश्चन्द्रपादैश्च शोभितम् ॥
स्तुतं त्रिदशगन्धर्व्वैरप्सरोभिरलङ्कतम् ।
वनस्पतीनां दिव्यानां पुष्पैरुच्चावचैश्चितम् ॥
शक्रवज्रप्रहाराणामनभिज्ञं कदाचन ।
दावाग्निभयनिर्मुक्तं महावातभयोज्झितम् ॥
प्रपातप्रभवाभिश्च सरिद्भिरुपशोभितम् ।
जलशैवलशृङ्गाग्रैरुन्मिषन्तमिव श्रिया ॥
स्थलीभिर्मृगजुष्टाभिः कान्ताभिरुपशोभितम् ।
पार्श्वैरुपलकन्माषैर्मेघैरिव विभूषितम् ॥
पादपोच्छ्रितसौम्याभिः सपुष्पाभिः समन्ततः ।
मण्डितं वनराजीभिः प्रमदाभिः पतिं यथा ॥
सुन्दरीभिर्द्दरीभिश्च कन्दरीभिस्तथैव च ।
तेषु तेष्ववकाशेषु सदारमिव शोभितम् ॥
ओषधीदीप्तशिखरं वानप्रस्थनिषेवितम् ।
जातरूपैर्व्वनोद्देशैः कृत्रिमैरिव भूषितम् ॥
मूलेन सुविशालेन शिरसात्युच्छ्रितेन च ।
पृथिवीमन्तरीक्षञ्च गाहयन्तमिव स्थितम् ॥”
श्रीकृष्णो बलरामेण सह जरासन्धभयात् अत्र
पर्व्वते पलायमानः स्थितः । ततो मदमत्तैर्बहु-
संख्यकराजभिरतिगर्व्वितो जरासन्धः कृष्णेण
सार्द्धं युयुत्सुरत्रागत्येमं गोमन्तपर्व्वतं दग्धुं
प्रवृत्तः एतत्कथा हरिवंशे ९८ अध्याये विस्त-
रशो द्रष्टव्या ॥ * ॥) गवां स्वामिसमूहश्च ॥ (तत्र
गोमच्छब्दे प्रथमाविभक्तेर्बहुवनप्रयोगः ॥)

गोमयं, क्ली, पुं, (गोः पुरीषम् । “गोश्च पुरीषे ।”

४ । ३ । १४५ । इति मयट् ।) गवां गूथम् ।
गोवर इति भाषा ॥ तत्पर्य्यायः । गोविट् २
इत्यमरः । २ । ९ । ५० ॥ जगलम् ३ गोहन्नम् ४
गोशकृत् ५ । इति रत्नमाला ॥ गोपुरीषम् ६
गोविष्ठा ७ गोमलम् ८ । इति राजनिर्घण्टः ॥
तस्य माहात्म्यं यथा, --
“शतं वर्षसहस्राणां तपस्तप्तं सुदुष्करम् ।
गोभिः पूर्ब्बविसृष्टाभिर्गच्छेम श्रेष्ठतामिति ॥
अस्मत्पुरीषस्नानेन जनः पूयेत सर्व्वदा ।
शकृता च पवित्रार्थं कुर्व्वीरन् देवमानुषाः ॥
ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः ।
एवं भवत्विति विभुर्लोकांस्तारयतेति च ॥” * ॥
पृष्ठ २/३६१
तत्र लक्ष्म्या वासो यथा, लक्ष्मीं प्रति गवां
वाक्यम् ।
“अवश्यं मानना कार्य्या तवास्माभिर्यशस्विनि ! ।
शकृन्मूत्रे निवस त्वं पुण्यमेतद्धि नः शुभे ! ॥”
श्रीरुवाच ।
“दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः ।
एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः ॥”
इति महाभारते दानधर्म्मः ॥
(कृच्छ्रसान्तपने अस्य भक्षणविधिर्यथा, मनुः ।
११ । २१२ ।
“गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ॥”
“अत्यन्तजीर्णदेहाया बन्ध्यायाश्च विशेषतः ।
रोगार्त्तायाः प्रसूताया न गोर्गोमयमाहरेत् ॥”
इति चिन्तामणिधृतस्मृतिवचनम् ॥
गां सर्व्वतीर्थमयीं परिकल्प्य एतस्या गोमयं
यमुनानदीतया परिकल्पयन्ति वृद्धाः । यदु-
क्तम्, --
“गोमयं यमुना साक्षात् गोमूत्रं नर्म्मदा शुभा ।
गङ्गा क्षीरन्तुयासां वै किं पवित्रमतःपरम् ॥” * ॥)
गवात्मके क्ली ॥

गोमयच्छत्रं, क्ली, (गोमयात् जातं छत्रं छत्रा-

कारं शिलीन्ध्रमित्यर्थः ।) करकम् । इति
त्रिकाण्डशेषः ॥ कोँडकछाता इति भाषा ॥

गोमयच्छत्रिका, स्त्री, (गोमये गोमयप्रचुरे स्थाने

जाता छत्रिका शिलीन्ध्रमित्यर्थः ।) गोमय-
च्छत्रम् । तत्पर्य्यायः । दिलीरम् २ शिलीन्ध्र
कम् ३ । इति हारावली ॥ उच्छिलीन्ध्रम् ४ ।
यथा, “उच्छिलीन्धमिवार्भकाः ॥” इति श्रीभाग-
वतम् ॥

गोमयप्रियं, क्ली, (गोमयं प्रियं उत्पत्तिकारण-

त्वेन यस्य ।) भूतृणम् । इति रत्नमाला ॥ गन्ध-
स्वड इति भाषा ॥

गोमयोत्था, स्त्री, (गोमयादुत्तिष्ठतीति । उत् +

स्था + “आतोऽनुपसर्गे कः ।” ३ । १ । ३ ।
इति कः । ततः स्त्रियां टाप् ।) गोमयजात-
कीटविशेषः । तत्पर्य्यायः । गर्द्दभी २ । इति
हेमचन्द्रः । ४ । २७४ ॥

गोमयोद्भवः, पुं, (उद्भवत्यस्मादिति उद्भवः गोमय

उद्भवः कारणं यस्य । यद्वा गोमयादुद्भव उत्-
पत्तिर्यस्य ।) आरग्बधः । इति शब्दचन्द्रिका ॥
शोनालु इति भाषा ॥

गोमांसं, क्ली, (गवां मांसम् ।) गवां पिशितम् ।

तद्भक्षणप्रायश्चित्तं यथा । “सुमन्तुः । गोमांस-
भक्षणे प्राजापत्यञ्चरेत् । इदमज्ञानतः सकृद्-
भक्षणविषयम् । यथाह पराशरः ।
अमम्यागमने चैव मद्यगोमांसभक्षणे ।
शुद्ध्यै चान्द्रायणं कुर्य्यान्नदीं गत्वा समुद्रगाम् ॥
चान्द्रायणे ततश्चीर्णे कुर्य्याद्ब्राह्मणभोजनम् ।
अनडुत्सहितां गाञ्च दद्याद्विप्राय दक्षिणाम् ॥
इदं ज्ञानतोऽभ्यासे । शङ्खः ।
गामश्वं कुञ्जरोष्टौ च सर्व्वं पञ्चनखं तथा ।
क्रव्यादं कुक्कुटं ग्राम्यं कुर्य्यात् संवत्सरं व्रतम् ॥
एतच्चिरकालाभ्यासे । संवत्सरकृच्छ्रव्रते पञ्च-
दशधेनवः । पुनरुपनयनञ्च । यथा, विष्णुः । विड्-
वराहग्रामकुक्कुटनरगोमांसभक्षणे सर्व्वेष्वेव
द्विजातीनां प्रायश्चित्तान्ते भूयः संस्कारं
कुर्य्यात् ।” इति प्रायश्चित्तविवेकः ॥ (अस्य
गुणा यथा, --
“गव्यं केवलवातेषु पीनसे विषमज्वरे ।
शुष्ककासश्रमात्यग्निमांसक्षयहितञ्च यत् ॥”
इति चरके सूत्रस्थाने २७ अध्याये ॥
“श्वासकासप्रतिश्यायविषमज्वरनाशनम् ।
श्रमात्यग्निहितं गव्यं पवित्रमनिलापहम् ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥
अन्यत् गोशब्दे ‘गौः इत्यत्र’ द्रष्टव्यम् ॥ * ॥
हठयोगमतेनास्य पारिभाषिकोऽर्थो यथा,
हठयोगप्रदीपिकायाम् । ३ । ४७ -- ४८ ।
“गोमांसं भक्षयेन्नित्यं पिबेदमरवारुणीम् ।
कुलीनं तमहं मन्ये इतरे कुलघातकाः ॥
गोशब्देनोच्यते जिह्वा तत्प्रवेशो हि तालुनि ।
गोमांसभक्षणं तत्तु महापातकनाशनम् ॥”)

गोमान्, [त्] त्रि, (बहवो गावोऽस्यास्मिन् वा

सन्तीति । “तदस्यास्तीति ।” ५ । २ । ९४ । मतुप् ।)
बहूनां गवां स्वामी । तत्पर्य्यायः । गवीश्वरः २
गोमी ३ । इत्यमरः । २ । ९ । ५८ ॥ (यथा,
अथर्व्ववेदे । ६ । ६८ । ३ ।
“येनावपत् सविता क्षुरेण
सोमस्य राज्ञो वरुणस्य विद्वान् ।
तेन ब्रह्मणो वपते दमस्य
गोमानश्ववानयमस्तु प्रजावान् ॥”)

गोमायुः, पुं, (गां विकृतां वाचं मिनोतीति ।

डुमि ञ + कृवापेत्युण् ।) शृगालः । इत्य-
मरः । २ । ५ । ५ ॥ (यथा, महाभारते । २ ।
९७ । २३ ।
“ततो राज्ञो धृतराष्ट्रस्य गेहे
गोमायुरुच्चैर्व्याहरदग्निहोत्रे ॥”
अस्य ध्वनौ शुभाशुभफलं शृगालशब्दे द्रष्ट-
व्यम् ॥) गन्धर्व्वविशेषः । इति जटाधरः ॥
गोपित्ते सान्तक्लीवोऽयम् ॥

गोमी, [न्] त्रि, (गौरस्त्यस्य । “ज्योत्स्ना-

तमिस्राशृङ्गिणोर्जस्विन्निति ।” ५ । २ । ११४ ।
इति मिनिः ।) गोमान् । इत्यमरः । २ । ९ । ५८ ॥
(यथा, मनुः । ९ । ५० ।
“यद्यन्यगोषु वृषभो वत्सानां जनयेच्छतम् ।
गोमिनामेव ते वत्सा नोद्यं स्कन्दितमार्षभम् ॥”
गौर्बीजमन्त्रवाक्यं अस्यास्तीति ।) उपासकः ।
इति मेदिनी । ने । ६० ॥

गोमी, [न्] पुं, (गौः कठोरध्वनिरस्त्यस्येति ।

“ज्योत्स्नातमिस्रेति ।” ५ । २ । ११४ । इति
मिनिः ।) शृगालः । इति मेदिनी । ने । ६० ॥
बुद्धभिक्षुशिष्यः । इति त्रिकाण्डशेषः ॥

गोमीनः, पुं, (गौरिव स्थूलो मीनः ।) मत्स्य-

विशेषः । यथा, मत्स्यसूक्ते ।
“शृणु देवि ! प्रवक्ष्यामि मांसभेदान् निबोध मे
न दद्यात् तिक्तकमठं पशुशृङ्गिणमेव च ॥
गोमीनं चक्रशकुलं वडालं राघवन्तथा ॥”

गोमुखं, क्ली, (गोर्मुखमिव मुस्वं प्रवेशद्बारमस्य ।)

कुटिलागारम् । (गोर्मुखमिव आकृतिरस्य ।)
वाद्यभाण्डम् । (एतदर्थे पुंलिङ्गोऽपि दृश्यते ।
यथा, गीतायाम् । १ । १३ ।
“ततः शङ्खाश्च भेर्य्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त सशब्दस्तुमुलोऽभवत् ॥”
तथा च महाभारते । ९ । ४६ । ५७ ।
“आडम्बरान् गोमुखांश्च डिण्डिमांश्च महा-
स्वनान् ॥”)
लेपनम् । इति मेदिनी । खे । ८ ॥ (यथा,
माषे । ३ । ४८ ।
“शुकाङ्गनीलोपलनिर्म्मितानां
लिप्तेषु भासा ग्रहदेहलीनाम् ।
यस्यामलिन्देषु न चक्रुरेव
मुग्धाङ्गना गोमयगोमुखानि ॥”)
चौरक्रियमाणसुरङ्गाभेदः । सिँधविशेष इति
भाषा ॥ इति त्रिकाण्डशेषः ॥ (आसनविशेषः ।
तल्लक्षणं यथा, हठयोगप्रदीपिकायाम् । १ । २० ।
“सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् ।
दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृति ॥”)
जपमालागोपनार्थं वस्त्रनिर्म्मितयन्त्रं यथा, --
“चतुर्व्विंशाङ्गुलमितं पट्टवस्त्रादिसम्भवम् ।
निर्म्मायाष्टाङ्गुलिमुखं ग्रीवां तत् षड्दशाङ्गुलम् ॥
ज्ञेयं गोमुखयन्त्रञ्च सर्व्वतन्त्रेषु गोपितम् ।
तन्मुखे स्थापयेन्मालां ग्रीवामध्यगतः करः ॥
प्रजपेद्विधिना गुह्यं वर्णमालाधिकं प्रिये ॥”
इति मुण्डमालातन्त्रम् ॥
अपि च मायातन्त्रे ।
“गोमुखादौ ततो मालां गोपयेन्मातृजारवत् ॥”

गोमुखः, पुं, (गोर्मुखमिव मुखं यस्य ।) नक्रः ।

यक्षविशेषः । इति हेमचन्द्रः । ४ । ४१५ ॥
(मातलिपुत्त्रः । यथा, महाभारते । ५ । १०० । ८ ।
“बहुशो मातले ! त्वञ्च तव पुत्त्रश्च गोमुखः ॥”
वत्सराजमन्त्रिपुत्त्रविशेषः । स पुनः वत्सराज-
सुतस्य मन्त्रिणामन्यतमः । यथा, कथासरित्-
सागरे । २३ । ५७ ।
“ततो नित्योदिताख्यस्य प्रतीहाराधिकारिणः ।
इत्यकापरसंज्ञस्य पुत्त्रोऽजायत गोमुखः ॥”)

गोमुखी, स्त्री, (गोर्मुखमिव आकृतिरस्याः ।

स्त्रियां ङीष् ।) हिमालयाद्गङ्गापतने गोमुखा-
कारगुहा । इति लोकप्रसिद्धिः ॥ राढदेशस्थ-
नदीविशेषः । गोमुड इति ख्याता ॥

गोमूत्रं, क्ली, (गोर्मूत्रम् ।) गोप्रस्रावः । चोना

इति भाषा ॥ तत्पर्य्यायः । गोजलम् २ गोऽम्भः ३
गोनिष्यन्दः ४ गोद्रवः ५ । (कृच्छ्रसान्तपने
गोमूत्रभक्षणविधिर्यथा, मनुः । ११ । २१२ ।
“गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ॥”)
अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् ।
पृष्ठ २/३६२
लघुत्वम् । कफवातत्वग्दोषनाशित्वम् । पित्त-
कारित्वम् । दीपनत्वम् । मेध्यत्वम् । मतिप्रद-
त्वञ्च । इति राजनिर्घण्टः ॥ तीक्ष्णत्वम् । क्षार-
त्वम् । कषायत्वम् । शूलगुल्मोदरानाहकण्ड्वक्षि-
मुखरोगकिलासवातामवस्तिरुक्कुष्ठकासश्वास-
शोथकामलापाण्ड्वतिसारमूत्ररोधकृमिशीत-
प्लीहवर्च्चोग्रहनाशित्वम् । पूरणात् कर्णशूल-
नाशित्वम् । सर्व्वमूत्रेषु गुणाधिकत्वञ्च । इति
भावप्रकाशः ॥
(“तीक्ष्णञ्चोष्णं क्षारमेवं कषायं)
मेध्यं तृष्णाश्लेष्महाप्यस्थिभृच्च ।
तन्माङ्गल्यं रक्तपित्तप्रभेदि
भ्रूशङ्खकण्ठाहनुरोगहृच्च ॥
कण्डूकिलासगदशूलमुखाक्षिरोगान्
गुल्मातिसार-मरुदामय-मूत्ररोधान् ।
काशं सकुष्ठजठरक्रिमिरोगजालं
गोमूत्रमेकमपि पीतमहो निहन्ति ॥”
इति प्रथमस्थाने नवमेऽध्याये हारीतेनोक्तम् ॥
“गोमूत्रं कटुतीक्ष्णोष्णं सक्षारत्वान्नवातलम् ।
लघ्वग्निदीपनं मेध्यं पित्तलं कफवातजित् ॥
शूलगुल्मोदरानाह विरेकास्थापनादिषु ।
मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत् ॥”
इति सुश्रुते सूत्रस्थाने पञ्चचत्वारिंशत्तमेऽध्याये ॥
गां सर्व्वतीर्थमयीं कल्पयिला एतस्या मूत्रं
नर्म्मदानदीत्वेन परिकल्पयन्ति वृद्धाः । यदुक्तम् ।
“गोमयं यमुना साक्षात् गोमूत्रं नर्म्मदा शुभा ।
गङ्गा क्षीरन्तु यासां वै किं पवित्रमतः परम् ॥”)

गोमूत्रिका, स्त्री, (गोमूत्रवत् वक्रसरलाकृतिरस्या

अस्तीति । गोमूत्र + “अत इनिठनौ ।” ५ । २ ।
११५ । इति ठन् टाप् च ।) तृणविशेषः । ताम्बुडु
इति भाषा ॥ तत्पर्य्यायः । रक्ततृणा २ क्षेत्रजा ३
कृष्णभूमिजा ४ । अस्या गुणाः । मधुरत्वम् । वृष्य-
त्वम् । गोदुग्ध दायित्वञ्च । इति राजनिर्घण्टः ॥
(गोमूत्रस्येव उच्चावचा गतिरस्या अस्तीति
ठन् ।) चित्रकाव्यविशेषः । यथा, --
“गतिरुच्चावचा यत्र मार्गे मूत्रस्य गोरिव ।
गोमूत्रिकेति तत् प्राहुर्दुष्करञ्चित्रवेदिनः ॥”
तस्या भेदाः । पादगोमूत्रिका । अर्द्धगोमूत्रिका ।
श्लोकगोमूत्रिका । विपरीतगोमूत्रिका । इति
सरस्वतीकण्ठाभरणम् ॥ (उदाहरणं यथा,
किरातार्ज्जुनीये । १५ । १२ ।
“नासुरोयं नवानागो धरसंस्थो हि राक्षसः ।
नासुखोयं नवाभोगो धरणिस्थो हि राजसः ॥”
“वर्णानामेकरूपत्वं यद्येकान्तरमर्द्धयोः ।
गोमूत्रिकेति तत् प्राहुर्द्ष्करं तद्विदो विदुः ॥
इति लक्षणात् ।
पोडशकोष्ठद्वये अर्द्धद्वयं क्रमेण विलिख्यैकान्तर-
विनियमेन वाचने श्लोकनिष्पत्तिरित्युद्धारः ॥”
इति तट्टीकायां मल्लिनाथः ॥)

गोमेदः, पुं, (गौर्जलमिव मेदयति स्नेहयतीति । मिद् +

पचाद्यच् ।) गोमेदकमणिः । इति राजनिर्घण्टः ॥
(ध तु नवरत्नान्तर्गतरत्न-विशेषः । यथा, --
“रत्नं गारुत्मतं पुष्पं रागो माणिक्यमेव च ।
इन्द्रनीलश्च गोमेदस्तथा वैदूर्य्यमित्यपि ॥
मौक्तिकं विद्रुमश्चेति रत्नान्युक्तानि वै नव ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
अस्य परीक्षागुणादिकञ्च गोमेदकशब्दे द्रष्ट-
व्यम् ॥ कक्वोलः । इति हारावली । २६१ ॥ द्बीप-
विशेषः । तन्नामनिरुक्तिर्यथा, --
“गोमेदे गोपतिर्नाम राजाभूद्गोसवोद्यतः ।
याज्योऽभूद्वह्निकल्पानामौतथ्यानां मनोः कुले ॥
स तेषु हरियज्ञाय प्रवृत्तेषु भृगून् गुरून् ।
वव्रे तं गौतमः कोपादशपत् सोऽगमत् क्षयम् ॥
यज्ञवाटेऽस्य ता गावो दग्धाः कोपाग्निना मुनेः ।
तन्मेदसा मही छन्ना गोमेदः स ततोऽभवत् ॥”
इति चिन्तामणिधृतवचनानि ॥
प्लक्षद्वीपस्थवर्षाचलभेदः । यथा, विष्णुपुराणे ।
२ । ४ । ६--७ ।
“मर्य्यादाकारकास्तेषां तथान्ये वर्षपर्व्वताः ।
सप्तैव तेषां नामानि शृणुष्व मुनिसत्तमाः ॥
गोमेदश्चैव चन्द्रश्च नारदो दुन्दुभिस्तथा ।
सोमकः सुमनाश्चैव वैभ्राजश्चैव सप्तमः ॥”)

गोमेदकं, क्ली, (गोमेद + स्वार्थे कन् ।) पीतमणिः ।

काकोलम् । पत्रकम् इति मेदिनी । के ।
१८६ ॥

गोमेदकः, पुं, (गोमेद + स्वार्थे कन् ।) स्वनाम-

ख्यातमणिः । तत्पर्य्यायः । गोमेदः २ राहु-
रत्नम् ३ तमोमणिः ४ स्वर्भानवः ५ पिङ्ग-
स्फटिकः ६ । अस्य गुणाः । अम्लत्वम् । उष्ण-
त्वम् । वातकोपविकारनाशित्वम् । दीपनत्वम् ।
पाचनत्वम् । धारणे पापनाशित्वञ्च । इति
राजनिर्घण्टः ॥ तस्य परीक्षा यथा, --
“हिमालये वा सिन्धौ वा गोमेदमणिसम्भवः ।
स्वच्छकान्तिर्गुरुः स्निग्धो वर्णाढ्यो दीप्तिमानपि ॥
बलक्षः पिञ्जरो धन्यो गोमेद इति कीर्त्तितः ।
चतुर्द्धा जातिभेदस्तु गोमेदेऽपि प्रकाश्यते ॥
ब्राह्मणः शुक्लवर्णः स्यात् क्षत्त्रियो रक्त उच्यते ।
आपीतो वैश्यजातिस्तु शूद्रास्तु नील उच्यते ॥
छाया चतुर्विधा श्वेता रक्ता पीतासिता तथा ॥
गुरुप्रभाढ्यः सितवर्णरूपः
स्नग्धो मृदुर्व्वातिमहापुराणः ।
स्वच्छस्तु गोमेदमणिर्धृतोऽयं
करोति लक्ष्मीं धनधान्यवृद्धिम् ॥
लधुर्विरूपोऽतिखरोऽन्यमानः
स्नेहोपलिप्तो मलिनः खरोऽपि ।
करोति गोमेदमणिर्विनाशं
सम्पत्तिभोगाबलबीर्य्यराशेः ॥
ये दोषा हीरके ज्ञेयास्ते गोमेदमणावपि ।
परीक्षा वह्नितः कार्य्या शाने वा रत्नकोविदैः ॥
स्फटिकेनैव कुर्व्वन्ति गोमेदप्रतिरूपिणम् ॥
शुद्धस्य गोमेदमणेस्तु मूल्यं
सुवर्णतो द्वैगुणमाहुरेके ।
अन्ये तथा विद्रुमतुल्यमूल्यं
तथापरे चामरतुल्यमाहुः ॥
चतुर्व्विधानामेषान्तु धारणं परिसम्मतम् ॥”
इति भोजराजकृतयुक्तिकल्पतरुः ॥
(कतक-गोमेदक-विषपन्थि-शैबालमूल-वस्त्राणि
मुक्तामणिश्चेति ।” इति सुश्रुते सूत्रस्थाने ४५
अध्याये ॥)

गोमेदसन्निभः, पुं, (गोमेदस्य संन्निभस्तुल्यः ।)

दुग्धपाषाणः । इति राजनिर्घण्टः ॥

गोमेधः, पुं, (मेधहिंसायम् + भावे घञ् । गवां मेधो

हिंसा यत्र ।) यज्ञविशेषः । तत्र स्त्रीगोपशुः
मन्त्रेषु स्त्रीलिङ्गपाठात् । तस्य लक्षणं सप्त-
शफत्वनवशफत्वभग्नशृङ्गत्वकाणत्वछिन्नकर्णत्वादि-
दोषराहित्यम् । तस्य प्रयोगः सर्व्वोऽपि छाग-
पशुवत् । यजमानस्य स्वर्गः फलं गोश्च गोलोक-
प्राप्तिः । तस्य च कलौ निषेधो यथा, --
“अश्वालम्भो गवालम्भः सन्न्यासः पलपैतृकम् ।
देवराच्च सुतोत्पत्तिः कलौ पञ्च विवर्जयेत् ॥”
इत्यापस्तम्बादिकल्पसूत्रपुराणम् ॥

गोरक्षः, पुं, (गां रक्षतीति । रक्ष + “कर्म्मण्यण् ।”

३ । २ । १ । इत्यण् ।) ऋषभनामौषधम् । इति
हेमचन्द्रः ॥ नागरङ्गः । गोरक्षके त्रि । इति
मेदिनी । षे । ३६ ॥ (यथा, मनुः । ८ । १०२ ।
(गोरक्षकान् बाणिजिकांस्तथा कारुकुशी-
लवान् ॥” स्वनामख्यातो योगिविशेषः । अयं
हठविद्यया प्राप्तैश्वर्य्यः सिद्धपुरुषः । यथा हठ-
योगप्रदीपिकायाम् । १ । ५ ।
“श्री-आदिनाथमत्स्येन्द्रशावरानन्दभैरवाः ।
चौरङ्गीमीनगोरक्षविरूपाक्षविलेशयाः ॥”
एतद्पदिष्टयोगप्रकरणानि गोरक्षसंहितायां
वर्त्तन्ते । तत्र आसनप्राणसंरोधप्रत्याहारधारणा-
ध्यानसमाधयः षट् योगाङ्गानि उक्तान्येवेति ॥
शिवोपासकानां ‘कण् फट्’ इत्याख्ययोगिनां
गुरुर्गोरक्षनाथ एव धर्म्मप्रयोजकः । अमीशैव-
योगिनः एनं शिवावतारं गुरुं मन्यमानास्तत्-
प्रवर्त्तितहठयोगमभ्यस्यन्ति । गोरक्षश्चासौ
आदिनाथस्य पौत्त्रो महेन्द्रनाथस्य पुत्त्र आसी-
दिति तद्देशीयैर्गाथायां भ्रण्यते ॥)

गोरक्षकर्कटी, स्त्री, (गोरक्षा गोरक्षाकर्त्त्री

कर्कटी ।) चिर्भिटा । इति भावप्रकाशः ॥

गोरक्षजम्बूः, स्त्री, (गोरक्षा जम्बूः ।) गोधूमः ।

गोरक्षतण्डुला । इति विश्वः ॥ घोण्टाफलः ।
इति जटाधरः ॥

गोरक्षतण्डुला, स्त्री, (गोरक्षा तण्डुला ।) क्षुद्र-

लताविशेषः । गोरक्षचाउलिया इति भाषा ।
तत्पर्य्यायः । गाङ्गेरुकी २ नागबला ३ झसा ४
ह्रस्वगवेधुका ५ खरवल्लरिका ६ विश्वदेवा ७ ।
इति रत्नमाला ॥

गोरक्षतुम्बी, स्त्री, (गां जलं रक्षत्यस्मिन्निति

अप् । गोरक्षः कुम्भः । तद्वत् कुम्भाकारा तुम्बी ।
गोरक्षेति नामिका तुम्बी वा ।) कुम्भतुम्बी ।
इति राजनिर्घण्टः ॥

गोरक्षदुग्धा, स्त्री, (गोरक्षं गोपालकं दुग्धं रसो

यस्याः ।) क्षुद्रक्षुपविशेषः । तत्पर्य्यायः ।
पृष्ठ २/३६३
गोरक्षी २ ताम्रदुग्धा ३ रसायनी ४ बहुपत्री ५
अमृता ६ जीव्या ७ अमृतसञ्जीवनी ८ ।
अस्या गुणाः । मधुरत्वम् । वृष्यत्वम् । संग्राहि-
त्वम् । हिमत्वम् । सर्व्ववश्यकारित्वम् । रस-
सिद्धिगुणप्रदत्वञ्च । इति राजनिर्घण्टः ॥

गोरक्षी, स्त्री, (गां रक्षति पालयति इति । “कर्म्म-

ण्यण् ।” ३ । २ । १ । इति अण् । ततो ङीप् ।)
क्षुद्रक्षुपविशेषः । सा तु मालवे प्रसिद्धा । तत्-
पर्य्यायः । सर्पदण्डी २ दीर्घदण्डी ३ सुदण्डिका ४
चित्रला ५ गन्धबहुला ६ गोपाली ७ पञ्च-
पर्णिका ८ । अस्या गुणाः । मधुरत्वम् । तिक्त-
त्वम् । शिशिरत्वम् । दाहपित्तविस्फोटवान्त्यती-
सारज्वरदोषनाशित्वञ्च । गोरक्षदुग्धा । कुम्भ-
तुम्बी । इति राजनिर्घण्टः ॥

गोरङ्कुः, पुं, (गवा वाचा रङ्कुर्मृगविशेष इव ।)

पक्षिभेदः । लग्नकः । वन्दी । इति मेदिनी ।
के । ८५ ॥ क्वचित् पुस्तके लग्नकस्थाने नग्नकोऽपि
पाठः ॥

गोरटः, पुं, (गवि इन्द्रिये रटतीति । रट् + अच् ।)

दुरखदिरः । इति राजनिर्घण्टः ॥

गोरणं, क्ली, (गुर् + भावे ल्युट् ।) गुरणम् ।

(गुर्य्यते गम्यते फलमनेनेति । गुर + करणेल्युट् ।)
उद्यमः । इत्यमरटीका ॥

गोरसः, पुं, (गवां रसः ।) दुग्धम् । दधि । तक्रम् ।

इति हेमचन्द्रः । ३ । ७२ ॥ (यथा, गोः रामा-
यणे । ३ । २२ । ७ ।
“प्राप्तकामा जनपदाः सम्पन्नयवगोरसाः ।
विचरन्ति महीपाला यात्रार्थं विजिगीषवः ॥”
“विषदा गुरवो रूक्षा ग्राहिणस्तक्रपिण्डकाः ।
गोरसानामयं वर्गो नवमः परिकीर्त्तितः ॥”
इति चरके सूत्रस्थाने २७ अध्याये ॥)

गोरसजं, क्ली, (गोरसात् जायते इति । गोरस + जन्

+ “अन्येष्वपि दृश्यते ।” ३ । २ । १०१ । इति
डः ।) तक्रम् । इति राजनिर्घण्टः ॥

गोराटी, स्त्री, (गां मनुष्यवद्वाचं रटतीति ।

रट् + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।
ततो ङीप् ।) शारिकापक्षी । इति हेम-
चन्द्रः । ४ । ४०२ ॥

गोराण्टिका, स्त्री, (गोराटी + स्वार्थे कन् । टाप्

पूर्ब्बह्रस्वश्च । ततो निपातनात् साधुः । गोरा-
टिका इत्यपि दृश्यते ।) शारिकापक्षी । इति
राजनिर्घण्टः ॥

गोरिका, स्त्री, (गोराटिका + पृषोदरात् साधुः ।)

शारिकापक्षी । इति राजनिर्घण्टः ॥

गोरुतं, क्ली, (गो रुतं रवः श्रूयते यावता पथेति

शेषः । गोशब्दः श्रुतिगोचरत्वेन अस्त्यस्य इत्यच्
इत्येके वस्तुतस्तु पारिभाषिकोऽयं शब्दः ।)
क्रोशद्वयम् । इति हेमचन्द्रः । ३ । ५५१ ॥
(गवां रुतं रवः इति तत्पुरुषसमासे तु गवां
शब्दमात्रे । तत्तु कालादिभेदेन स्वामिनर-
पतिप्रभृतीनां शुभाशुभकरं स्यात् । यथा,
बृंहत्संहितायाम् । ९२ । १--३ ।
“गावो दीनाः पार्थिवस्याशिवाय
पादैर्भूमिं कुट्टयन्त्यश्च रोगान् ।
मृत्युं कुर्व्वन्त्यश्रुपूर्णायताक्ष्यः
पत्युर्भीतास्तस्करानारुवन्त्यः ॥
अकारणे क्रोशति चेदनर्थो
भयाय रात्रौ वृषभः शिवाय ।
भृशं निरुद्धा यदि मक्षिकाभि-
स्तदाशु वृष्टिं सरमात्मजैर्वा ॥
आगच्छन्त्यो वेश्म बम्भारवेण
संसेवन्त्यो गोष्ठवृद्धै गवां गाः ।
आर्द्राङ्ग्यो वा हृष्टरोम्ण्यः प्रहृष्टा
धन्या गावः स्युर्महिष्योऽपि चैवम् ॥”)

गोरोचं, क्ली, (गोभिः तेजोभिरुच्यते दीप्यते इति ।

रुच् + अप् । गा इन्द्रियाणि इन्द्रियोपलक्षि-
तानि शरीरादीनि रोचयति दीपयति औष-
धादियोगेनेत्यर्थः । रुच् + णिच् + अच् ।) हरि-
तालम् । इति राजनिर्घण्टः ॥

गोरोचना, स्त्री, (गोर्जाता रोचना हरिद्रा इव ।)

स्वनामख्यातपीतवर्णद्रव्यम् । तत्तु गोमस्तकस्थ-
शुष्कपित्तम् । यथा, माधवकरे ।
विशोषयेद्वस्तिगतं सशुक्रं
मूत्रं सपित्तं पवनः कफं वा ।
यदा तदाश्मर्य्युपजायते च
क्रमेण पित्तेष्विव रोचना गोः ॥”
तत्पर्य्यायः । रुचिः २ शोभा ३ रुचिरा ४
शोभना ५ शुभा ६ गौरी ७ रोचनी ८ पिङ्गा ९
मङ्गल्या १० मङ्गला ११ शिवा १२ पीता १३
गौतमी १४ गव्या १५ चन्दनीया १६ काञ्चनी १७
मेध्या १८ मनोरमा १९ श्यामा २० रामा २१ ।
इति राजनिर्घण्टः ॥ बन्द्या २२ रोचना २३ ।
अस्या गुणाः । हिमत्वम् । तिक्तत्वम् । वश्य-
मङ्गलकान्तिकारित्वम् । विषालक्ष्मीग्रहोन्माद-
गर्भस्रावक्षतास्रनाशित्वञ्च । इति भावप्रकाशः ॥
रुच्यत्वम् । पवित्रताशृङ्गारहितकारित्वम् ।
कृमिकुष्ठनाशित्वम् । भूतोपशमनत्वम् । जन-
मोहनत्वञ्च । इति राजनिर्घण्टः ॥ (यथा
कुमारे । ७ । १५ ।
“विन्यस्तशुक्लागुरुचक्रुरङ्गं
गोरोचनापत्त्रविभक्तमस्याः ।”
“क्रमेण पित्तेष्विव रोचना गोः ।”
इति माधवकृतरुग्विनिश्चयस्याश्मर्य्यधिकारे ॥)

गोर्द्दं, क्ली, (गुर् + “अब्दादयश्च ।” उणां । ४ । ९८ ।

इति ददन्प्रत्ययेन निपातनात् साधुः ।) मस्ति-
ष्कम् । मस्तकस्थघृतम् । इत्यमरः । २ । ६ । ६५ ॥
(मस्तिष्कशब्देऽस्य विवरणं ज्ञातव्यम् ॥)

गोलं, क्ली, (गुड + भावे घञ् डस्य लत्वं च ।)

मण्डलम् । इति मेदिनी । ले । २५ ॥ (यथा,
भागवते । ३ । २३ । ४३ ।
“प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान् स्वसंस्थया ॥”)

गोलः, पुं, (गुड + भावे घञ् अजित्येके । डस्य

लत्वम् ।) सर्व्ववर्त्तुलः । इति हेमचन्द्रः ॥ मदन-
वृक्षः । इति रत्नमाला ॥ जारात् विधवायाः
सुतः । इति धरणी ॥ (यथा, याज्ञवल्क्यः ।
१ । २२२ ।
“अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥”)
बोलः । इति जटाधरः ॥ भूगोलः खगोलश्च ।
(यथा, भागवते । ५ । २० । ४३ ।
“सूर्य्यास्तगोलयोर्मध्ये कोट्यः स्युः पञ्च
विंशतिः ॥”)
यथा, शिद्धान्तशिरोमणौ ।
“गोलं श्रोतुं यदि तव मतिर्भास्करीयं शृणु त्वम् ॥”
एकराशौ षड्ग्रहयोगः । यथा, प्रश्नकौमुद्याम् ।
“ग्रहाणामेकस्मिन् यदि भवति षण्णां निवसति-
स्तदा गोलो योगः प्रलयपदमिन्द्रोऽपि लभते ।
भवेल्लोको रक्षः परिहरति पुत्त्रञ्च जननी नृपाणां
नाशः स्यात् ज्वलति वसुधा शुष्यति नदी ॥”
एकराशौ सप्तग्रहयोगश्च । यथा, मयूरचित्रके ।
“सप्तग्रहा यदैकस्था गोलयोगस्तदा भवेत् ।
दुर्भिक्ष्यं राष्ट्रपीडा च तस्मिन् काले नृपक्षयः ॥”
अपि च ।
“एकादिगृहोपेतैरुक्तान् योगान् विहाय संख्याख्याः ।
गोलयुक्शूलकेदारपाशदामाख्यवीनाः स्युः ॥
दुःखितदरिद्रघातुककृषिकरदुःशीलपशुप-
निपुणानाम् ॥
जन्मक्रमेण दुःखिनः परभाग्यैः सर्व्व एवैते ॥”
इति दीपिका ॥

गोलकं, क्ली, (गुड + घञ् । स्वार्थे कन् च । ण्वुल्

इत्येके ।) गोलोकम् । यथा, तन्त्रे ।
“यद्रूपं गोलकं धाम तद्रूपं नास्ति मामके ॥”

गोलकः, पुं, (गुड + घञ् । ततः स्वार्थे कन् । डस्य

लत्वं च । ण्वुल् इत्येके ।) मृते भर्त्तरि जारजः ।
इत्यमरः ॥ राँडेर छेले इति भाषा ॥ (यथा,
मनुः । ३ । १५६ ।
“शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ ॥”)
अलिञ्जरः । गुडः । पिण्डः । इति हेमचन्द्रः ॥
गन्धरसः । इति रत्नमाला ॥ कलायः । इति
शब्दचन्द्रिका ॥ मटर इति ख्यातः ॥

गोला, स्त्री, (गां पृथ्वीं सर्व्वं जगदित्यर्थः स्वशक्ति-

व्यापकतया लाति प्रलयकाले स्वंस्मिन् लाति
गृह्णाति इति वा ।) दुर्गा । (गां बहुयोजनपथं
जलरूपशरीरव्यापकतया लाति ।) गोदावरी ।
(गां वाचं लाति । ला + क्विप् ।) सखी ।
कुनटी । पत्राञ्जनम् । मण्डलम् । अलिञ्जरः ।
बालक्रीडनकाष्ठम् । इति मेदिनी । ले । २५ ॥

गोलाङ्गूलः, पुं, (गोर्लाङ्गूलवल्लाङ्गूलमस्य ।)

वानरः । (यथा, रामायणे । ६ । १०५ । ८ ।
“निरुजो निर्व्रणांश्चैव सम्पन्नबलपौरुषान् ।
गोलाङ्गूलां स्तथैवर्क्षान् द्रष्टुमिच्छामि मानद ! ॥”
तत्पर्य्यायः । कपित्थास्यः २ दधिशोणः ३
नगाटनः ४ । इति त्रिकाण्डशेषः ॥ कृष्णवानरः ।
इति राजनिर्घण्टः ॥

गोलासः, पुं, (गां पृथ्वीं भूमिमित्यर्थः लासयति

उल्लासयति विभूषयति इति यावत् ।) गोमय-
च्छत्रिका । शिलीन्ध्रम् । इति हारावली । २५ ॥
पृष्ठ २/३६४

गोलिहः, पुं, (गाः लेढीव इति । लिह + कः । गोभि-

र्लिह्यते इति घञर्थे क इति केचित् ।) घण्टा
पाटलिः । इति जटाधरः ॥

गोलीढः, पुं, (गोभिर्लिह्यते स्म इति क्तः ।)

घण्टापाटलिः । इत्यमरः । २ । ४ । ३९ ॥

गोलोकं, क्ली, (गौर्ज्योतीरूपं ज्योतिर्मयः पुरुष

इत्यर्थस्तस्य लोकः स्थानम् । अभिधानात् क्लीव-
त्वम् । यद्वा गोभिः किरणैः ब्राह्मज्ञान-
तेजोभिरित्यर्थः लोक्यते इति । लुक् + घञ् ।)
श्रीकृष्णस्य स्थानम् । यथा, तन्त्रे ।
“वैकुण्ठस्य दक्षभागे गोलोकं सर्व्वमोहनम् ।
तत्रैव राधिका देवी द्विभुजो मुरलीधरः ॥
यदूपं गोलकं धाम तद्रूपं नास्ति मामके ।
ज्ञाने वा चक्षुषोः किं वा ध्यानयोगे न विद्यते ॥
शुद्धतत्त्वमयं देवि ! नानादेवेन शोभितम् ।
मध्यदेशे गोलोकाख्यं श्रीविष्णोर्लोभमन्दिरम् ॥
श्रीविष्णोः सत्त्वरूपस्य यत् स्थलं चित्तमोहनम् ।
तस्य स्थानस्य माहात्म्यं किं मया कथ्यतेऽधुना ॥
तत्रैष सततं भाति द्बिभुजो मुरलीधरः ।
तदा सत्त्वमयो विष्णुर्भुवनं पाति निश्चितम् ॥
दैष्णवस्य महामोक्षो यत्रैव परमेश्वरि ! ।
इति स्थानस्य माहात्म्यं संक्षेपेण मयोदितम् ॥
विस्तारेण न शक्नोमि जन्मान्तरशतेन च ।
बीजकोषस्य वाह्ये तु वेष्टितं तोयमण्डलम् ॥
प्रमाणं सुन्दरं तोयं यथा क्षीरोदसागरम् ।
धूम्रस्य ज्योतिषाकारं कोटिचन्द्रसमप्रभम् ॥
बलयाकाररूपेण सुशुभ्रं तोयमण्डलम् ।
गङ्गादिसरितः सर्व्वास्तथैव भान्ति सुन्दरि ! ॥
इन्द्रादिदेवताः सर्व्वा स्तूयमाना निरन्तरम् ।
गन्धर्व्वयक्षनागादिकुष्माण्डा भैरवास्तथा ॥
नानासुखविलासेन सदा चैकाग्रचेतसः ।
विष्णुगानं प्रकुर्व्वन्ति स्तुतिभक्तिपरायणाः ॥
देवा गानं प्रकुर्व्वन्ति चतुर्ब्बक्त्रेण वेधसा ।
मालवाद्याश्च षड्रागा षट्त्रिंशद्रागिणी तथा ॥
वेदगानेन भासन्तो मूर्त्तिमन्तः सदैव हि ।
मालवेनैव रागेण सामगानं सदा प्रिये ॥
मल्लारेण सदाथर्व्वं वसन्तेन तथा पुनः ॥
हिन्दोलेन यजुःपाठं सदा कुर्व्वन्ति चेतसा ॥
कर्णाटेनैव ऋग्वेदं श्रीरागेण तथा शिवे ।
निर्द्दिष्टपाठमेतत्तु ह्यनिर्द्दिष्टमतः परम् ॥
तत्रैव सन्ति ते रागाः सहस्राणि च षोडश ।
सरारेर्मुररीगानात् स्रर्व्वस्तालः प्रजायते ॥
तैन तालेन रागेण सदा गायन्ति वेधसः ।
तद्वागस्य विभागं हि कुर्व्वन्ति मुनयो जनाः ॥
वसन्ताद्याश्च ऋग्रपस्तिष्ठन्ति तत्र सन्ततम् ।
नानाऋतुप्रसूतेन भूषितं मुररीधरम् ॥
तत्रैव राधिका देवी नानामुखविलासिनी ।
वदन्ती मुररीगानं कुरु कान्त ! प्रमोहनम् ॥
यन शब्देन कामस्य उत्पत्तिर्जायते सदा ।
तद्वगश्चैव तचालं कुरु गानं प्रयत्नतः ॥
एवमानन्दसंयुक्ता महावेशविलासिनी ।
वामभागे सदा भाति राधिका भक्तवत्सला ॥”
(एतस्य धाम्नो नित्यादिकमाहात्म्यं लक्षणादि-
कञ्च ब्रह्मवैवर्त्तपुराणे ब्रह्मखण्डे २८ अध्याये
विस्तरशो विवृतं यथा, --
“नित्यं स्थूलञ्च प्रच्छन्नं गोलोकाभिधमेव च ।
लक्षकोटियोजनञ्च चतुरस्रं मनोहरम् ॥
रत्नेन्द्रसारनिर्म्माणैर्गोपीनामावृतं सदा ।
सुदृश्यं वर्त्तुलाकारं यथैव चन्द्रमण्डलम् ॥
रत्नेन्द्रसारनिर्म्माणं निराधारञ्च स्वेच्छया ।
ऊर्द्ध्वञ्च नित्यं वैकुण्ठात् पञ्चाशत्कोटियोजनम् ॥
गोगोपगोपीसंयुक्तं कल्पवृक्षसमन्वितम् ।
कामधेनुभिराकीर्णं रासमण्डलमण्डितम् ॥
वृन्दावनवनाच्छन्नं विरजावेष्टितं मुने ! ।
शतशृङ्गं शतशृङ्गैः सुदीप्तं दीप्तमीप्सितम् ॥
लक्षकोटिपरिमितै राश्रमैः सुमनोहरैः ।
शतमन्दिरसंयुक्तमाश्रमं सुमनोहरम् ॥
प्राकारपरिखायुक्तं पारिजातवनान्वितम् ।
कौस्तुभेन्द्रेण मणिना निर्म्माणकलसोज्ज्वलैः ॥
हीरासारविनिर्म्माणसोपानसंघसुन्दरैः ।
मणीन्द्रसारनिर्म्माणैः कपाटदर्पणान्वितैः ॥
नानाचित्रविचित्राढ्यैराश्रमञ्च सुसंस्कृतम् ।
षोडशद्वारसंयुक्तं सुदीप्तं रत्नदीपकैः ॥
रत्नसिंहासने रम्ये चामूल्यरत्ननिर्म्मिते ।
नानाचित्रविचित्राढ्ये वसन्तमीश्वरं वरम् ॥”)

गोलोकः, पुं, (लोक्यतेऽसौ इति लोकः गोभि-

स्तेजोभिरुपलक्षितो लोकः । ब्रह्मस्वरूपज्योति-
र्म्मयलोक इत्यर्थः ।) श्रीकृष्णस्य नित्यधाम ।
यथा, ब्रह्यवैवर्त्तपुराणे ॥
“निराधारश्च वैकुण्ठो ब्रह्माण्डानां परो वरः ।
तत्परश्चापि गोलोकः पञ्चाशत्कोटियोजनात् ॥
ऊर्द्ध्वे निराश्रयश्चापि रत्नसारविनिर्म्मितः ।
सप्तद्वारः सप्तसारः परिखासप्तसंयुतः ॥
लक्षप्राकारयुक्तश्च नद्या विरजया युतः ।
वेष्टितो रत्नशैलेन शतशृङ्गेण चारुणा ॥
योजनायुतमानञ्च यस्यैकं शृङ्गमुज्ज्वलम् ।
शतकोटीयोजनश्च शैल उच्छ्रित एव च ॥
दैर्ध्यं तस्य शतगुणं प्रस्थे च लक्षयोजनम् ।
योजनायुतविस्तीर्णस्तत्रैव रासमण्डलः ॥
अमूल्यरत्ननिर्म्माणो वर्त्तुलश्चन्द्रविम्बवत् ।
पारिजातवनेनैव पुष्पितेन च वेष्टितः ॥
कल्पवृक्षसहस्रेण पुष्पोद्यानशतेन च ।
नानाविधैः पुष्पवृक्षैः पुष्पितेन च चारुणा ॥
त्रिकोटिरत्नाभरणैर्गोपीलक्षैश्च रक्षितः ।
रत्नप्रदीपयुक्तश्च रत्नतल्पसमान्वेतः ॥
नानाभोगसमायुक्तो मधुवापीशतैर्वृतः ।
पीयूषवापीयुक्तश्च कामर्भोगसमन्वितः ॥
गोलोकगृहसंख्यानं वर्णनं वा विशारदः ।
न कोऽपि वेद विद्वान् वा वेद विद्बान् व्रजेश्वरः ॥”

गोलोमिका, स्त्री, (गवां लोमेव लोमानः सन्त्यस्याः

इति ठन् टाप् च । यद्बा गोलोमी स्वार्थे के
पूर्ब्बह्रस्वः । इत्येके ।) क्षुद्रक्षुपविशेषः । गोधूमा
इति पाथरी इति च भाषा । तत्पर्य्यायः ।
गोधूमी २ गोजा ३ क्रोष्टुकपुच्छिका ४ गोसम्भवा ५
प्रस्तरिणी ६ । अस्या गुणाः । कटुत्वम् । तिक्त-
त्वम् । त्रिदोषशमनत्वम् । हिमत्वम् । शूल-
रोगास्रदोषनाशित्वम् । ग्राहित्वम् । दीपनत्वञ्च ।
इति राजनिर्घण्टः ॥

गोलोमी, स्त्री, (गोर्लोमवत् लोमाकारं पत्त्र-

मस्याः ।) श्वेतदूर्व्वा । (व्यवहारो यथा, --
“पुराणसर्पिर्लशुनं हिङ्गु-सिद्धार्थकं वचा ।
गोलोमी चाजलोमी च भूतकेशी जटा तथा ॥”
इत्यादिषु इति सुश्रुते उत्तरतन्त्रे षष्टितमेऽध्याये ॥)
वचा । भूतकेशः । इति मेदिनी ॥ (व्यवहारोऽस्य
यथा, संज्ञास्थापनगणे ।
“हिङ्गुकैटर्य्यारिमेदा-वचा-चोरक-वयःस्था गो-
लोमी-जटिला-पलङ्कषाशोकरोहिण्य इति दशे-
मानि संज्ञास्थापनानि भवन्ति ॥” इति चरके
सूत्रस्थाने चतुर्थेऽध्याये ॥) वेश्या । इति हेम-
चन्द्रः ॥ गोलोमिका । इति राजनिर्घण्टः ॥

गोवत्सादी, [न्] पुं, (गोवत्सं अत्ति भक्षयति ।

अद् + णिनिः ।) वृकः । इति राजनिर्घण्टः ॥

गोवधः, पुं, (गोर्वधो हननम् ।) गोहत्या । स च

उपपातकविशेषः । यथा, मनुः ११ अः ।
“गोवधोऽयाज्यसंयाज्यपारदार्य्यात्मविक्रयाः ॥”
तत्प्रायश्चित्तं प्रायश्चित्तशब्दे द्रष्टव्यम् ॥

गोवन्दनी, स्त्री, (गवि पृथिव्यां वन्द्यते प्रशस्यते

इति कर्म्मणि ल्युद् ततो ङीप् ।) प्रियङ्गुवृक्षः ।
इत्यमरः ॥ पीतदण्डोत्पलः । इति रत्नमाला ॥
(प्रियङ्ग पीतदण्डोत्पलयोरस्या विशेषो ज्ञातव्यः ॥)

गोवरं, क्ली, (गोभ्यो निःसृतत्वाद् वरं श्रेष्ठं

माननीयमित्यर्थः । गोषु व्रियते । वृ + बाहु-
लकात् अः इत्येके ।) गोखुरक्षुण्णगोष्ठस्थशुष्क-
गोमयचूर्णम् । यथा, --
“गोष्ठान्तर्गोखुरक्षुण्णं शुष्कं गोमयचूर्णितम् ।
गोवरं तत् समाख्यातं वरिष्ठं रससाधने ॥”
इति भावप्रकाशः ॥

गोवर्द्धनः, पुं, (गाः वर्द्धयति कोमलतृणपत्रादि-

दानेन इति । वृध् + णिच् + ल्युः । यद्वा गावो
बर्द्ध्यन्तेऽत्र इति । णिच् + ल्युट् अधिकरणे ।
पर्व्वतबोधकत्वात् पुंस्त्वम् । यद्वा गां पृथ्वीं
भूमिं वा वर्द्धयति । वृध् + णिच् कर्त्तरि ल्युः ।
स्वनामख्यातश्रीवृन्दावनस्थपर्व्वतः । इति जटा-
धरः ॥ तस्य स्वरूपं यथा, --
“अनादिर्हरिदासोऽयं भूधरो नात्र संशयः ।”
इति पाद्मे पातालखण्डे व्यासं प्रति श्रीकृष्ण-
वाक्यम् ॥ तस्य पूजाकालादिर्यथा, --
“प्रातर्गोबर्द्धनं पूज्य द्यूतञ्चैव समाचरेत् ।
भूषणीयास्तथा गावः पूज्याश्च दोहवाहनाः ॥
श्रीकृष्णदासवर्य्योऽयं श्रीगोवर्द्धनभूधरः ।
शुक्लप्रतिपदि प्रातः कार्त्तिकेऽर्च्च्योऽत्र वैष्णवैः ॥”
“प्रातर्गोवर्द्धनं पूज्य रात्रौ जागरणं चरेत् ।”
इति क्वचित् पाठः ।
तस्मात्तदिदं कर्म्म गोवर्द्धनप्राधान्येन गोप्रा-
धान्येन च ख्यातमप्येकमेव ज्ञेयम् । तत्र दिन-
निर्णयः । तदाह देबलः ।
पृष्ठ २/३६५
“प्रतिपद्दर्शसंयोगे क्रीडनन्तु गवां मतम् ।
परविद्धान्तु यः कुर्य्यात् पुत्त्रदारधनक्षयः ॥”
निर्णयामृतधृतं पुराणान्तरवचनम् ।
“या कुहूः प्रतिपन्मिश्रा तत्र गाः पूजयेन्नृप ! ।
पूजामात्रेण वर्द्धन्ते प्रजा गावो महीपतेः ॥”
ततः प्रातर्गोवर्द्धनं पूज्येति पूर्ब्बाह्णतात्पर्य्यकम् ।
द्वितीयासमये तु सर्व्वथा निषिद्धम् । तद्-
यथा, --
“नन्दायां दर्शने रक्षा बलिदानदशासु च ।
भद्रायां गोकुलक्रीडा देशनाशाय जायते ॥”
पुराणसमुच्चये तु सन्भावितचन्द्रोदयद्वितीया-
संयोग एव निषिध्यते ।
“गवां क्रीडादिने यत्र रात्रौ दृश्यते चन्द्रमाः ।
सोमो राजा पशून् हन्ति सुरभी पूजकांस्तथा ॥”
तदुदयसम्भावनञ्च निर्णयामृते निर्णीतम् । प्रति-
पद्यापराह्णिकत्रिमुहूर्त्तव्यापिन्यां द्वितीयायां
चन्द्रदर्शनं सम्भाव्यते । तदुक्तमग्न्याधानविषये
वृद्धशातातपेन ।
“द्वितीया त्रिमुहूर्त्ता चेत् प्रतिपद्यापराह्णिकी ।
अग्न्याध्यानञ्चतुर्द्दश्यां परतः सोमदर्शनादिति ॥”
अपराह्णश्च पञ्चधा विभक्तस्याह्नश्चतुर्थोभागः ।
ततश्च यत्र प्रतिपदि यन्मुहूर्त्तव्यापिनी द्वितीया
तत्र चन्द्रदर्शनसम्भावनमिति । अन्यदा तूत्त-
रैव प्रतिपत्तत्र गृहीता । तथैव पुराण-
समुच्चवे ।
“वर्द्धमानतिथौ नन्दा यदा सार्द्धत्रियामिका ।
द्वितीयावृद्धिगामित्वादुत्तरा तत्र चोच्यते ॥”
किञ्च । यदा पूर्णप्रतिपत् परत्र निष्क्रामति
तदाप्युत्तरैव कार्य्या । यथोक्तं भविष्योत्तरे ।
“यथा द्वादशभिर्म्मासैर्म्मासो वृद्धो मलिम्लुचः ।
तथैवाहोरात्रिवृद्ध्या तिथिः प्रोक्तो मलिम्लुचः ॥
यथा मलिम्लुचः पूर्ब्बो मासो दैवस्तथा परः ।
त्याज्या तिथिस्तथा पूर्ब्बा ग्राह्या चैव तथो-
त्तरेति निर्णयामृतमतम् ॥ किन्तु । व्यञ्जलीन्यायेन
पूर्ब्बैव मन्तुं शक्यते । तद्वदत्रापि देवलादि-
वचनप्रामाण्यमस्तीति ॥ * ॥
अथ गोवर्द्धनपूजाविधिः । पाद्म तत्रेव ।
“मथुरायास्तथान्यत्र कृत्वा गोवर्द्धनं गिरिम् ।
गोमयेन महास्थूलं तत्र पूज्यो गिरिर्यथा ॥
मथुरायां तथा साक्षात् कृत्वा चैव प्रदक्षिणम् ।
वैष्णवं धाम स प्राप्य मोदते हरिसन्निधौ ॥”
पूजामन्त्रः ।
“गोवद्धन ! धराधार ! गोकुलत्राणकारकः ।
विष्णुबाहुकृतोच्छ्रायो गवां कोटिप्रदो भव ॥”
गोपूजामन्त्रः । स्कान्दे तत्रैव ।
“लक्ष्मीर्या लोकपालानां धेनुरूपेण संस्थिता ।
घृतं वहति यज्ञार्थे यमपाशं व्यपोहतु ॥
अग्रतः सन्तु मे गावो गावो मे सन्तु पृष्ठतः ।
गावो मे पार्श्वतः सन्तु गवां मध्ये वसाम्यहम् ॥”
अथ गोक्रीडा । तत्रैव ।
“क्रोधापयेद्धावयेच्च गोमहिष्यादिकं ततः ।
वृषान् कर्षापयेद्गोपैरुक्तिप्रत्युक्तिबादनात् ॥”
पाद्मे च तत्रैव ।
“महिष्यादेस्तथा भूषा क्रीडनं वारणन्तथा ॥”
तन्माहात्म्यञ्च तत्रैव ।
“एवं गोवर्द्धनं गाश्च पूजनीया विधानतः ।
गोवर्द्धनमखो रम्यः कृष्णसन्तोषकारकः ॥”
इति श्रीहरिभक्तिविलासे कार्त्तिककृत्ये १६
विलासः ॥ (पुरुषोत्तमक्षेत्रे भगवता शङ्करा-
चार्य्येण प्रतिष्ठापितो मठविशेषः । इति शङ्कर-
विजयः ॥ आर्य्यासप्तशतीप्रभृतिग्रन्थकार आ-
चार्य्यविशेषः । अयमेव कविवरः वङ्गाधिपस्य
लक्ष्मणसेनस्य सभापण्डित आसीत् । एतन्मत-
समर्थनोदाहरणानि क्रमान्वयेन वेदितव्यानि
यथा, आर्य्यासप्तशत्याम् । ७०२ ।
“हरिचरणाञ्जलिममलं कविवरहर्षाय बुद्धिमान्
सततम् ।
अकृतार्य्यासप्तशतीमेतां गोवर्द्धनाचार्य्यः ॥”
तत्रैव टीकामुखबन्धाम्यन्तरे । यथा, --
“गोवर्द्धनोक्तिसुखदाननिदानमेतद्-
व्यङ्ग्यार्थदीपनमनल्पचमत्कृतीनाम् ।”
“गोवर्द्धनाचार्य्यसमयस्त्वद्यापि सम्यङ् न ज्ञायते
परन्त्वयं गीतगोविन्दकर्त्तुर्जयदेवात् प्राचीनस्तत्-
समकालीनो वेति वक्तुं शक्यते । यतो जय-
देवेन गीतगोविन्दप्रारम्भे ‘शृङ्गारोत्तरसत्-
प्रभेयरचनैराचार्य्यगोवर्द्धनस्पर्द्धी कोऽपि न
विश्रुतः’ इत्युक्तमस्ति । जयदेवकविश्च वङ्ग-
देशाधिपस्य वल्लालसेनसूनोर्लक्ष्मणसेनस्य स-
भायामासीदिति श्रीसनातनगोस्वामिनां मतम् ।
‘गोवर्द्धनश्च शरणो जयदेव उमापतिः ।
कविराजश्च रत्नानि समितौ लस्मणस्य च ॥’
इत्ययं श्लोको लक्ष्मणसेनसभागृहद्वारोपरि
शिलायामुत्कीर्ण आसीत् । तस्माद् गोवर्द्धन-
जयदेवादयः सर्व्वेऽपि लक्ष्मणसेनसभायामास-
न्निति केचित् ॥”)

गोवर्द्धनधरः, पुं, (धरति धारयति वा । धृ + अच् ।

गोवर्द्धनस्य धरः ।) श्रीकृष्णः । इति शब्द-
चन्द्रिका ॥ (यथा, हरिवंशे । ७६ । १ ।
“गते शक्रे ततः कृष्णः पूज्यमानो व्रजालयैः ।
गोवर्द्धनधरः श्रीमान् विवेश व्रजमेव ह ॥”)

गोवशा, स्त्री (वशा बन्ध्या गौरिति परनिपा-

तनात् तथात्वम् ।) बन्ध्या गौः । इति कलाप-
व्याकरणम् ॥

गोविट्, [श्] पुं, (गवां विट् विष्ठा ।) गोम-

यम् । इत्यमरः । २ । ९ । ५० ॥

गोविन्दः, पुं, (गां पृथ्वीं धेनुं वा विन्दतीति ।

विन्द + “अनुपसर्गाल्लिम्पेति ।” ३ । १ । १३८ ।
इत्यस्य “गवादिषु विन्देः संज्ञायाम् ।” इति
वार्त्तिकोक्त्या शः ।) श्रीकृष्णः । (यथा, भग-
वद्गीतायाम् । १ । ३२ ।
“किं नो राज्येन गोविन्द ! किं भोगैर्जीवि-
तेन वा ॥”)
एतस्य शास्त्रान्तरीयव्युत्पत्तिर्यथा, हरिवंशे--
विष्णुपर्व्वणि । ७५ । ४३--४५ ।
“अद्य प्रभृति नो राजा त्वमिन्द्रो वै भव प्रभो ! ।
तस्मात्त्वं काञ्चनैः पूर्णैर्दिव्यस्य पयसो घटैः ॥
एभिरद्याभिषिच्यस्व मया हस्तावनामितैः ।
अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः ॥
गोविन्द इति लोकास्त्वां स्तोष्यन्ति भुवि शाश्व-
तम् ॥”
गोभिर्वाणीभिर्वेदान्तवाक्यैर्विद्यते योऽसौ पुरुष-
विदन्ति यं पुरुषं तत्त्वज्ञा इति वा । यथा,
विष्णुतिलके ।
“गोभिरेव यतो वेद्यो गोविन्दः समुदाहृतः ॥”
गां वेदलक्षणां वाणीं गोभूम्यादिकं वा वेत्तीति ।
यथा, गोपालतापन्यां पूर्ब्बविभागे ध्यानप्रक-
रणे । ७--८ ।
“तदु होचुः कः कृष्णो गोविन्दश्च कोऽसाविति
गोपीजनवल्लभः कः का स्वाहेति ॥ तानुवाच
ब्राह्मणः पापकर्षणो गोभूमिवेदविदितो विदिता
गोपीजनाविद्याकलाप्रेरकस्तन्माया चेति ।”
रतन्नाम्नो भारतादिमतेन व्युत्पत्तिर्यथा, महा
भारते । १ । २१ । १२ ।
“गां विन्दता भगवता गोविन्देनामितौजसा ।
वराहरूपिणा चान्तर्विक्षोभितजलाविलम् ॥”
तत्रैव । ५ । ७० । १३ ।
“विष्णुर्विक्रमणाद्देवो जयनाज्जिष्णुरुच्यते ।
शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्गवाम् ॥”
यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे २४ अध्याये ।
“युगेयुगे प्रणष्टां गां विष्णो ! विन्दसि तत्त्वतः ।
गोविन्देति ततो नाम्ना प्रोच्यसे ऋषिभिस्तथा ॥”
विन्दतीति विन्दः पालकः स्वामी वा । विन्द +
शः । गवां गोसमूहानां विन्दः ।) गवाध्यक्षः ।
(गवां शास्त्रमयीनां वाणीनां विन्दः पतिः ।)
बृहस्पतिः । इति मेदिनी ॥ (गौडपादाचार्य्य-
शिष्यः योणिविशेषः । अयं हि परमहंस-
परिव्राजकाचार्य्यस्य भगवतः शङ्करस्य गुरुः ।
यथा, माधवीये सङ्क्षिप्तशङ्करजये । ५ । १०१ ।
“तस्योपदर्शितवतश्चरणौ गुहायां
द्वारे न्यपूजयदुपेत्य स शङ्करार्य्यः ।
आचार इत्युपदिदेश स तत्र तस्मै
गोविन्दपादगुरवे स गुरुर्यतीनाम् ॥”
अनेन च योगिप्रवरेण गोविन्देन बौधायनधर्म्म-
विवरणं बौधायनधर्म्मसूत्रभाष्यञ्च प्रणीतमिति
श्रूयते ततो बौद्धमतमालोक्य रससाराख्यग्रन्थो-
ऽपि विरचित इति दृश्यते । यथा, रससारे
५ म पटले ।
“बौद्धानाञ्च मतं ज्ञात्वा रससारः कृतो मया ॥”
पञ्जावस्थशिखजातीनां गुरुभेदः । योऽसौ गुरु-
गोविन्द इति नाम्नोदाहृतः ॥ गाः मनः-
प्रधानानीन्द्रियाणि तेषां विन्दः प्रवर्त्तयिता
चेतयिता वा । अन्तर्यामी आत्मेत्यर्थः ।)
परमब्रह्म । यथा, --
“तत्र यद्यसमर्थस्त्वं ज्ञानयोगे महामते ! ।
क्रियायोगे दिवा रात्रौ तत्परः सततं भव ॥
करोषि यानि कर्म्माणि तानि देवे जगत्पतौ ।
पृष्ठ २/३६६
समर्पयस्व भद्रं ते ततः कर्म्म प्रहास्यसि ॥
शुभाशुभपरित्यागी क्षीणे निःणेषकर्म्मणि
लयमाप्स्यसि गोविन्दं तद्ब्रह्म परमं महत् ॥”
तन्नाममाहात्म्यं यथा, --
“ये तिष्ठन्तः स्वपन्तश्च गच्छन्तश्चलिते क्षुते ।
संकीर्त्तयन्ति गोविन्दं ते वस्त्याज्याः सुदूरतः ॥”
इति च वहिपुराणे यमानुशासननामाध्यायः ॥
(अस्य ध्यानं यथा, --
“फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीन्पं नयनोत्पलार्च्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥”)

गोविन्दद्वादशी, स्त्री, (गोविन्दप्रीतये या द्बादशी

गोविन्दाख्या द्वादशी वा । गोविन्दप्रिया
द्वादशीत्येके ।) फाल्गुनशुक्लद्वादशी । यथा, --
“फाल्गुने द्वादशी शुक्ला या पुष्यर्क्षेण संयुता ।
गोविन्दद्वादशी नाम सा स्याद् गोविन्दभक्तिदा ॥
तस्यामुपोष्य विधिना भगवन्तं प्रपूजयेत् ।
लिखितः पापनाशिन्यां विधिर्योऽत्रापि स
स्मृतः ॥”
तम्माहात्म्यञ्च ब्रह्मपुराणे श्रीवशिष्ठमान्धातृ-
संवादे ।
“फाल्गुनाऽमलपक्षे तु पुष्यर्क्षे द्वादशी यदि ।
गोविन्दद्वादशी नाम महापातकनाशिनी ॥
तस्यामुपोष्य विधिवन्नरः संक्षीणकल्मषः ।
प्राप्नोत्यनुत्तमां सिद्धिं पुनरावृत्तिदुर्लभामिति ॥
आमर्द्दकी द्वादशीति लोके ख्यातेयमेव हि ।
यत्र आमर्द्दकीपूजा व्रतमस्यां विशेषतः ॥”
तदुक्तं व्राह्मे तत्रैव पापनाशिनीमाहात्म्य-
प्रसङ्गे ।
“फाल्गुने तु विशेषेण विशेषः कथितो नृप ! ।
आमर्द्दक्या व्रतं पुण्यं विष्णुलोकप्रदं नृणाम् ॥”
प्रभासखण्डे च । श्रीदेवीमहेशसंवादे ।
“फाल्गुनस्य सिते पक्षे एकादश्यामुपोषितः ।
स्नात्वा नद्यां तडागे वा वाप्यां कूपे गृहेऽपि वा ॥
गत्वा गिरौ वने वापि यत्र सा प्राप्यते शिवा ।
क्षीरोदे मथ्यमाने तु यदा वृक्षः समुत्थितः ॥
आमर्द्दाद्देवदैत्यानां तेन सामर्द्दकी स्मृता ।
शिवा लक्ष्मीः स्मृतो वृक्षः सेव्यते सुरसत्तमैः ॥
देवैर्ब्रह्मादिभिः सर्व्वैर्वृक्षोऽसौ वैष्णवः स्मृतः ।
तत्र गत्वा हरिः पूज्यो वृक्षमूलेऽथवा शिवा ॥
पूज्या पुष्पैः शुभै रात्रौ कार्य्यं जागरणं हरेः ।
करकं जलपूर्णन्तु कर्त्तव्यं पात्रसंयुतम् ॥
हविष्यान्नन्तु कर्त्तव्यं दीपः कार्य्यो विधानतः ।
एवं जागरणं कार्य्यं कथाश्रवणतत्परैः ॥
मुच्यन्ते देहिनः पापैः कलिजैः कायसम्भवैः ।
देहान्ते च नराः सर्व्वे पूज्यन्ते हरिमन्दिरे ॥”
इति श्रीहरिभक्तिविलासे १४ विलासः ॥

गोविष्ठा, स्त्री, (गवां विष्ठा शकृत् ।) गोमयम् ।

इति राजनिर्घण्टः ॥

गोवृन्दं, क्ली, (गवां वृन्दं सङ्घः ।) गोसमूहः ।

इति हलायुधः ॥

गोवृन्दारकः, पुं, (गौर्विन्दारक इव पूज्य इति शेषः ।

“वृन्दारकनागकुञ्जरैः पूज्यमानम् ।” २ । १ । ६२ ।
इत्यनेन सूत्रेणोपमितसमासे व्याघ्रादेराकृति-
गणत्वादेव सिद्धे सामान्यप्रयोगार्थं वचनमिति
वार्त्तिकम् ।) श्रेष्ठगौः । इति कलापव्याकरणम् ।

गोवृषः, पुं, (गोषु स्त्रीगोष्वित्यर्थः वर्षति सिञ्चति

रेतः । वृष् + “इगुपधेति ।” ३ । १ । १३५ ।
इति कः ।) वृषः । इति शब्दरत्नावली ॥
(यथा, मनुः । ९ । १५० ।
“कीनाशो गोवृषो यानमलङ्कारश्च वेश्म च ।”
“कीनाशः कर्षकः गवां सेक्ता वृषोयानमश्वादि ।”
इति कुल्लूकभट्टः ॥)

गोशकृत्, क्ली, (गवां शकृत् विष्ठा ।) गोमयम् ।

इति जटाधरः ॥ (यथा, मनुः । २ । १८२ ।
“उदकुम्भं सुमनसो गोशकृत् मृत्तिका कुशान् ॥”
पर्य्यायोऽस्य यथा, वैद्यकरत्नमालायाम् ।
“गोमयं जगलं गोविट् गोहन्नं तच्च गोशकृत् ॥”)

गोशालं, क्ली, स्त्री, (गवांशाला “विभाषा सेनेति ।”

२ । ४ । २५ । इति विभाषया क्लीवत्वम् ।)
गोगृहम् । इति लिङ्गादिसंग्रहे अमरः ॥
गोयालि इति भाषा ॥ (गोशालायां जातः ।
“स्थानान्तगोशालखरशालाच्च ।” ४ । ३ । ३५ ।
जातार्थप्रत्ययस्य लुक् । ततो विभाषासेनेति
नपुंसकत्वे ह्रस्वत्वम् । गोगृहजाते त्रि ॥)

गोशीर्षं, क्ली, (गोः शीर्षं शीर्षदेशाकारो विद्यते

ऽस्य ऋषभपर्व्वतैकदेशजातानां चन्दनभेदानां
शीषभागस्य तद्वत्तया तथात्वम् ।) चन्दनम् ।
इति राजनिर्घण्टः ॥ हरिचन्दनम् । इत्यमरः ॥
“गोः शीर्षं गोशीर्षं तदाकारे मलयैकदेशे जातं
कालताम्रव्यामिश्रवर्णमुत्पलगन्धि अतिसुरभि
शीतलतया सदैव सर्पै र्वेष्टितम् ।” इति भरतः ॥
(यथा, गोः रामायणे । ४ । ४१ । ५९ ।
“गोशीर्षचन्दनं यत्र पद्मकञ्जाग्निसन्निभम् ॥”
व्यवह्रियते यस्मिंस्तद्यथा, --
“सोत्सर्गे वदनाद्यस्य स्वेदः प्रच्यवते भृशम् ।
लेपज्वरोपतप्तस्य दुर्ल्लभं तस्य जीवितम् ॥”
इति चरके इन्द्रियस्थानेऽष्टमेऽध्याये ॥)
गवां मस्तकञ्च ॥

गोशीर्षकः, पुं, (गोशीर्षमिव कायति प्रकाशते

इति । कै + कः ।) द्रोणपुष्पीवृक्षः । इति रत्न-
माला ॥ (स्वार्थे कन् । चन्दनविशेषः ॥)

गोशृङ्गः, पुं, (गोः शृङ्गमिव शृङ्गं शीर्षभागो-

ऽस्य । स्वनामप्रसिद्धः पर्व्वतविशेषः । यथा,
महाभारते । २ ३१ । ५ ।
“निषादभूमिं गोशृङ्गं पर्व्वतप्रवरन्तथा ।”
अत्रैव पर्व्वते अरत्निमात्रा मन्देहा नाम राक्षसा
निवसन्ति । ते हि देवराजमहेन्द्रेणाभिशप्ताः
सन्तः सूर्य्योदये जले पतन्ति रजन्यां पुनरुत्-
पतन्ति । एतद्विवरणं यथा, रामयणे । ४ ।
४० । ४२--४४ ।
“द्रक्ष्यथाम्बुरुहं दिव्यं गोशृङ्गं नाम पर्व्वतम् ।
तस्य शृङ्गसहस्रेषु मन्देहा नाम राक्षसाः ॥
अरत्निमात्रा लक्ष्यन्ते नानारूपा भयावहाः ।
ते पतन्ति जले घोराः सूर्य्यस्योदयनं प्रति ॥
अभिशप्ता महेन्द्रेण निशायामुत्पतन्ति च ॥”)
वर्व्वूरवृक्षः । इति राजनिर्घण्टः ॥ गोवि-
षाणे क्ली ॥

गोषड्गवं, क्ली, (गवां षट्कम् । “पशुभ्यः स्थान-

द्विषट्के गोष्ठगोयुगषड्वम् ।” इति मुग्धबोध-
सूत्रात् ।) गोषट्कम् । इति मुग्धबोधव्याक-
रणम् ॥

गोष्ट, ङ संघाते । इति कविकल्पद्रुमः (भ्वां-

आत्मं-सकं-सेट् ।) सङ्घातो राशीकरणम् ।
ङ, गोष्टते धान्यं लोकः । इति दुर्गादासः ॥

गोष्ठं, क्ली, (गावस्तिष्ठन्त्यत्र इति । स्था + “सुपि

स्थः ।” ३ । २ । ४ । इति कः । घञर्थे कः ।
इत्येके ।) गोस्थानम् । गोठ । इति भाषा ॥
इत्यमरः ॥ (यथा, रामायणे । ४ । २२ । ३१ ।
“सिंहेन निहतं गोष्ठे गौः सवत्स्येव गोपतिम् ।
इष्ट्वा संग्रामयज्ञेन रामबाणमहाम्भसा ॥”)
प्रत्ययविशेषः । स तु स्थानार्थे पशुवाचक-
शब्देभ्यो भवति । यथा । गोगोष्ठं महिषगोष्ठं
इत्यादि । इति भरतः ॥ (गोष्ठीश्राद्धे । यथा,
मनुः । ३ । २५४ ।
“पित्र्ये स्वदितमित्येव वाच्यं गोष्ठे तु सुश्रुतम् ।
सम्पन्नमित्यभ्युदये दैवे रुचितमित्यपि ॥”
“गोष्ठे गोष्ठीश्राद्धे ।” इति कुल्लूकभट्टः ॥)

गोष्ठश्वः, त्रि, (गोष्ठे श्वा । “अचतुरविचतुरेति ।”

५ । ४ । ३७ । समासे अच् । षष्ठीतत्पुरुष-
समासे तु गोष्ठश्वा इत्येव स्यात् ।) स्वगृहाङ्गने
स्थितो यः परान् द्वेष्टि सः । इति जटाधरः ॥

गोष्ठाष्टमी, स्त्री, (गोष्ठोपपदान्विता अष्टमी ।

गोष्ठे विहिता अष्टमी वा । एतस्यां तिथौ
भगवतो बालरूपिणो नन्दनन्दनस्य गोष्ठगमन-
पुरःसरं वत्सपत्वं विहाय गोपत्वस्वीकरणात्
तथात्वम् ।) गोपाष्टमी । सा च कार्त्तिकशुक्ला-
ष्टमी । यथा, पाद्मे कूर्म्मपुराणे च ।
“शुक्लाष्टमी कार्त्तिके तु स्मृता गोपाष्टमी बुधैः ।
तद्दिने वासुदेवोऽभूद्गोपः पूर्ब्बन्तु वत्सपः ॥
तत्र कुर्य्याद्गवां पूजां गोग्रासं गोः प्रदक्षिणम् ।
गवानुगमनं कुर्य्यात् सर्व्वान् कामानभीप्सता ॥”
इति श्रीहरिभक्तिविलासे १६ विलासः ॥
“भीमपराक्रमे कार्त्तिकशुक्लपक्षमधिकृत्य ।
गोष्ठाष्टम्यां गवां पूजां गोग्रासं गोः प्रदक्षि-
णम् ।
गवानुममनं कुर्य्यात् सर्व्वपापविमुक्तये ॥”
इति तिथ्यादितत्त्वम् ॥

गोष्ठी, स्त्री (गावः बहुविधा वाचस्तिष्ठन्त्यत्र ।

गो + स्था + कः । स्त्रियां ङीष् ।) सभा । तस्या
लक्षणविशेषः ।
“एकाङ्का कथिता गोष्ठी कैशिकीवृत्तिसंयुता ।
सम्भोगरसषट् पञ्च सप्त वा योषिदन्विता ॥
प्राकृतैर्नवभिः पुंभिर्दशभिर्व्वाप्यलङ्कृता ।
गर्व्वावमर्षसन्धिभ्यां हीना प्राकृतसम्मता ॥
पृष्ठ २/३६७
वाद्याद्यैरन्विता नैव कर्त्तव्येयं विचक्षणैः ॥”
इति सङ्गीतदामोदरः ॥
(गावोऽनेका वाचस्तिष्ठन्ति यत्र । गो + स्था +
घञर्थे कः । ततः “अम्बाम्बगोभूमीति ।” ८ ।
३ । ९७ । इति षत्वम् ।) संलापः । इति
मेदिनी । ठे । ४ ॥ (यथा, पञ्चतन्त्रे । १ । ४०० ।
“एवमनुष्ठिते चत्वारोऽपि ते एकस्थाने विहा-
रिणः परस्परमनेकप्रकारगोष्ठीसुखमनुभवन्त-
स्तिष्ठन्ति ॥”) पोष्यवर्गः । यथा, चाणक्ये ।
“विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् ॥”
(यथा च राजेन्द्रकर्णपूरे । ४७ ।
“कृत्वा बेलापुलिनलवलीपल्लवग्रासगोष्ठीं
दिङ्मातङ्गाः सममथ सरिन्नाथपाथः पिबन्ति ॥”)

गोष्ठीपतिः, पुं, (पातीति पतिः । गोष्ठ्याः पोष्य-

वर्गस्य सभाया वा पतिः ।) पोष्यवर्गपालकः ।
सभापतिः ।
अथ ब्राह्मणगोष्ठीपतिलक्षणं यथा--
“नानाशास्त्रविशारदै रसिकता सत्काव्यसम्मोदिता
निर्द्दोषैः कुलभूषणैः परिमिता पूर्णा कुलज्ञैरपि ।
श्रीमद्भागवतादिकारणकथाशुश्रूषयानन्दिता
गत्वाभीष्टमुपैति यद्गुणिजनो गोष्ठी हि सा
चोच्यते ॥”
एवम्भूता गोष्ठी तस्याः पतिः । अपि च ।
“कुलीनाः श्रोत्रियाः सर्व्वे यस्यान्नं भुञ्जते मुहुः ।
कुलीनाय सुतां दत्त्वा स गोष्ठीपतिरुच्यते ॥”
तद्यथा । गाङ्गवंशे लक्ष्मीकान्तमजमुया-
दारः १ मुखवंशे मदनभट्टाचार्य्यः २ तद्वंशे
गन्धर्व्वरायः ३ बन्द्यवंशे शुभराजखानवंशः ४
चट्टवंशे अनन्तभट्टाचार्य्यः ५ एते प्राचीनाः
आधुनिका बहवः सन्ति ॥ * ॥
कायस्थगोष्ठीपतिलक्षणं यथा, --
“नीतिज्ञः कुलकर्म्मठः स्थितिमतां मान्योऽपि
धर्म्मान्वितः
कार्य्याकार्य्यविलोकनैः कुलभृतां सम्मानदानो-
द्यतः ।
पोष्टा यः कुलसंविदां कुलसुधीः सन्मौलिकानां
तथा
सद्वंशप्रभवः क्षितौ सुविदितो दाता स गोष्ठी-
पतिः ॥”
अथ कायस्थगोष्ठीपतिगणना ।
“आदौ द्वादशपर्य्यये समभवद्दानेन गोष्ठीपतिः
सत्कीर्त्तिश्च सुबुद्धिखानतनयः श्रीमन्तरायः
कृती । १ ।
संजातस्तदनन्तरं गुणधरा गण्ये च पर्य्यायके
स्वेच्छातो हि पुरन्दरः कुलभवः खानः सदा
दानतः ॥ २ ॥
पर्य्याये च चतुर्द्दशे समभवत् पौरन्दरः केशवः
स्वानः सन्ततदानतो हि विलसत्कीर्त्तिर्धरा-
मण्डले ॥ ३ ॥
नानावित्तविसर्जनेन जनितप्रोत्फुल्लकीर्त्तिः क्षिता-
वासीत् पञ्चदशे तदात्मजकृती श्रीकृष्णविश्वास-
खास् ॥ ४ ॥
ततः षोडशे पर्य्यये दानजालः
कुलीनालिमालो दयारामपालः ॥ ५ ॥
ततस्तत्सुतः पर्य्यये सूर्य्यवाजि-
क्षपानाथगण्येऽभवत् पुण्यराजिः ॥ ६ ॥
ततः पर्य्ययेऽष्टादशे तत्तनूजः
समाहूय भूयोर्च्चितार्य्यव्रजो यः ।
सदा सत्कथालापसंलापतोषः
कुलीनौघपूजापरोऽयं सुभाषः ॥ ७ ॥
आसीत् किङ्करसेननामसुकृती यो मौलिकैका-
ग्रणीः
पर्य्याये परिपूजितार्य्यनिचये चैकोनविंशे हि सः ।
सद्गोष्ठीपतिपालवंशतनयापाणिग्रहेणात्मनो
दानेनापि च मेलिकाटिरपरो गोष्ठीपतिः
प्राथमः ॥ ८ ॥
दानेनातिवदान्यतादिगुणतो निःसीमपुण्यैश्च यो
गोपीसिंहचतुर्धुरीणसुकृती विंशे हि पर्य्या-
यके ।
यत्नात् किङ्करसेनवंशतनयापाणिग्रहाद्रागतः
सोऽप्यासीद् भुवि मेलिकाटिरपरो गोष्ठीपतिः
सस्तुतिः ॥ ९ ॥
पर्य्याये पुनरेकविंशक इह ख्यातः क्षमामण्डले
गोपीसिंहचतुर्धुरीणकुलजो यो रामकान्तः
कृती ।
धन्यो गण्यसुपुण्यजन्ययशसा गोष्ठीपतेरग्रणी-
र्दानैः कर्ण इवातिधैर्य्यपयसां रत्नाकरश्चा-
परः ॥ १० ॥
द्वाविंशे किल पर्य्ययेऽतिनियतेस्तस्यात्मजा-
संग्रहात्
स्वस्यैवास्यसुपुण्यदत्तकतनूद्भूतस्य च श्रीमतः ।
गोपीमोहनसंज्ञकस्य तनयद्वारा च गोष्ठीपतिः
सम्भूतो नवकृष्णभूपतिवरः सन्मेलिकाटिः
क्षितौ ॥ ११ ॥
तावन्मुख्यकनिष्ठमध्यमकुलोद्भूतां स्तृतीयोद्भवान्
षड्भ्रातॄनपि तावतोऽत्र गणना बद्धक्रमाना-
दरात् ।
सद्गोष्ठीपतिकारकानतिनताधीनान् कुली-
नान् समा-
हूयात्र प्रकृतांस्तथात्र सहजान् पूज्यांस्तथा
कोमलान् ॥
वित्तैर्वागमृतैर्नुतिप्रणतिभिश्चान्यैस्त्रयोविंशके
पर्य्यायेऽतितरां प्रपूज्य परमाह्लादान्वितः श्रीयुतः ।
गोपीमोहनदेववंशतिलको गोष्ठीपतिः क्ष्मापति-
र्जातः संप्रति भूमिदेवघटकानाञ्चाञ्चना-
दच्युतिः ॥” १२ ॥
इति दक्षिणराढीयकायस्थकुलाचार्य्यकारिका ॥
अथ वैद्यानां गोष्ठीपतिर्यथा, --
“विप्रेभ्य प्रियभोज्यवस्तुवसनं छत्रासनं भूषणं
ग्रामा भूमितुरङ्गमा गजगणाः स्वर्णानि रत्नानि
च ।
गावो नाव उदारमन्दिररुचो वाट्यश्च दत्ताः
सदा
साधुज्ञातिकुटुम्बसद्गुणगणाः संप्रीणिता येन च ॥
गौडक्ष्मापतिना य एव भिषजां श्रेष्ठ्येऽभिषिक्तः
कृती
नानाशास्त्रविशारदः शुभमतिर्वाग्मी चिकित्सा
पटुः ।
तस्मात् प्राप गजं तुरङ्गकनकच्छत्रञ्च रत्नं धनं
सोऽभूत् सेनविनायको वहुगुणैरम्बष्ठगोष्ठीपतिः ॥
वैनायकेषु सर्व्वेषु भास्करः श्रेष्ठ ईरितः ।
गोष्ठीपतितया ख्यातः स वैद्यैः पूजितोऽग्रतः ॥”
इति भरतमल्लिककृतकुलपञ्जिका ॥

गोष्पदं, क्ली, (गोः पदम् । यद्वा गावः पद्यन्ते

गच्छन्ति यस्मिन् देशे । “गोष्पदं सेवितासेवित-
प्रमाणेषु ।” ६ । १ । १४५ । इति सुट् सस्य
षत्वञ्च ।) गोसेवितस्थानम् । गोखुरप्रमाणम् ।
इत्यमरः । ३ । ३ । ९३ ॥ (यथा, महा-
भारते । ९ । ७ । ३७ ।
“भीष्मद्रोणार्णवं तीर्त्त्वा कर्णपातालसम्भवम् ।
मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम् ॥”)
तथा विश्वो मेदिनी च ।
“गोष्पदं गोपदश्वभ्रे गवाञ्च गतिगोचरे ॥”
(गवासेवितारण्यादि । इति सिद्धान्तकौमुदी ॥)

गोसः, पुं, (गां जलं स्यति नाशयतीति । सो य

नाशने + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ ।
इति कः ।) वोलः । उषःकालः । इति मेदिनी ।
से । ३ ॥

गोसङ्ख्यः, पुं, (गाः सञ्चष्टे इति । चक्षि ङल उक्तौ

+ “चक्षिङः ख्याञ् ।” २ । ४ । ५४ । इति
ख्याञ् ततः “समिख्यः ।” ३ । २ । ७ । इति
कः । यद्वा, गवां संख्या बहवो गाव इत्यर्थः
विद्यते यस्य । समासे पुंवद्भावः ।) गोपः ।
इत्यमरः । २ । ९ । ५७ ॥

गोसङ्गः, पुं, (गोभिः सङ्गो मिलनं यस्मिन् काले ।

प्रत्यूषकाले हि गावो गोष्ठगमनाय निर्गच्छ-
न्तीति प्रसिद्धिः । यद्वा गौः सूर्य्यकिरणं तेन
सङ्गो यस्मिन् ।) प्रत्यूषः । इति भूरिप्रयोगः ॥

गोसदृक्षः, पुं, (गोः सदृक्षस्तुल्यः । गोसदृशा-

कारत्वादस्य तथात्वम् ।) गवयः । इति हेम-
चन्द्रः ॥

गोसन्दायः पुं, (गां सन्ददातीति । सम् + दा +

अण् ।) गोदानकर्त्ता । इति व्याकरणम् ॥

गोसम्भवा, स्त्री, (गोरिव सम्भवो लोमादिरूपा

कृतिर्यस्याः ।) श्वेतदूर्व्वा । इति राजनिर्घण्टः ॥
(सम्भवत्यस्याः इति सम्भवा उत्पतिकारणम् ।
गौः सम्भवा यस्याः ।) गोजाते त्रि ॥

गोसर्गः, पुं, (गवां सर्गो वनगमनाय मोचनं

यद्वा गवां सूर्य्यकिरणानां सर्गो विसृष्टिः
यस्मिन् ।) प्रभातम् । इति हारावली । १६१ ॥
(यथा, सुश्रुते चिकित्सितस्थाने २४ अध्याये ।
“गोसर्गे चार्द्धरात्रे च तथा मध्यन्दिनेषु च ॥”)

गोसवः, पुं, (गौः सूयते पीड्यते हिंस्यते यत्र ।

सु ञ्न पीडायाम् + “ऋदोरप् ।” ३ । ३ । ५७ ।)
इति अप् ।) गोमेधयज्ञः । इति जटाधरः ॥
(यथा, मनुः । ११ । ७४ ।
पृष्ठ २/३६८
“यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा ।
अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा ॥”)

गोसशशः, पुं, (गोस एव शशः शशतुल्यः इति

गोवलीवर्द्दन्यायेन सिद्धः ।) वोलः । इत्यमर-
टीकायां रायमुकुटः ॥

गोसहस्री, स्त्री, (गवां सहस्रं तद्दानफलं विद्यते

यत्र । अर्श आदित्वादच् गौरादित्वात् ङीष् ।)
मङलवारयुक्तामावास्या । तत्र गङ्गास्नाने
सहस्रगोदानफलम् । यथा, व्यासः ।
“अमावास्यां भवेद्वारो यदि मूमिसुतस्य च ।
गोसहस्रफलं दद्यात् स्नानमात्रेण जाह्नवी ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
सोमवारयुक्तामावास्या । तत्र अरुणोदयकाल-
मारभ्य स्नानकालपर्य्यन्तं मौनीभूत्वा स्नानात्
गोसहस्रदानफलम् । यथा व्यासः ।
“सिनीबाली कुहूर्व्वापि यदि सोमदिने भवेत् ।
गोसहसफलं दद्यात् स्नानं यन्मौनिना कृतम् ॥”
इति च तिथ्यादितत्त्वम् ॥

गोस्तनः, पुं, (गोः स्तन इव गुच्छो यस्य ।) हार-

मेदः । इत्यमरः । २ । ६ । १०५ ॥ स तु चतु-
र्यष्टिकः । चतुस्त्रिंशद्यष्टिक इति केचित् ।
इति भरतः ॥ (गवां स्तनः ।) गवां कुचश्च ॥
(यथा, सुश्रुते उत्तरतन्त्रे १ मे अध्याये ।
“सुवृत्तं गोस्तनाकारं सर्व्वभूतगुणोद्भवम् ॥”)

गोस्तना, स्त्री, (गोः स्तन इव फलमस्याः । ङीष-

भावपक्षे टाप् ।) गोस्तनी । इत्यमरटीका ॥

गोस्तनी, स्त्री, (गोः स्तन इव फलमस्याः ।

“स्वाङ्गाच्चोपसर्ज्जनादसंयोगोपधात् ।” ४ । १ ।
५४ । इति ङीष् ।) द्राक्षा । इत्यमरः । २ ।
४ । १०७ ॥ कपिलद्राक्षा । इति राजनिर्घण्टः ॥
(यथास्याः पर्य्यायाः ।
“द्राक्षा स्वादुफला प्रोक्ता तथा मधुरसापि च ।
मृद्वीका हारहूरा च गोस्तनी चापि कीर्त्तिता ॥”
वृष्या स्याद् गोस्तनी द्राक्षा गुर्व्वी च कफपि-
त्तनुत् ॥
गोस्तनी मुनक्का इति ।” इति भावप्रकाशस्य
पूर्ब्बखण्डे प्रथमे भागे ॥ गोः स्तना इव स्तना
यस्याः । कुमारानुचारिणी मातृगणानामन्य-
तमा । यथा, महाभारते । ९ । ४६ । ३ ।
“प्रभावती विशालाक्षी पलिता गोस्तनी तथा ॥”
गोनसीति पाठोऽपि वर्त्तते ॥)

गोस्थानं, क्ली, (गवां स्थानम् ।) गोष्ठम् । इति

शब्दरत्नावली ॥ (यथा, हरिवंशे । ६० । २७ ।
“सार्गजद्वारगोवाटं मध्ये गोस्थानसङ्कुलम् ॥”)

गोस्थानकं, क्ली, (गोस्थान + स्वार्थे कन् ।)

गोष्ठम् । इत्यमरः । २ । १ । १३ ॥

गोस्वामी, [न्] त्रि, (गवां स्वामी ।) गोपतिः ।

इति हलायुधः ॥ (यथा, मनुः । ८ । २३१ ।
“गोपः क्षीरभृतो यस्तु स दुह्याद्दशतो वराम् ।
गोस्वाम्यनुमते भृत्यः सा स्यात् पालेऽभृते
भृतिः ॥”)
स्वगेस्य भुवो वा प्रभुः । (यद्वा, गवां इन्द्रि-
याणां स्वामी । जितेन्द्रियतया एव तथात्वम् ।)
यथा । “श्रीसनातनगोस्वामी प्रिया श्रीरति-
मञ्जरी ।” इत्यनन्तसंहिता ॥

गोहत्या, स्त्री, (गवां हत्या हननम् ।) गोवधः ।

तत्प्रायश्चित्तादि प्रायश्चित्तशब्दे द्रष्टव्यम् ॥ * ॥
पारिभाषिकगोहत्या यथा, --
सावित्र्युवाच ।
“विप्रहत्याञ्च गोहत्यां किंविधामातिदेशिकीम् ।
का वा नृणामगम्या वा को वा सन्ध्याविहीनकः ॥
एतेषां लक्षणं सर्व्वं वद वेदविदां वर ! ॥
यम उवाच ।
गामाहारं प्रकुर्व्वन्तं पिबन्तं यो निवारयेत् ।
याति गोविप्रयोर्म्मध्ये गोहत्याञ्च लभेत्तु सः ॥
दण्डैर्गान्ताडयन् मूढो यो विप्रो वृषवाहकः ।
दिने दिने गवां हत्यां लभते नात्र संशयः ॥
ददाति गोभ्य उच्छिष्टं भोजयेद्वृषवाहकम् ।
भोजयेद्वृषवाहान्नं स गोहत्यां लभेद् ध्रुवम् ॥
वृषलीपतिं याजयेद् यो भुङ्क्तेऽन्नं तस्य यो नरः ।
गोहत्याशतकं सोऽपि लभते नात्र संशयः ॥
पादं ददाति वह्नौ यो गाञ्च पादेन ताडयेत् ।
गृहं विशेदधौताङ्घ्रिः स्नात्वा गोवधमालभेत् ॥
यो भुङ्क्तेऽस्निग्धपादेन शेते स्निग्धाङ्घ्रिरेव च ।
सूर्य्योदये च द्विर्भोजी स गोहत्यां लभेद् ध्रुवम् ॥
अवीरान्नञ्च यो भुङ्क्ते योनिजीवी च ब्राह्मणः ।
यस्त्रिसन्ध्याविहीनश्च स गोहत्यां लभेद् ध्रुवम् ॥
पितॄं श्च पर्व्वकाले च तिथिकाले च देवताः ।
न सेवतेऽतिथिं यो हि स गोहत्यां लभेद् ध्रुवम् ॥
स्वभर्त्तरि च कृष्णे वा भेदबुद्धिं करोति या ।
कटूक्त्या ताडयेत् कान्तं सा गोहत्यां लभेद् ध्रुवम् ॥
गोमार्गं खननं कृत्वा ददाति शस्यमेव च ।
तडागे च तदूर्द्ध्वे वा स गोहत्यां लभेद् ध्रुवम् ॥
प्रायश्चित्तं गोवधस्य यः करोति व्यतिक्रमम् ।
अर्थलोभादथाज्ञानात् स गोहत्यां लभेद् ध्रुवम् ॥
राजके दैवके यत्नात् गोस्वामी गां न पालयेत् ।
दुःखं ददाति यो मूढो गोहत्यां लभते ध्रुवम् ॥
प्राणिनं लङ्वयेद्यो हि देवार्च्चामनलं जलम् ।
नैवेद्यं पुष्पमन्नञ्च स गोहत्यां लभेद् ध्रुवम् ॥
शश्वन्नास्तीति वादी यो मिथ्यावादी प्रतारकः ।
देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद् ध्रुवम् ॥
देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं प्रति ।
न सम्भ्रमान्नमेत् यो हि स गोहत्यां लभेद् ध्रुवम् ॥
न ददात्याशिषं कोपात् प्रणताय च यो द्बिजः ।
विद्यार्थिने च विद्याञ्च स गोहत्यां लभेद् ध्रुवम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥

गोहन्नं, क्ली, (हद विष्ठात्यागे + क्तः । हन्नम् ।

गोर्हन्नं विष्ठा ।) गोमयम् । इति रत्नमाला ॥

गोहरीतकी, स्त्री, (गवां हरीतकीव हितकारि-

त्वात् ।) विल्ववृक्षः । इति शब्दरत्नावली ॥

गोहालिया, स्त्री, लताविशेषः । गोयालिया इति

भाषा ॥ यथा, गारुडे १९० अध्याये ।
“पोतं गोहालियामूलं तिलदध्याज्यसंयुतम् ।
निवद्धमूत्रं क्वथितं प्रवर्त्तयति शङ्कर ! ॥”

गोहितः, पुं, (गोषु हितः ।) धोषलता । विल्वः ।

इति शब्दचन्द्रिका ॥ गवां हितकारके त्रि ॥
(गोर्भूमेर्भारावतरणे स्वेछया शरीरग्रहणं
कुर्व्वन् गोहितः, यद्वा गवां रक्षार्थं गोवर्द्धनं
धृतवानिति गोहितः । विष्णुः । यथा, महा-
भारते । १३ । १४९ । ७६ ।
“गोहितो गोपतिर्गोप्ता वृषभाख्यो वृषप्रियः ॥”)

गोहिरं, क्ली, (गुह + बाहुलकादिरच् ।) पाद-

मूलम् । इति हेमचन्द्रः । ३ । २८० ॥

गोह्यं, त्रि, (गुहू ञ् संवरणे + “शंसिदुंहिगुहिभ्यो

वा ।” इति काशिकोक्तेः क्यबभावपक्षे ण्यत् ।)
गुह्यम् । गोपनीयम् । इति पाणिनिव्याकर-
णम् ॥

गौः, [गो] पुं स्त्री, (गच्छतीति । गम् +

“गमेर्डोः ।” उणां । २ । ६७ । इति डोः । यद्वा,
गच्छत्यनेनेति करणे डोः । वृषस्य यानसाधन-
त्वात् स्त्रीगव्या दानेन स्वर्गगमनसाधनत्वाच्च
उभयोरपि दानेन स्वर्गगमनत्वाद्वा तथात्वम् ।
वस्तुतस्त्वयं रूढ एब शब्दः । यदुक्तम् ।
“रूढा गवादयः प्रोक्ता यौगिकाः पाचकादयः ।
योगरूढाश्च विज्ञेयाः पङ्कजाद्या मनीषिभिः ॥”)
स्वनामख्यातपशुः । गरु इति माषा ॥ पुंगोः
पर्य्यायः अनड्वान् इति पदे द्रष्टव्यः ॥ स्त्रीगोः
पर्य्यायः । माहेषी २ सौरभेयी ३ उस्रा ४
माता ५ शृङ्गिणी ६ अर्ज्जुनी ७ अघ्न्या ८
रोहिणी ९ । इत्यमरः ॥ माहेन्द्री १० इज्या ११
धेनुः १२ अघ्ना १३ दोग्ध्री १४ भद्रा १५ भूरि-
मही १६ अनडुही १७ कल्याणी १८ पावनी १९
गौरी २० सुरभिः २१ महा २२ निलि-
नाचिः २३ सुरभी २४ अनड्वाही २५ द्विडा २६
अधमा २७ । इति शब्दरत्नावली ॥ बहुला २८
मही २९ सरस्वती ३० । इति जटाधरः ॥
उस्रिया ३१ अही ३२ अदितिः ३३ इला ३४
जगती ३५ शर्करी ३६ । इति वेदनिघण्टौ
२ अध्यायः ॥ * ॥ (गवां लक्षणादिकं यथा,
बृहत्संहितायां ६१ अध्याये ।
“पराशरः प्राह बृहद्रथाय
गोलक्षणं यत् क्रियते ततोऽयम् ।
मया समासः शुभलक्षणास्ताः
सर्व्वास्तथाप्यागमतोऽभिधास्ये ॥
सास्राविलरूक्षाक्ष्यी मूषकनयनाश्च न शुभदा
गावः ।
प्रचलच्चिपिटविषाणाः करटाः खरसदृशवर्णाः ॥
दशसप्तचतुर्दन्त्यः प्रलम्बमुण्डानना विनतपृष्ठाः ।
ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च ॥
श्यावातिदीर्घजिह्वागुल्फैरतितनुभिरतिबृह-
द्भिर्वा ।
अतिककुदाः कृशदेहा नेष्टा हीनाधिकाङ्ग्यश्च ॥
वृषभोऽप्येवं स्थूलातिलम्बवृषणः शिराततक्रोडः ।
स्थूलशिराचितगण्डस्त्रिस्थानं मेहते यश्च ॥
मार्ज्जाराक्षः कपिलः करटो वा न शुभदो
द्विजस्येष्टः ।
पृष्ठ २/३६९
कृष्णोष्ठतालुजिह्वः श्वसनो यूथस्य धातकरः ॥
स्थूलशकृन्मणिशृङ्गः सितोदरः कृष्णसारवर्णश्च ।
गृहजातोऽपि त्याज्यो यूथविनाशावहो वृषभः ॥
श्यामकपुष्पचिताङ्गो भस्मारुणसन्निभो विडा-
लाक्षः ।
विप्राणामपि न शुभं करोति वृषभः परिगृहीतः ।
ये चोद्धरन्ति पादान् पङ्कादिव योजिताः कृश-
ग्रीवाः ।
कातरनयना हीनाः पृष्ठतश्च ते न भारसहाः ॥
मृदुसंहतताम्रोष्ठास्तनुस्फिजस्ताम्रतालुजिह्वाश्च ।
तनुह्रस्वोच्चश्रवणाः सुकुक्षयः स्पष्टजङ्घाश्च ॥
आताम्रसं हतखुरा व्यूढोरस्का बृहत्ककुद-
युक्ताः ।
स्निग्धश्लक्ष्णतनुत्वग्रोमाणस्ताम्रतनुशृङ्गाः ॥
तनुभूस्पृग्बालधयो रक्तान्तविलोचना महो-
च्छासाः ।
सिंहस्कन्धास्तन्वल्पकम्बलाः पूजिताः सुगताः ॥
वामावर्त्तैर्वामे दक्षिणपार्श्वे च दक्षिणावर्त्तैः ।
शुभदा भवन्त्यनडुहो जङ्घाभिश्चैणकनिभाभिः ॥
वैदूर्य्यमल्लिका बुद्बुदेक्षणाः स्थूलनेत्रचर्म्माणः ।
पार्ष्णिभिरस्फुटिताभिः शस्ताः सर्व्वेऽपि भार-
वहाः ॥
घ्राणोद्देशे सवलिर्मार्ज्जारमुखः सितश्च दक्षि-
णतः ।
कमलोत्पललाक्षाभः सुवालधिर्वाजितुल्यजवः ॥
लम्बैर्वृषणैर्मेषोदरश्च सङ्क्षिप्तवङ्क्षणाक्रोडः ।
ज्ञेयो भाराध्वसहो जवेऽश्वतुल्यश्च शस्तफलः ॥
सितवर्णः पिङ्गाक्षस्ताम्रविषाणेक्षणो महा-
वक्त्रः ।
हंसो नाम शुभफलो यूथस्य विवर्द्धनः प्रोक्तः ॥
भूस्पृग्वालधिराताम्रवङ्क्षणो रक्तदृक् ककुद्मी च ।
कल्माषश्च स्वामिनमचिरात्कुरुते पतिं लक्ष्म्याः ॥
यो वासितैकचरणो यथेष्टवर्णश्च सोऽपि शस्त-
फलः ।
मिश्रफलोऽपि ग्राह्यो यदि नैकान्तप्रशस्ती-
ऽस्ति ॥” * ॥
गोरीङ्गितभेदेन शुभाशुभमुक्तं यथा, तत्रैव
९२ अध्याये, --
“गावो दीनाः पार्थिवस्याशिवाय
पादैर्भूमिं कुट्टयन्त्यश्च रोगान् ।
मृत्युं कुर्व्वन्त्यश्रुपूर्णायताक्ष्यः
पत्युर्भीतास्तस्करानारुवन्त्यः ॥
अकारणे क्रोशति चेदनर्थो
भयाय रात्रौ वृषभः शिवाय ।
भृशं निरुद्धा यदि मक्षिकाभि-
स्तदाशु वृष्टिं सरमात्मजैर्व्वा ॥
आगच्छन्त्यो वेश्म बम्भारवेण
संसेवन्त्यो गोष्ठवृद्ध्यै गवां गाः ।
आर्द्राङ्ग्यो वा हृष्टरोम्ण्यः प्रहृष्टा
धन्या गावः स्युर्महिष्योपि चैवम् ॥” * ॥)
गोर्मङ्गलत्वादि यथा, देवलः ।
“लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हताशनः ।
हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः ॥
एतानि सततं पश्येन्नमस्येदर्च्चयेच्च यः ।
प्रदक्षिणञ्च कुर्व्वीत तथा चायुर्न हीयते ॥”
अभिप्रेतार्थसिद्धिर्म्मङ्गलं तद्धेतुतया ब्राह्मणा-
द्यपि ॥ * ॥ गोप्रणामे ब्रह्मपुराणम् ।
“सदा गावः प्रणम्यास्तु मन्त्रेणानेन पार्थिव ! ।
नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ॥
नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः ।
मन्त्रस्य स्मरणादेव गोदानफलमाप्नुयात् ॥”
भविष्ये ।
“गामालभ्य नमस्कृत्य कृत्वा चैव प्रदक्षिणम् ।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥
गवामस्थि न लङ्घेत मृते गन्धेन वर्ज्जयेत् ।
यावदाध्राति तद्गन्धं तावद्गन्धेन युज्यते ॥”
विष्णुः ।
“गोमूत्रं गोमयं क्षीरं सर्पिर्दधि च रोचना ।
षडङ्गमेतन्मङ्गल्यं पवित्रं सर्व्वदा गवाम् ॥”
षडङ्गं षट्प्रकारम् । इति शुद्धितत्त्वम् ॥ * ॥
तन्मांसगुणाः । सुस्निग्धत्वम् । पित्तश्लेष्मविवर्द्धन-
त्वम् । बृंहणत्वम् । बलकारित्वम् । पीनसप्रदर-
नाशित्वञ्च । इति भावप्रकाशः ॥ अपूतत्वम् ।
गुरुत्वम् । वातकफापहत्वञ्च ॥ * ॥ तद्दग्धगुणाः ।
पथ्यत्वम् । अत्यन्तरुच्यत्वम् । स्वादुत्वम् । स्निग्ध-
त्वम् । पित्तवातामयनाशित्वम् । मेध्यत्वम् ।
कान्तिप्रज्ञाङ्गपुष्टिवीर्य्यवृद्धिकारित्वञ्च ॥ (यथा
च हारीते प्रथमस्थानेऽष्टमाध्याये ।
“गव्यं पवित्रञ्च रसायनञ्च
पथ्यञ्च हृद्यं बलपुष्टिदं स्यात् ।
आयुःप्रदं रक्तविकारपित्त-
त्रिदोषहृद्रोगविषापहं स्यात् ॥” * ॥)
तद्दधिगुणाः । अतिपवित्रत्वम् । शीतत्वम् ।
स्निग्धत्वम् । दीपनत्वम् । बलकारित्वम् । मधुर-
त्वम् । अरोचकवातामयनाशित्वम् । ग्राहित्वञ्च ॥
(यथा च हारीते प्रथमस्थानेऽष्टमेऽध्याये ।
“अम्लस्वादुरसं ग्राहि गुरूष्णं वातरोगजित् ।
मेदः-शुक्र-बल-श्लेष्म-रक्तपित्ताग्नि-शोफकृत् ॥
स्निग्धं विपाके मधुरं दीपनं बलवर्द्धनम् ।
वातापहं पवित्रञ्च दधि गव्यं गुणप्रदम् ॥” * ॥
तद्दग्धफेनगुणाः ।
“गवान्तु क्षीरफेनं वा तक्रेण सहितन्तथा ।
पक्वाम्रं भक्षयेद्वापि ग्रहणी तस्य नश्यति ॥”)
तन्नवनीतगुणाः । शीतत्वम् । वर्णबलशुक्रकफ-
रुचिसुखकान्तिपुष्टिकारित्वम् । सुमधुरत्वम् ।
संग्राहकत्वम् । चक्षुर्हितत्वम् । वातसर्व्वाङ्गशूल-
कासश्रमसर्व्वदोषनाशित्वञ्च ॥ * ॥
तद्घृतगुणाः । हृद्यत्वम् । धीकान्तिस्मृतिबल-
मेधापुष्ट्यग्निवृद्धिशुक्रवपुःस्थौल्यकारित्वम् । वात-
श्लेष्मश्रमपित्तनाशित्वम् । विपाके मधुरत्वम् ।
हव्यतमत्वम् । बहुगुणत्वञ्च ॥ (तथा च ।
“विपाके मधुरं वृष्यं वातपित्तकफापहम् ।
चक्षुष्यं बलकृन्मेध्यं गव्यं सर्पिर्गुणोत्तमम् ॥”
इति हारीते प्रथमस्थाने अष्टमेऽध्याये ॥ * ॥)
“गवां प्रत्यूषसि क्षीरं गुरु विष्टम्भि दुर्ज्जरम् ।
तस्मादभ्युदिते सूर्य्ये यामं यामार्द्धमेव वा ॥
समुत्तार्य्य पयो ग्राह्यं तत् पथ्यं दीपनं लघु ।
विवत्साबालवत्सानां पयो दोषसमीरितम् ॥
शस्तं वत्सैकवर्णाया धवलीकृष्णयोरपि ।
इक्ष्वादा मासपर्णादा ऊर्द्ध्वशृङ्गी च या भवेत् ॥
तासां गवां हितं क्षीरं शृतं वाशृतसेव वा ।
गवां सितानां वातर्घ्न कृष्णानां पित्तनाशनम् ।
श्लेष्मघ्नं रक्तवर्णानां त्रीन् हन्ति कपिलापयः ॥”
इति राजनिर्घण्टः ॥

गौः, [गो] पुं, (गम्यते कर्म्मिभिः यज्ञदान-

परोपकारादिधर्म्ममूलककर्म्मफलैर्यस्मिन् । गम्
+ “गमेर्डोः ।” उणां । २ । ६३ । इति अधि-
करणे डोः ।) स्वर्गः । (गम्यन्ते ज्ञायन्ते
विषया येन यद्वा गच्छति शीघ्रमिति करणे
कर्त्तरि वा डोः । किरणसम्पर्केण विना चाक्षुष-
ज्ञानाभावात् किरणस्य ज्ञानप्रकाशधर्म्मवत्त्वात्
शीघ्रगामित्वाच्च तथात्वम् ।) रश्मिः । (यथा,
महाभारते । ३ । ३ । ५२ ।
“त्रयोदशद्वीपवतीं गोभिर्भासयसे महीम् ।
त्रयाणामपि लोकानां हितायैकः प्रवर्त्तसे ॥” * ॥)
वज्रः । इति मेदिनी । गे । १ ॥ (गम्वते पुण्यवद्भि-
र्यस्मिन् । अधिकरणे डोः । इष्ट्यापूर्त्तादिसकाम-
कर्म्मभिः पुण्यवताञ्चन्द्रलोकगमनात् तथा-
त्वम् ।) चन्द्रः । इति विश्वः ॥ (गच्छति प्राप्नोति
विश्वं प्रकाशकात्मकेन स्वतेजसेति जानाति
सर्व्वमिति वा । कर्त्तरि डोः ।) सूर्य्यः । गोमेध-
यज्ञः । इत्यमरटीकायां भानुदीक्षितः ॥ ऋषभ-
नामौषधम् । इति राजनिर्घण्टः ॥

गौः, [गो] स्त्री, (गम्यते विषयज्ञानं यया । गम्

+ “गमेर्डोः ।” उणां । २ । ६३ । इति करणे
डोः ।) चक्षुः । (गच्छति शीघ्रमिति कर्त्तरि
डोः ।) बाणः । दिक् । (गम्यते ज्ञायते चित्ताभि-
प्रायो यया । करणे डोः ।) वाक । (यथा,
रघुः । ५ । १२ ।
“इत्यध्यपात्रानुमितव्ययस्य
रघोरुदारामपि गां निशम्य ॥” * ॥
गम्यते व्रज्यतेऽस्यामिति । अधिकरणे डोः ।)
भूः । (यथा, रघुः । १ । २६ ।
“दुदोह गां स यज्ञाय शस्याय मघवा दिवम् ।
सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥” * ॥
जले बहुवचनान्तोऽयम् । इति मेदिनी । गे । १ ॥
जले एकवचनान्तोऽपि इति केचित् । इति
भरतः ॥ (यथा, वृन्दावनयमके । २ ।
“स्वमिव भुजं गवि शेषं
व्युपधाय स्वपिति यो भुजङ्गविशेषम् ।
नव पुष्करसमकरया
श्रीयोर्म्मिपंक्त्या च सेवितः समकरया ॥”)
माता । इत्येकाक्षरकोषः ॥ (स्वनामख्याता
शुकदौहित्रस्य ब्रह्मदत्तस्य भार्य्या । यथा, भाग-
वते । ९ । २१ । २५ ।
“स कीर्त्त्यां शुककन्यायां ब्रह्मदत्तमजीजनत् ।
स योगी गवि भार्य्यायां विष्वक्सेनमधात् सुतम् ॥”
“गवि सरस्वत्यां भार्य्यायाम् ॥” इति कश्चित्
व्याचष्टे ॥)
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/गोडः&oldid=43947" इत्यस्माद् प्रतिप्राप्तम्