शब्दकल्पद्रुमः/गन्धजातं

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २/३०२

गन्धजातं, क्ली, (गन्धेन सह जातं उत्पन्नम् ।)

तेजपत्रम् । इति शब्दरत्नावली ॥

गन्धज्ञा, स्त्री, (गन्धः इष्टानिष्ठगन्धः ज्ञायते

ऽनया इति । ज्ञा + करणे कः ततष्टाप् ।)
नासिका । इति हेमचन्द्रः । ३ । २४४ ॥

गन्धतूर्य्यं, क्ली, (गन्धे विनष्टयोद्धॄणां शोणितवसादि-

गन्धयुक्तहिंसाप्रधानस्थाने रणक्षेत्रे इत्यर्थः ।
आहन्यमानं स्थितं वा यत् तूर्य्यम् ।) वाद्य-
विशेषः । तत्पर्य्यायः । रणतूर्य्यम् २ महास्वनः ३ ।
इति शब्दरत्नावली ॥

गन्धतृणं, क्ली, (गन्धं सुगन्धान्वितं तृणम् ।)

सुगन्धतृणम् । तत्पर्य्यायः । सुगन्धभूतृणम् २
सुरसः सुरभिः सुगन्धिः ५ मुखवासः ६ । अस्य
गुणाः । सुगन्धित्वम् । ईषत्तिक्तत्वम् । रसा-
यनत्वम् । स्निग्धत्वम् । मधुरत्वम् । शीतलत्वम् ।
कफपित्तश्रमनाशित्वञ्च । इति राजनिर्घण्टः ॥

गन्धत्वक्, क्ली, (गन्धयुक्ता गन्धप्रधाना वा त्वगस्य ।)

एलवालुकम् । इति राजनिर्घण्टः ॥

गन्धदला, स्त्री, (गन्धयुक्तं दलं पत्रमस्याः ।)

अजमोदा । इति राजनिर्घण्टः ॥

गन्धधूमजः, पुं, (गन्धाढ्यात् धूमात् जायते उत्-

पद्यते इति । जन् + डः ।) स्वादुनामगन्धद्रव्यम् ।
इति राजनिर्घण्टः ॥

गन्धधूलिः, स्त्री, (गन्धप्रकाशकः धूलिः अणु-

श्चूण वा अस्याः ।) कस्तूरी । इति हेमचन्द्रः ।

गन्धनं, क्ली, (गन्ध गतिहिंसायाचनेषु + भावे

ल्युट् ।) उत्साहः । प्रकाशनम् । सूचनम् ।
हिंसा । इति मेदिनी ॥ ने । ५७ ॥

गन्धनकुलः, पुं, (गन्धः दुर्गन्धप्रधानो नकुल इव ।)

छच्छुन्दरी । इति हारावली ॥ ८३ ॥ छुँछा
इति भाषा ॥

गन्धनाकुली, स्त्री, (गन्धयुक्ता नाकुली रास्ना ।)

रास्ना । इत्यमरः । २ । ४ । ११४ ॥ कन्दविशेषः । तत्-
पर्य्यायः । महासुगन्धा २ सुवहा ३ सर्पाक्षी ४
फणिहन्त्री ५ नकुलाढ्या ६ अहिभुक् ७ विष-
मर्द्दनिका ८ अहिमर्द्दनी ९ विषमर्द्दनी १०
महाहिगन्धा ११ अहिलता १२ । अस्या
गुणाः । तिक्तत्वम् । कटुत्वम् । उष्णत्वम् । त्रि-
दोषानेकविषनाशित्वम् । नाकुल्याः किञ्चित् श्रेष्ठ-
इति राजनिर्घण्टः ॥ तत्पर्य्यायगुणाः ।
“नाकुली सुरसा रास्ना सुगन्धा गब्धनाकुली ।
नकुलेष्टा भुजङ्गाक्षी सर्पाङ्गी विषनाशिनी ॥
माकुली तुवरा तिक्ता कटुकोष्णा विनाशयेत् ।
भोगिलूतावृश्चिकाखुविषज्वरक्रिमिव्रणान् ॥”
इति भावप्रकाशः ॥
(“रास्ना मुक्तरसा मुक्ता श्रेयसी सुवहा सहा ।
सुगन्धा सर्व्वगन्धान्या नाकुली गन्धनाकुली ॥”
इति वैद्यकरत्नमालायाम् ॥)

गन्धनामा, [न्] पुं, (गन्धेति पदपूर्ब्बं नामास्य ।)

रक्ततुलसी । इति रत्नमाला ॥

गन्धनाम्नी, स्त्री, (गन्धनामन् + संज्ञायां ङीष् जातौ

नान्तत्वाद् ङीप् वा ।) क्षुद्ररोगविशेषः ।
तल्लक्षणम् । यथा, --
“बाहुकक्षांसपार्श्वेषु कृष्णस्फोटां सवेदनाम् ।
पित्तप्रकोपसम्भूतां कक्षामिति विनिर्द्दिशेत् ॥
एकान्तु तादृशीं दृष्ट्वा पिडकां स्फोटसन्निभाम् ।
त्वग्जातां पित्तकोपेन गन्धनाम्नीं प्रचक्षते ॥”
तादृशीं बाह्वादिषु कृष्णां सवेदनाञ्च ॥ * ॥
तच्चिकित्सा यथा, --
“कक्षाञ्च गन्धनाम्नीञ्च चिकित्सति चिकित्सकः ।
पैत्तिकस्य विसर्पस्य क्रियया पूर्ब्बमुक्तया ॥”
इति भावप्रकाशः ॥

गन्धनाली, स्त्री, (गन्धाय गन्धज्ञानार्थं नाली प्रणा-

लींव । गन्धग्रहणार्थं नालीव वा ।) नासिका ।
इति त्रिकाण्डशेषः ॥

गन्धनिलया, स्त्री, (गन्धस्य इष्टानिष्टघ्राणस्य

निलया आश्रयीभूता । गन्धस्य निलयोऽत्र वा
स्त्रियां टाप् ।) नवमल्लिका । इति शब्द-
चन्द्रिका ॥

गन्धनिशा, स्त्री, (गन्धात् गन्धहेतोर्गन्धेन वा

निशा हरिद्रेव ।) गन्धपत्रा । इति राजनिर्घण्टः ॥

गन्धपत्रः, पुं, (गन्धवत् पत्रमस्य ।) श्वेततुलसी ।

इति रत्नमाला ॥ मरुवः । वर्व्वरः । नारङ्गः ।
बिल्वः । इति राजनिर्घण्टः ॥

गन्धपत्रा, स्त्री, (गन्धाढ्यं पत्रमस्याः ।) शटीभेदः ।

पलाश इति मालवे प्रसिद्धा । तत्पर्य्यायः ।
स्थूला २ तिक्तकन्दिका ३ वनजा ४ शटिका ५
वन्या ६ तवक्षीरी ७ एकपत्रिका ८ गन्धपीता ९
पलाशान्ता १० गन्धाढ्या ११ गन्धपत्रिका १२
दीर्घपत्रा १३ गन्धनिशा १४ वेदमुख्या १५
सुपाकिनी १६ । अस्या गुणाः । कटुत्वम् ।
स्वादुत्वम् । तीक्ष्णत्वम् । उष्णत्वम् । कफवात-
कासच्छर्द्दिज्वरनाशित्वम् । पित्तकोपंकारित्वञ्च ।
इति राजनिर्घण्टः ॥

गन्धपत्रिका, स्त्री, (गन्धपत्रा + संज्ञायां कन् अत

इत्वञ्च ।) गन्धपत्रा । अजमोदा । इति राज-
निर्घण्टः ॥ (विवरणमस्या गन्धपत्राशब्दे ज्ञात-
व्यम् ॥)

गन्धपत्री, स्त्री, (गन्धपत्र + गौरादित्वात् ङीष् ।)

अम्बष्ठा । अश्वगन्धा । अजमोदा । इति राज-
निर्घण्टः ॥

गन्धपलाशिका, स्त्री, (गन्धाढ्यं पलाशं पत्रमस्याः

ङीष् । संज्ञायां कन् टाप् पूर्ब्बह्रस्वश्च । कप्
टाप् अत इत्वञ्च इत्येके ।) हरिद्रा । इति
हारावली । ९३ ॥

गन्धपलाशी, स्त्री, (गन्धाढ्यां पलाशं पत्रमस्याः ।

गौरादित्वात् ङीष् ।) शटी । इति भाव-
प्रकाशः ॥ (यथाह शब्दार्थचिन्तामणिः ।
“भवेद् गन्धपलाशी तु कषाया ग्राहिणी लघुः ।
तिक्ता तीक्ष्णा च कटुकाऽनुष्णास्यमलनाशिनी ।
दोषकासव्रणश्वासशूलहिक्काग्रहापहा ॥”)

गन्धपाषाणः, पुं, (गन्धयुक्तः पाषाणः । पाषाण-

स्येव काठिन्यात् तथात्वम् ।) गन्धकः । इति
जटाधरः ॥ (यथास्य पर्य्यायाः ।
“गन्धको गन्धिकश्चापि गन्धपाषाण इत्यपि ।
सौगन्धिकश्च कथितो बलिर्बलरसापि च ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
यत्रास्य व्यवहारस्तद्यथा, --
“गन्धपाषाणचूर्णेन यवक्षारेण लेपितम् ।
सिष्मनाशं व्रजत्याशु कटुतैलयुतेन तु ॥”
इति वैद्यकचक्रपाणिसंग्रहे कुष्ठरोगाधिकारे ॥)

गन्धपिशाचिका, स्त्री, (गन्धेन पिशाचिका इव ।

पिशाचिका तामसप्रकृतिरूपदेवभेदः तस्या
इव गन्धत्वात् तथात्वम् । नैवास्या सर्व्वाङ्गीनत्वोप-
मानम् । किन्तु गन्धमात्रग्रहणादेकदेशेनैव
सादृश्यमिति बोध्यम् ।) धूपः । इति हेम-
चन्द्रः । ३ । ३१३ ॥

गन्धपीता, स्त्री, (गन्धाढ्यं पीतं पीतवर्णञ्च पत्र-

मस्याः ।) गन्धपत्रा । इति राजनिर्घण्टः ॥

गन्धपुष्पः, पुं, (गन्धसमन्वितं पुष्पमस्य ।) वेतस-

वृक्षः । इति शब्दरत्नावली ॥ अङ्कोठवृक्षः ।
इति जटाधरः ॥ बहुवारवृक्षः । इति राज-
निर्घण्टः ॥

गन्धपुष्पा, स्त्री, (गन्धाढ्यं पुष्पमस्याः ।) नीली ।

केतकी । गणिकारी । इति राजनिर्घण्टः ॥

गन्धफणिज्झकः, पुं, (गन्धसारः गन्धप्र धानो वा

फणिज्झकः ।) रक्ततुलसी । इति रत्नमाला ॥

गन्धफलः, पुं, (गन्धाढ्यं फलमस्य ।) कपित्थः ।

विल्वः । तेजःफलवृक्षः । इति राजनिर्घण्टः ॥

गन्धफला, स्त्री, (गन्धेन युक्तं फलमस्याः ।) प्रियङ्गु-

वृक्षः । इति शब्दरत्नावली ॥ मेथिका ।
विदारी । शल्लकी । इति राजनिर्घण्टः ॥

गन्धफली, स्त्री, (गन्धेन फलते विदीर्य्यते आत्म-

नेति शेषः । गन्ध + फल विदारे + कर्म्मण्यप् ततो
गौरादित्वात् ङीष् ।) चम्पककलिका । (यथा,
भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“चाम्पेयश्चम्यकः प्रोक्तो हेमपुष्पश्च स स्मृतः ।
एतस्य कलिका गन्धफलीति कथिता बुधैः ॥”)
प्रियङ्गुवृक्षः । इत्यमरः । २ । ४ । ५६ ॥

गन्धबधूः, स्त्री, (गन्धेन बध्नाति सन्निकृष्टजनानाञ्चित्त-

मिति । बन्ध + उः न लोपे वा ङूप् । गन्धस्य
बधरिव वा ।) शटी । चीडानामगन्धद्रव्यम् ।
इति राजनिर्घण्टः ॥

गन्धबन्धुः, पु, (गन्धेन बध्यते इति गन्धं बध्नाति

इति वा । बन्ध + उन् । यद्वा, गन्धस्य वन्धुरिव ।
बन्धोरिव चिरसहचरत्वादस्य तथात्वम् ।)
आम्रवृक्षः । इति शब्दरत्नावली ॥

गन्धबहलः, पुं, (गन्धः बहलः बहुलोऽस्य ।)

सितार्जकः । इति राजनिर्घण्टः ॥

गन्धबहुला, स्त्री, (गन्धबहुल + टाप् ।) गोरक्षी-

वृक्षः । इति राजनिर्घण्टः ॥

गन्धबीजा, स्त्री, (गन्धः बीजेऽस्याः ।) मेथिका ।

इति राजनिर्घण्टः ॥ (मेथिकाशब्देऽस्या गुणा
ज्ञेयाः ॥)

गन्धभद्रा, स्त्री, (गन्धः भद्रोऽस्याः गन्धेन भद्रा

वा । एतया युक्तस्य व्यञ्जनयूषस्य गन्धमात्रग्रहणे-
पृष्ठ २/३०३
नैव रुग्नस्य मङ्गलं भवतीति भावः ।) लता-
विशेषः । गन्धभादालिया इति भाषा ॥ इति
शब्दचन्द्रिका ॥ (गुण-पर्य्यायावस्याः प्रसारणी-
शब्दे ज्ञातव्यौ ॥)

गन्धभाण्डः, पुं, (गन्धस्य भाण्डमिव ।) गर्द्दभाण्ड-

वृक्षः । इति शब्दरत्नावली ॥ (पर्य्यायोऽस्य यथा,
“नन्दिवृक्षस्तांम्रपाकी फलपाकी च पीतकः ।
गन्धभाण्डो गन्धमुण्डो द्वितीयः क्षिप्रपाक्यसौ ॥”
इति वैद्यकरत्नमाला ॥)

गन्धमांसी, स्त्री (गन्धसारा मांसी ।) जटामांसी-

भेदः । तत्पर्य्यायः । केशी २ भूतजटा ३
पिशाची ४ पूतना ५ भूतकेशी ६ लोमशा ७
जटाला ८ लघुमांसी ९ । अस्या गुणाः । तिक्त-
त्वम् । शीतत्वम् । कफकण्ठामयरक्तपित्तविष-
भूतज्वरनाशित्वम् । वर्ण्यत्वञ्च । इति राज-
निर्घण्टः ॥ (जटामांसीशब्देऽस्या विवृति-
र्बोद्धव्या ॥)

गन्धमाता, स्त्री, (गन्धस्य मातेव । गन्धगुणप्राघान्यात्

तथात्वम् । यथा, मनौ । १ । ७८ ।
“ज्योतिषश्च विकुर्व्वाणादापो रसगुणाः स्मृताः ।
अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः ॥”)
पृथिवी । इति हेमचन्द्रः । ४ । २ ॥

गन्धमादनं, क्ली पुं, (गन्धैः आत्मोपरिसञ्जातौषधी-

विशेषसौरभैः मादयति सन्निहितस्थानिति ।
मद् + णिच् + कर्त्तरि ल्युः । माद्यतेऽनेन इति
णिच् ल्युट् वा ।) पर्व्वतविशेषः । इत्यमरः ।
२ । ३ । ३ ॥ अयं इलावृतभद्राश्ववर्षयोः सीमा-
पर्व्वतः । अस्य विस्तारः नीलनिषधपर्व्वत-
पर्य्यन्तः । इति श्रीभागवतम् ॥ (तथा च महा-
भारते । २ । १० । ३० ।
“मलयो दर्द्द रश्चैव महेन्द्रो गन्धमादनः ।
इन्द्रकीलः सुनाभश्च तथा दिव्यौ च पर्व्वतौ ॥”
अस्य गिरेरधिष्टातृदेवोऽपि एतन्नाम्ना विश्रुतः ।
यथा, तत्रैवाध्याये । २८ श्लोके ।
“द्रुमः किम्पुरषेशश्च उपास्ते धनदेश्वरम् ।
राक्षसाधिपतिश्चैव महेन्द्रो गन्धमादनः ॥”
अयमेव पर्व्वतो भगवत्याः पीठस्थानविशेषः ।
यथा, देवीभागवते । ७ । ३० । ५६ ।
“प्रयागे ललिता प्रोंक्ता कामुकी गन्धमादने ॥”)

गन्धमादनः, पुं, (गन्धेन पुष्पसौरभेण मादयत्या-

त्मानमिति । गन्ध + मद् + णिच् + ल्युः । यद्वा
गन्धेन माद्यति इति । मद् + स्वार्थे णिच् + ल्युः ।)
भ्रमरः । वानरविशेषः । (यथा, रामायणे ४ ।
२५ । ३३ ।
“गयो गवाक्षो गवयः शरभो गन्धमादनः ।
मैन्दश्च द्विविदश्चैव हनूमान् जाम्बवांस्तथा ॥”)
गन्धकः । इति मेदिनी ॥ ने । २३४ ॥

गन्धमादनी, स्त्री, (गन्धेन माद्यतेऽनया । मद् +

णिच् + करणे ल्युट् ततो ङीप् ।) मदिरा । इति
त्रिकाण्डशेषः ॥ बन्दाकः । चीडानामगन्धद्रव्यम् ।
इति राजनिर्घण्टः ॥

गन्धमादनी, स्त्री, (गन्धेन मादयतीति । मद् +

णिच् + णिनिः ।) लाक्षा । पुरानामगन्धद्रव्यम् ।
इति राजनिर्घण्टः ॥

गन्धमार्ज्जारः, पुं, (गन्धेन गात्रगन्धेन युक्तः गन्ध-

प्रधानो वा मार्ज्जारः ।) खट्टासः । इति जटा-
धरः ॥

गन्धमालती, स्त्री, (गन्धेन मालती इव ।) गन्ध-

द्रव्यविशेषः । सा तु गुणैर्गन्धकोकिलातुल्या ।
(यथा, भावप्रकाशे ।
“गन्धकोकिलया तुल्या विज्ञेया गन्धमालती ॥”)

गन्धमालिनी, स्त्री, (गन्धानां गन्धस्य वा माला समूहः

अस्त्यस्यामस्या वा इति । अस्त्यर्थे इनिः ततो
ङीप् ।) मुरानामगन्धद्रव्यम् । इति जटाधरः ॥

गन्धमुण्डः, पुं, (गन्धं अपरगन्धं मुण्डयति मर्द्दयति

स्वगन्धेनेति शेषः । मुडि मर्द्दने + णिच् + अण् ।
यद्वा गन्धेन स्वगन्धेन अन्यं दुष्टगन्धं मार्ष्टि
शोधयतीति । मुडि शोधने + णिच् + अच् ।)
लताविशेषः । गन्धभादालिया इति भाषा ।
तत्पर्य्यायः । नन्दीवृक्षः १ ताम्रपाकी ३ फल-
पाकी ४ पीतकः ५ गर्द्दभाण्डः ६ क्षिप्रपाकी ७ ।
इति वैद्यकम् ॥

गन्धमूलः, पुं, (गन्धसारं मूलमस्य ।) कुलञ्जन-

वृक्षः । इति राजनिर्घण्टः ॥

गन्धमूलकः, पुं, (गन्धमूल + संज्ञायां कन् ।) शटी ।

इति शब्दरत्नावली ॥

गन्धमूला, स्त्री, (गन्धसारं गन्धप्रधानं वा मूल-

मस्याः ।) शल्लकी । शटी । इति राजनिर्घण्टः ॥

गन्धमूलिका, स्त्री, (गन्धमूली + संज्ञायां कन् ।

पूर्ब्बह्रखः । यद्वा गन्धप्रधानं मूलमस्य इति कप्
ततष्टाप् कापि अत इत्वम् ।) माकन्दी । शटी ।
इति राजनिर्घण्टः ॥

गन्धमूली, स्त्री, (गन्धमूल + स्त्रियां ङीष् ।) शटी ।

इत्यमरः । २ । ४ । १४५ ॥

गन्धमूषिकः, पुं स्त्री, (गन्धप्रधानो मूषिकः ।)

छुछुन्दरी । इति त्रिकाण्डशेषः ॥

गन्धमूषी, स्त्री, (गन्धा दुर्गन्धप्रधाना मूषी ।)

छुछुन्दरी । इति हेमचन्द्रः । ४ । ३६८ ॥

गन्धमृगः, पुं, (गन्धाढ्यः गन्धेन युक्तो वा मृगः ।)

खट्टासः । इति शब्दमाला ॥ (खट्टाशशब्देऽस्य
गुणादयो व्याख्याताः ॥)

गन्धमैथुनः, पुं, (गन्धेन वासिताया ऋतुमत्या

गोर्योनिघ्राणेन मैथुनोद्योगः स्पृ हा वा यस्य ।)
वृषः । इति जटाधरः ॥

गन्धमोदनः, पुं, (गन्धेन आत्मोद्भवगन्धेन मोद-

यतीति । मुद् + णिच् + ल्युः ।) गन्धकः । इति
राजनिर्घण्टः ॥

गन्धमोहिनी, स्त्री, (गन्धेन स्वावयवस्थगन्धेनेत्यर्थः

मोहयति सन्निकर्षस्थानिति । मुह् + णिच् +
णिनिः ङीप् च ।) चम्पककली । इति राज-
निर्धण्टः ॥

गन्धरसः, पुं, (गन्धाढ्यः गन्धान्वितो वा रसोऽस्य ।)

उपधातुविशेषः । फुलसत्व इति ख्यातः । तत्-
पर्य्यायः । वोलः २ प्राणः ३ पिण्डः ४ गोपः ५
रसः ६ । इत्यमरः । २ । ९ । १०४ ॥ रस-
गन्धः ७ गोसः ८ पिण्डगोसः ९ शशः १० गोस-
शशः ११ । इति तट्टीका ॥ गान्धारम् १२ मसि-
वर्द्धनम् १३ । इति त्रिकाण्डशेषः ॥ गोपरसः १४
वोलजः १५ गोपकः १६ । इति शब्दरत्नावली ॥
(यथा, महाभारते । ५ । २७ । ११ ।
“न्यायोपेतं ब्राह्मणेभ्यो यदन्नं
श्रद्धापूतं गन्धरसोपपन्नम् ॥”)

गन्धरसाङ्गकः, पुं (गन्धरसो अङ्गेयस्य इति कप् ।)

श्रीवेष्टनामसुगन्धिद्रव्यम् । इति राजनिर्घण्टः ॥

गन्धराजं, क्ली, (गन्धेन राजते इति । राज् +

अच् ।) चन्दनम् । जवादिनामगन्धद्रव्यम् । इति
राजनिर्घण्टः ॥ स्वनामख्यातशुक्लवर्णपुष्पञ्च ॥

गन्धराजः, पुं, (गन्धानां गन्धसाराणां राजा ।

“राजाहसखिभ्यष्टच् ।” ५ । ४ । ९१ । इति
टच ।) मुद्गरवृक्षः । कणगुग्गुलुः । इति राज-
निर्घण्टः ॥ स्वनामख्यातपुष्पवृक्षः । तस्य पत्रं
पनसवृक्षस्य क्षुद्रदलवत् । पुष्पञ्च सुगन्धिश्वेतवर्णं
उपर्य्यधोद्वादशदलं षट्केशरमध्यं भवति वसन्त-
वर्षाकाले प्रस्फुटति च । तस्य शाखारोपणे वृक्षो
जायते । इति लोकप्रसिद्धम् ॥ गन्धश्रेष्ठश्च ॥

गन्धराजी, स्त्री, (गन्धराज + स्त्रियां ङीप् ।) नखी-

नामगन्धद्रव्यम् । इति शब्दचन्द्रिका ॥

गन्धर्व्वः, पुं, (गन्धं सङ्गीतवाद्यादिजनितप्रमोदं

अर्व्वति प्राप्नोतीति । अर्व्व गतौ + अण् ।
शकन्ध्वादित्वात् अलोपे साधुः ।) स्वर्गगायकः ।
स तु देवयोनिः । तत्पर्य्यायः । गातुः २ दिव्य-
गायनः ३ । तद्भेदा यथा, --
“हाहा हूहूश्चित्ररथो हंसो विश्वावसुस्तथा ।
गोमायुस्तुम्वुरुर्नन्दिरेवमाद्याश्च ते स्मृताः ॥”
इति जटाधरः ॥ * ॥
तस्य एकादश गणा यथा, --
“अभ्राजोऽङ्घारिवम्भारी सूर्य्यवर्च्चास्तथा कृधुः ।
हस्तः सुहस्तः स्वाञ्चेव मूर्द्धन्वांश्च महामनाः ।
विश्वावसुः कृशानुश्च गन्धर्व्वैकादशा गणाः ॥”
इति वह्निपुराणे गणभेदनामाध्यायः ॥
(असौ देवमर्त्यभेदेन गानधर्म्मिगन्धर्व्वोऽपि
द्विविधः । यथाह शब्दार्थचिन्तामणिः ।
“अस्मिन् कल्पे मनुष्यः सन् पुण्यपाकविशेषतः ।
गन्धर्व्वत्वं समापन्नो मर्त्यगन्धर्व्व उच्यते ॥
पूर्ब्बकल्पकृतात् पुण्यात् कल्पादावेव चेद् भवेत् ।
गन्धर्व्वत्वं तादृशोऽत्र देवगन्धर्व्व उच्यते ॥”
तत्र दिव्यगन्धर्व्वो यथा, ऋग्वेदे । १० । १३९ । ५ ।
“विश्वावसुरभि तन्नो गृणातु
दिव्यो गन्धर्व्वो रजसो विमानः ॥”
तथाच महाभारते । ३ । १६१ । २६ ।
“स तमास्थाय भगवान् राजराजो महारथम् ।
प्रययौ देवगन्धर्व्वैः स्तूयमानो महाद्युतिः ॥”
मर्त्यगन्धर्व्वः । यथा, रामायणे । १ । ४ । ११ ।
“भ्रातरौ स्वरसम्पन्नौ गन्धर्व्वाविव रूपिणौ ॥”)
गुह्यकलोकोपरि विद्याधरलोकस्याधो गन्धर्व्व-
लोकः । यथा, --
पृष्ठ २/३०४
“ततो विलोकयामास लोकं लोचनशर्म्मदम् ।
शिवशर्म्मा ततः प्राह तुष्टस्तौ विष्णुपार्षदौ ॥
केऽमी जनास्त्वसौ लोकः किन्नाम वदताङ्गणौ ॥
गणावूचतुः ।
गान्धर्व्वस्त्वेष लोकोऽमी गन्धर्व्वाश्च शुभव्रताः ।
देवानां गायना ह्येते चारणाः स्तुतिपाठकाः ॥
गीतज्ञा अतिगीतेन तोषयन्ति नराधिपान् ।
स्तुवन्ति च धनाढ्यांश्च धनलोभेन मोहिताः ॥
राज्ञां प्रसादलब्धानि सुवासांसि धनानि च ।
द्रव्याण्यपि सुगन्धीनि कर्पूरादीन्यनेकशः ॥
ब्राह्मणेभ्यः प्रयच्छन्ति गीतं गायन्त्य हर्निशम् ।
स्तुतावेव मनस्तेषां नाट्यशास्त्रकृतश्रमाः ॥
तेन पुण्ये न गान्धर्व्वो लोकस्त्वेषां विधीयते ।
ब्राह्मणास्तोषिता यद्वै गीतविद्यार्जितैर्धनैः ॥
गीतविद्याप्रभावेण देवर्षिर्नारदो महान् ।
मान्यो वैष्णवलोके वै श्रीशम्भोश्चातिवल्लभः ॥
तुम्वुरुर्नारदश्चोभौ देवानामपि दुर्ल्लभौ ।
नादरूपी शिवः साक्षात् नादतत्त्वविदौ हि तौ ॥
यदि गीतं क्वचिद्गीतं श्रीमद्धरिहरात्मकम् ।
मोक्षन्तु तत्फलं प्राहुः सान्निध्यमथवा तयोः ॥
गीतज्ञो यदि गीतेन नाप्नोति परमं पदम् ।
रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥
अस्मिँल्लोके सदा कालं स्मृतिरेषा प्रगीयते ।
तद्गीतमालया पूज्यौ देवौ हरिहरौ सदा ॥
इति शृण्वन् क्षणात् प्राप पुनरन्यं मनोहरम् ।
शिवशर्म्माथ पप्रच्छ किंसंज्ञं नगरन्त्विदम् ॥”
इति काशीखण्डम् ॥ * ॥
घोटकः । (यथा, महाभारते । ३ । १६१ । २३ ।
“रथं संयोजयामासुर्गन्धर्व्वैहेममालिभिः ॥”)
पशुजातिविशेषः । स तु कस्तूरीमृगः । अन्तरा-
भवसत्वः । इत्यमरः । ३ । ३ । १३२ ॥ “अन्तरा-
भवसत्वस्तु जन्ममरणयोर्मध्यभवः प्राणी यो मृतो
नैव कायान्तरं प्राप्तः नापि जन्म स मरण-
जन्मनोरन्तरा भवत्वादन्तराभवसत्वः स च
यातनाशरीरः इत्येके इति मुकुटः । गुप्त-
प्राणीति केचित् गन्धर्व्वाः पतयो मम इति
विराटे इति रमानाथः ।” इत्यमरटीकायां
भरतः ॥ (यथा, महाभारते । ४ । ८ । ३४ ।
“न चाप्यहं चालयितुं शक्या केनचिदङ्गने ! ।
दुःखशीला हि गन्धर्व्वास्ते च मे बलवत् प्रियाः ।
प्रच्छन्नाश्चापि रक्षन्ति ते मां नित्यं शुचिस्मिते ! ॥”)
पुंस्कोकिलः । गायनमात्रम् । इति मेदिनी । वे ।
११ ॥ (शिवः । यथा, महाभारते । १३ । १७ । ९७ ।
“गन्धर्व्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ॥”
ग्रहविशेषः । यथा, सुश्रुते ।
“देवास्तथा शत्रुगणाश्च तेषां
गन्धर्व्वयक्षाः पितरो भुजङ्गाः ।
रक्षांसि या चापि पिशाचजाति-
रेषोऽष्टधा देवगणो ग्रहाख्यः ॥”
एतैर्ग्रहैर्ग्रस्तस्य मनुष्यस्य लक्षणं यथा तत्रैव ।
“हृष्टात्मा पुलिनवनान्तरोपसेवी
स्वाचारः प्रियपरिगीतगन्धमाल्यः ।
नृत्यन् वा प्रहसति चारुचाल्पशब्दं
गन्धर्व्वग्रहपरिपीडितो मनुध्यः ॥”
अस्योदाहरणं श्रुतावपि यथा, बृहदारण्यके
७ म ब्राह्मणे जनकगोदानप्रकरणे ।
“मद्रेषु चरकाः पर्य्यव्रजाम ते पतञ्जलस्य काप्यस्य
गृहानैम तस्यासीद्दुहिता गन्धर्व्वगृहीता ॥”
“मद्रेषु मद्रानाम जनपदास्तेषु चरकाः अध्यय-
नार्थे व्रतचरणात् चरका अध्यर्य्यवो वा पर्य्य-
व्रजाम पर्य्यटितवन्तः । ते वयं पर्य्यटन्तः पत-
ञ्जलस्य नामतः काप्यस्य कपिगोत्रस्य गृहानैम
गतवन्तः । तस्यासीद्दुहिता गन्धर्व्वगृहीता ।
गन्धर्व्वेण अमानुषेण सत्वेन केनचिदाविष्टा ॥” * ॥
गाः रश्मीन् वृषणोपयोगीनि वारीणि वा धार-
यति इति । गो + धृ + वः गोर्गमादेशश्च भाष्यं-
कृद्भिर्भगवन्माधवाचार्य्यपादैरित्येवं व्युत्पत्तिकृते
सोमः । रश्मिमात्रधारकः । उदकधारकसूर्य्यां-
शादित्यविशेषः सूर्य्यश्च एते सर्व्वे एव बोधिता
इत्यर्थः । एतेषां क्रमात्वयेनोदाहरणम् । यथा,
ऋग्वेदे । १ । १६३ । २ ।
“गन्धर्व्वो अस्य रशना मगृभ्नात् सूरादश्वं
वसवो नितरष्ट ॥” “गन्धर्व्वः सोमः ।” इति
भाष्यम् । तत्रैव । ९ । ५८६ । १२ । “ऊर्द्ध्वो
गन्धर्व्वो अधिनाके अस्थात् विश्वारूपा प्रति-
चक्षाणो अस्य ॥” “गन्धर्व्वो रश्मीनां धारकः ।”
इति भाष्यम् । तत्रैव वेदे । ९ । ८३ । ४ । “गन्धर्व्व
इत्था पदमस्य रक्षति पाति देवानां जनि-
मान्यद्भुतः ।” “गन्धर्व्वः उदकानां स्तुतीनां वा
धारक आदित्यः ।” इति भाष्यम् । तत्रैव ।
८ । १ । ११ । “वहत् कुत्समार्ज्जुनेयं शतक्रतुः त्स-
रद्गन्धर्व्वमस्तृतम् ।” “गन्धर्व्वः गवां रश्मीनां
धर्त्तारं सूर्य्यम् । इति भाष्यम् ॥” अहः दिवस-
समूह इत्यर्थः । यथा, भागवते । ४ । २९ । २१ ।
“तस्याहानीह गन्धर्व्वा गन्धर्व्व्यो रात्रयः स्मृताः ।”
राज्ञां स्तुतिपाठकः । यथा, भागवते । १ । ११ । २० ।
“नटनर्त्तकगन्धर्व्वाः सूतमागधवन्दिनः ।
गायन्ति चोत्तमश्लोकचरितान्यद्भुतानि च ॥”
अनूढानां बालास्त्रीणां भर्त्तृभोगात् प्रागेव
प्रथमव्यञ्जद्यौवनोपभोक्तृरूपशरीराधिष्ठातृदेव-
विशेषः । यथा, ऋग्वेदे । १० । ८५ । ४० ।
“सोमः प्रथमो विविदे गन्धर्व्वो विविद उत्तरः ।
तृतीयो अग्निष्टे पतिस्तुरीषस्ते मनुष्यजाः ॥”
तथाच पञ्चतन्त्रे । ३ । २१०-२१३ ।
“स्त्रियः पूर्ब्बं सुरैर्भुक्ताः सोमगन्धर्व्ववह्निभिः ।
भुञ्जते मानुषाः पश्चात् तस्माद्दोषो न विद्यते ॥
सोमस्तासां ददौ शौचं गन्धर्व्वाः शिक्षितं गिरम् ।
पावकः सर्व्वमेध्यत्वं तस्मानिष्कल्मषाः स्त्रियः ॥
असम्प्राप्तरजा गौरी प्राप्ते रजसि रोहिणी ।
अव्यञ्जना भवेत् कन्या कुचहीना च नग्निका ॥
व्यञ्जनैस्तु समुत्पन्नैः सोमो भुङ्क्ते हि कन्यकाम् ।
पयोधराभ्यां गन्धर्व्वा रजस्यग्निः प्रतिष्ठितः ॥”)

गन्धर्व्वतैलं, क्ली, (गन्धर्व्वनामकं तैलम् । शाकपार्थिव-

वत् मध्यपदलोपिकर्म्मधारयः ।) एरण्डतैलम् ।
“गन्धर्व्वतैलसिद्धां हरीतकीं गोऽम्बुना पिबेत् ।
श्लीपदविबन्धमुक्तो भवत्यसौ सप्तरात्रेण ॥
गन्धर्व्वतैलं एरण्डतैलम् । गोऽम्वुना गोमूत्रेण ॥”
इति भावप्रकाशः ॥

गन्धर्व्ववेदः, पुं, (वेत्त्यस्मादनेन वा । विद् +

अपादाने करणे वा वञ् वेदः । गन्धर्व्वाणां
सङ्गीतविद्योपजीविनां यो वेदंः सामवेदस्योप-
वेदविशेषः । यद्वा गन्धर्व्वः गन्धर्व्वसम्बद्धिनी
गन्धर्व्वकलेत्यर्थः सङ्गीतरूपा विद्या विद्यतेऽनेना-
स्माद् वा । विद् ज्ञाने + करणे अपादने वा घञ् ।)
संगीतविद्या । यथा, “ऋग्वेदस्यायुर्व्वेदोपवेदो
यजुर्व्वेदस्य धनुर्व्वेदोपवेदः । सामवेदस्य गन्धर्व्व-
वेदोपवेदोऽथर्व्ववेदस्य शस्त्रशास्त्राणीति ।” इति
शौनकोक्तचरणव्यूहः ॥

गन्धर्व्वहस्तः, पुं, (गन्धर्व्वस्य मृगविशेषस्य हस्तः

अग्रपाद इव शाखादलञ्चास्य ।) एरण्डवृक्षः ।
इति हारावली । १०८ ॥ एतस्य पत्त्राल्लवणोत्-
पत्तिमाश्रित्य कप् प्रत्ययेन सह यथाह सुश्रुतः ।
“गन्धर्व्वहस्तकमुष्ककनक्तमालाटरूषकपूतिका-
रग्बधचित्रपदीनां पत्त्राण्यार्द्रानि लवणेन सहो-
दूखलेऽनुवद्य स्नेहघटे प्रक्षिप्यावलिप्य गोशकृद्भि-
र्दाहयेत् एतत् पत्त्रलवणमुपदिशन्ति वात-
रोगेषु ॥”)

गन्धर्व्वहस्तकः, पुं, (गन्धर्व्वहस्त + स्वार्थे कन् ।)

एरण्डवृक्षः । इत्यमरः । २ । ४ । ५० ॥ (यथास्य
पर्य्यायाः । वैद्यकरत्नमालायाम् ।
“आमण्डो वर्द्धमानः स्यादेरण्डो रुवुको वुकः ।
गन्धर्व्वहस्तकश्चित्रो वातारिस्तरुणो रुवुः ॥”)

गन्धलोलुपा, स्त्री, (गन्धे गन्धात्मकद्रव्ये लोलुपा

लोभनप्रकृतिः ।) मक्षिका । इति शब्दरत्ना-
वली ॥

गन्ध(ब)वणिक्, [ज्] पुं, (गन्धस्य अगरुचन्दनादि-

गन्धद्रव्यजातस्य वणिक् आजीवः । यद्बा गन्ध
गन्धद्रव्यजातं पणायते व्यवहरति गन्धद्रव्यस्य
क्रयविक्रयादिना आजीवति इत्यर्थः । पण् +
इजि कृते पस्य (ब)वत्वे च पृषोदरात् साधुः ।)
गान्धिकः । स च वर्णसङ्करजातिविशेषः । गन्ध-
वेणिया इति भाषा । स तु अम्बष्ठात् राज-
पुत्त्र्यां जातः । तस्य कर्म्मं लिखनं गन्धदानञ्च ।
इति पराशरभाष्यम् ॥

गन्धवती, स्त्री, (गन्धो विद्यतेऽस्याः । गन्ध +

मतुप् । मस्य वत्वे स्त्रियां ङीप् ।) पृथिवी ।
(“गन्धवती पृथ्वीरूपा ।” इति काशीखण्डे ।
२९ । ४९ श्लोकस्य टीकायाम् ॥) वायुपुरी ।
(यथा, काशीखण्डे । १३ । १ ।
“इमां गन्धवतीं पुण्यां पुरीं वायोर्विलोकय ।
वारुण्या उत्तरे भागे महाभाग्यनिधे द्विज ! ॥”)
व्यासमाता । (इयं हि पूर्ब्बं मत्स्यगन्धा आसीत्
पश्चात् प्रसन्नात् पराशरात् लब्धवरा सदगन्ध्
विशिष्टा गन्धवतीति प्रसिद्धा जाता । यथा,
महाभारते । १ । ६३ । ७९--८० ।
“एवमुक्ता वरं वव्रे गात्रसौगन्धमुत्तमम् ।
पृष्ठ २/३०५
स चास्यै भगवान् प्रादान्मनसः काङ्क्षितं प्रभुः ।
ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता ॥
जगाम सह संसर्गमृषिणाद्भुतकर्म्मणा ।
तेन गन्धवतीत्येवं नामास्याः प्रथितं भुवि ॥”)
सुरा । इति मेदिनी । ते । १९४ ॥ वनमल्लिका ।
इति रत्नमाला ॥ मुरानामगन्धद्रव्यम् । इति
जटाधरः ॥ (गङ्गा । यथा, काशीखण्डे । २९ । ४९ ।
“गङ्गा गन्धवती गौरी गन्धर्व्वनगरप्रिया ॥”)

गन्धवल्कलं, क्ली, (गन्धाढ्यं वल्कलं अस्य ।)

त्वचम् । इति राजनिर्घण्टः ॥ दारचिनी इति
भाषा ॥

गन्धवल्लरी, स्त्री, (गन्घाढ्या वल्लरी लताविशेषः ।)

सहदेवी । इति राजनिर्घण्टः ॥

गन्धवल्ली, स्त्री, (गन्धान्विता वल्ली लता ।) पीत-

पुष्पदण्डोत्पलः । डानिपोला इति भाषा । तत्-
पर्य्यायः । गोवन्दनी २ सहदेवी ३ सहा ४ ।
इति रत्नमाला ॥

गन्धवहः, पुं, (गन्धं वहतीति । वह् + अच् । गन्धस्य

वहो वा ।) वायुः । इत्यमरः । १ । १ । ६५ ॥
(यथा, महाभारते । २ । १० । ७ ।
“मन्दाराणामुदाराणां वनानि परिलोडयन् ।
सौगन्धिकवनानाञ्च गन्धं गन्धवहो वहन् ॥”)
गन्धयुक्ते त्रि ॥

गन्धवहा, स्त्री, (गन्धमिष्टानिष्टघ्राणंवहतीति । गन्ध

+ वह् + अच् + टाप् । यद्वा, गन्धस्य वहा ।)
नासिका । इत्यमरः । २ । ६ । ८९ ॥

गन्धवाहः, पुं, (गन्धं वहतीति । वह् + “कर्म्म-

ण्यण् ।” ३ । २ । १ । इति अण् ।) वायुः ।
इत्यमरः । १ । १ । ६५ ॥ (यथा, गीतगोविन्दे । १ । ३६ ।
“इह हि दहति चेतः केतकीगन्धबन्धुः
प्रसरदसमबाणप्राणवद् गन्धवाहः ॥”)
मृगविशेषः । स तु कस्तूरीमृगः । इति हेमचन्द्रः ॥

गन्धवाहा, स्त्री, (गन्ध + वह् + घञ् + टाप् ।)

नासिका । इति हेमचन्द्रः ॥

गन्धविह्वलः, पुं, (गन्धेन आत्मोत्थसुरभिणा विह्व-

लयतीति । वि + ह्वल् + णिच् + अच् ।) गोधूमः ।
इति शब्दचन्द्रिका ॥

गन्धवृक्षकः, पुं, (गन्धः स्वनिर्यासजन्यसुरभियुक्तः

गन्धप्रधानो वा वृक्षः । ततः स्वार्थे संज्ञायां वा
कन् ।) सालवृक्षः । इति राजनिर्घण्टः ॥

गन्धव्याकुलं, क्ली, (गन्धेन व्याकुलयतीति । वि +

आ + कुल + णिच् + अच् ।) कक्कोलम् । इति
शब्दचन्द्रिका ॥

गन्धशटी, स्त्री, (गन्धान्विता शटी ।) शटी ।

इति शब्दरत्नावली ॥

गन्धशाकं, क्ली, (गन्घाढ्यं शाकम् ।) गौरसुवर्ण-

शाकम् । इति राजनिर्घण्टः ॥

गन्धशालिः, पुं, (गन्धाढ्यः शालिः ।) शालि-

घान्यविशेषः । तत्पर्य्यायः । कल्माषः २ गन्धालुः
३ कलमोत्तमः ४ सुगन्धिः ५ गन्धबहुलः ६
सुरभिः ७ गन्धतण्डुलः ८ सुगन्धिशालिः ९ ।
अस्य गुणाः । मधुरत्वम् । अतिवृष्यत्वम् । पित्त-
श्रमस्नायुविदाहशान्तिकारित्वम् । स्तन्यगर्भ-
स्थिरताल्पवायुपुष्ट्यल्पकफबलप्रदत्वञ्च । इति
राजनिर्घण्टः ॥

गन्धशुण्डिनी, स्त्री, (गन्धाढ्याः शुण्डः मुखमस्त्यस्याः ।

इति इनिः ।) छुच्छुन्दरी । इति राजनिर्घण्टः ॥
क्वचित् पुस्तके गन्धा शुण्डिनी इति नामद्वयम् ॥

गन्धशेखरः, पुं, (गन्धः शेखरे शिरोदेशेऽस्य ।)

कस्तूरी । इति हारावली । १०३ ॥

गन्धसारः, पुं, (गन्धाढ्यः सारः स्थिरांशो यस्य ।)

चन्दनवृक्षः । इत्यमरः । २ । ६ । १३१ ॥
(अस्य पर्य्यायाः यथा, --
“श्रीखण्डं चन्दनं न स्त्री भद्रः श्रीस्तलपर्णिकः ।
गन्धसारो मलयजस्तथा चन्द्रद्युतिश्च सः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
मुद्गरवृक्षः । इति राजनिर्घण्टः ॥

गन्धसारणः, पुं, (गन्धं सारयतीति । सृ + णिच् +

ल्युः ।) बृहन्नखी । इति रत्नमाला ॥

गन्धसोमं, क्ली, (गन्धाय गन्धार्थं प्रभोदायेत्यर्थः

सोमश्चन्द्रो यस्य ।) कुमुदम् । इति त्रिकाण्डशेषः ॥

गन्धहारिका, स्त्री, (गन्धं हरतीति । हृ + ण्वुल्

ततष्टाप् कापि अत इत्वञ्च ।) परगृहं गत्वा
कर्म्मकारिणी शिल्पिनी । इति शब्दमाला ॥
गन्धहरणकर्त्री च ॥

गन्धा, स्त्री, (गन्धयति गन्धं वितरतीति । गन्ध + णिच्

+ अच् + टाप् च ।) चम्पककलिका । इति शब्द-
रत्नावली ॥ शटी । इति राजनिर्घण्टः ॥ शाल-
पर्णी । इत्यमरटीकायां भरतः ॥

गन्धाखुः, पुं, (गन्धप्रधानः गन्धाढ्यो वा आखुः ।)

छच्छन्दरी । इति हारावली ॥ ८३ ॥

गन्धाजीवः, पुं, (गन्धेन गन्धात्मकद्रव्येण आजी-

वतीति । गन्ध + आ + जीव् + अच् ।) गन्ध-
बणिक् । इति जटाधरः ॥

गन्धाढ्यं, क्ली, (गन्धेन आढ्यम् ।) जवादिनाम-

गन्धद्रव्यम् । चन्दनम् । इति राजनिर्घण्टः ॥ गन्ध-
युक्ते त्रि ॥

गन्धाढ्यः, पुं, (गन्धेनाढ्यः ।) नारङ्गवृक्षः । इति

राजनिर्घण्टः ॥

गन्धाढ्या, स्त्री, (गन्धेनाढ्या ।) गन्धपत्रा । स्वर्ण-

यूथी । तरुणी । आरामशीतला । इति राज-
निर्घण्टः ॥ गान्धाली । इति शब्दचन्द्रिका ॥
(गन्धान्वितद्रव्ये त्रि । यथा, भ्रमराष्टके । १ ।
“गन्धाढ्याऽसौ भुवनविदिता केतकी स्वर्णवर्णा ॥”)

गन्धाधिकं, क्ली, (गन्धः अधिकः अस्मिन् । गन्धस्य

अधिकोऽत्रेति वा ।) तृणकुङ्कमम् । इति राज-
निर्घण्टः ॥

गन्धाम्ला, स्त्री, (गन्धयुक्तो अम्लः अम्लरसोऽत्रास्या

वा ।) वनबीजपूरकः । इति राजनिर्घण्टः ॥

गन्धाला, स्त्री, (गन्धेन अलति पर्य्याप्नोतीति । अल्

+ अच् टाप् च ।) वृक्षविशेषः । इति शब्द-
चन्द्रिका ॥ जियतीति ख्याता ॥

गन्धाली, स्त्री, (गन्धस्य आली श्रेणी अस्याम् ।

यद्वा गन्धेन अलति पर्य्याप्नोतीति । अल् + अच्
जातौ ङीष् ।) लताविशेषः । गाँधाली गन्धभादाली
इति च भाषा । तत्पर्य्यायः । प्रसारणी २
भद्रपर्णी ३ कटम्भरा ४ । इति रत्नमाला ॥
गन्धाढ्या ५ । इति शब्दचन्द्रिका ॥ सरणा ६
राजवला ७ भद्रवला ८ । इत्यमरः । २ । ५ । २७ ॥
गन्धोली ९ सारणी १० । इति जटाधरः ॥
अपि च ।
“प्रसारणी राजबला भद्रपर्णी प्रतानिनी ।
सरणिः सारणी भद्रबला चापि कटम्भरा ॥
प्रसारणी गुरुर्वृष्या बलसन्धानकृत्सरा ।
वीर्य्योष्णा वातकृत्तिक्ता वातरक्तकफापहा ॥”
इति भावप्रकाशः ॥
राजनिर्घण्टोक्तगुणपर्य्यायौ प्रसारिणीशब्दे
द्रष्टव्यौ ॥

गन्धालीगर्भः, पुं, (गन्धाली गन्धश्रेणी गभ यस्य ।)

सूक्ष्मैला । इति राजनिर्घण्टः ॥

गन्धाश्मा [न्] पुं, (गन्धयुक्तः अश्मा प्रस्तर इव ।)

गन्धकः । इत्यमरः । २ । ९ । १०२ ॥

गन्धाष्टकं, क्ली, (गन्धानां गन्धात्मकागुरुचन्दना-

दीनां अष्टकम् ।) पञ्चदेवतादेयाष्टप्रकारगन्ध-
द्रव्यम् । यथा, --
“चन्दनागुरुकर्पूरचोरकुङ्कमरोचनाः ।
जटामांसी कपियुता शक्तेर्गन्धाष्टकं विदुः ॥ * ॥
चन्दनागुरुह्रीवेरकुष्ठकुङ्कुमसेव्यकाः ।
जटामांसी मुरमिति विष्णोर्गन्धाष्टकं विदुः ॥ * ॥
चन्दनागुरुकर्पूरतमालजलकुङ्कुमम् ।
कुशीदं कुष्ठसंयुक्तं शैवं गन्धाष्टकं शुभम् ॥ * ॥
स्वरूपं चन्दनं चोरं रोचनागुरुमेव च ।
मदं मृगद्वयोद्भूतं कस्तूरीचन्द्रसंयुतम् ।
गन्धाष्टकं विनिर्द्दिष्टं गणेशस्य महेशितुः ॥”
इति शारदातिलकम् ॥ * ॥
अपि च ।
“चन्दनागुरुकर्पूररोचनाकुङ्कुमं मदम् ।
रक्तचन्दनह्रीवेरं गाणपत्यमुदाहृतम् ॥ * ॥
जलकाश्मीरकुष्ठैस्तु रक्तचन्दनचन्दनैः ।
उशीरागुरुकर्पूरैः सौरं गन्धाष्टकं विदुः ॥”
इति मेरुतन्त्रम् ॥

गन्धि, क्ली, (गन्ध + “सर्व्वधातुभ्य इन् ।” ४ । ११७ ।

इति इन् ।) तृणकुङ्कमम् । इति राजनिर्घण्टः ॥

गन्धिकः, पुं, (गन्धो विद्यतेऽस्मिन् । गन्ध + “अत

इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।) गन्धकः ।
इति हेमचन्द्रः । ३ । १२३ ॥

गन्धिनी, स्त्री, (गन्धोऽस्त्यस्या इति । “अत इनिठनौ ।”

५ । २ । ११५ । इति इनिः । श्रियां ङीप् ।) मुरा ।
इत्यमरः । २ । ४ । १२३ ॥

गन्धिपर्णः, पुं, (गन्धि गन्धप्रधानं पर्णं पत्त्रमस्य ।)

सप्तच्छदवृक्षः । इति राजनिर्घण्टः ॥

गन्धोतुः, पुं, (गन्धः गन्धयुक्तः ओतुः । “ओत्वोष्ठयोः

समासे वा ।” इति वार्त्तिं इति अकारलोपः ।)
खट्टाशः । इति त्रिकाण्डशेषः ॥ गन्धौतुश्च ॥

गन्धोत्कटा, स्त्री, (गन्धेन उत्कटा उद्रिक्ता

उग्रा वा ।) दमनकवृक्षः । इति राजनिर्घण्टः ॥
पृष्ठ २/३०६

गन्धोत्तमा, स्त्री, (गन्धेन उत्तमा गन्धप्रधानेत्यर्थः ।)

मदिरा । इत्यमरः । २ । १० । ४० ॥

गन्धोलिः, स्त्री, (गन्धयति गन्धयुक्तं करोति संमि-

लितद्रव्यान्तराणीत्यर्थः । गन्ध + ओलच् ततो
जातौ ङीष् निपातनात् ह्रस्वः ।) शटी । इति
शब्दरत्नावली ॥

गन्धोली, स्त्री, (गन्धयति अर्द्दयतीति । गन्ध

अर्द्दने + बाहुलकात् ओलच् ततो जातौ संज्ञायां
वा ङीष् ।) वरटा । इत्यमरः । २ । ५ । २७ ॥
भद्रा । शटी । इति मेदिनी ॥ ले । ८५ ॥

गभस्तिः, पुं, (गम्यते ज्ञायते इति गः विषयः ।

गम् + डः । तं बभस्ति दीपयति प्रकाशयतीति ।
भस् + “क्तिचक्तौचेति ।” ३ । ३ । १७४ । इति
क्तिच् ।) किरणः । (यथा, भागवते । ५ । ८ । २२ ।
“मामुपसृतमृगतनयं शिशिरशान्तानुराग-
गुणितनिजवदनसलिलामृतमयगभस्तिभिः स्वध-
यतीति च ॥” गम्यते ज्ञायते इति । गम् + डः ।
गं इदं सर्व्वं जगत् बभस्ति भासयति निजकिरण-
जालैरिति शेषः । भस् + क्तिच् ।) सूर्य्यः । इति
मेदिनी ॥ ते । १०७ ॥ (यथा, सूर्य्यस्तोत्रे ।
“गभस्तिमान् गभस्तिश्च विश्वात्मा भासकस्तथा ।
त्वं योनिर्वेदविद्यानां वेदवेद्यस्तथैव च ॥”
शिवः । यथा, महाभारते । १३ । १७ । १३३ ।
“गभस्तिर्ब्रह्मकृद् ब्रह्मा ब्रह्मवित् ब्राह्मणो-
गतिः ॥”)

गभस्तिः, स्त्री, (गच्छति प्राप्नोति हव्यादिकमिति

गः अग्निस्तं बभस्त्यनया इति । भस् + करणे
क्तिच् ।) स्वाहा । इति मेदिनी ॥ ते । १०७ ॥

गभस्तिमत्, क्ली, (गभस्तयो रश्मयः नित्यं वर्त्तन्ते-

ऽस्मिन् लोके मण्यादिज्योतिःप्रभावात् । इति
नित्ययोगे मतुप् ।) सप्तपातालान्तर्गतपातांल-
विशेषः । तत्तु तलातलम् । इति शब्दरत्नावली ॥

गभस्तिमान्, [त्] पुं, (गभस्तयः रश्मयः

विद्यन्ते भूम्नास्मिन् । इति भूमार्थे मतुप् ।)
सूर्य्यः । इति शब्दरत्नावली ॥ (यथा, महा-
भारते । ३ । ३ । १६ ।
“ओं सूर्य्योऽर्य्यमाभगस्त्वष्टा पूषार्कः सविता रविः ।
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥”)

गभस्तिहस्तः, पुं, (गभस्तयो रश्मयो हस्ता इव

जलाद्याकर्षणविसर्ज्जनाय यस्य ।) सूर्य्यः । इति
त्रिकाण्डशेषः ॥

गभीरं, त्रि, (गच्छति जलमत्र । गम् + “गभीर-

गम्भीरौ” । उणां । ४ । ३५ । इति ईरन् भश्चान्ता-
देशः ।) नीचस्थानम् । तत्पर्य्यायः । निम्नम् २
गम्भीरम् ३ । इत्यमरः । १ । १० । १५ ॥ गभीरकम् ४ ।
इति शब्दरत्नावली ॥ अगाधम् । (यथा, प्रबोध-
चन्द्रोदये । ४ । १५ ।
“निष्कम्पनिर्म्मलपयोधिगभीरवीरा
धीराः परस्य परिवादगिरः सहन्ते ॥”)
गहनम् । इत्युणादिकोषः ॥ (प्रचण्डम् । यथा,
भागवते । १ । ५ । १८ ।
“कांलेन सर्व्वत्र गभीररंहमा ॥”)

गभीरिका, स्त्री, (गभीरो ध्वनिर्विद्यतेऽस्याः ।

“अत इनिठनौ ।” इति ठन् । स्त्रियां टाप् ।)
बृहड्ढक्का । इति शब्दरत्नावली ॥

गभोलिकः, पुं, मसूरः । इति हारावली । १३४ ॥

गम, औ ऌ गत्याम् । इति कविकल्पद्रुमः ॥

(भ्वां-परं-सकं-अनिट् ।) औ, गन्ता । ऌ, अग-
मत् । गतिरुत्तरदेशसंयोगफलकव्यापारः । इति
दुर्गादासः ।

गमः, पुं, (गम्यते इति यथायथं भावकर्म्मादौ

अप ।) जिगीषोर्गमनम् । इत्यमरः । २ । ८ । ९५ ॥
अक्षविवर्त्तः । स तु द्यूतप्रभेदः । अपर्य्या-
लोचितम् । अध्वा । इति मेदिनी । मे १० ॥
सदृक्पाठः । इति हेमचन्द्रः ॥ गमनञ्च ॥
(उपभोगः । मैथुनम् । यथा, मनौ । ११ । ५४ ।
“ब्रह्महत्या सुरापानं स्तेयं गुर्व्वङ्गनागमः ॥”)

गमकः पुं, (गमयति प्रापयति बोधयति वा मूर्च्छनादि-

लक्षणैर्य आत्मानमिति । गम् + णिच् + ण्वुल् ।)
स्वरविशेषः । यथा, सङ्गीतदामोदरे ।
“गमकः स्वश्रुतिस्थानच्छायां श्रुत्यन्तराश्रयाम् ।
स्वरो यो मूर्च्छ नामेति गमकः स इहोच्यते ॥
कम्पितः स्फुरितो नीलो भिन्नः स्थविर एव च ।
आहतान्दोलितो चेति गमकाः सप्त कीर्त्तिताः ॥
माघपौषनिशायान्तु शेषप्रहरमात्रके ।
साधकः सलिले स्थित्वा गमकान् सप्त साधयेत् ॥
दाक्षिणात्याहरिप्रीत्यै गायन्ति गमकानिमान् ॥”
(गमयति बोघयतीति । गम् + णिच् + ण्वुल् ।
बोधकमात्रे त्रि । यथा, मालतीमाधवे । ३ ।
“यत् प्रौढत्वमुदारता च वचसां यच्चार्थतो गौरवं
तच्चेदस्ति ततस्तदेव गमकं पाण्डित्य वैदग्ध्ययोः ॥”)

गमकारित्वं, क्ली, (गम्यते इति । गम् + भावे

अप् । गमं करोतीति । कृ + णिनि । तस्य
भावः इति ।) रभसः । इति त्रिकाण्डशेषः ॥

गमथः, पुं, (गच्छत्यस्मिन् इति । गम् + “शीङ्-

शपिरुगमिवञ्चिजीविप्राणिभ्योऽथः ।” उणां ३ ।
११३ । इति अधिकरणे अथः ।) पन्थाः । (गम्
+ कर्त्तरि अथः ।) पथिके त्रि । इत्युणादिकोषः ॥

गमनं, क्ली, (गम्यते जिगीषुणा इति । गम् + भावे

ल्युट् ।) जिगीषोः प्रयाणम् । कुच् इति
पारस्य भाषा । तत्पर्य्यायः । यात्रा २ व्रज्या ३
अभिनिर्याणम् ४ प्रस्थानम् ५ । गमः ६ । इत्य-
मरः । २ । ८ । १५ ॥ प्रयाणम् ७ प्रस्थितिः ८
यानम् ९ प्राणनम् १० । इति शब्दरत्नावली ॥
पादविहरणम् । (यथा, रामायणे । ३ । १३ । ११ ।
“न च मे रोचते वीर ! गमनं दण्डकं प्रति ॥”)
तत्तु पञ्चविधकर्म्मान्तर्गतकर्म्मविशेषः । (यथा,
भाषापरिच्छेदे । ६ ।
“उत्क्षेपणं ततोऽवक्षेपणमाकुञ्चनं तथा ।
प्रसारणञ्च गमनं कर्म्माण्येतानि पञ्च च ॥”)
तस्य भेदाः । यथा, भ्रमणम् १ रेचनम् २
स्यन्दनम् ३ ऊर्द्ध्वज्वलनम् ४ तिर्य्यग्गमनम् ५ ।
इति च भाषापरिच्छेदे ७ । (उपभोगः । यदुक्तं
तिथितत्वे ।
“अगम्यागमनाच्चैव अभक्षस्य च भक्षणात् ।
मुच्यते सर्व्वपापेभ्यः पञ्चवक्त्रस्य धारणात् ॥”)

गमी, [न्] त्रि, (गमिष्यतीति । गम् + “भविष्यति

गम्यादयः ।” ३ । ३ । ३ । “गमेरिनिः ।” उणां । ४ । ६ ।
इति भविष्यति इनिः ।) गमनकर्त्ता । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

गम्ब, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) गम्बति । इति दुर्गादासः ॥

गम्भारिका, स्त्री, (गच्छति दार्ढ्यं सौन्दर्य्यं-

भारञ्च इति । निम्नगतिमित्येके । गम् + विच् ।
गमं बिभर्त्ति इति । भृ + ण्वुल् ततष्टाप् कापि
अत इत्वञ्च ।) गम्भारीवृक्षः । इति राज-
वल्लभः ॥

गम्भारी, स्त्री, (कं जलं बिभर्त्ति इति । भृ +

“कर्म्मण्यण् ।” ३ । २ । १ । इति अण् पृषो-
दरात् कस्य गत्वे साधुः । यद्वा गच्छति
प्राप्नोति सौन्दर्य्यमिति । गम् + विच् । गमं बिभ-
र्त्तीति ।) वृक्षविशेषः । गामारी इति भाषा ॥
तत्पर्य्यायः । सर्व्वतोभद्रा २ काश्मरी ३ मधु-
पर्णिका ४ श्रीपर्णी ५ भद्रपर्णी ६ काश्मर्य्यः ७ ।
इत्यमरः । २ । ४ । ३५ ॥ कार्श्मरी ८ । इति
तट्टीका ॥ भद्रा ९ गोपभद्रिका १० कुमुदा ११
सदाभद्रा १२ कट्फला १३ कृष्णवृन्तिका १४ ।
इति रत्नमाला ॥ कृष्णवृन्ता १५ हीरा १६
सर्व्वतोभद्रिका १७ स्निग्धपर्णी १८ सुभद्रा १९
कम्भारी २० गोपभद्रा २१ विदारिणी २२
क्षीरिणी २३ महाभद्रा २४ मधुपर्णी २५
स्वरुभद्रा २६ कृष्णा २७ अश्वेता २८
रोहिणी २९ गृष्टिः ३० स्थूलत्वचा ३१ मधु-
मती ३२ सुफला ३३ मेदिनी ३४ महा-
कुमुदा ३५ सुदृढत्वचा ३६ । अस्या गुणाः ।
कटुत्वम् । तिक्तत्वम् । गुरुत्वम् । उष्णत्वम् ।
भ्रमशोथत्रिदोषविषदाहार्त्तिज्वरतृष्णास्रदोष-
नाशित्वञ्च । इति राजनिर्घण्टः ॥ एतत्फल-
गुणाः । तिक्तत्वम् । गुरुत्वम् । ग्राहित्वम् । मधु-
रत्वम् । केशहितत्वम् । रसायनत्वम् । मेध्य-
त्वम् । शीतलत्वम् । दाहपित्तनाशित्वञ्च ।
एतन्मूलगुणौ । अत्युष्णत्वम् । मानसव्याधौ
अहितकारित्वञ्च । इति राजवल्लभः ॥ तत्-
पर्य्यायगुणाः ।
“गम्भारी भद्रपर्णी च श्रीपर्णी मधुपर्णिका ।
काश्मीरी काश्मरी हीरा काश्मर्य्यः पीत-
रोहिणी ॥
कृष्णवृन्ता मधुरसा महाकुमुदिकापि च ।
काश्मरी तुवरा तिक्ता वीर्य्योष्णा मधुरा गुरुः ॥
दीपनी पाचनी मेध्या भेदिनी भ्रमशोषजित् ।
दोषतृष्णामशूलार्शोविषदाहज्वरापहा ॥
तत्फलं बृंहणं वृष्यं गुरु केश्यं रसायनम् ।
वातपित्ततृषारक्तक्षयमूत्रविबन्धहृत् ॥
स्वादु पाके हिमं स्निग्धं तुवराम्लं विबुद्धिकृत् ।
हन्याद्दाहतृषावातरक्तपित्तक्षतक्षयान् ॥”
इति भावप्रकाशः ॥
पृष्ठ २/३०७

गम्भीरं, त्रि, (गच्छति जलमत्र । “गभीर-

गम्भीरौ ।” उणां । ४ । ३५ । इति गच्छते-
रीरन् भश्चान्तादेशः नुमागमश्च ।) गभीरम् ।
इत्यमरः । १ । १० । १५ ॥ (यथा, गोः रामायणे ।
५ । १ । ५० ।
“ततः सागरगम्भीरो वानरः पवनो जवे ॥”)

गम्भीरः, पुं, (गम् + “गभीरगम्भीरौ” उणां ।

४ । ३५ । इति ईरन् भश्चान्तादेशः नुमागमश्च ।)
जम्बीरः । षङ्कजम् । ऋङ्मन्त्रः । इत्युणादिकोषः ॥
(शिवः । यथा, महाभारते । १३ । १७ । ५२ ।
“गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥”
स्त्रियां, हिक्कारोगभेदः । यथा, सुश्रुते उत्तर-
तन्त्रे ५० अध्याये ।
“नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी ।
शुष्कोष्ठकण्ठजिह्वास्यश्वासपार्श्वरुजाकरी ।
अनेकोपद्रवयुता गम्भीरा नाम सा स्मृता ॥”)

गम्भीरवेदी, [न्] पुं, (गम्भीरं मन्दं यथा स्यात्

तथा चिरकालात् इत्यर्थः यद्वा गम्भीरं अङ्कुश-
बेधनं निषादिदत्तशिक्षामादेशं वा वेत्तीति विद्
+ णिनि ।) दुर्द्धरहस्ती । तत्पर्य्यायः । अङ्कश-
दुर्द्धरः २ चालकः ३ व्यालकः ४ । इति त्रिकाण्ड-
शेषः ॥ अवमताङ्कुशः ५ । इति हेमचन्द्रः ॥
(यथा, रघौ । ४ । ३९ ।
“स प्रतापं महेन्द्रस्य मूर्द्ध्नि तीक्ष्णं न्यवेशयत् ।
अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः ॥”
अस्य लक्षणम् ।
“चिरकालेन यो वेत्ति शिक्षां परिचितामपि ।
गम्भीरवेदी विज्ञेयः स गजो गजवेदिभिः ॥”
इति शब्दार्थचिन्तामणिधृतराजपुत्त्रीयवचनम् ॥
मतभेदेन लक्षणान्तरमपि दृश्यते ।
“त्वग्भेदाच्छोणितस्रावात् मांसस्य क्रथनादपि ।
आत्मानं यो न जानाति स स्याद् गम्भीर-
वेदिता ॥”
इति रघुटीकायां मल्लिनाथः ॥)

गम्यं, त्रि, (गम्यते इति । गम् + कर्म्मादौ यत् ।)

प्राप्यम् । इत्यमरः । ३ । २ । ४२ ॥ (यथा,
भगवद्गीतायाम् । १३ । १७ ।
“ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्व्वस्य विष्ठितम् ॥”)
गमनयोग्यञ्च ॥ (यथा, महामारते । ३ । ८५ । १०२ ।
“गम्यान्यपि च तीर्थानि कीर्त्तितान्यगमानि च ॥”
स्त्रियां, सम्भोगार्हा स्त्री । यथा, महाभारते ।
१ । ८३ । ३५ ।
“अभिकामां स्त्रियं यश्च गम्यां रहसि याचितः ॥”)

गम्यमानः, त्रि, (गम्यते इति । गम् + कर्म्मणि

शानच् ।) वर्त्तमानगमनाश्रयग्रामादिः ॥

गयः, पुं, (गीयते वीर्य्यादिप्रभावेनासौ । गै +

घञ् । पृषोदरात् ह्रस्वत्वे साधुः ।) वानर-
भेदः । (यथा, गोः रामायणे । ४ । २५ । ३३ ।
“गयो गवाक्षो गवयः शरभो गन्धमादनः ॥”)
स तु वैवस्वतपुत्त्रः । इति रामायणम् ॥ राजर्षि-
भेदः । स च अमूर्त्तरयःपुत्त्रः । (यथा, श्रीभाग-
वते । ५ । १५ । ७ ।
“गयं नृपः कः प्रति याति कर्म्मभिः ॥”)
असुरभेदः । इति वायुपुराणम् ॥ गयाप्रदेशः ।
यथा, हेः रामायणे । २ । १०७ । ११ ।
“गयेन यजमानेन गयेष्वेव पितन् प्रति ।”
“गयेषु गयाप्रदेशेषु ।” इति तट्टीकायाम् ॥)

गया, स्त्री, (गयेन गयनाम्ना लोकप्रिसिद्धेना-

सुरेण पुराणान्तरमतभेदेन तन्नाम्ना राजर्षिणा
वा निर्म्मिता ।) गयराजर्षिपुरी । इति हेम-
चन्द्रः । ४ । ३९ ॥ सा तु तीर्थभेदः । तस्य
नामकरणं यथा, --
“यज्ञं चक्रे गयो राजा बह्वन्नं बहुदक्षिणम् ।
यत्र द्रव्यसमूहानां संख्या कर्त्तु न शक्यते ॥
गयं विष्ण्वादयस्तृप्ता वरं ब्रूहीति चाब्रुवन् ।
गयस्तान् प्रार्थयामास अभिशस्तास्तु ये पुरा ॥
ब्रह्मणा ते द्विजाः पूता भवन्तु क्रतुपूजिताः ।
गयापुरी तु मन्नाम्ना ख्यातु ब्रह्मपुरी तथा ॥
एवमस्तु वरं दत्त्वा ततश्चान्तर्दधुः सुराः ॥” * ॥
तस्योत्पत्तिकारणं यथा, --
“गयासुरोऽसुराणाञ्च महाबलपराक्रमः ।
योजनानां सपादञ्च शतं तस्योच्चयः स्मृतः ॥
स्थूलः षष्टिर्योजनानां श्रेष्ठोऽसौ वैष्णवः स्मृतः ।
कोलाहले गिरिवरे तपस्तेपे सुदारुणम् ॥
बहुवर्षसहस्राणि निरुच्छ्वासः स्थिरोऽभवत् ।
तत्तपस्तापिता देवाः संक्षोभं परमं गताः ॥
ब्रह्मलोकं गता देवाः प्रोवुस्तेऽथ पितामहम् ।
गयासुराद्रक्ष देव ! ब्रह्मा देवांस्तथाब्रवीत् ॥
व्रजामः शङ्करं देवा ब्रह्माद्याश्च गताः शिवम् ।
कैलासे चाब्रुवन्नत्वा रक्ष रक्ष महाऽसुरात् ॥
ब्रह्माद्यांश्चाब्रवीच्छम्भुर्व्रजामः शरणं हरिम् ।
क्षीराब्धौ देवदेवेशः स नः श्रेयो विधास्यति ॥
ब्रह्मा महेश्वरो देवा विष्णुं नत्वा प्रतुष्टुवुः ।
किमर्थमागता देवा विष्णुनोक्तास्तमब्रुवन् ॥
गयासुरभयाद्देव ! रक्षास्मानब्रवीद्धरिः ।
ब्रह्माद्या यान्तु तं दैत्यञ्चागमिष्याम्यहं ततः ॥” *
“ऊचुस्तं वासुदेवाद्याः किमर्थं तप्यते त्वया ।
सन्तुष्टाश्चागताः सर्व्वे वरं ब्रूहि गयासुर ! ॥”
“यदि तुष्टाः स्थ मे देवा ब्रह्मविष्णुमहेश्वराः ।
सर्व्वदेवद्विजातिभ्यो यज्ञतीर्थशिलोच्चयात् ॥
मन्त्रेभ्यो देवदेवीभ्यो योगिभ्यश्चापि सर्व्वशः ।
ज्ञातिभ्योऽतिपवित्रोऽहं पवित्रः स्यां सदा सुराः ॥
परित्रो भव तं देवा दैत्यमुक्त्वा ययुर्दिवम् ।
दृष्ट्वा दैत्यं ततः स्पृष्ट्वा सर्व्वे हरिपुरं ययुः ॥
शून्ये लोकत्रये जाते शून्या यमपुरी ह्यभूत् ।
यम इन्द्रादिभिः सार्द्धं ब्रह्मलोकं ततोऽगमत् ॥
ब्रह्माणमूचिरे देवा गयासुरविलोपिताः ।
त्वया दत्तो योऽधिकारस्तं गृहाण पितामह ! ॥
ब्रह्माब्रवीत्ततो देवा व्रजामो विष्णुमव्ययम् ।
ब्रह्मादयोऽब्रुवन् विष्णुं त्वया दत्तवरेऽसुरे ॥
तद्दर्शनाद्ययुः स्वर्गं शून्यं लोकत्रयं ह्यभूत् ।
देवैरुक्तो वासुदेवो ब्रह्माणं स वचोऽब्रवीत् ॥
गत्वासुरं प्रार्थयस्व यज्ञार्थं देहि देहकम् ।
विष्णूक्तः ससुरो ब्रह्मा गत्वाऽपश्यन्महासुरम् ॥
ब्रह्मोवाच ।
पृथिव्यां यानि तीर्थानि दृष्टानि भ्रमता मया ।
यज्ञार्थं न तु ते तानि पवित्राणि शरीरतः ॥
अतः पवित्रं देहं स्वं यज्ञार्थं देहि मेऽसुर ! ॥
गयासुर उवाच ।
धन्योऽहं देवदेवेश ! यद्देहः प्रार्थ्यते त्वया ।
त्वयैवोत्पादितो देहः पवित्रश्च त्वया कृतः ।
सर्व्वेषामुपकाराय यागोऽवश्यं भवत्विति ॥
इत्युक्त्वा सोऽपतद्भूमौ श्वेतकल्पे गयासुरः ।
नैरॄ तीं दिशमाश्रित्य तदा कोलाहले गिरौ ॥
शिरः कृत्वोत्तरे दैत्यः पादौ कृत्वा तु दक्षिणे ।
ब्रह्मा सम्भृतसम्भारो मानसानृत्विजोऽसृजत् ॥
चलितश्चकितो ब्रह्मा धर्म्मराजमभाषत ।
यास्ते गृहे तव शिला तामानीयात्र धारय ॥
दैत्यस्य शीघ्रं शिरसि तां धारय ममाज्ञया ।
निश्चलार्थं यमः श्रुत्वा धारयन्मस्तके शिलाम् ॥
शिलायां धारितायान्तु सशिलश्चासुरोऽचलत् ।
देवानूचेऽथ रुद्रादीन् शिलायां निश्चलाः किल ॥
तिष्ठन्तु देवाः सकलास्तथेत्युक्त्वा च ते स्थिताः ।
देवाः पादैर्लक्षयित्वा तथापि चलितोऽसुरः ॥
ब्रह्माथ व्याकुलो विष्णुं गतः क्षीराब्धिशायिनम् ।
अजमूचे हरिः कस्मादागतोऽसि वदस्व तत् ॥
ब्रह्मोवाच ।
देवदेव ! कृते यागे प्रचचाल गयासुरः ।
इदानीं निश्चलार्थं हि प्रसादं कुरु माधव ॥
ब्रह्मणो वचनं श्रुत्वा ह्याकृष्य स्वशरीरतः ।
मूर्त्तिं ददौ निश्चलार्थं ब्रह्मणे भगवान् हरिः ॥
आनीय मूर्त्तिं ब्रह्मापि शिलायां समधारयत् ।
तथापि चलितं वीक्ष्य पुनर्देवमिहाह्वयत् ॥
आगत्य विष्णुः क्षीराब्धेः शिलायां संस्थितो-
ऽभवत् ।
आद्यया गदया चासौ यस्माद्दैत्यः स्थिरीकृतः ॥
स्थित इत्येव हरिणा तस्मादादिगदाधरः ॥” * ॥
“ऊचे गयासुरो देवान् किमर्थं वञ्चितो ह्यहम् ।
यज्ञार्थं ब्रह्मणे दत्तं शरीरममलं मया ।
पीड्यश्च यद्यहं देवाः प्रसन्नाः सन्तु सर्व्वदा ॥”
“वरं ब्रूहि प्रसन्नाः स्मो देवैरूचे गयासुरः ॥”
“यावत् पृथ्वी पर्व्वताश्च यावच्चन्द्रार्कतारकाः ।
तावच्छिलायां तिष्ठन्तु ब्रह्मविष्णुमहेश्वराः ॥
गदाधरः स्वयं लोकान् पूयात् सर्व्वाधनाशनः ।
श्राद्धं सपिण्डकं येषां ब्रह्मलोकं प्रयान्तु ते ॥”
“किं बहूक्त्या सुरेशानां युष्माकमपि देवताः ।
चेन्न, तिष्ठाम्यहं बापि समयः प्रतिपाल्यताम् ॥”
“त्वया यत् प्रार्थितं वीर ! तद्भविष्यत्यसंशयम् ।
अस्मत्पादानर्च्चयित्वा यास्यन्ति परमां गतिम् ।
देवैर्दत्तवरो दैत्यो हर्षितो निश्चलोऽभवत् ॥”
अथ गयाशिरआदिपरिमाणम् ।
“नागाज्जनार्द्दनाद्ब्रह्मयूपाच्चोत्तरमानसात् ।
एतद्गयाशिरः प्रोक्तं फल्गुतीर्थं तदुच्यते ॥
पितामहं समासाद्य यावदुत्तरमानसम् ।
फलगुतीर्थन्तु विज्ञेयं देवानामपि दुर्लभम् ॥
क्रौञ्चपादात् फल्गुतीर्थं यावत् साक्षाद्गयाशिरः ।
पृष्ठ २/३०८
मुखं गयासुरस्यैतत्तस्मात् श्राद्धमथाक्षयम् ॥
मुण्डपृष्ठाच्च पूर्ब्बस्मिन् पश्चिमे दक्षिणोत्तरे ।
श्राद्धे क्रोशद्वयं मानं गयायां ब्रह्मणेरितम् ॥
पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ।
तन्मध्ये सर्व्वतीर्थानि त्रैलोक्ये यानि सन्ति वै ॥”
अथ गयामाहात्म्यादि ।
“गयायां न हि तत् स्थानं यत्र तीर्थं न विद्यते ।
सान्निध्यं सर्व्वतीर्थानां गयातीर्थं ततो वरम् ॥
ब्रह्मज्ञानेन किं साध्यं गोग्रहे मरणेन किम् ।
वासेन किं कुरुक्षेत्रे यदि पुत्त्रो गयां व्रजेत् ॥
श्राद्धकृद्यो गयाक्षेत्रे पितॄणामनृणोऽपि सः ।
शिरसि श्राद्धकृद्यस्तु कुलानां शतमुद्धरेत् ॥
गयाशिरसि यः पिण्डान् येषां नाम्ना तु निर्व्वपेत् ।
नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः ॥
गत्वा बणिग्गयाशीर्षे प्रेतराजस्य पिण्डकम् ।
प्रददौ मनुजैः सार्द्धं स्वपितृभ्यस्ततो ददौ ॥
प्रेताः प्रेतत्वनिर्म्मुक्ता बणिक् च गृहमागतः ।
प्रेतराजः सह प्रेतैर्गयाश्राद्धाद्दिवं गतः ॥” * ॥
“गयायां सर्व्वकालेषु पिण्डं दद्याद्बिचक्षणः ।
अधिमासे जन्मदिने चास्तेऽपि गुरुशुक्रयोः ॥
न त्यक्तव्यं गयाश्राद्धं सिंहस्थेऽपि बृहस्पतौ ।
तथा दैवप्रमादेन प्रवहत्सु व्रणेषु च ॥
पूतः कर्म्माधिकारी च श्राद्धकृद्ब्रह्मलोकभाक् ॥
मीने मेषे स्थिते सूर्य्ये कन्यायां कार्म्मुके घटे ।
नारद ! त्रिषु लोकेषु गयाश्राद्धं सुदुर्लभम् ॥” * ॥
“मुण्डनञ्चोपवासश्च सर्व्वतीर्थेष्वयं विधिः ।
वर्ज्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम् ॥
दण्डं प्रदर्शयेद्भिक्षुर्गयां गत्वा न पिण्डदः ।
दण्डं न्यस्य विष्णुपदे पितृभिः सह मुच्यते ॥
गयागजो गयादित्यो गायत्त्री च गदाधरः ।
गया गयासुरश्चैव षड्गया मुक्तिदायिकाः ॥”
अथ पिण्डदानद्रव्याणि ।
“पायसेनाथ चरुणा सक्तुना पिष्टकेन वा ।
तण्डुलैः फलमूलाद्यैर्गयायां पिण्डपातनम् ॥
तिलकल्केन खण्डेन गुडेन सघृतेन वा ।
केवलेनैव दध्ना वा अन्नेन मधुनाथवा ॥
पिन्याकं सघृतं खण्डं पितृभ्योऽक्षयमित्युत ॥”
अथ गयास्थब्राह्मणपूजाविधिः ।
तत्रस्था ब्राह्मणा ब्रह्माणमूचुः ।
“त्वया यद्दत्तमखिलं तत् सर्व्वं शापतो गतम् ।
जीवनार्थं प्रसादं नो भगवन् ! कर्त्तुमर्हसि ॥
तन् श्रुत्वा ब्राह्मणान् ब्रह्मा प्रोवाचेदं दयान्वितः ।
तीर्थोपजीविका यूयमाचन्द्रार्कं भविष्यथ ॥
लोकाः पुण्यगयायां ये श्राद्धिनो ब्रह्मलोकगाः ।
युष्मान् ये पूजयिष्यन्ति तैरहं पूजितः सदा ॥”
अथ गयायां श्राद्धादिकरणार्थं तीर्थानि ।
प्रथमदिने गयाप्रवेपो फल्गुतीर्थे स्नानतर्पण-
श्राद्धानि १ प्रेतशिलायां ब्रह्मकुण्डे स्नानं श्राद्धं
षोडशपिण्डदानं प्रेतपर्व्वते तिलमिश्रितसक्तु-
निक्षेपश्च २ पञ्चतीर्थमध्ये उत्तरमानसे स्नानं
सपिण्डकं श्राद्धं सूर्य्यार्च्चनञ्च ३ दक्षिणमानसे
उदीव्यां उदीचीतीर्थे स्नानम् ४ तस्य मध्ये
कनखलतीर्थे स्नानम् ५ तस्य दक्षिणे दक्षिण-
मानसे तीर्थत्रये स्नानं श्राद्धं सूर्य्यार्च्चनञ्च ६
फल्गुतीर्थे स्नानं तर्पणं सपिण्डकं श्राद्धं ततो
गदाधरस्य दर्शनं पूजनञ्च ७ ॥ द्वितीयदिने
धर्म्मारण्ये गमनं धर्म्मेश्वरनमनं बोधितरु-
नमनञ्च ८ मतङ्गवाप्यां स्नानं तर्पणं श्राद्धं मत-
ङ्गेशनमनं यूपकूपयोर्मध्ये श्राद्धञ्च ९ ॥ तृतीय-
दिने ब्रह्मसरसि स्नानं सपिण्डकं श्राद्धं यूप-
प्रदक्षिणं ब्रह्मनमनञ्च १० गोप्रचारसमीपे
आम्रवृक्षसेचनम् ११ ततो यमकुक्कुरकाकबलि-
दानं पुनः स्नानञ्च १२ ॥ चतुर्थदिने फल्गुतीर्थे
स्नानादिकं ततो गयाशिरसि विष्णुपदस्य दर्शनं
स्पर्शनं पूजनं तत्र सपिण्डकं श्राद्धञ्च १३ रुद्रः १४
ब्रह्मा १५ दक्षिणाग्निः १६ गार्हपत्यः १७
आहवनीयः १८ सत्यः १९ आवसव्यः २०
शक्रः २१ अगस्त्यः २२ क्रौञ्चः २३ मातङ्गः २४
कार्त्तिकेयः २५ गणेशः २६ कश्यपः एषां पदेषु
श्राद्धम् २७ गजकर्णिकायां तर्पणम् २८
कनकेशकेदारनरसिंहवामनरथमार्गाणां पूज-
नम् २९ ॥ पञ्चमदिने गदालोले स्नानं सपि-
ण्डकं श्राद्धञ्च ३३ अक्षयवटे श्राद्धं ब्रह्मकल्पित-
विप्राणां पूजनं पुरोधसे षोडशदानञ्च ३४
गायत्त्र्यग्रे प्रातःसन्ध्याचरणं सपिण्डकं श्राद्धञ्च ३५
समुद्यततीर्थे स्नात्वा सावित्र्यग्रे मध्याह्नसन्ध्या-
चरणं पिण्डदानञ्च ३६ प्राचीसरस्वत्यां स्नात्वा
सायाह्नसन्ध्याचरणं ३७ विशाला ३८ लेलि-
हानम् ३९ भरताश्रमनामकरामतीर्थम् ४० पदा-
ङ्कितम् ४१ मुण्डपृष्ठस्थगदाधरसमीपम् ४२
आकाशगङ्गा ४३ गिरिकर्णमुखं एषु स्नानं
पिण्डदानञ्च ४४ वैतरण्यां स्नानं पिण्डदानं
श्राद्धं गोदानञ्च ४५ घृतकुल्या ४६ मधुकुल्या ४७
देविकानदी ४८ शिलासङ्गम ४९ मधुस्रवासु स्नानं
सपिण्डकं श्राद्धं पिण्डदानञ्च ५० दशाश्वमेधिकम् ५१
हंसतीर्थम् ५२ अमरकण्टकम् ५३ कोटितीर्थम् ५४
रुक्मिणीकुण्डं एषु पिण्डदानम् ५५ मार्कण्डेये-
श्वर-५६ कोटीश्वरयोर्दर्शनं नमनञ्च ५७ दिवौ-
कसां पुष्करिण्यां पितृभ्यो दानम् ५८ पङ्कजवने
पाण्डुशिलायां श्राद्धम् ५९ मुख्यतीर्थे स्नानं
तर्पणं पिण्डदानञ्च ६० गयाकूपे पिण्डदानं
६१ भस्मकूटे भस्मना स्नानम् ६२ सङ्गमतीर्थे
स्नानम् ६३ धेनुकारण्ये पिण्ड दानम् ६४ काम-
धेनुपदे स्नात्वा कामदुघानमनम् ६५ ॥ * ॥
“कर्द्दमाले गयानाभौ मुण्डपृष्ठसमीपतः ।
स्नात्वा श्राद्धादिकं कृत्वा पितॄणामनृणो भवेत् ॥
फल्गुचण्डीश्मशानाक्षीमङ्गलाद्याः समर्च्चयेत् ।
गयायाञ्च वृषोत्सर्गस्त्रिसप्तकुलमुद्धरेत् ॥”
इति वायुपुराणे गयामाहात्म्यम् ॥ * ॥
तत्र मरणे मुक्तिर्यथा, तत्रैव ३ अध्याये ।
“गदाधरोद्देश्यतीर्थं सर्व्वतीर्थोत्तमोत्तमम् ।
मुक्तिर्भवेत् पितॄणाञ्च कर्त्तॄणां श्राद्धतः सदा ॥
जरायुजा अण्डजा वा स्वेदजा वापि चोद्भिदः ।
त्यक्त्वादेहं शिलायां ते यान्ति विष्णस्वरूपताम् ॥”
तत्रस्थजनार्द्दनहस्ते जीवितस्य पिण्डदानविधि-
र्यथा, --
“जनार्द्दनो भस्मकूटे तस्य हस्ते तु पिण्डदः ।
आत्मनोऽप्यथवान्येषां सव्येनैव तिलैर्व्विना ॥
जीवतां दधिसंमिश्रं सर्व्वे ते विष्णुलोकगाः ।
यस्तु पिण्डो मया दत्तस्तव हस्ते जनार्द्दन ! ॥
यमुद्दिश्य त्वया देयस्तस्मिन् पिण्डो मृते प्रंभो ! ।
एष पिण्डो मया दत्तस्तव हस्ते जनार्द्दन ! ॥
अन्तकाले गते मह्यं त्वया देयो गया शिरे ।”
इति च वायुपुदाणे गयामाहात्म्ये ४ अध्यायः ॥

गरं, क्ली, (गिरति दोषबहुलं नाशयति स्वस्मिन्

जातस्य बालकस्येति भावः । ग + पचाद्यच् ।)
ववाद्येकादशकरणान्तर्गतपञ्चमकरणम् । इति
मेदिनी । रे । २२ ॥ (यथा, बृहत्संहिता-
याम् । ९९ । ४ ।
“ववबालवकौलवतैतिलाख्य
गरवणिजविष्टिसंज्ञानाम् ।”
एतेषामधीशाः । यथा, तत्रैव । ९९ । ४-५ ।
“पतयः स्युरिन्द्रकमलज-
मित्रार्य्यमभूश्रियः सयमाः ॥
कृष्णचतुर्द्दश्यर्धाद् ध्रुवाणि
शकुनिश्चतुष्पदं नागम् ।
किन्तुघ्नमिति च तेषां
कलिवृषफणिमारुताः पतयः ॥”)
तत्र जातस्य फलम् ।
“विचारदक्षो विजितारिपक्षः
शूरोऽतिधीरो मृदुहास्ययुक्तः ।
दाता दयालुर्गु णवान्नरः स्याद्
गरे परेषामुपकारकर्त्ता ॥”
इति कोष्ठीप्रदीपः ॥
(गरादेः फलं यथा, बृहत्संहितायाम् । ९९ । ७ ।
“कृषिबीजगृहाश्रयजानि गरे
वणिजि ध्रुवकार्य्यवणिग्युतयः ॥”
गीर्य्यते भक्ष्यते इति । ग + कर्म्मण्यप् ।)
विषम् । (यथा, भागवते । ८ । ७ । ४१ ।
“तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे ॥”)
वत्सनाभाख्यविषम् । इति राजनिर्घण्टः ॥
(सम्मोहजं विषम् । इति माधवकरकृतरुग्वि-
निञ्चयटीकाकृता श्रीकण्ठदत्तेनोदररोगव्याख्याने
उक्तम् ॥)

गरः, पुं, (गीर्य्यते इति । गॄ + कर्म्मणि अप् ।)

विषम् । (यथा, भागवते । ६ । १४ । ४३ ।
“विद्वेषनष्टमतयः स्त्रियो दारुणचेतसः ।
गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति ॥”)
उपविषम् । रोगः । इति हेमचन्द्रः । ४ । ३८० ॥

गरघ्नः, पुं, (गरं विषं हन्तीति । हन् + टक् ।)

कृष्णार्जकः । वर्व्वरः । इति राजनिर्घण्टः ॥

गरघ्नी, स्त्री, (गरघ्न + टित्वात् ङीप् ।) मत्स्य-

विशेषः । गरै इति भाषा । अस्या गुणाः ।
मधुरत्वम् । कषायत्वम् । वातपित्तकफनाशित्वम् ।
रुचिबलवीर्य्यकारित्वम् । दीपनत्वम् । लघुत्वञ्च ।
इति भावप्रकाशः
पृष्ठ २/३०९
(“गरघ्नी मधुरा तिक्ता तुवरा वातपित्तहृत् ।
कफघ्नी रुचिकृल्लघ्वी दीपनी बलवीर्य्यकृत् ॥”
इति शब्दार्थचिन्तामणिधृतवचनम् ॥
गरं संसारयातनारूपं विषं हन्तीति । हन् +
टक् ङीप् च । गङ्गा । यथा, काशीखण्डे । २९ । ५४ ।
“ग्रहपीडाहरा गुन्द्रा गरघ्नी गानवत्सला ॥”)

गरणं, क्ली, (गृ सेचने गॄ निगरणे + भावे ल्युट् ।)

सेचनम् । निगरणम् । इति व्याकरणम् ॥

गरदं, क्ली, (गॄ + भावे अप् । गरो भक्षणम् । गरेण

भक्षणेन दीयते खण्ड्यते म्रियतेऽस्मादनेन वा ।
दो + अपादाने करणे वा घञर्थे कः ।) विषम् ।
इति राजनिर्घण्टः ॥

गरदः, त्रि, (गरं विषं ददातीति । दा + कः ।)

विषदानकर्त्ता । (अयं हि आततायिनामन्यतमः ।
अस्य हनने दण्डादिकं नास्ति ।) यथा, स्मृतिः ।
“अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।”
(अयं हि श्राद्धभोजने परिहर्त्तव्यः । तथा च
मनौ । ३ । १५८ ।
“आगारदाही गरदः कुण्डाशी सोमविक्रयी ।
समुद्रयायी वन्दी च तैलिकः कूटकारकः ॥”)

गरव्रतः, पुं, (गरो गरणं सर्पादिग्रसनरूपं व्रतं

नैसर्गिको नियमो यस्य ।) मयूरः । इति
शब्दरत्नावली ॥

गरभः, पुं, (गॄ + बाहुलकात् अभच् ।) गर्भः ।

इति हेमचन्द्रः । ३ । २०४ ॥

गरलं, क्ली, (गिरति ग्रसति नाशयतीत्यर्थः ।

गॄ + अलच् । गरात् भक्षणात् लाति आदत्ते
जीवनं वा । ला + कः ।) विषम् । इत्यमरः ।
१ । ८ । ९ ॥ (यथा, गीतगोविन्दे ४ । २ ।
“व्यालनिलयमिलनेन गरलमिव कलयति
मलयसमीरम् ॥”)
पन्नगविषम् । परिमाणम् । तृणपूलकम् । इति
हेमचन्द्रः ॥ घासेर गल्ला पुला आटि इत्यादि
भाषा ॥

गरलारिः, पुं, (गंरलस्य विषस्य अरिः तन्नाशक-

त्वात्तथात्वम् ।) मरकतमणिः । इति राज-
निर्घण्टः ॥

गरा, स्त्री, (गीर्य्यते भक्ष्यते औषधार्थं रोगि-

भिरिति शेषः । गॄ + कर्म्मण्यप् । ततोऽजादि-
त्वात् टाप् ।) देवदालीलता । इति राज-
निर्घण्टः ॥ निगरणम् । इति धरणी ॥

गरागरी, स्त्री, (गरं विषं आगिरति नाश-

यतीति । गरं मूषिकविषमित्येके । आ + गॄ
अच् । संज्ञायां जातौ वा ङीष् ।) देवताड-
वृक्षः । इत्यमरटीकायां स्वामी ॥ (यथास्याः
पर्य्यायाः ।
“गरागरी च वेणी च तथा स्याद्देवताडकः ।”
इति कल्पस्थाने द्बितीयेऽध्याये चरकेणोक्तम् ॥
गुणाश्चास्या जीमूतकशब्दे ज्ञातव्याः ॥)

गरात्मकं, क्ली, (गरः विषं आत्मा बीजभूतं

यस्य इति कप् ।) शोभाञ्जनबीजम् । इति
शब्दचन्द्रिका ॥
गराधिका, स्त्री, (गरेषु गरप्रतीकारादिषु
अधिका प्रधाना ।) लाक्षा । इति रत्नमाला ।
गराषिका गवाषिकापि पाठः ॥ (गरादधिका ।
विषप्रधाना ॥)

गरिमा, [न्] त्रि, (“प्रियस्थिरस्किरोरुबहुल-

गुरुवृद्धेति ।” ६ । ४ । १५७ । इति गरादेशः ।
पृथ्वादिभ्य इमनिज्वा ।” ५ । १ । १२२ । इति
इमनिच् ।) गुरुता । इति व्याकरणम् ॥ (यथा,
भागवते । ८ । २ । २२ ।
“गिरिं गरिम्ना परितः प्रकम्पयन् ॥
निषेव्यमाणोऽलिकुलैर्मदाशनैः ॥”)

गरिष्ठः, त्रि, (अतिशयेन गुरुः । “प्रियस्थिरेति ।”

६ । ४ । १५७ । इति इष्ठन् गरादेशश्च ।) अति
गुरुः । इति जटाधरः ॥ (पुं, दानवविशेषः ।
यथा, महाभारते । १ । ६५ । ३० ।
“गरिष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः ॥”
नृपविशेषः । यथा, तत्रैव । २ । ७ । १२ ।
“हविष्मांश्च गरिष्ठश्च हरिश्च न्द्रश्च पार्थिवः ॥”)

गरी, स्त्री, (गर + जातौ संज्ञायां वा ङीष् ।)

देवताडवृक्षः । इत्यमरः । २ । ४ । ६९ ॥ खरा ।
इति मेदिनी । रे । २२ ॥ (देवताडशब्देऽस्या
विवरणं बोद्धव्यम् ॥)

गरीयान्, [स्] त्रि, (अतिशयेन गुरुः ।

गुरु + इयसुन् गरादेशश्च ।) अतिगुरुः । इति
व्याकरणम् ॥

गरुडः, पुं, (गरुद्भ्यां पक्षाभ्यां डयते उड्डयते । इति

गरुत् + डी + डः । पृषोदरात् तलोपे साधुः ।
यद्वा, “गिर उडच् ।” उणां ४ । १५५ ।
इति उडच् ।) स्वनामख्यातपक्षी । तत्-
पर्य्यायः । गरुत्मान् २ तार्क्ष्यः ३ वैनतेयः ४
खगेश्वरः ५ नागान्तकः ६ विष्णु रथः ७ सुपर्णः ८
पन्नगाशनः ९ । इत्यमरः । २ । २ । ३२ ॥ महा-
वीरः १० पक्षिसिंहः ११ उरगाशनः १२ । इति
जटाधरः ॥ शाल्मली १३ हरिवाहनः १४
अमृताहरणः १५ नागाशनः १६ । इति हारा-
वली ॥ शाल्मलिस्थः १७ खगेन्द्रः १८ भुजगा-
न्तकः १९ तरस्वी २० तार्क्ष्यनायकः २१ । इति
राजनिर्घण्टः ॥ * ॥ तस्योत्पत्तिकारणं यथा, --
“यजतः पुत्त्रकामस्य कश्यपस्य प्रजापतेः ।
साहाय्यमृषयो देवा गन्धर्व्वाश्च ददुः किल ॥
तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह ।
मुनयो वालिखिल्याश्च ये चान्ये देवतागणाः ॥
शक्रस्तु वीर्य्यसदृशमिष्मभारं गिरिप्रभम् ।
समुत्क्षिप्यानयामास नातिकृच्छ्रादिव प्रभुः ॥
अथापश्यदृषीन् ह्रस्वानङ्गुष्ठोदरवर्ष्मणः ।
पलाशवृन्तिकामेकां सहितान् वहतः पथि ॥
तान् सर्व्वान् विस्मयाविष्टो वीर्य्योन्मत्तः पुरन्दरः ।
अवहस्याभ्ययाच्छीघ्रं लङ्घयित्वावमन्य च ॥
तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः ।
आरेभिरे महत् कर्म्म तदा शत्रुभयङ्करम् ॥
कामवीर्य्यः कामगमो देवराजभयप्रदः ।
इन्द्रोऽन्यो सर्व्वदेवानां भवेदिति यतव्रताः ॥
तद्बुद्ध्वा भृशसन्तप्तो देवराजः शतक्रतुः ।
जगाम शरणं तत्र कश्यपं शंसितव्रतम् ॥
तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः ।
बालिखिल्यानुपागम्य कर्म्मसिद्धिमपृच्छत ॥
अथ ते तं महात्मानं प्रत्यूचुः सत्यवादिनः ।
तान् कश्यप उवाचेदं सान्त्वपूर्ब्बं प्रजापतिः ॥”
तस्य पक्षीन्द्रत्वकारणं यथा, --
“अयमिन्द्रस्त्रिभुवने नियोगात् ब्रह्मणः कृतः
इन्द्रार्थञ्च भवन्तोऽपि यत्नवन्तस्तपोधनाः ॥
न मिथ्या ब्रह्मणो वाक्यं कर्त्तुमर्हथ सत्तमाः ।
भवतां हि न मिथ्यायं संकल्पो वै चिकीर्षितः ॥
भवत्वेष पतत्त्रीणामिन्द्रोऽतिबलसत्ववान् ।
प्रसादः क्रियतामस्य देवराजस्य याचतः ॥
बालिखिल्या ऊचुः ।
अपत्यार्थं समारम्भो भवतश्चायमीप्सितः ।
तथा चैवं विधत्स्वात्र यथाश्रेयोऽनुपश्यसि ॥
एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा ।
विनता नाम कल्याणी पुत्त्रकामा यशस्विनी ॥
तपस्तप्ता व्रतपरा स्नाता पुंसवने शुचिः ।
उपचक्राम भर्त्तारं तामुवाचाथ कश्यपः ॥
आरम्भः सफलो देवि ! भवितायं तवेप्सितः ।
जनयिष्यसि पुत्त्रौ द्वौ वीरौ त्रिभुवनेश्वरौ ॥
तपसा बालिखिल्यानां मम सङ्कल्पजौ तथा ।
एतौ सर्व्वपतत्त्रीणामिन्द्रत्वं कारयिष्यतः ॥
विनता चापि सिद्धार्था बभूव मुदिता तथा ।
जनयामास पुत्त्रौ द्वावरुणं गरुडं तथा ॥
विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःसरः ।
पतत्त्रीणान्तु गरुड इन्द्रत्वेनाभ्यषिच्यत ॥” * ॥
तस्य जन्मकालीनरूपं यथा, --
“एतस्मिन्नन्तरे चापि गरुडः काल आगते ।
विना मात्रा महातेजा विदार्य्याण्डमजायत ॥
महासत्वबलोपेतः सर्व्वा विद्योतयन्दिशः ।
कामरूपी कामगमः कामबीर्य्यो विहङ्गमः ॥
अग्निराशिरिवोद्भासन् समिद्धोऽतिभयङ्करः ।
विद्युद्विस्पष्टपिङ्गाक्षो युगान्ताग्निसमप्रभः ॥
प्रवृद्धः सहसा पक्षी महाकायो नभो गतः ।
घोरो घोरस्वनो रौद्रो वह्निरौर्व्व इवापरः ॥” * ॥
तस्य विष्णुवाहनत्वे कारणं यथा, --
“अपीत्वा चामृतं पक्षी परिगृह्याशु निःसृतः ।
अगच्छदपरिश्रान्त आवार्य्यार्कप्रभां खगः ॥
विष्णुना तु तदाकाशे वैनतेयः समेयिवान् ।
तस्य नारायणस्तुष्टस्तेनालौल्येन कर्म्मणा ॥
तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् ।
स वव्रे तव तिष्ठेयमुपरीत्यन्तरीक्षगः ॥
उवाच चैनं भूयोऽपि नारायणमिदं वचः ।
अजरश्चामरश्चास्याममृतेन विनाप्यहम् ।
एवमस्त्विति तं विष्णुरुवाच विनतासुतम् ॥
प्रतिगृह्य वरौ तौ तु गरुडो विष्णुमब्रवीत् ।
भवतेऽपि वरं दद्मि वृणोतु भगवानपि ॥
तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम् ।
ध्वजञ्च चक्रे भगवानुपरि स्थास्यतीति तम् ॥”
इति महाभारते । १ । ३१-३३ । अध्यायेषु ॥
पृष्ठ २/३१०
(व्यूहविशेषः । यथा, मनुः । ७ । १८७ ।
“वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥”
“सूक्ष्ममुखपश्चाद्भागः पृथुमध्यो वराहव्यूहः । एष
एवपृथुतरमध्यो गरुडव्यूहः ।” इति कुल्लूकभट्टः ॥)

गरुडध्वजः, पुं, (गरुडः ध्वजश्चिह्नं यस्य । यद्वा,

गरुडो ध्वजे रथध्वजे यस्य ।) विष्णुः । इत्य-
मरः । १ । १ । १९ ॥ (यथा, विष्णु पुराणे । ५ । १ । ३३ ।
“इत्युक्त्वा प्रययौ विप्र ! सहदेवैः पितामहः ।
समाहितमतिश्चैवं तुष्टाव गरुडध्वजम् ॥”
अस्य एतन्नामकारणकथा यथा, महाभारते ।
१ । ३३ । १२-१७ ।
“विष्णुना तु तदाकाशे वैनतेयः समेयिवान् ।
तस्य नारायणस्तुष्टस्तेनालौल्येन कर्म्मणा ॥
तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् ।
स वव्रे तव तिष्ठेयमुपरीत्यन्तरीक्षगः ॥
उवाच चैनं भूयोऽपि नारायणमिदं वचः ।
अजरश्चामरश्च स्याममृतेन विनाप्यहम् ।
एवमस्त्विति तं विष्णु रुवाच विनतासुतम् ॥”
“ध्वजञ्च चक्रे भगवानुपरि स्थास्यतीति तम् ॥”)

गरुडाग्रजः, पुं, (गरुडस्य अग्रजो ज्येष्ठः ।)

अरुणः । इत्यमरः । १ । ३ । ३२ ॥ (अस्य गरुडा-
ग्रजत्वकथा यथा, महाभारते । १ । ३१ । २४-३४ ।
“विनता नाम कल्याणी पुत्त्रकामा यशस्विनी ।
तपस्तप्ता व्रतपरा स्नाता पुंसवने शुचिः ॥
उपचक्राम भर्त्तारं तामुवाचाथ कश्यपः ।
आरम्भः सफलो देवि ! भवितायं तवेप्सितः ॥
जनयिष्यसि पुत्त्रौ द्वौ वीरौ त्रिभुवनेश्वरौ ।
तपसा बालिखिल्यानां मम सङ्कल्पजौ तथा ॥
भविष्यतो महाभागौ पुत्त्रौ त्रैलोक्यपूजितौ ।
उवाच चैनं भगवान् कश्यपः पुनरेव ह ॥
धार्य्यतामप्रमादेन गर्भोऽयं सुमहोदयः ।
एतौ सर्व्वपतत्त्रीणामिन्द्रत्वं कारयिष्यतः ॥”
“विनता चापि सिद्धार्था बभूव मुदिता तथा ।
जनयामास पुत्त्रौ द्वावरुणं गरुडं तथा ॥
विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःसरः ।
पतत्त्रीणाञ्च गरुड इन्द्रत्वेनाभ्यषिच्यत ॥”)

गरुडाङ्कितं, क्ली, (गरुड इव अङ्कितम् । गरुड-

सादृश्यादस्य तथात्वम् ।) मरकतमणिः । इति
शब्दरत्नावली ॥

गरुडाश्मा, [न्] पुं, (गरुडवर्णवत् अश्मा

प्रस्तरः । गरुडवर्णसादृश्यात् तथात्वम् ।) मर-
कतमणिः । इति जटाधरः ॥

गरुडोत्तीर्णं, क्ली, (गरुडादुत्तीर्णं वर्णेनेति शेषः ।

यद्वा, गरुड उत्तीर्णो वर्णेनातिक्रान्तो येन ।)
मरकतमणिः । इति राजनिर्घण्टः ॥

गरुत्, पुं, (गृणाति शब्दायते वायुवेगवशादिति ।

गॄ गि शब्दे + “मृग्रोरुतिः ।” उणां । १ । ९६ ।
इति उतिः ।) पक्षः । इत्यमरः । २ । ५ । ३६ ॥
पाखा इति भाषा ॥ (गिरतीति । गॄ
निगरणे + उतिः । निगरणम् । भक्षणम् । यथा,
यजुर्व्वेदे । १७ । ७२ । “सुपर्णोऽसि गरुत्मान् पृष्टे ।”
“अग्ने ! त्वं सुपर्णोऽसि सुपर्णपक्ष्याकारो गरुडो-
ऽसि गरुत्मान गरुत् गरणं गिलनं भक्ष
अस्यास्तीति गरुत्मान् अशनायत्वानित्यर्थः ।”
इति वेददीधितिः ॥)

गरुत्मान्, [त्] पुं, (गरुतः पक्षाः सन्त्यस्य ।

गरुत् + मतुप् ।) गरुडः । इत्यमरः । १ । १ । ३१ ।
(यथा, भागवते । ३ । १९ । ११ ।
“जग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम् ॥”)
पक्षिमात्रम् । इति मेदिनी । ते । १९६ ॥

गरुद्योधी, [न्] पुं, (गरुता पक्षेण युध्यतीति ।

युध् + णिनिः ।) भारतीपक्षी । इति त्रिकाण्ड-
शेषः ॥ भारै इति भाषा ॥

गर्गः, पुं, (गृणाति वेदध्वनिना शब्दायते स्तौति

इत्यर्थः । गॄ गि शब्दे + “मुदिग्रोर्गग्गौ ।” उणां ।
१ । १२७ । इति गः ।) मुनिविशेषः । स तु गया-
क्षेत्रे यज्ञार्थं सृष्टो ब्रह्मणः पुत्त्रः । इति वायु-
पुराणे गयामाहात्म्ये २ अध्यायः ॥ (बृहस्पति-
वंशसमुद्भवोऽन्यो मुनिभेदः । स तु वितथस्य
पुत्त्रः । यथा, हरिवंशे । ३२ । १५--२० ।
“बृहस्पतेरङ्गिरसः पुत्त्रो राजन्महामुनिः ।
संक्रामितो भरद्वाजो मरुद्भिः क्रतुभिर्व्विभुः ॥
अत्रैवोदाहरन्तीमं भरद्वाजस्य धीमतः ।
धर्म्मसंक्रमणञ्चापि मरुद्भिर्भरताय वै ॥
अयाजयद्भरद्वाजो महद्भिः क्रतुभिर्हि तम् ।
पूर्ब्बन्तु वितथे तस्य कृते वै पुत्त्रजन्मनि ॥
ततोऽथ वितथो नाम भरद्वाजात् सुतोऽभवत् ।
पौत्रेऽथ वितथे जाते भरतस्तु दिवं ययौ ॥
वितथञ्चाभिषिच्याथ भरद्वाजो वनं ययौ ।
स चापि वितथः पुत्त्रान् जनयामास पञ्च वै ॥
सुहोत्रञ्च सुहोतारं गयं गर्गन्तथैव च ॥”
अयं हि शिवमाराध्य चतुःषष्ट्यङ्गज्योतिषादि-
ज्ञानमलभत । यथा, महाभारते । १३ । १८ । ३८ ।
गर्ग उवाच ।
“चतुःचष्ट्यङ्गमददत् कलाज्ञानं ममाद्भुतम् ।
सरस्वत्यास्तटे तुष्टो (शिवः) मनोयज्ञेन पाण्डव ! ॥”
तथा, बृहत्संहितायाम् । २१ । ५ ।
“न तु तन्मतं बहूनां गर्गादीनांमतं वक्ष्ये ॥” * ॥)
तालविशेषः । यथा, सङ्गीतदामोदरे ।
“चतुर्द्रुतं विरामान्तं तालोऽयं गर्गसंज्ञितः ॥”

गर्गरः, पुं, (गॄ गि शब्दे + भावे गः । गर्गं शब्दं

रातीति । रा + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ ।
इति कः ।) मत्स्यभेदः । इति जटाधरः ॥
गागरा इति भाषा ॥ अस्य गुणाः । मधुरत्वम् ।
स्निग्धत्वम् । वातपित्तनाशित्वञ्च । इति राज-
वल्लभः ॥ अस्याकारगुणौ यथा, राजनिर्घण्टे ।
“यः पीतवर्णोऽपि च पिच्छिलाङ्गः
पृष्ठेषु रेखा बहुलः सशल्कः ।
स गर्गरो वर्व्वरनादवश्यो
जडश्च शीतः कफवातकारी ॥”
“गर्गरः पित्तलः किञ्चित् वातजित् कफकोपनः ।”
इति भावप्रकाशः ॥

गर्गरी, स्त्री, (गर्गं शब्दं रातीति । रा + कः ।

गौरादित्वात् ङीष् ।) मन्थनी । दधिमन्थन-
पात्रम् । इत्यमरः । २ । ९ । ७४ ॥ कलसी ।
गागरी इति भाषा ॥ यथा, तिथ्यादितत्त्वे ।
“मेषादौ सक्तवो देया वारिपूर्णा च गर्गरी ॥”

गर्गाटः, पुं, (गर्गेति शब्दं कृत्वा अटतीति । गर्ग +

अट् + पचाद्यच् । शकन्ध्वादिवदकारलोपः ।)
मत्स्यविशेषः । तत्पर्य्यायः । योगनाविकः २ ।
इति हारावली । १८६ ॥

गर्ज्ज, ऊर्ज्जाशब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) ऊर्ज्जा बलम् । सेमक्तात् सरोरिति
अः तत्करणकशब्दः । गर्ज्जति सिंहः । इति
दुर्गादासः ॥

गर्ज्ज, क स्वने । इति कविकल्पद्रुमः ॥ (चुरां-परं-

अकं-सेट् ।) क, गर्ज्जयति । इति दुर्गादासः ॥

गर्ज्जं, क्ली, (गर्ज्जनमिति । गर्ज्ज + भावे घञ् ।)

हस्तिशब्दः । इति देमचन्द्रः । ६ । ४१ ॥
मेघादिशब्दश्च ॥

गर्ज्जकः, पुं, (गर्ज्जतीति । गर्ज्ज + ण्वुल् ।) मत्स्य-

विशेषः । गजाड इति भाषा ॥ तत्पर्य्यायः ।
शालः । शालजः ३ । इति शब्दरत्नावली ॥
(शालशब्देऽस्य विवृतिर्ज्ञातव्या ॥)

गर्ज्जनं, क्ली, (गर्ज्ज + भावे ल्युट् ।) शब्दः ।

(गर्ज्ज्यतेऽनेनेति । गर्ज्ज + करणे ल्युट् ।)
कोपः । इति मेदिनी । ने । ५६ ॥

गर्ज्जरं, क्ली, मूलविशेषः । गाजर इति भाषा ॥

तत्पर्य्यायः । पिण्डमूलम् २ पीतकन्दम् ३
सुमूलकम् ४ स्वादुमूलम् ५ सुपीतम् ६ नार-
ङ्गम् ७ पीतमूलकम् ८ । अस्य गुणाः । मधुर-
त्वम् । रुचिकारित्वम् । किञ्चित् कटुत्वम् ।
कफाघ्मानक्रिमिशूलदाहपित्ततृष्णानाशित्वञ्च ।
इति राजनिर्घण्टः ॥ तत्पर्य्यायगुणाः ।
“गाजरं गृञ्जनं प्रोक्तं तथा नारङ्गवर्णकम् ।
गाजरं मधुरं तीक्ष्णं तिक्तोष्णं दीपनं लघु ॥
संग्राहि रक्तपित्तार्शोग्रहणीकफवातजित् ॥”
इति भावप्रकाशः ॥

गर्ज्जाफलः, पुं, (गर्ज्जा मर्म्मरध्वनिः फले यस्य ।

शुष्कपक्वफले शब्दबाहुल्यादस्य तथात्वम् ।)
विकण्टकवृक्षः । इति राजनिर्घण्टः ॥ (गर्ज्जा
गर्ज्जनमेव फलं यस्य ।) युद्धम् । इति हेम-
चन्द्रः ॥ भर्त्सनम् । उत्तेजनम् । इति शब्द-
रत्नावली ॥

गर्ज्जिः, पुं, (गर्ज्ज ऊर्ज्जाशब्दे + “सर्व्वधातुभ्य

इन् ।” उणां । ४ । ११७ । इति इन् ।) मेघ-
शब्दः । इति हेमचन्द्रः । ६ । ४२ ॥

गर्ज्जितं, क्ली, (गर्ज्ज + भावे क्तः ।) मेघशब्दः ।

इत्यमरः । १ । ३ । ८ ॥ (रणादौ आस्फा-
लनम् । यथा, हरिवंशे । १८२ । ४९ ।
“बाण ! किं गर्ज्जसे मोहात् शूराणां नास्ति
गर्ज्जितम् ।
एह्येहि युध्यस्व रणे किं वृथा गर्ज्जितेन ते ॥”)
कृतशब्दे त्रि ॥ (यदुक्तं स्मृतौ ।
“सन्ध्यायां गर्ज्जिते मेधे शास्त्रचिन्तां करोति यः ।
चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो बलम् ॥”)
पृष्ठ २/३११

गजितः, पुं, (गर्ज्जो गर्ज्जनं जातोऽस्य । जातार्थे

इतच् ।) मत्तहस्ती । इत्यमरः । २ । ८ । ३६ ॥

गर्त्तः, पुं, (गिरति ग्रसति स्वस्मिन् पतितं जीव-

जातादिकमित्यर्थः । गॄ निगरणे + “हसि-
मृग्रिण्वामिदमीति ।” उणां । ३ । ८६ ।
इति तन् ।) भुवि श्वभ्रम् । गाडा इति
भाषा ॥ तत्पर्य्यायः । अवटः २ । इत्यमरः ।
१ । ८ । २ ॥ भूरन्ध्रम् ३ दरः ४ श्वभ्रम् ५ ।
इति जटाधरः ॥ आवटिः ६ आवटुः ७ पृथिवी-
रन्ध्रम् ८ । इति शब्दरत्नावली ॥ (यथा, मार्क-
ण्डेये । २१ । ९ ।
“धरण्यां विवृते गर्त्ते निपपात लघुक्रमः ॥”)
त्रिगर्त्तदेशः । कुकुन्दरः । इति मेदिनी । ते । १३ ॥
रोगभेदः । इति शब्दरत्नावली ॥ (मातृगर्भ-
रूपगह्वरम् । यथा, भागवते । ३ । ३१ । ५ ।
“शेते विण्मूर्त्तयोर्गर्त्ते स जन्तुर्जन्तुसम्भवे ॥”
कूषः । यथा, तत्रैव । ३ । १३ । ३४ ।
“यद्रोमगर्त्तेषु निलिल्युरध्वरा-
स्तस्मै नमः कारणशूकराय ते ॥”
नरकविशेषः । यथा, मार्कण्डेये । २१ । १० ।
“निपपात महागर्त्ते तिमिरौघसमावृते ॥”
अष्टधनुःसहस्रेभ्यो न्यूनगतिदेवखातभेदः ।
एतल्लक्षणं यथा, छन्दोगपरिशिष्टे ।
“धनुः सहस्राण्यष्टौ च गतिर्यासां न विद्यते ।
न ता नदीशब्दवहा गर्त्तास्ताः परिकीर्त्तिताः ॥”
अस्योदाहरणं यथा, मनौ । ४ । २०३ ।
“नदीषु देवखातेषु तडागेषु सरःसु च ।
स्नानं समाचरेन्नित्यं गर्त्तप्रस्रवणेषु च ॥”
गीर्य्यते स्तूयते वेदस्तुतिं कुर्व्वता जनेनेति । ग +
तन् गुणश्च । देवरथः । यथा, ऋग्वेदे । ५ । ६२ । ८ ।
“आरोहथो वरुण ! मित्र ! गर्त्तमतश्चाक्षाथे
अदितिं दितिं च ॥” “गर्त्तं रथम ॥” इति
भाष्यम् ॥)

गर्त्तिका, स्त्री, (गर्त्तोऽस्त्यस्याः इति ठन् ।)

तन्तुशाला । इति हेमचन्द्रः । ३ । ६५ ॥ ताँत्-
घर इति भाषा ॥

गर्द्द, कि रवे । इति कविकल्पद्रुमः ॥ (चुरां-

पक्षे-भ्वां-परं-अकं-सेट् ।) कि, गर्द्दयति गर्द्दति ।
रवः शब्दः । इति दुर्गादासः ॥

गर्द्दभं, क्ली, (गर्द्द्यते शब्द्यते विश्रूयते गन्धादिभि-

रिति यावत् । गर्द्द रवे । “कॄशॄशलिकलि-
गर्द्दिभ्योऽभच् ।” उणां । ३ । १२२ । इति अभच् ।)
श्वेतकुमुदम् । इति हेमचन्द्रः ॥ (यथा, वैद्यक-
रत्नमालायाम् ।
“कैरवं चन्द्रकान्तञ्च गर्द्दभं कुमुदं कुमुत् ॥”)
विडङ्गम् । इति रत्नमाला ॥

गर्द्दभः, पुं, (गर्द्दति गर्द्दयति वा कर्कशशब्दं करो-

तीत्यर्थः । गर्द्द कि रवे + “कशॄशलिकलीति ।”
उणां । ३ । १२२ । इति अभच् ।) पशुविशेषः ।
गाधा इति भाषा । (यथा, मनौ । ८ । २९८ ।
“गर्द्दभाजाविकानान्तु दण्डः स्यात् पञ्च
माषिकः ॥”)
तत्पर्य्यायः । चक्रीवान् २ बालेयः ३ रासभः ४
खरः ५ । इत्यमरः । २ । ९ । ७७ ॥ राशभः ६ ।
इति तट्टीका ॥ शङ्ककर्णः ७ भारगः ८ भूरि-
गमः ९ धूसराह्वयः १० वेशवः ११ धूसरः १२ ।
इति जटाधरः ॥ स्मरसूर्य्यः १३ चिरमेही १४
पशुचरिः १५ चारपुङ्खः १६ चारटः १७
ग्राम्याश्वः १८ । इति शब्दरत्नावली ॥ * ॥ अस्य
मांसस्य गुणः । किञ्चित् गुरुत्वं बलप्रदत्वञ्च ।
मूत्रस्य गुणाः । कटुत्वम् । उष्णत्वम् । तिक्त-
त्वम् । क्षारत्वम् । कफमहावातभूतकम्पोन्माद-
हरत्वञ्च । इति राजनिर्घण्टः ॥ (तथा च ।
“गार्द्दभं वा घंनं मूत्रं तैलयोग्यं क्वचिद्भवेत् ।
सक्षारं तिक्तकटुकमुन्मादकुष्ठरोगजित् ॥”
इति हारीते प्रथमे स्थाने नवमेऽध्याये ॥
“गरचेतोविकारघ्नं तीक्ष्णं ग्रहणिरोगनुत् ।
दीपनं गार्द्दभं मूत्रं कृमिवातकफापहम् ॥”
इति सुश्रुते सूत्रस्थाने ५४ अध्याये ॥)
तस्मात् गुणशिक्षा यथा, --
“अविश्रामं वहेद्भारं शीतोष्णञ्च न विन्दति ।
ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्द्दभात् ॥”
इति चाणक्यम् । ७० ॥

गर्द्दभगदः, पुं, (गद्यते पीड्यतेऽनेनागद + करणे अच् ।

गदो रोगः । गर्द्दभनामको गदः शाकपार्थिववत्
समासः ।) ज्वालागर्द्दभकरोगः । इति राज-
निर्घण्टः ॥ अस्य लक्षणं जालगर्द्दभशब्देद्रष्टव्यम् ॥

गर्द्दभशाकः, पुं, (गर्द्दभाख्यः शाकः । यद्वा, गर्द्दभ-

प्रियः शाको यस्य ।) ब्रह्मयष्टिवृक्षः । इति
जटाधरः ॥

गर्द्दभशाका, स्त्री, (गर्द्दभशाक + टाप् ।) ब्रह्म-

यष्टिः । वामनहाटी इति भाषा ॥ इति रत्न-
माला ॥

गर्द्दभर्शाखी, स्त्री, (गर्द्दभाख्या शाखा यस्याः ।

यद्वा गर्द्दभप्रिया शाखा अस्याः जातौ संज्ञायां
वा ङीष् ।) भार्गी । इति राजनिर्घण्टः ॥

गर्द्दभाण्डः, पुं, (गर्द्दभं गन्धविशेषं अमति गच्छति

प्राप्नोतीत्यर्थः । अम गत्याम् + “ञमन्ताड्डः ।”
उणां । १ । ११३ । इति डप्रत्ययः ।) वृक्षविशेषः ।
गान्धिभाट इति ख्यातः । अयं पत्रकाण्ड-
फलादिभिरश्वत्थाकारः । गन्धपिप्पलः । इति
केचित् । इति भरतः ॥ गर्द्दपिप्पली । इति
ख्यातः । इति सारसुन्दरी ॥ तत्पर्य्यायः । कन्द-
रालः २ कपीतनः ३ सुपार्श्वकः ४ प्लक्षः ५ ।
इत्यमरः । ३ । ४ । ४२ ॥ शुङ्गी ६ प्लवः ७
कमण्डलुः ८ । इति जटाधरः ॥ गर्द्धभाण्डः ९
प्लक्षेशः १० कन्दरालकः ११ । इति शब्दरत्ना-
वली ॥ प्लक्षवृक्षः । इति राजनिर्घण्टः ॥ पाकुड
इति भाषा ॥ (कपीतनाश्वत्थशब्दयोरस्य विवृति-
र्ज्ञेया ॥)

गर्द्दभाह्वयः, पुं, (गर्द्दभेन गन्धेन आह्वयति स्पर्द्धते

इति । आ + ह्वे + अच् । यद्वा गर्द्दभः आह्वयः
आख्या अस्य ।) कुमुदम् । इति हेम-
चन्द्रः । ४ । २३० ॥

गर्द्दभिका, स्त्री, (गर्द्दभः दुर्गन्धमयपिडकाभेदो

विद्यतेऽस्यामिति ठन् टाप् च ।) क्षुद्ररोग-
विशेषः । तल्लक्षणं यथा, --
“मण्डलं वृत्तमुत्सन्नं सरक्तं पिडकाचितम् ।
रुजाकरीं गर्द्दभिकां तां विद्यात् वातपित्तजाम् ॥”
तच्चिकित्सा यथा, --
“विवृत्तामिन्द्रवृद्धाञ्च गर्द्दभीं जालगर्द्दभम् ।
पैत्तिकस्य विसर्पस्य क्रियया साधयेद्भिषक् ॥
पाके तु शोषयेदाज्यैः पक्वैर्म्मधुरभेषजैः ॥”
इति भावप्रकाशः ॥

गर्द्दभी, स्त्री, (गर्द्दभस्य पत्नीति स्त्रियां जातौ

गौरादित्वाद्वा ङीष् ।) गर्द्दभपत्नी ।
(“सहैव दशभिः पुत्त्रैर्भारं वहति गर्द्दभी ॥”)
तस्याः क्षीरस्य गुणाः । बलकारित्वम् । वात-
श्वासहरत्वम् । मधुराम्लरसत्वम् । रूक्षत्वम् ।
दीपनत्वम् । पथ्यत्वञ्च । तद्दधिगुणाः । रूक्ष-
त्वम् । उष्णत्वम् । लघुत्वम् । दीपनत्वम् । पाच-
नत्वम् । मधुराम्लरसत्वम् । रुच्यत्वम् । वातदोष-
नाशित्वञ्च । तन्नवनीतगुणाः । कषायत्वम् । कफ-
वातनाशित्वम् । बल्यत्वम् । दीपनत्वम् । पाके
लघुत्वम् । उष्णत्वम् । मूत्रदोषकारित्वञ्च । इति
राजनिर्घण्टः ॥ क्षुद्रजन्तुविशेषः । गर्द्दभिका-
रोगः । इति मेदिनी । ने । १६ ॥ (अस्य लक्षणं
यथा, --
“सा विद्धा वातपित्ताभ्यां ताभ्यामेव च गर्द्दभी ।
मण्डला विपुलोत्सन्ना सरागपिटिकाचिता ॥”
इति वाभटे उत्तरस्थाने एकत्रिंशेऽध्याये ॥)
अपराजिता । श्वेतकण्टकारी । कटभी । इति
राजनिर्घण्टः ॥ (क्षुद्रकीटभेदः । यथाह सुशुतः ।
“पञ्चकीटो दुन्दुभिको मकरः शतपादकः ।
पञ्चालकः पाकमत्स्यः कृष्णतुण्डोऽथ गर्द्दभी ॥”)

गर्द्ध, क लिप्से । इति कविकल्पद्रुमः ॥ (चुरां-परं-

सकं-सेट् ।) क, गर्द्धयति । इति दुर्गादासः ॥

गर्द्धः, पुं, (गर्द्ध्यते इति । गर्द्ध + भावे घञ् ।) स्पृहा ।

इति हेमचन्द्रः । ३ । ९४ ॥ गर्द्दभाण्डवृक्षः ।
इति शब्दचन्द्रिका ॥

गर्द्धनः, त्रि, (गृध्यति स्पृहयतीति । गृघ् + “जु-

चङ्क्रम्यदन्द्रम्यसृगृधीति ।” ३ । २ । १५० ।
इति युच् ।) लुब्धः । इत्यमरः । ३ । ९ । २२ ॥

ग(र्व्व)र्ब्ब, त् क ङ दर्पे । इति कविकल्पद्रुमः ॥

(अदन्त चुरां-आत्मं-अकं-सेट् ।) दर्पोऽहङ्कारः ।
ङ, गर्व्वयते गर्व्वापयते धनैर्नीचः । इति दुर्गा-
दासः ॥

ग(र्व्व)र्ब्ब, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) गर्व्वति । इति दुर्गादासः ॥

ग(र्व्व)र्ब्बः, पुं, (गर्व्व + भावे अप् । यद्वा, गिरति

मदमिति । गॄ निगरणे + “कॄगॄशॄदॄभ्यो वः ।”
उणां । १ । १५५ । इति वः ।) अहङ्कारः ।
दर्पार्थादन्तगर्व्वधातोर्भावेऽल्प्रत्ययः ॥ इति मुग्ध-
बोधम् ॥ (यथा, रामायणे । २ । ३१ । २० ।
“यदि दुःस्थो न रक्षेत भरतो राज्यमुत्तमम् ।
प्राप्य दुर्मनसा वीर ! गर्ब्बे(र्व्व)ण च विशेषतः ॥”)
पृष्ठ २/३१२

गर्भः, पुं, (गीर्य्यते जीवसञ्चितकर्म्मफलदात्रा ईश्व-

रेण प्रकृतिबलात् जठरगह्वरे स्थाप्यते पुरुष-
शुक्रयोगेणासौ । गॄ + “अर्त्तिगॄभ्यां भन् ।”
उणां । ३ । १५२ । इति कर्म्मणि भन् ।)
भ्रूणः । तद्विवरणं यथा, --
“स्वर्गाच्च नरकान्मुक्तः स्त्रीणां गर्भो भवत्यपि ।
नाभिभूतञ्च तस्यैव याति बीजद्वयं हि तत् ॥
कलनं बुद्वुदत्वञ्च ततः पेशीत्वमेव च ।
पेश्यापलसमोऽण्डः स्यादङ्कुरस्तत उच्यते ॥
अङ्गानामथ चोत्पत्तिः पञ्चानामतुलांशकात् ।
उपाङ्गान्यङ्गुलीनेत्रनासास्यश्रवणानि च ॥
प्ररोहं यान्ति चाङ्गेभ्यस्तद्वत्तेभ्यो नखादिकम् ।
त्वचो रोमाणि जायन्ते केशाश्चैव ततः परम् ॥
नरश्चाधोमुखः स्थित्वा दशमे च स जायते ।
ततस्तु वैष्णवी माया समाश्रयति मोहिनी ॥
बालत्वन्तु कुमारत्वं यौवनं वृद्वतामपि ।
ततश्च मरणं तत्तद्धर्म्ममाप्नोति मानवः ॥
एवं संसारचक्रेऽस्मिन् भ्राम्यते घटियन्त्रवत् ।”
इति गारुडे २२९ अध्यायः ॥
तस्य लक्षणं यथा, --
“गर्भाशयगतं शुक्रमार्त्तवं जीवसंज्ञकम् ।
प्रकृतिः सविकारा च तत् सर्व्वं गर्भसंज्ञकम् ॥
कालेन वर्द्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः ।
भवेत्तदा स मुनिभिः शरीरीति निगद्यते ॥” * ॥
तदन्यप्रकृतिर्यथा, --
“यदा नार्य्यावुपेतायां वृषस्यन्तौ कथञ्चन ।
मुञ्चन्त्यौ शुक्रमन्योऽन्यमनस्थिस्तत्र जायते ॥
ऋतुस्नाता तु या नारी स्वप्ने मैथुनमाचरेत् ।
आर्त्तवं वायुरादाय कुक्षौ गर्भं करोति हि ॥
मासि मासि प्रवर्द्धेत स गर्भो गर्मलक्षणः ।
करणं जायते तस्या वर्जितं पैतृकैर्गुणैः ॥”
इति भावप्रकाशः ॥ * ॥
अस्य द्बादशधा गतिर्यथा, --
“भुग्नोऽनिलेन विगुणेन ततः स गर्भः
संख्यामतीत्य बहुधा समुपैति योनिम् ।
द्वारं निरुध्य शिरसा जठरेण कश्चित्
कश्चिच्छरीरपरिवर्त्तितकुब्जदेहः ॥
एकेनं कश्चिदपरन्तु भुजद्वयेन
तिर्य्यग्गतो भवति कश्चिदवाङ्मुखोऽन्यः ।
“पार्श्वापवृत्तगतिरेति तथैव कश्चि-
दित्यष्टधा गतिरियं ह्यपरा चतुर्द्धा ॥
सङ्कीलकः प्रतिखुरः परिघोऽथ बीज-
स्तेषूर्द्ध्वबाहुचरणैः शिरसा च योनौ ।
सङ्गी च यो भवति कीलकवत् सकीलो
दृश्यैः खुरैः प्रतिखुरः स हि कायसङ्गी ॥
ग च्छेद्भुजद्वयशिराः स च बीजकाख्यो
योनौ स्थितः सपरिघः परिघेण तुल्यः ॥” * ॥
गर्भनाशलक्षणादि ।
“अपविद्धशिरा या तु शीताङ्गां निरपत्रपा ।
नीलोद्गतशिरा हन्ति सा गर्भं स च तां तथा ॥
मानसागन्तुभिर्मातुरुपतापैः प्रपीडितः ।
गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च प्रपीडितः ॥” * ॥
अन्तर्मृतगर्भलक्षणं यथा, --
“गर्भास्पन्दनमाधीनां प्रणाशः श्याववर्णता ।
भवेदुच्छ्वासपूतित्वं शोथश्चान्तर्मृते शिशौ ॥”
इति माधवकरः ॥ * ॥
(“कामान्मिथुनसंयोगे शुद्धशोणितशुक्रजः ।
गर्भः सञ्जायते नार्य्याः सञ्जातो बाल उच्यते ॥
आधिक्ये रजसः कन्या पुत्त्रः शुक्राधिके भवेत् ।
नपुंसकं समत्वेन यथेच्छा पारमेश्वरी ॥”
इति पूर्ब्बखण्डे चतुर्थेऽध्याये शार्ङ्गधरेणोक्तम् ॥
“शुद्धे शुक्रार्त्तवे सत्वः स्वकर्म्मक्लेशचोदितः ।
गर्भः सम्पद्यते युक्तिवशादग्निरिवारणौ ॥
बीजात्मकैर्महाभूतैः सूक्ष्मैः सत्त्वानुगैश्च सः ।
मातुश्चाहाररसजैः क्रमात् कुक्षौ विवर्द्धते ॥
तेजो यथार्करश्मीनां स्फटिकेन तिरस्कृतम् ।
नेन्धनं दृश्यते गच्छत् सत्वो गर्भाशयं तथा ॥
कारणानुविधायित्वात् कार्य्याणां तत्स्वभावता ।
नानायोन्याकृतीः सत्वो धत्तेऽतो द्रुतलोहवत् ॥
अतएव च शुक्रस्य बाहुल्याज्जायते पुमान् ।
रक्तस्य स्त्री तयोः साम्ये क्लीवः शुक्रार्त्तवे पुनः ॥
वायुना बहुशो भिन्ने यथास्वं बह्वपत्यता ।
वियोनिविकृताकारा जायन्ते विकृतैर्मलैः ॥”
“पूर्णषोडशवर्षा स्त्री पूर्णविंशेन सङ्गता ।
शुद्धे गर्भाशये मार्गे रक्ते शुक्रेऽनिले हृदि ॥
बीर्य्यवन्तं सुतं सूते ततो न्यूनाब्दयोः पुनः ।
रोग्यल्पायुरधन्यो वा गर्भो भवति नैव वा ॥”
“शुद्धशुक्रार्त्तवं स्वच्छं सरक्तं मिथुनं मिथः ।
स्नेहैः पुंसवनैः स्निग्धं शुद्धशीलितवस्तिकम् ॥
नरं विशेषात् क्षीराज्यैर्मधुरौषधसंस्कृतः ।
नारीं तैलेन माषैश्च पित्तलैः समुपाचरेत् ॥”
“मासेनोपचितं रक्तं धमनीभ्यामृतौ पुनः ।
ईषत् कृष्णं विगन्धञ्च वायुयोनिमुखान्नुदेत् ॥
ततः पुष्पे क्षणादेव कल्याणध्यायिनीत्र्यहम् ।
मृजालङ्काररहिता दर्भसंस्तरशायिनी ॥
क्षैरेययावकं स्तोकं कोष्ठशोधनकर्षणम् ।
पर्णे शरावे हस्ते वा भुञ्जीतब्रह्मचारिणी ।
चतुर्थेऽह्नि ततः स्नात्वा शुक्लमाल्याम्बरा शुचिः ॥
इच्छन्ती भर्त्तृसदृशं पुत्त्रं पश्येत् पुरः पतिम् ।
ऋतुस्तु द्बादशनिशाः पूर्ब्बास्तिस्रश्च निन्दिताः ॥
एकादशी च युग्मासु स्यात् पुत्त्रोऽन्यासु कन्यका ।
उपाध्यायोऽथ पुत्त्रीयं कुर्व्वीत विधिवद्विधिम् ॥
नमस्कारपरायास्तु शूद्राया मन्त्रवर्ज्जितम् ।
अबन्ध्य एवं संयोगः स्यादपत्यञ्च कामतः ॥
सन्तोऽप्याहुरपत्यार्थं दम्पत्योः सङ्गतं रहः ।
दुरपत्यं कुलाङ्गारो गोत्रे जातं महत्यपि ॥
इच्छेतां यादृशं पुत्त्रं तद्रूपचरितांश्च तौ ।
त्तिन्तयेतां जनपदांस्तदाचारपरिच्छदौ ॥
कर्म्मान्ते च पुमान् सर्पिः क्षीरशाल्योदनाशितः ।
तैलमाषोत्तराहारा तत्र मन्त्रं प्रयोजयेत् ॥
अहिरसि आयुरसि सर्व्वतः प्रतिष्ठासि धाता
त्वाम् ।
दधातु विधाता त्वां दधातु ब्रह्मवर्च्चसा भवेति ॥
ब्रह्मा बृहस्पतिर्विष्णुः सोमः सूर्य्यस्तथाश्विनौ ।
भगोऽथ मित्रावरुणौ वीरं ददतु मे सुतम् ॥
सान्त्वयित्वा ततोऽन्योन्यं संविशेतां मुदा-
न्वितौ ।
उत्ताना तन्मना योषित् तिष्ठेदङ्गैः सुसंस्थितैः ॥
तथाहि बीजं गृह्णाति दोषैः स्वस्थानमास्थितैः ।
लिङ्गन्तु सद्यो गर्भाया योन्यां बीजस्य संग्रहः ॥
तृप्तिर्गुरुत्वं स्फुरणं शुक्रास्राननुबन्धनम् ।
हृदयस्पन्दनं तन्त्रा तृड्ग्लानिर्लोमहर्षणम् ॥
अव्यक्तः प्रथमे मासि सप्ताहात् कलली भवेत् ।
गर्भः पुंसवनान्यत्र पूर्ब्बं व्यक्तेः प्रयोजयेत् ॥
बली पुरुषकारो हि दैवमप्यतिवर्त्तते ।
पुष्ये पुरुषकं हैमं राजतं वाथ वायसम् ॥
कृत्वाग्निवर्णं निर्व्वाप्य क्षीरे तस्याञ्जलिं पिबेत् ।
गोरदण्डमपामार्गं जीवकर्षभसैर्य्यकान् ॥
पिबेत् पुष्ये जले पिष्टान् एकद्वित्रिसमस्तशः ।
क्षीरेण श्वेतबृहतीमूलं नासापुटे स्वयम् ॥
पुत्त्रार्थं दक्षिणे सिञ्चेत् वामे दुहितृवाञ्छया ।
पयसा लक्षणमूलं पुत्त्रोत्पादस्थितिप्रदम् ॥
नासयास्येन वा पीतं वटशृङ्गाष्टकन्तथा ।
ओषघीर्जीवनीयाश्च बाह्यान्तरुपयोजयेत् ॥
उपचारः प्रियहितैर्भर्त्रा भृत्यैश्च गर्भधृक् ।
नवनीतघृतक्षीरैः सदा चैनामुपाचरेत् ॥
अतिव्यवायमायासं भारं प्रावरणं गुरु ।
अकालजागरस्वप्नकठिनोत्कटकासनम् ॥
शोकक्रोधभयोद्वेगवेगश्रद्धाविधारणम् ।
उपवासाध्वतीक्ष्णोष्णगुरुविष्टम्भिभोजनम् ॥
रक्तं निरसनं श्वभ्रकूपेक्षां मद्यमामिषम् ।
उत्तानशयनं यच्च स्त्रियो नेच्छन्ति तत् त्यजेत् ॥
तथा रक्तस्रुतिं शुद्धिं वस्तिमामासतोऽष्टमात् ।
एभिर्गर्भः स्रवेदामः कुक्षौ शुष्येत् म्रियेत वा ॥
वातलैश्च भवेद्गर्भः कुब्जान्धजडवामनः ।
पित्तलैः खलतिः पिङ्गः श्वित्री पाण्डुः कफा-
त्मभिः ॥
व्याधींश्चास्या मृदुसुखैरतीक्ष्णैरौषधैर्जयेत् ।
द्वितीये मासि कललाद्घनः पेश्यथवार्व्वुदम् ॥
पुंस्त्रीक्लीवाः क्रमात्तेभ्यस्तत्र व्यक्तस्य लक्षणम् ।
व्यक्तीभवति मासेऽस्य तृतीये गात्रपञ्चकम् ॥
मूर्द्वा द्वे सक्थिनी बाहू सर्व्वसूक्ष्माङ्गजन्म च ।
सममेव हि मूर्द्धाद्यैर्ज्ञानञ्च सुखदुःखयोः ॥
गर्भस्य नाभौ मातुश्च हृदि नाडी निबध्यते ।
यया स पुष्टिमाप्नोति केदार इव कुल्यया ॥
चतुर्थे व्यक्तताङ्गानाञ्चेतनायाश्च पञ्चमे ।
षष्ठे स्नायुशिरारोम-बल-वर्ण-नख-त्वचाम् ॥
सर्व्वैः सर्व्वाङ्गसम्पूर्णो भावैः पुष्यति सप्तमे ।
गर्भेणोत्पीडिता दोषास्तस्मिन् हृदयमाश्रिताः ॥
कण्डूं विदाहं कुर्व्वन्ति गर्भिण्याः किक्किसानि च ।
नवनीतं हितन्तत्र कोलाम्बुमधुरौषधः ॥
सिद्धमल्पपटुस्नेहं लघुखादु च भोजनम् ॥
चन्दनोशीरकल्केन लिम्पेदूरुस्तनोदरम् ।
ओजोऽष्टमे सञ्चरति माता पुत्त्रौ मुहुः क्रमात् ॥
तेन तौ म्लानमुदितौ तत्र जातो न जीवति ।
शिशुरोजोऽनवस्थानात् नारीसशयिता भवेत् ॥
पृष्ठ २/३१३
क्षीरपेया च पेयात्र सघृतान्वासनं घृतम् ।
मधुरैः साधितं शुद्ध्यै पुराणशकृतस्तथा ॥
शुष्कमूलककोलाम्लकषायेण प्रशस्यते ।
शताह्वकल्कितो वस्तिः स तैलघृतसैन्धवः ॥
तस्मिंस्त्वेकाहयातेऽपि कालः सूतेरतः परम् ।
वर्षाद्विकारकारी स्यात् कुक्षौ वातेन धारितः ॥
शस्तश्च नवमे मासि स्निग्धो मांसरसौदनः ।
बहुस्नेहा यवार्गूवा पूर्ब्बोक्तञ्चानुवासनम् ॥
तत एव पिचुञ्चास्या योनौ नित्यं निधापयेत् ।
वातघ्नपत्रभङ्गाम्भः शीतं स्नानेऽन्वहं हितम् ॥
निःस्नेहाङ्गी न नवम्रान्मासात् प्रभृति वासयेत् ।
प्राग्दक्षिणस्तनस्तन्या पूर्ब्बं तत् पार्श्वचेष्टिनी ॥
पुन्नामदोहदप्रश्नरता पुंस्वप्रदर्शिनी ।
उन्नते दक्षिणे कुक्षौ गर्भे च परिमण्डले ॥
पुत्त्रं सूतेऽन्यथा कन्यां या चेच्छति नृसङ्गतिम् ।
नृत्यवादित्रगान्धर्व्व-गन्धमाल्यप्रिया च या ॥
क्लीवं तत् सङ्करे तत्र मध्यं कुक्षेः समुन्नतम् ।
यमौ पार्श्वद्वयोन्नामात् कुक्षौ द्रोण्यामिव स्थिते ॥
प्राक् चैव नवमान्मासात् सूतिका गृहमाश्रयेत् ।
देशे प्रशस्ते सम्भारैः सम्पन्नं साधकेऽहनि ॥
तत्रोदीक्षेत सा सूतिं सूतिका परिवारिता ।
अद्य श्वः प्रसवे ग्लानिः कुक्ष्यक्षिश्लथताक्लमः ॥
अधो गुरुत्वमरुचिः प्रसेको बहुमूत्रता ।
वेदनोरूदरकटीपृष्ठहृद्वस्तिवंक्षणे ॥
योनिभेदरुजातोदस्फुरणस्रवणानि च ।
आवीनामनुजन्मातस्ततो गर्भोदकस्रुतिः ॥
अथोपस्थितगर्भां तां कृतकौतुकमङ्गलाम् ।
हस्तस्थपुन्नांमफलां स्वभ्यक्तोष्णाम्बुसेचिताम् ॥
पाययेत् सघृतां पेयां तनौ भूशयने स्थिताम् ।
आभुग्नसक्थिमु त्तानामभ्यक्ताङ्गीं पुनः पुनः ॥
अधोनाभेर्विमृद्नीयात् कारयेज्जृम्भचंक्रमम् ।
गर्भः प्रयात्यवागेवन्तल्लिङ्गं हृद्विमोक्षतः ॥
आविश्य जठरं गर्भो वस्तेरुपरि तिष्ठति ।
आव्यो हि त्वरयन्त्येनां खट्वामारोपयेत्ततः ॥
अथ सम्पीडिते गर्भे योनिमस्याः प्रसाधयेत् ।
मृदुपूर्ब्बं प्रवाहेत वाढमाप्रसवाच्च सा ॥
हर्षयेत्तां मुहुः पुत्त्रजन्मशब्दजलानिलैः ।
प्रत्यायान्ति तथाप्राणाः सूतिक्लेशावसादिताः ॥
घूपयेद्गर्भसङ्गे तु योनिं कृष्णाहिकञ्चुकैः ।
हिरण्यपुष्पीमूलञ्च पाणिपादेन धारयेत् ॥
सुवर्च्चलां विशल्य वा जराय्वपतनेऽपि च ।
कर्य्यिमेतत् तथोत्क्षिप्य बाह्वोरेनां विकम्पयेत् ॥
कटीमाकोटयेत् पार्ष्ण्या स्फिचौ गाढं निपी-
डयेत् ।
तालुकण्ठं स्पृशेद्वेण्या मूर्द्ध्नि दद्यात् स्नुहीपयः ॥
भूर्ज्जलाङ्गलिकीतुम्बी सर्पत्वक्कुष्ठसर्षपैः ।
पृथग् द्वाभ्यां समस्तैर्वा योनिलेपनधूपनम् ॥
कुष्ठतालीशकल्कं वा सुरामण्डेन पाययेत् ।
यूषेण वा कुलत्थानां विल्वजेनासवेन वा ॥
शताह्वासर्षपाजाजीशिग्रुतीक्ष्णकचित्रकैः ।
सहिङ्गुकुष्ठमदनैर्मूत्रे क्षीरे च सार्षपम् ॥
तैलं सिद्धं हितं पायौ योन्यां वाप्यनुवासनम् ।
शतपुष्पा वचाकुष्ठकणासर्षपकल्कितः ॥
निरूहः पातयत्याशु सस्नेहलवणोऽपराम् ।
तत्सङ्गे ह्यनिलो हेतुः सा निर्य्यात्याशु तज्जयात् ।
कुशला पाणिनाक्तेन हरेत्कॢप्तनखेन वा ।
मुक्तगर्भा परां योनिं तैलेनाङ्गञ्च मर्द्दयेत् ॥
मकल्लाख्ये शिरोवस्ति कोष्ठशूले तु पाययेत् ।
सचूर्णितं यवक्षारं घृतेनोष्णजलेन वा ॥
धान्याम्बु वा गुडव्योषत्रिजातकरजोऽन्वितम् ॥”
इति वाभटे शरीरस्थाने प्रथमोऽध्यायः ॥ * ॥
अथ गर्भोपचारः ।
आत्रेय उवाच ।
“प्रथमे मासि मधुकं मधुपुष्पाणि चैवहि ।
नवनीतेन पयसा मधुरं पाययेच्च सा ॥
द्वितीये मासि काकोली मधुरं पाययेत्तथा ।
तृतीये कृशरं श्रेष्ठं चतुर्थे च कृतौदनम् ॥
पञ्चमे पायसं दद्यात् षष्ठे च मधुरं दधि ।
सप्तमे घृतखण्डेन चाष्टमे घृतपूरकम् ॥
नवमे विविधान्नानि दशमे दोहदन्तथा ।
मासे तृतीये सम्प्राप्ते दोहदं भवति स्त्रियाः ॥
यद्यत् कामयते सा च तत्तद्दद्याद्भिषग्वरः ।
वर्ज्जयेद्द्विदलान्नानि विदाहीनि गुरूणि च ॥
अम्लानि सोष्णक्षीराणि गुर्व्विणीनां विवर्ज्जयेत् ।
मृत्तिका भक्षणीया न न च शूरणकन्दकाः ॥
रसोनश्च पलाण्डुश्च सन्त्यक्तो गुर्व्विणीस्त्रिया ।
शूरणानि प्रदेयानि गौल्यानि सरसानि च ॥
पथ्ये हितानि चैतानि गुर्व्विणीनां सदा भिषक् ।
व्यायामं मैथुनं रोषं शौर्य्यञ्चक्रमणन्तथा ॥
वर्ज्जयेद्गुर्व्विणीनाञ्च जायन्ते सुखसम्पदः ॥
अथोपपन्नं विहिंतमपि स्वकीयाचारेण पञ्च-
मासिकमष्टमासिकं वा । ब्राह्मणमङ्गलादिभि-
र्गोत्रभोजनमपि कर्त्तव्यम् । दोहदादिषु परि-
पूर्णेषु रूपवान् शूरः पण्डितः शीलवान् पुत्त्रो
जायते ॥” इति महर्ष्यात्रेयभाषिते हारीतोत्तरे
तृतीयस्थाने गर्भोपचारो नाम अष्टचत्त्वारिंशो
ऽध्यायः ॥ * ॥
अथ चलितगर्भत्तिकित्सा ।
आत्रेय उवाच ।
“प्रथमे मासि गर्भस्य चलनं दृश्यते यदि ।
तदा मधुकमृद्वीका चन्दनं रक्तचन्दनम् ॥
पयसा लोडितं पीतं तेन गर्भः स्थिरो भवेत् ।
द्वितीये मासि चलिते मृणाले नागकेशरम् ॥
तृतीये मासि गर्भस्य चलनं दृश्यते यदा ।
तदा मूषककीट्टन्तु शर्करां पयसा पिबेत् ॥
चतुर्थे मासि दाहश्च पिपासा शूलमेव च ॥
ज्वरेण स्त्रीणां यदि गर्भश्चलते तदोशीरचन्दन-
नागकेशरधातकीकुसुमशर्कराघृतमधुदधि पाय-
येत् । पञ्चमे मासे चलिते गर्भे दाडिमी-
पत्राणि चन्दनं दघि मधु च पाययेत् । षष्ठे-
मासि गैरिकं कृष्णमृत्तिकां गोमयभस्म उदकं
परिस्रुतं शीतलं चन्दनं शर्करया सह पिबेत् ।
सप्तमे मासि गोक्षुरसमङ्गापद्मकघनमुशीरं मधुरं
पाययेत् । अष्टमे मासि रोध्रं मधुमागधिकाञ्च
सह दुग्धेन पीतवतीनाञ्चलिते गर्भे स्त्रीणां
सुखं सम्पद्यते ।” इति महर्ष्यात्रेयभाषिते
हारीतोत्तरे तृतीये स्थाने चलितगर्भचिकित्सा
नामोनपञ्चाशत्तमोऽध्यायः ॥ * ॥
“नरो धातुबलेनापि जीवितश्चात्र दृश्यते ।
तस्माच्च मैथुनात् सम्यग्जायते गर्भसम्भवः ॥
हारीत उवाच ।
संयोगेन विना प्राज्ञ ! कथं गर्भो न जायते ।
संयोगेन विना पुष्पं फलं वा न कथं भवेत् ॥
वृक्षवन्न कथं स्त्रीणां फलोत्पत्तिः प्रदृश्यते ।
एतत् पृष्टो महाचार्य्यः प्रोवाच ऋषिपुङ्गवः ॥
आत्रेय उवाच ।
विरुद्धानाञ्च वल्लीनां स्थावराणाञ्च पुत्त्रक ! ।
तत्र धातुसमं बीजं सह योगेन वर्त्तते ॥
न भिन्नदृष्टिस्तस्येव दृश्यते शृणु पुत्त्रक ! ।
स्थावराणाञ्च सर्व्वेषां शिवशक्तिमयं विदुः ॥
निश्चलोऽपि शिवो ज्ञेयो वाप्तिशक्तिर्महामते ! ।
तत्र स्त्रीपूरुषगुणा वर्त्तन्ते समयोगतः ॥
आम्रपुष्पं फलं तद्बत् बीजं शुक्रमयं विदुः ।
स्त्रीणां रजोमयं रेतो बीजाढ्यमिन्द्रियं नरे ॥
तस्मात् संयोगतः पुत्त्रो जायते गर्भसम्भवः ।
प्रथमेऽहनि रेतश्च संयोगात् कललञ्च यत् ॥
जायते बुद्वुदाकारं शोणितञ्च दशाहनि ।
घनं पञ्चदशाहे स्यात् विंशाहे मांसपिण्डकम् ॥
मासैकेन च पिण्डस्य पञ्च तत्त्वं प्रजायते ।
पञ्चाशद्दिवसे प्राप्ते अङ्कराणाञ्च सम्भवः ॥
मासत्रये तु सम्प्राप्ते हस्तपादौ प्रवर्त्तितौ ।
सार्द्ध मासत्रये प्राप्ते शिरश्च सारवद्भवेत् ॥
चतुर्थके च लोमानां सम्भवश्चात्र दृश्यते ।
पञ्चमे च सुजीवः स्यात् षष्ठे प्रस्फुरणं भवेत् ॥
अष्टमे मासि याते च अग्नियोगः प्रवर्त्तते ।
मासे तु नवमे प्राप्ते जायते तस्य चेष्टितम् ॥
जायते तस्य वैराग्यं गर्भवासस्य कारणात् ।
दशमे च प्रसूयेत तथैकादशमासि वा ॥
अथ दोषबलेनापि गर्भो वापि प्रसूयते ।
वातसंप्रेरिते गर्भे अपूर्णे दिवसे यदि ॥
प्रसूतये वाप्यथ तद्गर्भे बालः प्रदृश्यते ॥”
इति हारीते शारीरस्थाने प्रथमोऽध्यायः ॥ * ॥)
शिशुः । (गीर्य्यते निगीर्य्यते निःक्षिप्यते वीर्य्य योनि-
रन्ध्रेणास्मिन् । गिरति सिञ्चति निषेकं करोति
रेतोऽत्र वा । गॄ गृ वा + भन् ।) कुक्षिः । (यथा,
महाभारते । १४ । १८ । ९ ।
“यथा लोहस्य निस्यन्दो निषिक्तो विम्बविग्रहम् ।
उपैति तद्विजानीहि गर्भे जीवप्रवेशनम् ॥”)
सन्धिः । पनसकण्टकम् । इति मेदिनी ॥ भे । ३ ॥
मध्यम् । (यथा, आर्य्यासप्तशत्याम् । १७६ ।
“केतकर्गर्भे गन्धादरेण दूरादमी द्रुतमुपेताः ॥”)
अपवरकः । इति हेमचन्द्रः ॥ गङ्गादिसन्निहित-
देशः । यथा, --
“भाद्रकृष्णचतुर्द्दश्यां यावदाक्रमते जलम् ।
तावद्गर्मं विजानीयात् तदूर्द्धं तीरमुच्यते ॥”
इति प्रायश्चित्ततत्त्वम् ॥
पृष्ठ २/३१४
(आभ्यन्तरिकवस्तुमात्रम् । यथा, गोः रामा-
यणे । ४ । २७ । ३ ।
“अष्टमासधृतं गर्भं भास्करस्य गभस्तिभिः ।
रसं सर्व्वसमुद्राणां द्यौः प्रसूते रसायनम् ॥”)

गर्भकं, क्ली, (गर्भ + संज्ञायां कन् । यद्वा चन्द्रस्य

गर्भद्वयमिव कायतीति । कै + कः ।) रजनीद्बन्द्वम् ।
इति हेमचन्द्रः । २ । ५८ ॥ दुइ रात्रि इति भाषा ॥

गर्भकः, पुं, (गर्भे केशगर्भे केशमध्ये इति यावत्

कायते प्रकाशते शोभते इत्यर्थः । यद्वा गर्भ इव
प्रतिकृतिः । “इवे प्रतिकृतौ ।” ५ । ३ । ९६ ।
इति कन् ।) केशमध्यस्थितमाल्यम् । इत्यमरः ।
२ । ७ । १३५ । खोपार माला इति भाषा ॥

गर्भकरः, पुं, (गर्भं करोति गर्भदोषं निवारयति

व्यवहारयोगेन इति । कृ + टः ।) पुत्त्रजीव-
वृक्षः । इति भावप्रकाशः ॥

गर्भघातिनी, स्त्री, (गर्भं घातयति स्रावयतीति ।

हन् + णिच् + णिनिः ङीप् च ।) लाङ्गलिका-
वृक्षः । इति रत्नमाला ॥

गर्भण्डः, पुं, (गर्भस्य अण्ड इव । शकन्धादि-

त्वात् अकारलोपे साधुः ।) नाभिगुडकः । इति
त्रिकाण्डशेषः ॥ नाभिर गोँड इति भाषा ॥

गर्भदः, पुं, (गर्भं ददाति उत्पादयति व्यव-

हारेणेति । दा + कः ।) पुत्त्रजीववृक्षः । इति
राजनिर्घण्टः ॥

गर्भदात्री, स्त्री, (गर्भं ददातीति । दा + तृच् ङीप् ।)

क्षुपविशेषः । गर्भदा इति ख्याता । तत्पर्य्यायः ।
पुत्त्रदा २ प्रजादा ३ अपत्यदा ४ सृष्टिप्रदा ५
प्राणिमाता ६ तापसद्रुमसन्निभा ७ । अस्य गुणाः ।
मधुरत्वम् । शीतत्वम् । नारीपुष्पादिदोषपित्त-
दाहश्रमनाशित्वम् । गर्भसम्भूतिदातृत्वञ्च । इति
राजनिर्घण्टः ॥

गर्भनुत्, [द] पुं, (गर्भं नुदति प्रेरयति नाशयती-

त्यर्थः । नुद् + क्विप् ।) कलिकारीवृक्षः । इति
भावप्रकाशः ॥ विषलाङ्गलिया इति भाषा ॥

गर्भपाकी, [न्] पुं, (गर्भस्य पाकः परिपाकः

परिणतिरित्यर्थः साध्यतयास्त्यस्य इति इनिः ।)
षष्टिकब्रीहिः । इति हेमचन्द्रः । ४ । २३४ ॥
षेटे धान इति भाषा ॥

गर्भपातः, पुं, (गर्भस्य पातः पतनं विच्युति-

रित्यर्थः ।) पञ्चमषष्ठमासीयस्य कठिनशरीरस्य
गर्भस्य पतनम् । (यथा, माधवकरोक्तवैद्यके ।
“आ चतुर्थात् ततो मासात् प्रस्रवेद्गर्भविच्युतिः ।
ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः ॥”
तथाच सुश्रुते निदानस्थाने १ अध्याये ।
“गर्भपातनिमित्तश्च शोणितातिस्रवाच्च यः ।
अभिघातनिमित्तश्च न सिध्यत्यपतानकः ॥”)
अस्य प्रमाणादि विशेषतो गर्भस्रावशब्दे द्रष्टव्यम् ॥

गर्भपातकः, पुं, (गर्भं पातयति नाशयतीति ।

पत् + णिच + ण्वुल् ।) रक्तशोभाञ्जनवृक्षः ।
इति जटाधरः ॥

गर्भपातनः, पुं, (गर्भं पातयतीति । पत् + णिच् +

कर्त्तरि ल्युः ।) रीठाकरञ्जः । इति भावप्रकाशः ॥

गर्भपातनी, स्त्री, (गर्भपातन + संज्ञायां ङीष् ।

गौरादित्वादित्येके ।) कलिकारीवृक्षः । इति
राजनिर्घैण्टः ॥

गर्भपातिनी, स्त्री, (गर्भं पातयतीति । पत् + णिच्

+ णिनिः । स्त्रियां ङीप् ।) विशल्यावृक्षः । इति
जटाधरः ॥

गर्भरूपः, त्रि, (गर्भे देहकोषे रूपं लावण्या-

दिकं यस्य । यद्वा गीर्य्यते निगीर्य्यते प्रका-
श्यते रूपं यस्मात् । तारुण्यप्रभावादिति
यावत् ।) तरुणः । इति भूरिप्रयोगः ॥

गर्भवती, स्त्री, (गर्भो विद्यतेऽस्याः अस्यां वा ।

अस्त्यर्थे मतुप् । मस्य वत्वम् ।) अन्तरापत्या ।
(यथा, भहार्भारते । ३ । १३४ । १७ ।
“दशैव मासान् बिभ्रति गर्भवत्यः ।
दशैरका दशदाशा दशार्हाः ॥”)
तत्पर्य्यायः । अन्तर्व्वत्नी २ गुर्व्विणी ३ गर्भिणी ४
ससत्त्वा ५ आपन्नसत्त्वा ६ दोहदवती ७ ।
इति शब्दरत्नावली ॥ उदरिणी ८ गुर्व्वी ९ ।
इति हेमचन्द्रः । ३ । २०२ ॥ अथ सद्योगृहीत-
गर्भाया लक्षणम् । यथा, --
“शुक्रशोणितयोर्योनेरस्रावोऽथ श्रमोद्भवः ॥
सावसादः पिपासा च ग्लानिः स्फुर्त्तिर्भगे भवेत् ॥”
तस्या उत्तरोत्तरकालीनलक्षणम् । यथा, --
“स्तनयोर्मुखकार्ष्ण्यं स्यात् रोमराज्युद्गमस्तथा ।
अक्षिपक्ष्माणि चाप्यस्याः संमील्यन्ते विशेषतः ॥
छर्दयेत् पक्षभुक्तापि गन्धादुद्विजतेऽशुभात् ।
असेकः सदनञ्चैव गर्भिण्या लिङ्गमुच्यते ॥” * ॥
पुत्त्रगर्भवत्या लक्षणम् । यथा, --
“पुत्त्रगर्भयुतायास्तु नार्य्यां मासि द्वितीयके ।
गर्भो गर्भाशये लक्ष्यः पिण्डाकारोऽपरं शृणु ॥
दक्षिणाक्षिमहत्त्वं स्यात् प्राक्क्षीरं दक्षिणस्तने ।
दक्षिणोरुः सुपुष्टः स्यात् प्रसन्नमुखवर्णता ॥
पुन्नामधेयद्रव्येषु स्वप्नेष्वपि मनोरथः ।
आम्रादि फलमाप्नोति स्वप्नेषु कमलादि च ॥” * ॥
कन्यागर्भवतीलक्षणम् । यथा, --
“कन्यागर्भवतीगर्भे पेशीं मासि द्वितीयके ।
पुत्त्रगर्भस्य लिङ्गानि विपरीतमवेक्षते ॥” * ॥
नपुंसकगर्भवतीलक्षणम् । यथा, --
“नपुंसकं यदा गर्भो भवेद्गर्भोऽर्व्वुदाकृतिः ।
उन्नते भवतः पार्श्वे पुरस्तादुदरं महत् ॥”
इति भावप्रकाशः ॥

गर्भशय्या, स्त्री, (गर्भे गर्भगता वा शय्येव । गर्भ-

गतस्यापत्यस्य वासस्थानमित्यर्थः ।) गर्भोत्-
पत्तिस्थानम् । तत्तु पित्ताशयपक्वाशययोर्मध्यवर्त्ति ।
तस्या रूपं यथा, भावप्रकाशे ।
“शङ्खनाभ्याकृतिर्योनिरावर्त्ता सा च कीर्त्तिता ।
तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रकीर्त्तिता ॥
यथा रोहितमत्स्यस्य मुखं भवति रूपतः ।
तत् संस्थाञ्च तथारूपां गर्भशय्यां विदुर्बुधाः ॥”
(यथा, वेणीसंहारे । ३ ये अङ्के ।
“यो यः शस्त्रं बिभर्त्ति स्वभुजगुरुमदात् पाण्ड-
वीनां चमूनां
यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां
गतो वा ॥”)

गर्भस्रावः, पुं, (गर्भस्य स्रावश्च्युतिः पात इत्यर्थः ।)

गर्भपातः । त्ततुर्थमासपर्य्यन्तं शोणितरूप-
गर्भस्य स्रवणम् । पेटखसा इति भाषा ॥ तस्या-
शौचं यथा, --
“यदि गर्भो विपद्येत स्रवते वापि योषितः ।
यावन्मासान् स्थितो गर्भस्तावद्दिनानि सूतकम् ॥”
इति गारुडे १०७ अध्यायः ॥
“रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति ।”
इति मनुः । ५ । ६६ ॥ * ॥
“अर्व्वाक् षण्मासतः स्त्रीणां यदि स्यात् गर्भ-
संस्रवः ।
तदा माससमैस्तासामशौचं दिवसैः स्मृतम् ॥
अत ऊर्द्ध्वन्तु पतने स्त्रीणां स्याद्दशरात्रकम् ।
सद्यःशौचं सपिण्डानां गर्भस्रावाच्च वा ततः ॥”
इति कूर्म्मपूराणम् ॥ * ॥
(“अन्तराजन्ममरणे शेषाहोभिर्विशुध्यति ।
गर्भस्रावे मासतुल्या निशाः शुद्धेस्तु कारणम् ॥”
इति याज्ञकल्क्यः । ३ । २० ॥)
अन्यत् अशौचशब्दे द्रष्टव्यम् ॥ * ॥ * ॥
अथ गर्भस्रावनिदानलक्षणे ।
“भयाभिघाततीक्ष्णोष्णपानाशननिषेवणात् ।
गर्भे पतति रक्तस्य सशूलं दर्शनं भवेत् ॥
आ चतुर्थात् ततो मासात् प्रस्रवेद्गर्भविद्रवः ।
ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः ॥
गर्भोऽभि वातविषमाशनपीडनाद्यैः
पक्वं द्रुमादिव फलं पतति क्षणेन ।
मूढः करोति पवनः खलु मूढगर्भं
शूलञ्च योनिजठरादिषु मूत्रसङ्गम् ॥”
इति माधवकरः ॥
अथ गर्भस्रावपातयोर्न्निदानमाह ।
“ग्राम्यधर्म्माध्वगमनयानस्खलनपीडनैः ।
ज्वरोपवासोत्पतनप्रहाराजीर्णधावनैः ॥
वमनाच्च विरेकाच्च कुन्थनाद्गर्भपातनात् ।
तीक्ष्णधारोष्णकटुकतिक्तरूक्षनिषेवणात् ॥
वेगाभिघाताद्विषमादासनाच्छयनाद्भयात् ।
गर्भे पतति रक्तस्य सशूलं दर्शनं भवेत् ॥”
गर्भपातनात् नियमेन गर्भपातनशीलं द्रव्यं
तस्मात् ॥ गर्भस्य स्रावपातयोः पूर्ब्बरूपमाह ।
गर्भेपततीत्यादि । पतति स्रावेण पातेन वा
पतिष्यति ॥ * ॥
स्रावपातयोरवधिमाह ।
आ चतुर्थात्ततो मासात् प्रस्रवेद्गर्भविद्रवः ।
ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः ॥
आ चतुर्थात् मासात् चतुर्थमासपर्य्यन्तम् ।
गर्भस्य विद्रवः शोणितरूपः । गर्भः स्रवति
शोणितमिति भोजवचनात् । स्थिरशरीरस्य
कठिनशरीरस्य गर्भस्य । गर्भपातस्य दृष्टान्तं
दर्शयति ।
गर्भोऽमिघातविषमासनपीडनाद्यैः
पक्वं द्रुमादिव फलं पतति क्षणेन ।
पृष्ठ २/३१५
यंथा वृन्तलग्नं पक्वं फलं अभिघातेनाकाल
एव पतति तथा गर्भोऽप्यभिघातादिनाऽकालेऽपि
पतति ॥ * ॥
अथ गर्भस्रावस्य चिकित्सा ।
गुर्व्विण्या गर्भतो रक्तं स्रवेद्यदि मुहुर्मुहुः ।
तन्निरोधाय सुस्निग्धमुत्पलादि शृतं पिबेत् ॥
उत्पलादिगणमाह ।
उत्पलं नीलमारक्तं कह्लारं कुमुदं तथा ।
श्वेताम्भोजञ्च मधुकमुत्पलादिरयं गणः ॥
संशीलितो हरत्येव दाहं तृष्णां हृदामयम् ।
रक्तपित्तञ्च मूर्च्छाञ्च तथा छर्दिमरोचकम् ॥ * ॥
अथ गर्भपातस्योपद्रवानाह ।
प्रस्रंसमाने गर्भे स्याद्दाहं शूलञ्च पार्श्वयोः ।
पृष्ठरुक् प्रदरानाहौ मूत्रसङ्गश्च जायते ॥
प्रस्रंसमाने पतति ॥ * ॥ अथ गर्भस्य स्थाना-
न्तरगमने चोपद्रवानाह ।
स्थानात् स्थानान्तरं तस्मिन् प्रयात्यपि च जायते ।
आमपक्वाशयादौ तु क्षोभः पूर्ब्बेऽप्युपद्रवाः ॥
पूर्ब्बेऽप्युपद्रवाः पार्श्वे शूलादयः ॥ * ॥
तच्चिकित्सामाह ।
स्निग्धाः शीताः क्रियास्तेषु दाहादिषु समाचरेत् ।
कुशकाशोरुवूकाणां मूलैर्गोक्षुरकस्य च ॥
शृतं दुग्धं सितायुक्तं गर्भिण्याः शूलहृत् परम् ।
श्वदंष्ट्रामधुकक्षुद्राम्लानैः सिद्धं पयः पिबेत् ॥
शर्करामधुसंयुक्तं गुर्व्विणीवेदनापहम् ।
अम्लानः पुष्पजातिः । अयं वाणपुष्पं इति
गौडादौ प्रसिद्धः ।” इति भावप्रकाशः ॥

गर्भस्रावी, [न्] पुं, (गर्भं उदरस्थशिशुं स्राव-

यति विव्योतयति सेवनेनेति । गर्भ + स्रु + णिच्
+ “नन्दिग्रहीति ।” ३ । १ । १३४ । इति
णिनिः ।) हिन्तालवृक्षः । इति राजनिर्घण्टः ॥

गर्भागारं, क्ली, (गर्भ इव आगारं गृहम् । गृहाभ्य-

न्तरवर्त्तित्वात् तथात्वम् ।) गृहमध्यभागः ।
शयनगृहम् । गृहान्तर्गृहं इत्येके । इति भरतः ॥
तत्पर्य्यायः । वासगृहम् २ । इत्यमरः । २ ।
२ । २८ ॥ (यथा, कथासरित्सागरे । ७ । ७१ ।
“साप्यष्टमीं समुद्दिश्य तत्र राजसुता ययौ ।
एकैव देवं द्रष्टुञ्च गर्भागारादथाविशत् ॥” * ॥
गर्भः कुक्षिः आगारं गृहमिव । शिशोराश्रय-
भूमेस्तथात्वम् । यद्बा, गर्भस्य उदरस्थ-
शिशोरागारम् ।) गर्भाशयः । इति राज-
निर्घण्टः ॥

गर्भाधानं, क्ली, (गर्भ आधीयतेऽनेनेति । आ +

धा + करणे ल्युट् ।) दशसंस्कारान्तर्गतप्रथम-
संस्कारः । यथा, --
“गर्भाधानमृतौ पुंसः सवनं स्पन्दनात् पुरा ।
ऋतौ ऋतुकाले । स च कालो याज्ञवल्क्येनोक्तः ।
षोडशत्तनिशाः स्त्रीणां तासु युग्मासु संविशेत् ।”
इति मलमासतत्त्वम् ॥ तत्र क्रमः । “ऋतुस्नानादूर्द्धं
निषेकदिवसे सायं सन्ध्यायामतीतायां पतिः शुचिः
सुगन्धिः सुवेशः मन्त्रेण सूर्य्यार्ध्यं दत्त्वा पूर्ब्बाभि-
मुखोपविष्टायाश्च बध्वा दक्षिणहस्तेनोपस्थं
स्पृशन् मन्त्रं जपेत् ततः पुनरपि उपस्थं स्पृशन्
मन्त्रं जपेत् । ततो भार्य्यामुपेयात् ।” इति भव-
देवभट्टः ॥ तद्विहितनिषिद्धनक्षत्रादि यथा, --
“ज्येष्ठा मूला मघाश्लेषा रेवती कृत्तिकाश्विनी ।
उत्तरात्रितयं त्यक्त्वा पर्व्ववर्ज्जं व्रजेदृतौ ॥”
पर्व्वाण्याह विष्णुपुराणम् ।
“चतुर्द्दश्यष्टमी चैव अमावास्याथ पूर्णिमा ।
पर्व्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च ॥”
शौनकः ।
“पुंनक्षत्राणि चैतानि तिष्यो हस्तः पुनर्व्वसुः ।
अभिजित् प्रौष्ठपच्चैवानुराघाषाढश्चाश्वयुक् ॥”
अन्यश्च ।
“हस्तो मूलं श्रवणः पुनर्व्वसुर्मृगशिरस्तथा पुष्यश्च ।
गर्भाघानादिकार्य्येषु पुंनामायं गणः शुभदः ॥
रोहिण्यन्तकचित्राहिविशाखशतवर्ज्जिते ।
भे पुंग्रहाहे स्त्रीशुद्ध्या फलबन्धनमिष्यते ॥
पुष्यार्कचन्द्रशिवमूलपुनर्व्वसुः स्या-
दाषाढयुग्महरिभाद्रपदद्बयञ्च ।
एतानि पुंसि कथितानि शुभानि भानि
चान्येषु गर्भपतनादिभयञ्च भेषु ॥
नन्दा भद्रा भवेत् पुंसि स्त्रीषु पूर्णा जया स्मृता ।
रिक्ता नपुंसके त्वाहुस्तस्मात्तां परिवर्ज्जयेत् ॥
स्त्रीणामृतुर्भवति षोडशवासराणि
तत्रादितः परिहरेच्च निशाश्चतस्रः ।
युग्मासु रात्रिषु नरा विषमासु नार्य्यः
कुर्य्यान्निषेकमथ तास्वपि पर्व्ववर्ज्जम् ॥
मूलर्क्षं स्मृतिदुष्टत्वाद्गर्भाधानेषु नेष्यते ।
तस्य पुंसवनादौ तु पुंसंज्ञत्वे प्रयोजनम् ॥
(मतान्तरे तु चतुर्थेऽहनि स्नानानन्तरं नार्य्यः
शुध्यन्ति । यथाह भरद्बाजः ।
“प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी ।
तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति ॥”
एवं धर्म्मशास्त्रेऽपि । यथा, --
“भर्त्तुः स्पृस्या चतुर्थेऽह्नि स्नानेन स्त्री रजस्वला ।
पञ्चमेऽहनि योग्या स्याद्दैवे पित्र्ये च कर्म्मणि ॥”)
यथा, याज्ञवल्क्यः ।
“एवं गच्छन् स्त्रियं क्षामां मघां मूलाञ्च वर्ज्ज-
येत् ।
शस्त इन्दौ सकृत् पुत्त्रं लक्षण्यं जनयेत् पुमान् ॥”
क्षामां आहारलाचवादिना क्षीणाम् । फलञ्च ।
“युग्मासु पुत्त्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।
तस्माद्युग्मासु पुत्त्रार्थी संविशेदार्त्तवे स्त्रियम् ॥
पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः ।
(समेऽपुमान् पुंस्त्रियौ वा क्षीणेऽल्पे च विपर्य्ययः ॥”
इति मनुः । ३ । ४८--४९ ॥)
एवञ्च ।
“युग्मायामपि रात्रौ चेत् शोणितं प्रचुरं यदा ।
कन्या च पुंवद्भवति शुक्राधिक्ये पुमान् भवेत् ॥
कन्यैवायुग्मरात्रौ च प्राधान्यं समवायिनोः ।
निमित्तकारणात् कालात् शुक्रशोणितयोर्यतः ॥
पीडा राशौ भौमदृष्टे शशाङ्के
मासं मासं योषितामार्त्तवं स्यात् ।
त्र्यंशे शान्तं यच्च रक्तं जवाभं
तद्गर्भार्थं वेदनागन्धहीनम् ॥”
गर्भयोग्यर्त्तुनिरूपणम् ॥
“पापासंयुतमध्यगेषु दिनकृत्लग्नक्षपास्वामिषु
तद्द्यूनेषु शुभोज्झितेषु विकुजे छिद्रे विपापे सुखे ।
सद्युक्तेषु त्रिकोणकण्टकविधुष्वायत्रिषष्ठान्विते
पापे युग्मनिशास्वगण्डसमये पुंशुद्धितः सङ्गमः ॥
मूलमघाश्विनीनामाद्यं ज्येष्ठान्त्यसर्पाणामन्त्यम् ।
चतुर्थांशं गण्डपदं त्यक्त्वा षोडशाहे ऋतौ व्रजेत् ॥”
अशक्तौ तु भुजबलभीमे ।
“अन्त्यं पौष्णेन्द्रसर्पाणामाद्यं पित्रश्विमूलगम् ।
गण्डं दण्डत्रयं ख्यातं सर्व्वकार्य्येषु कल्पितम् ॥
पुमान् विंशतिवर्षश्चेत् पूर्णषोडशवर्षया ।
स्त्रिया सङ्गच्छते गर्भाशये शुद्धे रजस्यपि ॥
अपत्यं जायते भद्रं तयोर्न्यूनेऽधमं स्मृतम् ।
मासेशैःसितकुजगुरुरविशनिसौम्यलग्नपशशीनैः ।
कलुषैः पीडा गर्भस्य पीडितैः पंतनमन्यथा पुष्टिः ॥
कालुष्यं मासेशेन पापग्रहयोगशत्रुगृहस्थिति-
नीचगृहयोगोपग्रहयोगादि । मासेशजन्मनक्षत्रे
पापग्रहयोगः पीडा येषां जन्मर्क्षाणि । १६ ।
३ । २० । २२ । ११ । ८ । २७ । २ । ९ ।
मासेशशान्त्यादौ कृते न गर्भपीडा ॥
अथ प्रश्नात् पुत्त्रादिज्ञानम् ।
“विवाहलग्नं विषमर्क्षसंस्थः
सौरोऽपि पुंजन्मकरो विलग्नात् ।
स्त्र्यादिग्रहाणामवलोक्य वीर्य्यं
वाच्यः प्रसूतौ पुरुषोऽङ्गना वा ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
अपि च । गोभिलः ।
“यदा ऋतुमती भवति उपरतशोणिता तदा
सम्भवकालः । ऋतुः प्रजाजननयोग्यकालः ।
तन्निमित्तेन नैमित्तिकं गमनं कार्य्यं अकुर्व्वतः
प्रत्यवायान्नियमः । यदुक्तं स्मृतेः ॥
“ऋतुमतीन्तु यो भार्य्यां सन्निधौ नोपसर्पति ।
अवाप्नोति स मन्दात्मा भ्रूणहत्यामृतावृतौ ॥”
ज्योतिषे ।
“ज्येष्ठा मूला मघाश्लेषा रेवती कृत्तिकाश्विनी ।
उत्तरात्रितयं त्यक्त्वा पर्व्ववर्ज्जं व्रजेदृतौ ॥”
विष्णुपुराणम् ।
“चतुर्द्दश्यष्टमी चैव अमावस्याथ पूर्णिमा ।
पर्व्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च ॥”
याज्ञवल्क्यः ।
“षोडशर्त्तुनिशा स्त्रीणां तासु युग्मासु संविशेत् ।
अत्र षोडशाहो रात्रात्मककालस्य सावनत्वात्
पुंसवननामकरणयोरपि सावनगणनाया युक्त-
त्वाच्च संस्कारमात्रे सावनगणनया व्यवहारः ॥
तथा च याज्ञवल्क्यः ।
“गर्भाधानमृतौ पुंसः सवनं स्पन्दनात् पुरा ।
षष्ठेऽष्टमे वा सीमन्तः प्रसवे जातकर्म्म च ॥
अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः ।
षष्ठेऽन्नप्राशनं मासि चूडा कार्य्या यथाकुलम् ॥
एवमेनः शमं याति बीजगर्भसमुद्भवम् ॥”
पृष्ठ २/३१६
चतुर्थे स्पन्दते ततः इति वचनात् स्पन्दनात् पूर्ब्बं
तृतीयमासः पुंसवनकालः । अत्र चतुर्थमासस्य
सौरत्वे चान्द्रत्वे वा निषेकमासस्यापि तथात्वे
तदाद्यन्तदिननिषेके सति अधिकन्यूनकालयोर्गर्भ-
स्पन्दनमनियतमापद्येत सावने तु नियतम् ।
तेनात्र सावनगणना युक्ता योषिद्व्यवहारसिद्धा
च । अहन्येकादशे नाम इत्यत्रापि अशौच-
व्यपगमे नामधेयमिति विष्णुसूत्रात् सूतकोत्तर-
दिनपरमेकादशपदम् ।
“सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा ।
मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तिताः ॥”
इति सूर्य्यसिद्धान्तवचनेन सूतकस्य सावनदिन-
घटितत्वात् तदुत्तरदिनस्यापि तथात्वम् । अतो
दिनमासवर्षगणना सावनेनेति । शुभाशुभविवे-
चनन्तु सौरेण ज्योतिःशास्त्रात् । अतएव पिता-
महः ।
“विवाहादौ स्मृतः सौरो यज्ञादौ सावनो मतः ।”
अत्र द्वितीयादिशब्दात् संस्कारपरिग्रहः ।
“गर्भाधाने सदा ग्राह्या वारा भौमरवीज्यकाः ।”
गोभिलः । दक्षिणेन पाणिना उपस्थमभिस्पृशेत्
विष्णुर्योनिं कल्पयत्वेतया ऋचा । गर्भं धेहि सिनी
च समाप्य ऋचौ सम्भवतः ॥ कुत्सितदेशस्य
सव्येन पाणिना शौचदर्शनात् तद्वारणाय
दक्षिणेनेति । उपस्थं योनिं स्पृशेत् विष्णुरिति
मन्त्रेण प्रथमं ततो गर्भं धेहि सिनीवालीत्यादि-
मन्त्रेण च । मन्त्रान्ते कर्म्मादिसन्निपात इति
न्यायात् पाठानन्तरं स्पंर्शः । न तु भवदेव-
भट्टोक्तं स्पृशन् जपतीति । ऋचौ समाप्यैव
संयोगं कुरुतः न मध्ये वामदेव्यजपः । देवलः ।
‘सकृच्च संस्कृता नारी सर्व्वगर्भेषु संस्कृता ।’
तेन गर्भाधानपुंसवनसीमन्तोन्नयनानि सकृदेव
कर्त्तव्यानि । छन्दोगपरिशिष्टम् ।
“विवाहादिः कर्म्मगणो य उक्तो
गर्भाधानं शुश्रुम यस्य चान्ते ।
विवाहादावेकमेवात्र कुर्य्यात्
श्राद्धं नादौ कर्म्मणः कर्म्मणः स्यात् ॥”
विवाहादिगर्भाधानान्तकर्म्मसु एकमेव श्राद्धं
न तु प्रतिकर्म्मादौ एकेनैव श्राद्धेन कृतेन सर्व्वाणि
श्राद्धवन्तीति । अन्तशब्दोऽत्रावयवार्थः दशान्तः
पट इतिवत् । समीपार्थत्वे उपलक्षणं स्यात् ।
ततश्च विशेषणोपलक्षणसन्देहे विशेषणत्वेन
ग्रहणं कार्य्यान्वितत्वात् । यत्तु ।
“निषेककाले सोमे च सीमन्तोन्नयने तथा ।
ज्ञेयं पुंसवने चैव श्राद्धं कर्म्माङ्गमेव च ॥”
इत्यनेन भविष्यपुराणेन श्राद्धं कर्म्माङ्गत्वन
विहितं तच्छन्दोगेतरपरं अतएव भवदेवभट्टे-
नापि न लिखितम् । अत्र श्राद्धोत्तरगमनेऽपि
न दोषः । उक्तभविष्यपुराणात् । नित्ये नान्दी-
मुखश्राद्धे कृते दाराद्यवर्ज्जनम् । इति वचनान्त-
राच्च ।” इति संस्कारतत्त्वम् ॥ * ॥ (निषेकादनन्तरं
यदयन्मासि मिश्रितशुक्रशोणितस्य यद्यद्रूपं
भवति तदुर्क्त यथा, बृहज्जातके निषेकाध्याये ।
“कलनं कठिनं हस्ताद्यस्थित्वग्रोमचेतनाः ।
अशनोद्वेगसूतिश्च मासेष्वीशाः क्रमादमी ॥
भृग्वारेज्यार्कचन्द्रार्किज्ञाङ्गेशाब्जदिवाकराः ।
मासेशे पीडिते गर्भरोगः पुष्टिश्च सद्बले ॥”
अस्यार्थः । प्रथमे मासि कलनं शुक्रशोणित-
मिश्रणरूपं तत्र अधिपः शुक्रः । द्वितीये कठिनं
मिश्रितशुक्रशोणितयोः काठिन्यं तत्राधिपतिः
कुजः । तृतीये हस्ताद्युत्पत्तिस्तत्राधिपो गुरुः ।
चतुर्थे अस्थ्युत्पत्तिस्तत्राधिपः सूर्य्यः । पञ्चमे
त्वच उत्पत्तिस्तत्रेशश्चन्द्रः । षष्ठे रोमोत्पत्ति-
स्तत्राधिपः शनिः । सप्तमे चैतन्यं तत्राधिपो
बुधः । अष्टमे भोजनशक्तिस्तत्र गर्भाधानलग्न-
पतिः स्वामी । नवमे उद्वेगस्तत्राधीशश्चन्द्रः ।
दशमे प्रसवस्तत्राधीशो दिवाकरः । आधान-
काले उक्तग्रहे पीडिते तत्तुल्यमासे गर्भ-
पातादि । बलवति च तत्तन्मासे गर्भपुष्टिः ॥
“ऊनषोडशवर्षायामप्राप्तः पञ्चविंशतिम् ।
यद्याधत्ते पुमान् गर्भं कुक्षिस्थः स विपद्यते ॥
जातो वा न चिरं जीवेज्जीवेद्वा दुर्ब्बलेन्द्रियः ।
तस्मादत्यन्तबालायां गर्भाधानं न कारयेत् ॥
अतिवृद्धायां दीर्घरोगिण्यां अन्येन वा विका-
रेणोपसृष्टायां गर्भाधानं नैव कुर्व्वीत । पुरु-
षस्याप्येवंविधस्य त एव दोषाः सम्भवन्ति ॥”
इति सुश्रुते शारीरस्थाने दशमेऽध्याये ॥)

गर्भाशयः, पुं, (आशेतेऽस्मिन्निति । आ + शी +

अघिकरणे अप् । गर्भस्य भ्रूणस्य आशयः
शय्यावदाश्रयस्थानम् ।) जरायुः । येन वेष्टितो
गर्भः कुक्षौ तिष्ठति सः । इत्यमरः । २ । ६ । ३८ ॥
गर्भशय्या । इति भावप्रकाशः ॥ (यथा, महा-
भारते । १४ । १८ । ५ ।
“शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् ।
क्षेत्रं कर्म्मजमाप्नोति शुभं वा यदि वाऽशुभम् ॥”
“पूर्णषोडशवर्षा स्त्री पूर्णत्रिंशेन सङ्गता ।
शुद्धे गर्भाशये मार्गे रक्ते शुक्रेऽनिले हृदि ॥
वीर्य्यवन्तं सुतं सूते ततो न्यूनाब्दयोः पुनः ।
रोग्यल्पायुरधन्यो वा गर्भो भवति नैव वा ॥”
इति वाभटे शारीरस्थाने प्रथमेऽध्याये ॥)

गर्भाष्टमः, पुं, (गर्भात् गर्भकालात् अष्टमः ।)

गर्भजनंनमासादष्टममासः । तत्पर्य्यायः । देव-
मासः २ । इति त्रिकाण्डशेषः ॥ (यथा, मनुः ।
२ । ३६ ।
“गर्भाष्टमेऽब्दे कुर्व्वीत ब्राह्मणस्यापनायनम् ।
गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः ॥”)

गर्भिणी, स्त्री, (गर्भोऽस्त्यस्याम् । गर्भ + “अत

इनिठनौ ।” ५ । २ । ११५ । इति इनि ततो
ङीप् ।) गर्भवती । इत्यमरः । २ । ६ । २२ ॥
पोयाति इति भाषा ॥ (यथा, मनुः । ३ । ११४ ।
“सुवासिनीः कुमारांश्च रोगिणो गर्भिणीस्तथा ।
अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयन् ॥”
अस्याः कर्त्तव्यतामाह कश्यपः । यथा, --
“गर्भिणी कुञ्जराश्वादिशैलहर्म्म्यादिरोहणम् ।
व्यायामं शीघ्रगमनं शकटारोहणं त्यजेत् ॥
शोकं रक्तविमोक्षञ्च साध्वसं कुक्कुटाशनम् ।
व्यवायञ्च दिवास्वप्नं रात्रौ जागरणं त्यजेत् ॥”
तथा, मदनरत्ने स्कान्दे ।
“हरिद्रां कुङ्कुमञ्चैव सिन्दूरं कज्जलं तथा ।
कूर्पासकञ्च ताम्बूलं माङ्गल्याभरणं शुभम् ॥
केशसंस्कारकवरीकरकर्णविभूषणम् ।
भर्त्तुरायुष्यमिच्छन्ती वर्जयेद्गर्भिणी न हि ॥”
बृहस्पतिरप्याह ।
“चतुर्थे मासि षष्ठे वाप्यष्टमे गर्भिणी यदा ।
यात्रा तया विर्वज्या स्यादाषाढे तु विशेषतः ॥”
गर्भिणीपतिकरणीयतामाह याज्ञवल्क्यः ।
“दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ।
वैरूप्यं मरणं वापि तस्माद्कार्य्यं प्रियं स्त्रियाः ॥”
आश्वलायनः ।
“वपनं मैथुनं तीर्थं वर्ज्जयेद्गर्भिणीपतिः ।
श्राद्धञ्च सप्तमान्मासादूर्द्धं चान्यत्र वेदवित् ॥”
कालविधाने मुहूर्त्तदीपिकायाम् ।
“क्षौरं शवानुगमनं नखकृन्तनञ्च
युद्धादिवास्तुकरणं त्वतिदूरयानम् ।
उद्वाहमौपनयनं जलधेश्च गाह-
मायुः क्षयार्थमिति गर्भिणिकापतीनाम् ॥”
रत्नसंग्रहे गालवोऽपि ।
“दहनं वपनञ्चैव चौलं वै गिरिरोहणम् ।
नाव आरोहणञ्चैव वर्ज्जयेद्गर्भिणीपतिः ॥”
गर्भिण्या यदयत् लक्षणं जायते तदाह, --
“क्षामता गरिमा कुक्षौ मूर्च्छा च्छर्द्दिररोचकः ।
जृम्भा प्रसेकः सदनं रोमराज्याः प्रकाशनम् ॥
अम्लेष्टता स्तनौ पीनौ सस्तन्यौ कृष्णचूचुकौ ।
पादशोफो विदाहोऽन्ये श्रद्धाश्च विविघात्मिकाः ॥
मातृजं ह्यस्य हृदयं मातुश्च हृदयेन तत् ।
सम्बद्धं तेन गर्भिण्या नेष्टं श्रद्धाविधारणम् ॥”
इति वाभटे शारीरस्थाने प्रथमेऽध्याये ॥
“समानयोगक्षेमा हि माता तदा गर्भेण केषु-
चिदर्थेषु तस्मात् प्रियहिताभ्यां गर्भिणीं विशे-
षेणोपचरन्ति कुशलाः ।
तस्यागर्भापत्तेर्द्वैहृदय्यस्य च विज्ञानार्थं लिङ्गानि
समासेनोपदेक्ष्यामः । उपचारासम्बाधनं ह्यस्या
ज्ञाने दोषज्ञानञ्च लिङ्गतस्तस्मादिष्टो लिङ्गोप-
देशस्तद्यथार्त्तवादर्शनमास्यसंस्रवणमनन्नाभि-
लाषः छर्द्दिररोचकोऽम्लकामता विशेषेण ।
श्रद्धाप्रणयनञ्चोच्चावचेषु भावेषु गुरुगात्रत्वं
चक्षुषोर्ग्लानिः स्तनयोः स्तन्यमोष्ठयोः स्तन-
मण्डलयोश्च कार्ष्ण्यमत्यर्थं श्वयथुः पादयोरीष-
ल्लोमराज्या योन्याश्च जालत्वमिति गर्भे पर्य्या-
गते रूपाणि भवन्ति । सा यद्यदिच्छेत्तत्तस्यै
दद्यादन्यत्र गर्भोपघातकरेभ्यो भावेभ्यः । गर्भोप-
घातकरास्त्विमे भावास्तद्यथा, -- सर्व्वमति
गुरूष्णतीक्ष्णदारुणाश्च चेष्टा इमांश्चान्यानुप-
दिशन्ति वृद्धाः । देवतारक्षोऽनुचरपरिरक्षणार्थं
न रक्तानि वासांसि विभृयान्न मदकराणि चाद्या-
न्यभ्यवहरेन्न यानमधिरोहेन्न मांसमश्नीयात् सर्व्वे-
न्द्रियप्रतिकूलांश्च भावान् दूरतः परिवर्ज्जयेत् ।”
पृष्ठ २/३१७
चतुर्थे मासि स्थिरत्वमापद्यते गर्भस्तस्मात्तदा
गर्भिणी गुरुगात्रत्वमधिकमापद्यते विशेषेण ।
पञ्चमे मासि गर्भस्य मांसशोणितोपचयो
भवत्यधिकमन्येभ्यो मासेभ्यस्तस्मात्तदा गर्भिणी
कार्श्यमापद्यते विशेषेण ।
षष्ठे मासि गर्भस्य बलवर्णोपचयो भवत्यधिक-
मन्येभ्यो मासेभ्यस्तस्मात्तदा गर्भिणी बलवर्ण-
हानिमापद्यते विशेषेण ।
सप्तमे मासि गर्भः सर्व्वभावैराप्यायते सहसा
तस्मात्तदा गर्भिणी सर्व्वाकारैः क्लान्ततमा
भवति ।
अष्टमे मासि गर्भश्च मातृतो गर्भतश्च माता
रसग्रहणीभिः संवाहिनीभिर्मुहुर्मुहुरोजः पर-
स्परत आददाते गर्भस्य सम्पूर्णत्वात् तस्मात्तदा
गर्भिणी मुहुर्मुदा युक्ता भवति मुहुर्मुहुश्च
ग्लाना तस्मात्तदा गर्भस्य जन्मव्यापद्भवत्योजसो-
ऽनवस्थितत्वात् तञ्चैवमभिसमीक्ष्याष्टमं मासम-
गर्भिण्यमित्याचक्षते कुशलाः ।” इति चरके
शारीरस्थाने चतुर्थेऽध्याये ॥
“स्तनयोः कृष्णमुखता रोमराज्युद्गमस्तथा ।
अक्षिपक्ष्माणि चाप्यस्याः संमील्यन्ते विशेषतः ॥
अकामतश्छर्द्दयति गन्धादुद्बिजतेऽशुभात् ।
प्रसेकः सदनञ्चापि गर्भिण्या लिङ्गमुच्यते ॥
तदा प्रभृत्येव व्यायामं व्यवायमपतर्पणमति-
कर्षणं दिवास्वप्नं रात्रिजागरणं शोकं यानाव-
रोहणं भयसुत्कटकासनं चैकान्ततः स्नेहादि-
क्रियां शोणितमोक्षणञ्चाकाले वेगविधारणञ्च
न सेवेत ।
दोषाभिघातैर्गर्भिण्यांयो यो भागः प्रपीड्यते ।
स स भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते ॥”
“इन्द्रियार्थांस्तु यान् यान् सा भोक्तुमिच्छति
गर्भिणी ।
गर्भाबाधभयात्तांस्तान् भिषगाहृत्य दापयेत् ॥
सा प्राप्तदौहृदा पुत्त्रं जनयेत् गुणान्वितम् ।
अलब्धदौहृदा गर्भे लभेतात्मनि वा भयम् ॥
येषु येष्विन्द्रियार्थेषु दौहृदे वै विमानना ।
प्रजायेत सुतस्यार्त्तिस्तस्मिंस्तस्मिंस्तथेन्द्रिये ॥
राजसन्दर्शने यस्या दौहृदं जायते स्त्रियाः ।
अर्थवन्तं महाभागं कुमारं सा प्रसूयत ॥
दुकूलपट्टकौशेयभूषणादिषु दौहृदात् ।
अलङ्का षणं पुत्त्रं ललितं सा प्रसूयते ॥
आश्रमे संयतात्मानं धर्म्मशीलं प्रसूयते ॥
देवताप्रतिमायान्तु प्रसूते पार्षदोपमम् ।
दर्शने व्यालजातीनां हिंसाशीलं प्रसूयते ॥
गोधामांसाशने पुत्त्रं सुषुप्सुं धारणात्मकम् ।
गवां मांसे च बलिनं सर्व्वक्लेशसहन्तथा ॥
माहिषे दौहृदाच्छूरं रक्ताक्षं लोमसंयुतम् ।
वराहमांसात् स्वप्नालुं शूरं सञ्जनयेत् सुतम् ॥
मार्गाद्विक्रान्तजङ्घालं सदा वनचरं सुतम् ।
सृमराद्विग्नमनसं नित्यभीतञ्च तैत्तिरात् ॥
अतोऽनुक्तेषु या नारी समभिध्याति दौहृदम् ।
शरीराचारशीलैः सा समानं जनयिष्यति ॥
कर्म्मणा चोदितं जन्तोर्भवितव्यं पुनर्भवेत् ।
यथा यथा दैवयोगाद्दौहृदं जनयेद्धृदि ॥”
इति सुश्रुते शारीरस्थाने तृतीयेऽध्याये ॥)
क्षीरावीवृक्षः । इति शब्दचन्द्रिका ॥ क्षीराइ
इति भाषा ॥

गर्भिण्यवेक्षणं, क्ली, (गर्भिण्या गर्भवत्या अवे-

क्षणं यत्नेन परिचर्य्या ।) कुमारभृत्या । गर्भिणी-
परिचर्य्या । इति त्रिकाण्डशेषः ॥

गर्भोपघातिनी, स्त्री, (गर्भं उपहन्तीति । उप +

हन् + “सुप्यजातौ णिनिस्ताच्छील्ये ।” ३ । २ । ७८ ।
इति णिनिः । गर्भं उपघातयतीति । हन्
+ णिच् णिनिः । इति केचित् ।) अनृतौ
वृषोपगमनादिवशात् यस्या गर्भपातो भवति
सा गौः । गावडाफेला गाइ इति भाषा ॥ तत्-
पर्य्यायः । वेहत् २ । इत्यमरः । २ । ९ । ६९ ॥

गर्म्मुत्, स्त्री, (गीर्य्यते भक्ष्यते प्राकृतैरिति । गॄ

निगरणे + “ग्रो सुट् च ।” उणां । १ । ९७ ।
इति उति मुडागमश्च ।) तृणधान्यविशेषः ।
इत्यमरो भरतश्च ॥ मयना इति ख्यातः । गड
गड इति केचित् ॥ (गीर्य्यते भक्ष्यते यद्वा
गीर्य्यते विज्ञाप्यते विख्याप्यतेऽनेनेति । गॄ + उति
सुट् च ।) स्वर्णम् । नडः । इति मेदिनी ।
ते । १०७ ॥

गर्म्मूटिका, स्त्री, (गर्म्भुत इव उटं पत्रमस्याः ।

कप् + टाप् + अत इत्वञ्च । पृषोदरात् तकार-
लोपः ।) ब्रीहिभेदः । माडुया इति भाषा ॥
तत्पर्य्यायः । गर्म्मूच्छदः २ । इति रत्नमाला ॥

गर्म्मोटिका, स्त्री, (गर्म्मूटिका + निपातनात् ऊका-

रस्योकारः ।) जरडीतृणम् । इति राज-
निर्घण्टः ॥

गर्व्व, मदे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-

सेट् ।) मद इह अहङ्कारः । नीचो गर्व्वति
सम्पदा । इति दुर्गादासः ॥

गर्व्वः, पुं, (गर्व्व मदे + भावे घञ् । यद्वा, गिरति

मदमत्तस्यात्मानमुद्गिरतीव इति । गॄ निग-
रणे + “कॄगॄशॄदॄभ्यो वः ।” उणां । १ । १५५ ।
इति वः ।) अहङ्कारः । इत्यमरः । १ । ७ । २२ ॥
(यथा, रामायणे । २ । ३१ । २० ।
“यदि दुःस्थो न रक्षेत भरतो राज्यमुत्तमम् ।
प्राप्य दुर्म्मनसा वीर ! गर्व्वेण च विशेषतः ॥”)
अहङ्कारस्तथाध्यात्मं सर्व्वसंसारकारणम् ।
अभिमानोऽधिभूतञ्च रुद्रस्तत्राधिदैवतम् ॥”
इति महाभारते आश्वमेधिकपर्व्व ॥
(अयं हि व्यभिचारिभावविशेषः । तल्लक्षणं
यथा, साहित्यदर्पणे । ३ । १५० ।
“गर्व्वो मदः प्रभावश्रीविद्यासत्कुलतादिजः ।
अवज्ञासविलासाङ्गदर्शनाविनयादिकृत् ॥”)

गर्व्वाटः, पुं, (गर्व्वेण मदेन अटतीति । अट् +

अच् । शकन्ध्वादित्वात् अलोपः ।) द्वाःस्थितः ।
द्वारपालः । इति त्रिकाण्डशेषः ॥

गर्व्वितः, त्रि, (गर्व्वः सञ्जातोऽस्य । गर्व्व + “तदस्य

सञ्जातं तारकादिभ्य इतच् ।” ५ । २ । ३६ ।
इति इतच् । यद्वा, गर्व्व + कर्त्तरि क्तः ।) गर्व्व-
युक्तः । अहङ्कृतः । इति जटाधरः ॥ (यथा,
रघुः । ९ । ५५ ।
“आविर्बभूव कुशगर्भमुखं मृगाणां
यूथं तदग्रसरगर्व्वितकृष्णसारम् ॥”)

गर्ह, ङ कुत्सने । इति कविकल्पद्रुमः । (भ्वां-आत्मं-

सकं-सेट् ।) रेफोपधः । ङ, गर्हते । कुत्सनं
निन्दा । इति दुर्गादासः ॥ (यथा, रामयणे ।
२ । ८२ । १० ।
“स वाष्पकलया वाचा कलहंसस्वरो युवा ।
विललाप सभामध्ये जगर्हे च पुरोहितम् ॥”)

गर्ह, कि कुत्सने । इति कविकल्पद्रुमः ॥ (चुरां

पक्षे भ्वां-परं-सकं-सेट् ।) कि, गर्हयति गर्हति ।
इति दुर्गादासः ॥ (यथा, भागवते । ६ । ७ । १० ।
“गर्हयामास सदसि स्वयमात्मानमात्मना ॥”
तथा, तत्रैव । ४ । ४ । १० ।
“जगर्ह साऽमर्षविपन्नया गिरा
शिवद्विषं धूमपथश्रमस्मयम् ॥”)

गर्हणं, क्ली, (गर्ह कुत्सने + भावे ल्युट् ।) निन्दा ।

इत्यमरः । १ । ६ । १३ ॥

गर्हा, स्त्री, (गर्ह्यते निन्द्यते इति । गर्ह कुत्सने +

“गुरोश्च हलः ।” ३ । ३ । १०३ । इति स्त्रियां
अः ततष्टाप् ।) निन्दा । इति शब्दरत्नावली ॥
(यथा, पञ्चतन्त्रे । १ । १८७ ।
“कुलपतनं जनगर्हां
बन्धनमपि जीवितव्यसन्देहम् ।
अङ्गीकरोति कुलटा
सततं परपुरुषसंसक्ता ॥”)

गर्हितं, त्रि, (गर्ह्यते स्म इति । गर्ह + क्त । यद्वा,

गर्हा सञ्जाताऽस्य । गर्हा + इतच् ।) निन्दि-
तम् । यथा, चाणक्ये । ५० ।
“अतिदर्पे हता लङ्का अतिमाने च कौरवाः ।
अतिदाने बलिर्व्वद्धः सर्व्वमत्यन्तगर्हितम् ॥”

गर्ह्यः, त्रि, (गर्ह्यते निन्द्यते इति । गर्ह ङ

निन्दायाम् + “ऋहलोर्ण्यत् ।” ३ । १ । १२४ ।
इति ण्यत् ।) अधमः । निन्द्यः । इत्यमरः ।
३ । १ । ५४ ॥ (यथा, मनुः । ५ । १४९ ।
“पित्रा भर्त्रा सुतैर्व्वापि नेच्छेद्विरहमात्मनः ।
एषां हि विरहेण स्त्री गर्ह्ये कुर्य्यादुभे कुले ॥”)

गर्ह्यवादी, [न्] त्रि, (गर्ह्यं वदतीति । गर्ह्य +

वद् + “सुप्यजातौ णिनिस्ताच्छील्ये ।” ३ । २ ।
७८ । इति णिनिः ।) कद्वदः । इत्यमरः । ३ ।
१ । ३७ ॥

गल, भक्षे । सावे । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-स्रावे अकं-सेट् ।) गलति । इति दुर्गा-
दासः ॥ (स्रावार्थे यथा, कथासरित्सागरे ।
११ । ५७ ।
“इति मे तव कल्याणमपश्यन्त्या गलन्त्यमी ।
सन्तापक्वथिताः प्राणा इव वाष्पाम्बुबिन्दवः ॥”)

गल, क ङ स्रावे । इति कविकल्पद्रुमः ॥ (चुरां

आत्मं-अकं-सेट् ।) स्रावः । क्षरणम् । क ङ,
गालयते रक्तं क्षतस्य । इति दुर्गादासः ॥
पृष्ठ २/३१८

गलः, पुं, (गलति भक्षयत्यनेन । गल् + करणे

अप् । यद्बा गीर्य्यतेऽनेन । गॄ + करणे अप् ।)
कण्ठः । इत्यमरः । २ । ३ । ८८ ॥ गला
इति भाषा ॥ (यथा, पञ्चतन्त्रे । ३ । १६४ ।
“प्रजा न रञ्जयेद्यस्तु राजा रक्षादिभिर्गुणैः ।
अजागलस्तनस्येव तस्य राज्यं निरर्थकम् ॥” * ॥
गलति क्षरति शालवृक्षादेरिति । गल् + पचा-
द्यच् ।) सर्ज्जरसः । इति मेदिनी । ले । १३ ॥
धुना इति भाषा ॥ वाद्यभेदः । (गलति
निःसरति जालादेरिति ।) गडकमत्स्यः । इति
शब्दरत्नावली ॥

गलकः, पुं, (गलति निःसरति जालादिभ्य इति ।

गल क्षरणे + ण्वुल् ।) गडकमत्स्यः ॥ इति
शब्दरत्नावली ॥

गलकम्वलः, पुं, (गले कम्बल इव ।) गवां गलस्थित-

कम्बलाकृतिमांसम । तत्पर्य्यायः । सास्ना २ ।
इत्यमरः । २ । ९ । ६३ ॥ (“सास्ना
गोगलकम्बलः ।” इत्युज्ज्वलदत्तः ॥)

गलगण्डः, पुं, (गले गण्डः स्फोटक इव ।) गल-

रोगविशेषः । गरगण्ड इति भाषा ॥ अथ गल-
गण्डाधिकारः । तत्र गलगण्डस्य सामान्यं
लिङ्गमाह ।
“निबद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले ।
महान् वा यदि वा ह्रस्वो गलगण्डं तमादिशेत् ॥”
निबद्धो दृढः अचलो वा । मुष्कवत् अण्डवत् । गल
इति हनुमन्ययोरुपलक्षणम् । तथा च भोजः ।
“महान्तं शोथमल्पं वा हनुमन्या गलाश्रयम् ।
मुष्कवल्लम्बमानं तु गलगण्डं विनिर्द्दिशेत् ॥” * ॥
संप्राप्तिमाह ।
“वातः कफश्चापि गले प्रदुष्टो
मध्ये तु संसृत्य तथैव मेदः ।
कुर्व्वन्ति गण्डं क्रमशः स्वलिङ्गैः
समन्वितं तं गलगण्डमाहुः ॥”
क्रमशः शनैः शनैः ॥ स्वलिङ्गैः वातकफमेदो-
लक्षणैः ॥ * ॥
वातिकमाह ।
“तोदान्वितः कृष्णशिरावनद्धः
श्यावारुणो वा पवनात्मकस्तु ।
पारुष्ययुक्तश्चिरवृद्ध्यपाको
यदृच्छया पाकमियात् कदाचित् ॥
वैरस्यमास्यस्य च तस्य जन्तो-
र्भवेत्तथा तालुगलप्रशोषः ।”
चिरवृद्ध्यपाकः चिरेण वृद्धिरपाकश्च यस्य सः ॥
श्लैष्मिकमाह ।
“स्थिरः सवर्णो गुरुरुग्रकण्डुः
शीतो महांश्चापि कफात्मकस्तु ।
चिराच्च वृद्धिं भजतेऽचिराद्वा
प्रपच्यते मन्दरुजः कदाचित् ॥
माधुर्य्यमास्यस्य च तस्य जन्तो-
र्भवेत्तथा तालुगलप्रलेपः ।”
कदाचित् प्रपच्यते वा पाकोऽपि चिराद्गवति ॥
प्रलेपः श्लेष्मणा ॥ * ॥
मेदोजमाह ।
“स्निग्धो मृदुः पाण्डुरनिष्टगन्धो
मेदोऽन्वितः कण्डुयुतो रुजश्च ।
प्रलम्बतेऽलावुवदल्पमूलो
देहानुरूपक्षयवृद्धियुक्तः ॥
स्निग्धास्यता तस्य भवेच्च जन्तो-
र्गलेन शब्दं कुरुते च नित्यम् ।”
देहक्षये कार्श्ये क्षयं देहवृद्धौ वृद्धिं यातीत्यर्थः ॥ * ॥
असाध्यमाह ।
“कृच्छ्राच्छसन्तं मृदुसर्व्वगात्रं
संवतसरातीतमरोचकार्त्तम् ।
क्षीणञ्च वैद्यो गलगण्डयुक्तं
भिन्नस्वरं नैव नरं चिकित्सेत् ॥” * ॥
अथ गलगण्डचिकित्सा ।
“सर्षपान् शिग्रुबीजानि शणबीजातसीयवान् ।
मूलकस्य च बीजानि तक्रेणाम्लेन पेषयेत् ॥
गलगण्डो गण्डमाला ग्रन्थयश्चैव दारुणाः ।
प्रलेपादस्य नश्यन्ति विलयं यान्ति सत्वरम् ॥ १ ॥
रक्षोघ्नतैलयुक्तेन जलकुम्भीकभस्मना ।
लेपनं गलगण्डस्य चिरोत्थस्यापि नाशनम् ॥
रक्षोघ्नः सर्षपः ॥ २ ॥
श्वेतापराजितामूलं प्रातः पिष्ट्वा पिबेन्नरः ।
सर्पिषा नियताहारो गलगण्डप्रशान्तये ॥ ३ ॥
तिक्तालावुफले पक्वे सप्ताहमुषितं जलम् ।
सद्यः स्याद्गलगण्डघ्नं पानात् पथ्यानुसेविनाम् ॥ ४ ॥
तैलं पिबेच्चामृतवल्लिविम्बा
हिंस्राह्वयावृक्षकपिप्पलीभिः ।
सिद्धं बलाभ्यां सह देवदारु
हिताय नित्यं गलगण्डरोगी ॥
वृक्षकोऽत्र तुणिः । उक्तञ्च निघण्टौ धन्वन्तरिणा ।
‘तुणिस्तुणी कपीतस्तु नन्दिवृक्षोऽथ वृत्त्रकः ।’
बलाभ्यां बलातिबलाभ्यांम् । अमृतादितैलम् ॥ ५ ॥
यवमुद्गपटोलादिकटुरूक्षान्नभोजनम् ।
वमनं रक्तमोक्षञ्च गलगण्डे प्रयोजयेत् ॥ ६ ॥
दापयेद्गलगण्डे तु प्रच्छन्नानि बहूनि च ।
गण्डगोपालिकां पिष्ट्वा तत्र लेपं प्रकल्पयेत् ॥
अवश्यं नश्यति क्षिप्रं गलगण्डो गदोऽमुना ।
प्रलेपस्त्वनुभूतोऽयं बहुधा बहुभिर्ज्जनैः ॥
प्रच्छन्नानि पछना इति लोके । गण्डगोपालिका
गण्डगुया इति लोके प्रसिद्ध आम्रवाटिकायां
सुलभः कीटविशेषः ॥ ७ ॥
लवणं जलकुम्भ्यास्तु कणाचूर्णेन संयुतम् ।
प्रभाते नित्यमश्नीयात् गलगण्डप्रशान्तये ॥” ८ ॥
इति भावप्रकाशः ॥

गलग्रहः, पुं, (गलं कण्ठं गृह्णाति मत्स्यास्थ्ना

इति । ग्रह् + अच् । यद्वा गलः मत्स्य-
कण्ठो गृह्यतेऽस्मिन् । ग्रह् + अधिकरणे अप् ।)
व्यञ्जनविशेषः । तत्पर्य्यायः । मत्स्यघण्टः २ ।
इति शब्दचन्द्रिका ॥ तिथिविशेषः । यथा, --
“कृष्णपक्षे चतुर्थी च सप्तम्यादिदिनत्रयम् ।
त्रयोदशीचतुष्कञ्च अष्टावेते गलग्रहाः ॥”
इति मदनरत्ने नारदः ॥
अपि च ।
“आरम्भानन्तरं यत्र प्रत्यारम्भो न विद्यते ।
गर्गादिमुनयः सर्व्वे तमेवाहुर्गलग्रहम् ॥”
इति राजमार्त्तण्डः ॥
(रोगविशेषः । यथा, सुशुते सूत्रस्थाने ४५
अध्याये ।
“पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे ॥”
“यस्य श्लेष्मा प्रकुपितस्तिष्ठत्यन्तर्गले स्थिरः ।
आशु सञ्जनयेच्छोथं जायतेऽस्य गलग्रहः ॥”
इति चरके सूत्रस्थानेऽष्टादशेऽध्याये ॥
गलग्रहरोगवत् परित्यागाशक्यत्वात् पीडा-
दायकत्वाच्च लक्षणाशक्त्या पोष्यात्मीयजनोऽपि
बोध्यते । यथा, स एव मे गलग्रहः । इति
लोकप्रसिद्धिः ॥)

गलन्तिका, स्त्री, (गलतीति । गल् + शतृ । उगि

त्वात् ङीप् । “शप्श्यनोर्नित्यम् ।” ७ । १ ।
८१ । इति नुम् स्वार्थे कन् ह्नस्वश्च ।) कर्करी ।
स्वल्पवारिधानिका । इत्यमरः । २ । ९ । ३१ ॥
(यथा, काशीखण्डे ।
“एषा कार्य्या च वैशाखे देवे देया गलन्तिका ॥”)

गलमेखला, स्त्री, (गलस्य कण्ठस्य मेखलेव ।)

गलसूत्रम् । कण्ठाभरणविशेषः । तत्पर्य्यायः ।
सूत्राली २ । इति हारावली । १७४ ॥

गलव्रतः, पुं, (गलो गिलनमेव व्रतं नियमो

यस्य ।) मयूरः । इति त्रिकाण्डशेषः ॥

गलशुण्डिका, स्त्री, (अल्पा शुण्डा शुण्डिका ।

गलस्य शुण्डिकेव ।) तालूर्द्ध्वसूक्ष्मजिह्वा । आल्
जिव् इति भाषा ॥ (यथा, याज्ञवल्क्यः । ३ । ९८ ।
“तालूदरं वस्ति शीर्षं चिवुके गलशुण्डिके ॥”)
तत्पर्य्यायः । सुधास्रवा २ घण्टिका ३ लम्बिका
४ । इति हेमचन्द्रः । ३ । २४९ ॥ रसाङ्का ५
प्रतिजिह्विका ६ माध्वी ७ अलिजिह्विका ८ ।
इति शब्दरत्नावली ॥ (तालुगतरोगविशेषः ।
यथा, सुश्रुते सूत्रस्थाने २५ अध्याये ।
“शल्यं जतुमणिर्म्मांससङ्घातो गलशुण्डिका ॥”
“यस्य श्लेष्मा प्रकुपितः काकले व्यवतिष्ठते ।
आशु सञ्जनयेच्छोथं करोति गलशुण्डिकाम् ॥”
इति चरके सूत्रस्थानेऽष्टादशेऽध्याये ॥
तच्चिकित्सादिकं यथा, --
“गले च घण्टिकामार्गे रक्तश्लेष्मविकारजा ।
लम्बिका वर्द्धते नॄणां विज्ञेया गलशुण्डिका ॥
रुणद्धि चास्य मार्गञ्च नेत्रस्रावः प्रदृश्यते ।
शिरोऽर्त्तिः श्वासकासश्च ज्वरेणैव प्रपच्यते ॥
आशुकारी महाप्राज्ञः शीघ्रं कुर्य्यात् प्रति-
क्रियाम् ।
शस्त्रेण शुण्डिकां छित्त्वा कुर्य्याद्बिम्लापनं हितम् ॥
मागधी मरिचं पथ्या वचा धान्ययवानिकाः ।
क्वाथः सोष्णः स्वेदनञ्च गलशुण्डोपशान्तये ॥
दिवारात्रौ यवान्याश्च मुखे सन्धारणं हितम् ।
मर्द्दनं कण्ठदेशे तु तेन सम्पद्यते सुखम् ॥
सिद्धार्थकं वचा कुष्ठं रजनी पारिभद्रकम् ।
गृहधूमं स लवणं कण्ठे वा लेपनं हितम् ॥
पृष्ठ २/३१९
ज्वरे प्रोक्तानि पथ्यानि यानि तानि महामते ॥
न गौल्यं पिच्छिलं सेव्यं तैलं नैव गलामब
इति हारीते चिकित्सितस्थाने पञ्चचत्वारिंशे-
ऽध्याये ॥)

गलस्तनी, स्त्री, (गले स्तनाविव मांसपिण्डौ यस्याः ।)

छागी । इति हेमचन्द्रः । ४ । ३४१ ॥

गला, स्त्री, (गलतीति । गल् + अच् । स्त्रियां

टाप् ।) अलम्बुषा । इति भावप्रकाशः ॥

गलाङ्कुरः, पुं, (गलरोधकोऽङ्कुरो यत्र ।) गल-

रोगविशेषः । तत्पर्य्यायः । रोहिणी २ । इति
हेमचन्द्रः । ३ । १३१ ॥ तस्य सम्प्राप्तिपूर्ब्बक-
लक्षणमाह माधवकरः ।
“गलेऽनिलः पित्तकफौ च मूर्च्छितौ
प्रदूष्य मांसञ्च तथैव शोणितम् ।
गलोपसंरोधकरैस्तथाङ्कुरै-
र्निहन्त्यसून् व्याधिरयञ्च रोहिणी ॥”

गलानिलः, पुं, (गले कण्ठदेशे अनिलः प्राणवायु-

र्यस्य ।) मत्स्यविशेषः । तत्पर्य्यायः । गङ्गा-
टेयः २ । इति त्रिकाण्डशेषः ॥ गलानिकः
गलाविल इति च क्वचित् पाठः ॥

गलिः, पुं, (गिरति श्रमेण विना केवलं भक्षय-

तीति । गॄ + “सर्व्वधातुभ्य इन् ।” उणां । ४ ।
११७ । इति इन् । गुणः रस्यलत्वञ्च ।) शक्तो-
ऽप्यधूर्व्वहो वृषः । गडिया गरु इति भाषा ।
तत्पर्य्यायः । दुष्टवृषः २ । इति हेमचन्द्रः ।
४ । ३२९ ॥

गलितः, त्रि, (गल् + क्त ।) पतितः । तत्पर्य्यायः ।

स्रस्तः २ ध्वस्तः ३ भ्रष्टः ४ स्कन्नः ५ पन्नः ६
च्युतः ७ । इत्यमरः । ३ । १ । १०४ ॥ (यथा,
भागवते । १ । १ । ३ ।
“निगमकल्पतरोर्गलितं फलं
शुकमुखादमृतद्रवसंयुतम् ॥”)

गलुः, पुं, (गलतीति । गल् + उन् ।) मणि-

विशेषः । इति महाभारतम् ॥

गलेगण्डः, पुं, (गले गंण्ड इव यस्य । अलुक् समासः ।)

पक्षिविशेषः । तत्पर्य्यायः । मर्कटः २ । इति
त्रिकाण्डशेषः ॥ (हाडगिला इति भाषा ॥)

गलेस्तनी, स्त्री, (गले स्तनाविव मांसपिण्डौ यस्याः ।

अलुक् समासः ।) छागी । इति राजनिर्घण्टः ॥

गल्भ, ङ धृष्टत्वे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-अकं-सेट् ।) अन्तःस्थतृतीयोपधः । ङ,
गल्भते लोकः प्रगल्भः स्यादित्यर्थः । इति
दुर्गादासः ॥

गल्या, स्त्री, (गलानां कण्ठानां समूहः । “पाशा-

दिभ्यो यः ।” ४ । २ । ४९ । इति यः ।) गल-
समूहः । कण्ठानां समूहः । इत्यमरः । ३ । ३ । ४३ ॥

गल्लः, पुं, गण्डः । इति हेमचन्द्रः ॥ गाल इति

भाषा ॥

गल्लचातुरी, स्त्री, (गल्ले गण्डे गण्डमधिकृत्य चातुरी

यस्याः यस्यां वा । संज्ञात्वान्न कप् ।) उपधान-
विशेषः । इति जटाधरः ॥ गालवालिश इति
भाषा ॥

गल्वर्कः, पुं, (गलुर्मणिविशेषः स इव अर्को दीप्ति-

र्यस्य ।) चषकः । मद्यपानपात्रम् । इति हेम-
चन्द्रः । ३ । ५७० ॥ मसारवन्मणिः । इति
त्रिकाण्डशेषः ॥ (यथा, महाभारते । ७ । १५ । ५३ ।
“मसारगल्वर्कसुवर्णरूप्यै-
र्वज्रप्रवालस्फटिकैश्च मुख्यैः ॥”)

गल्ह, ङ कुत्सने । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) अन्तःस्थतृतीयोपधः । ङ,
गल्हते । इति दुर्गादासः ॥

गवयः, पुं, (गु ङ शब्दे + भावे अप् । गवं शब्दं

याति प्रप्नोति गव इति शब्दं यातीति वा ।
गव + या + कः ।) गलकम्बलशून्यगोसंदृशपशुः ।
(यथा, रामायणे । २ । १०३ । ४२ ।
“व्याघ्रगोकर्णगवया वित्रेसुः पृषतैः सह ॥”)
तत्पर्य्यायः । गवालूकः २ । इति त्रिकाण्ड-
शेषः ॥ वनगौः ३ बलभद्रः ४ महागन्धः ५ ।
तन्मांसगुणौ । परुषत्वम् । बृंहणत्वञ्च । इति
राजनिर्घण्टः ॥ वांनरविशेषः । स तु वैवस्वत-
पुत्त्रः । यथा, --
“पुत्त्रा वैवस्वतस्यात्र पञ्च कालान्तकोपमाः ।
गयो गवाक्षो गवयः शरभो गन्धमादनः ॥”
इति रामायणम् ॥

गवयी, स्त्री, (गवय + जातौ गौरादित्वात् वा

ङीष् ।) गवयस्त्री । तत्पर्य्यायः । वनधेनुः २
भिल्लगवी ३ । इति राजनिर्घण्टः ॥

गवराजः, पुं, (गवेन शब्देन राजते इति । राज् +

अच् ।) वृषः । इति शब्दचन्द्रिका ॥

गवलं, क्ली, महिषशृङ्गम् । इत्यमरः । २ । ९ । १०० ॥

गवलः, पुं, (गवं शब्दं लातीति । ला + कः ।)

वनमहिषः । इति हेमचन्द्रः । ४ । ३४९ ॥ (यथा,
बृहत्संहितायाम् । ३२ । १७ ।
“गवलालिकुलाहिनिभां विसृजन्ति पयः पयो-
वाहाः ॥”)

गवाक्षः, पुं, (गवामक्षीव । “अक्ष्णोऽदर्शनात् ।”

५ । ४ । ७६ । इत्यच् । यद्वा, गावः रश्मयः
अक्ष्णुवन्ति व्याप्नुवन्ति अनेन इति । अक्षू व्याप्तौ
+ अकर्त्तर्य्यर्थे घञ् ।) गवामक्षीव यः । जाना-
लार जाली इति भाषा ॥ (यथा, रघुः । ७ । ७ ।
“उत्सृष्टलीलागतिरागवाक्षा-
दलक्तकाङ्कां पदवीं ततान ॥”)
तत्पर्य्यायः । वातायनम् २ । इत्यमरः । २ । २ । ९ ॥
बधूदृगयनम् ३ जालम् ४ जालकम् ५ । इति
कोषान्तरम् । इति भरतः ॥ वानरविशेषः ।
इति मेदिनी । क्षे । ३५ ॥ स तु वैवस्वतपुत्त्रः ।
यथा, रामायणे ।
“पुत्त्रा वैवस्वतस्यात्र पञ्च कालान्तकोपमाः ।
गयो गवाक्षो गवयः शरभो गन्धमादनः ॥”

गवाक्षी, स्त्री, (गां भूमिमक्ष्णोति व्याप्नोतीति ।

अक्षू व्याप्तौ + “कर्म्मण्यण् ।” ३ । २ । १ ।
इत्यण् । स्त्रियां ङीप् ।) गोडुम्बा । इत्यमरः ।
२ । ४ । १५६ ॥ गोमुक् इति भाषा ॥ इन्द्र-
वारुणी । राखाल शसा इति भाषा ॥
(अस्याः पर्य्याया यथा, --
“ऐन्द्रीन्द्रवारुणी चित्रा गवाक्षी गजचिर्भटा ।
मृगेर्व्वारुः पिटङ्कोटी विशाला च मृगादनी ॥”
इति वैद्यकरत्नमालायाम् ॥
व्यवहारोऽस्य यथा, --
“चित्रकं शृङ्गवेरञ्च तथादन्ती गवाक्ष्यपि ॥”
इति वैद्यकचक्रपाणिसंग्रहे बालरोगाधिकारे ॥
मामालाडु इति क्वचित् भाषा ॥) शाखोटः ।
शेओडा इति भाषा ॥ इति राजनिर्घण्टः ॥
अपराजिता । (यथा, वैद्यकरत्नमालायाम् ।
“गवाक्ष्यश्वखुरीश्वेता श्वेतभण्डापराजिता ।
द्बिविधा सा मिता नीला गिरिकर्णी गवादनी ॥”)

गवाची, स्त्री, (गवि भूमौ अञ्चति गच्छतीति ।

अञ्च + क्विप् । ङीष् । “अवङ् स्फोटायनस्य ।”
६ । १ । १२३ । इत्यवङ् ।) मत्स्यविशेषः ।
पाँकाल माछ इति भाषा ॥ अस्य गुणाः ।
अजीर्णकारित्वम् । गुरुत्वम् । श्लेष्मप्रकोपन-
त्वञ्च । इति राजवल्लभः ॥

गवादनं, क्ली, (अद्यते भक्ष्यते इति । अद् +

कर्म्मणि ल्युट् । ततः षष्ठीतत्पुरुषः ।) घासः ।
इति शब्दचन्द्रिका ॥

गवादनी, स्त्री, (गवादन + गौरादित्वात् ङीष् ।)

इन्द्रवारुणी । (अद्यतेऽस्यामिति । अद् +
अधिकरणे ल्युट् । ततः षष्ठीतत्पुरुषस्ततः
स्त्रियां ङीष् ।) गवां घासभक्षणाधारः । इति
मेदिनी । ने । १७९ ॥ गरुर घास खाइवार गडा
इति भाषा ॥ नीलापराजिता । इति राज-
निर्घण्टः ॥ (यथास्याः पर्य्यायाः, --
“गवाक्ष्यश्वखुरी श्वेता श्वेतभण्डापराजिता ।
द्विविधा सा सिता नीला गिरिकर्णी गवादनी ॥”
इति वैद्यकरत्ममालायाम् ॥)

गवालूकः, पुं, (गवेन शब्देन अलति पर्य्याप्नो-

तीति । अल् + बाहुलकात् ऊकञ् ।) गवयः ।
इति त्रिकाण्डशेषः ॥

गवाशनः, पुं, (गामश्नातीति । अश ग भोजने + ल्युः ।)

गोभक्षकः । मुचि इति भाषा ॥ यथाह कश्चित् ।
“माताप्येका पिताप्येको मम तस्य च पक्षिणः ।
अहं मुनिभिरानीतः स चानीतो गवाशनैः ॥”

गवाषिका, स्त्री, लाक्षा । इति रत्नमाला ॥ गरा-

धिकापि पाठः ॥ (गवायिका इति क्वचित् पाठः ॥)

गवीश्वरः, पुं, (गवामीश्वरः । पक्षे अवङादेशा-

मावः ।) गवां स्वामी । तत्पर्य्यायः । गोमान् २
गोमी ३ । इत्यमरः । २ । ९ । ५८ ॥ गवेश्वरोऽपि ॥

गवेडुः, स्त्री, (गवे गवार्थं दीयते इति । दा +

मृगय्वादित्वात् कुः । पृषोदरात् दकारस्य डत्वम् ।
तत्पुरुषे कृतीत्यलुक् ।) धान्यविशेषः । इत्य-
मरः । २ । ९ । २५ ॥ मड्गड् इति भाषा ॥

गवेधुः, पुं, (गवे गवार्थ धीयते इति । धा +

कुः । तत्पुरु कृतीत्यलुक् । यद्वा, गवि
भूमौ एधते इति । गो + एघ वृद्धौ + कुः ।)
गवेडुः । इति भरतः ॥ (क्वचित् स्त्रीलिङ्गेऽपि
दृश्यते । यथा, --
पृष्ठ २/३२०
“गवेधुका तु विद्वद्भिर्गवेधुः कथिता स्त्रियाम् ।
गवेधुः कटुका स्वाद्वी कार्शकृत् कफनाशिनी ॥”
इति भावप्रकाशः ॥)

गवेधुकं, क्ली, (गवेधुरिव कायतीति । कै + कः ।

गैरिकम् । इति राजनिर्घण्टः ॥ (तृणधान्य-
विशेषः । गड्गडि इति भाषा ॥ यथा, --
“चिल्लीलट्वाकलोणीका कुरुण्टकगवेधुकम् ।”
इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥
सर्पविशेषे पुं । यथा, सुश्रुते कल्पस्थाने ४ अध्याये ।
“महासर्पः शङ्खपाली लोहिताक्षो गवेधुकः
परिसर्पः” इत्यादयः ॥)

गवेधुका, स्त्री, (गवेधु + स्वार्थे संज्ञायां वा कन् ।)

तृणधान्यविशेषः । गड्गड् देधान इति च
भाषा । (यथा, विष्णुपुराणे । १ । ६ । २५ ।
“श्यामाकास्त्वथ नीवारा जर्त्तिलाः सगवेधुकाः ।”)
तत्पर्य्यायः । गवेडुः २ । इत्यमरः । २ । ९ । ५२ ॥
गवेधुः ३ गवेडका ४ । इति तट्टीका ॥ क्षुद्रा ५
गोजिह्वा ६ गुन्द्रा ७ गुत्थः ८ । इति रत्नमाला ॥
नागबला । इति राजनिर्घण्टः ॥ (अस्याः
पर्य्याया यथा, --
“गाङ्गेरुकी नागबला झषा ह्रस्वगवेधुका ।
खरवल्लरिका विश्ववेदा गोरक्षतण्डुली ॥”
इति च वैद्यकरत्नमालायाम् ॥)

गवेरुकं, क्ली, (गां भूमिमीर्त्ते उत्पत्तिकारणत्वेन

प्राप्नोतीति । गो + ईर् + बाहुलकादुक । ततो-
ऽवङादेशः ।) गैरिकम् । इति त्रिकाण्डशेषः ॥

गवेशका, स्त्री, (ईष्टे इति । ईश् + अच् । ततो

गवामीशः । स इव कायतीति । कै + कः ।) वृक्ष-
विशेषः । इति शब्दचन्द्रिका ॥ गोरक्ष चाउ-
लिया । इति माषा ॥ (गुणादयोऽस्या गोरक्ष-
तण्डुलाशब्दे ज्ञातव्याः ॥)

गवेष, त् क मार्गणे । इति कविकल्पद्रुमः ॥

(अदन्तचुरां-परं-सकं-सेट् ।) मूर्द्धन्योपधः ।
अजगवेषत् गुणं गुणी । इति दुर्गादासः ॥

गवेषणा, स्त्री, क्ली, (गवेष + भावे युच् ।) अन्वे-

षणा । इत्यमरः । २ । ७ । ३२ ॥

गवेषितं, त्रि, (गवेष्यते स्म इति । गवेष + क्त ।)

अन्वेषितम् । इत्यमरः । ३ । १ । १०५ ॥

गवोद्घः, पुं, उत्तमगवः । गोषूद्घः प्रशस्तः । इति

व्युत्पत्तिः ॥

गव्यं, त्रि, (गोरिदं गोर्विकारो वा । “गोपयसो-

र्यत् ।” ४ । ३ । १६० । इति यत् । “वान्तो यि
प्रत्यये ।” ६ । १ । ७९ । इति अव् ।) गवां सर्व्वम् ।
गोसम्बन्धि । तत्तु दुग्धगोमयादि । इत्यमरः ।
२ । ९ । ५० ॥ (यथा, मनुः । ३ । ७१ ।
“संवत्सरन्तु गव्येन पयसा पायसेन च ॥”)
गोहितम् । इति मेदिनी । ये । १७ ॥

गव्यं, क्ली, (गवि बाणे साधु । गो + यत ।

ततोऽव् ।) ज्या । (गवि नेत्रे साधु इति ।)
रागद्रव्यम् । इति मेदिनी । ये । १७ ॥

गव्या, स्त्री, (गवां समूहः । “खलगोरथात् ।”

४ । २ । ५० । इति यत् । “वान्तो यि प्रत्यये ।”
६ । १ । ७९ । इति अव् ।) गोसमूहः । तत्-
पर्य्यायः । गोत्रा २ । इत्यमरः । २ । ९ । ६० ॥
गव्यूतिः । (गवि इषौ साधुः । गो + यत् । तत-
ष्टाप् ।) ज्या । इति हेमचन्द्रः ॥ गोरोचना ।
इति राजनिर्घण्टः ॥

गव्यूतं, क्ली, (गोर्य्यूतिः । “गोर्य्यूतौ छन्दस्युपसंख्या-

नम् ।” “अध्वपरिमाणे च ।” ६ । १ । ७९ ।
इत्यस्य वार्त्तिं इति अव् । पृषोदरात् इकार-
लोपे साधुः ।) क्रोशः । गव्यूतिः । इति हेम-
चन्द्रः । ३ । ५५१ ॥

गव्यूतिः, स्त्री, पुं, (गोर्यूतिः । “गोर्यूतौ छन्दस्युप-

संख्यानम् ।” “अध्वपरिमाणे च ।” ६ । १ ।
७९ । इत्यस्य वार्त्तिं इति अव् ।) द्बिसहस्र-
धनुः । इति शब्दार्णवः ॥ क्रोशद्बयम् । (यथा,
राजतरङ्गिण्याम् । ३ । ४०९ ।
“गव्यूतिमात्रमासन्ने देवीधामनि धैर्य्यवान् ।
धुन्वन् कराभ्यां मधुपान् धावति स्म स धीरधीः ॥”)
तत् पर्य्यायः । क्रोशयुगम् २ । इत्यमरः । २ । १ ।
१८ ॥ गव्यूतम् ३ गोरुतम् ४ गोतमम् ५ । इति
भरतधृतवाचस्पतिः ॥ गव्या ६ । इति हेम-
चन्द्रः । ३ । ५५२ ॥

गह, त् क गहने । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरां-परं-सकं-सेट् ।) गहनं दुर्ब्बोधः । गह-
यति शास्त्रं जडधीः । दुःखेन जानातीत्यर्थः ।
इति दुर्गादासः ॥

गहनं, क्ली, (गाह्यते दुर्गम्यतेऽस्मिन्निति । गाह् +

बहुलमन्यत्रापि इति युच् कृच्छ्रगहनयोरिति
निर्द्देशात् वा ह्रस्वः । यद्वा, गह त् क गहने +
ल्युट् ।) वनम् । इत्यमरः । २ । ४ । १ ॥ (यथा,
गोः रामायणे । ६ । ९ । ६ ।
“सखीस्नेहेन तद्भीरु मया सर्व्वं प्रतिश्रुतम् ।
निलीय गहने शून्ये मयमुत्सृज्य रावणात् ॥”)
गह्वरम् । दुःखम् । इति मेदिनी । ने । ५७ ॥
(पुं, विष्णुः । दुर्ज्ञेयत्वादस्य तथात्वम् । यथा,
महाभारते । १३ । १४९ । ५४ ।
“करणं कारणं कर्त्ता विकर्त्ता गहनो गुहः ।”
“सर्व्वरूपं सामर्थ्यं चेष्टितं तस्य ज्ञातुं न शक्यते
इति गहनः ।” इति भाष्यम् ॥)

गहनः, त्रि, (गाह्यते दुःखेन गम्यते इति । गाह् +

युच् । कृच्छ्रगहनयोरिति निर्द्देशांत् वा ह्रस्वः ।)
दुर्गमः । दुष्प्रवेशः । तत्पर्य्यायः । कलिलः २ ।
इत्यमरः । २ । ४ । १ ॥ (यथा, रामायणे । ३ ।
१ । २३ ।
“गहनेष्वाश्रमान्तेषु लीलाविकृतदर्शनाः ।
रमन्ते तापसांस्तत्र त्रासयन्तः सुदारुणाः ॥”)

गहना, स्त्री, अलङ्कारः । इति देवीपुराणम् ॥

गह्वरं, क्ली, (गाह्यते इति । गाह् + “छित्वरच्छत्व-

रेति ।” उणां । ३ । १ । इति वरच्प्रत्ययेन
निपातनात् साधुः ।) गुहा । (यथा, रघुः । २ । २६ ।
“गङ्गाप्रपातान्तविरूढशष्पं
गौरीगुरोर्गह्वरमाबिवेश ॥” * ॥
गाह्यते विलुड्यते आत्माऽनेन इति ।) दम्भः ।
इत्यमरः । २ । ३ । ६ ॥ वनम् । इति मेदिनी ।
रे । १४९ ॥ रोदनम् । इति हेमचन्द्रः । ६ । ३८ ॥
(गहने त्रि । यथा, भागवते । १ । ६ । १३ ।
“नलवेणुशरस्तम्बकुशकीचकगह्वरम् ।
एक एवातियातोऽहमद्राक्षं विपिनं महत् ॥”)

गह्वरः, पुं, (गाह्यते विलुड्यते इति । गाह् विलो-

डने + “छित्वरच्छत्वरेति ।” उणां । ३ । १ ।
इति वरच्प्रत्ययेन निपातनात् साधुः ।)
निकुञ्जः । इति मेदिनी । रे । १४९ ॥

गह्वरी, स्त्री, (गह्वर + स्त्रियां ङीप् ।) गुहा ।

इति शब्दरत्नावली ॥

गा, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

सकं-सेट् ।) ङ, गाते । इति दुर्गादासः ॥

गा, र लि स्तुतौ । जन्मनि । इति कविकल्पद्रुमः ॥

(ह्वां-परं-सकं-सेट् ।) र, वैदिकः । लि,
जगाति । इति दुर्गादासः ॥

गा, स्त्री, (जगाति स्तौति अनया । गा स्तुतौ +

क्विप् ।) गाथा । इति पुरुषोत्तमः ॥

गाङ्गं, त्रि, (गङ्गाया इदमिति अण् ।) गङ्गा-

सम्भूतम् । इति मेदिनी ॥ गे । ५ । (यथा,
कुमारे । ५ । ३७ ।
“विकीर्णसप्तर्षिबलिप्रहासिभि-
स्तथा न गाङ्गैः सलिलैर्दिवच्च्युतैः ॥”
मेघधाराविनिःसृते जलविशेषे, क्ली । तल्लक्षणा-
दिकं यथा, सुश्रुते सूत्रस्थाने ४५ अध्याये ।
“तत्रान्तरीक्षं चतुर्व्विधम् । तद्यथा, धारं
कारं तौषारं हैममिति । तेषां धारं प्रधानं
लधुत्वात् । तत्पुनर्द्विविधं गाङ्गं सामुद्रञ्चेति ।
तत्र गाङ्गमाश्वयुजे मासि प्रायशो वर्षति
तयोर्द्वयोरपि परीक्षणं कुर्व्वीत शाल्योदन-
पिण्डमकुथितमविदग्धं रजतभाजनोपहितं वर्षति
देवे वहिष्कुर्व्वीत स यदि मुहूर्त्तं स्थितस्तादृश
एव भवति तदा गाङ्गं पततीत्यवगन्तव्यं वर्णा-
न्यत्वे सिक्थक्लेदे च सामुद्रमिति विद्यात्तन्नो-
पादेयम् । सामद्रमप्याश्वयुजे मासि गृहीतं
गाङ्गवद् भवतीति ॥”
अस्य परीक्षा यथा, --
“गाङ्ग-सामुद्रविज्ञानं कथयिष्यामि साम्प्रतम् ।
घारितं येन पात्रेण लक्ष्यते येन तद्विधम् ॥
धौतं शुद्धं सितं वस्त्रं चतुर्हस्तप्रमाणकम् ।
दण्डांस्त्रिहस्तांश्च चतुश्चतुष्कोणेषु बन्धयेत् ।
तस्मात् परीक्षते तोयं शुद्धे रौप्यमयेऽथवा ॥
कांस्यपात्रे समुद्धृत्य परीक्षेत भिषग्वरः ।
शुद्धकर्म्मा स तल्लब्ध्वा श्वेतशाल्योदनस्य वा ॥
पिण्डिका तत्र संक्षिप्ता नान्यथा भाति सा पुनः ।
श्वेता च निर्म्मला पिण्डी शुद्धञ्च विमलं पयः ॥
तद्गाङ्गं सर्व्वदोषघ्नं गृहीत्वा हि सुभाजने ।
तद्धारयेच्च मतिमान् बल्यं मेध्यं रसायनम् ॥
श्रमक्लमपिपासाघ्नं कण्डूदोषनिवारणम् ।
लघु मूर्च्छातृषा-च्छर्द्दि-मूत्र-स्तम्भ-विनाशनम् ॥
गाङ्गोदकस्य वृष्टिः स्याद्दिवसे वा प्रदोषतः ॥”
इति हारीते प्रथमे स्थाने सप्तमेऽध्याये ॥)
गङ्गागभजातत्वात् सुवर्णमपि । इति महा-
भारतम् ॥)