शब्दकल्पद्रुमः/क्षुरिका

विकिस्रोतः तः
पृष्ठ २/२५०

क्षुरिका, स्त्री, (क्षुर + ङीप् स्वार्थे कन् टाप् पूर्ब्ब-

ह्रस्वश्च ।) पालङ्क्यशाकम् । इति राजनिर्घण्टः ॥
(पालङ्क्यशब्देऽस्या विवृतिर्ज्ञातव्या ॥)
मृत्पात्रविशेषः । क्षुरी इति भाषा । (कृष्णयजु-
र्व्वेदान्तर्गत उपनिषद्विशेषः । यदुक्तं मुक्तिकोप-
निषदि । “अमृतनादकालाग्निरुद्रक्षुरिका सर्व्व-
सारेत्युपक्रम्य सरस्वतीरहस्यानां कृष्णयजुर्व्वेद-
गतानां द्वात्रिंशत् सङ्ख्याकानां उपनिषदां सह-
नाव वत्विति शान्तिरिति” ॥)

क्षुरिकापत्रः, पुं, (क्षुरिका इव क्षुरवदित्यर्थः पत्र-

मस्य ।) शरः । इति राजनिर्घण्टः ॥

क्षुरिणी, स्त्री, (क्षुरः अस्या अस्तीति । इनिः ङीप्

च ।) वराहक्रान्ता । इति शब्दचन्द्रिका ॥ नापित-
भार्य्या च ॥

क्षुरी, [न्] पुं, (क्षुरोऽस्यास्तीति । क्षुर + इनिः ।)

नापितः । इत्यमरः । २ । १० । १० ॥

क्षुरो, स्त्री, (क्षुद्रः क्षुरः क्षुर इव वा । क्षुर + स्वल्पार्थे

ङीप् ।) छुरिका । इति हेमचन्द्रः ॥ क्षुरीति
च पाठः ॥

क्षुल्लः, त्रि, (क्षुद् सम्पेषणे + सम्पदादित्वात् क्विप् ।

क्षुदं लाति गृह्णातीति । क्षुद् + ला + कः ।) लघुः ।
इति हेमचन्द्रः ॥ (यथा, भागतते । ३ । ५ । १० ।
“अतृप्नुमः क्षुल्लसुखावहानां
तेषामृते कृष्णकथामृऽतौघात्” ॥)

क्षुल्लकः, त्रि, (क्षुल्ल + स्वार्थे कन् ।) क्षुद्रः । इत्य-

मरः । ३ । ३ । १० ॥ स्वल्पः । नीचकः । कनिष्ठः ।
दरिद्रः । इति भरतः ॥ पामरः । दुःखितः ।
(यथा, भागवते । ४ । ३० । २९ ।
“येनोपशान्तिर्भूतानां क्षुल्लकानामपीहताम् ।
अन्तर्हितोऽस्तर्हृदये कस्मान्नो वेद नाशिषः” ॥)
खलः । इति हेमचन्द्रः ॥ शब्दरत्नावल्यां खुल्लक
इति च पाठः ॥

क्षुल्लकः, पुं, (क्षुल्ल + संज्ञायां स्वल्पार्थे वा कन् ।) क्षुद्र-

शङ्खः । इति हेमचन्द्रः राजनिर्घण्टश्च ॥ (शोधना-
दिप्रकरणेऽस्य विषयो यथा, --
“कङ्कुष्ठं गैरिकं शङ्खं कासीसं टङ्कणन्तथा ।
नीलाञ्जनं शुक्तिभेदाः क्षुल्लकाः सवराटकाः ॥
जम्बीरवारिणा स्विन्नाः क्षालिताः कोष्णवारिणा
शुद्धिमायान्त्यमी योज्या भिषग्भिर्योगसिद्धये” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

क्षुल्लतातः, पुं, (क्षुल्लः पितुः कनिष्ठः स चासौ

तातश्चेति नित्यकर्म्मधारयः ।) पितृकनिष्ठभ्राता ।
इति क्षुल्लतातकशब्ददर्शनात् ॥ शब्दरत्नावल्यां
खुल्लतात इति पाठः ॥

क्षुल्लतातकः, पुं, (क्षुल्लतात + स्वार्थे कन् ।) पितृव्यः ।

इति जटाधरः । खुडा इति भाषा ॥

क्षेत्रं, क्ली, (क्षि + ष्ट्रन् ।) भूमिः । क्षेत इति भाषा ॥

तत्पर्य्यायः । वप्रम् । २ केदारः ३ । इत्यमरः । २ ।
९ । ११ ॥ वलजम् ४ निष्कुटः ५ राजिका ६
पाटीरः ७ । इति जटाधरः ॥ * ॥ तत्समूहवाच-
कानि यथा, --
“कैदारकन्तु कैदार्य्यं क्षेत्रं कैदारकं तथा ।
वारटञ्चेति पर्य्यायः क्षेत्रबृन्दे निगद्यते” ॥
इति शब्दरत्नावली ॥ * ॥ तद्भेदा यथा, --
“व्रीहिभवोचितं क्षेत्रं व्रैहेयं तत् समीरितम् ।
शाल्यद्भवोचितं यत्तु शालेयमभिधीयते ॥
यव्यं यवोचितं क्षेत्रं यवक्यं यवकोचितम् ।
षष्टिकोद्भवनं यत्तु षष्टिक्यं तत् प्रकीर्त्तितम् ॥
तिलोद्भवोचितं यत्तु तिल्यं तैलीनमित्यपि ।
एवं माष्यन्तु माषीणं कौद्रव्यं कौद्रवीणवत् ॥
तथा भङ्ग्यञ्च भाङ्गीनमुम्यमौमीनमित्यपि ।
अथ मौद्ग्यञ्च मौद्गीनमणव्यमाणवीनवत् ॥
माषकोद्रवभङ्गोमामुद्गाणुप्रभवोचितम् ।
बीजाकृतमुप्तकृष्टमुत नीतिसमाह्वये ॥
सीत्यं कृष्टञ्च हल्यञ्च तृतीयाकृतमित्यपि ।
त्रिगुणाकृतमित्येवं त्रिवारकृष्णभूमिषु ॥
शम्वाकृतं द्विहल्यञ्च द्विसीत्यं द्विगुणाकृतम् ।
द्वितीयाकृतमप्यत्र द्विवारकृष्टभूमिषु ॥
द्रोणाढकखार्य्यादेर्व्वापादौ द्रौणिकस्तथा ।
स्यादाढकिकखारोकौ उत्तमर्णादयस्त्रिषु ।
आदिभ्यां प्रास्थिकादिश्च पाकादौ द्रौणिकोऽपि च” ॥
इति च शब्दरत्नाषली ॥
परक्षेत्रे गोचारणकथननिषेधो यथा, --
“न कुर्य्यात् सख्यवैराणि विवादं न च पैशुनम् ।
परक्षेत्रे गां चरन्तीं न चाचक्षीत कस्यचित्” ॥
इति कूर्म्मपुराणे उपविभागे १५ अध्यायः ॥ * ॥
अपि च । मनुः ।
“आत्मनो यदि वान्येषां गृहे क्षेत्रऽथवा खले ।
भक्षयन्तीं न कथयेत् पिबन्तञ्चैव वत्सकम्” ॥
इति प्रायश्चित्ततत्त्वम् ॥ * ॥ तत्रस्थजलगुणाः ।
“कैदारं मघुरं प्रोक्तं विपाके गुरु दोषलम्” ॥
इति राजवल्लभः ॥ * ॥
अथ सिद्धक्षेत्राणि ।
तत्र वाराणसीक्षेत्रं यथा, --
“आसन्नं युवयोः क्षेत्रमिदं वाराणसी तु यत् ।
कथितं नातिदूरे च वर्त्तते नरसत्तमौ” ॥ * ॥
कामरूपक्षेत्रं यथा, --
“नाचिरात् कामदं पुण्यं क्षेत्रं पीठं निगद्यते ।
चिरात्तु कामदो देवो न चिराद्यत्र ज्ञानदः ॥
तत् क्षेत्रमिति लोके यद्गद्यते पूर्ब्बसूरिभिः ।
कामरूपं भहापीठं गुह्याद्गुह्यतमं परम्” ॥
इति च कालिकापुराण ५० अध्यायः ॥ * ॥
गङ्गाक्षेत्रं यथा, स्कान्दे ।
“तीराद्गव्यूतिमात्रन्तु परितः क्षेत्रमुच्यते” ॥
नारायणक्षेत्रं यथा, --
“प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् ।
तत्र नारायणः स्वामी गङ्गागर्भान्तरे वरे ॥
तत्र नारायणक्षेत्रे कुरुक्षेत्रे हरेः पदे ।
एतेष्वन्येषु यो दानं प्रतिगृह्णाति कामतः ।
स च तीर्थप्रतिग्राही कुम्भीपाकं प्रयाति च” ॥
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥ * ॥
भास्करक्षेत्रं यथा, स्मृतिसमुच्चयलिखितवचने ।
“गङ्गायां भास्करक्षेत्रे मातापित्रोर्म्मते गुरौ ।
आधाने सोमपाने च वपनं सप्तसु स्मृतम्” ॥
भास्करक्षेत्रं प्रयागः । इति प्रायश्चित्ततत्त्वम् ॥ * ॥
गयाक्षेत्रं यथा, --
“पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः” ॥
इति वायुपुराणम् ॥ * ॥ पुरुषोत्तमक्षेत्रं यथा, --
मुनय ऊचुः ।
“पुरुषोत्तमाख्यं सुमहत् क्षेत्रं परमपावनम्” ॥
इत्यादि ।
जैमिनिरुवाच ।
“एतत् क्षेत्रवरञ्चास्य वपुर्भूतं महात्मनः ।
स्वयं वपुष्मान् यत्रास्ते स्वनाम्ना ख्यापितं हि तत्
इत्युत्कलखण्डम् ॥ * ॥ विष्णुक्षेत्राणि यथा, --
श्रीभगवानुवाच ।
“शृणुष्वावहितो ब्रह्मन् ! गुह्यनामानि मेऽधुना
क्षेत्राणि चैव गुह्यानि तव वक्ष्यामि यत्नतः ॥
कोकामुखे वराहञ्च मन्दरे मधुसूदनम् ।
अनन्तं कपिलद्वीपे प्रभासे रविनन्दनम् ॥
माल्योदये तु वैकुण्ठं महेन्द्रे तु नृपान्तकम् ।
ऋषभे तु महाविष्णुं द्वारकायान्तु भूपतिम् ॥
पाण्डिसह्ये तु देवेशं वसुकुण्डे जगत्पतिम् ।
वन्दीवने महायोगं चित्रकूटे नराधिपम् ॥
नैमिशे पीतवासञ्च गवां निष्क्रमणे हरिम् ।
शालग्रामे तपोवासमचिन्त्यं गन्धमादने ॥
कुव्जाम्रके हृषीकेशं गङ्गाद्वारे गदाधरम् ।
गरुडध्वजं तोषके च गोविन्दं नागसाह्वये ॥
बृन्दावने तु गोपालं मथुरायां स्वयम्भुवम् ।
केदारे माधवं विद्यात् वाराणस्यान्तु केशवम् ॥
पुष्करे पुष्कराक्षन्तु दृषद्वत्यां जयध्वजम् ।
तृणबिन्दुवने वीरमशोकं सिन्धुसागरे ॥
केशे वटे महाबाहुममृतं तेजसो वने ।
विशाखसूर्य्ये विश्वेशं नारसिंहं वने वने ॥
लोहाकुले रिपुहरं देवशाले त्रिविक्रमम् ।
पुरुषोत्तमं दशपुरे कुब्जके वामनं विदुः ॥
विद्याधरं तिस्तायां वारणे धरणीधरम् ।
देवदारुवने गुह्यं कावेर्य्यां नागशायिनम् ॥
प्रयागे योगमूर्त्तिञ्च पयोष्ण्यां सुन्दरं विदुः ।
कुमारतीर्थे कौमारं लौहित्ये हयशीरषम् ।
उज्जयन्यां त्रिविक्रमं लिङ्गस्फोटे चतुर्भुजम् ।
हरिहरं तुङ्गभद्रायां दृष्ट्वा पापात् प्रमुच्यते ॥
विश्वरूपं कुरुक्षेत्रे मणिकुण्डे हलायुधम् ।
लोकतीरमयोध्यायां कुण्डिने रुक्मिणीपतिम् ॥
भञ्जीरे वासुदेवञ्च चक्रतीर्थे सुदर्शनम् ।
आद्यं विष्णुपदे विद्यात् शूकरे शूकरं विदुः ॥
कुशेशं मानसे तीर्थे दण्डके श्यामलं विदुः ।
त्रिकूटे नागमोक्षञ्च मेरुपृष्ठे च भास्करम् ॥
विरजं पुष्पमत्यायां बालञ्चामीकरे विदुः ।
यशस्करं विपाशायां माहिष्मत्यां हुताशनम् ॥
क्षीराब्धौ पद्मनाभञ्च विमले तु सनातनम् ।
शिवनद्यां शिवकरं गयायाञ्च गदाधरम् ॥
सर्व्वत्र परमात्मानं यः पश्यति स मुच्यते ॥
अष्टषष्टिस्तु नामानि कीर्त्तितानि मया तव ।
क्षेत्राणि चैव गुह्यानि कथितानि विशेषतः ॥
द्रष्टव्यानि यथाशक्त्या क्षेत्राण्येतानि मानवैः ।
वैष्णवैस्तु विशेषेण तेषां मुक्तिं ददाम्यहम्” ॥
इति नारसिंहे ६२ अध्यांयः ॥ * ॥ मेषादि-
द्वादशराशिः । यथा, --
“राशिनामानि च क्षेत्रं भमृक्षं गृहनाम च ।
मेषादीनाञ्च पर्य्यायं लोकादेव विचिन्तयेत्” ॥ * ॥
ग्रहाणां क्षेत्राणि यथा, --
“कुजशुक्रबुधेन्द्वर्कसौम्यशुक्रावनीभुवाम् ।
पृष्ठ २/२५१
जीवार्किभानुजेज्यानां क्षेत्राणि स्युरजादयः” ॥
इति ज्योतिस्तत्त्वम् ॥ * ॥ अपि च ।
“मेषमङ्गारकक्षत्रं वृषं शुक्रस्य कीर्त्तितम् ।
मिथुनस्य बुधो ज्ञेयः सोमः कर्क्कटकस्य तु ॥
सूर्य्यक्षेत्रं भवेत् सिंहः कन्या क्षत्रं बुधस्य च ।
धनुः सुरगुरोश्चैव शनेर्मकरकुम्भकौ ॥
मीनः सुरगुरोश्चैव ग्रहक्षेत्रं प्रकीर्त्तितम्” ॥
इति गारुडे ६० अध्यायः ॥ * ॥ शरीरम् ।
(यथा, भगवद्गीतायाम् । १३ । १ ।
“इदं शरीरं कौन्तेय ! क्षेत्रमित्यभिधीयते” ॥
कुतः शरीरस्य क्षेत्रत्वमित्यत्र शाङ्करभाष्यम् ।
यथा, -- “इदमिति सर्व्वनाम्नोक्तं विशिनष्ठि शरीर-
मिति । हे कौन्तेय ! क्षतत्राणात् क्षयात् क्षर-
णात् क्षेत्रवद्वास्मिन् कर्म्मफलनिर्वृतेः क्षेत्र-
मितीतिशब्दः एवं शब्दपदार्थकः क्षेत्रमित्येव-
मभिधीयते कथ्यते” ॥ इच्छा । द्वेषः । सुखम् ।
दुःखम् । चेतना । धृतिः । यथा, भगवद्गीतायाम् ।
१३ । ६ ।
“इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
एतत् क्षेत्रं समासेन सविकारमुदाहृतम्” ॥
इत्यत्र शाङ्करभाष्यं यथा, -- “अथेदानीं आत्मगुणा
इति यानाचक्षते वैशेषिकास्तेऽपि क्षेत्रधर्म्मा एव
न तु क्षेत्रज्ञस्येत्याह भगवान् इच्छा द्वेष इति ।
इच्छा यज्जातीयं सुखहेतुमर्थमुपलब्धवान् पूब्ब
पुनस्तज्जातीयमुपलभ्यमानस्तमादातुमिच्छति सु-
खहेतुरिति सेयमिच्छान्तःकरणधर्म्मो ज्ञेयत्वात्
क्षेत्रं तथा द्वेषो यज्जातीयमर्थं दुःखहेतुत्वे-
नानुभूतवान्ं पूर्ब्बं पुनस्तज्जातीयमुपलभ्यमानस्तं
द्वेष्टि सोऽयं द्वेषो ज्ञेयत्वात् क्षेत्रमेव तथा सुख-
मनुकूलं प्रसन्नं सत्त्वात्मकं ज्ञेयत्वात् क्षेत्रमेव दुःखं
प्रतिकूलात्मकं ज्ञेयत्वात् तदपि क्षेत्रं संघातो
देहेन्द्रियाणां संहतिस्तस्यामभिव्यक्तान्तःकरण-
वृतिः तप्त इव लौहपिण्डेऽग्निरात्मचैतन्याभास-
रसविद्धा चेतना सा च क्षेत्रं ज्ञेयत्वात् धृति-
र्ययावसादं प्राप्तानि देहेन्द्रियाणि ध्रियन्ते सा च
ज्ञेयत्वात् क्षेत्रं सर्व्वान्तःकरणधर्म्मोपलक्षणार्थ-
मिच्छादिग्रहणं यत उक्तं तदुपसंहरति एतत्
क्षेत्रं समासेन सविकारं सह विकारेण महदा-
दिनोदाहृतमुक्तं यस्य क्षेत्रभेदजातस्य संहतिरिदं
शरीरं क्षेत्रं इत्युक्तं तत् क्षेत्रं व्याख्यातं महाभूतादि-
भेदादभिन्नं धृत्यन्तम्” ॥ इत्यत्र श्रीधरस्वामिनापि
यदुक्तं तदुच्यते । “एते चेच्छादयो दृश्यत्वान्नात्म-
धर्म्मा अपि तु मनोधर्म्मा अतः क्षेत्रान्तःपातिन
एवोपलक्षणञ्चैतत् सङ्कल्पादीनाम् । तथा च
श्रुतिः । कामः सङ्कल्पो विचिकित्सा श्रद्धा
अश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत् सर्व्वं मन
एवेति” ॥ * ॥ सप्तद्वीपा पृथिवी । यथा, भाग-
वते ९ । ६ । ३७ ।
“यावत् सूर्य्य उदेति स्म यावच्च प्रतितिष्ठति ।
सर्व्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रसुच्यते” ॥)
सिद्धस्थानम् । (यथा, कथासरित्सागरे । ३ । ७८ ।
“पाटलिपुत्त्रं क्षेत्रं लक्ष्मीस्वरस्वत्यौ” ।) कलत्रम् ।
इति मेदिनी ॥ (यथा मनुः । ९ । ३३ ।
“क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् ।
क्षेत्रबीजसमायोगात् सम्भवः सर्व्वदेहिनाम्” ॥)
गृहम् । नगरम् । इति वैजयन्तीकोषः ॥ * ॥
अथ क्षेत्रव्यवहारो लिख्यते ।
तत्र भुजकोटिकर्णानामन्यतमे ज्ञातेऽन्यतमयो-
र्ज्ञानाय करणसूत्रं वृत्तद्वयम् ।
इष्टाद्वाहोर्यः स्यात्तत्स्पर्द्धिन्यां दिशीतरो बाहुः ।
त्र्यस्रे चतुरस्रे वा सा कोटिः कीर्त्तिता तज्ज्ञैः ॥
तत्कृत्योर्योगपदं कर्णो दोःकर्णवर्गयोर्व्विवरात् ।
मूलं कोटिः कोटिश्रुतिकृत्योरन्तरात् पदं बाहुः ॥
उदाहरणम् ।
कोटिश्चतुष्टयं यत्र दोस्त्रयं तत्र का श्रुतिः ।
कोटिं दोःकर्णतः कोटिश्रुतिभ्याञ्च भुजं वद ॥
कोटिः ४ । भुजः ३ । भुज-
वर्गः ९ । कोटिवर्गः १६ ।
एतयोर्योगात् २५ । मूलं
५ कर्णो जातः ॥
अथ कर्णभुजाभ्यां कोट्यानयनम् ।
कर्णः ५ । भुजः ३ । अन-
योर्वर्गान्तरम् १६ । एत-
न्मूलं कोटिः ४ ॥
अथ कोटिकर्णाभ्यां भुजानयनम् ।
कोटिः ४ । कर्णः ५ । अ-
नयोर्वर्गान्तरम् ९ । एत-
न्मूलं भुजः ३ ॥
प्रकारान्तरेण तज्ज्ञानाय करणसूत्रं
सार्द्धवृत्तम् ।
राश्योरन्तरवर्गेण द्विघ्रे घाते युते तयोः ।
वर्गयोगो भवेदेवं तयोर्योगान्तराहतिः ।
वर्गान्तरं भवेदेवं ज्ञेयं सर्व्वत्र धीमता ॥
कोटिश्चतुष्टयमिति पूर्ब्बोक्तोदाहरणे ।
कोटिः ४ । भुजः । ३
अनयोर्घाते १२ । द्वि-
घ्ने २४ । अन्तरवर्गेण
१ । युते वर्गयोगः २५ ।
अस्य मूलं कर्णः ५ ॥
अथ कर्णभुजाभ्यां कोट्यानयनम् ।
कर्णः ५ । भुजः ३ । अनयो-
र्योगः ८ । पुनरेतयोरन्त
रेणा-(२) हतो वा १६ ।
वर्गान्तरमस्य मूलं कोटिः ४ ॥
अथ भुजज्ञानम् ।
कोटिः ४ । कर्णः ५ । एवं
जातो भुजः ३ ॥
उदाहरणम् ।
साङ्घ्रित्रयमितो बाहुर्यत्र कोटिश्च तादृशी ।
तत्र कर्णप्रमाणं किं गणक ! ब्रूहि मे द्रुतम् ॥
भुजः (१३४) । कोटिः (१४) । अ-
नयोर्वर्गयोर्योमः (१६९८) । अस्य
मूलाभावात् करणीगत ए-
वायं कर्णः ॥ अस्यासन्नमूल-
ज्ञानार्थमुपायः ।
वर्गेण महतेष्टेन हताच्छेदांशयोर्वधात् ।
पदं गुणपदक्षुण्णच्छिद्भक्तं निकटं भवेत् ॥
इयं कर्णकरणी (१६९८) । अस्याः छेदांशघातः १३५२ ।
अयुतघ्नः १३,५२०,००० । अस्यासन्नमूलं ३६७७ ।
इदं गुणमूलं १०० । गुणितच्छेदेन ८०० । भक्तं
लब्धमासन्नपदम् ४ । भागाः (४७७८००) । अयं कर्णः ।
एवं सर्व्वत्र ॥
त्र्यस्रजात्ये करणसूत्रं वृत्तद्वयम् ।
इष्टो भुजोऽस्माद्द्विगुणेष्ट{??}घ्ना-
दिष्टस्य कृत्यैकवियुक्तयाप्तम् ।
कोटिः पृथक् सेष्टगुणा भुजोना
कर्णो भवेत्त्य्रस्रमिदन्तु जात्यम् ॥
इष्टो भुजस्तत्कृतिरिष्टभक्ता
द्विःस्थापितेष्टोनयुतार्द्धिता वा ।
तौ कोटिकर्णाविति कोटितो वा
बाहुश्रुती वाकरणीगते स्तः ॥
उदाहरणम् ।
भुजे द्वादशके यौ या कोटिकर्णावनेकधा ।
प्रकाराभ्यां वद क्षिप्र तौ तावकरणीगतौ ॥
इष्टो भुजः १२ । इष्टं
२ । अनेन द्विगुणेन ४ ।
गुणितो भुजः ४८ । इष्टः
२ । कृत्या ४ । एको-
नया ३ । भक्तो लब्धा
कोटिः १६ । इयमिष्ट-
गुणा ३२ । मुजोना १२ । जातः कर्णः २० ॥
त्रिकेणेष्टेन वा ।
पृष्ठ २/२५२
कोटिः ९ ।
कर्णः १५ ।
पञ्चकेन वा ।
कोटिः ५ ।
कर्णः १३ ।
इत्यादि ॥
अथ द्वितीयप्रकारेण ।
इष्टो भुजः १२ । अस्य
कृतिः १४४ । इष्टेन २ ।
भक्तालब्धं ७२ । इष्टेन
२ । ऊन ७० । युता
७४ । वर्द्धितौ जातौ
कोटिकर्णौ ३५ । ३७ ।
चतुष्टयेन वा ।
कोटिः १६ ।
कर्णः २० ।
षट्केन वा ।
कोटिः ९ ।
कर्णः १५ ।
अथेष्टकर्णात् कोटिभुजानयने
करणसूत्रं वृत्तम् ।
इष्टेन निघ्नात् द्विगुणाच्च कर्णा-
दिष्टस्य कृत्यैकयुजा यदाप्तः ।
कोटिर्भवेत् सा पृथगिष्टनिघ्नी
तत्कर्णयोरन्तरमत्र बाहुः ॥
उदाहरणम् ।
पञ्चाशीतिमिते कर्णे या यावकरणीगतौ ।
स्यातां कोटिमुजौ तौ तौ वद कोविद ! सत्वरम् ॥
कर्णः ८५ । अयं द्वि-
गुणः १७० । द्विकेने-
ष्टेन हतः ३४० । इष्ट
२ । कृत्या ४ । सैकया
५ । भक्ते जाता कोटिः
६८ । इयमिष्टगुणा
१३६ । कर्णो ८५ ।
निता जातो भुजः ८५ ।
चतुष्केणेष्टेन वा ।
कोटिः ४० ।
भुजः ७५ ।
पुनः प्रकारान्तरेण तत्करणसूत्रं वृत्तम् ।
इष्टवर्गेण सैकेन द्विघ्नः कर्णोऽथवा हतः ।
फलोनः श्रवणः कोटिः फलमिष्टगुणं भुजः ॥
पूर्ब्बोदाहरणे ।
कर्णः ८५ । अत्र
द्विकेन इष्टेन
जातौ कोटि-
भुजौ ५१ । ६८ ।
चतुष्केण वा ।
कोटिः ७५ ।
भुजः ४० । अत्र
दोःकोट्योर्नाम-
भेद एव केवलं न
स्वरूपभेदः ॥
अथेष्टाभ्यां भुजकोटिकर्णानयने
करणसूत्रं वृत्तम् ।
इष्टयोराहतिर्द्विघ्नी कोटिर्वर्गान्तरं भुजः ।
कृतियोगस्तयोरेवं कर्णश्चाकरणीगतः ॥
उदाहरणम् ।
यैर्यैस्त्र्यस्रं भवेत् जात्यं कोटिदोःश्रवणैः सखे ! ।
त्रीनप्यविदितानेतान् क्षिप्रं ब्रूहि विचक्षण ! ॥
अत्रेष्टे २ । १ । आभ्यां
कोटिभुजकर्णाः ४ । ३
। ५ ।
अथवेष्टे २ । ३ । आ-
भ्यां कोटिभुजकर्णाः
१२ । ५ । १३ ।
अथवा २ । ४ । आभ्यां को-
टिभुजकर्णाः १६ । १२ ।
२० । एवमन्यत्रानेकधा ।
कर्णकोटियुतौ भुजे च ज्ञाते पृथक्-
करणसूत्रं वृत्तम् ।
वंशाग्रमूलान्तरभूमिवर्गो-
वंशोर्द्ध्वतस्तेन पृथक्युतोनौ ।
वंशौ तदर्द्धे भवतः क्रमेण
वंशस्य खण्डे श्रुतिकोटिरूपे ॥
उदाहरणम् ।
यदि समभुवि वेणुर्द्वित्रिपाणिप्रमाणो
गणक ! पवनवेगादेकदेशे सभग्नः ।
भुवि नृपमितहस्तेष्वङ्गलग्नं तदग्रं
कथय कतिषु मूलादेष भग्नः करेषु ॥
वंशाग्रमूलान्तरभूमिः १६ ।
वंशः ३२ । कोटिकर्णयुतिः
३२ । भुजः १६ । जाते
उर्द्ध्वाधःखण्डे २० । १२ ।
बाहुकर्णयोगे दृष्टे कोट्याञ्च ज्ञातायां पृथक्-
करणसूत्रं वृत्तम् ।
स्तम्भस्य वर्गोऽहिविलान्तरेण
भक्तः फलं व्यालविलान्तरालात् ।
शोध्यं तदद्धप्रमितैः करैः स्यात्
विलाग्रतो व्यालकलापियोगः ॥
उदाहरणम् ।
अस्ति स्तम्भतले विलं तदुपरि क्रीडाशिखण्डी
स्थितः स्तम्भे हस्तनवोच्छ्रिते त्रिगुणिते स्तम्भप्रमा-
णान्तरे । दृष्ट्वाहिं विलमाव्रजन्तमपतत् तिर्य्यक्
स तस्योपरि क्षिप्रं ब्रूहि तयोर्विलात् कतिमितौ
साम्येन गत्योर्युतिः ॥
पृष्ठ २/२५३
स्तम्भः ९ अहिविलान्तरम् २७ । जाता विल-
युत्योर्मध्यहस्ताः १२ ॥
कोटिकर्णान्तरे भुजे च दृष्टे पृथक्करण-
सूत्रं वृत्तम् ।
भुजाद्वर्गितात् कोटिकर्णान्तराप्तं
द्विधा कोटिकर्णान्तरेणोनयुक्तम् ।
तदर्द्धे क्रमात् कोटिकर्णौ भवेता-
मिदं धीमता वेद्य सर्व्वत्र योज्यम् ॥
सखे ! पद्म तन्मज्जनस्थानमध्यं
भुजः कोटिकर्णान्तरं पद्मदृश्यम् ।
नलः कोटिरेतन्मितं स्याद्यदम्भो
वदैवं समानीय पानीयमानम् ॥
उदाहरणम् ।
चक्रक्रौञ्चाकुलितसलिले क्वापि दृष्टं तडागे
तोयादूर्द्ध्वं कमलकलिकाग्रं वितस्तिप्रमाणम् ।
मन्दं मन्दं चलितमनिलेनाहतं हस्तयुग्मे
तस्मिन्मग्नं गणक ! कथय क्षिप्रमम्भःप्रमाणम् ॥
कोटिकर्णान्तरं (१२) । भुजः
२ । लब्धं जलगाम्भीर्य्यं (१५४) ।
इयं कोटिः (१५४) । इयमेव
कोटिः कलिकामानयुता
जातः कर्णः (१७४) ॥
कोट्येकदेशेन युते कर्णे भुजे च दृष्टे कोटिकर्ण-
ज्ञानाय करणसूत्रं वृत्तम् ।
द्विनिघ्नतालोच्छ्रितिसंयुतं यत्
सरोऽन्तरं तेन विभाजितायाः ।
तालोच्छ्रितेस्तालसरोऽन्तरघ्न्या
उड्डीयमानं खलु लभ्यते तत् ॥
उदाहरणम् ।
बृक्षाद्धस्तशतोच्छ्रयाच्छतयुगे वापीं कपिः कोऽप्यगा-
दुत्तीर्य्याथ परो द्रुतं श्रुतिपथेनोड्डीय किञ्चिद्द्रुमात् ।
जातैवं समता तयोर्यदि गतावुड्डीयमानं किय-
द्विद्वन् ! चेत्सुपरिश्रमोऽस्ति गणिते क्षिप्रं तदाचक्ष्व मे ।
वृक्षवाप्यन्तरं २०० ।
वृक्षोच्छ्रायः १००
लब्धमुड्डीयमानं ५० ।
कोटिः १५० । कर्णः
२५० । भुजः २०० ॥
भुजकोट्योर्योगे कर्णे च ज्ञाते पृथक्
करणसूत्रं वृत्तम् ।
कर्णस्य वर्गाद्विगुणाद्विशोध्यो
दोःकोटियोगः स्वगुणोऽस्य मूलम् ।
योगो द्विधा मूलविहीनयुक्तः
स्यातां तदर्द्धे भुजकोटिमाने ॥
उदाहरणम् ।
दशसप्ताधिकः कर्णस्त्त्यधिका विंशतिः सखे !
भुजकोटियुतिर्यत्र तत्र ते मे पृथग्वद ॥
कर्णः १७ । दोः
कोटियोगः २३ ।
जाते भुजकोटी
८ । १५ ।
उदाहरणम् ।
दोःकोट्योरन्तरं शैलाः कर्णो यत्र त्रयोदश ।
भुजकोटी पृथक् तत्र वदाशु गणकोत्तम ! ॥
कर्णः १३ । भुजकोट्य-
न्तरम् ७ । लब्धे भुज-
कोटी ५ । १२ ॥
लम्बाववाधाज्ञानाय करणसूत्रं वृत्तम् ।
अन्योन्यमूलाग्रगसूत्रयोगात्
वेण्वोर्वधे योगहृते च लम्बः ।
वंशौ स्वयोगेन हृतावभीष्ट-
भूघ्नौ च लम्बोभयतः कुखण्डे ॥
उदाहरणम् ।
पञ्चदशदशकरोच्छ्रायवेण्वोरज्ञातमध्यभूमिकयोः ।
इतरेतरमूलाग्रगसूत्रयुतेर्लम्बमानमाचक्ष्व ॥
वंशौ १५ । १० ।
जातो लम्बः ६ ।
वंशान्तरभूः ५ ।
अत्र जाते भू-
खण्डे ३ । २ ।
अथवा भूः १० ।
१५ १०
खण्डे ६ । ४ । वा
भूः १५ । खण्डे
९ । ६ । वा भूः २० ।
खण्डे १२ । ८ । एवं
सर्व्वत्र लम्बः । स एव यद्यत्र भूमितुल्ये भुजे वंशः
कोटिस्तदा भूखण्डेन किमिति त्रैराशिकेन सर्व्वत्र
प्रतीतिः
अथ अक्षेत्रलक्षणे सूत्रम् ।
धृष्टोद्दिष्टमृजुभुजं क्षेत्रं यत्रैकबाहुतः स्वल्पा ।
तदितरभुजयुतिरथवा तुल्या ज्ञेयं तदक्षेत्रम् ॥
उदाहरणम् ।
चतुरस्रे त्रिषड्द्व्यर्का भुजास्त्र्यस्रे त्रिषण्णवाः ।
उद्दिष्टा यत्र धृष्टेन तदक्षेत्रं विनिर्दिशेत् ॥
एते अनुपपन्ने क्षेत्रे ।
भुजप्रमाणा ऋजुशलाकाः भुजस्थानेषु विन्य-
स्यानुपपत्तिर्द्दर्शनीया ॥
आबाधादिज्ञानाय करणसूत्रमार्य्याद्वयम् ।
त्रिभुजे भुजयोर्योगस्तदन्तरगुणो भुवा हतो लब्ध्या ।
द्विःस्था भूरूनयुता दलिताबाधे तयोः स्याताम् ॥
स्वाबाधा भुजकृत्योरन्तरमूलं प्रजायते लम्बः ।
लम्बगुणं भूम्यर्द्धं स्पष्टं त्रिभुजे फलं भवति ॥
उदाहरणम् ।
क्षेत्रे महीमनुमिता त्रिभुजे भुजौ तु यत्र
त्रयोदशतिथिप्रमितौ च यस्य ।
तत्रावलम्बकमथो कथयावबाधे
क्षिप्रं तथा च समकोष्ठमितिं फलाख्याम् ॥
भूः १४ । भुजौ १३ ।
१५ । लब्धे आबाधे ५ ।
९ । लम्बश्च १२ । क्षेत्र-
फलञ्च ८४ ॥
ऋणाबाधोदाहरणम् ।
दशसप्तदशप्रमौ भुजौ
त्रिभुजे यत्र नवप्रमा मही ।
अवधे वद लम्बकं तथा
गणितं गाणितिकाशु तत्र मे ॥
भुजौ १० ।
१७ । भूमिः
९ । अत्रत्रि-
मुजेभुजयो-
र्योग इत्या-
पृष्ठ २/२५४
दिना लब्धम् २१ । अनेन भूरूना न स्यात् । अस्मा-
देव भूरपनीता । शेषार्द्धमृणगता बाधा दिग्वै-
परीत्येनेत्यर्थः । तथा जाते आबाधे ६ । १५ । अत
उभयत्रापि जातो लम्बः ८ । फलम् ३६ ॥
चतुर्भुजत्रिभुजयोरस्पष्टस्पष्टफलानयने
करणसूत्रं वृत्तम् ।
सर्व्वदोर्युतिदलं चतुःस्थितं
बाहुभिर्विरहितञ्च तद्वधात् ।
मूलमस्फुटफलं चतुर्भुजे
स्पष्टमेव मुदितं त्रिबाहुके ॥
उदाहरणम् ।
भूमिश्चतुर्दशमिता मुखमङ्कसङ्ख्यं
बाहू त्रयोदशदिवाकरसम्मितौ च ।
लम्बोऽपि यत्र रविसंज्ञक एव तत्र
क्षेत्रे फलं कथय तत् कथितं यदाद्यैः ॥
भूमिः १४ । मु-
खम् ९ । बाहू १३ ।
१२ । लम्बः १२ ।
१३ १२
उक्तवत् करणेन
जातं क्षेत्रफलं
करणी २९८० ।
अस्याः पदं किञ्चिन्नूनमेकचत्वारिंशच्छतम् १४१ ।
इदमत्र क्षेत्रे न वास्तवं फलं किन्तु लम्बेन निघ्नं
कुमुखैक्यखण्डमिति वक्ष्यमाणकरणेन वास्तवं फलं
१३८ ।
अत्र त्रिभुजस्य पूर्ब्बोदाहृतस्य ।
भूमिः १४ । भुजौ
१३ । १५ । अनेनापि
प्रकारेण त्रिबाहुके
तदेव वास्तवं फलं
८४ । अत्र चतु-
र्भुजस्यास्पष्टमुदि-
तम् ॥
अथ स्थूलत्वनिरूपणार्थं सूत्रं सार्द्धवृत्तम् ।
चतुर्भुजस्यानियतौ हि कर्णौ
कथं ततोऽस्मिन्नियतं फलं स्यात् ।
प्रसाधितौ तच्छ्रवणौ यदाद्यैः
स्वकल्पितौ तावितरत्र न स्तः ॥
तेष्वेव बाहुष्वपरौ च कर्णा-
वनेकधा क्षेत्रफलं ततश्च ॥
चतुर्भुजे हि एकान्तरकोणावाक्रम्यान्तः प्रवे-
श्यमानौ तत्संसक्तं स्वकर्णं सङ्कोचयतः । इतरौ
तु वहिः प्रसरन्तौ स्वकर्णं वर्द्धयतः अत उक्तं
तेष्वेव बाहुष्वपरौ च कर्णाविति ।
लम्बयोः कर्णयोर्व्वैकमनिर्द्दिश्यापरः कथम् ।
पृच्छत्यनियतत्वेऽपि नियतञ्चापि तत्फलम् ॥
स पृच्छकः पिशाचो वा वक्ता वा नितरां ततः ।
यो न वेत्ति चतुर्ब्बाहुक्षेत्रस्यानियतां स्थितिम् ॥
समचतुर्भुजायतयोः फलानयने करणसूत्रं
सार्द्धश्लोकद्वयम् ।
इष्टा श्रुतिस्तुल्यचतुर्भुजस्य
कल्प्या च तद्वर्गविवर्जिता या ।
चतुर्गुणा बाहुकृतिस्तदीयं
मूलं द्वितीयश्रवणप्रमाणम् ॥
अतुल्यकर्णाभिहतिर्द्विभक्ता
फलं स्फुटं तुल्यचतुर्भुजे स्यात् ।
समश्रुतौ तुल्यचतुर्भुजे च
तथायते तद्भुजकोटिघातः ॥
चतुर्भुजेऽन्यत्र समानलम्बे
लम्बेन निघ्नं कुमुखैक्यखण्डम् ॥
अत्रोद्देशकः ।
क्षेत्रस्य पञ्चकृतितुल्यचतुर्भुजस्य
कर्णौ ततश्च गणितं गणक ! प्रचक्ष्व ।
तुल्यश्रुतेश्च खलु तस्य तथायतस्य
यद्विस्तृती रसमिताष्टमितञ्च दैर्घ्यम् ॥
प्रथमोदाहरणे ।
भुजाः २५ । २५ । २५ । २५ । अत्र त्रिंश
न्मितामेकां ३० श्रुतिं प्रकल्प्य यथोक्तकरणेन
जातान्या श्रुतिः ४० फलञ्च ६०० ॥
चतुर्द्दशमितामे-
कां १४ । श्रुतिं
प्र ल्प्योक्तवत्
करणेन जाता
अन्या श्रुतिः
८४ । फलञ्च
३३६ ॥
तत्कृत्योर्योगपदं कण इति जाता करणीगता
श्रुतिरुभयत्र तुल्यैव १, २५० । गणितञ्च ६२५ ।
अथायतस्य ।
विस्तृतिः ६ । दैर्घ्यम् ८ । अस्य गणितम् ४८ ।
उदाहरणम् ।
क्षेत्रस्य यस्य वदनं मदनारितुल्यं
विश्वम्भरा द्विगुणितेन मुखेन तुल्या ।
बाहू त्रयोदशनखप्रमितौ च लम्बः
सूर्य्योन्मितश्च गणितं वद तत्र किं स्यात् ॥
ददनम् ११ । विश्वम्भरा २२ । बाहू १३ । २०
लम्बः १२ ।
अत्र सर्व्वदोर्युतिदलमित्यादिना स्थूलफलं
२५० । वास्तवन्तु लम्बेन निघ्नं कुमुखैक्यखण्डमिति
जातं फलम् १९८ । क्षेत्रस्य खण्डत्रयं कृत्वा फलानि
पृथगानीय ऐक्यं कृत्वास्य फलोपपत्तिर्दर्शनीया
खण्डत्रयदर्शनम् ।
प्रथमस्य भुजकोटिकर्णाः ५ । १२ । १३ ।
द्वितीयस्यायतस्य विस्तृतिः ६ । दैर्घ्यम् १२ । तृती-
यस्य भुजकोटिकर्णाः १६ । १२ । २० ।
अत्र त्रिभुजयोः क्षेत्रयोर्भुजकोटिघातार्द्धं फलं
आयते चतुरस्रे क्षे त्रे तद्भुजकोटिघातः फलं यथा ।
प्रथमक्षेत्रे फलम् ३० । द्वितीये ७२ । तृतीये ९६ ।
एषामैक्यं सर्व्वक्षे त्रफलम् १९८ ।
पृष्ठ २/२५५
अथान्यदुदाहरणम् ।
पञ्चाशदेकसहिता वदनं यदीयं
भूः पञ्चसप्ततिमिता प्रमितोऽष्टषष्ट्या ।
सव्यो भुजो द्विगुणविंशतिसन्मितोऽन्य-
स्तस्मिन् फलं श्रवणलम्बमिती प्रचक्ष्व ॥
वदनम् ५१ ।
भूमिः ७५ ।
भुजौ ६८ ।
४० ।
अत्र फलावलम्बश्रुतीनां सूत्रं वृत्तार्द्धम् ।
ज्ञातेऽवलम्बे श्रवणः श्रुतौ तु
लम्बः फलं स्यान्नियतन्तु तत्र ।
कर्णस्यानियतत्वात् लम्बोऽप्यनियत इत्यर्थः ॥
लम्बज्ञानाय करणसूत्रं वृत्तार्द्धम् ।
चतुर्भुजान्तस्त्रिभुजेऽवलम्बः
प्राग्वत् भुजौ कर्णभुजौ मही भूः ॥
अत्र लम्बज्ञानार्थं सव्यभुजाग्राद्दक्षिणभुजमूल-
गामी इष्टः कर्णः सप्तसप्ततिमितः ७७ कल्पित-
स्तेन चतुर्भुजान्तस्त्रिभुजं कल्पितं तत्रासौ कर्ण
एको भुजः ७७ । द्वितीयस्तु सव्यभुजः ६८ । भूः
सैव ७५ । अत्र प्राग्वल्लब्धो लम्बः (३०८५) ।
लम्बे ज्ञाते कर्णज्ञानार्थं सूत्रं वृत्तम् ।
यल्लम्बलम्बाश्रितबाहुवर्ग-
विश्लेषमूलं कथिताबधा सा ।
तदूनभूवर्गसमन्वितस्य
यल्लम्बवर्गस्य पदं स कर्णः ॥
अत्र सव्यभुजाग्राल्लम्बः किल कल्पितः (३०८५) ।
अतो जाताबाधा (१४४५) । तदूनभूवर्गसमन्वितेत्या-
दिना जातः कर्णः ७७ ॥
द्वितीयकरणज्ञानार्थं सूत्रं वृत्तद्वयम् ।
इष्टोऽत्र कर्णः प्रथमं प्रकल्प्य
स्त्र्यस्रे तु कर्णोभयतः स्थिते ये ।
कर्णं तयोः क्ष्मामितरौ च बाहू
प्रकल्प्य लम्बाववधे च साध्ये ॥
आबाधयोरेकककुप्स्थयोर्यत्
स्यादन्तरं तत् कृतिसंयुतस्य ।
लम्बैक्यवर्गस्य पदं द्वितीयः
कर्णो भवेत् सर्व्वचतुर्भुजेषु ॥
तत्र चतुर्भुजे सव्यभुजाग्रात् दक्षिणभुजमूल-
गामिनः कर्णस्य मानं कल्पितम् ७७ । तत्कर्ण-
रेखावच्छिन्नस्य क्षेत्रस्य मध्ये कर्णरेखोभयतो ये
त्र्यस्रे उत्पन्ने तयोः कर्णः भूमी तदितरौ च भुजौ
प्रकल्प्य प्राग्वल्लम्बः आबाधा च साधिता तद्द-
र्शनं लम्बः ६० । द्वितीयलम्बः २४ । आबाधयो
४५ । ३२ । रेकककुप्स्थयोरन्तरस्य १३ । कृते
१६९ लम्बैक्य ८४ । कृतेश्च ७०५६ । योगः ७२२५ ।
तस्य पदं द्वितीयकर्णप्रमाणम् ७५ ।
अत्रेष्टकर्णकल्पने विशेषोक्तिसूत्रं सार्द्धवृत्तम् ।
कर्णाश्रितं स्वल्पभुजैक्यमुर्व्वीं
प्रकल्प्य तच्छेषमितौ च बाहू ।
साध्योऽवलम्बोऽथ तथान्यकर्णः
सोर्व्याः कथञ्चिच्छ्रवणो न दीर्घः ॥
तदन्यलम्बान्न लघुस्तथेदं
ज्ञात्वेष्टकर्णः सुधिया प्रकल्प्यः ॥
चतुर्भुजं हि एकान्तरकोणावाक्रम्य सङ्कोच्य-
मानं त्रिभुजत्वं याति तत्रैककोणे लग्नलघुभुजयो-
रैक्यं भूमिरितरौ भुजौ प्रकल्प्य साधितं स च
लम्बादूनः सङ्कोच्यमानः कर्णः कथञ्चिदपि न
म्यात् तदितरौ भुजौ भूमेरधिकौ न स्यातामेव-
मुभयथापि एतदनुक्तमपि बुद्धिमता ज्ञायते ॥
विषमचतुर्भुजफलानयनाय करणसूत्रं
वृत्तार्द्धम् ।
त्र्यस्रे तु कर्णोभयतः स्थिते ये
तयोः फलैक्यं फलमत्र नूनम् ॥
अनन्तरोक्तक्षेत्रान्तस्त्र्यस्रयोः फले । ९२४ । २३१० ।
अनयोरैक्यम् ३२३४ । तस्य फलम् ॥
समानलम्बस्यावधादिज्ञानाय करणसूत्रं
वृत्तद्वयम् ।
सभानलम्बस्य चतुर्भुजस्य
मुखोनभूमिं परिकल्प्य भूमिम् ।
भुजौ भुजौ त्र्यस्रवदेव साध्ये
तस्यावधे लम्बमितिस्ततश्च ॥
अबाधयोना चतुरस्रभूमि-
स्तल्लम्बवर्गैक्यपदं श्रुतिः स्यात् ।
समानलम्बे लघुदोः कुयोगा-
न्मुखान्यदोःसंयुतिरल्पिका स्यात् ॥
उदाहरणम् ।
द्विपञ्चाशन्मितव्येकचत्वारिंशन्मितो भुजौ ।
मुखन्तु पञ्चविंशत्या तुल्यं षष्ट्या मही किल ॥
अतुल्यलम्बकं क्षेत्रमिदं पूर्ब्बैरुदाहृतम् ।
षट्पञ्चाशत् त्रिषष्टिश्च नियते कर्णयोर्मिती ॥
कर्णौ तत्रापरौ ब्रूहि समलम्बञ्च तच्छ्रुती ॥
अत्र बृहत्
कर्णं त्रिषष्टि-
मितं प्रकल्प्या-
त्रं ज्ञातः प्रा-
ग्वदन्यः कर्णः
५६ ॥
अथ षट्पञ्चाशत्स्थाने द्वात्रिंशन्मितं कर्णं ३२
प्रकल्प्य प्राग्वत् साध्यमाने कर्णे ।
जातं करणीखण्डद्वयम् ६२१ । २७०० अनयो-
र्मूलयोः २४(२३२५) । ५१(२४२५) । ऐक्यं द्वितीयः कर्णः
७६(२२२५) ।
अथ तदेव क्षेत्रञ्चेत् समलम्बम् ।
तदा मुखोनभूमिं परिकल्प्य भूमिमिति-
ज्ञानार्थं त्र्यस्रङ्कल्पितम् । अत्र क्षेत्रे लम्बांशहारयोः
षट्शते पतिते ।
अत्राबाधे जाते (३५)
(१७२५) लम्बश्च कर-
णीगतो जातः
(३८०१६२५) आसन्न-
मूलकरणेन जातः
३८(६२२६२५) । अयं तत्र
चतुर्भुजे समलम्बः
लब्धाबाधोनित-
भूमेः समलम्बस्य च वर्गयोगः ५०४९ । अयं
कर्णवर्गः । एवं बृहदावाधातो द्वितीयकर्णवर्गः
२१७६ । अनयोरासन्नमूलकरणेन जातौ कर्णौ
७१(१२०) ४६(१३२०) एवं चतुरस्रे तेष्वेव बाहुष्वन्यौ
कर्णौ बहुधा भवतः एवगनियतत्वेऽपि नियतावेव
कर्णावानीतौ ब्रह्मगुप्ताद्यैस्तदानयनं यथा ।
कर्णाश्रितभुजघातैक्यमभयथान्योन्यभाजितं गण-
येत । योगेन भुजप्रतिभुजहत्योः कर्णो पदे
विषमे ॥
पृष्ठ २/२५६
कर्णाश्रितभुजघातेति एकवारमनयोः २५ ।
३९ । घातः ९७५ । तथा ५२ । ६० । अनयोर्घातः
३१२० । घातयोर्द्धयोरैक्यम् ४०९५ । तथा द्वितीय-
वारम् २५ । ५२ । अनयोर्घाते जातम् १३०० ।
तथा द्वितीयवारम् ३९ । ६० अनयोर्घाते २३४० ।
घातयोर्द्वयोरैक्यम् ३६४० । एतदैक्यं भुजप्रतिभुज-
योः ५२ । ३९ । घातः २०२८ । पश्चात् २५ । ६० ।
अनयोर्वधः १५०० । तयोरैक्यम् ३५२८ । अनेनै
क्येन ३६४० गुणितं जातं पूर्ब्बैक्यं १२,८४१,९२० ।
प्रथमकर्णाश्रितभुजघातैक्येन ४०९५ । भक्तं
लब्धं ३१ ३६ । अस्य मूलं ५६ । एककर्णस्तथा
द्वितीयकर्णार्थं प्रथमकर्णाश्रितभुजघातैक्यम् ४०
९५ । भुजप्रतिभुज-३५२८ । वधयोगगुणितं जातं
१४,४४७,१६० । अन्यकर्णाश्रितघातैक्येन ३६४०
भक्तं लब्धं ३९६९ । अस्य भूलम् ६३ । द्वितीयः
कर्णः । अस्मिन् विषमे क्षेत्रे कर्णौ साधनं अस्य
कर्णानयनस्य प्रक्रिया गौरवम् ॥
लघुप्रक्रियादर्शनद्वारेणाह ।
अभीष्टजात्यद्वयबाहुकोटयः
परस्परं कर्णहता भुजा इति ॥
चतुर्भुजं यद्विषमं प्रकल्पितं
श्रुती तु तत्र त्रिभुजद्वयात्ततः ॥
बाह्वोर्वधः कोटिवधेन युक् स्या-
देका श्रुतिः कोटिमुजा वधैक्यम् ।
अन्या लघौ सत्यपि साधनेऽस्मिन्
पूर्ब्बैः कृतं यद्बहु तन्न विद्मः ॥
जात्यक्षेत्रद्वयम् ।
एतयोः इतरेतरकर्णहता भुजाः कोटय
इतरेतरकर्णहताः कोटयो भुजा इति कृते जा-
तम् २५ । ६० । ५२ । ३९ । तेषां महती भूर्लघु-
मुखमितरौ बाहू इति प्रकल्प्य क्षेत्रदर्शनं इमौ
कर्णौ महतायासेनानीतौ ६३ । ५६ । अस्यैव
जात्यद्वयस्योत्तरोत्तरभुजकोट्योर्घातौ जातौ ३६ ।
२० । अनयोरैक्यमेकः कर्णः ५६ । बाह्वोः ३ । ५ ।
कोट्योश्च ४ । १२ । घातौ १५ । ४८ । अनयो-
रैक्यमन्यः कर्णः ६३ । एवं श्रुती स्यातां एवं
सुखेन जाते ॥
अथ यदि पार्श्वभुजयोर्व्यत्ययं कृत्वा न्यस्तं
क्षेत्रम् ।
सूच्यावाधा (१५३६१७) सूच्यावाधा (३५६४१७) ।
भूमानम् ३०० । मुखम् १२५ । बाहू २६० ।
१९५ । कर्णौ २८० । ३१५ । लम्बौ १८९ । २२४ ॥
अथ सन्ध्याद्यानयनाय करणसूत्रं वृत्तद्वयम् ।
लम्बतदाश्रितबाह्वोर्म्मध्यं सन्ध्याख्यमस्य लम्बस्य ।
सन्ध्योना भूः पीठं साध्यं यस्याधरं खण्डम् ॥
सन्धिर्द्विस्थः परलम्बश्रवणहतः परस्य पीठेन ।
भक्तो लम्बश्रुत्योर्योगात् स्यातामधःखण्डे ॥
लम्बः १८९ । तदाश्रितभुजः १९५ । अनयो
र्मध्ये यल्लम्बलम्बाश्रितबाहुवर्गेत्यादिना गता वाधा
सन्धिसंज्ञा ४८ । तदूनितभूरिति द्वितीया वाधा
सा पीठसंज्ञा २५२ ।
एवं द्वितीयलम्बः २२४ । तदाश्रितभुजः २६० ।
पूर्ब्बवत् सन्धिः १३२ । पीठम् १६८ ।
अथाद्यलम्बस्याधः १८९ । खण्डं साध्यम् ।
अस्य सन्धिः ४८ । द्विस्थः ४८ । परलम्बेन
२२४ । श्रवणेन च २८० । पृथग्गुणितः १०७५२ ।
१३४४० । परस्य पीठेन १६८ । भक्तो लब्धं
लम्बाधःखण्डम् ६४ । श्रवणाधःखण्डञ्च ८० ।
एवं द्वितीयलम्बस्य २२४ । सन्धिः १३२ । पर-
लम्बेन १८९ । कर्णेन च ३१५ । पृथग्गुणितः
तदा जात्यद्वयकर्णयोर्व्वधः ६५ । द्वितीयकर्णः ॥
अथ सूचीक्षेत्रोदाहरणम् ।
क्षेत्रे यत्र शतत्रयं ३०० क्षितिमितिस्तत्वेन्दु
१२५ तुल्यं मुखं बाहू खोत्कृतिभिः २६० शराति-
धृतिभिः १९५ तुल्यौ च तत्र श्रुती । एका
खाष्टयमैः २८० समा तिथिगुणैः ३१५ अन्याथ
तल्लम्बकौ तुल्यौ गोधृतिभिः १८९ तथा जिनयमै
२२४ र्योगाच्छ्रवो लम्बयोः ॥
तत् खण्डे कथयाधरे श्रवणयोर्योगाच्च लम्बावधे
तत्सूची निजमार्गवृद्धभुजयोर्योगाद्यथा स्यात्ततः ।
सावाधं वद लम्बकञ्च भुजयोः सूच्याः प्रमाणे च के
सर्व्वं गाणितिक । प्रचक्ष्व नितरां क्षेत्रेऽत्र दक्षो-
ऽसि चेत् ॥
परस्य पीठेन २५२ । भक्तो लब्धं लम्बाधःखण्डम् ।
९९ । श्रवणाधःखण्डञ्च १६५ ।
अथ कर्णयोर्योगादधोलम्बज्ञानार्थं
सूत्रं वृत्तम् ।
लम्बौ भूघ्नौ निजनिजपीठविभक्तौ च वंशौ स्तः ।
ताभ्यां प्राग्वत् श्रुत्योर्योगालम्बः कुखण्डे च ॥
लम्बौ १८९ । २२४ । भू ३०० । घ्नौ जातौ
५६७०० । ६७२०० । स्वस्वपीठाभ्यां २५२ । १६८ ।
भक्तौ एवमत्र लब्धौ वंशौ २२५ । ४०० । आभ्या-
मन्योन्यमूलाग्रगसूत्रयोगादित्यादिकरणेन लब्धः
कर्णयोगादधोलम्बः । १४४ । भूखण्डे च १०८ ।
१९२ ॥
अथ सूच्यावाधालम्बभुजज्ञानार्थं सूत्रं
वृत्तत्रयम् ।
लम्बहृतो निजसन्धिः परलम्बगुणः समाह्वयो ज्ञेयः ।
समपरसन्ध्योरैक्यं हारस्तेनोद्धृतौ तौ च ॥
समपरसन्धी भूघ्नौ सूच्यावाधे पृथक् स्याताम् ।
हारहृतः परलम्बः सूचीलम्बो भवेद्भूघ्नः ॥
सूचीलम्बघ्नभुजौ निजनिजलम्बोद्धृतौ सूच्याः ।
एवं क्षेत्रक्षोदः प्राज्ञैस्त्रैराशिकात् ज्ञेयः ॥
पृष्ठ २/२५७
अत्र किलायं लम्बः २२४ । अस्य सन्धिः १३२ ।
अयं परलम्बेन १८९ । गुणितो २२४ । अनेन
भक्तो जातः समाह्वयः (८९१८) । अस्य परसन्धेश्च
४८ । योगो हारः (१२७५८) । अनेन भूघ्नः ३०० ।
समः (२६७३००८) । परसन्धिश्च । (१४४००१) भक्तो
जाते सूच्याबाधे (३५६४१७) । (१५३६१७) । एवं द्वितीयः
समाह्वयः (५१२९) ।
द्वितीयो हारः (१७००९) । अनेन भूघ्नः स्वीयः
समः (१५३६००९) । परसन्धिश्च (३९६००१) । भक्तो
जाते सूच्याबाधे (१५३६१७) (३५६४१७) । परलम्बः २२४ ।
भूमि ३०० । गुणो हारेण (१७००९) । भक्तो जातः
सूचीलम्बः (६०४८१७) । सूचीलम्बेन भुजौ १९५ ।
२६० । गुणितौ स्वस्वलम्बाभ्याम् १८९ । २२४ ।
यथाक्रमं भक्तौ जातौ स्वमार्गवृद्धौ सूचीभुजौ
(६२४०१७) (७०२०१७) ।
एवमत्र सर्व्वत्र भागहारराशिं प्रमाणं गुण्य-
गुणकौ तु यथायोग्यं फलेच्छे प्रकल्प्य सुधिया
त्रिराशिकमूह्यम् ॥
अथ वृत्तक्षेत्रे करणसूत्रं वृत्तम् ।
व्यासे भनन्दाग्नि ३९२७ हते विभक्ते
खवाणसूर्य्यैः १२५० परिधिः स सूक्ष्मः ।
द्वाविंशतिघ्ने विहृतेऽथ शैलैः ७
स्थूलोऽथवा स्याद्व्यवहारयोग्यः ॥
उदाहरणम् ।
विष्कम्भमानं किल सप्त यत्र
तत्र प्रमाणं परिधेः प्रचक्ष्व ।
द्वाविंशतिर्यत् परिधिप्रमाणं
तद्व्याससंख्याञ्च सखे विचिन्त्य ॥
आसमानम् ७ । लब्धं परिधिमानम् २१ (१२३९१२५०) ।
स्थूलो वा परिधिर्लब्धः २२ ।
अथवा परिघितो व्यासानयनाय ।
गुणहारविपर्य्ययेण व्यासमानं सूक्ष्मम् ७ (११३९२७) ।
स्थूलं वा ७ ।
वृत्तगोलयोः फलानयने करणसूत्रं वृत्तम् ।
वृत्तक्षेत्रे परिधिगुणितव्यासपादः फलं यत्
क्षुण्णं वेदैरुपरि परितः कन्दुकस्येव जालम् ।
गोलस्यैवं तदपि च फलं पृष्ठजं व्यासनिघ्नं
षड् भिर्भक्तं भवति नियतं गोलगर्भे घनाख्यम् ॥
उदाहरणम् ।
यद्व्यासस्तुरगैर्मितः किल फलं क्षेत्रे समे तत्र किं
व्यासः सप्तमितश्च यस्य सुमते गोलस्य तस्यापि किम् ।
पृष्ठे कन्दुकजालसन्निभफलं गोलस्य तस्यापि किं
मध्ये ब्रूहि घनं फलञ्च विमलां चेद्वेत्सि लीला-
वतीम् ॥
वृत्रक्षेत्रफलदर्शनाय ।
व्यासः ७ । परिधिः २१ (१२३९१२५०) । क्षेत्रफलम्
३८ (२४२३५०००) ।
गोलपृष्ठफलदर्शनाय ।
व्यासः ७ । गोलपृष्ठफलम् १५३ (११७३१२५०) ।
गोलान्तर्गतधनफलदर्शनाय ।
व्यासः ७ । गोलस्यान्तर्गतं घनफलम्
१७९ (२४८७२५००) ।
अथ प्रकारान्तरेण तत्फलानयने
करणसूत्रं सार्द्धवृत्तम् ।
व्यासस्य वर्गे भनवाग्निनिघ्ने
सूक्ष्मं फलं पञ्चसहस्रभक्ते ।
रुद्राहते शक्रहृतेऽथवा स्यात्
स्थूलं फलं तद्ब्यवहारयोग्यम् ॥
घनीकृतव्यासदलं निजैक-
विंशांशयुग्गोलघनं फलं स्यात् ॥
व्यासः ७ । अस्य वर्गे ४९ । भनवाग्निनिघ्ने
पञ्चसहस्रभक्ते तदेव सूक्ष्मं फलम् ३८ (२२३४५०००) ।
अथवा व्यासस्य वर्गे ४९ । रुद्राहते ५३९ ।
शक्रहृते लब्धं स्थूलं फलम् ३८ (१२) । धनीकृत-
व्यासदलम् (३४३२) । निजैकतिंशांशयुग्गोलस्य
घनफलं स्थूलम् १७९ (२३) ।
शरजीवानयनाय करणसूत्रं
सार्द्धवृत्तम् ।
ज्याव्यासयोगान्तरघातमूलं
व्यासस्तदूनो दलितः शरः स्यात् ॥
व्यासाच्छरोनाच्छरसंगुणाच्च
मूलं द्विनिघ्नं भवतीह जीवा ।
जीवार्द्धवर्गे शरभक्तयुक्ते
व्यासप्रमाणं प्रवदन्ति वृत्ते ॥
उदाहरणम् ।
दशविस्तृतिवृत्तान्तर्यत्र ज्या षण्मिता सखे ! ।
तत्रेषुं वद वाणाज्ज्यां ज्यावाणाभ्याञ्च विस्तृतिम् ॥
व्यासः १० । ज्या ६ । योगः १६ । अन्तरम् ४ ।
षातः ६४ । मूलम् ८ । एतदूनो व्यासः २ ।
पृष्ठ २/२५८
दलितः १ । जातः शरः १ । व्यासात् १० ।
शरोनात् ९ । शर १ । सङ्गुणात् ९ । मूलम् ३ ।
द्विनिघ्नं जाता जीवा ६ । एवं ज्ञाताभ्यां ज्या-
वाणाभ्यां व्यासानयनं यथा जीवा- ६ । र्द्ध ३ ।
घर्गे ९ । शर १ । भक्ते ९ । शर १ । युक्ते
जातो व्यासः १० ।
अथ वृत्तान्तस्त्र्यस्रादिनवास्रान्तक्षेत्राणां
भुजमानानयनाय करणसूत्रं
वृत्तत्रयम् ।
त्रिद्ब्यङ्काग्निनभश्चन्द्रैः १०३९२३
स्त्रिवाणाष्टयुगाष्टभिः ८४८५३ ।
वेदाग्निवाणखाश्वैश्च ७०५३४
खखाभ्राभ्ररसैः ६०००० क्रमात् ॥
वाणेषुनखवाणैश्च ५२०५५
द्विद्विनन्देषुसागरैः ४५९२२ ।
कुरामदशवेदैश्च ४१०३१ वृत्तव्यासे समाहते ॥
खखखाम्रार्क्र- १२०००० संभक्ते
लभ्यन्ते क्रमशो भुजाः ।
वृत्तान्तस्त्र्यस्रपूर्ब्बेषां
नवास्रान्तं पृथक् पृथक् ॥
उदाहरणम् ।
सहस्रद्बितयव्यासं यद्वृत्तं तस्य मध्यतः ।
समत्र्यस्रादिकानांमे भुजान् वद पृथक् पृथक् ॥
अथ वृत्तान्तस्त्रिभुजे भुजमानानयनाय ।
व्यासः २००० । त्रिद्व्यङ्काग्निनभश्चन्द्रैः १०३९२३ ।
गुणितः २०७८४६००० । खखखाभ्रार्कैः १२०००० ।
भक्ते लब्धं त्र्यस्रे भुजमानं १७३२ (१२०) ।
वृत्तान्तश्चतुर्भुजे भुजमानानयनाय ।
व्यासः २००० त्रिवाणाष्टयुगाष्टभिः ८४८५३ गुणितः
१६९,७०६,००० । खखखाभ्रार्कैः १२०००० । भक्ते
लब्धं चतुरस्रे भुजमानं १४१४ (१३६०) ।
वृत्तान्तःपञ्चभुजे भुजमानानयनाय ।
व्यासः २००० । वेदाग्निवाणखाश्वैः ७०५३४ ।
गुणितः १४१०६८००० खखखाभ्रार्कैः १२०००० ।
भक्ते लब्धं पञ्चास्रे भुजमानं ११७५ (१७३०) ।
वृत्तान्तःषड्भुजे भुजमानानयनाय ।
व्यासः २००० खखाभ्राभ्ररसैः ६०००० । गुणितः
१२०,०००,००० । खखखाभ्रार्कैः १२०००० । भक्ते
लब्धं षडसे भुजमानं १००० ।
वृत्तान्तः सप्तभुजे भुजमानानयनाय ।
व्यासः २००० वाणेषुनखवाणैः ५२०५५ । गुणितः
१०४,११०,००० । खखखाभ्रार्कैः १२०००० । भक्ते
लब्धं सप्तास्रे भुजमानं ८६७ (७१२) ।
वृत्तान्तरष्टभुजे भुजमानानयनाय ।
व्यासः २००० । द्बिद्बिनन्देषुसागरैः ४५९२२ ।
गुणितः ९१,८४४,००० । खखखाभ्रार्कैः १२००००
भक्ते लब्धमष्टास्रे भुजमानं ७६५ (११३०) ।
वृत्तान्तर्नवभुजे भुजमानानयनाय ।
व्यासः २००० । कुरामदशवेदैः ४१०३१ गुणितः
८२,०६२,००० । खखखाभ्रार्कैः १२०००० । भक्ते
लब्धं नवास्रे भुजमानं ६८३(१७२०) ।
एवमिष्टव्यासादेभ्योऽन्यापि जीवाः सिध्य-
न्तीति तास्तु गोले ज्योत्पत्तौ वक्ष्ये ।
अथ स्थूलजीवाज्ञानार्थं लघुक्रियया
करणसूत्रं वृत्तम् ।
चापोननिघ्नपरिधिः प्रथमाह्वयः स्यात्
पञ्चाहतः परिधिवर्गचतुर्थभागः ।
आद्योनितेन खलु तेन भजेच्चतुर्घ्न-
व्यासाहतं प्रथममाप्तमिह ज्यका स्यात् ॥
उदाहरणम् ।
अष्टादशांशेन वृतेः समान-
मेकादिनिघ्नेन च यत्र चापम् ।
पृथक् पृथक् तत्र वदाशु जीवां
खाकर्मितं व्यासदलञ्च यत्र ॥
व्यासः २४० । अत्र किलाङ्कलाघवाय विंशतेः
सार्द्धार्कशतांशमिलितः सूक्ष्मपरिधिः ७५४ ।
अस्याष्टादशांशः ४२ । अत्रापि अङ्कलाघवाय
द्बयोरष्टादशांशयुतो गृहीतः अनेन पृथक्
पृथगेकादिगुणितेन तुल्ये धनुषि कल्पिते ज्याः
साध्याः ।
अथवात्र सुखार्थं परिधेरष्टादशांशेन परिधिं
घनूंषि चापवर्त्त्य ज्याः साध्यास्तथापि ता एव
भवन्ति ।
अपवर्त्तिते न्यासः । परिधिः १८ । चापानि
च १ । २ । ३ । ४ । ५ । ६ । ७ । ८ । ९ । यथोक्त-
करणेन लब्धा जीवाः ४२ । ८२ । १२० । १५४ ।
१८४ । २०८ । २२६ । २३६ । २४० ।
पृष्ठ २/२५९
अथ चापानयनाय करणसूत्रं वृत्तम् ।
व्यासाब्धिघातयुतमौर्व्विकया विभक्तो
जीवाङ्घ्रिपञ्चगुणितः परिधेस्तु वर्गः ।
लब्धोनितात् परिधिवर्गचतुर्थभागा-
दाप्ते पदे वृतिदलात् पतिते धनुः स्यात् ॥
उदाहरणम् ।
विहिता इह ये गुणास्ततो
वद तेषामधुना धनुर्मितिम् ।
यदि तेऽस्ति धनुर्गुणक्रिया
गणिते गाणितिकातिनैपुणम् ॥
न्यासः ४२ । ८२ । १२० । १५४ । १८४ ।
२०८ । २२६ । २३६ । २४० । स एवापवर्त्तित-
परिधिः १८ । जीवाङ्घ्रिणा । (२१२) पञ्चभिश्च ५ ।
परिधेः १८ । वर्गो ३२४ गुणितः १७०१० । व्यासा-
२४० । ब्धि ४ । घात ९६० । युतमौर्विकयानया
१००२ भक्तो लब्धः १७ । अत्राङ्कलाघवाय चतु-
र्विंशतेर्द्ब्यधिकसहस्रांशयुतो गृहीतोऽनेनोनितात्
परिधिः १८ । वर्ग ३२४ । चतुर्थभागात् ६४ ।
पदे प्राप्ते ८ । वृति १८ । दलात् ९ । पतिते १ ।
जातं धनुः एवं जातानि धनूंषि । १ । २ । ३ ।
४ । ५ । ६ । ७ । ८ । ९ । एतानि परिधिष्वष्टा-
दशांशेन गुणितानि स्युः । इति श्रीभास्करा-
चार्य्यविरचितायां लीलावत्यां क्षेत्रव्यवहारः
समाप्तः ॥

क्षेत्रकर्कटी, स्त्री, (क्षेत्रजाता कर्कटी । मध्य-

पदलोपिकर्म्मधारयः ।) वालुकी । इति राज-
निर्घण्टः ॥

क्षेत्रचिर्भिटा, स्त्री, (क्षेत्रजाता चिर्भिटा । शाक-

पार्थिववत् मध्यपदलोपिसमासः ।) चिर्भिटा-
कर्कटी । इति राजनिर्घण्टः ॥

क्षेत्रजः, पुं, (क्षेत्रे स्त्रीरूपक्षेत्रे गुर्व्वाद्यनुज्ञात-

देवरादिशुक्रात् जायते इति । क्षेत्र + जन् +
डः ।) स्वस्त्रियामन्यद्वारा जनितः पुत्त्रः ।
द्वादशविधपुत्त्रान्तर्गतपुत्त्रविशेषः । (यथाह
मनुः । ९ । १६७ ।
“यस्तल्पजः प्रमीतस्य क्लीवस्य व्याधितस्य वा ।
स्वधर्म्मेण नियुक्तायां स पुत्त्रः क्षेत्रजः स्मृतः ॥”
द्वादशविधपुत्त्रा यथा तत्रैव । ९ । १५८--१६० ।
“पुत्त्रान् द्वादश यानाह नृणां स्वायम्भुवो मनुः ।
तेषां षड्बन्धुदायादाः षडदायादबान्धवाः ॥
औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ।
गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ॥
कानीनश्च सहोढश्च क्रीतः पौनर्भदस्तथा ।
स्वयन्दत्तश्च शौद्रश्च षडदायादबान्धवाः ॥”)
स च देवरादिना भ्रात्रादिभार्य्यायां यथोक्त-
विधानोत्पन्नः । यथा, --
“अपुत्त्रां गुर्व्वनुज्ञातो देवरः पुत्त्रकाम्यया ।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् ॥
आगव्र्भसम्भवाद्गच्छेत् पतितस्त्वन्यथा भवेत् ।
अनेन विधिना जातः क्षेत्रजोऽस्य भवेत् सुतः ॥”
इति मिताक्षरायामाचाराध्यायः ॥
तत्पर्य्यायः । देवरादिजः २ । इति हेमचन्द्रः ॥ * ॥
तस्य पितृरिकथभागित्वं यथा, मनुः । ९ । १६५ ।
“औरसक्षेत्रजौ पुत्त्रौ पितृरिक्थस्य भागिनौ ।
दशापरे च क्रमशो गोत्ररिक्थांशभागिनः ॥” *
अनियोगोत्यन्न क्षेत्रजस्य औरसेन सह विभाग-
माह मनुः । ९ । १६२ ।
“यद्येकरिक्थिनौ स्यातामौरसक्षेत्रजौ सुतौ ।
यद्यस्य पैत्रिकं रिक्थं स तद्गृह्णीत नेतरः ॥”
(अत्र कुल्लूकभट्टः । “यदीति । अपुत्त्रेण पर-
क्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ
रिक्थी पिण्डदाता च धर्म्मत इति याज्ञ-
वल्क्योक्तविषये यदा क्षेत्रिकस्य पितुः क्षेत्रजा-
नन्तरमौरसः पुत्त्रो भवति तदा तौ औरसक्षेत्रजौ
एकरिक्थिनौ एकस्य पितुर्यद्यपि रिकथार्हौ
भवतस्तथापि यद्यस्य जनकसम्बन्धि धनं तदेव
स गृह्णीयात् न क्षेत्रजः क्षेत्रिकपितुः । यत्तु
वक्ष्यति षष्ठन्तु क्षेत्रजस्यांशं प्रदद्यात् पैतृका-
द्धनात् । औरसो विभजन् दायमिति तत्पुत्त्रवत्
बीजिविषयम् । यत्तु याज्ञवल्क्येन उभयसम्बन्धि-
रिक्थहरत्वमुक्तं तत् क्षेत्रिकपितुरौरसपत्त्रा-
भावे बोद्धव्यम् । मेधातिथिगोविन्दराजौ तु
औरसमनियुक्तापुत्त्रञ्च विषयीकृत्य इमं श्लोकं
व्याचक्षाते । तन्न । अनियुक्तापुत्त्रस्याक्षेत्रजत्वात्
अनियुक्तासुतश्चेत्यनेन तस्य रिक्थग्रहणनिषे-
धात् यद्येकरिक्थिनौ इत्यनन्वयाच्च ॥”) एक-
रिक्थिनौ एकस्यां जातौ रिक्थिनौ यस्य
बीजाद्यो जातः स तस्य रिक्थं गृह्णीयात् ।
इतरोऽन्यबीजजो न गृह्णीयादित्यर्थः । स्त्रीधने
यत्पितृदत्तं यद्धनं स्त्रियै तद्बीजजस्तद्धनं
गृह्णीयात् नान्य इत्याह नारदः ।
“द्वौ सुतौ विवदेयातां द्बाभ्यां जातौ स्त्रिया धने ।
तयोर्यद्यस्य पित्र्यं स्यात् स तद्गृह्णीत नेतरः ॥”
इति दायतत्त्वम् ॥ * ॥
कलौ क्षेत्रजपुत्त्रकरणनिषेधो यथा, आदित्य-
पुराणे ।
“दीर्घकालं ब्रह्मचर्य्यं धारणञ्च कमण्डलोः ।
देवरेण सुतोपत्तिर्द्दत्तकन्या प्रदीयते ॥”
इत्यादि ।
“दत्तौरसेतरेषान्तु पुत्त्रत्वेन परिग्रहः ।”
इत्यादि ।
“एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः ।
निवर्त्तितानि कर्म्माणि व्यवस्थापूर्ब्बकं बुधैः ॥”
इत्यादि च उद्बाहतत्त्वम् ॥ * ॥
क्षेत्रजाते त्रि ॥

क्षेत्रजा, स्त्री, (क्षेत्रज + स्त्रियां टाप् ।) श्वेतकण्ट-

कारी । शशाण्डुली । गोमूत्रिका । शिल्पिका ।
चणिका । इति राजनिर्घण्टः ॥ स्वस्त्रियामन्य-
द्वारा जाता कन्या च ॥

क्षेत्रज्ञः, पुं, (क्षेत्रं शरीरं एतच्छरीरं ममेति

कृत्वा यो जानाति आपादतलमस्तकं ज्ञानेन
विषयीकरोति स्वाभाविकेन औपदेशिकेन वेद-
नेन विषयीकरोति वा कृषीवलवत् तत्फल-
भोक्तृत्वादित्यर्थः । ज्ञा + “इगुपधज्ञाप्रीकिरःकः ।”
३ । १ । १३५ । इति कः ।) शरीराधिदैवतम् ।
तत्पर्य्यायः । आत्मा २ पुरुषः ३ । इत्यमरः ।
१ । ४ । २९ ॥ त्रीणि शरीराधिदैवतेऽन्तर्भोक्तरि ।
(क्षेत्रेषु सर्व्वदेहेषु सर्व्वान्तर्य्यामितया विराज-
मानः सन् “सर्व्वज्ञः सर्व्वशक्तिमान् सर्व्वक्षेत्र-
पालयिता” इत्यात्मस्वरूपं जानाति अनुभवति
यः प्रज्ञानघनः परमपुरुषः स सर्व्वान्तरात्मा
असंसारी परमेश्वरः ।) क्षेत्रं शरीरं जाना-
तीति क्षेत्रे शरीरे जानाति ज्ञानवान् भव-
तीति वा क्षेत्रज्ञः । हनजनादिति डः । इति
भरतः ॥ तस्य पर्य्यायान्तरम् । सुबीजः ४
पुरुषः ५ अन्तर्यामी ६ ईश्वरः ७ पुद्गलः ८
परसंज्ञकः ९ । इति शब्दरत्नावली ॥ प्रधानम्
१० । इति जटाधरः ॥ * ॥ (उभयतः प्रमाणं
यथा, भगवद्गीतायाम् । १३ । १--२ ।
“इदं शरीरं कौन्तेय ! क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥
क्षेत्रज्ञञ्चापि मां विद्धि सर्व्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥”
ईश्वरपक्षे भाष्यकृदर्थो यथा, -- “क्षेत्रक्षेत्रज्ञा-
वुक्तौ किमेतावन्मात्रेण ज्ञानेन ज्ञातव्याविति
नेत्युच्यते क्षेत्रज्ञमिति । क्षेत्रज्ञं यथोक्तलक्षण-
ञ्चापि मां परमेश्वरमसंसारिणं विद्धि जानीहि
योऽसौ सर्व्वक्षेत्रेष्वेकः क्षेत्रज्ञो ब्रह्मादिस्तम्ब-
पर्य्यन्तानेकक्षेत्रोपाधिप्रविभक्तस्तं निरस्तसर्व्वो-
पाधिभेदं सदसदादिशब्दप्रत्ययागोचरं विद्धी-
त्यभिप्रायः । हे भारत ! यस्मात् क्षेत्रक्षेत्रज्ञे-
श्वरयाथात्म्यव्यतिरेकेण न ज्ञानगोचरमन्यद-
वशिष्टमस्ति तस्मात् क्षेत्रक्षेत्रज्ञयोर्ज्ञेयभूतयोर्यज्
ज्ञानं क्षेत्रक्षेत्रज्ञौ येन ज्ञानेन विषयीक्रियेते
तज्ज्ञानं सम्यक्ज्ञानमिति मतं अभिप्रेत-
मित्यभिप्रायो मम ईश्वरस्य विष्णोः ॥” अपि च
तत्रैव । १३ । २२ ।
“उपद्रष्टानुमन्ता च भर्त्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः ॥”
विष्णुः । यथा, महाभारते । १३ । विष्णुसहस्र-
नामकीर्त्तने । १४९ । १५ ।
“पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥”)
वटुकभैरवः । यथा, -- “क्षेत्रज्ञः क्षत्त्रियो
विराट् ।” इति तस्य स्तोत्रम् ॥ छेकः । इति
मेदिनी ॥ विदग्धः । कृषकः । इति शब्दरत्ना-
वली ॥ शेषद्वयार्थे त्रि ॥

क्षेत्रदः, पुं, (क्षेत्रं शरीरं ददाति रोगादिभ्यो

मोचयति स्तुतिपाठिनो भक्तस्येति भावः । क्षेत्र
+ दा + कः ।) वटुकमैरवः । यथा, --
“क्षेत्रदः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्त्रियो विराट् ।
श्मशानवासी मांसाशी खर्पराशी मखान्तकृत् ॥”
इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे वटुक-
भैरवस्तोत्रम् ॥ * ॥ (क्षेत्रं शस्याद्युत्पादनक्षमां
भूमिं ददातीति ।) क्षेत्रदातरि त्रि ॥
पृष्ठ २/२६०

क्षेत्रदूती, स्त्री, (क्षेत्रस्य क्षेत्रे वा दूतीव । यद्वा,

क्षेत्रे शरीरे दूतीव । औषधान्तरैर्युक्तस्यास्य
आरोग्यसं घटकतया तथात्वम् ।) श्वेतकण्ट-
कारी । इति राजनिर्घण्टः ॥

क्षेत्रदेवता, स्त्री, (क्षेत्राधिष्ठात्री देवता ।)

केदाराधिष्ठात्री । सा च सर्पादिरूपा । यथा,
“रक्ताक्षः कथयति । अस्ति कस्मिंश्चिदधि-
ष्ठाने हरिदत्तो नाम ब्राह्मणः । तस्य च कृषिं
कुर्व्वतस्तदैव निष्फलः कालोऽतिवर्त्तते । अथै-
कस्मिन् दिवसे स ब्राह्मणः उष्णकालावसाने
घर्म्मार्त्तः स्वक्षेत्रमध्ये वृक्षच्छायायां प्रसुप्तः ।
अनतिदूरे वल्मीकोपरि प्रसारितं वृहत्फुटाटीयं
भीषणं भुजङ्गमं दृष्ट्वा चिन्तयामास । नूनमेषा
क्षेत्रदेवता मवा कदापि न पूजिता । तेनेदं मे
कृषिकर्म्म विफलीभवति ।” इति पञ्चतन्त्रे काको-
लूकीयं नाम ३ तन्त्रम् ॥

क्षेत्रपः, पुं, (क्षेत्रं शरीरं पाति रक्षति स्तोत्र-

कारिणो भक्तस्येति यावत् । क्षेत्र + पा रक्षणे
“आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।)
वटुकभैरवः । यथा, --
“अक्ष्णोर्भूताश्रयं न्यस्य वदने तीक्ष्णदर्शनम् ।
क्षेत्रपं कर्णयोर्म्मध्ये क्षेत्रपालं हृदि न्यसेत् ॥”
इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे वटुक-
भैरवस्तोत्रम् ॥ * ॥ (क्षेत्रं शस्योत्पादनक्षमां
भूमिं पातीति । क्षेत्र + पा + कः ।) क्षेत्ररक्षके
त्रि ॥ (क्षेत्रं शरीरं विश्वं जगद् वा पाति
अपरिमेयात्मैश्वर्य्यप्रभावेन चैतन्यदानेन वा इति
व्युत्पत्त्या परमात्मा परमेश्वरः ॥)

क्षेत्रपतिः, पुं, (क्षेत्रस्य शस्यभूमेः पतिः ।) केदा-

राधिपः । वप्रस्वामी । यथा, -- “अथ प्रभाते स
क्षेत्रपतिर्लगुडहस्तस्तं प्रदेशमागच्छन् काके-
नावलोकितः ।” इति हितोपदेशे मित्रलाभ-
प्रकरणम् ॥ (क्षेत्रस्य शरीरस्य विश्वस्य वा
पतिः । जीवः । अग्निः । परमात्मा । यथा,
तन्त्रसारे ।
“जीवं क्षेत्रपतिं प्राहुः केचिदग्निमथापरे ।
स्वतन्त्र एव स कश्चित् क्षेत्रस्य पतिरिष्यते ॥”)

क्षेत्रपर्पटी, स्त्री, (क्षेत्रे पर्पटीव । यद्वा, क्षेत्रे जाता

पर्पटी ।) क्षुपविशेषः । इति वैद्यकम् ॥ क्षेत-
पाप्डा इति भाषा ॥

क्षेत्रपालः, पुं, (क्षेत्रं पालयति रक्षतीति । क्षेत्र +

पाल् + णिच् + अण् अच् वा ।) देवताविशेषः ।
तद्भेदा यथा, --
“भेदा एकोनपञ्चाशत् क्षेत्रपालस्य कीर्त्तिताः ।
मातृकाबीजभेदेन सम्भिन्ना नामभेदतः ॥
अजरश्चापकुम्भश्च इन्द्रस्तुतिस्ततः परः ।
ईडाचारश्चोक्तसंज्ञ ऊष्माद ऋषिसूदनः ॥
ऋमुक्तो ऌप्तकेशश्च ऌपकश्चैकदंष्ट्रकः ।
ऐरावतश्चौषबन्धुरौषघीशस्तथैव च ॥
अञ्जनश्चास्त्रवारश्च कवलः खरुखानलः ।
गामुख्यश्चैव घण्टादोङ्मनाश्च चण्डवारणः ॥
छटाटोपो जटालाख्यो झङ्गीवश्च ञडश्चरः ।
टङ्कपाणिस्तथा चान्यष्ठानबन्धुश्च डामरः ॥
ढक्कारवो णवार्णश्च तडिद्देहस्थिरस्तथा ।
दन्तुरो धनदश्चान्यो नत्तिक्तान्तः प्रचण्डकः ॥
फट्कारो बीरसंघश्च भृङ्गाख्यो मेघभासुरः ।
युगान्तौ रौह्यवश्चाथ लम्बोष्ठो वसवस्तथा ॥
शूकनन्दः षडालाख्यः सुनामाहंव्रुकस्तथा ।
एते भेदाः समाख्याता मातृकाक्षरयोनिकाः ॥” * ॥
क्षेत्रपालकथनप्रयोजनं यथा, --
“नामपद्यस्य वर्णानां यो वर्णो मातृकान्तरे ।
दृश्यते प्रथमं तत्र तत्रायं क्षेत्रपालकः ॥
तत्र तत्र विशिष्टात्मा भेदैरेतैर्व्यवस्थितः ।
ततो विशिष्टो यष्टव्यः क्षेत्रपालस्तु सर्व्वतः ॥
क्षेत्रपालमसंपूज्य यः कर्म्म कुरुते क्वचित् ।
तस्य कर्म्मफलं हन्ति क्षेत्रपालो न संशयः ॥”
इति एकोनपञ्चाशत्क्षेत्रपालकथनम् ।
इति क्षेत्रपालप्रकरणे प्रयोगसारः ॥ * ॥
अथ क्षेत्रपालमन्त्राः । मन्त्रदेवप्रकाशिन्याम् ।
क्षौमितिबीजादि क्षेत्रपालाय इति नमोऽन्तः ।
अयं प्रणवादिर्व्वा मन्त्रः । तथा, --
“वर्णान्त्यमौ बिन्दुयुक्तं क्षेत्रपालाय हृन्मनुः ।
ताराद्यो वसुवर्णोऽयं क्षेत्रपालस्य ईरितः ॥”
प्रातःकृत्याद्यनन्तरं प्राणायामान्तामस्य पूजां
विधाय धर्म्मादिपीठं विन्यस्य ऋष्यादिन्यासं
कुर्य्यात् । अस्य ब्रह्मा ऋषिर्गायत्त्री च्छन्दः
क्षेत्रपालो देवता क्षौं बीजं आयेतिशक्तिः षड्-
दीर्घभाजा बीजेनाङ्गन्यासः । ततो ध्यानम् ।
“भ्राजच्चन्द्रलटाधरं त्रिनयनं नीलाञ्जनाद्रिप्रभं
दोर्द्दण्डात्तगदाकपालमरुणस्रग्गन्धवस्त्रोज्जलम् ।
धण्टामेखलघर्घरध्वनिमिलज्झङ्कारभीमं विभुं
वन्दे संहितसर्पकुण्डलधरं श्रीक्षेत्रपालं सदा ॥”
एवं ध्यात्वा मानसैः सम्पूज्यार्घ्यस्थापनं कृत्वा
धर्म्मादिकल्पितपीठपूजां विधाय पुनर्ध्यात्वावाह-
नादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं विधायावरण-
पूजामारभेत् । अङ्गैः प्रथममावरणम् । अनला-
क्षाग्निकेशकरालघण्टारवमहाक्रोधपिशिताशन-
पिङ्गलाक्षोर्ड्घकेशैरष्टभिर्द्वितीयम् । इन्द्रादिभि-
स्तृतीयम् । वज्रादिभिश्चतुर्थम् । ततो धूपादि-
विसर्ज्जनान्तं कर्म्म समापयेत् । अस्य पुरश्चरणं
लक्षजपः । साज्येन चरुणा दशांशहोमः ।
तथा च निबन्धे ।
“लक्षमेकं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ।
चरुणा घृतसिक्तेन ततः क्षेत्रेशभर्च्चयेत् ॥”
मन्त्रदेवप्रकाशिकायान्तु प्रणवरहितोऽयं मन्त्रः ।
अस्य पुरश्चरणमयुतसंख्यजपः ॥ * ॥
अथास्य लिविधानम् । रात्रौ गृहाङ्गने
स्थण्डिलं कृत्वा तत्र देवं सपरिवारं संपूज्य
देवस्य हस्ते बलिमन्त्रेण त्रिवारं बलिं दत्त्वा
सपरिवारगणेभ्यः स्वस्वनामभिर्व्वलिं दद्यात् ।
बलिमन्त्रस्तु । एह्येहि विदुषि सुरु सुरु भुञ्जय
भुञ्जय तर्ज्जय तर्ज्जय विघ्नपद विघ्नपद महा-
भैरव क्षेत्रपाल बलिं गृह्ण गृह्ण स्वाहा । तथा
त्त निबन्धे ।
“पूर्ब्बमेहिद्बयं पश्चात् विदुषि स्यात् सुरुद्बयम् ।
भुञ्जयद्वितयं भूयस्तर्ज्जयद्वितयं पुनः ॥
ततो विघ्नपदद्वन्द्वं महाभैरव तत्परम् ।
क्षेत्रपाल बलिं गृह्ण द्बयं पावकसुन्दरी ॥”
यद्वा, एह्येहि तुरु तुरु सुरु सुरु जम्भ जम्भ
हन हन विघ्नं विनाशय विनाशंय महाबलिं
क्षेत्रपाल गृह्ण गृह्ण स्वाहा । इति मन्त्रः । एष
बलिविधिः सर्व्वग्रहनिवारको विजयश्रीकरश्च
भवति । बलिमपि सोपदंशबृहत्पिण्डेन दद्यात् ॥
फलन्तु ।
“बलिदानेन सन्तुष्टः क्षेत्रपालः प्रयच्छति ।
कान्तिमेधाबलारोग्यतेजःपुष्टियशःश्रियः ॥”
इति तन्त्रसारः ।
(द्वारपालो भैरवविशेषः । यथा, तन्त्रशास्त्रे ।
“गणेशं वटुकञ्चैव क्षेत्रपालञ्च योगिनीः ।
पूर्ब्बादिक्रमयोगेन द्वारपालान् प्रपूजयेत् ॥”
क्षेत्ररक्षके त्रि । यथा, --
“स एव ग्रामपालोऽभूत् पशुपालः स एव च ।
क्षेत्रपालः स एवासीद् द्विजातीनाञ्च रक्षिता ॥”
इति मार्कण्डेयपुराणे । १९ । २४ ॥)

क्षेत्रपालरसः, पुं, (क्षेत्रपाल इति संज्ञा विद्यते

यस्य । स एव रसः औषधविशेषः ।) ग्रहणीयुक्त-
शोथस्यौषधम् । दुग्धवटीति ख्यातम् । यथा, --
“हिङ्गुलञ्च विषं ताम्रं लौहं तालकटङ्गणम् ।
जीरमाहूरफेनञ्च समभागं विमर्द्दयेत् ॥
यवार्द्धा वटिका कार्य्या पथ्यं दुग्धौदनं हितम् ।
अलवणं वारिहीनञ्च दातव्यं भिषजां वरैः ॥
गुरुशोथमग्निमान्द्यं ग्रहणीमतिदुस्तराम् ।
ज्वरञ्च विषमं जीर्णं नाशयेन्नात्र संशयः ॥”
इति भैषज्यरत्नावली ॥
आहूरफेनं अहिफेनम् ॥

क्षेत्रयमानिका, स्त्री, (क्षेत्रे जाता यमानिका ।)

क्षेत्रजातयमानी । यथा, --
“उपाधिरुग्रगन्धे तु वचाक्षेत्रयमानिके ।”
इति नानार्थे त्रिकाण्दशेषः ॥

क्षेत्ररुहा, स्त्री, (क्षेत्रे रोहति उत्पद्यते इति ।

क्षेत्र + रह + कः ।) वालुकीकर्कटी । इति
राजनिर्घण्टः ॥ क्षेत्रजाते त्रि ॥

क्षेत्रलिप्ता, स्त्री, भूमण्डलस्य कला । यथा । अथ

यदि दृग्ग्रहोदयासुभिरष्टादशशतानि क्षेत्र-
लिप्ता लभ्यन्ते तदा तदन्तरकलासुभिः किमिति
फलं क्षेत्रलिप्ताः ता ग्रहार्कभुक्त्यन्तरेण भाज्याः ।
भुक्त्यन्तरं हि क्षेत्रलिप्तान्तरात्मकमतः सजातीय-
करणाय क्षेत्रलिप्तीकरणं भुक्त्यन्तरेणैकी दिवसो
लभ्यत इति युक्तमुक्तम् । इति सिद्धान्तशिरो-
मणौ गणिताथ्याये ग्रहोदयास्ताधिकारः ॥ * ॥
असुभिः दशविपलैः । यथा, --
“गुर्व्वक्षरैः खेन्दुमितैरसुस्तैः
षड्भिः पलं तैर्घटिका खषड्भिः ॥”
इति तत्रैव कालमानाध्यायः ॥

क्षेत्रवत् [द्] पुं, (क्षेत्रं शरीरं अहमित्यात्म-

त्वेन वेत्ति जानाति इदं सर्व्वशरीरमेवाहमिति
पृष्ठ २/२६१
आत्मत्वेन मन्यते इत्यर्थः । क्षेत्र + विद् +
क्विप् ।) क्षेत्रज्ञः । जीवात्मा । यथा, --
“तत्त्वं नरेन्द्र ! जगतामथ तस्थुषाञ्च
देहेन्द्रियासुधिषणात्मभिरावृतानाम् ।
यः क्षेत्रवित्तपतया हृदि विष्वगाविः
प्रत्यक् चकास्ति भगवांस्तमबैहि सोऽस्मि ॥”
इति श्रीभागवते । ४ । २२ । ३५ ॥
“यस्मादनात्मरतिरनर्थहेतुः तत् तस्माज्जगतां
जङ्गमानां तस्थुषां स्थावराणाञ्च देहादिभिः
आत्मना अहङ्कारेण चावृतानां हृदि यश्चकास्ति
प्रकाशते तमवैहि । कथं सोऽस्मीति । सो-
ऽस्तीति पाठे स एवैकोऽस्ति ततोऽन्यदसत्
इत्यर्थः । ननु जीवो हृदि चकास्ति नान्यस्तत्राह ।
क्षेत्रविदं जीवं तपति नियमयतीति क्षेत्रवित्तपः
तस्य भावस्तत्ता तया अन्तर्यामिरूपेण । यद्बा
क्षेत्रवित्ते अहं ममतास्पदे पातीति क्षेत्रवित्तपः
तेन रूपेण । जीवस्तु पारतन्त्र्यान्न पाति । ननु
कर्म्म जीवं नियच्छति न आविः प्रत्यक्षः । तर्हि
बुद्धिर्न प्रत्यक् प्रतिलोमं चकास्ति बुद्धिस्तु
पराक् विषयाकारेण । तर्ह्यहङ्कारः न विष्वक्
आपकत्वेन स तु परिच्छिन्नः । एवम्भूतो यो
भगवान् तमवैहीति ।” इति तट्टीकायां श्रीधर-
स्वामी ॥

क्षेत्रसम्भवः, पुं, (क्षेत्रे सम्भवति उत्पद्यते इति ।

क्षेत्र + सम् + भू + अच् ।) चञ्चुक्षुपः । भिण्डा-
क्षुपः । इति राजनिर्घण्टः ॥ भूमिजे त्रि ॥

क्षेत्रसम्भूतः, पुं, (क्षेत्रे सम्भूतः जातः ।) कुन्दरः ।

इति राजनिर्घण्टः ॥ क्षेत्रोद्भवे त्रि ॥

क्षेत्रसीमा, स्त्री, (क्षेत्रस्य भूमेः सीमा मर्य्यादा ।)

अङ्गारतुषवृक्षादिद्वाराचिह्नितभूमिमर्य्यादा ।
यथा “सीमा क्षेत्रादिमर्य्यादा सा चतुर्व्विधा ।
अनपदसीमा ग्रामसीमा क्षेत्रसीमा गृहसीमा
चेति ।” इति मिताक्षरायां व्यवहाराध्याये
सीमाविवादशब्दे द्रष्टव्यः ॥

क्षेत्रजीवः, त्रि, (क्षेत्रेण क्षेत्रोद्भवशस्यादिना

आर्जावतीति । आ + जीव् + कर्त्तरि अच् ।)
कर्षकः । इत्यमरः । २ । ९ । ६ ॥

क्षेत्राधिदेवता, स्त्री, (क्षेत्रस्य अधिदेवता अधि-

ष्ठात्री देवता ।) तीर्थाधिपदेवता । यथा, --
“देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताम् ।
सिद्धं सिद्धाधिकारांश्च श्रीपूर्ब्बं समुदीरयेत् ॥”
इति संस्कारतत्त्वे प्रयोगसारः ॥

क्षेत्राधिपः, पुं, (क्षेत्रस्य अधिपः स्वामी अधिष्ठाता

वा ।) मेषादिद्बादशराशीनामधिपतिग्रहगणः ।
यथा, --
“कुजशुक्रबुधेन्द्वर्कसौम्यशुक्रावनीभुवाम् ।
जीवार्किभानुजेज्यानां क्षेत्राणि स्युरजादयः ॥”
इति ज्योतिस्तत्त्वम् ॥
क्षत्राधिष्ठात्री देवता च ॥

क्षेत्रामलकी, स्त्री, (क्षेत्रे भूमौ जाता आमलकी ।

शाकपार्थिववत् मध्यपदलोपी समासः ।) भूम्या-
मलकी । इति शब्दमाला ॥

क्षेत्रिकः, पुं, (क्षेत्रं अस्यास्तीति । ठन् ।) क्षेत्र-

स्वामी । यथा, मनुः । ९ । ५४--५५ ।
“ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति ।
क्षेत्रिकस्यैव तदबीजं न वप्ता फलमर्हति ॥
एष धर्म्मो गवाश्वस्य दास्युष्ट्राजाविकस्य च ।
विहङ्गमहिषाणाञ्च विज्ञेयः प्रसवं प्रति ॥”
“तत्र दासीपदं परोढापरं तस्यामन्येन जातो
दासीभर्त्तुर्न बीजिभर्त्तुः ।” इत्युद्वाहतत्त्वम् ॥
कलत्रस्वामी । यथा, भनुः । ९ । १४५ ।
“हरेत्तत्र नियुक्तायां जातः पत्त्रो यथौरसः ।
क्षेत्रिकस्य तु तद्बीजं धर्म्मतः प्रसवश्च सः ॥”
“हरेदिति । तत्र नियुक्तायां यो जातः क्षेत्रजः
पुत्त्र औरस इव धनं हरेत् यस्मात् यत्तस्य
कारणभूतं बीजं तत् क्षेत्रस्वामित एव तत्-
कार्य्यकरणत्वात् ।” इति तट्टीकायां कुल्लूकभट्टः ॥

क्षेत्रियं, क्ली, क्षेत्रजतृणम् । परदेहचिकित्स्या ।

इति मेदिनी ॥

क्षेत्रियः, पुं, (परक्षेत्रे चिकित्स्यः । “क्षेत्रियच् पर-

क्षेत्रे चिकित्स्यः ।” ५ । २ । ९२ । इति पर-
क्षेत्रस्य क्षेत्रियजादेशः ।) असाध्यरोगः । पर-
दाररतः । इति मेदिनी ॥ (त्रि, परदेहचिकि-
त्स्योरोगादिः । यथा, भट्टिः । ४ । ३२ ।
“अहं सूर्पनखा नाम्ना नूनं नाज्ञायिषि त्वया ।
दण्डोऽयं क्षेत्रियो येन मय्यपातीति साब्रवीत् ॥”)

क्षेत्री, [न्] त्रि, (क्षेत्रमस्यास्तीति इनिः ।) क्षेत्र-

विशिष्टः । कृषीवलः । यथा, हेमचन्द्रः ।
“कुटुम्बी कर्षकः क्षेत्री हली कृषिककार्विकौ ॥”
(यथा च मानवे । ९ । ५१ ।
“तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः ।
कुर्व्वन्ति क्षत्रिणामर्थं न बीजी लभते फलम् ॥”)
परगवादिना शस्यविनाशे तत्प्राप्तिर्यथा, --
“यावत् शस्यं विनश्येत्तु क्षेत्री तावत् फलं लभेत् ।
पालस्ताड्योऽथ गोस्वामी पूर्ब्बोक्तं दण्डमर्हति ॥
इति याज्ञवल्क्यवचने गवादिदोषेण यावत् शस्यं
विनश्यति तावदेव पालकात् प्राप्तव्यं पालका-
शक्तौ पालकस्ताड्यः गोस्वामी पूर्ब्बोक्तं दण्डा-
दिकं अर्हति ।” इति प्रायश्चित्ततत्त्वम् ॥

क्षेत्री, [न्] पुं, (क्षेत्रं स्त्री अस्त्यस्य । क्षेत्र +

इनिः ।) स्वामी । भर्त्ता । यथा, मनुः । ९ । ३२ ॥
“भर्त्तुः पुत्त्रं विजानन्ति श्रुतिद्वैधन्तु भर्त्तरि ।
आहुरुत्पादकं केचिदपरे क्षेत्रिणं विदुः ॥”
“भर्त्तुरिति । भर्त्तुः पुत्त्रो भवतीति मुनयो
मन्यन्ते । भर्त्तरि द्विप्रकारा श्रुतिर्वर्त्तते । केचिदुत्
पादकमवोढारमपि भर्त्तारं तेन पुत्त्रेण पुत्त्रिण-
माहुः । अन्ये तु वोढारं भर्त्तारमनुत्पादक-
मपि अन्यजनितेन पुत्त्रेण पुत्त्रिणमाहुः ।”
इति तट्टीकायां कुल्लूकभट्टः ॥ (परमात्मा ।
यथा, गीतायाम् । १३ । ३३ ।
“यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ! ॥”)

क्षेत्रेक्षुः, पुं, (क्षेत्रे इक्षुरिव ।) यावनालः । इति

राजनिर्घण्टः ॥

क्षेत्रोपेक्षः, पुं, स्वफल्कपुत्त्रः । इति केचित् ॥ यथा, --

“युगन्धरोऽनमित्रस्य वृष्णिः पुत्त्रोऽपरस्ततः ।
स्वफल्कश्चित्ररथश्चैव गान्दिन्याञ्च स्वफल्कतः ॥
अक्रूरप्रमुखा आसन् पुत्त्रा द्वादश विश्रुताः ।
आसङ्गः सारमेयश्च मृदरो मृदुरिर्गिरिः ॥
धर्म्मवृद्धिः सुकर्म्मा च क्षेत्रोपेक्षोऽरिमर्द्दनः ।
शत्रुघ्नो गन्धमादश्च प्रतिबाहुश्च द्वादश ॥”
इति श्रीभागवते । ९ । २४ । १४--१६ ॥
क्षत्त्रोपेक्ष इति साधुपाठः । (तत्र क्षत्त्रेषु क्षत्त्रिय-
कुलेषु उपेक्षा यस्य ॥)

क्षेपः, पुं, (क्षिप + वञ् ।) निन्दा । (यथा, याज्ञ-

वल्क्यः । २ । २०७ ।
“क्षेपंकरोति चेद्दण्ड्यः पणानर्द्धत्रयोदश ॥”)
विक्षेपः । (यथा, गोः रामायणे । ४ । ६२ । १२ ।
“पक्षक्षेपपरिक्लिष्टाः सुपार्श्वेऽभ्यपयास्यति ॥”)
लेपनम् । गर्व्वः । प्रेरणम् । इति मेदिनी ॥
विलम्बः । हेला । लङ्घनम् । इति हेमचन्द्रः ॥
गुच्छः । इति त्रिकाण्डशेषः ॥ (यथा, मेघ-
दूते । ४९ ।
“कुन्दक्षेपानुगमधुकरश्रीयुषामात्मविम्बम् ॥”)

क्षेपकः, त्रि, (क्षिपतीति । क्षिप् + ण्वुल् ।)

क्षेपकर्त्ता । इति व्याकरणम् ॥

क्षेपणं, क्ली, (क्षिप + भावकर्म्मादिषु ल्युट् ।) प्रेर-

णम् । तत्पर्य्यायः । क्षिपा २ । इत्यमरः । ३ ।
२ । ११ ॥ यापनम् । यथा, --
“विधवा यौवनस्था च नारी भवति कर्कशा ।
आयुषः क्षेपणार्थन्तु दातव्यं स्त्रीधनं सदा ॥”
इति विवादचिन्तामणिधृतहारीतवचनम् ॥
प्रस्तरादीनां दूरप्रेरणार्थरज्जुनिर्म्मितशिक्यम् ।
फिङ्गा इति भाषा । यथा, श्रीभागवते । ३ । १९ ।
“प्रववुर्व्वायवश्चण्डास्तमः पांशवमैरयन् ।
दिग्भ्यो निपेतुर्ग्रावाणः क्षेपणैः प्रहिता इव ॥”
“पांशुकृततमश्च प्रेरितवन्तः । क्षेपणैर्यन्त्रैः ।”
इति तट्टीकायां श्रीधरस्वामी ॥ (परित्यागः ।
यथाह मनुः । ४ । ११९ ।
“उपाकर्म्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् ॥”
“उपाकर्म्मणि उत्सर्गे त्रिरात्रमध्ययनक्षेपणम् ।”
इति कुल्लूकभट्टः ॥ मल्लयोद्धणां सहसा भूपा-
तनरूपनियुद्धकौशलविशेषः । यथा, महा-
भारते । ४ । १२ । २८ ।
“क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्वनैः ।
तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ॥”
“क्षेपणं कथ्यते यत्तु स्थानात् प्रच्यवनं हटात् ॥”
इति तट्टीकाकृन्नीलकण्ठधृतमल्लशास्त्रम् ॥

क्षेपणिः, स्त्री, (क्षिप + बाहुलकात् अनिः

ङीप् वा ।) नौकादण्डः । इत्यमरः ।
१ । १० । १३ ॥ डाँड् इति भाषा । जालमेदः ।
इति मेदिनी ॥ (अस्त्रविशेषः । यथा, रामा-
यणे । ६ । ७ । २४ ।

क्षेपणी, स्त्री, (क्षिप + बाहुलकात् अनिः

ङीप् वा ।) नौकादण्डः । इत्यमरः ।
१ । १० । १३ ॥ डाँड् इति भाषा । जालभेदः ।
इति मेदिनी ॥ (अस्त्रविशेषः । यथा, रामा-
यणे । ६ । ७ । २४ ।
“क्षेपण्यस्तोमराश्चोग्राश्चक्राणि मुषलानि च ॥”)

क्षेपणीयं क्ली, (क्षिप + अनीयर् ।) पाषाणप्रक्षेप-

णास्त्रम् । यथा, रघुवंशे ४ । ७७ ।
पृष्ठ २/२६२
“तत्र घोरं रघोर्युर्द्धं पार्व्वतीयैर्गणैरभूत् ।
नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम् ॥”
“तत्रेति । तत्र हिमाद्रो गणैः सह रघोर्युद्धं
अभूत् । किंगणैः पर्व्वते उत्पन्नैः । किं युद्धं
भयङ्करम् । पुनः किं नाराचानां वाणविशेषाणां
क्षेपणीयानां पाषाणप्रक्षेपणशस्त्राणां ये अश्मान-
स्तेषाञ्च घर्षणेन उत्पतिता अग्नयो यस्मिन् ।”
इति तट्टीका ॥ क्षेपणयोग्ये त्रि ॥

क्षेपदिनं, क्ली, अहर्गणानयनार्थं स्वीयविंशांशयुत-

क्षयनाडी । यथा । “इदानीमहर्गणार्थं क्षेप-
दिनान्याह । स्वीयनखांशयुताः क्षयनाड्यः क्षेप-
दिनानि दिवागणसिद्ध्यै । पूर्ब्बमानीता ये
क्षयाहास्तेषामधो यन्नाडिकाद्यं तत् स्वीय-
विंशांशयुतं सद्दिनाद्यं कल्प्यम् । या घटिका-
स्तानि दिनानि । या विघटिकास्ता घटिका-
स्तासामप्यधो ये षष्ट्यंशास्तानि पानीयपलानि
कल्प्यानीति । इति सिद्धान्तशिरोमणौ गणि-
ताध्याये प्रत्यब्दशुद्धिः ॥

क्षेपपातः, पुं, ग्रहकक्षाक्रान्तिमण्डलयोर्योगः ।

यथा । इदानीं क्रान्तिवृत्तमाह । “क्रान्तिवृत्तं
विधेयं ग्रहाङ्कं भ्रमत्यत्र भानुश्च भार्द्धे कुभा
भानुतः । क्रान्तिपातः प्रतीपं तथा प्रस्फुटाः
क्षेपपाताश्च बलनबोधकृत् ॥” इति सिद्धान्त-
शिरोमणौ गोलाध्यायः ॥

क्षेपिमा, [न्] पुं, (क्षिप्रस्य भावः “पृथ्वादिभ्य

इमनिज् वा ।” ५ । १ । १२२ । इति इमनिच् ।
“स्थूलदूरयुवह्रस्वक्षिप्रक्षेद्राणां यणादिपरं पूर्ब्बस्य
च गुणः ।” ६ । ४ । १५६ । इति साधुः ।) अति-
शयक्षेपः । इति सिद्धान्तकौमुदी ॥

क्षेपिष्ठः, त्रि, (अतिशयेन क्षिप्रः । क्षिप्र + इष्टल् ।

“स्थूलदूरेति ।” ६ । ४ । १५६ । इति साधुः ।) अति-
शीघ्रः । क्षिप्रतरः । इत्यमरः । ३ । २ । १११ ॥

क्षेपीयान्, [स्] त्रि, (अतिशयेन क्षिप्रः । इयसुन् ।

“स्थूलदूरेति ।” ६ । ४ । १५६ । इति साधुः ।) अति-
शयक्षिप्रः । इति सिद्धान्तकौमुदी ॥

क्षेप्ता, [ऋ] त्रि, (क्षिपति इति । क्षिप् + तृच् ।)

क्षेपणकर्त्ता । इति सिद्धान्तकौमुदी ॥ (यथा,
रामायणे । ४ । ९ । ८४ ।
“उपास्पृश्य ददौ शापं क्षेप्तारं वालिनं प्रति ॥”)

क्षेमं, क्ली, प्लक्षद्वीपस्य वर्षविशेषः । यथा । “प्लक्षो

जम्बुप्रमाणो द्वीपाख्यातिकरो हिरण्मय उत्थितो
यत्राग्निरुपास्ते सप्तजिह्वः । तस्याधिपतिः प्रिय-
व्रतात्मज इध्मजिह्वः स्वं द्वीपं सप्त वर्षाणि
विभज्य सप्तवर्षनामभ्य आत्मजेभ्य आकलय्य
स्वयमात्मयोगेनोपरराम । शिवं वयसं सुभद्रं
शान्तं क्षेमममृतमभयमिति वर्षाणि ।” इति
श्रीभागवते । ५ । २० । २-३ ॥ * ॥ मठविशेषः ।
यथा, --
“मर्त्तुं ययौ च वाराहक्षेत्रं यत्राविधायकः
श्रीकण्ठक्षेममठयोरासीद्धुष्कपुरान्तिके ॥”
इति राजतरङ्गिण्यां ६ तरङ्गः ॥

क्षेमः, पुं, क्ली, (क्षि क्षये + “अर्त्तिस्तुसुहुसृधृ-

क्षीति ।” उणां । १ । १३९ । इति मन् । (कुश-
लम् । (यथा, मनुः । २ । १२७ ।
“ब्राह्मणं कुशलं पृच्छेत् क्षत्त्रबन्धुमनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥”)
तद्वति त्रि । इत्यमरः २ । ४ । २६ ॥ (यथा, गोः
रामायणे । ५ । ८ । १७ ।
“कृताः क्षेमाश्च पन्थानः सुखं गच्छन्ति खेचराः ॥”)
लब्धरक्षणम् । इति मेदिनी ॥ मोक्षः । इति
हेमचन्द्रः ॥

क्षेमः, पुं, (क्षेमं मङ्गलमस्मिन्नस्तीति । अर्श आद्यच् ।)

चोरनामगन्धद्रव्यम् । चण्डानामौषधम् । इति
शब्दरत्नावली मेदिनी च ॥ धर्म्मेण शान्त्यामुत्-
पादितः पुत्त्रः । यथा, विष्णुपुराणे । १ । ७ । २८ ।
“व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत ।
सुखमृद्धिर्यशःकीर्त्तिरित्येते धर्म्मसूनवः ॥”
कलिङ्गदेशस्य राजा । यथा, --
“क्षेमोऽग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः ।
मतिमांश्च मनुष्येन्द्र ! ईश्वरश्चेति विश्रुतः ॥”
इति महभारते । १ । ६७ । ६५ ॥ * ॥
चन्द्रवंशीयशुचिराजपुत्त्रः । यथा, --
“ततः सुतञ्जयाद्बिप्रः शुचिस्तस्य भविष्यति ।
क्षेमोऽथ सुव्रतस्तस्माद्धर्म्मसूत्रः सनस्ततः ॥”
इति श्रीभागवते । ९ । २२ । ४७ ॥ * ॥
लब्धपरिपालनम् । यथा, --
“उपेयादीश्वरञ्चैव योगक्षेमार्थसिद्धये ।
स्नात्वा देवान् पितॄं श्चैव तर्पयेदर्च्चयेत्तथा ॥”
इति याज्ञवल्क्यसंहितायामाचाराध्यायः ॥
“तदनन्तरमीश्वरमभिषेकादिगुणयुक्तमन्यं वा
श्रीमन्तमकुत्सितं योगक्षेमार्थम् । अलब्धलाभो
योगः । लब्धपरिपालनं क्षेमः तदर्थमुपेयात् ।
उपासीत उपेयादित्यनेन सेवां प्रतिषेधति ।
वेतनग्रहणेन आज्ञाकरणं सेवा तस्याः श्ववृत्ति-
त्वेन निषेधात् ।” इति तट्टीका मिताक्षरा ॥
(यथाच मनुः । ८ । २३० ।
“योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतामियात् ॥”)

क्षेमकः, पुं, (क्षेम + स्वार्थे संज्ञायां वा कन् ।)

चोरनामगन्धद्रव्यम् । इति जटाधरः ॥ * ॥
नागविशेषः । यथा, --
“नागः शङ्खमुखश्चैव तथा कुष्माण्डकोऽपरः ।
क्षेमकश्च तथा नागो नागः पिण्डारकस्तथा ॥”
इति महाभारते । १ । ३५ । ११ ॥
जनमेजयवंशोत्पन्नराजविशेषः । यथा, --
“शतानीकाद्दुर्द्दमनस्तस्यापत्यं महीनरः ।
दण्डपाणिर्निमिस्तस्य क्षेमको भविता यतः ॥”
इति श्रीभागवते । ९ । २२ । ४३ ॥
एतत्पर्य्यन्तं अस्य वंशस्य विश्रान्तिः । परी-
क्षिदादयः क्षेमकान्ताः कलेः सहस्रवत्सर-
पर्य्यन्तं राजान आसन् । ततः सोमवंशशाखा-
न्तरे मगधवंश्या राजानः कलौ बहुकालं
स्थिताः । इति श्रीभागवतमतम् ॥ राक्षस-
विशेषः । यथा, --
“एतस्मिन्नेव काले तु पुरीं वाराणसीं नृप ! ।
शून्यां निवेशयामास क्षेमको नाम राक्षसः ॥”
इति हरिवंशे । २९ । ७६ ॥

क्षेमकरः, त्रि, (करोतीति । कृ + अच् ।) मङ्गल-

कारकः । इति सिद्धान्तकौमुदी ॥ (यथा,
महाभारते । १४ । ३५ । ३७ ।
“पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्बिजाः ॥”)

क्षेमकारः, त्रि, (क्षेमं करोतीति । क्षेम + कृ +

“कर्म्मणि अण् ।” ३ । २ । १ । इति अण् ।)
शुभङ्करः । इति भूरिप्रयोगः ॥ क्षेमङ्करः ।
मङ्गलकर्त्ता । यथा, “क्षेमप्रियमद्रात् कुर्व्वा” इति
सूत्रेण क्षेमशब्दात् परस्य कृधातोः खप्रत्यया-
भावपक्षे ढात् षण्णिति षण्प्रत्ययेन निष्पन्नः ।
इति मुग्धबोधव्याकरणम् ॥ (यथा, भट्टिः । ५ । ७७ ।
“पितुः प्रियङ्करो भर्त्ता क्षेमकारस्तपस्विनाम् ॥”)

क्षेमकृत्, त्रि, (क्षेमं करोतीति । क्षेम + कृ +

क्विप् ।) मङ्गलकारकः । यथा, --
“दुर्लभं प्राकृतं वाक्यं दुर्लभः क्षेमकृत् सुतः ।
दुर्लभा सदृशी भार्य्या दुर्लभः स्वजनः प्रियः ॥”
इति चाणक्ये । ५४ ॥

क्षेमगुप्तः, पुं, (क्षेमेण मङ्गलमयेन परमेश्वरेण गुप्तः

रक्षितः यद्बा क्षेमः लब्धलरक्षणं तेन गुप्तः ।)
काश्मीरदेशस्य राजविशेषः । यथा, --
“क्षेमगुप्ताभिधानोऽभूदथ राजा तदात्मजः ।
आसवासेवनोत्सिक्तवित्ततारुण्यसंज्वरः ॥”
इति राजतरङ्गिण्यां ६ तरङ्गः ॥
(क्षेमगुप्ते त्रि ॥)

क्षेमङ्करः, त्रि, (क्षेमं करोतीति । क्षेम + कृ +

“क्षेमप्रियमद्रेऽण् च ।” ३ । २ । ४४ । इति अण् ।
चात् खच् मुम् च ।) मङ्गलकारकः । तत्पर्य्यायः ।
अरिष्टतातिः २ शिवतातिः ३ शिवङ्करः ४ ।
इति हेमचन्द्रः ॥ क्षेमकारः ५ मद्रङ्करः ६ शुभ-
ङ्करः ७ । इति भूरिप्रयोगः ॥

क्षेमङ्करी, स्त्री, (क्षेभङ्कर + स्त्रियां ङीप् ।) देवी-

विशेषः । यथा, --
“क्षेमान् देवेषु सा देवी कृत्वा दैत्यपतेः क्षयम् ।
क्षेमङ्करी शिवेनोक्ता पूज्या लोके भविष्यसि ॥
अनेनैव तु रूपेण विद्याष्टकसमन्विता ।
एका वा नगरान्तस्था पूजिता स्थापिता शुभा ॥
प्रासादे पटकुड्ये वा पुस्तके जलवह्रिगा ।
निस्त्रिंशे पूजयेत् क्षेमां सर्व्वकामफलप्रदाम् ॥
दमनी पदमाला च श्रीघोणा वज्रशासना ।
अस्त्रं प्रत्यङ्गिरादेव्याः पूजयेत् समुदाहृता ।
एताभिः स्थापनं कार्य्यं शिवासनसमानुगम् ॥”
इति देवीपुराणे क्षेमङ्करीप्रादुर्भावः ४७ अध्यायः ॥
शङ्खचिल्ली । सा च भगवत्या मूर्त्तिः । तस्या
नमस्कारमन्त्रः । यथा, --
“कुङ्कुमारुणसर्व्वाङ्गि ! कुन्देन्दुधवलानने ! ।
मत्स्यमांसप्रिये देवि ! क्षेमङ्करि ! नमोऽस्तु ते ॥”
अपि च ।
“कृशोदरि महाचण्डे ! मुक्तकेशि ! बलिप्रिये ! ।
कुलाचारप्रसन्नास्ये नमस्ते शङ्करप्रिये ! ॥”
इति तन्त्रम् ॥
पृष्ठ २/२६३

क्षेमजित्, पुं, (क्षेमं मङ्गलं जयति जितवान्

वा सर्व्वदा पुण्यात्मककर्म्मणा । यद्बा क्षेमं
प्राप्तस्य रक्षणं जितवान् स्वायत्तीकृतवान्
दैवपुरुषकारादिप्रभावेणेति यावत् ।) राज-
विशेषः । स तु मगधदेशे षट्त्रिंशद्बर्षपर्य्यन्तं
राजा भविष्यति । तस्य नामान्तरं क्षेमार्च्चिः ।
इति मत्स्यपुराणमिति केचित् ॥

क्षेमदर्शी, [न्] पुं, (क्षेमं द्रष्टुं शीलमस्य यद्बा

क्षेमं मङ्गलं प्राप्तस्य रक्षणं वा पश्यतीति ।
क्षेम + दृश् + णिनिः ।) चन्द्रवंशीयराजविशेषः ।
यथा, महाभारते । १२ । ८२ । ६ ।
“कोशलानामाधिपत्यं संप्राप्तं क्षेमदर्शिनम् ।
मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् ॥”

क्षेमधन्वा, [न्] पुं, (क्षेमं लब्धरक्षणपटु धनु-

र्यस्य यद्वा क्षेमं प्रजानां मङ्गलसाधनं जगद्धित-
करमित्यर्थः धनुर्यस्य ।) सूर्य्यवंशीयराज-
विशेषः । स तु पुण्डरीकपुत्त्रः । यथा, --
“नभस्य पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः ।
क्षेमवन्वसुतस्त्वासीद्देवानीकः प्रतापवान् ॥”
इति हरिवंशे । १५ । २७ ॥
सांवर्णनामकतृतीयमनुपुत्त्रविशेषः । यथा, --
“सर्व्वत्रगः सुशर्म्मा च देवानीकः पुरूद्वहः ।
क्षेमधन्वा दृढायुश्च आदर्शः पण्डको मनुः ।
सावर्णस्य तु पुत्त्रा वै तृतीयस्य नव स्मृताः ॥”
इति च तत्रैव । ७ । ७४ ॥

क्षेमधर्म्मा [न्,] पुं, (क्षेमं मङ्गलरूपं क्षेमे वा

घर्म्मो यस्य । यद्वा क्षेमरक्षणे धर्म्मो यस्य ।)
राजविशेषः । यथा, “ततश्च शिशुनागस्तस्य
पुत्त्रश्च काकवर्णो भविता तस्य पुत्त्रः क्षेमधर्म्मा
तस्यापि क्षत्त्रौजाः ।” इति विष्णुपुराणे । ४ । २४ । ३ ॥

क्षेमधूर्त्तिः, पुं, (क्षेमे मङ्गले लब्धरक्षणे वा धूर्त्ति-

र्घारणा यस्य ।) राजविशेषः । यथा, --
“बृहत्क्षत्त्रमथायान्तं कैकयं दृढविक्रमम् ।
क्षेमधूर्त्तिर्महाराज ! विव्याधोरसि मार्गणैः ॥”
इति महाभारते । ७ । १०६ । १ ॥

क्षेममूर्त्तिः, पुं, (क्षेमा मङ्गलमयी प्रियदर्शना

मूर्त्तिरस्य ।) करूषदेशीयराजविशेषः । इति
केचित् ॥ क्षेमघूर्त्तिरिति साधुपाठः । यथा, --
“कारूषकाश्च राजानः क्षेमधूर्त्तिस्तथैव च ।
शुतायुरुद्वहञ्चैव बृहत्सेनस्तथैव च ॥”
इति महाभारते आदिपर्व्वणि ६७ अध्यायंः ॥

क्षेमवान् [त्] त्रि, (क्षेमं मङ्गलं अस्यास्तीति ।

अस्त्यर्थे मतुप् मस्य वत्वम् ।) मङ्गलयुक्तः ।
इति सिद्धान्तकौमुदी ॥

क्षेमशूरः, पुं, (क्षेमे मङ्गलस्थाने निर्विघ्नस्थाने वा

शूरः ।) निर्भयस्थाने बलप्रकाशकः । यथा, --
“किं क्षेमशूरैर्विबुधैरसंयुगविकत्थनैः ।
रहोजषा वा हरिणा शम्भुना वा वनौकसा ॥”
इति श्रीभागवते । १० । ४ । ३६ ॥
“क्षेमे निर्भयदेशे शूरैः । संयुगादन्यत्र विकत्थनं
प्रौढवादो येषां तैः । ननु हरेर्बिभेमि शम्भो-
श्चेति चेत्तत्राहू रहोजुषेति । सर्व्वस्यान्तःप्रवि-
ष्टेन न क्वचिदपि वहिर्द्दृष्ठेन इत्यर्थः । पुरुष-
प्रवेशरहितमिलावृतवनं ओको यस्य तेन
शम्भुना ।” इति तट्टीकायां श्रीधरस्वामी ॥

क्षेमा, स्त्री, (क्षेम + टाप् ।) कात्यायनी । इति

मेदिनी ॥ क्षेमङ्करी । यथा, --
“निस्त्रिंशे पूजयेत् क्षेमां सर्व्वकामफलप्रदाम् ।”
इति देवीपुराणे क्षेमङ्करीप्रादुर्भावनामाध्यायः ॥
(अप्सरोभेदः । यथा, महाभारते । १ । १२३ । ५९ ।
“अम्बिका लक्षणा क्षेमा देवीरम्भामनोरमा ॥”)

क्षेमाधिः, पुं, (क्षेमा मङ्गलमयी क्षेमे मङ्गलविषये

धीर्यस्य पृषोदरात् ह्रस्वः ।) मिथिलादेशस्थ-
सूर्य्यवंशीयराजविशेषः । यथा, --
“अरिष्टनेमिस्तस्यापि श्रुतायुस्तत् सुपाश्वकः ।
ततश्चित्ररथो यस्य क्षेमाधिर्म्मिथिलाधिपः ॥”
इति श्रीभागवते । ९ । १३ । २३ ॥

क्षेमाफला, स्त्री, (क्षेमं मङ्गलजनकं हितकरं

फलं यस्याः । पृषोदरादाकारत्वे साधुः ।) क्षेम-
फला इति वा पाठः ॥ उडम्बरवृक्षः । इति
शब्दचन्द्रिका ॥

क्षेम्यं, त्रि, (क्षेमाय साधुः “प्राग्घिताद्यत् ।” ४ । ४ ।

७५ । इति यत् । यद्वा, क्षेममर्हति “दण्डादिभ्यो
यत् ।” । ५ । १ । ६६ । इति यत् ।) क्षेमीयम् । कुशल-
योग्यम् । इति सिद्धान्तकौमुदी ॥ (यथा, मनुः ।
७ । २१२ ।
“क्षेम्यां शस्यप्रदां नित्यं पशुवृद्धिकरीमपि ।
परित्यजत् नृपो भूमिमात्मार्थमविचारयन् ॥”)

क्षेम्यः, पुं, (क्षेममर्हत्यसौ । क्षेम + यत् ।) राज-

विशेषः । यथा, हरिवंशे । २० । ४६ ।
“उग्रायुधस्य दायादः क्षेम्यो नाम महायशाः ॥
क्षेम्यात् सुवीरो नृपतिः सुवीरात्तु नृपञ्जयः ।
नृपञ्जयाद् बहुरथ इत्येते पौरवाः स्मृताः ॥”

क्षै, क्षये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-

अनिट् ।) क्षादिः । क्षायति । इति दुर्गादासः ॥

क्षैण्यं, क्ली, (क्षीणस्य भावः । क्षीण + ञ्यः ।)

क्षीणता । यथा, “क्षैण्यज्ञाने तु प्रायिकमरणं
ज्ञात्वा प्रवृत्तस्य चान्द्रायणपादादिकम् ॥” इति
प्रायश्चित्ततत्त्वम् ॥ अपि च ।
“अस्मिन् धनजनक्षैण्यनिभित्तं मण्डलोत्तमे ।
सर्व्वतो दिक्कमुत्तस्थावथानर्थपरम्परा ॥”
इति राजतरङ्गिण्याम् ५ तरङ्गः ॥

क्षैत्रं, क्ली, (क्षेत्राणां समूहः । “भिक्षादिभ्यो-

ऽण् ।” ४ । २ । ३८ । इति अण् ।) क्षेत्रसमूहः ।
तत्पर्य्यायः । कैदारिकम् २ कैदर्य्यम् ३ कैदा-
रकम् ४ । इत्यमरः । २ । ९ । ११ ॥ वारटम् ५ ।
इति शब्दरत्नावली ॥

क्षैत्रज्ञं, क्ली, (क्षेत्रज्ञ + “हायनान्तयुवा-

दिभ्योऽण् ।” ५ । १ । १३० । इति अण् ।
“कुशलचपलनिपुणपिशुनकुतूहल क्षेत्रज्ञाः युवा-
दिषु ब्राह्मणादिषु च पठ्यन्ते ।” क्षैत्रज्ञ्य पक्षे +
“गुणवचनब्राह्मणादिभ्यः कर्म्मणि च ।” ५ । १ ।
१२४ । इति ष्यञ् ।) क्षेत्रज्ञस्य भावः । इति
सिद्धान्तकौमुदी ॥

क्षैत्रज्ञ्यं, क्ली, (क्षेत्रज्ञ + “हायनान्तयुवा-

दिभ्योऽण् ।” ५ । १ । १३० । इति अण् ।
“कुशलचपलनिपुणपिशुनकुतूहल क्षेत्रज्ञाः युवा-
दिषु ब्राह्मणादिषु च पठ्यन्ते ।” क्षैत्रज्ञ्य पक्षे +
“गुणवचनब्राह्मणादिभ्यः कर्म्मणि च ।” ५ । १ ।
१२४ । इति ष्यञ् ।) क्षेत्रज्ञस्य भावः । इति
सिद्धान्तकौमुदी ॥

क्षैरेयी, स्त्री, (क्षीरे संस्कृतं यदन्नम । ततः स्त्रियां

ङीप् ।) परमान्नम् । इति हेमचन्द्रः ॥ क्षीर-
सम्बन्धिनि त्रि । क्षीरेयी इति च पाठः ॥

क्षोडः, पुं, (क्षोड्यते बध्यते अस्मिन् । क्षोड +

अधिकरणे + अप् । घञ् इति केचित् वृद्धिर्न्न
वैदिकघातुश्चायम् ।) आलानम् । गजबन्धनी ।
इति भूरिप्रयोगः ॥

क्षोणिः, स्त्री, (क्षै + बाहुलकात् डोनिः वा

ङीप् ।) पृथिवी । इति शब्दरत्ना-
वली ॥ अमरटीका च ॥ (यथा, ऋग्वेदे १ । ५४ । १ ।
“अक्रन्दयो नद्योऽरोरुवद्वना कथा न क्षोणी-
भिर्यसा समारत ॥”)

क्षोणी, स्त्री, (क्षै + बाहुलकात् डोनिः वा

ङीप् ।) पृथिवी । इति शब्दरत्ना-
वली ॥ अमरटीका च ॥ (यथा, ऋग्वेदे १ । ५४ । १ ।
“अक्रन्दयो नद्योऽरोरुवद्बना कथा न क्षोणी-
भिर्यसा समारत ॥”)

क्षोदः, पुं, (क्षुद्यते इति । क्षुद् पेषणे + कर्म्मणि

भावे च घञ् ।) चूर्णः । इत्यमरः । २ । ८ । ९९ ॥
(यथा, काशीखण्डे । ३३ । ९३ ।
“सापि प्राग्वासना योगाल्लिङ्गार्च्चनरता सती ।
हित्वा मलयजक्षोद विभूतीं बह्वमंस्त वै ॥”)
रजः । पेषणम् । इति मेदिनी ॥ (यथा,
रत्नावलीनाटिकायाम् १ अङ्के ।
“कीर्णैः पिष्टातकौघैः कृतदिवसमुखैः कुङ्कम-
क्षोदगौरै-
र्हेमालङ्कारभाभिर्भरनमितशिरःशेखराङ्कैः
किरातैः ॥”)

क्षोदितं, क्ली, (क्षुद् + भावे क्तः । वाच्यलिङ्गे तु

कर्म्मणि + क्तः ।) चूर्णम् । इति शब्दचन्द्रिका ॥
पेषिते त्रि ॥

क्षोदिमा, [न्] पुं, (क्षुद् + “पृथ्वादिभ्य ईमनिज्

वा ।” ५ । १ । १२२ । इति इमनिच् ।) अति-
शयक्षुद्रता । इति व्याकरणम् ॥

क्षोदिष्ठः, त्रि, (अतिशयेन क्षुद्र इति । इष्ठल्

प्रत्ययः ।) अतिशयक्षद्रः । इत्यमरः । ३ । २ । १११ ॥

क्षोदीयान्, [स्] त्रि, (क्षुद् + इयसुन् ।) अतिक्षुद्रः ।

इति सिद्धान्तकौमुदी ॥ (यथा, माघे । २ । १०० ।
“बृहत्सहायः कार्य्यान्तं क्षोदीयानपि गच्छति ।
सम्भूयाम्भोधिमभ्येति महानद्या नगापगा ॥”)

क्षोद्यः, त्रि, (क्षोदनयोग्यः क्षोदितुमर्हति वा ।

क्षुद् + “अचो यत् ।” ३ । १ । ९७ । इति यत् ।)
क्षोदनीयः । चूर्णीकरणीयः । यथा, --
“वबन्धुर्बन्धनीयांश्च क्षोद्यान् सञ्चुक्षुदुस्तथा ।
बिभिदुर्भेदनीयांश्च तांस्तान् देशान्नरास्तदा ॥”
इति रामायणे । २ । ८० । १० ॥
“बन्धनीयान् सेतून् । क्षोद्यान् क्षोदनीयान्
शर्कराभूयिष्ठप्रदेशान् । सञ्चुक्षुदुः चूर्णया-
मासुः । भेदनीयान् जलनिर्गमार्थं भेद्यान् ॥”
इति तट्टीका ॥

क्षोभः, पुं, (क्षुभ् + भावे घञ् ।) क्षोभणम् । सञ्च-

लनम् । चित्तचाञ्चल्यम् । यथा, --
“पूरोत्पीडे तडागस्य परीवाहः प्रतिक्रिया ।
शोकक्षोभे तु हृदयं प्रलापैरेव धार्य्यते ॥”
इति उत्तरचरिते । ३ अङ्के ॥
परीबाहः सेतुभेदः । शोकजोभे शोकाधीन-
चित्तचाञ्चल्ये । प्रलापैः रोदनादिभिरित्यर्थः ॥
पृष्ठ २/२६४
अपि च शाक्तानन्दतरङ्गिणीधृततन्त्रे ।
“भुक्त्वा पीत्वा चरेत् पूजां जपं देव्याः समाहितः ।
साधके क्षोभमापन्ने मम क्षोभं प्रजायते ।
तस्माद्भुक्त्वा च पीत्वा च अक्षुव्वो यजनं चरेत् ॥”

क्षोभकः, पुं, (क्षोभ + संज्ञायां कन् ।) कामाख्यास्थ-

पर्व्वतविशेषः । यथा, --
“दुर्ज्जराख्यस्य पूर्ब्बस्यां पुरं नाम वरासनम् ।
तद्दक्षिणे महाशैलः क्षोभको नाम नामतः ॥
तस्मिन् गिरौ शिलापृष्ठे वक्त्रे देवी व्यवस्थिता ।
पञ्चपुष्करिणी नाम्ना पञ्चयोनिस्वरूपिणी ॥
एकत्र पञ्चभिर्दुर्गा योनिभिः पञ्चवक्त्रकम् ।
स्थिता रमयितुं तत्र नित्यमेव हिमाद्रिजा ॥”
इति कालिकापुराणे कामाख्यारूपनिर्णये
८१ अध्यायः ॥ * ॥ (क्षुभ् + कर्त्तरि + ण्वुल् ।)
क्षोभजनके त्रि ॥

क्षोभणं, त्रि, (क्षुभ् + णिच् + ल्युः ।) क्षोभजन-

कम् । सञ्चलनकारकम् । यथा, --
“आहताङ्गैः ससस्तैस्तं देवप्रहरणैस्तदा ।
अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम् ॥”
इति रामायणे । ३ । ३६ । १० ॥
“क्षोभणं क्षोभकर्त्तारम् ।” इति तट्टीका ॥
(की भावे ल्य ट । क्षोभः ॥)

क्षोभणः, पुं, (क्षुभ + णिच् + ल्युः ।) वटुकभैरवः ।

यथा, विश्वसारोद्धारतन्त्रे तस्य स्तोत्रम् ।
“कङ्कालधारी मुण्डी च व्यालयज्ञोपवीतवान् ।
जृम्भणो भोहनस्तम्भी मारणः क्षोभणस्तथा ॥”

क्षोभितः, त्रि, (क्षुभ् + णिच् + कर्म्मणि क्तः ।)

क्षोभयुक्तः । सञ्चालितः । यथा, --
“पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम् ।
क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् ॥”
इति मार्कण्डेये देवीमाहात्म्ये । ८२ । ३७ ॥

क्षोमं, क्ली, (क्षुम + मन् । पृषोदरात् वृद्धिर्वा ।) दृकू-

लम् । इत्यमरः । २ । २ । १२ । क्षौमं इति च पाठः ॥

क्षोमः, पुं क्ली, (क्षुम + मन् ।) अट्टः । इत्यमर-

टीकायां भरतः ॥ क्षौमोऽपि पाठः ॥

क्षोमकः, पुं, (क्षोम + संज्ञायां कन् ।) गण-

हासकः । इति जटाधरः ॥

क्षौणिः, स्त्री, (क्षु + बाहुलकात् निः णत्वं

वृद्धिः वा ङीप् च ।) पृथिवी । इत्य-
मरः । २ । १ । २ ॥ अस्या व्युत्पत्तिर्यथा, --

क्षौणी, स्त्री, (क्षु + बाहुलकात् निः णत्वं

वृद्धिः वा ङीप् च ।) पृथिवी । इत्य-
मरः । २ । १ । २ ॥ अस्या व्युत्पत्तिर्यथा, --
“इज्या च यागाधाराच्च क्षौणी क्षीणालये
च या ।
महालये क्षयं याति क्षितिस्तेन प्रकीर्त्तिता ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ७ अध्यायः ॥
(यथा, भागवते । ३ । १४ । ३ ।
“तस्य चोद्धरतः क्षौणीं स्वदंष्ट्राग्रेण लीलया ॥”)

क्षौणीप्राचीरः, पुं, (क्षौण्याः प्राचीर इव ।)

समुद्रः । इति जटाधरः ॥

क्षौणीभुक् [ज्,] पुं, (क्षौणीं पृथ्वीं भुनक्तीति ।

भुज् + क्विप् ।) राजा । यथा, --
“कृत्वा शस्त्रविभीषिकां कतिपयग्रामेषु दीनाः प्रजा
मथन्तो विटजल्पितैरुपहताः क्षौणीभुजस्ते किला
विद्वांसोऽपि वयं किल त्रिजगतां सर्गस्थितिव्यापदा-
मीशस्तत्परिचर्य्यया न गणितो यैरेष नारायणः ॥”
इति शान्तिशतके । १ । ११ ॥

क्षौणीमयः, पुं, (क्षौणी + मयट् ।) मृण्मयः ।

पृथिव्याश्रयः । यथा, --
“मत्स्यो युगान्तसमये मनुनोपलब्धः
क्षौणीमयो निखिलजीवनिकायकेतः ।
विस्रंसितानुरुभये सलिले मुखान्म
आदाय तत्र विजहार ह वेदमार्गान् ॥”
इति श्रीभागवते । २ । ७ । १२ ॥
“मत्स्यावतारमाह । मत्स्यो भाविना वैवस्वतेन
मनुना दृष्टः । क्षौणीमयः पृथ्वीमयः पृथिवी-
प्रधानस्तदाश्रय इत्यर्थः । अत एव निखिल-
जीवनिकायानायाश्रयः । मे सुखाद्बिस्रंसितान्
गलितान् वेदस्य मार्गान् वेदानादाय तत्र
युगान्तसलिल विजहार । ह हर्षे ।” इति तट्टी-
कायां श्रीधरखामी ॥ * ॥ क्षोणीमयोऽपि
पाठः ॥

क्षौद्रं, क्ली, (क्षुद्राभिः पिङ्गलवर्णमक्षिकाभिः

सरघाभिर्निर्म्मितम् । क्षुद्र + “क्षुद्राभ्रमरवटर-
पादपादञ् ।” ४ । ३ । ११९ । इति अञ् ।)
मधु । इत्यमरः । २ । ९ । १०७ ॥ जलम् । इति
मेदिनी ॥ पिङ्गलवर्णक्षुद्रमक्षिकाकृतकपिलवर्ण-
मघु । अस्य गुणाः । अतिशीतलत्वम् । लघुत्वम् ।
क्लेदनाशित्वम् । घृतयुक्तक्षौद्रञ्चेद्बिषतुल्यत्वञ्च ।
इति राजवल्लभः ॥ अपि च ।
“माक्षिकाः कपिलाः सूक्ष्माः क्षुद्राख्यास्तत्कृतं
मधु ।
मुनिभिः क्षौद्रमित्युक्तं तद्वर्णात् कपिलं भवेत् ॥
गुणैर्माक्षिकवत् क्षौद्रं विशेषान्मेहनाशनम् ॥”
इति भावप्रकाशः ॥

क्षौद्रः, पुं, (क्षुद्र + अण् ।) चम्पकवृक्षः । इति

शब्दचन्द्रिका ॥ वर्णसङ्करविशेषः । स तु सजा-
तीयात् मागध्यां जातः । यथा, --
“चतुरो मागधी सूते क्रूरान् मायोपजीविनः ।
मांसं स्वादुकरं क्षौद्रं सौगन्ध्यमिति विशुतम् ॥”
इति महाभारते । १३ । ४८ । २२ ॥
“एते मागध्यामायोगवादिभ्यश्चतुर्भ्यः क्रमाज्जा-
यन्ते । इत्युपसंहरति चतुर इति । एते चत्वारो
वागुरादिना जीवन्तीति मायोपजीविनः ।
अन्येऽपि त्तत्वारो मागध्यां विश्रुताः सजाती-
यादुत्पद्यन्ते । तेषां नामानि मांसमित्यादि ।
मांसं मांसविक्रेतारम् । स्वादुकरं मांसस्यैव
संस्कारकम् । क्षौद्रं सूदं शूद्रमिति पाठत्रयेऽपि
शाकाद्यन्नपाककरम् । सौगन्ध्यम् उक्तलक्षणं
सैरन्ध्रम् । एकस्यैव मागधस्य एतद्वृत्तिचतुष्टय-
मुक्तमिति ज्ञेयम् ।” इति तट्टीकायां नील-
कण्ठः ॥ * ॥ क्षुद्रता । इति पाणिनिव्याक-
रणम् ॥

क्षौद्रक्यं, त्रि, (क्षुद्रकः आयुधजीविसंघः । “आयुध-

जीविसंघाञ्ञ्यटीति ।” ५ । ३ । ११४ । इति
ञ्यट् ।) क्षुद्रम् । इति सिद्धान्तकौमुदी ॥

क्षौद्रजं, क्ली, (क्षौद्रात् जायते इति । जन + डः ।)

शिक्थकम् । इति राजनिर्घण्टः ॥ मधुजात-
मात्रे त्रि ॥

क्षौद्रधातुः, पुं, (क्षौद्रजातो धातुः क्षौद्रं धातु-

रिव वा ।) माक्षिकम् । इति राजनिर्घण्टः ॥

क्षौद्रप्रियः, पुं, (क्षौद्राणां सरघाणां प्रियः क्षौद्र-

वत् मधुवत् प्रियो वा ।) जलमधुकवृक्षः ।
इति राजनिर्घण्टः ॥ मधुप्रिये त्रि ॥

क्षौद्रमेहः, पुं, (क्षौद्रसंज्ञको मेहः ।) प्रमेह-

रोगविशेषः । मधुमेह इति वैद्यकम् ।) तल्लक्षणं
यथा, --
“कषायं मधुरं रूक्षं क्षौद्रमेहं वदेद्बुधः ।
कषायं कषायवर्णम् ।” इतिभावप्रकाशः ॥ अस्य
चिकित्सा प्रमेहशब्दे द्रष्टव्या ॥

क्षौद्रेयं, क्ली, (क्षौद्रे भवं इति । ढञ् ।) शिक्थ-

कम् । इति राजनिर्घण्टः ॥ क्षौद्रसम्बन्धिनि त्रि ॥

क्षौमं, त्रि, (क्षु + “अर्त्तिस्तुसुहुसृधृक्षिक्ष्विति ।”

उणां । १ । १३९ । इति मन् । ततः प्रज्ञा-
दित्वात् अण् । वृद्धिः ।) क्षुमाया विकारः
स्त्रियां क्षौमी कन्था इत्यादि । इत्यमरटीकायां
भरतः ॥

क्षौमं, पुं, क्ली, (क्षु + मन् । ततोऽण् वृद्धिश्च ।) अट्टा-

लकः । तत्पर्य्यायः । अट्टः २ । इत्यमरः । २ । २ । १२ ॥
“द्वे हर्म्म्यादिगृहे । प्राकाराग्रस्थितरणगृहे इति
कौदिल्यः । अट्टेति ख्याते गृहविशेषे इति
कोङ्कटः । प्राकारमण्डपस्योपरिशालायामिति
केचित् । हर्म्म्यादिवातकुटिकायामिति केचित् ।
मण्डपोपरि हर्म्म्यपृष्ठे इति केचित् । प्राकार-
धारणार्थोऽभ्यन्तरे क्षोमाख्योऽट्टः । इति भट्टः ।
अट्ट्यतेऽसौ अट्टः । अट्ट ङ विक्रमे वधे अल् ।
क्षुवन्ति शब्दायन्तेऽत्र क्षौमं । टु क्षु ल क्षुते
नाम्नि इति मः गुणः स्वार्थे ष्णे क्षौमञ्च । पट्ट-
दुकूलयोः क्षोमं गुणवत् । वस्त्रभेदे क्षौमं वृद्धि-
मदिति बहवः । क्षौममट्टे दुकूले स्यादतसी-
वसनेऽपि चेति विश्वप्रकाशे अतसीवनेन सह
पाठादट्टेऽपि क्षौममन्त्यस्वरवच्च । तत्र हि
परेषां वृद्धिविधानात् ।” इति पुरवर्गे भरतः ॥ * ॥
अतसीवस्त्रम् । इति हेमचन्द्रः ॥ (यथाह
याज्ञवल्क्यः । १ । १८७ ।
“स गौरसर्षपैः क्षौमं पुनः पाकान्महीमयम् ।
कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखन्तथा ॥”)
“क्षुमायाः विकारः क्षौमं वृद्ध्यादि वाच्यलिङ्गञ्च
स्त्रियां क्षौमी कन्थेत्यादि ।” इति नृदर्गे
भरतः ॥ * ॥ पट्टवस्त्रम् । तत्पर्य्यायः । दुकू-
लम् २ । इत्यमरः । २ । ६ । ११३ । “द्बे पट्टवस्त्रे ।
सौत्रवस्त्रादधिकं क्षौति क्षोमं टु क्षु शब्दे
बाम्नीति मः गुणः । यत् पुनरतसीविकारवाचि
प्रकृत्यन्तरं तद्वृद्धिमत् दुकूलार्थात् क्षोमात्
स्वार्थे प्रज्ञादित्वादणि क्षौमञ्चेतिकेचित् । दुनोति
उपतापयति अधिकग्रीष्मजननादिति नाम्नीति
कूलकि दुकूलम् ।” इति च नृवर्गे भरतः ॥ * ॥
शणजवस्त्रम् । यथा, शब्दरत्नावल्याम् ।
पृष्ठ २/२६५
“क्षौमं दुकूले स्यादट्टे पुंनपुंसकयोरिह ।
क्षौमन्तु शणजेऽपि स्यादतसीजे नपुंसकम् ॥”
(यथा, महाभारते । १ । २०० । ३ ।
“कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला ।
कृताभिवादना शश्र्वास्तस्थौ प्रह्वा कृताञ्जली ॥”)

क्षौमकः, पुं, (क्षुमा एव क्षौमः प्रज्ञादित्वात्

अण् । ततः संज्ञायां कन् ।) चोरनामगन्ध-
द्रव्यम् । इति केचित् ॥

क्षौमी, स्त्री, (क्षुमा एव इति स्वार्थे अणि वृद्धिः

ततो गौरादित्वात् ङीष् ।) अतसी । इति
रत्नमाला ॥ (विकारार्थे अणि) क्षुमानिर्म्मित-
कन्था । इति क्षौमशब्दटीकायां भरतः ॥

क्षौरं, क्ली, (क्षुरस्य कार्य्यं कर्म्म क्षुरकृतं कर्म्मेति

भावः क्षुरस्येदं वा ।) क्षुरकर्म्म । कामान इति
भाषा । तत्पर्य्यायः । मुण्डनम् २ भद्रकरणम् ३
वपनम् ४ परिवापनम् ५ । इति हेमचन्द्रः ॥
अस्य गुणः ।
“केशश्मश्रुनखादीनां कर्त्तनं संप्रसाधनम् ।”
संप्रसाधनं पवित्रीकरणमिति यावत् । इति
राजवल्लभः ॥ * ॥ व्रतादिसंयमे क्षौरकर्म्मा-
करणे दोषो यथा, --
“व्रतानामुपवासानां श्राद्धादीनाञ्च संयमे ।
न करोति क्षौरकर्म्म अशुचिः सर्व्वकर्म्मसु ॥
स च तिष्ठति कुण्डेषु नखादीनाञ्च सुन्दरि ! ।
तदेव दिनमानाब्दं तद्भोजी दण्डताडितः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥ * ॥
नित्यक्षौरविहितनिषिद्धदिनादि यथाह राज-
मार्त्तण्डः ।
“न स्नानमात्रगमनोत्सुकभूषिताना-
मभ्यक्तभुक्तरणकालनिरासनानाम् ।
सन्ध्यानिशाशनिकुजार्कदिनेषु रिक्ते
क्षौरं हितं प्रतिपदह्रि न चापि विष्ट्याम् ॥” * ॥
“प्राचीसुखः सौम्यमुखोऽपि भूत्वा
कुर्य्यान्नरः क्षौरमनुत्कटस्थः ॥
उत्तरात्रितययाम्यरोहिणी-
रौद्रसर्पपितृभेषु चाग्निभे ।
श्मश्रुक्रर्म्म सकलं विवर्ज्जयेत्
प्रेतकार्य्यमपि बुद्धिमान्नरः ॥”
प्रेतकार्य्यं पतितप्रेतसंप्रदानकदासीघटदानविषय-
कम् । अन्यथा वक्ष्यमाणवचनविरोधः स्यात् ॥
“चन्द्रशुद्धिर्यदा नास्ति तारायाश्च विशेषतः ।
अक्षौरिभेऽपि कर्त्तव्यं चन्द्रचन्द्रजयोर्द्दिने ॥
मानं हन्ति गुरुः क्षौरे शुक्रं शुक्रो धनं रविः ।
आयुरङ्गारको हन्ति सर्व्वं हन्ति शनैश्चरः ॥” * ॥
श्रीपतिरत्नमालायाम् ।
“आज्ञया नरपतेर्द्विजन्मनां
दारकर्म्ममृतसूतकेषु च ।
ब्रन्धमोक्षमखदीक्षणेष्वपि
क्षौरमिष्टमखिलेषु चोडुषु ॥
देवकार्य्ये पितृश्राद्धे रवेरंशपरिक्षये ।
क्षुरिकर्म्म न कुर्व्वीत जन्ममासे च जन्मभे ॥” * ॥
वृद्धगार्ग्यः ।
“केशवमानर्त्तपुरं पाटलिपुत्त्रं पुरीमहिच्छत्रम् ।
दितिमदितिञ्च स्मरतां क्षौरविधौ भवति कल्या-
णम् ॥ * ॥”
अत्र क्रमो वराहपुराणे ।
“श्मश्रुकर्म्म कारयित्वा नखच्छेदमनन्तरम् ॥”
इति ज्योतिस्तत्त्वम् ॥
अपि च । गोभिलः । “केशश्मश्रुलोमनखानि वाप-
यीत शिखावर्ज्जम् ।” इति शुद्धितत्त्वम् ॥ * ॥ अन्यच्च ।
“रोहिण्याञ्च विशाखायां मैत्रे चैवोत्तरासु च ।
मघायां कृत्तिकायाञ्च द्विजैः क्षौरं विवर्ज्जितम् ॥
कृत्वा तु मैथुनं क्षौरं यो देवांस्तर्पयेत् पितॄन् ।
रुधिरं तद्भवेत्तोयं दाता च नरकं व्रजेत् ॥”
इति ब्रह्मवैवर्त्तपुराणम् ॥ * ॥
नापितगृहे क्षौरनिषेधो यथा, --
“स्वयं माल्यं स्वयं पुष्पं स्वयं घृष्टञ्च चन्दनम् ।
नापितस्य गृहे क्षौरं शक्रादपि हरेत् श्रियम् ॥
रवौ दुःखं सुखं चन्द्रे कुजे मृत्युर्बुधे धनम् ।
मानं हन्ति गुरोर्व्वारे शुक्रे शुक्रक्षयो भवेत् ॥
शनौ च सर्व्वदोषाः स्युः क्षौरमत्र विवर्ज्जयेत् ॥”
इति कर्म्मलोचनम् ॥ * ॥ * ॥
अथ प्रथंमक्षौरस्य चूडाकरणस्य विहित-
दिनादि । ज्योतिषे ।
“अयुग्गाब्दे तथा मासि चूडा भौमशनीतरे ।
अर्केन्दकालशुद्धौ च जन्ममासेन्दुभेतरे ।
रिक्तादर्शाष्टमीषष्ठीप्रतिपद्वर्ज्जिते सिते ॥”
दक्षोऽपि सामान्वतो दोषमाह ।
“षष्ठ्यष्टमी पञ्चदशी उभे पक्षे चतुर्द्दशी ।
अत्र सन्निहितं पापं तैले मांसे भगे क्षुरे ॥
मेषसिंहतुलाकर्किवृश्चिकेतरलग्नके ।
श्रवणादित्रयस्वातीचित्रापुष्याश्विचन्द्रभे ॥
आदित्यरेवतीहस्ता ज्येष्ठामूले च चौडकम् ॥
पौष्णाश्विपुष्यवसुरामकवासुदेव-
ब्रह्मार्क्कचन्द्रवरुणादितिचित्रभेषु ।
वारेषु सोमबुधवाक्पतिभार्गवाणां
क्षौरं करोति कुशलं खलु मानवानाम् ॥”
इति वचनात् रोहिण्यामपि चूडाकरणम् ।
अत्रापि तिथ्यङ्गादिविद्धमृक्षं विवर्ज्जयेत् ॥
“सूर्य्ये दक्षिणमार्गगामिनि हरौ सुप्ते निरंशे रवौ
क्षीणे शीतरुचौ महीजयमयोर्व्वारेनिशासन्ध्ययोः ।
भुक्तेऽभ्यक्ततनौ निषिद्धसमयेऽलङ्कारयुक्ते शिशौ
क्षौराद्रोगभयं वदन्ति यवना मृत्युं तथान्ये जगुः ॥”
राजमार्त्तण्डे ।
“मानं हरेत् क्षौरमिहायुषोऽर्कः
शनैश्चरः पञ्च कुजस्तथाष्टौ ।
आचार्य्यभृग्विन्दुबुधाः क्रमेण
दद्युर्द्दशैकादश सप्त पञ्च ॥”
जीवादिवारे क्षौरं प्रशस्तम् ॥ * ॥ भोजराजः ।
“शिखिसन्निधाने च चूडाकरणं जगुः शुभं यवनाः ।
चैत्रे मासि दिवाकरवारे उत्तरवर्त्मनि सवितरि ॥”
दिवाकरवारविनिर्मोके तु गर्गः ।
“जन्मर्क्षे जन्ममासे च युग्ममासे च वत्सरे ।
न कुर्य्यात् प्रथमं क्षौरं विशेषाच्चैत्रपौषयोः ॥”
ज्येष्ठपुत्त्रकन्ययोस्तु ज्यैष्ठदशाहाभ्यन्तरे चूडा-
निषेधो विवाहप्रकरणे उक्तः । इति ज्योति-
स्तत्त्वम् ॥ * ॥
अपि च । भोजराजः ।
“यो जन्ममासे क्षुरकर्म्म यात्रां
कर्णस्य वेधं कुरुते च मोहात् ।
नूनं स रोगं धनपुत्त्रनाशं
प्राप्नोति मूढो वधबन्धनानि ॥
जातं दिनं दूषयते वशिष्ठ-
श्चाष्टौ च गर्गो यवनो दशाहम् ।
जन्माख्यमासं किल भागुरिश्च
चूडे विवाहे क्षुरकर्णवेधे ॥”
एतद्विषयभेदस्तु राजमार्त्तण्डे ।
“उक्तानि प्रतिषिद्धानि पुनः सम्भावितानि च ।
सापेक्षनिरपेक्षाणि श्रुतिवाक्यानि कोविदैः ॥
सापेक्षनिरपेक्षाणि समर्थासमर्थविषयकाणि ।
क्षुरेति क्षुरकर्म्म ।” इति तिथ्यादितत्त्वम् ॥

क्षौरपव्यं, क्ली, (क्षुरैः पविभिर्वज्रैर्निर्म्मितं निर्वृत्त-

मिव वा गृहम् ।) क्षुरवज्रतुल्यतीक्ष्णदृढगृहम् ।
यथा, श्रीभागवते । ६ । ५ । ८ ।
“नदीमुभयतो वाहां पञ्चपञ्चाद्भुतं गृहम् ।
क्वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयं भ्रमि ॥”
“पञ्चपञ्चानां पञ्चविंशतेः । अद्भुतं गृहम् ।
क्षौरपव्यं क्षुरैः पविभिर्व्वज्रैश्च निर्म्मितमिव
तीक्ष्णं दृढञ्चेत्यर्थः । स्वयं स्वतन्त्रम् । भ्रमि भ्रमण-
स्वभावम् ।” इति तट्टीकायां श्रीधरस्वामी ॥

क्षौरिकः, पुं, (क्षुरकर्म्म क्षुरेण वा कर्म्म करोति ।

यद्वा क्षुरिकर्म्म कार्य्यत्वेनास्त्यस्य । इति ठञ् ।
क्षौरं शिल्पत्वेनास्त्यस्य इति तु ठन् ।)
नापितः । इति शब्दमाला ॥

क्ष्णु, ल तेजने । इति कविकल्पद्रुमः ॥ (अदां-परं-

सकं-सेट् ।) मूर्द्धन्यणकारोपधः । क्षादिः ।
क्ष्णौति खड्गं कर्म्मकारः । इति दुर्गादासः ॥

क्ष्णुतः, त्रि, (क्ष्णु + कर्म्मणि क्तः ।) शाणितः ।

तीक्ष्णीकृतः । इत्यमरः । ३ । १ । ९१ ॥

क्ष्मा, स्त्री, (क्षमते सहते भारं अपराधजनितं

वात्मस्थानां जीवानां चतुर्व्विधानां इति । क्षम्
+ अच् उपधायाः लोपश्च ।) पृथ्वी । इत्य-
मरः । २ । ६७ । ३ ॥ (यथा, भागवते । ७ । ८ । ३३ ।
“द्यौस्तत् सटोत्क्षिप्तविमानसङ्कुला
प्रोत्सर्पत क्ष्मा च पदातिपीडिता ॥”)

क्ष्माजः, पुं, (क्ष्मा पृथ्वी तस्यां तस्याः वा जातवान्

इति । क्ष्मा + जन् + डः ।) मङ्गलग्रहः । इति
ज्योतिषम् ॥

क्ष्मातलं, क्ली, (क्ष्मायाः तलम् ।) भूतलम् ।

(यथा, मार्कण्डेये । २३ । ४७ ।
“यद्दिव्यस्ति क्ष्मातले खेऽन्यतो वा
त्वत्सम्बन्धं त्वत्स्वरैर्व्यञ्जनैश्च ॥”)
पृधिवीमध्यम् । इति केचित् ॥

क्ष्माधृतिः, पुं, (क्ष्मायां पृथ्व्यां धृतिर्धारणा पालनी-

शक्तिर्यस्य ।) काश्मीरदेशीयराजविशेषः । यथा,
राजतरङ्गिण्याम् । ५ । ४८२ ।
पृष्ठ २/२६६
“अथाभ्यषिच्यत क्षिप्रं विप्रैरेत्य यशस्करः ।
क्ष्माधृतिः प्रौढसामर्थ्यः सानुमानिव तोयदैः ॥”

क्ष्मापः, पुं, (क्ष्मां पाति रक्षतीति । क्ष्मा + पा +

कः ।) राजा । यथा, --
“आमयार्त्तिरिपुत्रासक्षुदादौ दृष्टवैकृतान् ।
लब्धोदया ह्रीभयेन क्ष्मापा घ्नन्त्यनुयायिनः ॥”
इति राजतरङ्गिण्याम् । ५ । ३१९ ॥

क्ष्मापालः, पुं, (क्ष्मां पालयतीति । क्ष्मा + पाल् +

णिच् + अण् । क्ष्मायाः पालो वा ।) राजा ।
यथा, राजतरङ्गिण्याम् । ५ । ३२४ ।
“न के लोभं समुत्पाद्य जिह्वया स्निग्धदीर्घया ।
पिपीलिका इव ग्रस्ताः क्ष्मापालैः शल्यकैरिव ॥”

क्ष्माभुक् [ज्,] पुं, (क्ष्मां पृथ्वीं भुनक्ति उप-

भुनक्ति इत्यर्थः । क्ष्मा + भुज् + क्विप् । कुत्वं
त्त ।) राजा । इत्यमरः । २ । ८ । १ ॥ (यथा,
राजतरङ्गिण्याम् । ५ । ५५ ।
“तत्रस्थाः क्ष्माभुजा पृष्टास्तन्निवेदनकारणम् ।
व्यजिज्ञपन् क्षितिन्यस्तजानुप्राञ्जलयस्ततः ॥”)

क्ष्माभृत्, पुं, (क्ष्मां पृथ्वीं बिभर्त्ति । क्ष्मा + भृ +

क्विप् तुगागमश्च ।) राजा । (यथा, पञ्च-
तन्त्रे । १ । १६६ ।
“देशानामुपरि क्ष्माभृदातुराणां चिकित्सकाः ।
बणिजो ग्राहकाणाञ्च मूर्खाणामपि पण्डिताः ॥”)
पर्व्वतः । इत्यमरः । २ । ८ । १ ॥ (यथा, राजेन्द्र-
कर्णपूरे । ६७ ।
“कान्तारेषु च काननेषु च सरित्तीरेषु च
क्ष्माभृता-
मुत्सङ्गेषु च पत्तनेषु च सरिद्भर्त्तुस्तटान्तेषु च ॥”)

क्ष्माय, ई ङ विधूनने । इति कविकल्पदुमः ॥ (भ्वां-

आत्मं-अकं-सेट् ।) पवर्गशेषयुक्तः । क्षादिः ।
विधूननमिति विधून्यतेऽसाविति कर्म्मणि घञि
विधूनः सकम्पः ततो विधून इवाचरतीति कौ
कृते अनटि रूपम् । कम्पनमित्यर्थः । ई, क्ष्मातः ।
ङ, क्ष्मायते वृक्षः । (तथाच, भट्टिः । १४ । २१ ।
“उल्का ददृशिरे दीप्ता रुरुवुश्चाशिवं शिवाः ।
चक्ष्माये च मही रामः शशङ्के चाशुभागमम् ॥”)
क्ष्मायते कम्पते त्वङ्गत्येजतीर्त्ते च वेपते
इति कम्पार्थे भट्टमल्लोऽपि । रमानाथस्तु विधू-
ननशब्दस्येणन्ताद्व्युत्पत्तेः सकर्म्मकोऽयं इति
प्रतीमः । प्रयोगस्त्वन्यथा दृश्यते इत्याह । इति
दुर्गादासः ॥

क्ष्मायितः, त्रि, (क्ष्माय + इतच् ।) कम्पितः ।

इति व्याकरणम् ॥

क्ष्मायिता, [ऋ] त्रि, (क्ष्माय + तृच्प्रत्ययः ।)

कम्पकः । इति व्याकरणम् ॥

क्ष्मील, निमेषे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) निमेषः पक्ष्मभिश्चक्षुष आव-
रणम् । क्ष्मीलति चक्षुः पक्ष्मभिरावृतं स्यादि-
त्यर्थः । इति दुर्गादासः ॥

क्ष्विड, ऌ आ ङ ञि स्नेहे । मोक्षे । इति कवि-

कल्पद्रुमः ॥ (भ्वां-आत्मं-अकं-मोक्षे सकं-सेट् ।)
वकारयुक्तः । ऌ, अक्ष्विडत् । आ, क्ष्विडितं
क्ष्विट्टं तेन । ङ, क्ष्वेडते । ञि, क्ष्विट्टोऽस्ति ।
स्नेहः स्निग्धीभावः । मोक्षे क्ष्वेडते तिलः तैलं
मुञ्चतीत्यर्थः । इति दुर्गादासः ॥

क्ष्विण्णः, त्रि, (क्ष्विद् + क्तः ।) मुक्तः । स्निग्धः ।

इति व्याकरणम् ॥

क्ष्विद, आ ञि कूजने । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-सेट् ।) आ, क्ष्वेदितं क्ष्विण्णं तेन ।
ञि, क्ष्विण्णोऽस्ति । मूर्द्धन्यवर्गतृतीयान्तोऽय-
मित्येके । इति दुर्गादासः ॥

क्ष्विद, इर् य आ मोक्षे । स्नेहे । इति कवि-

कल्पद्रुमः ॥ (दिवां-परं-अकं-मोक्षे तु सकं-
सेट् ।) इर्, अक्ष्विदत् अक्ष्वेदीत् । अस्मात्
पुषादित्वान्नित्यं ङ इत्यन्ये । य, क्ष्विड्यति । आ,
क्ष्वेदितं क्षिण्णं तेन । इति दुर्गादासः ॥

क्ष्विद, ऌ आ ङ ञि मोक्षे । स्नेहे । इति कवि-

कल्पद्रुमः ॥ (भ्वां-आत्मं-सकं-स्नेहे तु अकं-
सेट् ।) एतदाद्यास्त्रयो वकारयुक्ताः क्षाद्याः ।
ऌ, अक्ष्विदत् । आ, क्ष्वेदितं क्ष्विण्णं तेन । ङ,
क्ष्वे दते तिलः तैलं मुञ्चतीर्थः । ञि, क्ष्विण्णो-
ऽस्ति । स्नेहः स्निग्धीभावः । इति दुर्गादासः ॥

क्ष्वेडं, क्ली, (क्ष्विड + घञ् ।) लोहितार्कपर्ण-

फलम् । घोषापुष्पम् । इति मेदिनी । डे । ६ ॥

क्ष्वेडः, पुं, (क्ष्विड + भावादौ धञ् । क्ष्वेडते इति

अच् वा ।) ध्वनिः । कर्णामयः । विषम् । इति
मेदिनी । डे । ५ ॥ (यथा, आनन्दलहर्य्याम् । २९ ।
“करालं यत् क्ष्वेडं कवलितवतः कालकलना
न शम्भोस्तन्मूलं जननि तव ताडाङ्कमहिमा ॥”)
पीतघोषावृक्षः । इति रत्नमाला ॥ * ॥ क्ष्वेड-
रोगस्य निदानादि कर्णरोगशब्दे द्रष्टव्यम् ॥

क्ष्वेडः, त्रि, (क्ष्विड + कर्म्मणि घञ् ।) दुरासदः ।

कुटिलः । इति मेदिनी । डे । ६ ॥

क्ष्वेडनं, क्ली, (क्ष्विड + भावे ल्युट् ।) मोचनम् ।

त्यागः । यथा, महाभारते । ३ । १७८ । २६ ।
“त्रासनं सर्व्वभूतानां कालान्तकयमोपमम् ।
निश्वासक्ष्वे डनादेव भर्त् सयन्तमिव स्थितम् ॥”

क्ष्वेडा, स्त्री, (क्ष्विड + घञ् + टाप् च ।) वंश-

शलाका । सिंहनादः । इति मेदिनी । डे । ५ ॥
(स तु लोकस्य शब्दविशेषः । यथा, वक्रोक्ति-
पञ्चाशिकायाम् । ३६ ।
“एषा सागरसङ्गताभिमततां याता न मे कर्हिचित्
मुग्धे कण्ठभुवं ब्रवीषि मम किं सक्ष्वे डतामीयुषीम् ।
क्ष्वेडाराव इहोचितस्तव गणव्रातैः सह क्रीडतो
युष्मान्नीलगलोऽवतादिति गिरा गौर्य्या कृतो-
ऽनुत्तरः ॥”
“सागरसङ्गतेति । सागरेण समुद्रेण सङ्गता ।
अर्थाद्गङ्गा । उत्तरे तु सेति सर्व्वनामपदम् ।
गरो विषम् । तदाह सक्ष्वेडेति । क्ष्वेडेन विषेण
क्ष्वेडया शब्दविशेषेण च सक्ष्वेडम् । क्ष्वेडं विषम् ।
क्ष्वेडा जनस्य शब्दविशेषः ॥” इति तट्टीका ॥)
कोषातकी । इति राजनिर्घण्टः ॥

क्ष्वेडितं, क्ली, (क्ष्विड् + भावे क्तः ।) सिंहनादः ।

इत्यमरः । ३ । ५ । ३४ ॥ (यथा, महाभारते ।
१ । ६९ । ६ ।
“नानायुधधरैश्चापि नानावेशधरैस्तथा ।
हेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः ।
आसीत् किलकिलाशब्दस्तस्मिन् गच्छति
पार्थिवे ॥”)

क्ष्वेल, ऋ चालगत्योः । इति कविकल्पद्रुमः ॥

(भ्वां-परं-अकं-गतौ तु सकं-सेट् ।) वकार-
युक्तः । क्षादिः । ऋ, अचिक्ष्वेलत् । चालः
कम्पः । चालः कैश्चिन्न मन्यते । इति दुर्गा-
दासः ॥ (क्रीडायामिति केचित् । यथा, रामा-
यणे । ५ । १० । १३ ।
“आस्फोटननिनादांश्च बालानां क्ष्वेलतां तथा ॥”)

क्ष्वेलिका, स्त्री, (क्ष्वेला + स्वार्थे कन् अत इत्वञ्च ।)

क्रीडा । यथा, श्रीभागवते । ५ । ८ । १८ ।
“क्ष्वेलिकायां मां मृषा समाधिना आमीलित-
दृशं प्रेमसंरम्भेण चकितचकित आगत्य पृषद-
परुषविषाणाग्रेण लुठति ।” “सम्भवति चैत-
दित्याह । क्ष्वेलिकायां क्रीडायां मृषा यः
समाधिस्तेनामीलिते दृशौ येन तं मां प्रेम-
संरम्भेण प्रणयकोपेन पृषत्जलबिन्दुस्तद्वदपरु-
षेण विषाणाग्रेण लुठति संघट्टयति ।” इति
तट्टीकायां श्रीधरस्वामी ॥

क्ष्वेली, स्त्री, (क्ष्वेल + गौरादित्वात् ङीष् ।)

क्रीडा । यथा, श्रीभागवते । १० । २९ । ४६ ।
“बाहुप्रसारपरिरम्भकरालकोरु-
नीविस्तनालभननर्म्मनखाग्रपातैः ।
क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणा-
मुत्तम्भयन् रतिपतिं रमयाञ्चकार ॥”
“बाहुप्रसारश्च परिरम्भश्च करालकादीनामा-
लभनं स्पर्शश्च नर्म्म परिहासश्च नखाग्रपातश्च
तैः । क्ष्वेल्या क्रीडया च अवलोकैश्च हसितैश्च
कामं तासां उद्दीपयन् ता रमयामास ।” इति
तट्टीकायां श्रीधरस्वामी ॥ * ॥ अत्र क्ष्वेल्यमिति
प्रमादात् केनचिल्लिखितम् ॥