शब्दकल्पद्रुमः/काशिका

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २/११८

काशिका, स्त्री, (काशि + स्वार्थे कन् टाप् । यद्वा

काशयति ज्ञानं भक्तानां इति । काश + णिच्
+ ण्वुल् टाप् अत इत्वञ्च ।) काशी । इति शब्द-
रत्नावली ॥ (पारिभाषिककाशिकाया लक्षण-
मुक्तं यथा शङ्कराचार्य्येण ।
“मनोनिवृत्तिः परमोपशान्तिः
सा तीर्थवर्य्या मणिकर्णिका वै ।
ज्ञानप्रवाहा विमला हि गङ्गा
सा काशिकाऽहं निजबोधरूपः” ॥ * ॥
वामनकृता पाणिनिवृत्तिः ॥)

काशिकाप्रियः, पुं, (काशिकाप्रिया यस्य । काशि-

कायाः प्रियो वा ।) दिवोदासः । इति शब्दरत्ना-
बली ॥

काशिराजः, पुं, (काश्याः राजा । “राजाहः सखि-

भ्यष्टच्” । ५ । ४ । ९१ इति टच् ।) वाराणसी-
राजः । तत्पर्य्यायः । धन्वन्तरिः २ दिवोदासः
३ सुधोद्भवः ४ । इति त्रिकाण्डशेषः ॥
(यदि च क्रगाण्वयेन तत्र बहवो राजान आसन् ।
तथापि तत्स्थानाधिकारित्वात् यदा योऽधि-
कारी स एव काशिराजः अतो नासाधुप्रयोग
इति मन्यामहे ॥ “अथ खलु भगवन्तममरवर-
मृषिगणपरिवृतमाश्रमस्थं काशिराजं दिवोदासं
धन्वन्तरिमौपधेनव वैतरणौरभ्रपौष्कलावतकर-
वीर्य्यगोपुररक्षितसुश्रुतप्रभृतय ऊचुः” ॥
इति सुश्रुते सूत्रस्थांने १ अः ॥)

काशी, स्त्री, (काशते शिवत्रिशूलोपरि । काशृङ्

दीप्तौ + अच् गौरादित्वात् ङीष् । काश +
इन् ङीप् वा । अथवा काशयति प्रकाशयतीदं
सर्व्वं या । काश् + णिच् अच् गौरादित्वात्
ङीष् ।) स्वनामख्याततीर्थम् । शिवपुरी । तत्प-
र्य्यायः । वाराणसी २ तीर्थराजी ३ तपःस्थली ४ ।
इति जटाधरः ॥ काशिका ५ । इति शब्दरत्ना-
वली ॥ काशिः ६ । इत्युणादिकोषः ॥
अविमुक्तम् ७ आनन्दवनम् ८ आनन्दकाननम् ९
अपुनर्भवभूमिः १० रुद्रावासः ११ महाश्मशानम्
१२ । तस्या उत्पत्तिर्यथा, --
“ततस्तदैकलेनापि स्वैरं विहरता मया ।
स्वविग्रहात् स्वयं सृष्टा स्वशरीरानपायिनी ॥
प्रधानं प्रकृतिं त्वां तु मायां गुणवतीं पराम् ।
बुद्धितत्त्वस्य जननीमाहुर्विकृतिवर्जिताम् ॥
युगपच्च त्वया शक्त्या साकं कालस्वरूपिणा ।
मयाद्य पुरुषेणैतत् क्षेत्रञ्चापि विनिर्म्मितम्” ॥
स्कन्द उवाच ।
सा शक्तिः प्रकृतिः प्रोक्ता स पुमानीश्वरः परः ।
ताभ्याञ्च रममाणाभ्यां तस्मिन् क्षेत्रे घटोद्भव ! ॥
परमानन्दरूपाभ्यां परमानन्दरूपिणि ! ।
पञ्चक्रोशपरीमाणे स्वपादतलनिर्म्मिते ॥
मुने प्रलयकालेऽपि न तत् क्षेत्रं कदाचन ।
विमुक्तं न शिवाभ्यां यदविमुक्तं ततो विदुः ॥
न यदा भूमिवलयं न यदापां समुद्भवः ।
तदा विहर्त्तुमिशेन क्षेत्रमेतत् विनिर्म्मितम् ॥
इति काशीखण्डम् ॥ तत्र कर्त्तव्ययात्राविधानं
यथा, --
सूत उवाच ।
“यात्रापरिक्रमं ब्रूहि जनानां हितकाम्यया ।
यथावत् सिद्विकाप्तानां सत्यवत्याः सुतोत्तम ! ॥
व्यास उवाच ।
निशामय महाप्राज्ञ लोमहर्षण ! वत्र्मि ते ।
यथा प्रथमतो यात्रा कर्त्तव्या यात्रिकैर्मुदा ॥
सचेलमादौ संस्नाय चक्रपुष्करिणीजले ।
सन्तर्प्य देवान् सपितॄन् ब्राह्मणांश्च तपस्विनः ॥
आदित्यं द्रौपदीं विष्णुं दण्डपाणिमहेश्वरम् ।
नमस्कृत्य ततो गच्छेत् द्रष्टुं ढुण्ढिविनायकम् ॥
ज्ञानवापीमुपस्पृश्य नन्दिकेशं ततोऽर्च्चयेत् ।
तारकेशं समभ्यर्च्च्य महाकालेश्वरं ततः ॥
ततः पुनर्दण्डपाणिमित्येषा पञ्चतीर्थिका ।
दैनन्दिनी विधातव्या महाफलमभीप्सुभिः” ॥ * ॥
“ततो वैश्वेश्वरी यात्रा कार्य्या सर्व्वार्थसिद्धये ।
द्विसप्तायतनानाञ्च कार्य्या यात्रा प्रयत्नतः ॥
कृष्णां प्रतिपदं प्राप्य भूतावधि यथाविधि ।
अथवा प्रतिभूतञ्च क्षेत्रशुद्धिमभीप्सुभिः ॥
तत्तत्तीर्थकृतस्नानस्तत्तल्लिङ्गकृतार्च्चनः ।
मौनेन यात्रां कुर्व्वाणः फलं प्राप्नोति यात्रिकः ॥
ओङ्कारं प्रथमं पश्येन्मत्स्योदर्य्यां कृतोदकः ।
त्रिपिष्टपं महादेवं ततो वै कृत्तिवाससम् ॥
रत्नेशञ्चाथ चन्द्रेशं केदारञ्च ततो व्रजेत् ।
धर्म्मेश्वरञ्च वीरेशं गच्छेत् कामेश्वरं ततः ॥
विश्वकर्म्मेश्वरं चाथ मणिकर्णीश्वरं ततः ।
अविमुक्तेश्वरं दृष्ट्वा ततो विश्वेशमर्च्चयेत् ॥
एषा यात्रा प्रयत्नेन कर्त्तव्या क्षेत्रवासिभिः ।
यस्तु क्षेत्रमुषित्वापि नैतां यात्रां समाचरेत् ॥
विघ्नास्तस्योपजायन्ते क्षेत्रोच्चाटनसूचकाः” ॥ * ॥
“अष्टायतनयात्रान्या कर्त्तव्या विघ्नशान्तये ॥
दक्षेशः पार्व्वतीशश्च तथा पशुपतीश्वरः ।
गङ्गेशो नर्म्मदेशश्च गभस्तीशः सतीश्वरः ॥
अष्टमस्तारकेशश्च प्रत्यष्टमि विशेषतः ।
दृश्यान्येतानि लिङ्गानि महापापोपशान्तये” ॥ * ॥
“अपरापि शुभा यात्रा योगक्षेमकरी सदा ।
सर्व्वविघ्नोपहन्त्री च कर्त्तव्या क्षेत्रवासिभिः ॥
शैलेशं प्रथमं वीक्ष्य वरणास्नानपूर्ब्बकम् ।
स्नानन्तु सङ्गमे कृत्वा द्रष्टव्यः सङ्गमेश्वरः ॥
स्वर्नीलतीर्थे सुस्नातः पश्येत् स्वर्नीलमीश्वरम् ।
स्नात्वा मन्दाकिनीतीर्थे द्रष्टव्यो मध्यमेश्वरः ॥
पश्येद्धिरण्यगर्भेशं तत्र तीर्थकृतोदकः ।
पञ्चचूडह्रदे स्नात्वा ज्येष्ठस्थानं ततोऽर्च्चयेत् ॥
चतुःसमुद्रकूपे तु स्नात्वा देवं ततोऽर्च्चयेत् ।
देवस्याग्रे तु या वापी तत्रोपस्पर्शने कृते ॥
शुक्रेश्वरं ततः पश्येत् तत्कूपविहितोदकः ।
दण्डखाते नरः स्नात्वा व्याघ्रेशं पूजयेत्ततः ॥
मौनकेश्वरकुण्डे तु स्नानं कृत्वा ततोऽर्च्चयेत् ।
जम्बुकेशं महालिङ्गं कृत्वा मात्रामिमां नरः ॥
क्वचिन्न जायते भूयः संसारे दुःखसागरे ॥
समारभ्य प्रतिपदं यावत्कृष्णां चतुर्द्दशीम् ॥
एतत्क्रमेण कर्त्तव्यान्येतदायतनानि वै ।
इमां यात्रां नरः कृत्वा न भूयोऽप्यपिजायते” ॥ * ॥
“अन्या यात्रा प्रकर्त्तव्यैकादशायतनोद्भवा ।
अग्नीध्रकुण्डे सुस्नातः पश्येदग्नीध्रमीश्वरम् ॥
उर्व्वशीशं ततो गच्छेत्ततस्तु नकुलीश्वरम् ।
आषाढीशं ततो दृष्ट्वा भारभूतेश्वरं ततः ॥
लाङ्गलीशमथालोक्य ततस्तु त्रिपुरान्तकम् ।
ततो मनःप्रकामेशं प्रीतिकेशमथो व्रजेत् ॥
भदालसेश्वरं तस्मात् तिलपर्णेश्वरं ततः ।
यात्रैकादशलिङ्गानामेषा कार्य्या प्रयत्नतः ॥
इमां यात्रां प्रकुर्व्वाणो रुद्रत्वं प्राप्नुयान्नरः” ॥ * ॥
“अतः परं प्रवक्ष्यामि गौरीयात्रामनुत्तमाम् ॥
शुक्लपक्षतृतीयायां या यात्रा विश्ववृद्धिका ।
गोप्रेक्ष्यतीर्थे सुस्नाय मुखनिर्मालिकां व्रजेत् ॥
ज्येष्ठवाप्यां नरः स्नात्वा ज्येष्ठां गौरों समर्चयेत् ।
सौभाग्यगौरी संपूज्या ज्ञानवाप्यां कृतोदकैः ॥
ततः शृङ्गारगौरीञ्च तत्रैव च कृतोदकः ।
स्नात्वा विशालगङ्गायां विशालाक्षीं ततो व्रजेत् ॥
सुस्नातो ललितातीर्थे ललितां पूलयेत्ततः ।
स्नात्वा भवानीतीर्थे तु भवानीं परिपूजयेत् ॥
मङ्गला च ततोऽभ्यर्च्च्या विन्दुतीर्थकृतोदकैः ।
ततो गच्छेन्महालक्ष्मीं स्थिरलक्ष्मीसमृद्धये ॥
इमां यात्रां नरः कृत्वा क्षेत्रेऽस्मिन् मुक्तिजन्मनि
न दुःखैरभिभूयेत इहामुत्रापि कुत्रचित् ॥
कुर्य्यात् प्रतिचतुर्थोह पूजां विघ्नेशितुः सदा ।
ब्राह्मणेभ्यस्तदुद्देशाद्देया वै सोदका मुदे” ॥ * ॥
“भौमे भैरवयात्रा च कार्य्या पातकहारिणी ।
रविवारे रवेर्यात्रां षष्ठ्यां वा रविसंयुजि ॥
तथैव रविसप्तम्यां सर्व्वविघ्नोपशान्तये ।
नवम्यामथवा षष्ठ्यां चण्डीयात्रा शुभावहा” ॥ * ॥
“अन्तर्गृहस्य यात्रा वै कर्त्तव्या प्रतिवत्सरम् ।
प्रातः स्नानं विधायादौ नत्वा पञ्च विनायकान् ॥
नमस्कृत्याथ विश्वेशं स्थित्वा निर्व्वाणमण्डपे ।
अन्तर्गृहस्य यात्रां हि करिष्येऽघौघशान्तये ॥
गृहीत्वा नियमञ्चेति गत्वाथ मणिकर्णिकाम् ।
स्नात्वा मौनेन चागत्य मणिकर्णीशमर्च्चयेत् ॥
कम्बलाश्वतरौ नत्वा वासुकीशं प्रणम्य च ।
पर्व्वतेशं ततो दृष्ट्वा गङ्गाकेशवमप्यथ ॥
ततस्तु ललितां दृष्ट्वा जरासन्धेश्वरं ततः ।
ततो वै सोमनाथञ्च वराहञ्च ततो व्रजेत् ॥
ब्रह्मेश्वरं ततो नत्वा नत्वागस्तीश्वरं ततः ।
कश्यपेशं नमस्कृत्य हरिकेशवनन्ततः ॥
वैद्यनाथं ततो गत्या ध्रुवेशमथ वीक्ष्य च ।
गोकर्णेशं ततोऽभ्यर्च्च्य हाटकेशमथो व्रजेत् ॥
अस्थिक्षेपतडागञ्च दृष्ट्वा वै कीकशेश्वरम् ।
भारभूतं ततो नत्वा चित्रगुप्तेश्वरं ततः ॥
चित्रघण्टां प्रणम्याथ ततः पशुपतीश्वरम् ।
पितामहेश्वरं गत्वा ततस्तु कलसेश्वरम् ॥
चन्द्रेशस्त्वथ वीरेशो विघ्नेशोऽग्नीश एव च ।
नागेश्वरो हरिश्चन्द्रश्चिन्तामणिविनायकः ॥
सेनाविनायकश्चाथ द्रष्टव्यः सर्व्वविघ्नहत् ।
पृष्ठ २/११९
वशिष्ठवामदेवौ च मूर्त्तिरूपधरावुभौ ॥
द्रष्ठव्यौ यत्नतः काश्यां महाविघ्नविनाशनौ ।
सीमाविनायकं नाथं करुणेशं ततो व्रजेत् ॥
त्रिसन्ध्येशो विशालाक्षी धर्म्मेशो विश्वबाहुका ।
आशाविनायकश्चाथ वृद्धादित्यस्ततः पुनः ॥
चतुर्व्वक्त्रेश्वरं लिङ्गं ब्रह्मेशस्तु ततः परम् ।
ततो भनःप्रकामेश ईशानेशस्ततः परम् ॥
चण्डीचण्डेश्वरौ दृश्यौ भवानीशङ्करौ ततः ।
ढुण्ढिं प्रणम्य च ततो राजराजेशमर्च्चयेत् ॥
लाङ्गलीशन्ततोऽभ्यर्च्च्य ततस्तु नकुलीश्वरम् ।
परान्नेशमथो नत्वा परद्रव्येश्वरं ततः ॥
प्रतिग्रहेश्वरञ्चापि निष्कलङ्केशमेव च ।
मार्कण्डेयेशमभ्यर्च्च्य ततश्चाप्सरसेश्वरम् ॥
गङ्गेशोऽर्च्च्यस्ततो ज्ञानवाप्यां स्नानं समाचरेत्
नन्दिकेशं तारकेशं महाकालेश्वरं ततः ॥
दण्डपाणिं महेशञ्च मोक्षेशं प्रणमेत्ततः ।
वीरभद्रेश्वरं नत्वा अविमुक्तेश्वरं ततः ॥
विनायकांस्ततः पञ्च विश्वनाथं ततो व्रजेत् ।
ततो मौनं विसृज्याथ मन्त्रमेनमुदीरयेत् ॥
अन्तर्गृहस्य यात्रेयं यथावत् या मया कृता ।
न्यूनातिरिक्तया शम्भुः प्रीयतामनया विभुः ॥
इति मन्त्रं समुच्चार्य्य क्षणं वै मुक्तिमण्डपे ।
विश्राम्य यायात् भवनं निष्पापः पुण्यवान्नरः” ॥ *
“संप्राप्य वासरं विष्णोर्विष्णुतीर्थेषु सर्व्वतः ।
कार्य्या यात्रा प्रयत्नेन महापुण्यसमृद्धये ॥
नमस्यपञ्चदश्याञ्च कुलस्तम्भं समर्च्चयेत् ।
दुःखं रुद्रपिशाचत्वं न भवेद्यस्य पूजनात् ॥
श्रद्धापूर्ब्बमिमा यात्राः कर्त्तव्याः क्षेत्रवासिभिः ।
पर्व्वखपि विशेषेण कार्य्या यात्राश्च सर्व्वतः ॥
न वन्ध्यं दिवसं कुर्य्याद्विना यात्रां क्वचित् कृती ।
यात्राद्वयं प्रयत्नेन कर्त्तव्यं प्रतिवासरम् ॥
आदौ स्वर्गतरङ्गिण्यास्ततो विश्वेशितुर्ध्रुवम् ।
यस्य वन्ध्यं दिनं यातं काश्यां निवसतः सतः ॥
निराशाः पितरस्तस्य तस्मिन्नेव दिने भवेत् ।
स दष्टः कालसर्पेण स दष्टो मृत्युना स्फुटम् ॥
स मुष्टस्तत्र दिवसे विश्वेशो यत्र नेक्षितः ।
सर्व्वतीर्थेषु सस्नौ स सर्व्वयात्रा व्यधात् स च ॥
मणिकर्ण्यान्तु यः स्नातो यो विश्वेशं निरैक्षत ।
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः ॥
दृश्यो विश्वेश्वरो नित्यं स्नातव्या मणिकर्णिका” ॥
इति श्रीस्कन्दपुराणे काशीखण्डे १०० अध्यायः ॥
(चिच्छक्तिः । सुषुम्नाख्या नाडी च । अन्या
नाडी चिद्भासया सम्यगाभासिता सती प्रकाशते
अतएव इयं हि ब्रह्मप्रकाशरूपिणी चिन्मयी
ज्ञानप्रकाशकतया अस्यास्तथात्वं वेदतन्त्रादि-
ज्ञानप्रतिपादकशास्त्रैः सुषुम्नाया एव ब्रह्मनाडीत्वं
प्रतिपादितं तथा सर्व्वप्रकाशकतया चिच्छक्तेरेव
स्वरूपकाशीत्वं विज्ञाप्यते यथा, --
“ययेदं काश्यते सर्व्वं सा काशी परिकीर्त्यते” ॥
यदि चिच्छक्तिरेव काश्याः स्वरूपार्थवाचिका
तर्हि तस्या वाराणसीत्याख्यायां कागतिरिति
संशयश्चेत् ततोऽवधीयताम् ।
“तदिदं मन्ये देवानां देवयजनं सर्व्वेषां भूतानां
ब्रह्मसदनं अत्र हि जन्तोः प्राणैरुत्क्रममाणस्य
रुद्रस्तारकं ब्रह्म व्याचष्टेयेनासावमृतीभूत्वा मोक्षी
भवति तस्मादविमुक्तमेव निषेवेत अविमुक्तं न
विमुञ्चेदेवमेवैतद्याज्ञवतक्यः । अथहैनमत्रिः
पप्रच्छ याज्ञवल्क्यं । य एषोऽनन्तोऽव्यक्त आत्मा
कथमहमिमं विजानीयामिति सोऽविमुक्त उपास्य
इति सोऽविमुक्तः कस्मिन् प्रतिष्ठित इति वरणा-
यामस्याञ्च प्रतिष्ठित इति का च वरणा भवति
का चासिर्भवतिं । सर्व्वान् इन्द्रियकृतान् दोषान्
वारयतितेन वरणा भवति सर्व्वाणि इन्द्रियकृतानि
पापानि अस्यति तेनासि र्भवति कतममस्याः
स्थानं भवति इति भ्रुवोर्घ्राणस्योभयसन्धिः स द्यौ-
र्लोकस्य परस्य च सन्धिर्भवति । एवमेवैनं सन्धिं
सन्ध्यां ब्रह्मविद उपासते कोऽसौ रुद्र इति रुद्र-
स्तापत्रयात्मकं संसारदुःखं तद्धेतुर्वा तत्सर्व्वं द्राव-
यति शरणागतानामुपासकानामिति अतएव चि-
च्छक्तिमयः सर्व्वज्ञः परमेश्वर एव रुद्रः । तथा हि
“एको रुद्रो न द्वितीयायावतस्थुः” ॥ इति श्रीश्री-
मद्भगवत्पूज्यपादपरमहंसपरिव्राजकाचार्य्यसुरे-
श्वरसूरिप्रणीतकाशीमुक्तिविवेकः ॥)
काशतृणम् । इत्यमरटीकायां भरतः ॥ (मुष्टिः ।
इति निरुक्तिः ॥)

काशी, [न्] त्रि, (काशोऽस्यास्ति इति । इनिः ।

काशरोगयुक्तः । इति राजवल्लभः ॥ (काशते
इति काश णिनिः । प्रकाशशीलः ॥)

काशीनाथः, पुं, (काश्याः नाथः ।) शिवः । इति

शब्दरत्नावली ॥ (यथा काशीखण्डे, --
“काशीनाथं समाश्रित्य कुतः कालभयं नृणाम्” ॥)

काशीराजः, पुं, (काश्याः काशीप्रदेशस्य राजा ।

“राजाहः सखिभ्यष्टच्” । ५ । ७ । ९१ । इति
टच् ।) दिवोदासः । इति शब्दरत्नावली ॥ (अयं
हि योगरूढ्यर्थः । यौगिकार्थेन तु सर्व्वस्मिन्नेव
काशीदेशाधिकारिणि प्रयोगो दृश्यते ।
यथा गीतायाम् १ । ५ ।
“धृष्टकेतुश्चेकितानः काशीराजश्च वीर्य्यवान्” ॥)

काशीशं, क्ली, (कुत्सितं ईषत् वा शीशमिव । कोः

कादेशः । काशिं दीप्तिं इष्टे इति केचित् ।
ईश् + कः ।) उपधातुविशेष । हिराकसी इति
भाषा । तत् द्विविधम् । धातुकाशीशम् १ । तत्
हरिद्वर्णं लोहितञ्च । पुष्पकाशीशम् २ । तत्-
शुक्लवर्णं कृष्णञ्च । इति रत्नमाला ॥
(अस्य पर्य्याया गुणाश्च यथा, --
“काशीशं धातुकाशीशं पाशुकाशीशमित्यपि ।
तदेव किञ्चित् पीतन्तु पुष्पकाशीशमुच्यते ॥
काशीशमम्लमुष्णञ्च तिक्तञ्च तुवरन्तथा ।
वातश्लेष्महरङ्केश्यं नेत्रकण्डूविषप्रणुत् ॥
मूत्रकृच्छ्राश्मरीश्वित्रनाशनं परिकीर्त्तितम्” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
द्विदन्त्यसकारोऽपि पाठः ॥ (काशीदेशाधिपतौ
शिवे च पुं ॥)

काश्मरी, स्त्री, (काशते इति । “अनेभ्योऽपि” । ३ ।

२ । ७५ । इति वनिप् “वनोरच” । ४ । १ । ७ ।
इति ङीव्रौ । पृषोदरात् वस्य मत्वम् ।) गम्भारी-
वृक्षः । इत्यमरः । २ । ४ । ३५ ॥ (अस्याः पर्य्याया
यथा, --
“गम्भारी भद्रपर्णी च श्रीपर्णी मधुपर्णिका ॥
काश्मीरी काश्मरी हीरा काश्मर्य्यः पीतरोहिणी ।
कृष्णवृन्ता मधुरसा महाकुसुमिकापि च” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ गुणा-
श्चास्या यथात्रैव ॥
“काश्मरी तु वरा तिक्ता वीर्य्योष्णा मधुरा गुरुः ।
दीपनी पाचनी मेध्या भेदिनी भ्रमशोषजित् ॥
दोषतृष्णाऽमशूलार्शोविषदाहज्वरापहा ।
तत्फलं वृंहणं वृष्यं गुरुकेश्यं रसायनम् ॥
वातपित्ततृषारक्तक्षयमूत्रविवन्धनुत् ।
स्वादु पाके हिमं स्निग्धं तुवराम्लविशुद्धिकृत् ॥
हन्याद्दाहतृषावातरक्तपित्तक्षयान् तथा” ॥ * ॥
यथा, महाभारते ३ । १५८ । ४४ ।
“विल्वान् कपित्थान् जम्बूंश्च काश्मरीर्बदरीस्तथा” ॥)

काश्मर्य्यः, पुं, (काश्मरीति शब्दोऽस्त्यस्य अस्मिन् वा ।

अन्येभ्योपीति यप् । स्वार्थे ष्यञ् इति केचित् ।)
गम्भारी । इत्यमरः । २ । ४ । ३६ ॥ क्लीवलिङ्गो-
ऽप्ययम् । इति भरतः ॥
(“हृद्यं मूत्रविवन्धघ्नं पित्तासृग्वातनाशनम् ।
केश्यं रसायनं मेध्यं काश्मर्य्यं फलमुच्यते” ॥
इति सुश्रुते सूत्रस्थाने । ४६ अध्यायः ॥)

काश्मीरं, क्ली, (कश्मीरे काश्मीरे वा भवं “कच्छा-

दिभ्यश्च” । ४ । २ । १३३ । इति अण् ।) पुष्कर-
मूलम् । इत्यमरः । २ । ४ । १४५ ॥ टङ्कः । कु-
ङ्कुमम् । इति मेदिनी ॥ (शोधनमस्य यथा, --
“काश्मीरञ्चापि सर्पिषा” ॥
इति वैद्यकचक्रपाणिसंग्रहे वातव्याध्यधिकारे ॥)

काश्मीरः, पुं, (कश्मीर एव स्वार्थे अण् । काश्मीर

इति नाम्नाख्यायते वा ।) स्वनामख्यातदेशः ।
इति जटाधरः । (उक्तञ्च शक्तिसङ्गमतन्त्रे ।
“शारदामठमारभ्य कुङ्कुमाद्रितटान्तकम् ।
तावत्काश्मीरदेशः स्यात्पञ्चाशत्योजनात्मकः” ॥
अत्र कपिलेश्वरनामा महादेवो वर्त्तते शि-
वनामकीर्त्तणे “काश्मीरे कपिलेश्वरः” ॥ इति
वचनात् ॥ (यथा गोः रामायणे ४ । ४३ । २२ ।
“काश्मीरमण्डलं चैव शमीपीलुवनानि च
पुराणि च सशैलानि विचिन्वन्तु वनौकसः” ॥
तद्देशवासिनि त्रि । यथा, महाभारते ६ । ९ । ५३ ।
‘काश्मीराः सिन्धुसौवीरा गन्धारा दर्शकास्तथा’ ॥)

काश्मीरजं, क्ली, (काश्मीरे जायते । जन + “सप्त-

म्यां जनेर्डः” । ३ । २ । ९७ । इति डः ।) कुष्ठम् ।
कुङ्कुमम् । इति मेदिनी ॥ पुष्करमूलम् । इति
विश्वः ॥ (गुणाः पर्य्यायाश्चास्य कुष्ठशब्देकुङ्कुमशब्दे
च ज्ञातव्याः ॥)

काश्मीरजन्म, [न्] क्ली, (काश्मीरे जन्म यस्य तत् ।)

कुङ्कमम् । इत्यमरः । २ । ६ । १२ ॥

काश्मीरा, स्त्री, (काश्मीरे भवः । “तत्र भवः” । ४ ।

३ । ५३ । इत्यण् । काश्मिरदेश उत्पात्तस्थानत्व-
पृष्ठ २/१२०
नास्ति अस्याः । अच् टाप् च इति केचित् ।)
अतिविषा । इति मेदिनी ॥ कपिलद्राक्षा । इति
राजनिर्घण्टः ॥

काश्मीरी, स्त्री, (काश्मीरदेशे भवः । “तत्र भवः” ।

४ । ३ । ५३ । इत्यण् । स्त्रियां ङीप् ।) गम्भारी ।
इति भावप्रकाशः ॥ (अस्याः पर्य्यायगुणाः काश्म-
रीशब्दे ज्ञेयाः ॥)

काश्यं, क्ली, (कुत्सितं आश्यं यत्र । कं जलं आश्यं वा

यत्र । (मद्यम् । इति राजनिर्घण्टः ॥) नृपविशेषेपुं ।
यथा महाभारते १ । १०२ । ४९ ।
“अक्षतः क्षययित्वारीन् संख्येऽसंख्येयविक्रमः ।
आनयामास काश्यस्य सुताः सागरगासुतः” ॥)

काश्यपं, क्ली, (काश्यं मद्यं पिबत्यत्र । पा + घञ्र्थे

कः । मांसस्य हि मद्यपानाङ्गत्वेन प्रसिद्धेस्तथा-
त्वम् ।) मांसम् । इति हेमचन्दः ॥

काश्यपः, पुं, (कश्यपस्य गोत्रापत्यम् । विदाद्यञ् ।)

कणादभुनिः । इति त्रिकाण्डशेषः ॥ मृगभेदः ॥
इति मेदिनी ॥ गोत्रविशेषः । तत्प्रवरान्तर्गत-
मुनिविशेषः । इति स्मृतिः ॥ कश्यपस्यापत्य-
मात्रञ्च ॥ (विभाण्डकमुन्यर्थे यथा, भहाभारते
३ । १११ । २० ।
“स्वाध्यायवान् वृत्तसमाधियुक्तो
विभाण्डकः काश्यपः प्रादुरासीत्” ॥ * ॥
स्वनामख्यातो द्विजविशेषः । अयं हि विष-
विद्यापारदर्शी । अस्य विवरणमुच्यते ।
यदा शमीकपुत्त्रेण शृङ्गिणा ‘स कौरवाधमः
सप्तमेऽहनि सर्पराजेन तक्षकेन दष्टो यमसदनं
गमिष्यतीति’ शप्तः परीक्षित्, तदा राज्ञ एतच्छाप-
वृत्तान्तमाकर्ण्यासौ काश्यपो नाम ब्राह्मणः राजानं
परीक्षितं तक्षकविषात् रक्षितुं धनार्थी हस्तिना-
पुरमुद्दिश्य प्रस्थितः । गच्छन्तमेनं पथि तक्षको
दृष्टवानाह च को भवान् कुत्र वा गच्छति । अथ
तक्षकेनैवमुक्तोऽसौ काश्यपः सर्व्वं निवेदयामास ।
एवमुक्तवति तु काश्यपे तक्षकस्तस्य विद्याप्रभावं
दिदृक्षुः सम्मुखस्थमेकं न्यग्रोधं अदशत् । दष्टो
वृक्षस्तु प्रचण्डविषतेजसा क्षणात् प्रजज्वाल ।
एवम्भूतेऽसौ काश्यपः स्वविद्याप्रभावं विज्ञापयितु-
कामो न्यग्रोधभस्मकणामादाय तरसा मन्त्रबलेन
पुनर्वनस्पतिं जीवयामास । अथ नागराजस्तक्षक
एतदालोक्य सविस्मयस्तस्मै प्रभूतधनं दत्त्वा
विसर्जयामास ॥ एतद्विवरणन्तु महाभारते १ ।
४३ । अध्याये द्रष्टव्यम् ॥)

काश्यपिः, पुं, (कश्यपस्यापत्यं बाहुलकात् इञ् ।)

अरुणः । “काश्यपिर्गरुडाग्रजः” । इत्यमरः १ । ३ ।
३२ ॥ गरुडः । इति हेमचन्द्रः ॥ (महाभारते
१ पर्व्वणि तयोरुत्पत्तिविवरणम् । यथा, --
“एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा ।
विनता नाम कल्याणी पुत्त्रकामा यशस्विनी ॥
तपस्तप्ता व्रतपरा स्नाता पुंसवने शुचिः ।
उपचक्राम भर्त्तारं तामुवाचाथ कश्यपः ॥
आरम्भः सफलो देवि ! भविता यस्त्वयेप्सितः ।
जनयिष्यसि पुत्त्रौ द्वौ घीरौ त्रिभुवनेश्वरौ ।
तपसा वालिखिल्यानां मम सङ्कल्पजौ तथा” ॥)

काश्यपी, स्त्री, (कश्यपस्येयं । “तस्येदम्” । ४ । ३ ।

१२० । इत्यण् स्त्रियां ङीप् ।) पृथिवी । इत्य-
मरः । २ । १ । २ ॥
(“अथागम्य महाराज ! नमस्कृत्य च कश्यपम् ।
पृथिवी काश्यपी जज्ञे सुता तस्य मद्दात्मनः” ॥
इति महाभारते ॥ दानधर्म्मे । १३ । १५४ । ७ ॥
प्रजा । एतद्विषयकप्रमाणं कूर्म्मशब्दे द्रष्टव्यम् ॥)

काश्यपेयः, पुं, (कश्यपस्येयम् । कश्यप + अण् ङीप् च

कश्यपी कश्यपपत्नी अदितिः । तत्र भवः इति
ढक् ।) सूर्य्यः । इति शब्दरत्नावली ॥ (यथा,
“जवाकुसुमसङ्काशं काश्यपेयं महाद्युतिम् ।
ध्वान्तारिं सर्व्वपापघ्नं प्रणतोऽस्मि दिवाकरम्” ॥
इति सूर्य्यप्रणामः ॥ देवमात्रं । कश्यपीसुतत्वात् ॥)

काश्वरी, स्त्री, (काश + वनिप् “वनोरच” । ४ । १ । ७

इति ङीप् रश्च । जातौ ङीष् वा ।) का-
श्मरी । इति भरतो द्विरूपकोषश्च ॥

काष्ठं, क्ली, (काशते दीप्यते काशत्यनेन वा । काश

+ “हनिकुषीत्यादिना” उणां । २ । २ । क्थन् ।
व्रश्चेति षत्वम् तितुत्रेति नेट् ।) दारु । इत्यमरः ।
२ । ४ । १३ ॥ काठ् इति भाषा । (उक्तञ्च ।
“संसारमतिशुष्कं यत् मुष्टिमध्ये समेष्यति ।
तत्काष्ठं काष्ठमित्याहुः खदिरादिससुद्भवम्” ॥)

काष्ठकं, क्ली, (काष्ठं सत्कायति । काष्ठ + कै + कः

केचित्तुकाष्ठं विद्यतेऽस्य नडादित्वात् च्छः कुक्
च विल्वकादित्वात् च्छमात्रस्य लुक् । प्रशस्तका-
ष्ठत्वात् अस्य तथात्वं ।) अगुरु । इति राजनिर्घण्टः ॥

काष्ठकदली, स्त्री, (काष्ठवत् कठिना कदली ।)

कदलीभेदः । काट्कला इति भाषा । तत्पर्य्यायः ।
सुकाष्ठा २ वनकदली ३ काष्ठिका ४ शिलारम्भा
५ दारुकदली ६ फलाढ्या ७ वनभोचा ८ अश्म-
कदली ९ । अस्या गुणाः । रुचिकारित्वम् । रक्त-
पित्तनाशित्वम् । हिमत्वम् । गुरुत्वम् । मन्दाग्नि-
जनकत्वम् । दुर्ज्जरत्वम् । मधुरत्वम् । हितत्वञ्च ।
इति राजनिर्घण्टः ॥

काष्ठकीटः, पुं, (काष्ठे जातः कीटः । काष्ठलेखकः

कीटो वा ।) घुणः । इति हेमचन्द्रः ॥

काष्ठकुट्टः, पुं, (काष्ठं कुट्टतीति । कुट्ट + अण् ।) पक्षि-

विशेषः । काट्ठोकरा इति भाषा । तत्पर्य्यायः ।
शतच्छदः २ । इति त्रिकाण्डशेषः ॥

काष्ठकुद्दालः, पुं, (कुं मलं उद्दालयति विदारयति

निपातनात् साधुः । काष्ठस्य कुद्दालः काष्ठेन
निर्म्मितः काष्ठमयः कुद्दालो वा ।) नौकादेर्मला-
पनयनार्थं काष्ठघटितकुद्दालः । तत्पर्य्यायः । अ-
वभ्रिः २ । इत्यमरः ॥

काष्ठजम्बूः, स्त्री, (काष्ठप्रधाना जम्बूः ।) भूमिजम्बूः ।

इति राजनिर्घण्टः ॥

काष्ठतक्षकः, पुं, (काष्ठं तक्षति । काष्ठ + तक्ष +

ण्वुल् ।) काष्ठतट् । इति शब्दरत्नावली ॥

काष्ठतट्, [क्ष] पुं, (काष्ठं तक्षति । तक्षू तनूकरणे

क्विप् ।) वर्णसङ्करजातिविशेषः । छुतार इति
भाषा । तत्पर्य्यायः । तक्षा २ बर्द्धकिः ३ त्वष्टा ४
रथकारः । ५ । इत्यमरः । २ । १० । ९ ॥

काष्ठतन्तुः, पुं, (काष्ठे तन्तुरिव विस्तृततयावस्थित-

त्वात् ।) काष्ठकृमिः । तत्पर्य्यायः । कोषकारः २ ।
इति हारावली ॥

काष्ठदारुः, पुं, (काष्ठं दारुसंज्ञकं । काष्ठप्रधानो दारु-

रिति केचित् ।) देवकाष्ठम् । इति राजनिर्घण्टः ॥

काष्ठद्रुः, पुं, (काष्ठप्रधानो द्रुर्वृक्षः ।) । पलाशवृक्षः ।

इति राजनिर्घण्टः ॥

काष्ठधात्रीफलं, क्ली, (काष्ठमिव शुष्कं धात्रीफलम् ।)

आमलकम् । इति राजनिर्घण्टः ॥

काष्ठपाटला, स्त्री, (काष्ठवत् कठिना पाटला ।)

सितपाटलिका । इति राजनिर्घण्टः ॥ (अस्याः
पर्य्याया यथा ॥ “अपरा स्यात्पाटला सिता ।
मुष्कको मोक्षको घण्टा पाटलिः काष्ठपाटला” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे १ म भागे ॥)

काष्ठमठी, स्त्री, (काष्ठरचिता मठीव ।) चिता ।

इति त्रिकाण्डशेषः ॥

काष्ठमल्लः, पुं, (काष्ठं मल्लः वाहक इव यत्र ।) शव-

यानम् । इति हारावली ॥

काष्ठलेखकः, पुं, (काष्ठं लिखति । कर्त्तनेन लेखना-

कारं करोतीति । लिख + ण्वुल् ।) घुणः । इति
हारावली ॥

काष्ठलोही, [न्] पुं, (काष्ठेन युक्तं लोहं विद्यते

यत्र । यद्वा काष्ठं च लोहं च ते स्तोऽत्र । इनिः ।)
लौहयुक्तमुद्गरः । तत्पर्य्यायः । वातर्द्दिः २ । इति
त्रिकाण्डशेषः ॥

काष्ठवल्लिका, स्त्री, (काष्ठवत् शुष्का वल्लिका ।)

कटुका । इति वैद्यकम् ॥ (कट्वीशब्देऽस्या गुणा-
दयो बोद्धव्याः ॥)

काष्ठशारिवा, स्त्री, (काष्ठमिव शुष्का शारिवा ।)

शारिवा । इति राजनिर्घण्टः । अनन्तमूल इति
भाषा ॥

काष्ठा, स्त्री, (काशते प्रकाशते । काश् दीप्तौ ।

“हनिकुषिनीरमिकाशिभ्यःक्थन्” । उणां २ । २ ।
इति क्थन् । व्रश्चेति षत्वं ततः टाप् ।) दिक् ।
(यथा, माघे ११ । १२ ।
“स्फुरति विशदमेषा पूर्ब्बकाष्ठाङ्गनायाः” ॥)
स्थितिः । सीमा । उत्कर्षः । (यथा, कठश्रुतौ ।
“इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः ॥
महतः परमव्यक्तं अव्यक्तात् पुरुषः परः ।
पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः” ॥
अष्टादशनिमेषात्मककालः । इत्यमरः । १ । ४ । ११ ॥
(यथा मनुः १ । ६४ ।
“निमेषा दश चाष्टौ च काष्टा त्रिंशत्तु ताः कला” ॥
विष्णुपुराणमते पञ्चदशनिमेषात्मकः कालः ।
यदुक्तं, तत्रैव १ । ३ । ७ ।
“काष्ठा पञ्चदश ख्याता निमेषा मुनिसत्तम ! ॥)
दारुहरिद्रा । इति मेदिनी ॥ (कश्यपपत्नीभेदः ।
यथा, भागवते ६ । ६ । २५ ।
“अदितिर्दितिर्दनुः काष्ठा अरिष्टा सुरसा इला” ॥)

काष्ठाम्बुवाहिनी, स्त्री, (अम्बूनां जलानां वाहिनी

पृष्ठ २/१२१
अम्बुवाहिनी । काष्ठेन निर्म्मिता काष्ठस्य वा
अम्बुवाहिनी ।) काष्ठादिकृतच्छिन्नाग्रनौकाकृति
जलसेचनी । सेओत् इति भाषा । तत्पर्य्यायः ।
द्रोणी २ । इत्यमरः । १ । १० । ११ ॥

काष्ठीलः, पुं, (काष्ठिना इल्यते क्षिप्यते इति ।

काष्ठि + इल् क्षेपणे + कर्म्मणि घञ् ।) राजार्कः ।
इति राजनिर्घण्टः ॥

काष्ठीला, स्त्री, (कुत्सिता ईषद्वा अष्टीलेव । क्षुद्रा-

ष्ठीलेव इति वा ।) कदलीवृक्षः । इत्यमरः ।
२ । ४ । ११३ ॥

कास, ऋ ङ कुशब्दे । इति कविकल्पद्रुमः ॥ (भ्वां--

आत्मं-अकं-सेट्-ऋदित् ।) कुशब्द इह रोग
हेतुककुत्सितशब्दः । ऋ अचकासत् । ङ कासते
वृद्धः । इति दुर्गादासः ॥

कासः, पुं, (कासतेऽनेन । कासृ शब्दकुत्सनयोः ।

“हलश्च” ३ । ३ । १२१ । इति घञ् ।) रोगविशेषः ।
कासी इति भाषा । तत्पर्य्यायः । क्षवथुः २ ।
इत्यमरः । २ । ६ । ५२ ॥ तस्य निदानं यथा, --
“धूमोपघाताद्रजसस्तथैव
व्यायामरूक्षान्ननिषेवणाच्च ।
विमार्गगत्वाच्च हि भोजनस्य
वेगावरोधात् क्षवथोस्तथैव” ॥
सम्प्राप्तिर्यया । “प्राणो ह्युदानानुगतः प्रदुष्टः” ॥
लक्षणं यथा ।
“संभिन्नकांस्यस्वनतुल्यघोषः ।
निरेति वक्त्रात् सहसा सदोषो
मनीषिभिः कास इति प्रदिष्टः” ॥
स च पञ्चविधो यथा, --
“पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः ।
क्षयायोपेक्षिताः सर्व्वे बलिनश्चोत्तरोत्तरम्” ॥
तेषां पूर्ब्बरूपं यथा, --
“पूर्ब्बरूपं भवेत्तेषां शूकपूर्णगलास्यता ।
कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते” ॥
वातिको यथा, --
“हृच्छङ्खमूर्द्धोदरपार्श्वशूली
क्षामाननः क्षीणबलस्वरौजाः ।
प्रसक्तदेगस्तु समीरणेन
भिन्नस्वरः कासति शुष्कमेव” ॥
पैत्तिको यथा, --
“उरोविदाहज्वरवक्त्रशोषै-
रभ्यर्द्दितस्तिक्तमुखस्तृषार्त्तः ।
पित्तेन पीतानि वमेत् कटूनि
कासेत् सपाण्डुः परिदह्यमानः” ॥
श्लैष्मिको यथा, --
“प्रलिप्यमानेन मुखेन सीदन्
शिरोरुजार्त्तः कफपूर्णदेहः ।
अमक्तरुग्गौरवसादयुक्तः
कासेद्भृशं सान्द्रकफः कफेन” ॥
क्षतजो यथा, --
“अतिव्यवायभाराध्वयुद्धाश्वगजविग्रहैः ।
रूक्षस्योरः क्षतं वायुर्गृहीत्वा कासमावहेत् ॥
स पूर्ब्बं कासते शुष्कं ततः ष्ठीवेत् सशोणितम् ।
कण्ठेन रुजतात्यर्थं विरुग्नेनेव चोरसा ॥
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना ।
दुःखस्पर्शेन शूलेन भेदपीडाभितापिना ॥
पर्व्वभेदज्वरश्वासतृष्णावैस्वर्य्यपीडितः ।
पारावत इवाकूजन् कासवेगात् क्षतोद्भवात्” ॥
क्षयजो यथा, --
“विषमासात्म्यभोज्यातिव्यवायाद्वेगनिग्रहात् ।
घृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः ।
कुपिताः क्षयजं कासं कुर्य्युर्द्देहक्षयप्रदम् ॥
सगात्रशूलज्वरदाहमोहान्
प्राणक्षयञ्चोपलभेत कासी ॥
शुष्यन् विनिष्ठीवति दुर्ब्बलस्तु
प्रक्षीणमांसो रुधिरं सपूयम् ।
तं सर्व्वलिङ्गं भृशदुश्चिकित्स्यं
चिकित्सितज्ञाः क्षयजं वदन्ति ॥
इत्येषः क्षयजः कासः क्षीणानां देहनाशनः ।
साध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः ॥
नवौ कदाचित् सिध्येतामपि पादगुणान्वितौ ।
स्थविराणां जराकासः सर्व्वो याप्यः प्रकीर्त्तितः ।
त्रीन् पूर्ब्बान् साधयेत् साध्यान् पथ्यैर्य्याप्यांस्तु याप
येत्” ॥ इति माधवकरः ॥ * ॥
(“आशुकारी यतः कासस्तमेवातः प्रवक्ष्यति” ॥
अस्य प्राग्रूपसहितासंप्राप्ती रूपाणि च यथा ॥
“तेषां भविष्यतां रूपं कण्ठे कण्डूररोचकः ॥
शूकपूर्णाभकण्ठत्वं, तत्राधो विहतोऽनिलः ।
ऊर्द्ध्वं प्रवृत्तः प्राप्योरस्तस्मिन् कण्ठे च संसजन् ॥
शिरः स्रोतांसि संपूर्य्य ततोऽङ्गान्युत्क्षिपन्निव ।
क्षिपन्निवाक्षिणी पृष्ठमुरः पार्श्वे च पीडयन् ॥
प्रवर्त्तते सवक्त्रेण भिन्नकांस्योपमध्वनिः ।
हेतुभेदात् प्रतीघातभेदो वायोः सरंहसः ॥
यद्रुजा शब्दवैषम्यं कासानां जायते ततः ।
कुपितो वातलैर्वातः शुष्कोरःकण्ठवक्त्रताम् ॥
हृत्पार्श्वोरःशिरःशूलं मोहक्षोभस्वरक्षयान् ।
करोति शुष्कं कासञ्च महावेगरुजास्वनम् ॥
सोऽङ्गहर्षो कफं शुष्कं कृच्छ्रान्मुक्त्वाल्पतां व्रजेत् ।
पित्तात् पीताक्षि कफता तिक्तास्यत्वं ज्वरोभ्रमः ॥
पित्तासृग्वमनंतृष्णा वैस्वर्य्यं धूमको मदः ।
प्रततं कासवेगेन ज्योतिषामिव दर्शनम् ॥
कफादुरोऽल्परुङ्मूर्द्धहृदयं स्तिमितं गुरु ।
कण्ठोपलेपः सदनं पीनसच्छर्द्द्यरोचकाः ॥
रोमहर्षीघनस्निग्धश्वेतश्लेष्मप्रवर्त्तनम् ।
युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम् ॥
उरस्यन्तःक्षते वायुः पित्तेनानुगतो बली ।
कुपितः कुरुते कासं कफं तेन सशोणितम् ॥
पीतं श्यामञ्च शुष्कञ्च ग्रथितं कुथितं बहु ।
ष्ठीवेत् कण्ठेन रुजता विभिन्नेनेव चोरसा ॥
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना ।
पर्ब्बभेदज्वरश्वासतृष्णावैस्वर्य्यकम्पवान् ॥
पारावत इवाकूजन् पार्श्वशूली ततोऽस्य च ।
क्रमाद्वीर्य्यं रुचिः पक्तिर्बलं वर्णश्च हीयते ॥
क्षीणस्य सासृङ्मूत्रत्वं स्याच्च पृष्ठकटीग्रहः ।
वायुप्रधानाः कुपिता धातवो राजयक्ष्मिणः ॥
कुर्व्वन्ति यक्ष्मायतनैः कासं ष्ठीवेत् कफं ततः ।
पूतिपूयोपमं पीतं विस्रं हरितलोहितम् ॥
लुञ्च्येते इव पार्श्वे च हृदयं पततीव च ।
अकस्मादुष्णशीतेच्छा बह्वाशित्वं बलक्षयः ॥
स्निग्धप्रसन्नवक्तत्वं श्रीमद्दशननेत्रता ।
ततोऽस्य क्षयरूपाणि सर्व्वाण्याविर्भवन्ति च ॥
इत्येषः क्षयजः कासः क्षीणानां देहनाशनः ।
याप्यो वा बलिनां तद्वत् क्षतजोऽभिनवौ तु तौ ॥
सिघ्येतामपि सानाथ्यात् साध्यादोषैः पृथक्त्रयः ।
मिश्रा याप्या द्वयात् सर्व्वे जरसा स्थविरस्य च ॥
कासाच्छ्वासक्षयच्छर्द्दि स्वरसादादयो गदाः ।
भवन्त्वुपेक्षया यस्मात् तस्मात्तं त्वरया जयेत्” ॥
इति वाभटे निदानस्थाने । ३ अध्याये ॥ * ॥
अथ कासस्य चिकित्सा यथा ॥
“केवलानिलजं कासं स्नेहैरादावुपाचरेत् ।
वातघ्नसिद्धैः स्निग्धैश्च पेयायूषरसादिभिः ॥
लेहैर्धूमैस्तथाभ्यङ्गैः स्वेदसेकावगाहनैः ।
वस्तिभिर्बद्धविड्वातं सपित्तन्तूर्द्ध्वभक्तिकैः ॥
घृतैः क्षीरैश्च सकफं जयेत् स्नेहविरेचनैः ।
गुडूचीकण्टकारीभ्यां पृथक्त्रिंशत्पलाद्रसे ॥
प्रस्थः सिद्धो धृताद्वातकासनुत् वह्निदीपनः ।
क्षाररास्नावचाहिङ्गुपाठायष्ट्याह्वधान्यकैः ॥
द्विशाणैः सर्पिषः प्रस्थं पञ्चकोलयुतैः पचेत् ॥
दशमूलस्य निर्य्यूहे पीतोमण्डानुपायिना ॥
सकासश्वासहृत्पार्श्वग्रहणीरोगगुल्मनुत् ।
द्रोणेऽपां साधयेद्रास्ना दशमूलशतावरीः ॥
पलोन्मिताद्विकुडवं कुलत्थं वदरं यवम् ।
तुलार्द्धञ्चाजमांसस्य तेन साध्यं घृताढकम् ॥
समक्षीरं पलांशैश्च जीवनीयैः समीक्ष्य तत् ।
प्रयुक्तं वातरोगेषु पाननावनवस्तिभिः ॥
पञ्चकासान् शिरःकम्पं योनिवङ्क्षणवेदनाम् ।
सर्व्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्द्ध्वानिलान्जयेत्” ॥ * ॥
“दुरालभां शृङ्गवेरं शठीं द्राक्षां सितोपलाम् ॥
लिह्यात् कर्कटशृङ्गीञ्च कासे तैलेन वातजे ।
दुष्पर्शां पिप्पलीं मुस्तां भार्गीं कर्कटकं शठीम् ॥
पुराणगुडतैलाभ्यां चूर्णिताण्यवलेहयेत् ।
तद्वत् सकृष्णां शुण्ठीञ्च सभार्गीं तद्वदेव च ॥
पिबेच्च कृष्णां कोष्णेन सलिलेन ससैन्धवाम् ।
मस्तुना ससितां शुण्ठीं दध्ना वा कणरेणुकाम् ॥
पिबेद्वदरमज्ज्ञो वा मदिरा दधिमस्तुभिः ।
अथवा पिप्पलीकल्कं घृतभृष्टं ससैन्धवम् ॥
कासीसपीनसोधूमं स्नैहिकं विधिना पिबेत्” ।
“यवानीपिप्पलीविल्वमध्यनागरचित्रकैः ।
रास्नाजाजी पृथक्पर्णी पलाशशठीपौष्करैः ॥
सिद्धां स्निग्धाम्ललवणां पेयामनिलजे पिबेत् ।
कटिहृत् पार्श्वकोष्ठार्त्तिश्वासहिक्काप्रणाशनीं” ॥
“पित्तकासे तनुकफे त्रिवृतां मधुरैर्युताम् ।
युञ्ज्याद्विरेकाययुतां घनश्लेष्मणि तिक्तकैः ॥
हृतदोषो हिमं स्वादु स्निग्धं संसर्ज्जनं भजेत् ।
घने कफे तु शिशिरं रूक्षं तिक्तोपसंहितम् ॥
लेहः पैत्ते सिता धात्री क्षौद्रद्राक्षा हिमोत्पलैः ।
सकफे साब्दमरिचः सघृतः सानिले हितः ॥
पृष्ठ २/१२२
मृद्वीकार्द्धशतं त्रिंशत्पिप्पलीः शर्करापलम् ।
लेहयेन्मधना गोर्व्वा क्षीरपस्य शकृद्रसम् ॥
त्वगेलाव्योषमृद्वीकापिप्पलीमूलपौष्करैः ।
लाजमुस्ता शठीरास्ना धात्रीफलविभीतकैः ॥
शर्कराक्षौद्रसर्पिर्भिर्लेहो हृद्रोगकासहा ।
मधुरैर्जाङ्गलरसैर्यवश्यामाककोद्रवाः ॥
मुद्गादियूषैः शाकैश्च तिक्तकैर्मात्रया हिताः ।
घनश्लेष्मणि लेहाश्च तिक्तकामधुसंयुताः ॥
शालयः स्युस्तनुकफे षष्टिकाश्च रसादिभिः ।
शर्कराम्भोऽनुपानार्थं द्राक्षेक्षुस्वरसाः पयः ॥
काकोली वृहतीमेदाद्वयैः स वृषनागरैः ।
पित्तकासे रसक्षीरपेयायूषान् प्रकल्पयेत्” ॥
“पुनर्नवा शिवाटिका सरलकासमर्द्दामृता ।
पटोलवृहतीफणिज्जकरसैः पयः संयुतैः ॥
घृतं त्रिकटुना च सिद्धमुपयुज्य सञ्जायते ।
न कासविषमज्वरक्षयगुदाङ्कुरेभ्यो भयम्” ॥ * ॥
“दशमूलं स्वयङ्गुप्तां शङ्खपुष्पीं शठीं बलाम् ॥
हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान् ।
भार्गीं पुष्करमूलञ्च द्विपलांशान् यवाढकम् ॥
हरीतकीशतञ्चैकं जलेपञ्चाढके पचेत् ।
यवस्विन्ने कषायं तं पूतन्तञ्चाभयाशतम् ॥
पचेद्गुडतुलां दत्त्वा कुडवञ्च पृथग्घृतात् ।
तैलात् सपिप्पलीचूर्णात् सिद्धशीते च माक्षिकात् ॥
लेहं द्वे चाभये नित्यमतः खादेद्रसायनात् ।
तद्वलीपलितं हन्याद्वर्णायुर्बलवर्द्धनम् ॥
पञ्चकासान् क्षयं श्वासं सहिक्कं विषमज्वरम् ।
मेहगुल्मग्रहण्यर्शहृद्रोगारुचिपीनसान् ॥
अगस्तिविहितं धन्यमिदं श्रेष्ठं रसायनम्” ॥
इति आगस्त्यरसायनम् ॥ * ॥
“विधिश्च यक्ष्मविहितो यथावस्थं क्षते हितः ॥
निवृत्ते क्षतदोषे तु कफे वृद्धे उरः शिरः ।
दाल्यते कासिनो यस्य सधूमानापिबेदिमान् ॥
द्विमेदा द्विवलाषष्टीकल्कैः क्षौमे सुभाविते ।
वर्त्तिं कृत्वा पिबेद्धूमं जीवनीयघृतानुपः ॥
मनःशिला पलासाजगन्धात्वक्क्षीरिनागरैः ।
तद्वदेवानुपानन्तु शर्करेक्षुगुडोदकम् ॥
पिष्ट्वा मनःशिलां तुल्या मार्द्रया वटशृङ्गया ।
ससर्पिष्कं पिबेद्धूमं तित्तिरिप्रतिभोजनम् ॥
क्षयजे वृंहणं पूर्ब्बं कुर्य्यादग्नेश्च बर्द्धनम् ।
बहुदोषाय सस्नेहं मृदुदद्याद्विरेचनम् ॥
शस्याकेन त्रिवृतया मृद्वीकारसयुक्तया ।
तिल्वकस्य कषायेण विदारीस्वरसेन च ॥
सपिः सिद्धं पिबेद्युक्त्या ज्ञोणदेहो विशोधनम् ।
पित्ते कफे धातुषु च क्षीणेषु क्षयकासवान् ॥
घृतं कर्कटकीक्षीरद्विवलासाधितं पिबेत् ।
विदारीभिः कदम्बैर्वा तालशम्यैश्च साधितम् ॥
घृतं पयश्च मूत्रम्य ववर्णे कृच्छ्रनिर्गमे ।
शूने सवेदने मेढ्रे पायौ सश्रोणिवङ्क्षणे ॥
घृतमण्डेन लघुनानुवास्यो मिश्रकेण वा ।
जाङ्गलैः प्रतिमुक्तस्य वर्त्तकाद्या यिलेशयाः ॥
कमशः प्रमहास्तद्वत् प्रयोज्याः पिशिताशिनः ।
औष्ण्यात्प्रमाथिमावाच्च स्रोतोभ्यश्च्यावयन्तिते ॥
कफं शुद्धैश्च तःपुष्टिं कुर्य्यात्सम्यग्वहन् रसः ।
चविकात्रिफलाभार्गी दशमूलः स चित्रकैः ॥
कुलत्थपिप्पलीमूलपाठाकालयवैर्जले ।
शृतैर्नागरदुस्पर्शा पिप्पलीशठिपौष्करैः ॥
पिष्टैः कर्कटशृङ्ग्या च समैः सर्पिर्विपाचयेत् ।
सिद्धेऽस्मिंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च ॥
दत्त्वा युक्त्यापिबेन्मात्रां क्षयकासनिपीडितः ।
कासमर्द्दोऽभयामुस्तापाठाकट्फलनागरैः ॥
पिप्पल्या कटुरोहिण्या काश्मर्य्याः स्वरसेन च ।
अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षा रसाढके ॥
पचेच्छोषज्वरप्लीहसर्व्वकासहरं शिवम्” ॥ * ॥
“वृषव्याघ्री गुडूचीनां पञ्चमूलफलाङ्कुरान् ॥
रसकल्कैर्घृतं पक्वं हन्ति कासज्वरारुचीः” ।
“स्युर्दोषबद्धः कण्ठोरः स्रोतसाञ्च विशुद्धये ॥
प्रस्थोन्मिते यवक्वाथे विंशतिर्विजयाः पचेत् ।
स्विन्नामृदित्वा तास्तस्मिन् पुराणात्षट्पलं गुडात् ॥
पिप्पल्या द्विपलं कर्षं मनोह्वाया रसाञ्जनात् ।
दत्त्वार्द्धाक्षं पचेद्भूयः सलेहः श्वासकासनुत्” ॥
“तद्वन्मरि चचूर्णं वा सघृतक्षौद्रशर्करम् ।
पथ्याशुण्ठी घनगुडैर्गुटिकां धारयेन्मुखे ॥
सर्व्वेषु श्वासकासेषु केवलं वा विभीतकम् ।
पत्रकल्कं घृतभृष्टं तिल्वकस्य सशर्करम् ॥
पेयावोत्कारिकाच्छर्द्दितृट्कासामातिसारनुत् ।
कण्टकारीरसे सिद्धो मुद्गयूषः सुसंस्कृतः ॥
स गौरामलकः साम्लः सर्व्वक्वासभिषग्जितम् ॥
वातघ्नौषधनिःक्वाथे क्षीरं यूषान् रसानपि ।
वैष्किरान् प्रातुदान् वैलान् दापयेत् क्षयकासिने ॥
क्षतकासे च येधूमाः सानुपानानि दर्शिताः ।
क्षयकाशेऽपि ते योज्या वक्ष्यन्ते यच्च यक्ष्मणि ॥
वृंहणं दीपनञ्चाग्नेः स्रोतसाञ्च विशोधनम् ।
व्यत्यासात्क्षयकासिभ्यो बल्यं सर्व्वं प्रशस्यते ॥
सन्निपातोद्भवो घोरः क्षयकासो यतस्ततः ।
यथादोषबलन्तस्य सन्निपातहितं हितम्” ॥
इति वाभटे चिकित्सास्थाने ३ अध्याये ॥ * ॥
अस्य सकारणसम्प्राप्तिकं लक्षणं चिकित्सितञ्च
यथा, --
“तपसा यशसा धृत्या धिया च परयान्वितः ।
आत्रेयः कासशान्त्यर्थं सिद्धं प्राह चिकित्सितम् ॥
वातादिभिस्त्रयो ये च क्षतजः क्षयजस्तथा ।
पञ्चैते स्युर्नृणां कासा वर्द्धमानाः क्षयप्रदाः” ॥
“अधःप्रतिहतो वायुरूर्द्ध्वस्रोतः समाश्रितः ।
उदानभावमापन्नः कण्ठे सक्तस्तथोरसि ॥
आविश्य शिरसः खानि सर्व्वाणि प्रति पूरयन् ।
आभञ्जन्नाक्षिपन्देहं हनुमन्ये तथाक्षिणी ॥
नेत्रे पृष्ठमुरः पार्श्वे निर्भज्य स्तम्भयंस्ततः ।
शुष्को वा सकफो वापि कसनात् कास उच्यते ।
प्रतिघातविशेषेण तस्य वायोः सरंहसः ॥
वेदनाशब्दवैषम्यं कासानामुपजायते ।
रूक्षशीतकषायाल्पप्रमितानशनं स्त्रियः ॥
वेगधारणमायासो वातकासप्रवर्त्तकाः ।
हृत्पार्श्वोरः शिरःशूलस्वरभेदकरो भृशम् ॥
शुष्कोरःकण्टवक्त्रास्यहृष्टलोम्नः प्रताम्यतः ।
निर्घोषीस्तनतो दैन्यदौर्ब्बल्यक्षयमोहकृत् ॥
शुष्ककासः कफं शुष्कं कृच्छ्रान्मुक्ताल्पतां व्रजेत् ।
स्निग्धाम्ललवणोष्णैश्च भुक्तमात्रे प्रशाम्यति ॥
ऊर्द्ध्ववातस्य जीर्णेऽन्ने वेगवान्मारुतो भवेत् ।
कटुकोष्णविदाह्यम्लक्षाराणामतिसेवनम् ॥
पित्तकासकरं क्रोधः सन्तापश्चाग्निसूर्य्यजः ।
पीतनिष्ठीवनाक्षित्वं तिक्तास्यत्वं स्वरामयः ॥
उरो धूमायनं तृष्णा दाहोमोहोऽरुचिर्भ्रमः ।
प्रततं कासमानश्च ज्योतींषीव च पश्यति ।
श्लेष्माणं पित्तसंसृष्टं निष्ठीवति च पैत्तिके ॥
गुर्व्वभिष्यन्दिमधुरस्निग्वस्वप्नाविचेष्टनैः ।
वृद्धः श्लेष्मानिलं रुद्ध्वा कफकासं करोति हि ॥
मन्दाग्नित्वारुचिच्छर्द्दि पीनसोत्क्लेशगौरवैः ।
लोमहर्षास्यमाधुर्य्यक्लेदसंसदनैर्य्युतम् ।
वृंहणं मधुरं स्निग्धं निष्ठीवति घनं कफम् ।
कासमानोऽतिरुग्वक्षः सम्पूर्णमिव मन्यते” ॥
“दुर्गन्धं हरितं रक्तं ष्ठीवेत् पूयोपमं कफम् ।
स्थानादुत्कासमानश्च हृदयं मन्यते च्युतम् ॥
अकस्मादुष्णशीतार्त्तो बह्वाशीदुर्ब्बलः कृशः ।
स्निग्धाच्छमुखवर्णत्वक् श्रीमद्दशनलोचनैः ॥
पाणिपादतलौ श्लक्ष्णौ सततासूयकोघृणी ।
ज्वरो मिश्राकृतिस्तस्य पार्श्वरुक् पीनसोऽरुचिः ॥
भिन्नसङ्घातवर्च्चस्त्वं स्वरभेदोऽनिमित्ततः ।
इत्येषः क्षयजः कासः क्षीणानां देहनाशनः” ॥
“रूक्षस्यानिलजं कासं आदौ स्नेहैरुपाचरेत् ।
सर्पिर्भिर्वस्तिभिः पेयायूषक्षीररसादिभिः ।
वातघ्नसिद्धैः स्नेहाद्यैर्धूमैर्लहैश्च युक्तितः ॥
अभ्यङ्गैः परिषेकैश्च स्निग्धैः स्वेदैश्च बुद्धिमान् ।
वस्तिभिर्वद्धविड्वातं शुष्कोर्द्ध्वं चोर्द्ध्वभक्तिकैः ॥
घृतैः सपित्तं सकफं जयेत् स्नेहविरेचनैः” ।
“पिप्पली पिप्पलीमूलचव्यचित्रकनागरैः ।
धान्यपाठावचारास्ना यष्ट्याह्वक्षारहिङ्गुभिः ।
कोलमात्रैर्घृतप्रस्थाद्दशमूली रसाढके ॥
सिद्धां चतुर्थिकां पीत्वा पेयामण्डं पिबेदंनु ।
तच्छ्वासकासहृत्पार्श्वग्रहणीदोषगुल्मनुत्” ॥
“त्र्यूषणं त्रिफलां द्राक्षां काश्मर्य्याणि परूषकम् ।
द्वे पाटे सरलं व्याघ्रीं स्वगुप्ताचित्रकं शठीम् ।
ब्राह्मीं तामलकीं मेदां काकनासां शतावरीम् ।
त्रिकण्टकां विदारीञ्च पिष्ट्वा कर्षसमं घृतात् ॥
प्रस्थं चतुर्गुणं क्षीरं सिद्धं कासहरं पिबेत् ।
ज्वरगुल्मारुचिप्लीहशिरोहृत्पार्श्वशूलनुत् ॥
कामलार्शोऽनिलाष्ठीला क्षतशोषक्षयापहम् ।
त्र्यूषणं नाम विख्यातमेतद्घृतमनुत्तमम्” ॥
इति त्र्यूषणाद्यं घृतम् ॥ * ॥
“द्रोणेऽपां साधयेद्रास्नां दशमूलीं शतावरीम् ।
पलिकां माणिकां शांस्तु कुलत्थान् वदरान् यवान् ॥
तुलार्द्धञ्चाजमासस्य पादशेषेण तेन च ।
घृताढकं समक्षीरं जीवनीयैः पलोन्मितैः ॥
सिद्धं तद्दशभिः कल्कैः नस्यपानानुवासनैः ।
समीक्ष्य वातरोगेषु यथावस्थं प्रयोजयेत् ॥
पञ्च कासान् शिरःकम्पं शूलं वङ्क्षणयोनिजम् ।
सर्व्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्द्ध्वानिलान् जयेत्” ॥
पृष्ठ २/१२३
“दशमूलीं स्वयङ्गुप्तां शङ्खपुष्पीं शठीं बलाम् ।
हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान् ॥
भार्गीं पुष्करमूलञ्च द्विपलांशयवाढकम् ।
हरीतकीशतञ्चैकं जलपञ्चाढके पचेत् ॥
यवे स्विन्ने कषायन्तम्पूतन्तच्चाभयाशतम् ।
पचेत् गुडतुलां दत्त्वा कुडवञ्च पृथग् घृतात् ॥
तैलात् सपिप्पलीचूर्णात् सिद्धशीते चमाक्षिकात् ॥
लिह्याद्द्वे चाभये नित्यमतः खादेद्रसायनात् ॥
तद्वलीपलितं हन्ति वर्णयुर्बलवर्द्धनम् ।
पञ्चकासान् क्षयं कासं हिक्कां सविषमज्वराम् ॥
हन्यात्तथार्शोग्रहणीहृद्रोगारुचिपीनसान् ।
अगस्त्यविहितं श्रेष्ठं रसायनमिदं शुभम्” ॥
इत्यगस्त्यहरीतकी ॥ * ॥
“शिरसः सदने स्रावे नासाया हृदि ताम्यति ।
कासप्रतिश्यायरसे धूमं वैद्यः प्रयोजयेत् ॥
दशाङ्गुलोन्मितां नाडीं अथवाष्टाङ्गुलोन्मिताम् ।
शरावसंपुटच्छिद्रे कृत्वाजृह्मां विचक्षणः ॥
वैरेचनं मुखेनैव कासवान् धूममापिबेत् ।
तमुरः केवलं प्राप्तं मुखेनैवोद्धमेत् पुनः ॥
सह्यस्य तैक्ष्ण्याद्विक्षिप्य श्लेष्माणमुरसि स्थितम् ।
निष्कृष्य शमयेत् कासं वातश्लेष्मसमुद्भवम्” ॥
“मनःशिलालमधुकमांसीमुस्तेङ्गुदैः पिबेत् ।
धूमं तस्यानु च क्षीरं सुखोष्णं सगुडं पिबेत् ॥
एष कासान् पृथग्दोषसन्निपातोद्भवान् जयेत् ।
प्रसह्य पर्य्यसंसिद्धानन्यैर्योगशतैरपि” ॥
“मनःशिलैलामरिचक्षाराञ्जनकुटन्नटैः ।
वंशलोचनशैवालक्षौमनक्तकरोहिषैः ॥
पूर्ब्बकल्पेन धूमोऽयं सानुपानो विधीयते ।
आलं मनःशिला तद्वत् पिप्पलीनागरैः राह ॥
त्वगैङ्गुदीवृहत्यौ द्वे तालमूलं मनःशिला ।
कार्पासास्थ्यश्वगन्धा च धूमः कासविनाशनः” ॥
“पैत्तिके स कफे कासे वमनं सर्पिषा हितम् ।
तथा मदनकाश्मर्य्यमधूकक्वथितैर्ज्जलैः ॥
यष्ट्याह्वफलकल्कैर्व्वा विदारीक्षुरसायुतैः ।
हृतदोषस्ततः शीतं मधुरञ्च क्रमं भजेत् ॥
पैत्ते तनुकफे कासे त्रिवृतां मधुरैर्युताम् ।
दद्याद्घनकफे तिक्तैर्विरेकार्थे युतां भिषक् ॥
“शर्कराचन्दनद्राक्षा मधुधात्रीफलोत्पलैः ।
पैत्तेसमुस्तमरिचः सकफे सघृतोऽनिले ॥
मृद्वीकार्द्धशतं त्रिंशत् पिप्पलीशर्करापलम् ।
लेहयेन्मधुना गोर्व्वा क्षीरपस्य शकृद्रसम्” ॥
“बलिनं वमनैरादौ शोधयेत् कफकासिनम् ।
यवान्नैः कटुरुक्षोष्णैः कफघ्नैश्चाप्युपाचरेत् ॥
पिप्पलीक्षारिकैर्यूषः कोलत्थं मूलकस्य च ।
लघून्यन्नानि भुञ्जीत रसैर्व्वा कटुकान्यितैः” ॥
कासमर्द्दाश्वबिट्भृङ्गराजोवार्त्ताकुजारसाः ।
सक्षौद्राः कफकासघ्नाः मुररस्यासितस्य च” ॥
“क्षतकासाभिभूतानां वृत्तिः स्यात् पित्तकासिकी ।
क्षीरसर्पिर्मधुप्राया संसर्गे तु विशेषणम् ॥
वातपित्तार्द्दितेऽभ्यङ्गो गात्रभेदेघृतैर्हितः ।
तैलैर्मारुतरोगघ्नैः पीड्यमाने च वायुना ॥
हृत्पार्श्वार्त्तिषु पानं स्याज्जीवनीयस्य सर्पिषः ।
सदाहं कासिनो रक्तं ष्ठीवतः सबलेऽनिले ।
मांसोचितेभ्यः कामेभ्यो लावादीनां रसा हिताः” ॥
“निवृत्ते क्षतदोषे तु कफे वृद्ध उरः शिरः ।
दाल्यते कासिनो यस्य सधूमान्नापिबेदिमान् ॥
द्वे मेदे मधुकं द्वे च बलेतैः क्षौमनक्तकैः ।
वर्त्तितैर्धूममापीय जीवनीयघृतं पिबेत्” ॥
“सम्पूर्णरूपं क्षयजं दुर्ब्बलस्य विवर्ज्जयेत् ।
नवोत्थितं बलवतः प्रत्याख्यायाचरेत् क्रियाम्” ॥
“पित्ते कफे च संक्षीणे परिक्षीणेषु धातुषु ।
घृतं कर्क्कटकीक्षीरद्विवलासाधितं पिबेत्” ॥
“क्षतकासे च ये धूमाः सानुपाना निदर्शिताः ।
क्षतकासेऽपि तानेव यथावस्थं प्रयोजयेत्” ॥
“सन्निपातभवोऽप्येष क्षयकासः सुदारुणः ।
सन्निपातहितं तस्मात् सदा कार्य्यं भिषग्जितम् ॥
दोषानुबलयोगाच्च हरेद्रोगबलाबलम् ।
कासेष्वेषु गरीयांसं जानीयादुत्तरोत्तरम्” ॥
इति चिकित्सास्थाने २२ अध्याये चरके-
णोक्तम् ॥ * ॥
कासस्य निदानसम्प्राप्तिलक्षणसांहतं प्राग्रूपं
चिकित्सितञ्च यथा, --
“उक्ता ये हेतवो नॄणां रोगयोः श्वासहिक्कयोः ।
कासस्यापि च ते ज्ञेयास्तत्र वोत्पत्तिहेतवः” ॥
“स वातपित्तप्रभवः कफाच्च
क्षतात्तथान्यः क्षयजोऽपरश्च ।
पञ्चप्रकारः कथितो भिषग्भि-
र्विवर्द्धितो यक्ष्मविकारकृत्स्यात् ॥
भविष्यतस्तस्य तु कण्ठकण्डू-
र्भोज्योपरोधोगलतालुलेपः ।
स्वशब्दवैषम्यमरोचकोऽग्नि-
सादश्च लिङ्गानि भवन्त्यमूनि” ॥
“वृद्धत्वमासाद्य भवत्यथो वै
याप्यन्तमाहुर्भिषजस्तु कासम् ॥
शृङ्गीवचा कट्फलकत्तृणाब्द-
धान्याभयाभार्ग्यमराह्वविश्वम् ।
उष्णाम्बुना हिङ्गुयुतं तु पीत्वा-
बद्धास्यमप्याशु जहाति कासम् ॥
फलत्रिकव्योषविडङ्गशृङ्गी
रोस्नावचापद्मकदेवकाष्ठैः ।
लेहः समैः क्षौद्रसिताघृताक्तः
कासं निहन्यादचिरादुदीर्णम् ॥
पथ्यां सितामामलकानि लाजां
समागधीञ्चापि विचूर्ण्य शुण्ठीम् ।
सर्पिर्मधुभ्यां विलिहीतकासी
स सैन्धवां वोष्णजलेन कृष्णाम् ॥
खादेद्गुडं नागरपिप्पलीभ्यां
द्राक्षाञ्च सर्पिर्मधुनावलिह्यात् ।
द्राक्षां सितां मागधिकाञ्च तुल्याम्
सशृङ्गवेरं मधकन्तुगाञ्च ॥
लिह्याद्घृतक्षौद्रयुतां समांसां
सितोपलां वा मरिचांशयुक्ताम् ।
धात्रीकणाबिश्वसितोपलाश्च
सञ्चर्ण्य मण्डेन पिबेच्च दध्ना ॥
हरेणकां मागधिकाञ्च तुल्याम्
दध्ना पिबेत् कासगदाभिभूतः” ॥
“पिबेच्च सीधुं मरिचान्वितं वा
तेनाशु कासं शममभ्युपैति ।
द्राक्षाम्बुमञ्जिष्ठपुराह्वयाभिः
क्षीरं श्रुतं माक्षिकसंप्रयुक्तम् ॥
निदिग्धिकानागरपिप्पलीभिः
खादेच्च मुद्गान् मधुना सुसिद्धान् ।
उत्कारिकां सर्पिषि नागराढ्याम्
पक्त्वा समूलैस्त्रुटिकोलपत्रैः ॥
एभिर्निषेवेत कृताञ्च पेयाम्
तन्वीं सुशीतां मधुना विमिश्राम्
यत्प्लीह्नि सर्पिर्विहितं षडङ्गम्
तद्वातकासं जयति प्रसह्य ॥
विदारि गन्धादिकृतं घृतं वा
रसेन वा वासकजेन पक्वम् ।
विरेचनं स्नैहिकमत्र चोक्त-
मास्थापनञ्चाप्यनुवासनञ्च ॥
धूमं पिबेत् स्नैहिकमप्रमत्तः
पिबेत् सुखोष्णं घृतमेव चात्र ।
हिता यवाग्वश्च रसेषु सिद्धाः
पयांसि लेहाः स घृतास्तथैव ॥
प्रच्छर्द्दंनं कायशिरो विरेका
स्तथैवधूमाकबलग्रहाश्च ।
उष्णाश्च लेहाः कटुकानि हन्युः
कफं विशेषेण विशोषणं वा” ॥
“खर्ज्जूरभार्गीमगधापियाल-
मधूलिकैलामलकैः समांशैः ।
चूर्णं सिताक्षौद्रघृतप्रगाढ-
न्त्रीन् हन्ति कासानुपयुज्यमानः” ॥
“प्रस्थत्रयेणामलकीरसस्य
शुद्धस्य दत्त्वार्द्धतुलां गुडस्य ॥
चूर्णीकृतैर्ग्रन्थिकचव्यजीर-
व्योषेभकृष्णा ह पुषाजमोदैः ।
विडङ्गसिन्धुत्रिफलायमानी
पाठाग्निधान्यैश्च पिचुप्रमाणैः ॥
दत्त्वा त्रिवृच्चूर्णपलानि चाष्टा-
वष्टौ च तैलस्थ पचेद्यथावत् ।
तम्भक्षयेदक्षफलप्रमाणम्
यथेष्टचेष्टं त्रिसुगन्धि युक्तम् ॥
अनेन सर्व्वे ग्रहणी विकाराः
स श्वासकासस्वरभेदशोषाः ।
शाम्यन्ति चायं चिरमन्तरग्ने-
र्हतस्य पुंस्त्वस्य च वृद्धिहेतुः ॥
स्त्रीणाञ्च बन्ध्यामयनाशनः स्यात्
कल्याणको नाम गुडः प्रतीतः” ॥
इति कल्याणको गुडः ॥ * ॥
“कुलीर शुक्ती चटकैणलावा-
न्निःक्वाथ्य वर्गैर्मधुरैस्तथान्यैः ॥
पचेद्घृतं तत्तु निषेव्यमानम्
हन्यात् क्षतोत्थं क्षयजञ्च काशम्” ॥
इति सुश्रुते उत्तरतन्त्रे । ५२ अध्याये ॥ * ॥
पृष्ठ २/१२४
“पारदं गन्धकं शुद्धं मृतलौहञ्च टङ्कणम् ।
रास्ना विडङ्गत्रिफला वेवदारुकचित्रकम् ।
अमृतां पद्मकं क्षौद्रं विषञ्चैव विचूर्णयेत् ।
द्विगुञ्जं वातकासार्त्तिः सेवयेदमृतार्णवम्” ॥
इति अमृतार्णवो रसः ॥ * ॥
“भस्मताम्राभ्रकान्तानां कासमत्वर्दचो रसैः ।
मुनिजैर्वेतसाम्लेन दिनं मर्द्यं प्रयत्नतः ॥
निष्कार्द्धं पित्तकासार्त्तो भक्षयेच्च दिनत्रयम् ।
श्वासकासाग्निमान्द्यञ्च क्षयकासं निकृन्तति” ॥
इति पित्तकासान्तको रसः ॥ * ॥
“सुशुद्धं पारदं गन्धं प्रत्येकं शुक्तिसम्मितम् ।
ततः कज्जलिकां कृत्वा मर्दयेच्च पृथक् पृथक् ॥
विश्वाग्निमन्थश्योनाककाश्मर्य्यः पाटला बला ।
मुस्तं पुनर्नदा धात्री वृहतीवृषपत्रकम् ॥
विदारी बहुपुत्त्री च एषां कर्षरसैः पृथक् ।
सुवर्णं रजतं ताम्रं प्रत्येकं शाणमानकम् ॥
पलमात्रन्तु कृष्णाभ्रं तदर्द्धन्तु शिलाह्वयम् ।
जातीकोषफलं मांसी तालीशैला लवङ्गकम् ।
प्रत्येकं कोलमानन्तु वासानीरैर्विमर्दयेत् ।
शोषयित्वा ततः पश्चाद्विदारी रसमर्दितः ॥
त्रिगुञ्जां तां वटीं खादेत्पिप्पली मधुसंयुताम् ।
नाम्ना नित्योदयश्चायं रसो विष्णुविनिर्म्मितः ॥
पञ्च कासान्निहन्त्याशु चिरकालसमुद्भवम् ।
राजयक्ष्माणमत्युग्रमित्यादि बहवो गुणाः” ॥
इति नित्योदयो रसः ॥ * ॥
“शुद्धं कृष्णाभ्रचूर्णद्विपलपरिमितं
शाणमानं यदन्यत्
कर्पूरं जातिकोषं सजलमिभकणा-
तेजपत्रं लवङ्गम् ।
मांसीतालीशचोचं गजकुमुमगदं-
धातकीचेति तुल्यम्
पथ्याधात्री विभीतं त्रिकटुरपि पृथक्
त्वर्द्धशाणं द्विशाणम् ॥
एला जातीफलाख्यं क्षितितलविधिना
शुद्धगन्धस्य कोलम्
कोलार्द्धं पारदस्य प्रतिपदविहितं
पिष्टमेकत्र मिश्रम् ।
पाणीयेनैवकार्य्याः परिणतचणक-
स्विन्नतुल्याश्च वठ्यः
प्रातःखाद्याश्चतस्रस्तदनु खलु कियत्
शृङ्गवेरं सपर्णम् ॥
पाणीयं पीतमन्ते ध्रुवमपहरति-
क्षिप्रमेतान् विकारान्
कोष्टे दुष्टाग्निजातान् ज्वरमुदररुजं-
राजयक्ष्मक्षतञ्च ।
कासं श्वासं सशोथं नयनपरिभवं-
मेहमेदो विकारान्
हन्यादामानिलोत्थान् कफपवनकृतान्
पित्तरोगान् विशेषान् ॥
बल्योवृष्यश्च योगन्तरुणकरवरः-
सर्व्वरोगप्रशस्तः
पथ्यं मांसैश्च यूषैर्धृतपरिलुलित-
र्गव्यदुग्धञ्च भूयः ।
भोज्यो योज्यो यथेष्टं ललितललनया-
दीयमानो मुदा यत्
शृङ्गाराभ्रेणकामी युवतिजनशता-
भोगयोगादतुष्टः ॥
वर्ज्ज्यं शाकाम्लमादौ न च कतिपयचित्-
स्वेच्छया भोज्यमानः” ॥
इति शृङ्गाराभ्रः ॥ * ॥
“जीर्णं सुवर्णं लौहं वा यद्यत्रैव प्रदीयते ।
तदायं सर्व्वरोगाणां सार्व्वभौमो न संशयः” ॥
इति सार्व्वभौमो रसः ॥ * ॥
“त्रिकटु त्रिफलाधान्यं चव्यं चित्रकसैन्धवम् ।
दिव्यौषधिहतञ्चापि सर्व्वतुल्यन्त्वयोरजः ॥
नवगुञ्जाप्रमाणेन वटिकां कारयेद्भिषक् ।
प्रातःकाले शुचिर्भूत्वा चिन्तयित्वामृतेश्वरीम् ॥
एकैकां वटिकां खादेत् रक्तोत्पलरसप्लुताम् ।
नीलोत्पलरसैर्व्वापि कुलत्थस्य रसेन वा ॥
निहन्ति विविधं कासं दोषत्रयसमुद्भवम् ।
वातिकं पैत्तिकञ्चैव गरदोषसमुद्भवम् ।
सरक्तमथवा रक्तं कासश्वाससमन्वितम् ॥
तृड्दांहभ्रमशूलघ्नी रुच्या वह्णिप्रदीपनी ।
बलवर्णकरी वृष्या जीर्णज्वरविनाशिनी ॥
इयं चन्द्रामृता नाम्ना चन्द्रनाथेन निर्म्मिता ।
वासागुडूचिका भार्गो मुस्तकं कण्टकारिका ॥
भोजनान्ते प्रकर्त्तव्या वटिका कार्य्यसिद्धये” ॥
इति श्रीचन्द्रामृता वटी ॥ चन्द्रामृतं लौहमि-
त्यपि पाठः ॥ * ॥
“रसगन्धकलौहानां प्रत्येकं कार्षिकं क्षिपेत् ।
टङ्गणस्य पलं दत्त्वा मरिचस्य पलार्द्धकम् ॥
त्रिकटुत्रिफलाचष्य धान्यजीरकसैन्धवम् ।
प्रत्येकं तोलकं ग्राह्यं छागीदुग्धेन पेषयेत् ॥
नवगुञ्जाप्रमाणेन वटिकां कारयेद्भिषक् ।
प्रातःकाले शुचिर्भूत्वा चिन्तयित्वामृतेश्वरीम् ॥
एकैकां वटिकां खादेत् रक्तोत्पलरसप्लुताम् ।
नीलोत्पलरसेनापि कुलत्थस्य रसेन वा ॥
निहन्ति विविधं कासं तातरक्तकफोद्भवम् ।
सरक्तमथवा रक्तं ज्वरश्वाससमन्वितम् ॥
हृच्छूलं पार्श्वशूलञ्च जीर्णज्वरविनाशनः ।
चन्द्रामृतरसो जाम चन्द्रनाथेन भाषितः” ॥
इति वृहच्चन्द्रामृतो रसः ॥ * ॥
इति वैद्यकरसेन्द्रसारसंग्रहे कासरोगाधि-
कारे ॥ * ॥ * ॥
अथ कासपथ्यम् ॥
“स्वेदो विरेचनं छर्दिर्धूमपानं समाशनम् ।
शालिषष्टिकगोधूमश्यामाकयवकोद्रवाः ॥
आत्मगुप्ता माषमुद्गकुलत्थानां रसाः पृथक् ।
ग्राम्यौदकानूपधन्वमांसानि विविधानि च ॥
सुरा पुरातनं सर्पिश्छागञ्चापि पयो घृतम् ।
वास्तुकं वायसी शाकं वार्त्ताकुं बालमूलकम् ॥
कण्टकारी कासमर्द्दी जीवन्ती सुनिषण्णकम् ।
द्राक्षाविम्बी मातुलुङ्गं पौष्करं वासकस्त्रुटिः ॥
गोमूत्रं शुनं पय्या व्योबुसष्णोदकं मधु ।
लाजा दिवसनिद्रा च लघून्यन्नानि यानि च ॥
पथ्यमेतद्यथा दोषमुक्तं कासगदातुरे” ॥
अथापथ्यमाह ॥
“वस्तिं नस्यमसृङ्मोक्षं व्यायामं दन्तघर्षणम् ।
आतपं दुष्टपवनं रजोमार्गनिषेवणम् ॥
विष्टम्भीनि विदाहीनि रूक्षाणि विविधानि च ।
शकृन्मूत्रोद्गारकासवमिवेगनिधारणम् ॥
मत्स्यं कन्दं सर्षपञ्च तुम्बीफलमुपोदिकाम् ।
दुष्टाम्बु चान्नपानञ्च विरुद्धान्यशनानि च ॥
गुरुशीतञ्चान्नपानं कासरोगी परित्यजेत्” ॥
इति वैद्यकपथ्यापथ्यविधौ कासरोगाधिकारः ॥ * ॥)
काशतृणम् । इत्यमरटीकायां भरतः ॥ शोभाञ्जनः ।
इति शब्दचन्द्रिका ॥

कासकन्दः, पुं, (कासहेतुः कन्दः ।) कासालुः । इति

राजनिर्घण्टः ॥

कासघ्नी, स्त्री, (कासं हन्ति । कास + हन् + टक् ।

स्त्रियां ङीप् ।) कण्टकारी । इति शब्दचन्द्रिका ॥
(कण्टकारीशब्देऽस्या गुणादिविवरणं ज्ञेयम् ॥)

कासजित्, स्त्री, (कासं जयतीति । कास + जि +

क्विप् ।) भार्गी । इति राजनिर्घण्टः ॥

कासनाशिनी, स्त्री, (कासं नाशयतीति । कास +

नश + णिच् + णिनिः ।) कर्कटशृङ्गीवृक्षः । इति
रत्नमाला ॥

कासन्दीवटिका, स्त्री, (कासं द्यति नाशयतीति ।

दो + कः ततो ङीष् । कासन्दीं वटति वक्ति
तन्नाम्ना प्रकाशते इत्यर्थः । वट् + ण्वुल् । टाप्
अत इत्वम् । कासन्दीवटिका इति पारिभाषिक-
नाम्ना आख्यायते वा ।) वेसवारविशेषः । गोटा
कासुन् इति भाषा । अस्या गुणाः । हृद्यत्वम् ।
वातश्लेष्मरोगनाशित्वम् । रुच्यग्निकारित्वम् । वायु-
मलानुलोमकारित्वञ्च । इति राजवल्लभः ॥

कासमर्द्दः, पुं, (कासं मृद्गाति । कास + मृद् + “कर्म्म-

ण्यण्” । ३ । २ । १ । इति अण् ।) पेषितजल
मिश्रितवस्त्रगलितवेसवारः । इति पाकराजेश्वरः ॥
कासुन्दी इति ख्यातः । गुल्मभेदः । इत्यमरभरतौ ॥
काल कासुन्दा इति भाषा ॥ शेषस्य पर्य्यायः ।
अरिमर्द्दः २ कासारिः ३ कासमर्द्दकः ४ कालः ५
कनकः ६ जरणः ७ दीपनः ८ अस्य गुणाः ।
तिक्तत्वम् । उष्णत्वम् । मधुरत्वम् । कफवाता-
जीर्णकासपित्तनाशित्वम् । पाचकत्वम् । कण्ठ-
शोधनत्वञ्च । इति राजनिर्घण्टः ॥ अग्निदीपन-
त्वम् । स्वादुत्वञ्च । इति राजवल्लभः ॥ अस्य पत्र-
गुणाः । रुचिकारित्वम् । शुक्रवर्द्धकत्वम् । कास-
विषरक्तकफवातपित्तनाशित्वम् । मधुरत्वम् । पा-
चनत्वम् । कण्ठशोधनत्वम् । लधुत्वम् । विशेषतः
कासहरत्वम् । ग्राहकत्वञ्च । इति राजनिर्घण्टः ॥

कासमर्द्दनः, पुं, (कासं मृद्गाति । कास + मृद् +

कर्त्तरि ल्युः । कासस्य मर्द्दनो वा ।) पटोलः ।
इति राजनिर्घण्टः ॥

कासरः, पुं, (के जले आसरति । आ + सृ + अच् ।

महिषस्य प्रायेण जलवासात्तथात्वम् ।) महिषः ।
इत्यमरः । २ । ५ । ४ ॥ (यथा, आर्य्यासप्तशती ५२१ ।
पृष्ठ २/१२५
“व्यारोषं मानिन्यास्तमोदिवः कासरं कलमभूमेः ।
वद्धमलिं च नलिन्याः प्रभातसन्ध्यापसारयति” ॥)

कासारः, पुं, (कास + “तुषारादयश्च” उणां ३ । १३९

इति आरन् प्रत्ययः । कस्य जलस्य आसारो यत्र
वा । अथवा कासं शब्दं ऋच्छति प्राप्नोति जल-
गमनपतनादिकाले । ऋ + “कर्म्मण्यण्” । ३ । २ । १ ।
इति अण् ।) सपद्मो निष्पद्मो वा महाजलाशयः ।
सरोबरः । इत्यमरः । १ । १० । २८ ॥ (यथा, --
गीतगोविन्दे २ । २० ।
“दुरालोकस्तोकस्तवकनवकाशोकलतिका-
विकाशः कासारोपवनपवनोऽपि व्यथयति” ॥)

कासारिः, पुं, (कासस्य अरिः नाशकः ।) कासमर्द्दः ।

इति राजनिर्घण्टः ॥

कासालुः, पुं, (कासहेतुः कासजनको वा आलुः ।)

कन्दविशेषः । कोकणदेशे प्रसिद्ध आलुविशेषः ।
तत्पर्य्यायः । कासकन्दः २ कन्दालुः ३ आलुकः ४
आलुः ५ विशालपत्रः ६ पत्रालुः ७ । अस्य
गुणाः । उग्रत्वम् । कण्डुवातश्लेष्मामयारोचक-
नाशित्वम् । स्वादुत्वम् । पथ्यत्वम् । अग्निदीपन-
त्वञ्च । इति राजनिर्घण्टः ॥

कासीसं, क्ली, (कासीं क्षुद्रकासं स्यति नाशयतीति ।

सो + कः ।) उपधातुविशेषः । हिराकसी इति
भाषा । (यथा सुश्रुते सूते ३६ अध्याये ।
“कासीसकदुरोहिण्योर्जातीकन्दहरिद्रयोः” ॥)
तत्पर्य्यायः । धातुकासीसम् २ खेचरम् ३ धातु-
शेखरम् ४ । इति हेमचन्द्रः ॥ केसरम् ५ हंस-
लोमशम् ६ शोधनम् ७ पांशुकासीसम् ८ शुभ्रम्
९ । अस्य गुणाः । कषायत्वम् । शिशिरत्वम् ।
विषकुष्ठकृमिखर्ज्जूनाशित्वम् चक्षुर्हितत्वम् ।
कान्तिवर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥ (विस्तृत-
विवरणमस्य काशीशशब्दे ज्ञेयम् ॥)

कासूः, स्त्री, (कशति कुत्सितशब्दं गच्छतीति ।

कश गतौ + “णित् कशिपद्यतेः” । उणां १ । ८७ ।
इति ऊः पृषोदरादित्वात् सत्वम् ।) विकलवाक् ।
शक्त्यस्त्रम् । इति मेदिनी ॥ (कासते प्रकाशते इति
कास् + ऊ ।) दीप्तिः । भाषा । इति शब्दरत्ना-
वली ॥ रोगः । बुद्धिः । इति हेमचन्द्रः ॥

काहका, स्त्री, (काहला इति । पृषोदरादित्वात्

लस्य कः ।) काहलावाद्यम् । इति द्विरूपकोषः ॥

काहलं, क्ली, (कुत्सितं अस्पष्टमव्यक्तं हलं वाक्यं

ध्वनिर्वा यत्र । विलेखनार्थकस्यापि हलधातो-
रत्रधातूनामनेकार्थत्वात् तथात्वम् ।) अव्यक्तवा-
क्यम् । इति हेमचन्द्रः ॥

काहलः, पुं, (कुत्सितं यथा स्यात् तथा हलति ।

लिखति नखैर्भूमिमिति शेषः । हल + अच् ।
कोः कादेशः ।) कुक्कुटः । शब्दमात्रम् । इति
मेदिनी ॥ विडालः । इति शब्दमाला ॥ वृहड्-
ढक्का । तत्पर्य्यायः । महानादः २ । इति हारा-
वली ॥

काहलः, त्रि, (केन जलेन अहलः अस्पृष्टः ।) शुष्कः ।

भृशम् । खलः । इति मेदिनी ॥

काहला, स्त्री, (कुत्सितं अव्यक्तं वा हलति शब्दं

करोति । हल् + अच् टाप् च ।) वाद्यभाण्डभेदः ।
(ईषदपि न हलं कुत्सितं अङ्गं यस्याः । कोः का-
देशः ।) अप्सरोविशेषः । इति मेदिनी ॥

काहलापुष्पः, पुं, (काहलाकृतिरिव पुष्पमस्याः ।)

धुस्तूरः । इति शब्दमाला ॥

काहली, स्त्री, (कं सुखं आहलति ददातीति । आ +

हल + इन् । ततो ङीप् ।) तरुणी । युवती । इति
मेदिनी ॥

काहारकः, पुं, (कुत्सितं शिविकादिकमालम्ब्य जी

वनयात्रामाहरति । आ + हृ + ण्वुल् ।) शिवि-
कावाहकजातिः । काहार इति वेहारा इति च
भाषा । यथा, --
“तथा गारुडिका वीराः क्षुरकर्म्मोपजीवकाः ।
व्याधाः काहारकाः पुष्टाः कृष्णं संवाहयन्ति ये” ॥
इति जैमिनिभारते आश्वमेधिके पर्व्वणि १० अ-
ध्यायः ॥

काही, स्त्री, (केन वायुना आहन्यते । आ + हन् +

डः ङीप् । यद्वा कं सुखं आहन्ति ददाति प्राप-
यति । आ + हन् + अन्तर्णिजन्तात् डः । डीप् च ।)
कुटजवृक्षः । इति राजनिर्घण्टः ॥

कि र लि ज्ञाने । इति कविकल्पद्रुमः ॥ (ह्वादिं-

परं-सकं-सेट् ।) र वैदिकः । लि चिकेति । इति
दुर्गादासः ॥

किं, व्य, किम् । इति मेदिनी ॥ (यथा विष्णुपुराणे

१ मांशे १७ । २४ ।
“न केवलं तात ! मम प्रजानां
स ब्रह्मभूतो भवतश्च विष्णुः ।
धाता विधाता परमेश्वरश्च
प्रसीद कोपं कुरुषे किमर्थम्” ॥)

किं, [म्] त्रि, जिज्ञासार्थम् । कि इति भाषा ।

सर्व्वनामकिम्शब्दस्य क्लीवलिङ्गे रूपमिदम् । इति
व्याकरणम् ॥ अस्यार्थान्तराणि किम्शब्दे द्रष्ट-
व्यानि ॥ (सर्व्वशब्दमयत्वात् विष्णुः । यथा, महा-
भारते १३ । १४९ । ९१ ।
“एको नैकः सवः कः किं यत्तत्पदमनुत्तमम्” ॥)

किंवदन्तिः, स्त्री, (किं + वद + झिच् ।) किंवदन्ती ।

इत्यमरटीकायां भरतः ॥

किंवदन्ती, स्त्री, (किम् + वद + झिच् ङीष् च ।) जन-

श्रुतिः । सत्यमसत्यं वा लोकवादः । इत्यमरः ।
१ । ६ । ७ ॥ (“अस्ति किलैषा किंवदन्ती अस्माकं
कुले कालरात्रिकल्पा विद्या नाम राक्षसी समु-
त्पत्स्यते” । इति प्रबोधचन्द्रोदयनाटकम् ॥)

किंवा, व्य, (किम् च वा च । इति द्वन्द्वसमासः ।)

विकल्पः । अथवा । तत्पर्य्यायः । उताहो २ यदि
वा ३ यद्वा ४ नेति ५ । इति त्रिकाण्डशेषः ॥

किंशारुः, पुं, (किं किञ्चित् कुत्सितं वा शृणातीति

शॄ हिंसायां + “किञ्जरयोः श्रिणः” । उणां
१ । ४ । इति ञुण् ।) शस्यशूकम् । शुँया इति
भाषा । इत्यमरः । २ । ९ । २१ ॥ वाणः । कङ्क-
पक्षी । इति मेदिनी ॥

किंशुकः, पुं, (किञ्चित् अवयवैकदेशः शुक इव शुक-

तुण्डाभपुष्पत्वात् तथात्वमिति बोध्यम् ।) पलाश-
वृक्षः । इत्यमरः । २ । ४ । २९ ॥ (अस्य पर्य्यायो
यथा, -- भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
“पलाशः किंशुकः पर्णो यज्ञियो रक्तपुष्पकः ।
क्षारश्रेष्ठो वातहरो ब्रह्मवृक्षः समिद्वरः” ॥
यथा गोः रामायणे ६ । ६८ । ३१ ।
“तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः ।
पुष्पिताविव निष्पत्रौ यथा शाल्मलिकिंशुकौ” ॥
तत्पुष्पादयोऽपि । यथा चाणक्ये ७ ।
“रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीनान शोभन्ते निर्गन्धा इव किंशुकाः” ॥)
विवरणमस्यान्यत् पलाशशब्दे ज्ञातव्यम् ॥ नन्दी
वृक्षः । इति राजनिर्घण्टः ॥

किंशुलुकः, पुं, (किंशुक + निपातनात् साधुः ।)

पलाशवृक्षविशेषः । इति शब्दरत्नावली ॥

किकिः, पुं, (कक + इन् । पृषोदरादित्वात् आदे-

रित्वम् ।) किकीदिविः । इति शब्दमाला ।
नारिकेलः । इति राजनिर्घण्टः ॥

किकिदिविः, पुं, (किकीति अस्फुटनादेन दीव्यतीति ।

दिव् + इन् ।) चाषपक्षी । इति शब्दमाला ॥

किकीदिवः, पुं, (किकीति अव्यक्तशब्देन दीव्यति ।

दिव + कः ।) चाषपक्षी । इति शब्दमाला ॥

किकीदिविः, पुं, (किकी इति अस्फुटनादं कुर्व्वन्

दीव्यति । “कृविधृष्विच्छविस्थवि किकीदिविः” ।
उणां ४ । ५६ इति क्विन् निपातनात् सिद्धम् ।)
स्वर्णत्तातकः । सोणाचडा इति भाषा । नीलकण्ठ
इति क्वचित् ख्यातः । इति भरतः ॥ तत्पर्य्यायः ।
चाषः २ । इत्यमरः । २ । ५ । १६ ॥ चासः ३
किकीदीविः ४ । इति भरतः ॥ किकी ५ दिविः ६ ।
इति स्वामी ॥ किकिः ७ किकिदिवः ८ किकिदीविः
९ । इति शब्दमाला ॥ किकीदिवः १० स्वर्ण-
चूडः ११ इति जटाधरः ॥

किकीदीविः, पुं, (किकी इत्यव्यक्तशब्देन दीव्यति

क्रीडति । निपातनात् दीर्घत्वे साधुः ।) चाष-
पक्षी । इति शब्दमाला ॥

किखिः, स्त्री, (खदति हिनस्ति । खद् हिंसायां

निपातनात् साधुः ।) लघुशृगालः । इति हेम-
चन्द्रः ॥ ख्याँक्शेयालि इति भाषा ॥

किखिः, पुं, (किखिरिति कुत्सितशब्दं करोति यः ।)

कपिः । इति भूरिप्रयोगः ॥

किङ्करः, त्रि, (किञ्चित् करीति । दिवाविभेतृ त्र किं

यत्तद्बहुष्वित्यच् ।) दासः । इत्यमरः । २ । १० ।
१७ ॥ (यदुक्तं पुराणे ।
“विप्रस्य किङ्करो भूपो वैश्योभूपस्य भूमिप ! ।
सर्व्वेषां किङ्कराः शूद्रा ब्राह्मणस्य विशेषतः” ॥)

किङ्किणी, स्त्री, (किमपि किञ्चिद् वा कणति ।

कण शब्दे + इन् + ङीप् च । पृषोदरात् साधुः ।)
कट्याभरणविशेषः । घाघर इति भाषा । तत्प-
र्य्यायः । क्षुद्रघण्टिका २ । इत्यमरः । २ । ६ । ११० ॥
कङ्कणी ३ । इति भरत ॥ किङ्कणिका ४ कि
ङ्किणिः ५ । इति केचित् ॥ क्षुद्रघण्टी ६ प्रतिसरा
७ किङ्किणीका ८ कङ्कणिका ९ क्षुद्रिका १० ।
इति शब्दरत्नाबली ॥ घर्घरी ११ । इति जटा-
पृष्ठ २/१२६
धरः ॥ (यथा, महाभारते १३ । ५३ । ३१ ।
“किङ्किणीस्वननिर्घोषो युक्तस्तोरणकल्पनैः” ॥)
विकङ्कतवृक्षः । इति राजनिर्घण्टः ॥

किङ्किरं, क्ली, (किं कुत्सितं मदवारि किरति विक्षि-

पति । कॄ + कः ।) गजकुम्भः । इति सारस्वतः ॥

किङ्किरः, पुं, (किमपि अनिर्व्वचनीयं मधुरास्फुटं

किरति रौति । किञ्चित् किरति क्षिपति चित्तं
विरहिणां वा ।) कोकिलः । भ्रमरः । घोटकः ।
कामदेवः । इति सारस्वतः ॥

किङ्किरा, स्त्री, (किञ्चित् कुत्सितं वा किरति शरी-

रात् निःसरति । किं + कॄ + कः टाप् च ।) रक्तम् ।
इति सारस्वतः ॥

किङ्किरातः, पुं, (किङ्किरं रक्तवर्णत्वं अतति पुष्प-

काले निरन्तरं प्राप्नोति । अत + अण् ।) अशोक-
वृक्षः । कामदेवः । शुकपक्षी । कोकिलः । इति
सारस्वतः ॥ रक्ताम्लानः । राङ्गा झाँटी इति
भाषा । इति जटाधरः ॥ पुष्पवृक्षविशेषः । तत्प-
र्य्यायः । हेमगौरः २ पीतकः ३ पीतभद्रकः ४
विप्रलोभी ५ पीताम्लानः ६ षट्पदानन्दः ७ ।
अस्य गुणाः । कषायत्वम् । उष्णत्वम् । तिक्तत्वम् ।
अग्निदीपनत्वम् । कफवायुकण्डुशोथरक्तत्वग्दोष-
नाशित्वञ्च । इति राजनिर्घण्टः ॥ तत्पर्य्यायगुणाः ।
“किङ्करातो हेमगौरः पीतकः पीतभद्रकः ।
किङ्किरातो हिमस्तिक्तः कषायश्च हरेदसौ ॥
कफपित्तपिपासास्रदाहशोषवमिक्रिमीन्” ॥
इति भावप्रकाशः ॥

किङ्किरालः, पुं, (किङ्किराय रक्तत्वाय अलति । पर्य्या-

प्नोति । अल + अच् । किङ्किरेण रक्तत्वेनालति
वा । वर्व्वूरवृक्षः । इति वैद्यकम् ॥

किङ्किरी, [न्] पुं, (किङ्किरं रक्तवर्णफलमस्त्यस्मिन्

अस्य वा । किङ्किर + इनिः ।) विकङ्कतवृक्षः ।
इति जटाधरः ॥ वँइचि इति भाषा ॥ (विकङ्कत-
शब्देऽस्या गुणादिकं बोद्धव्यम् ॥)

किञ्च, व्य, (किम् च, च च । द्वन्द्वसमासः ।) आरम्भः ।

साकल्यम् । इति मेदिनी ॥ अवान्तरम् । इति
जटाधरः ॥

किञ्चन, व्य, (किम् च चन च । मुग्धबोधमते तु

“किमः क्त्यन्तात् चित् चनौ” । इति चनप्रत्ययः ।)
असाकल्यम् । अकार्त्स्न्यम् । इत्यमरः । ३ । ४ । ३ ॥

किञ्चनः, पुं, (किम् + चन् + अच् ।) हस्तिकर्णप-

लाशः । इति शब्दरत्नावली ॥

किञ्चित् व्य, (किम्च चित्च पाणिनिमते पदद्वयम् ।

मुग्धबोधमते तु “किमः क्त्यन्तात् चिच्चनौ” । इति
चित्प्रत्ययः ।) अल्पम् । तत्पर्य्यायः । ईषत् २
मनाक् ३ । असाकल्यम् । यथा । असाकल्ये तु
चिच्चन । इत्यमरः । ३ । ४ । ३ ॥
(यथा विवेकचूडामणौ ११ ।
“चित्तस्य शुद्धये कर्म्म न तु वस्तूपललब्धये ।
वस्तुसिद्धिर्विचारेण न किञ्चित् कर्म्मकोटिभिः” ॥)

किञ्चिलिकः, पुं, (किञ्चित् चुलुम्पति । चुलुम्प इति

सौत्रधातुः । डुः संज्ञायां कन् । पृषोदरात् उभ-
यत्र उस्थाने इत्वम् ।) किञ्चुलुकः । इत्यमरटीका ॥

किञ्चुलुकः, पुं, (किञ्चित् चुलुम्पति चुलुम्प् + डुः +

संज्ञायां कन् ।) कीटविशेषः । कँचो इति भाषा ।
तत्पर्य्यायः । महीलता २ गण्डूपदः ३ । इत्यमरः ।
१ । १० । २२ । (“वाह्या यूकाः प्रसिद्धाः स्युः किञ्चु
लूकास्थथान्तराः” ॥ इति हारीते चिकित्सित-
स्थाने ५ अध्याये ॥)

किञ्जं, क्ली, (किञ्चिञ्जलं यत्र । पृषोदरादित्वात् ल लो-

पे साधुः ।) किञ्जल्कम् । इति राजनिर्घण्टः ॥

किञ्जलः, पुं, (किञ्चित् जलं अत्र ।) किञ्जल्कः । इति

शब्दरत्नावली ॥

किञ्जल्कं, क्ली, (किञ्चित् जलति । जल् अपवारणे

+ बाहुलकात् कः ।) नागकेशरपुष्पम् । पद्मा-
भ्यन्तरस्थं केशाकारं करहाटकवेष्ठनम् । केसर
इति ख्यातम् । (यथा, रघुः १५ । ५२ ।
“स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कमिव पङ्कजम् ।
ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत्” ॥)
तत्पर्य्यायः । मकरन्दम् २ किशरम् ३ पद्मकेशरम्
४ किञ्जम् ५ पीतपरागम् ६ तुङ्गम् ७ चाम्पे-
यकम् ८ । अस्य गुणाः । मधुरत्वम् । रूक्षत्वम् ।
कटुत्वम् । आस्यब्रणापहत्वम् । शिशिरत्वम् ।
रुच्यत्वम् । पित्ततृष्णादाहविनाशित्वञ्च । इति
राजनिर्घण्टः ।

किञ्जल्कः, पुं, (किम् + जल + बाहुलकात् कः ।)

केशरः । इत्यमरः । १ । १० । ४७ ॥ पद्मकेशरः ।
तत्पर्य्यायगुणाः ।
“किञ्जल्कः केशरः प्रोक्तश्चाम्पेयश्चापि स स्मृतः ।
किञ्जल्कः शीतलो रूक्षः कषायोग्राहकोऽपि सः ॥
कफपिंत्ततृषादाहरक्तार्शोविषशोथजित्” ।
इति भावप्रकाशः । (वैद्यचक्रपाणिसंग्रहे रक्त
पित्ताधिकारे दूर्व्वाद्यतैले व्यवहारो यथा, --
“दूर्व्वासोत्पलकिञ्जल्कमञ्चिष्ठासैलवालुकाः” ॥)

किट गतौ । भयभीषयोः । इति कविकल्पद्रुमः ॥ (भ्वां-

परं--सकं अकञ्च--सेट् ।) भीषा स्वतो भयोत्पादना ।
केटति जनो व्याघ्रो जनं भीषयतीत्यर्थः । इति
दुर्गादासः ॥

किटिः, पुं, (केटति शत्रुं प्रति वेगेन गच्छति मला-

दीनुद्दिश्य गच्छति वा । किट्-गतौ इन् इगुप-
धात् कित् च ।) शूकरः । इत्यमरः । २ । ५ । २ ॥

किटिभः, पुं, (किटिरिव भाति । भा + कः ।) केश-

कीटः । इति हेमचन्द्रः । उकुण इति भाषा ॥

किट्टं, क्ली, (केटति लोहादिधात्ववयवात् निर्गच्छ-

तीति । गत्यर्थेतिक्तः । आगमशास्त्रस्यानित्यत्वात्
नेट् ।) मलः । इत्यमरः । ६ । २ । ६५ ॥
(यदुक्तं चिन्तामणौ ।
“ध्मायमानस्य लोहस्य मलं मण्डूरमुच्यते ।
यल्लोहं यद्गुणं प्रोक्तं तत्किट्टमपि तद्गुणम्” ॥
यस्य कस्यापि असारांशे । यथा, --)
“आहारस्य रसः सारः सारहीनो मलद्रवः ।
शिराभिस्तज्जलं नीतं वस्तिं मूत्रत्वमाप्नुयात् ॥
शेषं किट्टञ्च यत्तस्य तत्पुरीषं निगद्यते” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

किट्टवर्ज्जितं, क्ली, (किट्टेन मलेन वर्ज्जितम् ।)

शुक्रम् । इति हेमचन्द्रः ॥

किट्टालः, पुं, (किट्टेन मलेन अलति पर्य्याप्नोति ।

अल + अच् ।) ताम्रकलसः । लोहगूथकम् इति
मेदिनी ॥

किणः, पुं, (कण् गतौ + अच् । पृषोदरादित्वात्

अत इत्वम् ।) मांसग्रन्थिः । निर्घर्षणजव्यथा-
चिह्नम् । इति लिङ्गादिसंग्रहे अमरभरतौ ।
कडा इति भाषा ॥ (यथा, रघुवंशे । १६ । ८४ ।
“तदेतदाजानुविलम्बिना ते
ज्याघातरेखाकिणलाश्छनेन ।
भुजेन रक्षापरिघेण भूमे-
रुपैतु योगं पुनरंसलेन” ॥
यथा च -- वाभटे उत्तरस्थाने ३७ अध्याये ॥
“राजकोषातकी मूलं किणो वा मथितोद्भवः” ॥)
घुणः । इति हारावली ॥

किणिः, स्त्री, (किणाय तन्निवृत्तये प्रभवति । बाहु-

लकात् इन् ।) अपामार्गः । इति शब्दरत्नावली ।
(अपामार्गशब्देऽस्या गुणादयो ज्ञातव्याः ॥)

किणिही, स्त्री, (किणः अस्त्यस्मिन् अस्य वा इति

इनिः । किणिनो ब्रणान् हन्ति । हन् + डः गौरा-
दित्वात् ङीष् ।) अपामार्गवृक्षः । इत्यमरः । २ ।
४ । ८९ । (यत्रास्य व्यवहारस्तद्यथा, --
“रसं शिरीषा किणिही पारिभद्रककेम्बुकात्” ॥
इति वाभटे त्त्रिकित्सास्थाने २१ अध्याये ॥
अस्याः पर्य्याया यथा, --
“अपामार्गस्तु शिखरी ह्यधः शल्यो मयूरकः ।
मर्कटी दुर्ग्रहा चापि किणिही खरमञ्जरी” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

किण्वं, क्ली, (कण + “उल्वादयश्च” । उणां ४ । ९५

इति साधुः । यद्वा “अशूप्रुषि लटीति” । उणां
१ । १५१ । इति क्वन् बहुलवचनादित्वम् ।) सुरा-
वीजम् । (यथा, मनुः । ८ । ३२६ ।
“सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च” ॥)
पापम् । इति मेदिनी ॥

किण्वः, पुं, क्ली, (कण् + “अशूप्रुषीति” उणां १ ।

१५१ । इति क्वन् बहुलवचनादित्वम् ।) सुरा-
बीजम् । इति वाचस्पतिरित्यमरटीकायां भरतः ॥

कित संशये । इच्छायां । वासे । आरोग्ये । इति

कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-सकञ्च-सेट् ।)
विचिकित्सति मनः सशेते इत्यर्थः । आरोग्ये
चिकित्सत्यातुरं वैद्यः । इच्छानिवासयोस्तु केत-
तीति वोपदेवः ॥ तत्र तिवादयो न प्रयुज्यन्ते ।
इति रमानाथः ॥ इति न वनितामेतां हन्तुं मनो
विचिकित्सते । इति तु अन्तर्भूतञ्यर्थतया कर्म्म-
कर्त्तरि सन्श्रन्थग्रन्थैत्यादिना यक्निपेधे सि-
द्धम् । इति दुर्गादासः ॥

कित र लि मतौ । इति कविकल्पद्रुमः ॥ (ह्वादिं-

परं-सकं-सेट् ।) र वैदिकः । लि चिकेत्ति । इति
दुर्गादासः ॥

कितवः, पुं, (कितं वायति कितेन वाति वा । कित

+ वा + कः ।) अक्षदेवी । (यथा, मनुः । ३ । १५१ ।
“जटिलञ्चानधीयानं दुर्ब्बलं कितवन्तथा ।
पृष्ठ २/१२७
याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत्” ॥)
धुस्तूरः । इत्यमरः । २ । ४ । ७७ ॥
(“कितवाडशयोर्वीजं नागरं सहरीतकम् ।
चूर्णीकृत्यार्द्रकरसैः” ॥ इति वैद्यककषायसंग्रहे
कासाधिकारे शाम्भरीगुडिकायाम् ॥) मत्तः ।
वञ्चकः । इति मेदिनी ॥
(यथा, भागवते । ८ । २० । ३ ।
“स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् ।
प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा” ॥
धूर्त्तः । यथा, आर्य्यासप्तशती ३३ ।
“अस्थिररागः कितवो मानी चपलो विदूषकस्त्व-
मसि । मम सख्याः पतसि करे पश्यामि यथा
ऋजुर्भवसि” ॥) खलः । इति शब्दरत्नावली ॥
(यथा महाभारते । १ । १ । १५६ ।
“यदाश्रौषं वाससां तत्र राशिं
समाक्षिपत् कितवो मन्दबुद्धिः” ॥)
रोचननामगन्धद्रव्यम् । इति जटाधरः राज-
निर्घण्टश्च ॥

किन्तनुः, पुं, (किं कुत्सिता तनुरस्य ।) अष्टपादः ।

इति त्रिकाण्डशेषः । माकडसा इति भाषा ॥

किन्तमाम्, व्य, (कुत्सितार्थे किम् । बहूनां मध्ये

एकस्य अतिशये तमप् । “किमेत्तिङव्ययेति” । ५
४ । ११ । इति आमुः ।) पृष्टैकतमम् । इति
शब्दरत्नावली ॥ इदमेषामतिशयेन किम् । इति
व्याकरणम् ॥

किन्तरां, व्य, (द्वयोर्मघ्ये एकस्यातिशये तरप् आमुश्च ।)

पृष्टैकतरम् । इति शब्दरत्नावली ॥ इदमनयो-
रतिशयेन किम् । किम् शब्दोऽत्र कुत्सार्थः ।
अतिकुत्सितं रूपमित्यर्थः । इति मुग्धबोध-
टीकायां दुर्गादासः ॥

किन्तु, व्य, (किं च तु च इति द्वन्द्वसमासः ।) कि-

म्पुनः । प्रागुक्तिविरुद्धार्थम् । यथा, --
“भृत्याभावे भवति मरणं किन्तु सम्भावितानाम्” ।
इति प्राचीनाः ॥

किन्तुघ्नः, पुं, ववाद्येकादशकरणान्तर्गतशेषकरणम् ।

इति दीपिका ॥ तत्र जातफलम् ।
“मित्रामित्रे नैव किञ्चित् विशेषो
धर्म्माधर्म्मे तुल्यता मानवस्य ।
स्तोत्रे वादे सर्व्वदा प्रीतियुक्तः
किन्तुघ्नाख्ये यस्य नूनं जनिः स्यात्” ॥
इति कोष्ठीप्रदीपः ॥

किन्धी, [न्] पुं, (किं कुत्सिता धीरस्त्यस्य । इनिः ।)

अश्वः । इति त्रिकाण्डशेषः ॥

किन्नरः, पुं, स्त्री, (किं कुत्सितो नरः । अश्वमुखत्वा

त्तथात्वम् ।) स्वनामख्यातदेवयोनिः । स तु
अश्वमुखत्वात् कुत्सितनरः स्वर्गगायकः तुम्बुरु-
प्रभृतिः । तत्पर्य्यायः । किम्पुरुषः २ तुरङ्गवदनः ३
मयुः ४ । इत्यमरः । १ । १ । ७४ ॥
अश्वमुखः ५ गीतमोदी ६ हरिणनर्त्तकः ७ ।
इति शब्दरत्नावली ॥ (यथा, --
“राक्षसाश्च पुलस्त्यस्य वानराः किन्नरास्तथा ।
यक्षाश्च मनुजव्याघ्र ! पुत्त्रास्तस्य च धीमतः” ॥
इति महाभाते । १ । ६६ । ७ ॥)
अर्हदुपासकविशेषः ॥ इति हेमचन्द्रः ॥

किन्नरेशः, पुं, (किन्नराणां ईशो राजा ।) कुवेरः ।

इत्यमरः । १ । १ । ७२ ॥

किन्नरेश्वरः, पुं, (किन्नराणां ईश्वरः ।) कुवेरः । इति

हलायुधः ॥

किन्नु, व्य, (किं च नु च । इति द्वन्द्वसमासः ।) प्रश्नः ॥

(यथा हेः रामायणे । २ । ७४ । ३ ।
“किन्न तेऽदोषयद्राजा रामो वा भृशधार्म्मिकः ।
ययोर्मृत्युर्विवासश्च त्वत्कृते त्युल्यमागतौ” ॥)
वितर्कः । (यथा शकुन्तलायां १ अङ्के ।
“किन्नु खलु यथा वयमस्यामेवमियमस्मान् प्रति
स्यात्” ॥) स्थानम् । सादृश्यम् । करणम् । इति
जटाधरः ॥

किम्, व्य, (कु + बाहुलकात् डिम् ।) कुत्सा ।

(यथा गोः रामायणे । १ । २२ । २१ ।
“देवदानवगन्धर्व्वा यक्षाः पतगपन्नगाः ।
न शक्ता रावणं सोढुं किं पुनर्मानवा युधि” ॥)
वितर्कः । (यथा, हितोपेदेशे ।
“किमनुरक्तो विरक्तो वा मयि स्वामीति ज्ञा-
स्यामि तावत्” ॥) निषेधः । प्रश्नः । इतिमेदिनी ॥

किम्, त्रि, क्षेपः । वितर्कः । निन्दा । परिप्रश्नः ।

इति मेदिनी ॥ (यथा, मनुः ११ । १९५ ।
“प्रणतं परिपृच्छेयुः साम्यं सौम्येच्छसीति किम्” ॥
किमपि अनिर्व्वचनीयम् । यथा, विष्णुपुराणे
१ । १९ । ७५ ।
“तस्माच्च सूक्ष्मादिविशेषाणां
अगोचरे यत् परमात्मरूपम् ।
किमप्यचिन्त्यं तव रूपमस्ति
तस्मै नमस्ते पुरुषोत्तमाय” ॥)

किमिच्छकः, पुं, (किमिच्छसीति प्रश्नेन दानार्थं का-

यति शब्दायतेऽत्र । निपातनात् साधुः ।) व्रत-
विशेषः । तद्विवरणं यथा, --
मार्कण्डेय उवाच ।
“अथ साऽवीक्षितो माता वीरा वीरप्रजावती ।
पुण्येऽहनि समाहूय प्राह पुत्त्रमवीक्षितम् ॥
पुत्त्राहमभ्यनुज्ञाता तव पित्रा महात्मना ।
उपवासं करिष्यामि दुष्करोऽयं किमिच्छकः ॥
स चायत्तस्तव पितुस्त्वया साध्यो मयापि वा ।
प्रतिज्ञाते त्वया पुत्त्र ! ततस्तत्र यताम्यहम् ॥
द्रव्यस्यार्द्धं महाकोषात् तव दास्याम्यहं पितुः ।
धनं ते पितुरायत्तमनुज्ञातास्मि तेन च ॥
क्लेशसाध्यो ममायत्तः स हि श्रेयो भविष्यति ।
साध्यो भविष्यो यदि ते कश्चिद्बलपराक्रमैः ॥
स ते साध्योऽन्यथा वापि दुःखसाध्यो भविष्यति ।
तत्त्वं प्रतिज्ञां कुरुषे यदि पुत्त्रात्र वै व्रते ॥
तदेतदहमारप्म्ये कथ्यतां यन्मतं तव ।
अवीक्षिदुवाच ।
वित्तं मे पितुरायत्तं ममेशत्वं न तत्र वै ।
यन्मच्छरीरनिष्पाद्यं तत् करिष्ये त्वयोदितम् ॥
किमिच्छकं व्रतं मातर्निश्चित्य भव निर्व्यथा ।
राज्ञा पित्राभ्यनुज्ञातं यदि वित्तेश्वरेण मे ॥
मार्कण्डेय उवाच ।
ततः सा राजमहिषी तद्व्रतं समुपोषिता ।
यथोक्तं साऽकरोत् पूजां राजराजस्य संयता ॥
निधीनामप्यशेषाणां निधिपालबलस्य च ।
लक्ष्म्याश्च परया भक्त्या यतवाक्कायमानसा ॥
विविक्ते तु गृहान्तःस्थः सोऽथ राजा करन्धमः ।
आसीन उक्तः सचिवैर्नोतिशास्त्रविशारदैः ॥
सचिवा ऊचुः ।
राजन् वयःपरिणतं तवैवं शासतो महीम् ।
एकस्ते तनयोऽवीक्षित् त्यक्तदारपरिग्रहः ॥
अपुत्त्रः स वने निष्ठां यदा भूप ! गमिष्यति ।
तदारिपक्षं पृथिवी निश्चितं तव यास्यति ॥
वंशक्षयस्ते भविता पितृपिण्डोदकक्षयः ।
एतन्महत्ते विवरं क्रिया हान्या भविष्यति ॥
तस्मात् कुरु तथा भूप ! यथा ते तनयः पुनः ।
करोति सततं बुद्धिं पितॄणामुपकारिणीम् ॥
श्रीमार्कण्डेय उवाच ।
एतस्मिन्नन्तरे शब्दं शुश्राव जगतीपतिः ।
पुरोहितस्य वीराया गदतोऽर्थिजनं प्रति ॥
कः किमिच्छति दुःसाध्यं कस्य किं साध्यतामिति ।
करन्धमस्य महिषी किमिच्छकमुपोषिता ।
राजपुत्त्रोऽप्यवीक्षित्तु श्रुत्वा पौरोहितं वचः ।
प्रत्युवाचार्थिनः सर्व्वान् राजद्वारमुपागतान् ॥
मया साध्यं शरीरेण यस्य किञ्चित् ब्रवीतु सः ।
मम माता महाभागा किमिच्छकमुपोषिता ॥
शृण्वन्तु मेऽर्थिनः सर्व्वे प्रतिज्ञातं मयात्र च ।
किमिच्छथ ददाम्येष क्रियमाणे किमिच्छके ॥
मार्कण्डेय उवाच ।
ततो राजा निशम्यैतत् वाक्यं पुत्त्रमुखाच्च्युतम् ।
समुपेत्याब्रवीत् पुत्त्रमहमर्थी प्रयच्छ मे ॥
अवीक्षिदुवाच ।
दातव्यं यन्मया तात ! भवते तद्ब्रवीहि माम् ।
कर्त्तव्यं दुष्करं वा ते साध्यं दुःसाध्यमेव च ॥
राजोवाच ।
यदि सत्यप्रतिज्ञस्त्वं ददासि च किमिच्छकम् ।
पौत्त्रस्य दर्शय मुखं ममोत्सङ्गगतस्य तत् ॥
अवीक्षिदुवाच ।
अहं तवैव तनयो ब्रह्मचर्य्यञ्च मे नृप ! ।
न मे पुत्त्रोऽस्ति पौत्त्रस्य दर्शयामि कथं मुखम् ॥
राजोवाच ।
पापाय ब्रह्मचर्य्यं ते यदिदं धार्य्यते त्वया ।
तस्मात्त्वं मोचयात्मानं मम पौत्त्रं प्रदर्शय ॥
अवीक्षिदुवाच ।
विरमास्मान्महाराज ! यदन्यत्तत् समादिश ।
वैराग्येण मया त्यक्तः स्त्रीसम्भोगस्तथा रसः ॥
राजोवाच ।
बहुभिर्युध्यमानस्य न दृष्टो वैरिभिर्ज्जयः ।
तत्रापि यदि वैराग्यमुपैषि तदपण्डितः ॥
किं वा नो बहुनोक्तेन ब्रह्मचर्य्यं परित्यज ।
मातुस्त्वमिच्छया वक्त्रं पौत्त्रम्य मम दर्शय ॥
भार्कण्डेय उवाच ।
यदा स बहुशस्तेन प्रोक्तः पत्त्रेण पार्थिवः ।
पृष्ठ २/१२८
नान्यत् प्रार्थयते किञ्चित् तदा पुत्त्रोऽब्रीत् पुनः ॥
दत्त्वा किमिच्छकं तुभ्यं प्राप्तोऽहं तात ! सङ्कटम् ।
तत् करिष्यामि निर्लज्जोभूयो दारपरिग्रहम् ॥
स्त्रियाः समक्षं विजितः पतितो धरणीतले ।
स्त्रीपतिर्भविता भूयस्तातैतदतिदुष्करम् ॥
तथापि किं करोम्येष सत्यपाशवशङ्गतः ।
करिष्यामि यथात्थ त्वं भुज्यतां निजशासनम्” ॥
इति श्रीमार्कण्डेयपुराणे अवीक्षिच्चरितनामा-
ध्यायः ॥

किमु, व्य, (किम् च उच इति द्वन्द्वसमासः ।) सम्भा-

वना । विमर्षः । इति मेदिनी ॥ (यथा, --
“निर्व्वाणदीपे किमुतैलदानं” इति शिष्टोक्तिः ॥)

किमुत, व्य, (किम् च उत् च इति द्वन्द्वसमासः ।)

प्रश्नः । वितर्कः । विकल्पः । अतिशयः । इति
मेदिनी ॥

किम्पचः, त्रि, (किं कुत्सितं अतिथ्यादिभ्योऽप्रदाय

केवलं स्वोदरमात्रपूरणायैव पचतीति । किम् +
पच् + अच् ।) किम्पचानः । इत्यमरटीकायां राय-
मुकुटः ॥

किम्पचानः, त्रि, (किं कुत्सितं कस्मैचिदपि न दत्त्वा

केवलं आत्मार्थं पचतीति । पच् + आनच् ।)
कृपणः । इत्यमरः । ३ । १ । ४८ ॥

किम्पाकः, त्रि, (किं कथमपि पाकः शिक्षाप्रकारो

यस्य ।) मातृशासितः । इति जटाधरः ॥

किम्पाकः, पुं, (कुत्सितः पाकः परिणामो यस्य ।)

महाकाललता । इति रत्नमाला । माकाल इति
भाषा ॥ (यथा, हेः रामायणे २ । ६६ । ६ ।
“न लुब्धो बुध्यते दोषान् किम्पाकमिव भक्षयन्” ॥
महाकालशब्देऽस्य विवरणं बोद्धव्यम् ॥)

किम्पुरुषः, पुं, (कुत्सितः पुरुषः ।) किन्नरः । इत्य-

मरः । १ । १ । ७४ । (यथा, कुमारे ३ । ३८ ।
“पुष्पासवाघूर्णितनेत्रशोभि
प्रियासुखं किम्पुरुषश्चुचुम्बे” ॥)
लोकभेदः । इति मेदिनी ॥ (अग्निध्रस्य नवपुत्त्रा-
णामेकः । यथा, विष्णुपुराणे २ । १ । १६, १९ ।
“जम्बुद्वीपेश्वरो यस्तु आग्नीध्रो मुनिसत्तम ! ।
तस्य पुत्त्रा बभूवुस्ते प्रजापतिसमा नव ॥
नाभिः किम्पुरुषश्चैव हरिवर्ष इलावृतः” ॥
“हेमकूटं तथा वर्षं ददौ किम्पुरुषाय सः” ॥
किंपुरुष इति संज्ञा यस्य वर्षस्य ।) जम्बूद्वीपस्य नव-
खण्डान्तर्गतं हिमाचलहेमकूटयोर्म्मध्यवर्त्ति वर्षम् ।
इति श्रीभागवतम् ॥ कुत्सितपुरुषः । इति ब्युत्प-
त्तिलब्धोऽर्थः ॥

किम्पुरुषेश्वरः, पुं, (किम्पुरुषाणां ईश्वरः शास्ता

राजा वा ।) कुवेरः । इति हेमचन्द्रः ॥

किम्पूरुषं, क्ली, (किम्पूरुष इत्याख्या यस्य वर्षस्य ।)

किम्पुरुषवर्षम् । इति त्रिकाण्डशेषः ॥

किम्भरा, स्त्री, (किञ्चित् बिभर्त्ति । किम् + भृ +

अच् ।) नलीनामगन्धद्रव्यम् । इति शब्दचन्द्रिका ॥

कियत्, त्रि, किम्परिमाणमस्य (“किमिदंभ्यां वो घः” ।

५ । २ । ४० । इति वतुप् । किमः क्यादेशः । वस्य घः ।)
कियत् परिमाणम् ॥ कतो इति भाषा ॥
(“गन्तव्यमस्ति कियदित्यसकृद्ब्रूवाणा” ॥
इति साहित्यदर्पणम् ॥)

कियदेतिका, स्त्री, उत्साहः । उद्योगः । इति

हेमचन्द्रः ॥

कियाहः, पुं, (कियान् रक्तवर्णः हयः । पृषोद-

रादित्वात् निपातनात् साधुः ।) रक्तवर्णघोटकः ।
इति हेमचन्द्रः ॥

किरः, पुं, (किरति विक्षिपति मलोपलक्षितस्थलम् ।

कॄ + कः ।) शूकरः । इत्यमरः । २ । ५ । २ ॥

किरकः, पुं, (किरति लिखतीति । कॄ + ण्वुल् ।)

लेखकः । इति त्रिकाण्डशेषः ॥

किरणः, पुं, (कीर्य्यन्ते विक्षिप्यन्ते रश्मयः अस्मात्

“क्वॄपॄवृजिमन्दिनिधाञः क्युः” । उणां २ । ८१ ।
इति क्युः ।) सूर्य्यः । इति हेमचन्द्रः ॥ (कीर्य्यते
परितः क्षिप्यतेऽसौ । कॄ + कर्म्मणि क्युः ।) सूर्य्य-
रश्मिरिति भगीरथमाधव्यौ ॥ चन्द्रसूर्य्ययोरश्मि-
रिति रायमुकुटः ॥ रत्नरश्मौ गभस्तिशब्दप्रयो-
गात् सामान्यरश्मिः । तथा च भट्टिः । १ । ६ ।
“ऊर्द्धस्फुरद्रत्नगभस्तिभिर्या” । इति मञ्जरी ।
इत्यमरटीकासारसुन्दरी ॥ तत्पर्य्यायः । अस्रः २
मयूखः ३ अंशुः ४ गभस्तिः ५ घृणिः ६ धृष्णिः ७
भानुः ८ करः ९ मरीचिः १० दीधितिः ११ ।
इत्यमरः । १ । ४ । ३३ ॥ त्विट् १२ द्युतिः १३ आभा
१४ प्रभा १५ विभा १६ रुक् १७ रुचिः १८ भाः
१९ छविः २० दीप्तिः २१ रश्मिः २२ अभीषुः २२
महः २४ ज्योतिः २५ सहः २६ रोचिः २७
शोचिः २८ त्विषा २९ पृश्निः ३० प्रकाशः ३१
आतपः ३२ द्योतः ३३ । इति शब्दरत्नावली ॥
पादः ३४ आलोकः ३५ वसुः ३६ ऋषिः ३७
भामः ३८ घर्म्मः ३९ लोकः ४० अर्च्चिः ४१ भासः
४२ वीचिः ४३ हेतिः ४४ धाम ४५ वर्च्चः ४६
शुष्म ४७ तेजः ४८ ओजः ४९ । इति जटाधरः ॥
(यथा, रघुवंशे ५ । ७४ ।
“भवति विरलभक्तिर्म्लानपुष्पोपहारः
स्वकिरणपरिवेषोद्भेदशून्याः प्रदीपाः” ॥)

किरणमाली, [न्] पुं, (किरणाणां माला अस्त्यस्य ।

किरणमाला + इनिः ।) सूर्य्यः । इति हारावली ॥

किरातः, पुं, (किरं अवस्कारादेर्निक्षेपस्थानभूमिं

अतति सततं अटतीति । अत + अण् । यद्वा
किरं शूकरादिकं अतति हिनस्तीति । अच् ।)
म्लेच्छभेदः ॥ (निषादः । यथा, किराते १२ । ५५ ।
“कच्छान्ते सुरसरितो निधाय सेना-
भन्वीतः स कतिपयैः किरातवर्य्यैः” ॥)
भूनिम्बः । (यथा, शार्ङ्गधरे मध्यखण्डे २ अः ।
१७ श्लोके ।
“पर्पटाब्दामृताविश्वकिरातैः साधितं जलम् ।
पञ्जभद्रमिदं ज्ञेयं वातपित्तज्वरापहम्” ॥)
अल्पतनुः । इति मेदिनी ॥ घोटकरक्षकः ।
इति सारस्वतः ॥

किरातकः, पुं, (किरात एव । स्वार्थे कन् ।) भूनिम्बः

इति राजनिर्घण्टः ॥

किराततिक्तः, पुं, (किरातः भूनिम्बस्तद्वत् तिक्तः ।)

वृक्षविशेषः । चिराता इति भाषा । तत्पर्य्यायः ।
भूनिम्बः २ अनार्य्यतिक्तः ३ । इत्यमरः । २ । ४ ।
१४३ ॥ कैरातम् ४ काण्डतिक्तकः ५ । इति रत्न-
माला ॥ किरातकः ६ इति जटाधरः ॥ चिरतिक्तः
७ चिरातिक्तः ८ तिक्तकः ९ सुतिक्तकः १० ।
इति शब्दरत्नावली ॥ कटुतिक्तः ११ रामसेनकः
१२ ॥ अस्य गुणाः । वायुवृद्धिकारित्वम् । रूक्षत्वम् ।
कफपित्तज्वरनाशित्वञ्च । इति राजवल्लभः ॥
“किरातकोऽन्यो नैपालः सार्द्धतिक्तो ज्ज्वरान्तकः ।
किरातः सारको रूक्षः शीतलस्तिक्तको लघुः ॥
सन्निपातज्वरश्वासकफपित्तास्रदाहनुत् ।
काशशोषतृषाकुष्ठञ्वरव्रणकृमिप्रणुत्” ॥
इति भावप्रकाशः ॥ राजनिर्घण्टोक्तगुणपर्य्यायौ
भूनिम्बशब्दे द्रष्टव्यौ ॥
(“किराततिक्तममृतां द्राक्षामामलकीं शठी ।
निष्क्वाथ्य पित्तानिलजे क्वाथन्तं सगुडं पिबेत् ॥
इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥)

किराताशी, [न्] पुं, (किरातान् निषादान् अ-

श्नातीति । अश भोजने + णिनिः ।) गरुडः ।
इति शब्दरत्नावली ॥ (अस्य विवरणं यथा महा-
भारते १ । २८ अध्याये ।
“इत्त्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् ।
गच्छाम्यमृतमाहर्त्तुं भक्ष्यमिच्छामि वेदितुम् ॥
विनतोवाच ।
समुद्रकुक्ष्यावेकान्ते निषादालयमुत्तमम् ।
निषादानां सहस्नाणि तान् भुक्त्वाऽमृतमानय ।
नच ते ब्राह्मणं हन्तुं कार्य्या बुद्धिः कथञ्चन” ॥)

किरातिः, स्त्री, (किरेण समन्तात् जलक्षेपेण अतति

गच्छतीति । अत + इन् ।) गङ्गा । इति जटाधरः ॥

किरातिनी, स्त्री, (किरातदेश उत्पत्तिस्थानत्वेना-

स्त्यस्याः । इनिः । ङीप् ।) जटामांसी । इति
शब्दरत्नावली ॥ (जटामांसीशब्देऽस्या गुणादिवि-
षयो ज्ञेयः ॥)

किराती, स्त्री, (किराति + वा ङीष् ।) दुर्गा । गङ्गा

कुट्टिनी । इति मेदिनी ॥ स्वर्गगङ्गा । इति
शब्दमाला ॥

किरिः, पुं, (किरति समलभूमिम् । “कॄगॄशॄपॄ

कुटिभिदिच्छिदिभ्यः” । उणां ४ । १४२ । इति
इप्रत्ययः ।) शूकरः । इत्यमरः । २ । ५ । २ ॥

किरिटि, क्ली, (किरिणा शूकरेण टल्यते विक्लव्यते ।

टल विक्लवे + डिः ।) हिन्तालफलम् । इति
त्रिकाण्डशेषः ॥

किरीटः, पुं क्ली, (किरति कीर्य्यतेऽनेन वा ।

“कॄतॄकृषिभ्यः कीटन्” । उणां ४ । १८४ इति
कीटन् ।) मुकुटः । इत्यमरः । २ । ६ । १०२ ॥

किरिटी, [न्] पुं, (किरीटोऽस्त्यस्य । किरीट +

इनिः ।) अर्ज्जुनः । इति त्रिकाण्डशेषः ।
(यथा, महाभारते । ४ । ४२ । १७ ॥
“पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः ।
किरीटं मुर्द्ध्नि सूर्य्यामं तेनाहुर्मां किरीटिनम्” ॥)
किरीटयुक्ते त्रि ॥ (यथा भगवद्गीतायां ११ । १७ ।
“किरीटिनं गदिनं चक्रिणञ्च तेजोराशिं सर्व्वतो
पृष्ठ २/१२९
दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दी-
प्तानलार्कद्युतिमप्रमेयम्” ॥)

किर्म्मी, स्त्री, (कॄ + कि + निपातनात् मुट् । ततो

ङीप् ।) पलालः । गृहम् । स्वर्णपुत्तलिका । इति
मेदिनी ॥ लोहपुत्तलिका । इति विश्वः ॥

किर्म्मीरः, पुं, (कॄ + गम्भीरादित्वात् ईरन् निपा-

तनात् साधुः ।) नागरङ्गवृक्षः । राक्षसविशेषः ।
(यथा महाभारते ३ । ११ । २२ ।
“प्रत्युवाचाथ तद्रक्षो धर्म्मराजं युधिष्ठिरम् ।
अहं वकस्य वै भ्राता किर्म्मीर इति विश्रुतः” ॥)
कर्व्वूरवर्णः । इति मेदिनी ॥ तद्वर्णयुक्ते त्रि ।
इत्यमरः । १ । ५ । १७ ॥

किर्म्मीरजित्, पुं, (किर्म्मीरं जितवान् । जि +

भूते क्विप् ।) भीमसेनः । इति त्रिकाण्डशेषः ॥
(किर्म्मीरवधकथा महाभारते ३ । ११ अध्याये
उक्ता । तद्यथा, --
“प्रत्युवाचाथ तद्रक्षो धर्म्मराजं युधिष्ठिरम् ।
अहं वकस्य वै भ्राता किर्म्मीर इति विश्रुतः ॥
वनेऽस्मिन् काम्यके शून्ये निवसामि गतज्वरः ।
युधि निर्जित्य पुरुषानाहारं नित्यमाचरन् ॥
के यूयमभिसंप्राप्ता भक्ष्यभूता ममान्तिकम् ।
युधि निर्जित्य वः सर्व्वान् भक्षयिष्ये गतज्वरः” ॥
वैशम्पायन उवाच ।
“युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः ।
आचचक्षे ततः सर्व्वं गोत्रनामादि भारत !” ॥
“किर्म्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम ।
उपपादितमद्येह चिरकालान्मनोगतम् ॥
भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः ।
चरामि पृथिवीं कृत्स्नां नैनञ्चासादयाम्यहम् ॥
सोऽयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम् ।
अनेन हि मम भ्राता वको विनिहतः प्रियः ॥
वेत्रकीयगृहे राजन् ! ब्राह्मणच्छद्मरूपिणा ।
विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम्” ॥
“यदि तेन पुरा मुक्तो भीमसेनो वकेन वै ।
अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर !” ॥
“एवमुक्तस्तु धर्म्मात्मा सत्यसन्धो युधिष्ठिरः ।
नैतदस्तीति संक्रुद्धो भर्त्सयामास राक्षसम् ॥
ततो मीमो महाबाहुरारुल्य तरसा द्रुमम् ।
दशव्याममथोद्विद्धं निष्पत्रमकरोत्तदा” ॥
“किर्म्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम् ।
दण्डपाणिरिव क्रुद्धः समये प्रत्यधावत” ॥
“तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम् ।
उभावपि चकाशेते प्रष्टद्धौ वृषभाविव ॥
तयोरासीत्सुतुमुलः संप्रहारः सुदारुणः ।
नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दीप्तयोः” ॥
“तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा ।
शब्दः समभवद्घोरो वेणुस्फोटसमो युधि ॥
अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः ।
धूनयामास वेगेन वायुश्चण्ड इव द्रुमम् ॥
स भीमेन परामृष्टो दुर्ब्बलो बलिना रणे ।
व्यस्पन्दत यथा प्राणं विचकर्ष च पाण्डवम् ॥
तत एनं परिश्रान्तमुपलक्ष्य वृकोदरः ।
योक्त्रयामास बाहुभ्यां पशुं रसनया यथा ॥
विनदन्तं महानादं भिन्नभेरीस्वनं बली ।
भ्रामयामास सुचिरं विष्फुरन्तमचेतनम् ॥
तं विसीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः ।
प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत् ॥
अथ जर्जरसर्व्वाङ्गं व्याविद्धनयनाम्बरम् ।
भूतले भ्रामयामास वाक्यञ्चेदमुवाच ह ॥
हिडिम्बवकयोः पाप ! न त्वमश्रुप्रमार्जनम् ।
करिष्यसि गतश्चापि यमस्य सदनं प्रति ॥
इत्येवमुक्त्वा पुरुषप्रवीर-
स्तं राक्षसं क्रोधपरीतचेताः ।
विस्रस्तवस्त्राभरणं स्फुरन्त-
मुद्भ्रान्तचित्तं व्यसुमुत्ससज” ॥ * ॥)

किर्म्मीरत्वक् [च्] स्त्री, (किर्म्मीरा चित्रा त्वक्

यस्य ।) नारङ्गवृक्षः । इति त्रिकाण्डशेषः ॥ (ना-
रङ्गनागरङ्गशब्दयोरस्या गुणादयो बोध्याः ॥)

किर्म्मीरभित् [द्] पुं, (किर्म्मीरं राक्षसविशेषं

भिन्नवान् । भिद् + क्विप् भूते ।) भीमसेनः । इति
भूरिप्रयोगः ॥ (अस्य विवरणं किर्म्मीरजित्-शब्दे
द्रष्टव्यम् ॥)

किर्म्मीरसूदनः, पुं, (किर्म्मीरं सूदयति हन्तीति ।

सूद + णिच् + ल्युः । कर्त्तृविवक्षावशात् क्वचिद्
भूतार्थे वा ।) भीमसेनः । इति हेमचन्द्रः ॥
(अस्य विवरणं किर्म्मीरजिच्छब्दे द्रष्टव्यम् ॥)

किल क नुदौ । इति कविकल्पद्रुमः ॥ (चुरां-परं-

सकं-सेट् ।) क केलयति । नुदिरिति णुद ञौश्
प्रेरणे इत्यस्य औणादिककिप्रत्यये रूपम् । इति
दुर्गादासः ॥

किल श शौक्ल्ये । क्रीडे । इति कविकल्पद्रुमः ॥

(तुदां-परं-अकं-सेट् ।) श किलति प्रासादः
शिशुर्व्वा । केलिता । इति दुर्गादासः ॥

किल, व्य, (किल + कः ।) वार्त्ता । सम्भाव्यम् । इत्य-

मरः । ३ । ३ । २५३ ॥ निश्चयः । इति तट्टीका-
सारसुन्दरी ॥ (यथा शाकुन्तले १ माङ्के दुष्म-
न्तोक्तिः ।
“इदं किलाव्याजमनोहरं वपु-
स्तपःक्षमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया
शमीलतां छेत्तुमृषिर्व्यवस्यति” ॥)
अनुनयार्थम् इति मेदिनी ॥

किलकिञ्चितं, क्ली, (किल अलीकेन किं ईषत् चितं

रचितम् ।) हावः । शृङ्गारभावजा क्रिया । इति
जटाधरः ॥ तस्य लक्षणम् ।
यथा, अलङ्कारकौस्तुभे ।
“गर्व्वाऽभिलासरुदितस्मितासूयाभयक्रुधाम् ।
सङ्करीकरणं यत् स्यादुच्यते किलकिञ्चितम्” ॥
(तथा च साहित्यदर्पणे ३ । १०९ ।
“स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् ।
साङ्कर्य्यं किलकिञ्चितमभाष्टतमसङ्गमादिजाद्धर्षात्” ॥
उदाहरणं तत्रैव यथा, --
“पाणिरोधमविरोधितवाञ्छं
भर्त्सनाश्च मधुरस्मितगर्भाः ।
कामिनः स्म कुरुते करभोरु
हारिशुष्करुदितञ्च सुखेऽपि” ॥)

किलकिला, स्त्री, (किल + कः । प्रकारे वीप्सायां

वा द्वित्वम् । स्त्रियां टाप् ।) हर्षध्वनिः । किलकिल-
शब्द इति यावत् । तत्पर्य्यायः । हर्षस्वनः २ ।
इति त्रिकाण्डशेषः ॥
(“आसीत् किलकिलाशब्द स्तस्मिन् गच्छति पा-
र्थिवे” । इति महाभारते १ । ६९ । ६ ॥)

किलाटः, पुं, क्षीरविकृतिः । इति जटाधरः ॥ दधि-

कूर्च्चिकातक्रकूर्च्चिकयोः पिण्डः । अस्य गुणाः ।
शीतत्वम् । स्निग्धत्वम् । गुरुत्वम् । गौल्यत्वम् ।
वृष्यत्वम् । पित्तापहत्वञ्च । इति राजनिर्घण्टः ॥
(“नष्टदुग्धस्य पक्वस्य पिण्डः प्रोक्तः किलाटकः” ॥
इति भावप्रकाशः । तथा चरके सूत्रस्थाने ।
२७ अध्याये ॥
“पीयूषो मोरटञ्चैव किलाटा विविधाश्च ये ।
दीप्ताग्नीनामनिद्राणां सर्व्व एते सुखप्रदाः ॥
गुरवस्तर्पणा वृष्या वृंहणाः पवनापहाः” ॥
अस्योत्पत्तिविवरणं यथा भावप्रकाशस्य पूर्ब्बखण्डे
द्वितीये भागे ॥ किलाटकः गिजिरी इति लोके ।
“अपक्वमेव यन्नष्ठं क्षीरशाकं हि तत्पयः” ।
क्षीरशाकं तुषिभरा इति लोके ।
“दध्ना तक्रेण वा नष्टं दुग्धं बद्धं सुवाससा ।
द्रवभावेन सहितं तक्रपिण्डः स उच्यते ॥
नष्टदुग्धं भवन्नीरं मोरटञ्जेञ्जटोऽब्रवीत् ।
पेयूषञ्च किलाटश्च क्षीरशाकं तथैव च ॥
तक्रपिण्ड इमे वृष्या वृंहणा बलवर्द्धनाः ।
गुरवः श्लेष्मला हृद्या वातपित्तविनाशनाः ॥
दीप्ताग्नीनां विनिद्राणां विद्रधौ चाभिपूजिताः ।
मुखशोषतृषादाहरक्तपित्तज्वरप्रणुत्” ।)

किलाटी, स्त्री, (किलाट + गौरादित्वात् ङीष् ।)

क्षीरविकृतिः । तत्पर्य्यायः । कूर्च्चिका २ । इति
हेमचन्द्रः ॥ (कूर्च्चिकाशब्देऽस्या गुणपर्य्याया ज्ञा-
तव्याः ॥)

किलाटी, [न्] पुं, (किलतीति । किल + कः । अट

+ णिनिः । ततः । किलश्चासौ आटी चेति कर्म्म-
धारयः । यद्वा किलमटतीति ।) वंशः । इति
हारावली ॥ वाँश् इति भाषा ॥

किलासं, क्ली, (किलं वर्णं अस्यति क्षिपति विकृतिं

करोति इति यावत् । किल + अस + “कर्म्म-
ण्यण्” । ३ । २ । १ । इति अण् ।) रोगविशेषः ।
छुली इति भाषा । तत्पर्य्यायः । सिध्मा २ । इत्यमरः ।
२ । ६ । ५३ ॥ सिध्मम् ३ । इति भरतः ॥ त्वक्पुष्पम्
४ त्वक्पुष्पी ५ । इति हेमचन्द्रः ॥
(“कुष्ठैकसम्भवं श्वित्रं किलासं दारुणञ्च तत् ।
निर्द्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम् ॥
वाताद्रुक्षारुणं पित्तात्ताम्रं कमलपत्रवत् ।
सदाहं रोमविध्वंसि ककाच्छ्वेतं घनं गुरु ॥
सकण्डु च क्रमाद्रक्तमांसमेदः सुचादिशेत् ।
वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम् ॥
अशुक्लरोमाबहुलमसंसृष्टं मिथो नवम् ।
अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा” ॥
पृष्ठ २/१३०
इति वामटे निदानस्थाने १४ अध्याये ॥
अस्यौषधं यथा ॥
“कुष्ठं तमालपत्रं मरिचं समनःशिलं सकाशीशम् ।
तैलेन युक्तमुचितं सप्ताहं भाजने ताम्रे ॥
तेनालिप्तं सिध्मं सप्ताहाद्व्येति तिष्ठतो घर्म्मे ।
मासान्नवं किलासं स्नानं मुक्त्वा विशुद्धतनोः” ॥
इति सिध्मलेपः ॥ * ॥
“किलासहन्ता मूलान्यावल्गुजानि लाक्षा च ।
गोपित्तमञ्जने द्वे पिप्पल्यः काललोहरजः” ॥
इति श्वित्रे प्रलेपः ॥
“दारुणं वारुणं श्वित्रं किलासं नामभिस्त्रिभिः ।
विज्ञेयं त्रिविधं तच्च त्रिदोषं प्रायशश्च तत् ॥
दोषे रक्ताश्रिते रक्तं ताम्रं माससमाश्रिते ।
श्वेतं मेदः श्रिते श्वित्रं गुरुता चोत्तरोत्तरम्” ॥
असाध्यलक्षणमस्य यथा, --
“यत्परस्परतो भिन्नं बहु यद्रक्तलोमवत् ।
यच्च वर्षगणोत्पन्नं तच्छ्वित्रं नैव सिध्यति” ॥
अस्य निदानं यथा, --
“वचांस्यतथ्यानि कृतघ्नभावो
निन्दा भुराणां गुरुधर्षणञ्च ।
पापक्रिया पूर्ब्बकृतञ्च कर्म्म
हेतुः किलासस्य विरोधिचान्नम्” ॥
इति चरके चिकित्सास्थाने ६ अध्याये ॥)

किलासघ्नः, पुं, (किलासं हन्तीति । हन् + टक् ।)

वृक्षविशेषः । काँकरोल इति भाषा । तत्पर्य्यायः ।
कर्कोटकः २ तिक्तपत्रः ३ सुगन्धकः ४ । इति हेम
चन्द्रः ॥ (कर्कोटकशब्देऽस्य गुणपर्य्याया ज्ञेयाः ॥)

किलासी, [न्] त्रि, (किलासं अस्यास्तीति इनिः ।)

किलासरोगयुक्तः । तत्पर्य्यायः । सिध्मलः २ ।
इत्यमरः । २ । ६ । ६१ ॥

किलिञ्चं, क्ली, (किल्यतेऽनेन । किल् + इन् । किलिं

चिनोतीति । चि + डः । पृषोदरात् साधुः ।) सूक्ष्म
दारु । इति जटाधरः ॥ किलिञ्चमिति च पाठः ॥

किलिञ्जः, पुं, (किलितो जायते । जन + डः । पृषो-

दरादित्वात् मुम् च ।) सूक्ष्मदारु । इति त्रिकाण्ड-
शेषः ॥ (क्वचित् नपुंसकत्वमपि दृश्यते ॥)

किलिञ्जकः, पुं, (किलिञ्ज + स्वार्थे कः ।) काशादि-

रज्जुः । येन कुसूलं वेष्ट्यते कुसूलञ्च मरायिरिति
टीकान्तरम् । तृणरचितटाटी इति ख्यात
इत्यन्ये । इत्यमरटीकायां मरतः ॥ तत्पर्य्यायः ।
कटः २ । इत्यमरः । २ । ९ । २६ ॥

किलिमं, क्ली, (किल + इमन् ।) देवदारु । इति

शब्दरत्नावली राजनिर्घण्टश्च ॥
(“मरिचं पिप्पलीमूलं मगधागजपिप्पली ।
सरलः किलिमं हिङ्गु भार्गोतेजोवतीत्वचौ” ॥
इति चरके कल्पस्थाने ७ अध्याये ॥)

किल्विषं, क्ली, (“किलेर्वुक् च” । उणां १ । ५१ इति

टिषच् वुकागमश्च ।) पापम् । अपराधः । इत्य-
मरः । ३ । ३ । २२२ ॥ (यथा गीतायां ३ । १३ ।
“यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्व्वकिल्विषैः” ॥)
रोगः । इति मेदिनी ॥

किल्वी, [न्] पुं, (किल् + भावे क्विप् ततोऽस्त्यर्थे

बाहुलकात् विनिः ।) घोटकः । इति त्रिकाण्डशेषः ॥

किशलं, क्ली पुं, (किञ्चित् शलति । शल चलने गतौ

वा + अच् पृषोदरादित्वात् मलोपः ।) पल्लवः ।
इति शब्दरत्नावली ॥

किशलयं, क्ली पुं, (किञ्चित् शलति । शल चलने +

बाहुलकात् कयन् प्रत्ययः पृषोदरात् मलोपे-
साधुः ।) पल्लवः । इति शब्दरत्नावली ॥
(“कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूलाः
भिन्नो रागः किशलयरुचामाज्यधूमोद्गमेन” ॥
इति शाकुन्तले १ माङ्कः । अत्र केचित् दन्त्यसका-
रमपि पठन्ति ॥)

किशोरः, पुं, (किञ्चित् शृणाति । शॄ हिंसायाम् ।

“किशोरादयश्च” । उणाम् । १ । ६६ । इति
ओरन् । निपातनात् साधुः ।) अश्वशिशुः । (“कि-
शोरं वडवा यथा” । इति महाभारतम् ॥) तैल
पर्ण्योषधिः । सूर्य्यः । तरुणावस्थः । स तु एका-
दशवर्षावधिपञ्चदशवर्षपर्य्यन्तवयस्कः । इति मे-
दिनी ॥ कैशोरावस्थायुक्ते वाच्यलिङ्गोऽपि ॥
(यथा, श्रीभागवतटीकाकृत्स्वामिपादधृतवचनम् ।
“कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।
कैशोरमापञ्चदशात् यौवनञ्च ततः परम्” ॥)

किष्क क ङ वधे । इति कविकल्पद्रुमः ॥ (चुरां-

आत्मं-सकं-सेट् ।) मूर्द्धन्योपधः । क ङ किष्क-
यते । इति दुर्गादासः ॥

किष्किन्धः, पुं, (किं किं दधाति । धा + कः । पार-

स्कारादित्वात् पूर्ब्बस्य किमो मलोपः सुट् षत्वञ्च
निपातनात् ।) ओड्रदेशस्थपर्व्वतविशेषः । तत्प-
र्व्वतगुहा च । इति शब्दरत्नावली ॥

किष्किन्धी, स्त्री, (किष्किन्ध + गौरादित्वात् ङीष् ।)

किष्किन्धपर्व्वतगुहा । इति शब्दरत्नावली ॥

किष्किन्ध्यः, पुं, (किं किं दधातीति धा पारस्कारादि-

सुटि पूर्ब्बमलोपे च स्वार्थे यत् प्रत्ययेन नि-
पातनात् साधुः ।) स्वनामख्यातपर्व्वतः । इति
शब्दरत्नावली ॥

किष्किन्ध्या, स्त्री, (किष्किन्ध्य + टाप् ।) किष्किन्ध्य-

पर्व्वतगुहा । इति शब्दरत्नावली ॥ सा तु पुरा-
वालिनामवानरराजधान्यासीत् श्रीरामचन्द्रस्तं
हत्वा सुग्रीवाय तद्राजधानीं दत्तवान् । इति
रामायणम् ॥

किष्किन्ध्याधिपः, पुं, (किष्किन्ध्याया अधिपः ।)

वालिनामवानरराजः । इति जटाधरः ॥ (सुग्रीवः ।
इति रामायणम् ॥)

किष्कुः, पुं, स्त्री, (कै + मृगय्वादित्वात् कुः । पार-

स्कारादित्वात् सुटि षत्वे च निपातनात् साधुः ।)
वितस्तिः । द्वादशाङ्गुलिपरिमाणम् । प्रकोष्ठः ।
कफोणेरधोमणिबन्धपर्य्यन्तः । हस्तः । इति मे-
दिनी ॥ (यथा महाभारते २ । १ । १९ ।
“सर्व्वर्त्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम् ।
दशकिष्कुसहस्रां तां मापयामास सर्व्वतः” ॥)
कुत्सिते त्रि । इति विश्वो हेमचन्द्रश्च ॥

किष्कुपर्व्वा, [न्] पुं, (किष्कुमितं वितस्तिमितं

हस्तमितं वा पर्व्व यस्य ।) इक्षुः । वेणुः । पोट-
गलः । इति मेदिनी । नल इति भाषा ॥

किसलं, क्ली पुं, (किमीषत् सलति । सल गतौ +

अच् । पृषोदरादित्वात् मलोपे निपातनात् साधुः ।)
किसलयम् । इति शब्दरत्नावली भरतश्च ॥

किसलयं, क्ली पुं, (किञ्चित् ईषत् वा सलति । सल

+ बाहुलकात् कयन् । पृषोदरात् मलोपे साधुः ।)
पल्लवः । इत्यमरः । २ । ४ । १४ ॥ स तु नवपत्रादि-
युक्तशाखाग्रपर्व्वणि नवपत्रस्तवकः इति मधुः । इति
भरतः ॥ (यथा गोः रामायणे । ४ । ५० । २८ ।
“तरुणादित्यसङ्काशान् रक्तैः किसलयैर्वृतान् ।
जातरूपमयैश्चापि चरद्भि र्मत्स्यकच्छपैः” ॥)

कीकटः, पुं, (की शनैर्द्रुतं वा कटति गच्छति धावति ।

की + कट् + अच् ।) घोटकः । देशभेदः । इति
विश्वः ॥ (यथा शक्तिसङ्गमतन्त्रे ।
“चरणाद्रिं समारभ्य गृध्रकूटान्तकं शिवे ! ।
तावत् कीकटदेशः स्यात् तदन्तर्मगधो भवेत्” ॥
वेहार इति ख्यातः । अत्र बुद्धः समजनि ।
इति भागवतम् । १ । ३ । २४ ॥ अस्य कीकट
इति पुरातननाम आसीत् ततो जरासन्धेन
मगध इत्याख्या प्रदत्ता ॥ स्वनामख्यातः सङ्कट-
पुत्त्रः । यथा, मागवते ६ । ६ । ६ ।
“ककुभः सङ्कटस्तस्य कीकटस्तनयो यतः” ॥)

कीकटः, त्रि, (की कुत्सितं धनाभावात् कटति प्रका-

शते । की + कट् + अच् ।) निर्धनः । (की कुत्सितं
कटति वर्षति ददाति अर्थिने कार्पण्यात् इति ।)
कृपणः । इति मेदिनी ॥

कीकटाः, पुं, (की कुत्सितं ईषत् वा कटति वर्षति

येषु इन्द्रः । ईषद्वर्षतया तद्देशानां तथात्वम् ।
की + कट् + अधिकरणे अप् ।) देशविशेषः ।
बहुवचनान्तशब्दोऽयम् । इति मेदिनी ॥ वेहार
इति ख्यातः । इति केचित् ॥ (यथा, भागवते
१ । ३ । २४ ॥
“ततः कलौ संप्रवृत्ते संमोहाय सुरद्विषाम् ।
बूद्धो नाम्नाञ्जनसुतः कोकटेष भविष्यति” ॥
देशोऽयं कुत्सिताचारपरिपूर्णः । यथा, भागवते ।
७ । १० । १८ ।
“साधवः समुदाचारास्ते पूयन्त्यऽपि कीकटाः” ॥)

कीकसं, क्ली, (की कुत्सितेन रक्तादिना देहाभ्यन्तरे

कसति उत्पद्यते । की + कस + अच् ।) अस्थि ।
इत्यमरः । २ । ६ । ६८ ॥ (अस्थिशब्दे विवरणं
ज्ञातव्यम् ॥)

कीकसः, पुं, (की कुत्सितं यथा स्यात् तथा कसति ।

कस गतौ + अच् ।) कृमिजातिः । इति मेदिनी ॥
कर्कशे त्रि । इति शब्दरत्नावली ॥

कीकसास्यः, पुं, (कीकसं अस्थि आस्येऽस्य ।) पक्षी ।

इति हारावली ॥

कीकिः, पुं, (कीति शब्दं कायति । कै + बाहुलकात्

डिः ।) किकिः । चाषपक्षी । इत्यमरटीका ॥

कीचकः, पुं, (चीकयति शब्दायते । चीक मर्षणे

“चीकयतेराद्यन्तविपर्य्ययश्च” । उणां ५ । ३६
इति वुन् आद्यन्तविपर्य्ययश्च ।) अनिलयोगात्
शब्दायमानवंशः । इत्यमरः । २ । ४ । १६१ ॥ सर-
पृष्ठ २/१३१
न्ध्रकवंशः । (यथा, कुमारे १ । ८ ।
“यः पूरयन् कीचकरन्ध्रभागान्
दरीमुखोत्थेन समीरणेन” ॥)
राक्षसविशेषः । इति शब्दरत्नावली ॥ दैत्यभेदः ।
वृक्षविशेषः । इति विश्वः ॥ नलः । इति राज-
निर्घण्टः ॥ केकयराजपुत्त्रः । स च विराटराजस्य
श्यालः सेनापतिश्च ॥ (यथा महाभारते ४ ।
कीचकवधपर्व्वणि १३ । ५ ।
“सेनापतिर्विराटस्य ददर्श द्रुप्दात्मजाम् ।
तां दृष्ट्वा देवगर्भाभां चरन्तीं देवतामिव ।
कीचकः कामयामास कामवाणप्रपीडितः” ॥
अयन्तु छद्मवेशधारिणा विराटभवनस्थेन भीम-
सेनेन हतः । अस्य विवरणं महाभारते ४ पर्व्वणि
१३ अध्यायमारभ्य द्रष्टव्यम् । देशविशेषः । तत्र
बहुवचनान्तोऽयम् ॥ यथा, महाभारते १ । १५७ । २ ।
“मत्स्यान् त्रिगर्त्तान् पाञ्चालान्कीचकानन्तरेणच ।
रमणीयान्वनोद्देशान् प्रेक्षमाणाः सरांसि च” ॥)

कीचकजित्, पुं, (कीचकं जितवान् । जि + भूते

क्विप् तुक् च ।) भीमसेनः । इति त्रिकाण्डशेषः ॥
(पुराकिल दुष्टात्मा कीचकः विराटभवनस्थां
सैरिन्ध्रीरूपधारिणीं द्रौपदीमकामयत । द्रौपदी
तु तस्य कामुकस्य दुरभिसन्धिं विज्ञाय तं बहुल
कटूक्त्या निर्भर्त्सयामास । अथ कीचक एवमप-
मानितः क्रुधा तां पदा ताडितवान् । अथ सा-
भिमानिनी द्रौपदी निजदुःखं भीमं निवेदया-
मास । भीमस्तु एतदाकर्ण्य संजातरोषः कीचकं
हन्तुं मनो दधे । अथ सुबुद्धिर्भीमो द्रौपदीं
उपदिदेश श्वो निशायां यथा स दुरात्मा राज-
श्यालकः मत्स्यराजशुद्धान्तकन्यानर्त्तनशालायां त्व-
ल्लोभेन समुपतिष्ठेत तथाऽऽश्वास्य समयो विधी-
यताम् । ततस्त्वद्वेशेन तत्र सङ्गतोऽहमेनं कामार्त्तं
दुष्कार्य्यस्य फलं अनुभावयामि । एवं स्थिरीकृते
द्रौपदी पूर्ब्बोक्तमत्त्रितं स्थानं कीचकं विज्ञापित-
वतो । अथ निशायां मूढबुद्धिः कामुकवेशधारी
तत्रैव गतः प्रच्छन्नोपविष्टेन बलीयसा भीमेन
पशुमारं निपातितः ॥ एतद्विस्तृतिस्तु महाभा-
रते ४ । २१ अध्याये द्रष्टव्या ॥)

कीचकनिसूदनः, पुं, (कीचकं निसूदयतीति । नि +

सूद + णिच् ल्युः ।) भीमसेनः । इति हेमचन्द्रः ॥
(अस्य विवरणं कीचकजिच्छब्दे द्रष्टव्यम् ॥)

कीचकभित्, पुं, (कीचकं भिन्नवान् । भिद् + क्विप् ।)

भीमसेनः । इति भूरिप्रयोगः ॥ (अस्य विवरणं
कीचकजिच्छब्दे द्रष्टव्यम् ॥)

कीट, क बन्धे । वर्णे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-अकं-सेट् ।) क कीटयति कीटः । वर्णः
कैश्चिन्नमन्यते । इति दुर्गादासः ॥

कीटः, पुं, (कीट् + अच् ।) कृमिजातिः । इति शब्द-

रत्नावली ॥ (यथा मनुः १ । ४० ।
“कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम्” ॥
“सर्पाणामेव विण्मूत्रशुक्राण्डशवकोथजाः ।
दोषैर्व्यस्तैः समस्तैश्व युक्ताः कीटाश्चतुर्विधाः ॥
दष्टस्य कीटैर्वायव्यैदंशस्तोदरुजोल्वणः ।
आग्नेयैरल्पसंस्रावो दाहरागविसर्पवान् ॥
पक्वपीलु फलप्रख्यः खर्ज्जूरसदृशोऽथवा ।
कफाधिकैर्मन्दरुजः पक्वोदुम्बरसन्निभः ॥
स्रावाढ्यः सर्व्वलिङ्गस्तु विवर्ज्ज्यः सान्निपातिकैः ।
वेगाश्च सर्पवच्छोफो वर्द्धिष्णुर्विस्ररक्तता ॥
शिरोऽक्षि गौरवं मूर्च्छाभ्रमः श्वासोऽतिवेदना ।
सर्व्वेषां कर्णिकाशोफो ज्वरः कण्डूररोचकः” ॥
अस्य चिकित्सा यथा ।
“अर्कस्य दुग्धेन शिरीषवीजं
त्रिर्भावितं पिप्पलीचूर्णमिश्रम् ।
एषो गदो हन्ति विषाणि कीट-
भुजङ्गलूतोन्दुरवृश्चिकानाम्” ॥
इति च वाभटे उत्तरतन्त्रे ३७ अध्याये ॥
अस्यौषधं यथा ॥
“जतुसेव्यपत्रगुग्गुलुभल्लातकककुभपुष्पसर्ज्जरसाः ।
श्वेता एव धूम उरगाखुकीटवस्त्रकृमिनुदग्र्यः” ॥
“क्षीरिवृक्षत्वगालेपः शुद्धः कीटविषापहः” ॥
इति चरके चिकित्सास्थाने २५ अध्याये ॥
“सर्पाणां शुक्रविण्मूत्रशवपूत्यण्डसम्भवाः ।
वाय्वग्न्यम्बुप्रकृतयः कीटास्तु विविधाः स्मृताः ॥
सर्व्वदोषप्रकृतिभिर्युक्ताश्चापरिणामतः ।
कीटत्वेऽपि सुघोरास्ते सर्व्व एव चतुर्व्विधाः ॥
कुम्भीनसस्तुण्डिकेरी शृङ्गीशतकुलीरकः ।
उच्चिटिङ्गोऽग्निनामाच चिच्चिटिङ्गो मयूरिका ॥
आवर्त्तकस्तथोरभ्रसारिका मुखवैदलौ ।
शरावकुर्द्दोऽभीराजी परुषश्चित्रशीर्षकः ॥
शतबाहुश्च यश्चापि रक्तराजिः प्रकीर्त्तितः ।
अष्टादशेति वायव्याः कीटाः पवनकोपनाः ॥
तैर्भवन्तीह दष्टानां रोगा वातनिमित्तजाः ॥ * ॥
कौण्डिल्यकः कणभको वरटी पत्रवृश्चिकः ॥
विनासिका ब्रह्मणिका विन्दुलो भ्रमरस्तथा ।
वाह्यकी पिच्चिटः कुम्भी वर्च्चः कीटोऽरिमेदकः ॥
पद्मकीटो दुन्दुभिको मकरः शतपादकः ।
पञ्चालकः पाकमत्स्यः कृष्णतुण्डोऽथ गर्द्दभी ॥
क्लीतःकृमिसरारी च यश्चाप्युत्केशकः स्मृतः ।
एते ह्यग्निप्रकृतयश्चतुर्व्विंशाः प्रक्रीर्त्तिताः ॥
तैर्भवन्तीह दष्टानां रोगाः पित्तनिमित्तजाः ॥ * ॥
“विश्वम्भरः पञ्चशुक्लः पञ्चकृष्णोऽथ कोकिलः ।
सैरेयकः प्रचलको वलभः किटिमस्तथा ॥
सूचीमुखा कृष्णगोधा यश्च काषायवासिकः ।
कीटगर्द्दभकश्चैव तथात्रोटक एव च ॥
त्रयोदशैते सौम्याः स्युः कीटाः श्लेष्मप्रकोपणाः ।
तैर्भवन्तीह दष्टानां रोगाः कफनिमित्तजाः ॥ * ॥
तुङ्गीनासो विचिलकस्तालको वाहकस्तथा ।
कोष्ठागारी क्रिमिकरो यश्च मण्डलपुच्छकः ॥
तुङ्गलाभः सर्षपिकोऽवल्गुली शम्बुकस्तथा ।
अग्निकीटश्च घोराः स्युर्द्वादश प्राणनाशनाः ॥
तैर्भवन्तीह दष्टानां वेगज्ञानानि सर्पवत् ।
तास्ताश्च वेदनास्तीव्रा रोगा वै सान्निपातिकाः” ॥
“क्षाराग्निदग्धवद्दंशो रक्तपीतसितारुणः ।
ज्वराङ्गमर्द्द रोमाञ्चवेदनाभिः समन्वितः ॥
छर्द्यतीसारतृष्णा च दाहो मोहविजृम्भिका ।
वेपथुश्वासहिक्काश्च दाहः शीतञ्च दारुणम् ॥
पिडकोपचयः शोफो ग्रन्थयो मण्डलानि च ।
दद्रवः कर्णिकाश्चैव विसर्पाः किटिभानि च ॥
तैर्भवन्तीह दष्टानां यथास्वञ्चाप्युपद्रवाः ।
येऽन्ये तेषां विशेषास्तु तूर्णं तेषां समादिशेत् ॥
एकजातीनतस्तूर्द्ध्वं कीटान् वक्ष्यामि भेदतः ।
सामान्यतो दष्टलिङ्गैः साध्यासाध्यक्रमेण च ॥
त्रिकण्टकः कुणी चापि हस्तिकक्षोऽपराजितः ।
चत्वार एते कणभा व्याख्यातास्तीव्रवेदनाः ॥
तैर्दष्टस्य श्वयथुरङ्गमर्द्दोगुरुता गात्राणां दंशः
कृष्णश्च भवति ॥
“प्रतिसूर्य्यः पिङ्गभासो बहुवर्णो महाशिराः ।
तथा निरुपमश्चापि पञ्चगौधेरकाः स्मृताः ॥
तैर्भवन्तीह दष्टानां वेगज्ञानानि सर्पवत् ।
रुजश्च विविधाकारा ग्रन्थयश्च सुदारुणाः ॥
गलगोली श्वेतकृष्णा रक्तराजी रक्तमण्डला
सर्व्वश्वेता सर्षपिकेत्येवं षट् ताभिर्दष्टे सर्षपिका-
वर्ज्जं दाहशोफक्लेदा भवन्ति ॥ सर्षपिकया हृदय
पीडातिसारश्च ॥
शतपद्यस्तु परुषा कृष्णा चित्रा कपिलिका
पीतिका रक्ता श्वेता अग्निप्रभा इत्यष्टौ ताभिर्दष्टे
शोफो वेदना दाहश्च हृदये । श्वेताग्निप्रभाभ्यामे-
तदेव दाहो मूर्च्छाचातिमात्रं श्वेतपिडकोत्पत्तिश्च ॥
मण्डूकाः कृष्णः सारः कुहको हरितो रक्तो
यववर्णभो भृकुटी कोटिकश्चेत्यष्टौ तैर्दष्टस्य
दंशकण्डूर्भवति पीतफेणागमश्च वक्त्रात् । भृकुटी
कोटिकाभ्यामेतदेव दाहश्छर्द्दिमूर्च्छाचाति मा-
त्रम् ॥
विश्वम्भराभिदष्टे दंशः सर्षपाकाराभिः पिड-
काभिश्चीयते शीतज्वरार्त्तश्च पुरुषो भवति ॥
अहितुण्डकाभिर्दष्टे तोददाहकण्डुश्वयथवो
मोहश्च । कण्डूमकाभिर्दष्टे पीताङ्गश्छर्द्यतीसारः
ज्वरादिभिरभिहन्यते । शूकवृन्तादिभिर्दष्टे कण्डू-
कोठाः प्रवर्द्धन्ते शूकञ्चात्र लक्ष्यते ॥
पिपीलिकाः स्थूलशीर्षा सम्बाहिका ब्रह्मणि-
काङ्गलिका कपिलिका चित्रवर्णेति षट् ताभिर्दष्टे
दंशे श्वयथुरग्निस्पर्शवद्दाहशोफौ भवतः ॥
मक्षिकाः कान्तारिका कृष्णा पिङ्गलिका मधू-
लिका काषायी स्थालिकेत्येवं षट् ताभिर्दष्टस्य
दाहशोफौ भवतः स्थालिकाकाषायीभ्यामेतदेव
पिडकाश्च सोपद्रवा भवन्ति ॥
मशकाः सामुद्रः परिमण्डलो हस्तिमशकः
कृष्णः पार्व्वतीय इति पञ्च तैर्दष्टस्य तीव्रकण्डूर्दंश-
शोफश्च पार्व्वतीयस्तु कीटैः प्राणहरैस्तुल्यलक्षणः ॥
नखावकृष्टेऽत्यर्थं पिडकाः सदाहपाका भवन्ति ।
जलौकसां दष्टलक्षणमुक्तं चिकित्सितञ्च ॥
भवन्ति चात्र ॥
गोधेरकः स्थालिका च ये च श्वेताग्निसंप्रभे ।
भृकुटी कोटिकश्चैव न सिध्यन्त्येकजातिषु ॥
शवमूत्रपुरीषैस्तु सविषैरवमर्षणात् ।
स्युः कण्डूदाहकोठारुः पिडकातोदवेदनाः ॥
प्रक्लेदवांस्तथास्रावो भृशं सम्पाचयेत्त्वचम् ॥
पृष्ठ २/१३२
दिग्धविद्धक्रियास्तत्र यथावदवचारयेत् ॥
नावसन्नं नचोत्सन्नमतिसंरम्भवेदनम् ।
दंशादौ विपरीतार्त्ति कीटदष्टं सुबाधकम् ॥
कीटैर्दष्टानुग्रविषैः सर्पवत् समुपाचरेत्” ॥
इति सुश्रुते कल्पस्थाने ८ अध्यायः ॥)

कीटकः, पुं, (कीट् + संज्ञायां अल्पार्थे स्वार्थे वा

कन् ।) मागधजातिः । इति धरणी ॥ कृमिजातिः ।
निष्ठरे त्रि । इति मेदिनी ॥

कीटघ्नः, पुं, (कीटं हन्ति । हन् + टक् ।) गन्धकः ।

इति राजनिर्घण्टः ॥ (गन्धकशब्देऽस्य गुणादयो
बोद्धव्याः ॥)

कीटजा, स्त्री, (कीटेभ्यो जायते । जन् + डः । टाप् ।)

लाक्षा । इति रत्नमाला ॥ (लाक्षाशब्दे ऽस्या
गुणादिकं ज्ञेयम् ॥ कीटसम्भवे, त्रि, ।
यथा महाभारते २ । ५ । २३ ।
“और्णञ्च राङ्कवञ्चैव पट्टजं कीटजन्तथा” ॥)

कीटपादिका, स्त्री, (कीटाः पादे मूलेऽस्याः । कीट-

पाद + कप् । अत इत्वं टापि ।) हंसपदीवृक्षः ।
इति राजनिर्घण्टः ॥

कीटमाता, स्त्री, (कीटानां माता इव । मूलदेशात्

बहुलकीटोत्पन्नत्वात्तथात्वम् ।) हंसपदीवृक्षः ।
इति भावप्रकाशः ॥ (हंसपदीशब्दे ऽस्या गुण-
पर्य्याया बोध्याः ॥)

कीटमारी, स्त्री, (कीटं मारयति । मृ + णिच् +

अण् । उपपद मासः । गौरादित्वात् ङीष् ।)
हंसपदीवृक्षः । इति राजर्घण्टः ॥

कीडेरः, पुं, (कील + एरच् । लस्य डः ।) तण्डुलीय-

शाकः । इति भावप्रकाशः ॥

कीदृक्, [श्] त्रि, (कस्येव दर्शनमस्य क इव दृश्यते

इत्यादि वा । किम् + दृश् + क्विन् । “इदं किमो-
रीश्की” । ६ । ३ । ९० । इति क्यादेशः ।) किम्प्रकारः ।
इति व्याकरणम् ॥ (यथा नैषधे १ । १३७ ।
“विलोकयन्त्या रुदतोऽथ पक्षिणः
प्रिये स कीदृक् भविता तव क्षणः” ॥)

कीदृशः, त्रि, (क इव दृश्यते ऽसौ कस्येव वा दर्शनमस्य ।

किम् + दृश् + कङ् ।) किम्प्रकारः । इति व्याक-
रणम् ॥ (यथा, महाभारतम् ॥)
“कीदृशाः साधवो विप्राःकेभ्यो दत्तं महाफलम् ।
कीदृशानाञ्च भोक्तव्यं तन्मे ब्रूहि पितामह !” ॥)

कीनाशः, पुं, (क्लिश्नातीति । क्लिशू विबाधने वधे वा ।

“क्लिशेरीच्चोपधायाः लोपश्च लो नाम् च” ।
उणां ५ । ५६ ॥ इति कन् उपधाया ईत्वं ललोपो
नामागमश्च ।) यमः । इत्यमरः ३ । ३ । २१४ ॥
(“विधेहि कीनाशनिकेतनातिथिं ।” माघः ।
१ । ७३ ॥) वानरविशेषः । इति तट्टीकायां
स्वामी ॥

कीनाशः, त्रि, (क्लिश्नातीति । क्लिशूविवाधने वधे

च । “क्लिशेरीच्चोपधाया लोपश्च लो नाम् च” ।
उणां ५ । ५६ । इति कन् उपधाया ईत्वं ललोपो
नामागमश्च ।) कर्षकः । (यथा मनुः ९ । १५० ।
“कीनाशो गोवृषो यानमलङ्कारश्च वेश्म च ।
विप्रस्योद्धारिकं देयमेकांशश्च प्रधानतः” ॥)
क्षुद्रः । पशुघाती । इति मेदिनीकरहेमचन्द्रौ ॥

कीरं, क्ली, (कीलति बध्नाति शरीरम् । कील + अच् ।

लस्य रः ।) मांसम् । इति राजनिर्घण्टः ॥

कीरः, पुं, (कीति अव्यक्तं ईरयतीति । ईर + णिच् +

अच् ।) शुकपक्षी । इत्यमरः २ । ५ । २१ ॥ (यथा,
नैषधे २ । १५ । “खगवागियं इत्यतोऽपि किं
न मुदं धास्यति कीरगीरिव” ॥)

कीरकः, पुं, (कीर + संज्ञायां कन् ।) वृक्षभेदः ।

क्षपणकः । प्रापणम् । इति धरणी ॥ (शुकपक्षी ।
इति आचार्य्याः ॥)

कीरवर्णकं, क्ली, (कीरस्येव वर्णो यस्य । वर्ण + कप् ।)

स्थौणेयकनामसुगन्धिद्रव्यम् । इति राजनिर्घण्टः ॥
(स्थौणेयकशब्दे विवरणमस्य ज्ञातव्यम् ।)

कीराः, पुं, (क + ईर + णिच् + अच् पृषोदरात्

साधुः ।) काश्मीरदेशः । तद्देशस्थजनः । बहुवच-
नान्तोऽयं ब्दः । इति मेदिनीत्रिकाण्डशेषौ ॥

कीरेष्टः, पुं, (कीरस्य शुकस्य इष्टः प्रियः ।) आम्र-

वृक्षः । आखोटवृक्षः । जलमधूकवृक्षः । इति
राजनिर्घण्टः ॥

कीर्णः, त्रि, (कीर्य्यतेऽसौ । कॄ + कर्म्मणि क्तः ।)

आच्छन्नः । विक्षिप्तः । (यथा, शाकुन्तले १ माङ्के ॥
“ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्त-
दृष्टिः पश्चार्द्धेन प्रविष्टः शरपतनभयात् भूयसा
पूर्ब्बकायम् । शष्पैरर्द्धावलीढैः श्रमविवृतमुख-
भ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वात् वियति
बहुतरं स्तोकमुर्व्यां प्रयाति” ॥) हिंसितः । इति
मेदिनी ॥

कीर्त्तनं, क्ली, (कॄत् + भावे ल्युट् ।) कथनम् । वचनम् ।

इति जटाधरः ॥ (यथा, मार्कण्डेये ९२ । २२ ।
“रक्षां करोति भूतेभ्यो जन्मनां कीर्त्तनं मम” ॥)

कीर्त्तना, स्त्री (कॄत् + कर्म्मणि युच् टाप् च ।) यशः ।

इति शब्दरत्नावली ॥

कीर्त्तिः, स्त्री, (कॄत् + क्तिन् । यद्वा, कॄत् संशब्दने

“हृपिषिरुहीति” उणां ४ । ११८ । इरादि-
कार्य्ये इन् ।) सुख्यातिः । तत्पर्य्यायः । यशः ।
समज्ञा ३ । इत्यमरः १ । ६ । ११ ॥ समाज्ञा ४
समाख्या ५ समज्या ६ । इति तट्टीकायां भरतः ॥
अभिख्या ७ श्लोकः ८ वर्णः ९ । इति जटाधरः ॥
कीर्त्तना १० । इति शब्दरत्नावली ॥
“दानादिप्रभवा कीर्त्तिः शौर्य्यादिप्रभवं यशः” ॥
इति माधवी ॥ अत एव यशःकीर्त्त्योर्भेदस्याति
दर्शनात् “यशःकीर्त्तिप्रविभ्रष्टो जीवन्नपि न
जीवति” इति कस्यचित् प्रयोगः । जीवतः ख्या-
तिर्यशो मृतस्य ख्यातिः कीर्त्तिरिति केचित्तन्न
साधु “कीर्त्तिस्ते नृपदूतिकेति” प्रयोगदर्शनात् ।
इति भरतः ॥ * ॥ प्रसादः । इति मेदिनी ॥
शब्दः । दीप्तिः । मातृकाविशेषः । इति शब्द-
रत्नावली ॥ विस्तारः । कर्द्दमः । इति विश्वः ॥

कीर्त्तितः, त्रि, (कॄत् + क्तः ।) कथितः । ख्यातः ।

यथा, -- भावप्रकाशे ॥
“कुष्माण्डी तु भृशं लध्वी कर्कारुरपि कीर्त्तिता” ॥

कीर्त्तिभाक्, [ज्] पुं, (कीर्त्तिं भजते । भज + ण्विः ।)

द्रोणाचार्य्यः । इति शब्दरत्नावली ॥ कीर्त्तियुक्तेत्रि ॥
यथा, -- महाभारते १ । ८३ । ४१ ।
“राज्यभाक् स भवेद्ब्रह्मन् ! पुण्यभाक् कीर्त्तिभाक्
तथा” ॥)

कीर्त्तिमाण् [त्] पुं, (कीत्तिरस्यास्तीति मतुप् ।)

वसुदेवज्येष्ठपुत्त्रः । (यथा भागवते ९ । २४ । ५३ ।
“वसुदेवस्तु देवक्यां अष्टपुत्त्रानजीजनत् ।
कीर्त्तिमन्तं सुषेणञ्च भद्रसेनमुदारधीः ।
ऋजुं संमर्दनं भद्रं सङ्कर्षणमहीश्वरम्” ॥)
कीर्त्तिविशिष्टे त्रि ॥ (यथा, हेः रामायणे १ । २ । ४२ ।
“उदारवृत्तार्थपदैर्मनोरमै-
स्तदास्य रामस्य चकार कीर्त्तिमान् ।
समाक्षरैः श्लोकशतैर्यशस्विनो
यशस्करं काव्यमुदारदर्शनः” ॥)

कीर्त्तिशेषः, पुं, (कीर्त्तिः शेषो यस्य ।) मरणम् । इति

जटाधरः ॥

कील, बन्धे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--

सकं--सेट् ।) चतुर्थस्वरी । कीलति । इति
दुर्गादासः ॥

कीलः, पुं स्त्री, (कील्यते रुध्यतेऽसौ अनेनात्र बा ।

कील बन्धे + कर्म्मणि करणेऽधिकरणे च यथायथं
घञ् पुंसीति घोवा ।) अग्निशिक्षा । शङ्कुः ।
इत्यमरः ३ । ३ । १९६ ॥ (यथा, महाभारते ।
३ । १५ । १५ ।
“परिखाश्चापि कौरव्य ! कीलैः सुनिचिताः कृताः” ॥
तथा च आर्य्यासप्तशती ३७४ ।
“या लुप्तकीलभावं याता हृदि वहिरदृश्यापि” ॥)
स्तम्भः । लेशः । कफोणिः । इति मेदिनी ॥ कफो-
णिनिर्घातः । इति विश्वः ॥ (मूढगर्भस्य प्रकारभेदः ।
यथा ॥ “तत्र ऊर्द्ध्वबाहुशिरः पादौ यो योनि-
मुखं निरुणद्धि कील इव स कीलः” ॥
इति सुश्रुते निदानस्थाने ८ अध्याये ॥)

कीलकः, पुं, (कीलति बध्नाति अनेन । करणे घञ्

स्वार्थे कः ।) कीलः । खोँटा गोँज खिल इत्यादि
भाषा । गवां गात्रकण्डूयनार्थं गोष्ठे निखातस्तम्भः ।
इति सुभूतिः ॥ कण्डूयणार्थं काष्ठम् । इति के-
चित् । बन्धनखण्टः । इति केचित् । यत्र बद्धा
गौर्दुह्यते सः । इति केचित् । इति भरतः ॥
तत्पर्य्यायः । शिवकः २ । इत्यमरः २ । ९ । ८३ ॥

कीलसंस्पर्शः, पुं, (कीलं संस्पृशति । सम् + स्पृश् +

अच् ।) वृक्षविशेषः । इति शब्दचन्द्रिका ॥ गाव
इति भाषा ॥

कीला, स्त्री पुं, (कील + टाप् ।) कीलः । द्वत्यमर-

मेदिनीकरौ ॥

कीलालं, क्ली, (कीलं वह्निज्वालां अलति वारय-

तीति । कील + अल् + कर्म्मण्यण् । यद्वा कीलात्
वह्निशिखायाः शिखाग्रहणेनात्र वह्नेरेव ग्रहण-
मिति ध्येयम्, अतएवाग्नेः सकाशात् अलति-
पर्य्याप्नोति उत्पद्यते इति यावत् “अग्नेरापः”
इति श्रुतेः । अल् + अच् ।) जलम् । (यथा, शङ्क-
रकविकृते अम्बाष्टके २ ।
“कूलातिगामिभयतूलावलिज्वलनकीलानिजस्तुति-
पृष्ठ २/१३३
विधाकोलाहलक्षपितकालामरी कुशलकीलाल-
पोषणनभाः” ॥) रक्तम् । इत्यमरः ३ । ३ । १९९ ॥
(और्व्वाग्नेः कीलं आलाति । आला + कः ।)
अमृतम् । मधु । इति शब्दरत्नावली ॥ (पुं कीलाय
वन्धाय अलति पर्य्याप्नोतीति । पशुः ॥)

कीलालधिः, पुं, (कीलालं जलं धीयतेऽस्मिन् । धा +

किः ।) समुद्रः । इति शब्दरत्नावली ॥

कीलालपः, पुं, (कीलालं रुधिरं पिबति । पा +

“आतोऽनुपसर्गे कः” । ३ । २ । ३ । इति कः ।)
राक्षसः । इति शब्दरत्नावली ॥

कीलितः, त्रि, (कील्यतेऽसौ ॥ कील + कर्म्मणि क्तः ।)

बद्धः । इत्यमरः । ३ । १ । ४२ ॥ (यथा, राजेन्द्र-
कर्णंपूरे ३० ।
“किं वान्यत्तव देव ! वेल्लति यदि भ्रूवल्लरीपल्लवः
सोऽपि क्षामकपोलकीलितकरः संक्रन्दनः क्रन्दति” ॥)
कीशः, पुं, (की इति शब्दं ईष्टे । ईश् + कः । यद्वा
कस्य वायोरपत्यं अत इञ् । किः हनुमान् ईशो
यस्य ।) वानरः । इत्यमरः २ । ५ । ३ ॥ (यथा,
काशीखण्डे ४२ । ३१ ।
“रासभैः करभैः कीशैः श्येनैरश्वरैर्वकैः” ॥
के आकाशे ईष्टे प्रभवतीति । क + ईश् + कः ।)
सूर्य्यः । पक्षी । इति शब्दरत्नावली ॥ नग्ने त्रि ।
इति मेदिनी ॥

कीशपर्णः, पुं, (कीशः वानरः तस्य लोमेव पर्ण-

मस्य ।) अपामार्गः । इति शब्दरत्नावली ॥

कीशपर्णी, स्त्री, (कीशपर्ण + जातौ ङीष् ।) अपा-

मार्गः । इत्यमरः । २ । ४ । ८९ ॥

कु ङ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-अकं-

सेट् ।) ङ कवते इति दुर्गादासः ॥

कु ल शब्दे । इति कविकल्पद्रुमः ॥ (अदां-परं-अकं-

सेट् ।) ल कौति । इति दुर्गादासः ॥

कु शि ङ आर्त्तस्वरे । इति कविकल्पद्रुमः ॥ (तुदां-

आत्मं-अकं-सेट् ।) शि ङ कुवते अकुत । इति
दुर्गादासः ॥

कु, व्य, (कु + डुः ।) पापम् । कुत्सा । ईषदर्थः ।

निवारणम् । इति मेदिनी ॥

कुः, स्त्री, (कु + मितादित्वात् डुः ।) पृथिवी । इत्य-

मरः । २ । १ । ७ ॥

कुक्, ङ आदाने । इति कविकल्पद्रुमः । (भ्वां-आत्मं-

सकं-सेट् ।) ङ कोकते । इति दुर्गादासः ॥

कुकभं, क्ली, (कुकेन आदानेन पानेनेत्यर्थः भातीति ।

भा + कः ।) मद्यम् । इति शब्दचन्द्रिका ॥

कुकरः, त्रिं, (कुत्सितः करोः यस्य ।) कुत्सितहस्त-

युक्तः रोगादिना कुञ्चितकरः । तत्पर्य्यायः । कुणिः
२ । इत्यमरः । २ । ६ । ४८ ॥ कूणिः ३ कोणिः
४ । इति तट्टीका ॥

कुकीलः, पुं, (कुः पृथिवो तस्याः कील इव ।) पर्व्वतः ।

इति त्रिकाण्डशेषः ॥

कुकुटः, पुं, (कु ईषत् कुत्सितं यथा स्यात् तथा वा

कुटतीति । कुट् + कः ।) सितावरः । इति राज-
निर्घण्टः ॥ सुषणि शाक इति भाषा ॥ (अस्य
पर्य्याया यथा भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ।
“शितिवार शितिवरः स्वस्तिकः सुनिषण्णकः ।
श्रीवारकः सूचिपत्रः पर्णकः कुकुटः शिखी” ॥
गुणाश्चास्य सुनिषण्णकशब्दे ज्ञेयाः ॥)

कुकुदः, पुं, (कुकु इत्यव्ययं अलड्कृता कन्या । तां सत्-

कृत्य पात्राय ददाति यः ।) कूकुदः । सत्कारपूर्ब्ब-
कालङ्कृतकन्यादानकर्त्ता । इत्यमरटीकायां राय-
मुकुटः ॥

कुकुन्दरं, क्ली, (स्कुन्द्यते कामिनाऽत्र । स्कुदि आप्ल-

वने मद्गुरादयश्चेति निपातनात् साधुः ।) नितम्ब-
स्थकूपकद्वयम् । पृष्ठवंशादधोगर्त्तद्वयम् । इत्यमरः ।
२ । ६ । ७९ ॥ कुकुन्दरे इति द्विवचनान्तोऽपि
प्रयोगः ॥ (यथा सुश्रुते शारीरस्थाने । ६ अ ॥
“पार्श्वजधनवहिर्भागे पृष्ठवंशमुभयतो नातिनिम्ने
कुकुन्दरे नाम मर्म्मणी तत्र स्पर्शाज्ञानमधःकाये
चेष्टोपघातश्च” ॥)

कुकुन्दरः, पुं, (कुं भूमिं दरयति दारयति वा अन्त-

र्भूतण्यन्तात् दॄ अण् निपातनात् वृद्ध्यभावेन
साधुः । कु ईषत् कुत्सितं वा कुन्दरमत्र ।)
कुक्कुरद्रुः । कुकुरौदा इति हिन्दी भाषा । तत्-
पर्य्यायगुणाः । यथा भावप्रकाशे ॥
“कुकुन्दरस्ताम्रचूडः सूक्ष्मपत्रो मृदुच्छदः ।
कुकुन्दरः कटुस्तिक्तो ज्वररक्तकफापहः ॥
तन्मूलमार्द्रं निःक्षिप्तं वदने मुखशोषहृत्” ॥
(पुंलिङ्गोऽयं शब्दोऽपि नितम्बस्थकूपकद्वये वर्त्तते
यथा ॥
“पृष्ठवंशं ह्युभयतो यौ सन्धी कटिपार्श्वयोः ।
जघनस्य वहिर्भागे मर्म्मणी तौ कुकुन्दरौ” ॥
इति वाभटे शारीरस्थाने । ४ अध्याये ॥)

कुकुभा, स्त्री, (कु ईषत् कुः पृथ्व्यधिष्ठात्री देवता इव

भा यस्याः ।) रागिणीविशेषः । इति हलायुधः ॥

कुकुरः, पुं, (कु कुत्सितं कुरति शब्दायते । कुर् +

अच् ।) कुक्कुरः । (कुं पृथिवीं कुरति स्वामित्वेन
आदत्तवान् । कुर् + कः । यद्वा -- कुक्धातोः
“मद्गुरादयश्च” । उणां १ । ४२ । इति साधुः ।)
क्षत्रियविशेषः । इत्युणादिकोषः । स तु यदुवंशी-
यान्धकराजपुत्रः । इति श्रोभागवतम् ॥ (यथा
माघे १३ । १६ ।
“परिफुल्लगण्डफलकाः परस्परम्
परिरेभिरे कुकुरकौरवस्त्रियः” ॥)
ग्रन्थिपर्णीवृक्षः । इति त्रि काण्डशेषः ॥

कुकुराः, पुं, (कुकुराः स्वनामख्याताः क्षत्रियाः तेषां

जनपदः ।) देशविशेषः । तद्देशस्थलोकश्च । तत्-
पर्य्यायः । यदवः २ दशार्हाः ३ सात्वताः ४ ।
बहुवचनान्तोऽयं शब्दः । इति त्रिकाण्डशेषः ॥

कुकूटी, पुं, (कोः पृथिव्याः कूटोऽस्त्यस्याः । अच्

गौरादित्वात् ङीष् ।) शाल्मलिवृक्षः । इति राज-
निर्घण्टः ॥ (शाल्मलिशब्देऽस्य विवरणं ज्ञेयम् ॥)

कुकूलं, क्ली, (कोः भूमेः कूलं । कुत्सितं कूलं वा ।)

शङ्कुभिः सङ्कीर्णं श्वभ्रम् । इत्यमरः । ३ । ३ । २०२ ।
तनुत्रम् । इति हारावली ॥

कुकूलः, पुं, (कु + ऊलच् कुगागमश्च ।) तुषानलः ।

इत्यमरः । ३ । ३ । २०२ ॥
(“शिरीषादपि मृद्वङ्गी क्वेयमायतलोचना
अयं क्वच कुकूलाग्निकर्कशो मदनानिलः” । इति
उद्भट्टः । केचित्तु “कुकूलाग्निः कर्कशो मदनानलः”
इत्येवमाहुः ॥)

कुकोलं, क्ली, (कुत्सितं कोलति । कुल + अच् ।)

कोलिवृक्षः । इति शब्दचन्द्रिका ॥

कुक्कुटः, पुं स्त्री, (कुक् + सम्पदादित्वात् क्विप् ।

कुका आदानेन कुटतीति । कुट + कः ।) पक्षि-
विशेषः । कुकुडा इति भाषा । तत्पर्य्यायः ।
कृकवाकुः २ ताम्रचूडः ३ चरणायुधः ४ । इत्य-
मरः । २ । ५ । १७ ॥ कालज्ञः ५ नियोद्धा ६
विष्किरः ७ नखरायुधः ८ ताम्रशिखी ९ । इति
जटाधरः ॥ रात्रिवेदः १० उषाकरः ११ वृताक्षः
१२ काहलः १३ । इति शब्दरत्नावली ॥ दक्षः
१४ यामनादी १५ शिखण्डिकः १६ । तन्मांस-
गुणाः । (यथा, भावप्रकाशे ।
“कुक्कुटो वृंहणः स्निग्धो वीर्य्योष्णोऽनिलकृद्गुरुः ।
चक्षुष्यः शुक्रकफकृद्बल्यो रूक्षः कषायकः ॥
आरण्यकुक्कुटः स्निग्धो वृंहणः श्लेष्मलो गुरुः ।
वातपित्तक्षयवमिविषमज्वरनाशनः” ॥
अरण्यकुक्कुटमांसगुणाः । हृद्यत्वम् । श्लेष्म-
हरत्वम् । लघुत्वञ्च । इति राजनिर्घण्टः ॥ रूक्ष-
त्वम् । कषायत्वम् । स्वादुत्वम् । शीतलत्वञ्च ।
इति राजवल्लभः ॥ ग्राम्यकुक्कुटमांसगुणाः । स्नि-
ग्धत्वम् । वातहरत्वम् । दीपनत्वम् ॥ गुरुत्वञ्च ।
इति राजनिर्घण्टः ॥ बलकारित्वम् । उष्णत्वम् ।
मधुरत्वञ्च । इति राजवल्लवः ॥ * ॥ निषादपुत्त्रः ।
शूद्रपुत्त्रः । तृणोल्का । कुक्कुभपक्षी । इति मे-
दिनी ॥ वह्निकणः । इति हेमचन्द्रः ॥ (आसन-
विशेषः । यथा हठयोगदीपिकायाम् । १ । २३ ।
“पद्मासनन्तु संस्थाप्य जानूर्वोरन्तरे करौ ।
निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कटासनम्” ॥)

कुक्कुटकः पुं, (कुक्कुट + सांज्ञायां कन् ।) कुक्कुभपक्षी ।

इति शब्दरत्नावली ॥ स्वार्थे कन् प्रत्यये कुक्कुट-
शब्दार्थोऽप्यत्र ॥)

कुक्कुटव्रतं, क्ली, (कुक्कुट इत्याख्यं व्रतम् ।) सन्तानार्थं

स्त्रीकर्त्तव्यव्रतम् । इति शब्दमाला ॥ कुक्कुटीव्रत-
मपि पाठः । ललितासप्तमीव्रतमिदम् । यथा, --
“भाद्रे मासि सिते पक्षे सप्तम्यां नियमेन या ।
स्नात्वा शिवं लेखयित्वा मण्डले च सहाम्बिकम् ॥
पूजयेच्च तदा तस्या दुष्प्रापं नैव विद्यते” ॥
इति तिथ्यादितत्त्वे भविष्यपुराणम् ॥

कुक्कुटमण्डपः, पुं, मुक्तिमण्डपः । यथा, काशीखण्डे ।

“ततो लोकास्तदारभ्य कथयिष्यन्ति सर्व्वतः ।
मुक्तिमण्डपनामैतदेष कुक्कुटमण्डपः” ॥

कुक्कुटमस्तकं, क्ली, (कुक्कुटस्येव मस्तकं शिखा यस्य ।)

चव्यम् । इति राजनिर्घण्टः । चोँइ इति भाषा ॥
(चव्यशब्देऽस्य गुणादयो बोद्धव्याः ॥)

कुक्कुटशिखः, पुं, (कुक्कुटस्य शिखेव शिखा यस्य ।)

कुसुम्भवृक्षः । इति शब्दचन्द्रिका ॥

कुक्कुटाभः, पुं, (कुक्कुट इव आभाति । आ + भा +

कः ।) कुक्कुटतुल्यवर्णचरणसर्पविशेषः । तत्पर्य्यायः ।
पृष्ठ २/१३४
कुक्कुटाहिः २ । इति हेमचन्द्रः ॥

कुक्कुटाहिः, पुं, (कुक्कुटः तच्चरण इव अहिः सर्पः ।)

कुक्कुटाभसर्पः । इति हेमचन्द्रः ॥

कुक्कुटिः, स्त्री, (कुक्कुट इव आचरति । आचारे

क्विपि इन् ।) दम्भचर्य्या । इति हेमचन्द्रः ॥

कुक्कुटी, स्त्री, (कुक्कुटि + वा ङीप् ।) अनृतचर्य्या ।

इति मेदिनी ॥ ज्येष्ठी । इति शब्दरत्नावली ॥
टिक् टिकि इति भाषा शाल्मलीवृक्षः । इति
जटाधरः । (यथा, सुश्रुते उत्तरतन्त्रे । ६० अ० ॥)
“कुक्कुटी सर्पगन्धाश्च तथाकाणविषाणिके” ॥
योषिद्विशेषः । इति चिन्तामणिः ॥)

कुक्कुटीव्रतं, क्ली, (कुक्कुटी इति संज्ञकं व्रतं निय

मविशेषः ।) भाद्रशुक्लसप्तमीकर्त्तव्यनियमविशेषः ।
तद्विवरणं ललितासप्तमीशब्दे द्रष्टव्यम् ॥

कुक्कुभः, पुं, (कुक्कुशब्दं भाषते । भाष् + बाहुल-

कात् डः । यद्वा कुक् इत्यव्यक्तं कौति शब्दायते ।
कु + बाहुलकात् भक् ।) पक्षिविशेषः । इत्यमरः ।
२ । ५ । ३५ । पात्कुका इति भाषा ॥

कुक्कुरं क्ली, ग्रन्थिपर्णम् । इत्यमरः । २ । ४ । १३२ ।

गाँठियाला इति भाषा ॥ (अस्य पर्य्याया यथा, --
“स्थौणेयकं वहिर्वंह शुष्कवर्हञ्च कुक्कुरम् ।
शीर्णरोम शुकञ्चापि शुकपुष्पं शुकच्छदम्” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥ गुणा-
श्चास्य स्थौणेयकशब्दे ज्ञेयाः ॥)

कुक्कुरः, पुं, (कोकते आदत्ते इति । कुक् + क्विप् । कुक्

यत्किञ्चिदपि गृह्णन्तं जनं दृष्ट्वा कुरति शब्दा-
यते । कुर + कः ।) जन्तुविशेषः । कुकुर इति
भाषा ॥ तत्पर्य्यायः । कौलेयकः २ सारमेयः ३
मृगदंशकः ४ शुनकः ५ भषकः ६ श्वा ७ । इत्य-
मरः । २ । १० । २१ ॥ कुक्कुरः ८ शुनः ९ शुनिः १०
श्वानः ११ । इति तट्टीका ॥ भषणः १२ भल्लूकः
१३ वक्रलाङ्गूलः १४ वृकारिः १५ रात्रिजागरः
१६ कालेयकः १७ ग्राम्यमृगः १८ मृगारिः १९
शूरः २० शयालुः २१ । इति राजनिर्घण्टः ॥
तस्य गुणाः ।
“बह्वाशी स्वल्पसन्तुष्टः सुनिद्रः शीघ्रचेतनः ।
प्रभुभक्तश्च शूरश्च षडेते च शुनो गुणाः” ॥
इति चाणक्यम् ॥ तस्य परीक्षा यथा ।
“मृगयार्थं शाकुनार्थं कौतुकार्थिमहीक्षिता ।
श्वानः पोष्यास्ततस्तेषामत्र वक्ष्यामि लक्षणम् ॥
गुणजातिप्रभेदेन शुनो भेदो ह्यनेकधा” । तद्यथा ।
“सात्त्विका राजसाश्चैव तामसाश्च त्रिधामताः ॥
अश्रान्ता अपरिक्षीणाः पवित्राः स्वल्पभोजिनः ।
श्वानस्ते सात्त्विकाः प्रोक्ता दृश्यन्तेच क्वचित् क्वचित् ॥ १
क्रुद्धा बहुभुजो दीर्घा गुरुवक्षस्तनूदराः ।
जाङ्गलस्था जाङ्घिकाश्च श्वानस्ते राजसा मताः ॥ २
अल्पश्रमेण ये श्रान्ता ललज्जिह्वा गुरूदराः ।
श्वानस्ते तामसा ज्ञेयाः सन्ध्यावनसमाश्रयाः ॥ ३
ब्रह्मादिजातिभेदेन चतुर्द्धा सर्व्व एव हि ।
शुभ्रा दीर्घा स्तब्धकर्णा लघुपुच्छास्तनूदराः ॥
सुशुक्तखरदन्ताश्च श्वानस्ते ब्रह्मजातयः ॥ १
रक्ताङ्गास्तनुलोमानो ललत्कर्णास्तनूदराः ॥
दीर्घा दीर्घा नखरदाः श्वानस्ते क्षत्त्रजातयः । २
ये पीतवर्णा मृदवस्तनुलोमान एव च ॥
क्रुद्धा क्रुद्धा ललज्जिह्वास्ते श्वानो वैश्यजातयः ॥ ३
कृष्णवर्णास्तनुमुखा दीर्घरोमाण एव च ॥
अक्रुद्धाः श्रमयुक्ताश्च ते श्वानः शूद्रजातयः ॥ ४
लघुप्रमाणास्तु गुरूदरा ये
येऽमेध्यभक्षा बहुपुत्त्रकाश्च ।
प्रवृद्धपुच्छा लघुसूक्ष्मदन्ता
स्तेचान्त्यजाः कुक्कु रजातयः स्युः ॥ ५ ॥
द्विजातिचिह्नसंसर्गात् द्विजातिः श्वा भयावहः ।
लक्षणत्रयसम्बन्धात् त्रिजातिर्धननाशनः ॥
भोजोऽपि ।
द्विजातिर्व्वा त्रिजातिर्व्वा विजातिःश्वामहीभृताम् ।
भयं धनक्षयं शोकं विदधाति यथाक्रमम् ॥
इति भोजराजकृतयुक्तिकल्पतरुः ॥ (मुनिविशेषः ।
यथा महाभारते । २ । ४ । १७ ।
“कुक्कुरो वेणुजङ्घोऽथ कालापः कठ एव च ।
मुनयो धर्म्मविद्वांसो धृतात्मानो जितेन्द्रियाः” ॥)

कुक्कुरद्रुः, पुं, (कुक्कुरः कुक्कुरगन्धोपलक्षितः द्रुर्वृक्षः ।)

वृक्षविशेषः । कुकुरशोँका इति भाषा । तत्-
पर्य्यायः । ताम्रचूडः २ सूक्ष्मपत्रः ३ मृदुच्छदः
४ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । ज्वर-
रक्तकफनाशित्वञ्च । इति मदनविनोदः ॥
“तन्मूलमार्द्रं निक्षिप्तं वदने मुखशोषहृत्” ॥
इति भाप्रकाशः ॥

कुक्कुरी, स्त्री, (कुक्कुर + स्त्रियां जातित्वात् ङीष् ।)

कुक्कुरस्त्री । कुत्ती इति भाषा । तत्पर्य्यायः ।
सरमा २ श्वानी ३ सारमेयी ४ शुनी ५ भषी ६ ।
इति शब्दरत्नावली ॥

कुक्कुवाक्, पुं, (कुक्कुरस्य वाक् शब्द इव शब्दो-

यस्य ।) सारङ्गमृगः । इति राजनिर्घण्टः ॥

कुक्षः, पुं, (कुषनिष्कर्षे + “उन्दिगुधिकुषिभ्यश्च” ।

उणां ३ । ६८ । इति सः किच्च ।) कुक्षिः । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

कुक्षिः, पुं, (कुषनिष्कर्षे + “प्लुषिकुषिशुषिभ्यःक्सिः” ।

उणां ३ । १५५ इति किसः ।) उदरम् । इत्यमरः ।
२ । ६ । ७७ ॥ (यथा, महाभारते १ । ७७ । १३ ।
“यात्रोषितं विशालाक्षि ! त्वया चन्द्रनिभानने ! ।
तत्राहमुषितो भद्रेकुक्षौ काव्यस्य भाविनि !” ॥
दानवविशेषः । यथा महाभारते १ । ६७ । ५७ ।
“कुक्षिस्तु राजन् विख्यातो दानवानां महाबलः” ॥)

कुक्षिम्भरिः, त्रि, (कुक्षिं बिभर्त्तीति । भृ + खः

+ मुम् च ।) आत्मम्भरिः । स्वोदरपूरकः । इत्य-
मरः ३ । १ । २१ ॥

कुक्षिरन्ध्रः, पुं, (कुक्षौ रन्ध्रं छिद्रं यस्य ।) नलः । इति

निर्घण्टः ।

कुङ्कुमं, क्ली, (कुम्कुम् इति शब्दोऽस्ति वाचकत्वेनास्य

अर्श आद्यच् । यद्वा कुक्यते आदीयतेऽसौ । कुक्
आदाने उमक् निपतनात् मुम् ।) स्वनामख्यात-
गन्धद्रव्यम् । कुम्कुम् इति केशर इति भाषा ।
(यथा माघे ११ । १४ ।
“कृतधवलिमभेदैः कुङ्कुमेनेव किञ्चित् ।
मलयरुहरजोभिर्भूषयन् पश्चिमाशाम्” ॥)
तत्पर्य्यायः । काश्मीरजन्म २ अग्निशिखम् ३
वरम् ४ वाह्लीकम् ५ पीतनम् ६ रक्त्वम् ७
सङ्कोचम् ८ पिशुनम् ९ धीरम् १० लोहित-
चन्दनम् ११ । इत्यमरः । २ । ६ । १२४ । चारु
१२ वाह्लिकम् १३ वरवाह्लीकम् १४ रक्तचन्दनम्
१५ । इति तट्टीका ॥ अग्निशेखरम् १६ असृक्
१७ काश्मीरजम् १८ पीतकम् १९ काश्मीरम्
२० रुचिरम् २१ शठम् २२ शोणितम् २३
घुसृणम् २४ वरेण्यम् २५ अरुणम् २६ कालेयकम्
२७ जागुडम् २८ कान्तम् २९ वह्निशिखम् ३०
केशरवरम् ३१ गौरम् ३२ केसरम् ३३ हरि-
चन्दनम् ३४ खलम् ३५ रजम् ३६ दीपकम् ३७
लोहितम् ३८ सौरभम् ३९ चन्दनम् ४० इति
शब्दरत्नावली ॥ अस्य गुणाः । सुरभित्वम् ।
तिक्तत्वम् । कटुत्वम् उष्णत्वम् । कासवातकफ-
कण्ठरोगमूर्द्धशूलविषदोषनाशित्वम् । रोच-
नत्वम् । तनुकान्तिकरत्वञ्च । इति राजनिर्घण्टः ॥
रेचकत्वम् विवर्णताकण्डूनाशित्वञ्च । इति राज-
वल्लभः ॥ स्निग्धत्वम् । शिरोरुग्व्रणजन्तुवमिव्यङ्ग-
दोषत्रयापहत्वम् । बल्यत्वञ्च । इति भावप्रकाशः ॥
त्वग्दोषनाशित्वम् । इति रत्नावली तत्त्वचन्द्रिका
च ॥ देशभेदे तत् त्रिविधम् । यथा, --
“काश्मीरदेशजे क्षेत्रे कुङ्कुमम् यद्भवेद्धि तत् ।
सूक्ष्मकेशरमारक्तं पद्मगन्धि तदुत्तमम् ॥ १ ॥
वाह्लीकदेशसंजातं कुङ्कुमं पाण्डुरं भवेत् ।
केतकीगन्धयुक्तं तन्मध्यमं सूक्ष्मकेशरम् ॥ २ ॥
कुङ्कुमं पारसीकेयं मधुगन्धि तदीरितम् ।
ईषत्पाण्डुरवर्णं तदधमं स्थूलकेशरम्” ॥ ३ ॥
इति भावप्रकाशः ॥

कुङ्गनी, स्त्री, (कुङ्कुमवर्णोऽस्त्यस्याः । अच् गौरा-

दित्वात् ङीष् । ततः पृषोदरादित्वात् साधुः ।)
महाज्योतिष्मती । इति राजनिर्घण्टः ॥ (कुङ्कु-
मीति केचित् ॥)

कुच, ज रोधपर्ककौटिल्यलेखने । इति कविकल्य-

द्रुमः ॥ (भ्वां-परं-सक, अकं च-सेट्-ज्वलां ।)
ज कोचः कुचः । रोधः क्रियारोधः जडीभाव
इत्यर्थः । अस्मिन्नर्थ एव प्रायो वर्त्तते । यस्मिन्
प्रमुदिते राज्ञि तमः सङ्कोचति क्षितौ । पर्कः
सम्पर्कः । इति दुर्गादासः ॥

कुच, शि सङ्कोचे । इति कविकल्पद्रुमः ॥ (तुदां-

पर-अकं, सेट् ।) प्रायः संपूर्ब्बस्य प्रयोगः । शि-
संकुचति अकुचीत् चुकोच । इति दुर्गादासः ॥

कुच, तारशब्दे । उच्चैःशब्द इति यावत् । इति कवि-

कल्पद्रुमः ॥ (भ्वां-परं-अकं-सेट् ।) कोचति ढक्वा ।
भट्टमल्लस्तु तारे शब्दे च कोचति इति नानार्थे
पठति । तन्मते तारश्चिक्कणता । कोचति काञ्चीं
वणिक् चिक्कणयतीत्यर्थः । इति दुर्गादासः ॥