शब्दकल्पद्रुमः/अ

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ १/००१

, अकारः । आद्यस्वरवर्णः । अस्योच्चारणस्थानं

कण्ठः । स तु ह्रस्वो दीर्घः प्लुतश्च भवति । इति
व्याकरणं ॥ अस्य लेखनप्रकारो यथा, --
“दक्षतः कुण्डली भूत्वा कुञ्चिता वामतो गता ।
ततोर्द्ध्वसङ्गता रेखा दक्षोर्द्ध्वा तासुशङ्करः ॥
विधिर्नारायणश्चैव सन्तिष्ठेत् क्रमतः सदा ।
अर्द्धमात्रा शक्तिरूपा ध्यानमस्य च कथ्यते ॥”
इति वर्णोद्धारतन्त्रं ॥ अस्य तत्त्वं यथा, --
“शृणु तत्त्वमकारस्य अतिगोप्यं वरानने ।
शरच्चन्द्रप्रतीकाशं पञ्चकोणमयं सदा ॥
पञ्चदेवमयं वर्णं शक्तित्रयसमन्वितं ।
निर्गुणं त्रिगुणोपेतं स्वयं कैवल्यमूर्त्तिमान् ॥
विन्दुतत्त्वमयं वर्णं स्वयं प्रकृतिरूपिणी” ।
इति कामधेनुतन्त्रं ॥ अस्य पर्य्यायः ।
“अः श्रीकण्ठो मातृकाद्योऽनन्तो विष्णुरनुत्तरः” ।
इति वीजवर्णाभिधानं ॥ अन्यच्च ।
“अः श्रीकण्ठः सुरेशश्च ललाटञ्चैकमात्रिकः ।
पूर्णोदरी सृष्टिमेधौ सारस्वतः प्रियम्बदः ॥
महाब्राह्मी वासुदेवो धनेशः केशवोऽमृतं ।
कीर्त्तिर्निवृत्तिर्व्वागीशो नरकारिर्हरो मरुत् ॥
ब्रह्मा वामाद्यजो ह्रस्वः करसुः प्रणवाद्यकः” ।
प्रणवाद्यावयव इत्यर्थः ।
“ब्रह्माणी कामरूपश्च कामेशी वासिनी बियत् ॥
विश्वेशः श्रीविष्णुकण्ठौ प्रतिपत्तिथिरंशिनी ।
अर्कमण्डलवर्णाद्यौ ब्राह्मणः कामकर्षिणी” ॥
इति वर्णाभिधानतन्त्रं ॥

, व्य, अभाबः । अल्पः । निषेधः । अनुकम्पा । इति

मेदिनी । (नञोऽयमकारः षड्विधान् नञर्थान् बोध-
यति । यथा, --
“तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता ।
अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः” ॥
इति । सादृश्ये यथा -- अब्राह्मणः ब्राह्मणसदृश-
इत्यर्थः । अभावे यथा -- अभोजनं भोजनाभावः ।
अन्यत्वे यथा, -- पटः अघटः, पटः घटभिन्न-
इत्यर्थः । अल्पत्वे यथा -- अनुदरी कन्या अल्पोदरी
इत्यर्थः । अप्राशस्त्ये यथा, -- अधनं चर्म्मधनं,
चर्म्मधनम् अप्रशस्तधनम् इत्यर्थः । विरोधे यथा
-- अधर्म्मः परापकारः, परापकारः धर्म्मविरोधी
इत्यर्थः ।)

अः, पुं, (अतति सर्व्वं व्याप्नोति इति अततेर्डः)

विष्णुः । इति मेदिनी ।
“अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः ।
मकार उच्यते ब्रह्मा प्रणवेन त्रयो मताः” ॥
इति दुर्गादासधृतवचनं । (क्ली । ब्रह्म । यथा, --
अ इ उ ए ओ ओम् कलाश्च मूलं ब्रह्म इति
कीर्त्तितम्, इति अग्निपुराणम् ।)

अऋणी, [न्], त्रि, (न ऋणी, नञसमासः । अत्र

अशब्दो न नञ्जातः, तथात्वे अनृणी इत्येव स्यात् ।
अपितु स्वप्रकृतिरेव ततश्च अञ्मात्रनिपातनात्
नात्र सन्धिरिति ज्ञेयम् ।) अनृणी । अऋण-
ग्रस्तः । अधारी । यथा, --
“दिवसस्याष्टमे भागे शाकं पचति यो नरः ।
अऋणी चाप्रवासी च स वारिचर मोदते” ॥
इति महाभारतं ।

अंश, त् क विभाजने । अंशकरणे । इति कविकल्प-

द्रुमः । तालव्योपधः । विभाजन इति भाज त् क तु
पृथक्कृत्यां इत्यस्य रूपं । अंशयति अंशापयति
धनं वणिक् । इति दुर्गादासकृतधातुदीपिका ॥

अंशः, पुं, (अंश विभाजने, अदन्तचुरादिः । कर्म्मणि

घञ् ।) विभाजनं । तत्पर्य्यायः । भागः २ । वण्टकः
३ । इत्यमरः ॥ विभागः ४ भक्तिः ५ । इति
जटाधरः ॥ अंसशब्दो दन्त्यसान्तोऽपि । अंशांस
त् क विभाजने इति कविकल्पद्रुमदशनात् ।
स्कन्धः । इति विद्याविनोदादयः ॥ (वस्त्वेकदेशः ।
रिक्थविभागः । चतुर्थभागः । भाज्याङ्कः । रवि-
मूर्त्तिविशेषः । आदित्यविशेषः, यथा, --
“धाता मित्रोऽर्य्यमा शक्रो वरुणस्त्वंश एव च ।
भगो विवस्वान् पूषा च सविता दशमस्तथा ॥
एकादशस्तथा त्वष्टा द्वादशो विष्णुरेव च ।
जघन्यजम्तु सर्व्वेषामादित्यानां गुणाधिकः” ॥
इति महाभारतम् । वृत्तस्य षष्ठ्यधिकत्रिशततम-
भागः । यदुवंशीयः नृपविशेषः, यथा, -- ततः
कुरुवत्सः ततश्च अनुरथः ततः पुरुहोत्रो जज्ञे
ततश्च अंश इति ।)

अंशकं, क्ली, दिनं । इति त्रिकाण्डशेषः ॥

अंशकः, पुं, (अवश्यमंशं हरति इति अंशं हारीति

कन् ।) ज्ञातिः । दायादः । इति त्रिकाण्डशेषः ॥
(अल्पांशः । अल्पार्थे कन् ।)

अंशभाक्, [ज्], त्रि, (अंशं भजते इति अंश +

भज् + णिः ।) अंशी । (दायादः) यथा । बौ-
धायनः ।
“स्रवन्तीष्वनिरुद्धासु त्रयो वर्णा द्विजातयः ।
प्रातरुत्थाय कर्त्तव्यं देवर्षिपितृतर्पणं” ॥
निरुद्धासु न कुर्व्वीरन्नंशभाक् तत्र सेतुकृत् ।
इति प्रायश्चित्ततत्त्वं ॥

अंशलः, त्रि, (अंशः प्रशस्तस्कन्धः अस्ति अस्य इति

अंश + लच् ।) अंसलः । बलवान् । इत्यमरटीकायां
रमानाथः ॥ (प्रशस्तस्कन्धविशिष्टः)

अंशी, [न्], त्रि, (अंशोऽस्यास्तीति अंश + इनि ।)

अंशयोग्यः । वण्टकविशिष्टः । भागी । यथा या-
ज्ञवल्क्यः ।
“विभागञ्चेत् पिता कुर्य्यात् स्वेच्छया विभजेत् सुतान् ।
ज्येष्ठं वा श्रेष्ठगेन सर्व्वे वा स्युः समांशिनः” ॥
इति । सति तु पितरि पार्ब्बणानधिकारात्
पुत्राणां नांशिता । एवं धनिनः पौत्रस्वत्वोपरमे
तदंशमात्रे प्रपौत्राणामंशिता । इति दायतत्त्वं ॥

अंशुः, पुं, (अंशयति इति अंश विभाजने । मृग-

ष्वादित्वात् कुः ।) किरणः ॥ प्रभा ॥ इति मेदि-
नी ॥ वेशः ॥ इति धरणी ॥ सूत्रादिसूक्ष्मांशः ।
इति हेमचन्द्रः ॥ लेशः ॥ सूर्य्यः ॥ इति विश्वः ॥
(ऋषिविशेषः । लतावयवः । सोमलतावयवः ।
भागः ।)

अंशुकं, क्ली, (अंशून् कायति । कै शब्दे । आतैति

कः । यद्वा अंशुभिः काशते । काश दीप्तौ ।
अन्येष्वपीति डः ।) वस्त्रमात्रं ॥ सूक्ष्मवस्त्रं ॥ उत्त-
रीयवस्त्रं ॥ इति मेदिनी ॥ शुक्लवस्त्रं ॥ इत्यमर-
टीकायां रमानाथः ॥ (अधोवस्त्रं ।) अत्रं । तेजपात
इति भाषा । इति राजनिर्घण्टः ॥

अंशुधरः, पुं, (अंशूनां धरः । धरति इति धरः ॥

पचाद्यच् ।) सूर्य्यः ॥ इति त्रिकाण्डशेषः ॥

अंशुमत्फला, स्त्री, (अंशुमन्ति सूक्ष्मीवयववन्ति फला-

नि अस्याः । अंशुमानिव फलानि अस्याः इति वा ।
अजादित्वात् टाप् ।) कदलीवृक्षः । इत्यमरः ॥

अंशुमती स्त्री, (अंशवः सन्ति अस्याः । मतुप् ङीप्

च । अंशुमत्याः फलं मूलञ्च अंशुमती । अनुदात्ता-
देश्चेति अञ् । फलपाकमूलेषु इति लुपि युक्तवद्-
भावः ।) सालपर्णोवृक्षः ॥ इत्यमरः ॥ (परदेवता ।)

अंशुमान् [त्] पुं, (अंशवो विद्यन्ते अस्य इति ।

तदस्यास्तीति मतुप् ।) सूर्य्यः ॥ इति त्रिकाण्ड-
शेषः ॥ असमञ्जपुत्त्रः सूर्य्यवंशीयराजविशेषः ॥
यथा ।
“सगरस्यासमञ्जस्तु असमञ्जादथांशुमान् ।
दिलीपोऽशुंमतः पुत्त्रो दिलीपस्य भगीरथः” ॥
पृष्ठ १/००२
:इति रामायणे बालकाण्डे ७० सर्गः ॥ सूर्य्यवंशौ-
यासमञ्जोराजपौत्त्रः । यथा, --
“ततश्चकारासमञ्जा गङ्गानयनकारणं ।
लक्षवर्षं तपस्तप्त्वा ममार कालयोगतः ॥
दिलीपस्तस्य तनयो गङ्गानयनकारणं ।
तपः कृत्वा लक्षवर्षं ययौ लोकान्तरं नृपः ॥
अंशुमांस्तस्य पुत्त्रोऽभूद्गङ्गानयनकारणं ।
तपः कृत्वा लक्षवर्षं ममार कालयोगतः ॥
भगीरथस्तस्य पुत्त्रो महाभागवतः सुधीः ।
तपः कृत्वा लक्षवर्षं ममार कालयोगतः” ॥
इत्यादि ब्रह्मवैवर्त्ते प्रकृतिखण्डे ८ अध्यायः ॥
(विश्वव्यापिप्रकाशः परमात्मा ।) अंशुयुक्ते त्रि ॥
सोमलताया अवयवविशिष्टः ।)

अंशुमाली, [न्] पुं, (अंशूनां माला अस्ति अस्य

इति । व्रीह्यादित्वात् इनिः ।) सूर्य्यः । इति
त्रिकाण्डशेषः ॥ (आदित्य इवांशुमाली चचार,
इति विष्णुपुराणम् ।)

अंशुलः, पुं, (अंशुः विद्याज्योतिः अस्ति अस्य ।

इति । अंशु + लच् ।) चाणक्यमुनिः । इति
त्रिकाण्डशेषः ॥

अंशुहस्तः, पुं, (अंशुरेव हस्तः यस्य सः ।) सूर्य्यः ।

इति जटाधरः ॥

अंस, त् क विभाजने । अंशकरणे । इति कवि-

कल्पद्रुमः ॥ दन्त्योपधः । विभाजन इति भाज
त् क तु पृथक्कृत्यां इत्यस्य रूपं । अंसयति
अंसापयति धनं वणिक् । इति दुर्गादासः ॥

अंसः, पुं, क्ली, (अंस्यते समाहन्यते । अंस समा-

घाते । घज् । यद्वा अमति अम्यते वा भारा-
दिना । अम गतौ । अमेः सन् ।) स्कन्धः । इत्य-
मरः ॥ विभागे पुं । इति विश्वो हेमचन्द्रश्च ॥
(अन्यत् सर्व्वम् अंशशब्दे द्रष्टव्यम् ।)

अंसकूटः पुं, (अंसे स्कन्धे कूटैव इति ।) ककुद् ।

षाँडेर झूँट इति भाषा । इति हेमचन्द्रः ॥

अंसलः, त्रि, (अंसोऽग्यास्तीति । वत्सांसाभ्यां काम-

बले इति लच् ।) बलवान् । इत्यमरः ॥

अंहः, [स्] क्ली, (अमति गच्छति प्रायश्चि-

त्तादिना । अम गत्यादिषु । अमेः हुक् च
इति असुन् हुगागमश्च । अमति गच्छति
अघोऽनेन वा । अहेरसुना सिद्धे अघेरसुनि
अङ्घ इति मा भूदिति अमेः हुक् चेति सूत्रं ।
तथा च --
“स्यान्मध्योष्मचतुर्थत्वमंहसोरंहसस्तथा” ।
इति द्विरूपकोषः । एवञ्च ‘दत्तार्धाः सिद्धसङ्घै-
र्विदधतु घृणयः शाघ्रमङ्घोविघातम्’ इति सूर्य्य-
शतके पाठः अनुप्रासरसिकानां प्रामादिक इति
वद्न्ति ।) पापं । इत्यमरः ॥ (दुःखं । विघ्नः ।
स्वधर्म्मत्यागः ।)

अंहतिः, स्त्री, (हन्ति दुरितमनया । हन्तेरंहच

इति अतिः ।) दानं । इत्यमरः ॥ रोगः ॥ त्यागः ।
इति मेदिनी ॥

अंहती, स्त्री, (हन्तेरंह च इति अतिः, बह्वादित्वात्

ङीष् ।) दानं । इत्यमरटीकासारसुन्दरी ॥

अंहितिः, स्त्री, (अहन् + अति । अंहादेशः इडागमश्च ।)

दानं । इत्यमरटीकायां रायमुकुटः ॥

अंह्रिः, पुं, (अहि + क्रिण् । वंक्रादयश्च इति उणा-

दिसूत्रम् ।) पादः ॥ वृक्षमूलं । इत्यमरः ॥

अंह्रिपः, पुं, (अंह्रिभिः पिबति इति । पा पाने ।

सुपोति योगविभागात् कः । वृक्षः । इति
हलायुधः ॥

अंह्रिस्कन्धः, पुं, (अंह्रिः पादः । तम्य स्कन्ध इव ।)

गुल्फः । (कुर्च्चशिरः ।) इति हेमचन्द्रः ॥

अक, म वक्रगतौ । कुटिलगमने । इति कविकल्प-

द्रुमः ॥ म अकयति अकति सर्पः । इति दुर्गा-
दासः ॥

अक, इ क लक्ष्मणि । इति कविकल्पद्रुमः । लक्ष्म

चिह्नयुक्तकरणं । इ क अङ्कयति वस्त्रं रजकः ।
नोपधपाठेऽपि ञेर्नित्यत्वाद्धसुङ्नलोपोऽनावित्य-
स्याप्राप्तौ यगादौ अङ्क्यते इत्यादौ सिद्धे इदित्
पाठश्चरादेर्ञेरनित्यत्वज्ञापनार्थः । तेन अङ्कतीत्यपि
स्यात् । तथाच वोपदेवः ।
“सिद्धे नित्यणिजन्तत्वान्नित्यनुन्त्वे कितामिदित् ।
निजनित्यत्वबोधार्थं न दृष्टोऽनुम्बिधिःक्वचिदिति” ॥
अस्यार्थः । कितां कानुबन्धानां नित्यणिजन्तत्वा-
न्नित्यञ्यंन्तत्वान्नित्यनुन्त्वे नित्यनकारवत्त्वे सिद्धे
इदित् इदनुबन्धकरणं णिचो ञेरनित्यत्वबोधार्थं ।
किन्तु अनुम्बिधिर्नकाराभावः क्वचिदपि न दृष्टः ।
इति दुर्गादासः ॥

अक, इ ङ गत्यां । लक्ष्मणि । इति कविकल्पद्रमः ॥

इ अङ्क्यते । ङ अङ्कते पुण्यतीर्थेषु वृषयुग्मान्यश-
ङ्कितः । इति हलायुधः ॥ इति दुर्गादासः ॥

अकं, क्ली, (न कं सुखं । तद्विरुद्धं वा । नञ्समासः ।

नञः न लोपः ।) पापं । दुःखं । इति मेदिनी ॥

अकचः, पुं, (नास्ति कचः केशः यस्य सः ।) केतु-

ग्रहः । इति हारावली ॥ वाच्यलिङ्गम्तु केशशून्ये ॥

अकथ्यः, त्रि, न कथ्यः । नञ्समासः ।) अकथ-

नीयः । अवक्तव्यः ॥

अकनिष्ठः, पुं, (न कनिष्ठः नञ्समासः । बुद्धः । इति

शब्दरत्नावली ॥ (बहूनि शतसहस्राणि यावद-
कनिष्ठानां देवानां सन्निपतितान्यभूवन् इति ललि-
तविस्तरः ।) कनिष्ठभिन्ने वाच्यलिङ्गः ॥

अकनिष्ठगः, पुं, (अकनिष्ठ + गम् + डः ।) बुद्धः ।

इति । त्रिकाण्डशेषः ॥

अकम्पितः, पुं, (न कम्पितः । नञ्समासः ।)

बौद्धगणाधिपविशेषः । इति हेमचन्द्रः ॥ कम्प-
रहिते वाच्यलिङ्गः ॥ (असंदिग्धान् स्वरान् ब्रूया-
दविकृष्टानकम्पितान् । इति ऋग्वेदीयप्रातिशा-
ख्यसूत्रम् ।)

अकरणिः, स्त्री, (न + कृञ् अनि ।) आक्रोश-

विशेषः । शापः । यथा तस्याकरणिरेवास्तु ।
इत्यमरः ॥

अकरा, स्त्री, (न + कृञ् + अन् । स्त्रियां ङीप् ।)

आमलकी । इति शब्दचान्द्रका ॥ वाच्यलिङ्गस्तु
कररहिते ॥

अकरुणः, त्रि, (नास्ति करुणा यस्य इति ।) करुणा-

शून्यः । निर्दयः । अकृपः । यथा, --
“रघोर्वंशे कुत्सामकरुण समुत्सारयति कः” ।
इति महानाटकं ॥

अकर्कशः, त्रि, (न कर्कशः । नञ्समासः ।) कार्क-

श्यरहितः । कोमलः । इति हेमचन्द्रः । (अकर्कशा
अपरुषा । इति ललितविस्तरः ।)

अकर्णः, त्रि, (नास्ति कर्णो यस्य सः ।) कर्णरहितः ।

यथा, --
“अपाणिपादो जवनो गृहीता
पश्यत्यचक्षुः स शृणोत्यकर्णः” ।
इति श्रीधरस्वामिकृतश्रुतिः ।) वधिरः । इति
हेमचन्द्रः ॥

अकर्त्तनः, पुं, (न + कृत् + ल्युट् ।) वामनः । खव्वः ।

इति जटाधरः ॥

अकर्त्तव्यं, त्रि, (न + कृञ् + तव्य । न कर्त्तव्यं । नञ्-

समासः ।) अकरणीयं । अकरणार्ह्यं । अकार्य्यं ।
यथा, --
“अविरोधी भवाब्धौ च सर्व्वमङ्गलमङ्गलं ।
विरोधी नाशवीजञ्च सर्व्वोपद्रवकारणं ॥
अकर्त्तब्यो विरोधश्च दारुणैः क्षत्त्रियैः सह” ।
इति ब्रह्मवैवर्त्ते गणपतिखण्डे २८ अध्यायः ॥

अकर्त्ता, [ऋ] त्रि, (न कर्त्ता । नञ्समासः ।) अका-

रकः । यथा, --
“चातुर्व्वर्ण्यं मया सृष्टं गुणकर्म्मविभागशः ।
तस्य कर्त्तारमपि मां विद्ध्यकर्त्तारमव्ययं” ॥
इति श्रीभगवद्गीतायां ४ अध्याये १३ श्लोकः ॥
(कर्म्मनिर्लिप्तः साङ्ख्योक्तः पुरुषः । कुकर्म्मकारी ।)

अकर्म्म, [न्] क्ली, (न कर्म्म । नञ्समासः ।) अक-

रणीयकार्य्यं । यथा, --
“किं कर्म्म किमकर्म्मेति कवयोऽप्यत्र मोहिताः ।
तत्ते कर्म्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥
कर्म्मणो ह्यपि बोद्धव्यं बोद्धव्यञ्च विकर्म्मणः ।
अकर्म्मणश्च बोद्धव्यं गहना कर्म्मणो गतिः ॥
कर्म्मण्यकर्म्म यः पश्येदकर्म्मणि च कर्म्म यः ।
स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्म्मकृत्” ॥
इति श्रीभगवद्गीतायां ४ अध्याये १६ । १७ ।
१८ श्लोकाः ॥ (अप्रशस्तं कर्म्म । कर्म्माभावः ।
दुष्कर्म्म ।)

अकर्म्मण्यं, त्रि, (न कर्म्मणि साधुः । न + कर्म्मन्

+ यत् । कर्म्मायोग्यं । कार्य्यानर्ह्यं । निष्क-
र्म्मण्यं । अकेजुया इति भाषा । यथा, --
“षष्टिदण्डात्मिकायाश्च तिथेर्निष्क्रमणे परे
अकर्म्मण्यं तिथिमलं विद्यादेकादशीं विना” ॥
इति तिथ्यादितत्त्वं ॥

अकर्म्मा, [न्] त्रि, (नास्ति कम्म यस्य । बहु-

ब्रीहिः । कार्य्याक्षमः । निष्कर्म्मा । कार्य्यानुप-
युक्तः ॥ (क्रियामन्दः । कुकर्म्मा । स्वेच्छाचारी)

अकर्म्मान्वितः, त्रि, (कर्म्मणा अन्वितः न भव-

तीति । न + कर्म्मन् + अन्वितः ।) कुकर्म्मान्वितः ।
अकर्म्मविशिष्टः । दुष्कर्म्मयुक्तः ॥

अकल्कनः, त्रि, (नास्ति कल्कनं दम्भः यस्य सः ।

न + कल्कन ।) दम्भरहितः । तत्पर्थ्यायः । वीत-
पृष्ठ १/००३
:दम्भः २ । इति हेमचन्द्रः ॥ (शाष्यरहितः । सरलः ।)
अकल्कल इत्यपि पाठः ।

अकल्का, स्त्री, (नास्ति कल्कः अन्धकारमालिन्यं

यस्याम् इति ।) ज्योत्स्ना । इति शब्दचन्द्रिका ॥
वाच्यलिङ्गस्तु कल्करहिते ॥ (शाठ्यशून्यः । दम्भ-
शून्यः । सरलः । निर्म्मलः ।)

अकल्पितः, त्रि, (न कल्पित इति । नञ्समासः ।)

कल्पनारहितः । अकाल्पनिकः । अकृत्रिमः ।
अरचितः । (सत्यः । प्रकृतः । अवितथः ।)

अकल्यः, त्रि, (न कल्यः सुस्थः । नञ्समासः ।)

रोगी ॥ (यथा, --
“अकल्यबालस्थविरविषमस्थक्रियाकुलान् ।
... ... ... नाह्वाययेन्नृपः” ॥
इति मिताक्षराधृतवचनम् ॥ असमर्थः । यथा, --
“अकल्यः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे” ।
इति भागवते ।) कल्यो निरामयः तत्र नञ्-
समासः ॥

अकल्याणं, क्ली, (न कल्याणं । नञ्समासः ।) अ-

मङ्गलं । अशुभं ॥ (त्रि । कल्याणरहितः ।)

अकस्मात्, व्य, अतर्कितं । हठात् १ । तत्पर्य्यायः ।

सहसा २ सद्यः ३ सपदि ४ तत्क्षणे ५ एक-
पदे ६ । इति हेमचन्द्रः ॥ नञ्समस्तकिम्शब्दस्य
पञ्चम्यन्तप्रयोगोऽयं । इति केचित् ॥

अकारणं, त्रि, (नास्ति कारणं यस्य सः । न + का-

रणं ।) कारणशून्यं । निर्हेतु । अनिमित्तं । यथा, --
“कुतः पुनः शश्वदभद्रमीश्वरे,
न चार्पितं कम्म यदप्यकारणम्” ।
इति श्रीभागवतं ॥ (कारणं विना । कारणा-
भावः । यथा, -- “कारणसामान्ये द्रव्यकर्म्मणां
कर्म्माकारणमुक्तम्” । इति वैशेषिकसूत्रम् ।)

अकारणगुणोत्पन्नगुणः, पुं, (विना कारणगुणं

उत्पन्ना जाताः ये गुणाः । अकारणगुण +
उत्पन्न + गुण ।) स्वाभाविकगुणः । न्यायमते वि-
भुनिष्ठविशेषगुणाः यथा, -- बुद्धिः १ सुखं २
दुःखं ३ इच्छा ४ द्वेषः ५ यत्नः ६ धर्म्मः ७ अ-
धर्म्मः ८ भावना ९ शब्दः १० ।
(“अतीन्द्रिया विभूनान्तु ये स्युर्वेशेषिका गुणाः ।
अकारणगुणोत्पन्ना एते तु परिकीर्त्तिताः” ॥
इति भाषापरिच्छेदे । अकारणेति कारणगुण-
पूर्व्वका रूपादयो वक्ष्यन्ते । बुद्ध्यादयस्तु न
तादृशाः । आत्मादेः कारणाभावात् ।) इति
सिद्धान्तमुक्तावली ॥

अकार्प्यण्यं, क्ली, (न कार्पण्यम् । नञ्समासः ।)

कृपणताराहित्यं । यथा, --
“स्तोकादपि च दातव्यमदीनेनैव चात्मना ।
अहन्यहनि यत्किञ्चिदकार्प्यण्यंहितत् स्मृतम्” ॥
इत्येकादशीतत्त्वम् ॥

अकार्य्यं, क्ली, (न कार्य्यम् । नञ्समासः ।) कार्य्या-

भावः । अकृत्यं । अकर्म्म । (दुष्कर्म्म । कुका-
र्य्यम् ।) यथा, --
“किमकार्य्यं कदर्य्याणां दुस्त्यजं किं धृतात्मनां” ।
इति श्रीभागवतं ॥

अकालः, पुं, (न कालः, अप्रशस्तः कालो वा ।

नञ्समासः ।) असमयः । अप्रशस्तकालः ।
यथायोग्यकालातिरिक्तसमयः । अशुद्धकालः ।
यथा, -- गुरोरस्तात् प्राक् वृद्धत्वे पञ्चदशाहः ।
तस्यास्ते द्वात्रिंशद्दिनं । तस्योदयात् परं बा-
लत्वे पञ्चदशाहः । गुर्व्वादित्ययोगे स्थितिकालः
दशत्रिंशद्दिनादिः ।
सिंहे गुरोः स्थितिकालः सम्बत्सरस्थूलः । अस्य
विशेषः यदि माघपौर्णमास्यां मघानक्षत्रं
प्राप्यते तदैवं भाव्यं । वक्रिगुरौ अष्टाविंशति-
दिनं । पूर्ब्बराशावनागतातिचारिगुरौ एकवर्षः ।
अयमेव लुप्तसम्बत्सरः । पूर्ब्बराशिगन्त्रतिचा-
रिगुरौ पञ्चचत्वारिंशत् दिनं । नीचस्थगुरोः
स्थितिकालः संवत्सरस्थूलः । राहुयुक्तगुरोः
स्थितिसमयः एकाब्दः स्थूलः । भृगोर्महास्तात्
प्राक् वृद्धत्वे पञ्चदशाहः । तस्य महास्ते
द्विसप्ततिदिनं । तस्योदयात् परं बालत्वे दशाहः ।
एतत्त्रयं शीघ्रास्तमुच्यते ॥ भृगोः पादास्तात्
प्राक् वृद्धत्वे दशाहः । तस्य पादास्ते द्वादशाहः ।
तस्योदयात् परं बालत्वे दिनत्रयं । एतत्त्रयं
वक्रास्तमुदितं । मलमासे मासमेकं ॥ भानु-
लङ्घितमासे क्षयमासे च तदेव ॥ भूक्म्पाद्य-
द्भते सप्ताहः ॥ पौषादिचतुर्मासे एकदिन-
चरणाङ्कितवर्षणे तद्दिनं । दिनद्वयचरणाङ्कित-
वर्षणे दिनत्रयं । दिनत्रयचरणाङ्कितवर्षणे
सप्ताहः ॥ दक्षिणायने षण्मासाः ॥ श्रीहरि-
शयने चतुर्मासः ॥ चन्द्रसूर्य्यग्रहणे कर्म्मविशेषे
एकत्रिसप्तदिनानि ॥ इति ज्योतिषतत्त्वं ॥

अकालजः, त्रि, (अकाले जायते इति । अकाल

+ जन + ड । अकालजातः । असमयोत्पन्नः ।
अपूर्णकालोद्भवः । यथा, --
“अकालजन्तु विरसं न धान्यं गुणवत् स्मृतं” ॥
इति राजवल्लभः ॥

अकालजलदोदयः, पुं, कुज्झटी । इति शब्दमाला ॥

अकाले मेघानामुदयः ॥ यथा रघवंशे --
“यवनीमुखपद्मानां सेहे मधुमदं न सः ।
बालातपमिवाब्जानामकालजलदीदयः” ॥

अकालमेघोदयः, पुं, (अकाले यः मेघानाम्

उदयः ।) कुज्झटी । इति शब्दमाला ॥ अकाले
मेघानामुदयः ॥

अकिञ्चनः, त्रि, (नास्ति किञ्चन यस्य । मयू-

रव्यंसकादित्वात् बहुब्रीहिसमासः ।) दरिद्रः ।
नास्ति किञ्चिदपि यस्य । इति हेमचन्द्रः ॥
(यथा, -- ‘अकिञ्चनः सन् प्रभवः स सम्पदाम्’
इति कुमारसम्भवे ।)

अकिञ्चनता, स्त्री, (अकिञ्चनस्य भावः । अकि-

ञ्चन + तल् ।) अकिञ्चनस्य भावः । सा तु परि-
ग्रहत्यागरूपयमविशेषः । इति हेमचन्द्रः ॥

अकिल्विषः, त्रि, (नास्ति किल्विषं यस्य । बहु-

ब्रीहिः ।) किल्विषशून्यः पापरहितः । यथा, --
“न मां दोषेण सुग्रीव गन्तुमर्हस्यकिल्विषं” ।
इति रामायणं ॥

अकीर्त्तिः, स्त्री, (न कीर्त्तिः । नञ्समासः ।)

अयशः । यथा, --
“अकीर्त्तिंचापि भूतानि कथयिष्यन्ति तेऽव्ययां ।
सम्भावितस्य चाकीर्त्तिर्म्मरणादतिरिच्यते” ॥
इति श्रीभगवद्गीतायां २ अध्याये ३४ श्लोकः ॥

अकीर्त्तिकरं, त्रि, (अकीर्त्तिं करोति जनयति

इति । यद्वा कीर्त्तिकरं न भवतीति नञ्-
समासः ।) अयशस्करं । यथा, --
“कुतस्त्वा कश्मलमिदं विषमे समुपस्थितं ।
अनार्य्यजुष्टमस्वर्ग्यमकीर्त्तिकरमर्ज्जुन” ॥
इति श्रीभगाद्गीतायां २ अध्याये २ श्लोकः ॥

अकुतोभयः, त्रि, (नास्ति कुतोऽपि भयं यस्य

सः । मयूरव्यंसकादिगणान्तर्गतः । न + कुतः
+ भयं ।) नास्ति कस्माद्भयं यस्य । निर्भयः ।
यथा । इच्छतामकुतोभयमिति भक्तिरसामृत-
सिन्धुः ॥

अकुप्यं, क्ली, (न कुप्यं, कुप्यादन्यदित्यर्थः । नञ्-

समासः ।) स्वर्णं । रूप्यं इति हलायधः ॥ यथा --
कुरूनकुप्यं वसु वासवोपमः’ । इति भारविः) ॥

अकूपार, पुं, (न कूपारः । नञ्समासः । कुं

पृथिवीं पिपर्त्ति इति कूपारः । पॄ पालन-
पृरणयोः । कर्म्मणि अण् । अन्येषामपीति
दीर्घः ।) समुद्रः । इत्यमरः ॥ कूर्म्मराजः ।
पाषाणादिः । इति मेदिनी ॥ कमठः । इति
त्रिकाण्डशेषः ॥

अकूर्च्चः, पुं, (नास्ति कूर्च्चः कैतवं यस्य । बहु-

ब्रीहिः ।) बुद्धः । इति त्रिकाण्डशेषः । कैत-
वशून्ये त्रि । (दम्भशून्ये) ।

अकृतं, त्रि, (न + कृ + क्त ।) न कृतं । अनिष्पा-

दितं । यथा, --
“कालातीतन्तु यत् कुर्य्यादकृतन्तद्विनिर्द्दिशेत्”
इति स्मृतिः ॥ (नित्यः । प्रमाणाविषयः । (क्ली)
मोक्षः । कारणं । (स्त्री) प्रकृतिविशेषः ।
यथा “अपां निम्नदेशगमनादिलक्षणा प्रकृ-
तिः सा न केनचित्कृता” ।)

अकृतज्ञः, त्रि, (न + कृत + ज्ञा + क । न कृतज्ञः

इति नञ्समासः ।) कृतघ्नः । हितास्मर्त्ता ।
उपकारामानी । उपकारहन्ता । यथा, --
“भजतोऽपि न वै केचिद्भजन्त्यभजतः कुतः ।
आत्मारामाः पूर्णकामा अकृतज्ञां गुरुद्रुहः” ॥
इति श्रीभागवतं ॥

अकृतित्वं, क्ली, (ण + कृतिन् + त्व ।) अक्षमता ।

अपटुता । कर्म्माकुशलत्वं । अयोग्यत्वं ॥

अकृती, [न्] त्रि, (न + कृती । नञ्समासः ।) कर्म्मा-

क्षमः । कार्य्याकुशलः । क्रियानुपयुक्तः ।

अकृत्रिमं, त्रि, (करणात् जातः कृत्रिमः । स न

भवतीति नञ्समासः ।) अकरणजं । अजन्यं ।
सिद्धं । अकरणजातं । यथा दक्षः ।
“चतुर्थे च तथा भागे स्नानार्थं मृदमाहरेत् ।
तिलपुष्पकुशादीनि स्नानञ्चाकृत्रिमे जले” ॥
इत्याह्निकाचारतत्त्वं ॥ ० ॥ किञ्च । कात्यायनः ।
“पूर्ब्बपक्षं स्वभावोक्तं प्राड्विवाकोऽथ लेखयेत् ।
पृष्ठ १/००४
:शोधयेत् पूर्ब्बपक्षन्तु यावन्नोत्तरदर्शनं” ॥
स्वभावोक्तं अकृत्रिमं । इति व्यवहारतत्त्वं ॥
(अक्रियोत्पन्नः । नैसर्गिकः । अयत्नकृतः । यथा, --
“तदकृत्रिमसौहार्द्दमापत्स्वपि न मुञ्चति” ।
इति हितोपदेशः ।)

अकृपः, त्रि, (नास्ति कृपा यस्य सः ।) कृपाशून्यः ।

निर्द्दयः । अकरुणः । यथा, --
“वनजौ वनजौ ह्रस्वस्त्रिरामी सकृपोऽकृपः” ।
इत्यनुष्टुबाचार्य्यः ॥

अकृपणः, त्रि, (न कृपणः । नञ्समासः ।) कार्पण्य-

रहितः । दीनताशून्यः । यथा, --
“महद्वा व्यसनं प्राप्तो दीनः कृपण उच्यते ।
कुलेऽप्यकृपणे राम संभूतः सर्वकामदे” ॥
इति रामायणं ॥ (पुष्कलः । बहुलः । यथा, --
“भूशय्यां नवपल्लवैरकृपणैरुतिष्ठ यामो वयम्” ।
इति वैराग्यशतके ।

अकृष्णकर्म्मा, [न्] त्रि, (न कृष्णं मलिनं कर्म्म

यस्यस् सः । न + कृष्ण + कर्म्मन् ।) दुष्कर्म्मरहितः ।
निष्पापः । शुद्धाचारः । अकृष्णं निष्पापत्वात्
शुक्लं कर्म्मास्य । इत्यमरटीकायां भरतः ॥

अकेशः, त्रि, (नास्ति केशो यस्य । अल्पः अप्रशस्तो

वा केशो यस्य सः ।) केशरहितः । अल्पकेश-
युक्तः अप्रशस्तकेशविशिष्टः ॥

अकैतवं, क्ली, (न कैतवम् । नञ्समासः ।)

कैतवाभावः । अकपटता । अधूर्त्तता । अवञ्चना ॥

अकोटः, पुं, (न + कुट + भावे घञ् ।) गुवाकः ।

इति त्रिकाण्डशेषः ॥

अकोविदः, त्रि, (न कोविदः । नञ्समासः ।) अप-

ण्डितः । मूर्खः ॥

अकौटिल्यं, क्ली, (न + कौटिल्यं । नञ् समासः ।)

कौटिल्याभावः । सरलता ॥

अक्का, स्त्री, (अकं दुःखं कायति गृह्णाति इति

कै शब्दे ।) माता । इति शब्दरत्नावली ॥

अक्तः, त्रि, (अञ्चेर्गतौ क्तः । अक्तपरिमाणस्य

वाचक इति भाष्यस्य कैयटेन तथा व्याख्यात-
त्वात् । अनक्ति अज्यते वा । अञ्जू व्यक्त्यादौ ।
अञ्जिघृसिभ्यः क्तः इति औणादिकः क्तः ।)
युक्तः ॥ गतः ॥ व्यक्तः ॥ अनज् व्यक्तिगतिम्रक्षणे
इत्यस्मात् कर्म्मणि क्तः । यथा, --
“हिक्काश्वासातुरे पूर्ब्बं तैलाक्ते स्वेद इष्यते” ।
इति चक्रदत्तः । (स्त्रियां अक्ता इति पदं रात्रि-
वाचकम् वेदे प्रसिंद्धम् ।)

अक्तुः, स्त्री, रात्रिः । अनक्ति प्रतिदिनं गच्छति

अक्तुः । अञ्जू धञि व्यक्तिगतिम्रक्षणे बाहुल-
कात् कुः अनिदितामिति नलोपः । वेदप्रचुर-
प्रयोगोऽयं ॥ (आयुधं । किरणः । कान्तिः ।
नक्षत्रं । स्रोतः । अञ्जनघृतं । एते अर्थाः
वैदिकग्रन्थे प्रसिद्धाः ।)

अक्रव्यादः, त्रि, (न क्रष्यादः । नञ्समासः ।)

अमांमभक्षकः । यथा, --
“क्रव्यादांम्तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीं ।
अक्रव्यादान वत्मतरीमुष्ट्रं हत्वा तु कृष्णलं” ॥
इति मानवे ११ अध्याये १३३ श्लोकः ॥

अक्रमः, त्रि, (न क्रमः । नञ् समासः । नास्ति

क्रमो यस्य इति वा ।) क्रमरहितः । व्यतिक्रमः ।
यथा, --
“अक्रमाच्छेफसो वृद्धिं योऽभिवाञ्छति मूढधीः” ।
इति माधवकरः ॥ (क्रमाभावः । क्रमविपर्य्ययः ।
यथा, -- ‘इदमनुचितमक्रमश्च पुंसां यदिह
जरास्वपि मान्मथा विकाराः’ इति शृङ्गार-
शतकम् ।)

अक्रान्ता, स्त्री, (न + क्रम् + क्त + आप् ।) वृहती ।

इति काचिद्रत्नमाला ॥ अनाक्रान्ते त्रि ॥

अक्रियः, त्रि, (नास्ति क्रिया यस्य । अप्रशस्ता

वा क्रिया यस्य ।) अक्रियान्वितः । कुकर्म्म-
विशिष्टः । क्रियारहितः । यथा ‘अक्रियत्वाच्च
सर्व्वदा’ । इति चरकः ॥ (निश्चेष्टः । स्पन्द-
रहितः । कर्म्मत्यागी । यथा, --
“अनाश्रितः कर्म्मफलं कार्य्यं कर्म्म करोति यः ।
स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः” ॥
इति गीतायाम् ।) (स्त्री । क्रियाभावः । क्रिया-
त्यागः । अयथाक्रिया । यथा, --
“अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः सर्वकर्म्मिणाम् ।
अक्रिया च परोक्ता च तृतीया चायथाक्रिया” ॥
इति काव्यसङ्कलितः ।)

अक्रूरः, पुं, (क्रौर्य्यवान् क्रूरः, स न भवति इति

अक्रूरः । यद्वा क्रूर इति भावप्रधानो निर्द्देर्शः ।
न विद्यते क्रौय्यम् इति अक्रूरः ।) गान्दिनीपुत्रः ।
श्रीकृष्णपितृव्यः । तस्य पिता श्वफल्कः । (तस्य-
माता गान्दिनी ।) इति श्रीभागवतं ॥ क्रूरताशून्ये
त्रि ॥ (सरले । यथा, --
“स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोरमम्” ।
इति मनुः । पुंसि विष्णुः । यथा, --
“अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः” ।
इति भारते ।)

अक्रोधः, पुं, (न क्रोध इति नञ् समासः । नास्ति

क्रोधो यस्य इति वा ।) क्रोधश्चित्तविकारः तद्वि-
परीतः । स तु आश्रमिणां दशधर्म्मान्तर्गतधर्म्मः ।
इति जटाधरः ॥ (यथाह मनुः --
“धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दशकं धर्म्मलक्षणम्” ॥
इति ।) वाच्यलिङ्गस्तु क्रोधरहितव्यक्तौ ॥

अक्लान्तः, त्रि, (न + क्लम् + क्त । न क्लान्त इति

नञ्समासः ।) क्लान्तिरहितः । अनवसन्नः ।
अग्लानः ॥

अक्लिका, स्त्री, नीलीवृक्षः । इति शब्दचन्द्रिका ॥

अक्लिष्टकर्म्मा, [न्] त्रि, (अक्लिष्टम् अनायाससाध्यं

कर्म्म यस्य । बहुब्रीहिः ।) अक्लेशेन कर्म्मकर्त्ता ।
यथा, --
“दूतोऽहं कोशलेन्द्रस्य रामस्याक्लिष्टकर्म्मणः” ।
इति रामायणं ।

अक्लेशं, क्ली, (न क्लेश इति नञ् समासः ।) क्लेशा-

भावः । यथा, --
“यात्रामात्रप्रसिद्ध्यर्थं खैः कर्म्मभिरगर्हितैः ।
अक्लेशेन शरोरस्य कुर्व्वीत धनसञ्चयं” ॥
इति मानवे ४ अध्याये ३ श्लोकः ॥ क्लेशाभाववति
त्रि ॥

अक्लेशः, त्रि, (नास्ति क्लेशो यस्य इति बहुब्रीहिः ।)

क्लेशशून्यः । अनायासः । अकष्टः ॥

अक्ष, न ऊ व्याप्तौ । संहतौ । इति कविकल्पद्रमः ।

न अक्ष्णोति धनं लोकः । व्याप्नोति राशीकरोति
वा इत्यर्थः । ऊ आक्षिष्टां । आष्टां । इति
दुर्गादासः ।

अक्ष, ऊ व्याप्तौ । संहतौ । इति कविकल्पद्रुमः ।

अक्षति धनं लोकः । व्याप्नोति राशीकरोति वा
इत्यर्थः । ऊ आक्षिष्टां । आष्टां । इति दुर्गादासः ॥

अक्षं, क्ली, (अक्ष्णोति अक्षति वा अक्ष्यते वा अनेन

अत्र वा अक्षू व्याप्तौ । पचाद्यच् घञ् वा । अ-
श्नुते अत्यर्थं अशू व्याप्तौ । अशेर्देवने इति सो
वा ।) इन्द्रियं । (यथा विष्णुपुराणे, --
“शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् ।
कुर्य्याच्चित्तानुकारीणि प्रत्याहारपरायणः” ॥)
सौवर्ञ्चलं । तुथं । इति मेदिनी । (चक्षुः । यथा
रामायणे, --
“सर्व्वे तेऽनिमिषैरक्षैस्तमनुद्रुतचेतसः” । इति ।)

अक्षः, पुं, कर्षपरिमाणं । (यथा, --

“ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयं” ।)
पाशकः । (अक्षैरक्षान् वा दीव्यति । इति
सिद्धान्तकौमुदी ।) (पाशक्रीडा । यथाह मनुः) --
‘मृगयाक्षो दिवास्वप्नः परीवादः स्त्रियो मदः’ ।)
कलिद्रुमः । इत्यमरः । (विभीतकवृक्षः । यथा
छान्दोग्ये -- यथा वै द्वे आमलके द्वे कोले द्वौ
वाक्षौ मुष्टिमनुभवति ।) ज्ञातार्थं । शकटः । व्यव-
हारः । रुद्राक्षः । इन्द्राक्षः । सर्पः । चक्रं । इति
मेदिनी । (चक्रधारणदारुभेदः । यथा, --
“छिन्ननास्ये भग्नयुगे तिर्य्यक् प्रतिमुखागते ।
अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च” ॥)
आत्मा । रावणपुत्रः । इति हेमचन्द्रः । (यथा रा-
मायणे -- ‘निशम्य राजा समरे सहोत्सुकं
कुमारमक्षं प्रसमैक्षताथ वै’ ।)
जातान्धः । गरुडः । इति शब्दरत्नावली । (शिवः ।
यथा भारते --
“अक्षश्च रथयोगी च सर्व्वयोगी भहावलः” ।
इति) संस्कृतपलभा । यथा, --
“चन्द्राश्विनिघ्ना पलभार्द्धिता च
लङ्कावधिः स्यादिह दक्षिणोक्षः” ।
इति भास्यती ॥
“प्रभा शरघ्ना स्वतुरीययोगा-
दक्षः सदा दक्षिणदिक् प्रदिष्टः” ।
इति जातकार्णवः --
“दक्षिणोत्तररेखायां सा तत्र विषुवत् प्रभा ।
शङ्कुच्छाया हते त्रिज्ये विषुवत् कर्णभाजिते ॥
लम्बाक्षय्ये तयोश्चापे लम्बाक्षौ दक्षिणौ सदा” ।
इति सूर्य्यसिद्धान्तः ॥

अक्षकः, पुं, (अक्ष + क) तिनिशवृक्षः । इति

रत्नमाला ।
पृष्ठ १/००५

अक्षक्रीडा, स्त्री, (अक्षैः या क्रीडा) द्यूतक्रीडा

पाशकक्रीडा । यथा । अक्षक्रीडायां व्यासयुधि-
ष्ठिरसंवादः प्रचरति । इति तिथ्यादितत्त्वं ॥
तद्विवरणं चतुरङ्गशब्दे द्रष्टव्यं ॥ * ॥ कार्त्तिक-
शुक्लप्रतिपदि तत्क्रीडाविधिर्यथा । ब्रह्मपुराणे, --
“शङ्करश्च पुरा द्यूतं ससर्ज सुमनोहरं ।
कार्त्तिके शुक्लपक्षे तु प्रथमेऽहनि भूपते ॥
जितश्च शङ्करस्तत्र जयं लेभे च पार्व्वती ।
अतोऽर्थाच्छङ्करो दुःखी गौरी निथं सुखोषिता ॥
तस्मात् द्यूतं प्रकर्त्तव्यं प्रभाते तत्र मानवैः ।
तस्मिन् द्यूते जयो यस्य तस्य संवत्सरः शुभः ॥
पराजयो विरुद्धस्तु लब्धनाशकरो भवेत” ।
द्यूतञ्चाप्राणिभिः क्रीडनं । यथा मनुः, --
“अप्राणिभिर्यत् क्रियते तल्लोके द्यूतमुच्यते” ।
इति तिथ्यादितत्त्वं ॥ * ॥ दशमीद्वादश्योस्तत्-
करणनिषेधो यथा । स्मृतिः, --
“शाकं माषं मसूरञ्च पुनर्भोजनमैथुने ।
द्यूतमत्यम्बुपानञ्च दशम्यां वैष्णवस्त्यजेत्” ॥
कूर्म्मपुराणं, --
“कांस्यं मांसं सुरां क्षौद्रं हिंसां तैलमसत्यताम् ।
द्यूतक्रीडां दिवानिद्रां व्यायामं क्रोधमैथुनं ॥
द्वादश्यां द्वादशैतानि वैष्णवः परिवर्ज्जयेत्” ।
इत्येकादशीतत्त्वं ॥ * ॥ अन्यत् द्यूतशब्दे द्रष्टव्यं ॥

अक्षजः पुं, (अक्ष + जन् + ड) वज्रं । इति पुरुषो-

त्तमः । अस्थिज इति क्वचित् पाठः । (विष्णुः ।
यथा भागवते, --
“जघानोत्पत्य गदया हनावसुरमक्षजः” ।

अक्षतं, क्ली, (क्षणु हिंसायां । नपुंसके भावेक्तः ।

अनुदात्तोपदेशेत्यादिना णलोपः ।) लाजाः । नपुं-
सकं । इति मेदिनी ।

अक्षतः, त्रि, (न + क्षण् + क्त) अहिंसितः । इति

मेदिनी । अखण्डितः । इति शब्दरत्नावली ।
(यथाह मनुः, --
“दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत् ।
त्रिषु स्थानेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत्” ॥)

अक्षतः, पुं, यवः । इति मेदिनी । (यथा आश्वलायन-

मृह्यसूत्रे, --
“अक्षतसक्तूनां नवं कलसं पूरयित्वा” ।)
शस्यमात्रं । इति अमरटीकायां भानुदीक्षितः ॥
अक्षताः पुं भू म्नीति स्वामी ॥ (न क्षताः येषां ते
इति अक्षताः । मुकुटस्तु अमरव्याख्यानावसरे
आजाः पुं भूम्नितेऽक्षतमिति पठित्वा कर्म्मणि क्तः ।
क्षतं खण्डितं । न क्षतमक्षतमिति विगृह्य नित्य-
पुंलिङ्गाः नित्यबहुवचनान्ताश्च लाजा अक्षतमिति
व्याचख्यौ ॥ केचित्तु अखण्डतण्डुला अक्षतमि-
त्याहुः ॥)

अक्षता स्त्री, कर्कटशृङ्गी । काँकडाशृङ्गी इति

भाषा । इति शब्दचन्द्रिका ॥ परुषसंसर्गरहिता
स्त्री । स्मृतिः ॥ यथाह याज्ञवल्क्यः --
“अक्षतायां क्षतायां वा जातः पौनर्भवः पुनः” ।

अक्षदर्शकः, पुं, (अक्षाणां व्यवहाराणां दर्शकः ।

अक्ष + दृश् + ण्वुल् ।) व्यवहारद्रष्टा व्यवहा-
राणां ऋणादानादिविवादानां द्रष्टा निर्णेता ।
धर्म्माध्यक्ष इत्यर्थः । इत्यमरः तट्टीका च ॥ जज्
इति इंराजीयभाषा ॥

अक्षदृक्, (श) पुं, (अक्ष + दृश + क्विप् ।) अक्ष-

दर्शकः । (व्यवहारस्य ज्ञाता ।)

अक्षदेवी, (न्) त्रि, (अक्षैर्दीव्यति । दिवु क्रीडादौ ।

सुपीति णिनि ।) द्यूतक्रीडाकारकः । इत्यमरः ॥

अक्षद्य, पुं, (अक्षैर्दीव्यति । दिवु क्रीडादौ । अक्ष +

दिव् + क्विप् + ऊट् ।) अक्षक्रीडकः । इति व्या-
करणं ॥

अक्षधरः पुं, (अक्ष + धृ + अच् ।) शाखोटवृक्षः ।

इति भूरिप्रयोगः ॥

अक्षधूर्त्तः पुं, (अक्षेषु धूर्त्तः । सप्तमी शौण्डैरिति

समासः ।) द्यूतक्रीडकः । तत्पर्य्यायः । धूर्त्तः २
अक्षदेवी ३ कितवः ४ द्यूतकृत् ५ । इत्यमरः ॥
जुयारी इति भाषा ॥

अक्षधूर्त्तिल पुं, (अक्ष + धुर् + तिल् ।) वृषः ।

इति हारावली ॥

अक्षपाटकः पुं, (अक्ष + पाट + वुन् ।) धर्म्माध्यक्षः ।

इति जटाधरः ॥ जज् इति भाषा ॥

अक्षपादः पुं, (अक्ष + पाद ।) तार्किकः । तत्प-

र्य्यायः । नैयायिकः २ । इति हेमचन्द्रः ॥

अक्षपीडा स्त्री, (अक्ष + पोडा ।) यपतिक्ता लता ।

इति राजनिर्घण्टः ॥

अक्षमः त्रि, (नास्ति क्षमा यस्य सः ।) क्षमारहितः ।

क्षमाशून्यः । (असमर्थः ।)
“विष्णुसेवी च श्वपचो वंशानां कोटिमुद्धरेत् ।
हरेरभक्तो विप्रश्च स्वञ्च रक्षितुमक्षमः” ॥
इति ब्रह्मवैवर्त्ते ३३ अध्यायः ॥

अक्षमा स्त्री, (न क्षमा इति नञ्समासः ।) अ-

क्षन्तिः । ईर्षा । इति शब्दरत्नावली ॥ (यथा
किरातार्ज्जुनीये --
“अतिपातितकालसाधना
स्वशरीरेन्द्रियवर्गतापिनी ।
जनवन्न भवन्तमक्षमा
नयसिद्धेरपनेतुमर्हति” ॥

अक्षमाला स्त्री, (अक्षाणां माला ।) अक्षसूत्रं ।

वशिष्ठपत्नी । इति मेदिनी ॥ (यथाह मनुः --
“अक्षमाला वशिष्ठेन संयुक्ताधमयोनिजा” ।
अक्षसूत्रेति तान्त्रिकभाषया अकारादिक्षका-
रान्तवर्णमाला रुद्राक्षमाला च । यथा गौत-
मीये, --
“पञ्चाशल्लिपिभिर्माला विहिता जपकर्म्मसु ।
अकारादिक्षकारान्ता अक्षमाला प्रकीर्त्तिता ॥
क्षर्णं मेरुमुखं तत्र कल्पयेन्मुनिसत्तम ।
अनया सर्व्वमन्त्राणां जपः सर्व्वसमृद्धिदः” ॥
इति तन्त्रसारः ॥ * ॥ अन्यत् मालाशब्दे वर्ण-
मालाशब्दे च द्रष्टव्यं ॥

अक्षयः त्रि, (नास्ति क्षयो यस्य सः । बहुब्रीहिः ।)

क्षयरहितः । अव्ययः । कल्पान्तस्थायी । यथा --
“अक्षराणि फलान्याहुरमरांस्त्रिदशानिव ।
कल्पान्तस्थानसम्बन्धान्नजन्या नाशवर्ज्जिनः” ॥
इति मीमांसककारिका ॥ अपि च । भविष्य-
पुराणं ।
“चतुर्द्दश्यां तथाष्टम्यां पक्षयोः शुक्लकृष्णयोः ।
योऽब्दमेकं न भुञ्जोत शिवार्च्चनपरो नरः ॥
यत् पुण्यमक्षयं प्रोक्तं सततं सत्रयाजिनां ।
तत् पण्यं सफलं तस्य शिवलोकञ्च गच्छति” ॥
इति तिथ्यादितत्त्वं ॥ * ॥ पापपुण्याक्षयजनक-
योगविशेषः । यथा ज्योतिषे, --
“सोमवारेऽप्यमावास्या आदित्याहे तु सप्तमी ।
चतुर्थ्यङ्गारवारे तु अष्टमी च वृहस्पतौ ॥
अत्र यत् क्रियते पापमथवा धर्म्मसञ्चयः ।
षष्टिजन्मसहस्राणि प्रति जन्म तदक्षयं” ॥
इति तिथ्यादितत्त्वं ॥ (अनन्तः । अक्षयकालाभि-
मानी । अः वासुदेवः तस्मिन् क्षयो निवासोऽस्य
इति व्युत्पत्त्या ब्रह्मणिष्ठः ।)

अक्षयतृतीया स्त्री, (अक्षया या तृतीया तिथिः ।)

वैशाखशुक्लतृतीया । सा तु सत्ययुगाद्या । तत्र
स्नानदानादावक्षयफलं । इति । स्मुतिः । यथा, --
“वैशाखे मासि राजेन्द्र शुक्लपक्षे तृतीयिका ।
अक्षया सातिथिः प्रोक्ता कृत्तिकारोहिणीयुता ॥
तस्यां दानादिकं पुण्यमक्षयं समुदाहृतं” ।
इति तिथ्यादितत्त्वं ॥ * ॥ विवरणं तु वैशाख-
शब्दे द्रष्टव्यं ॥

अक्षया स्त्री, (नास्ति क्षयो यस्याः सा ।) वारतिथि-

घटितयोगविशेषः । यथा, --
“अमा वै सोमवारेण रविवारेण सप्तमी ।
चतुर्थी भौमवारेण अक्षयादपि चाक्षया” ॥
इति भविष्यपुराणम् ॥

अक्षरः पुं, (न क्षरति । क्षर सञ्चलने । पचाद्यच् ।

यद्वा । अश्नुते । अशू व्याप्तौ । अशेः सरः ।) शिवः ।
विष्णः । इति शब्दरत्नावली । यथा महाभारते, --
“विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
अव्ययः परुषः साक्षी क्षेत्रज्ञोऽक्षर एव च” ॥
इति ।) (अजः । जीवः ।)

अक्षरं क्ली, (न क्षरति इति व्युत्पत्त्या ।) ब्रह्म ।

(अविनाशि निर्व्विशेषं प्रणवाख्यं ब्रह्म । कूटस्थः
नित्यः आत्मा । यथा, --
“क्षराद्विरुद्धधर्म्मत्वादक्षरं ब्रह्म भण्यते ।
कार्य्यकारणरूपं तु नश्वरं क्षरमुच्यते ॥
यत्किञ्चिद्वस्तु लोकेऽस्मिन् वाचो गोचरतां गतं ।
प्रमाणस्य च तत्सर्व्वमक्षरे प्रतिषिध्यते ॥
यदप्रबोधात् कार्पण्यं ब्राह्मण्यं यत्प्रबोधतः ।
तदक्षरं प्रबोद्धव्यं यथोक्तश्वरवर्त्मना” ॥
अकारादिक्षकारान्तैकपञ्चाशद्वर्णः । इति मेदिनी ॥
अस्योत्पत्तिकारणं । यथा वृहस्पतिः, --
“षाण्मासिके तु सम्प्राप्ते भ्रान्तिः सजायते यतः ।
धात्राक्षराणि सृष्टानि पत्रारूढाण्यतः पुरा” ॥
इत्याह्निकतत्त्वं ॥ तच्च पञ्चविधं । यथा, --
“मुद्रालिपिः शिल्पलिपिर्लिपिर्लेखनिसम्भवा ।
गुण्डिका घुर्णसम्भूता लिपयः पञ्चधा स्मृताः” ।
इति वाराहीतन्त्रं ॥ * ॥ अन्यत् मुद्राशब्दे
वर्णशब्दे च द्रष्टव्यं ॥ गगनं । धर्म्मः । तपस्या ॥
पृष्ठ १/००६
:अपामार्गः । इति हेभचन्द्रः ॥ मोक्षः । इत्यमरः ॥
जलं । इति वेदप्रयोगः ।

अक्षरः त्रि, (न क्षरतोति ।) अक्षरणीयः । अच्युतः ।

यथा, --
“तस्मै स विद्यानुपसन्नाय सम्यक्
प्रशान्तचित्ताय शमन्विताय ।
येनाक्षरं पुरुषं वेद सत्यं
प्रोवाच तं तत्त्वतो ब्रह्मविद्यां” ॥
इति वेदान्तसारधृता श्रुतिः ॥
अपिच ।
“द्वाविमौ परुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्व्वाणि भूतानि कूटस्थोऽक्षर उच्यते” ॥
इति श्रीभगवद्गीतायां १५ अध्याये १७ श्लोकः ॥
क्षरश्चाक्षरश्चेति द्वाविमौ पूरुषौ लोके प्र-
सिद्धौ । तावेवाह । तत्र क्षरः पुरुषो नाम
सर्व्वाणि भूतानि ब्रह्मादिस्थावरान्तानि शरी-
राणि अविवेकिलोकस्य शरोरेष्वेव पुरुषत्व-
प्रसिद्धेः, कूटो राशिः शिलाराशिः पर्व्वतैव
एकदेशेष नश्यत्स्वपि निर्व्विकारतया तिष्ठतीति
कूटस्थश्चेतनो भोक्ता स तु अक्षरः पुरुष उच्यते
विवेकिभिः । इति तट्टीकायां श्रीधरस्वामी ॥

अक्षरचञ्चः पुं, (अक्षरैर्वित्तः । तेन वित्त इति

चञ्चु ।) लेखकः । इत्यमरटीकायां वाचस्पतिः ॥

अक्षरचणः पुं, (अक्षरैर्वित्तः । तेन वित्त इति

चणप् ।) लिपिकरः । इत्यमरः । मुन्शी इति
भाषा ॥

अक्षरचुञ्चुः पुं, (अक्षरैर्वित्तः । तेन वित्त इति

चुञ्चप् ।) अक्षरचञ्चुः । लेखकः । इत्यमरः ।

अक्षरजननी स्त्री, (अक्षराणाम् अक्षरम्य वा जननी

उत्पादिका ।) लेखनी । कलमः । यथा, --
“लेखन्यक्षरजननी वर्णमाला मसिप्रसू” ।
इति हारावलीति केचित् ॥

अक्षरजीवकः पुं, (अक्षर + जीवक ।) लिपिकरः ।

इति हेमचन्द्रः ॥
(“लेखकेऽक्षरपूर्ब्बाः स्युश्चणजीवकचुञ्चव” ।
इति हेमचन्द्रः ॥)

अक्षरजीविकः पुं, (अक्षरैर्जीविका यस्य सः ।)

कायस्थः ।
“लेखकः स्याल्लिपिकरः कायस्थोऽक्षरजीवकः” ॥
इति हलायुधः । अक्षरजीविनि त्रि ॥

अक्षरतूलिका स्त्री, (अक्षराणां तलिका लेखन-

साघनमित्यर्थः ।) लेखनी । इति जटाधरः ॥

अक्षरविन्यासः पुं, अक्षराणां विन्यासः । लिपिः ।

लिखनं । इत्यमरटीकायां भरतादयः ॥

अक्षरमुखः पुं, (अक्षराणि मुखे तुण्डाग्रे यस्य सः ।)

शिष्यः । छात्रः । इति त्रिकाण्डशेषः ॥

अक्षरसंस्थानं क्ली, (अक्षराणां संस्थानं विन्यासः ।)

लिपिः । लिखनं । इत्यमरः ॥

अक्षवती स्त्री, (अक्षाः पाशकाः सन्ति अस्याम इति

मतुप् । लोकात् स्त्रीत्वं ।) द्यूतक्रीडा । पाशाखेला
इति भाषा । इत्यमरः ॥ (यथा महाभारते, --
“पराजितं सौवलेनाक्षवत्याम्” ।)

अक्षवाटः पुं, (अक्षस्य मल्लयुद्धस्य वाटः परिसरः ।)

मल्लभूमिः । तत्पर्य्यायः । नियुद्धभूः २ । इति
हेमचन्द्रः ॥ कुस्तिर आख्डा इति भाषा ॥

अक्षवित् [द्] त्रि, (अक्षं व्यवहारं द्यूतं वा वेत्ति

इति विदः क्विप् ।) द्यूतज्ञः । व्यवहारज्ञः ॥

अक्षसूत्रं क्ली, आक्षाणां सूत्रं माला ।) अक्षमाला ।

जपमाला । इति जटाधरः । यथा --
“पाणौ कार्म्मुकमक्षसूत्रवलयं दण्डोऽपरः पैप्पलः” ।
इति महावीरचरिते ।)

अक्षाग्रकीलकः पुं, (अक्षस्य नाभिक्षेप्यकाष्ठस्य अग्रे

अन्ते बन्धनार्थं कीलकः ।) शकटचक्रपुरोवर्त्ति-
कीलकः । तत्पर्य्यायः । अणिः २ । इत्यमरः ॥
अणी ३ आणिः ४ । इति भरतः ॥ चाकारखिल्
इति भाषा ॥

अक्षान्तिः स्त्री, (न क्षमणम् । क्षमूसहने । दिवादिः ।

अस्याषित्वात् क्तिन् । अनुनासिकस्येति दीर्घे नञ्-
समासः ।) पराभ्युदयासहिष्णुत्वं । भार्य्यादेः पर-
दर्शनाद्यसहिष्णुत्वं । इति भरतः ॥ तत्पर्य्यायः ।
ईर्ष्या २ । इत्यमरः ॥ ईर्षा ३ अक्षमा ४ । इति
शब्दरत्नावली ॥
(“अक्षान्तिसारसर्व्वस्वं दुर्व्वाससमवेहि माम्” ।
इति विष्णुपुराणे ।)

अक्षारलवणं क्ली, (न क्षारलवणम् इति नञ्-

समासः ।) हविष्यान्नविशेषः । महाहविष्यमिति
ख्यातं । यथा । “अशौचादिभक्ष्यगोक्षीरगोघृत-
धान्यमुद्गतिलयवसैन्धवसामुद्रलवणात्मकद्रव्यं । कृ-
त्रिमात् लवणात् भिन्नमक्षारलवणं मतं” । इदं
मतन्तु स्मार्त्तस्य । रत्नाकरमतं । यथा --
“गोक्षीरं गोघृतं चैव धान्यमुद्गयवास्तिलाः ।
सामुद्रं सैन्धवञ्चैवमक्षारलवणं मतं” ॥
इति नारायणवन्द्यघटीयकृतशुद्धिकारिका ॥
(यथाह मनुः --
“मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतं ।
अक्षारलवणं चैव प्रकृत्या हविरुच्यते” ॥)

अक्षि क्ली, (अश्नुते अनेन । अशू व्याप्तौ संघाते च ।

अशोर्निदिति क्मिः । यद्वा । अक्षति । अक्षू
व्याप्तौ । इन् ।) चक्षुः । इत्यमरः । चक्षुर्गोलकः ।
इति केचित् ॥

अक्षिकः पुं, रञ्जनद्रुः । आच् इति भाषा । इति

रत्नमाला ॥

अक्षिकूटकः पुं, (अक्षि + कूटक ।) चक्षुस्तारा ॥

अक्षिगतः त्रि, (अक्षि गतः, अक्षिविषय इव खेद-

कृदित्यर्थः ।) द्वेष्यः । इत्यमरः ॥

अक्षिभेषजः पुं, (अक्षि + भेषज ।) पुट्टिकालोध्रः ।

इति राजनिर्घण्टः ॥ (क्ली, नेत्रौषधम् ।)

अक्षिवः पुं, (अक्षि वाति वायति वा । वा गति-

बन्धनयोः । आतोऽनुपेति कः ।) शोभाञ्जनवृक्षः ।
सामुद्रलवणे क्ली । इत्यमरटीकायां भरतः ॥

अक्षिविकूणितं क्ली, (अक्षि + वि + कूण + भापे

क्त ।) कटाक्षः । अपाङ्गदृष्टिः । इति हेमचन्द्रः ॥

अक्षीकः पुं, रञ्जनद्रुः । आच् इति भाषा । इति

रत्नमाला ॥

अक्षीवं क्ली, (न क्षीवति अनेन वा अक्षीवयति

वा । क्षीवृ मदे । पचाद्यच् ।) समुद्रलवणं । इत्य-
मरः ।

अक्षीबः त्रि, (न क्षीवति माद्यति इति न + क्षीव +

अच् ।) अमत्तः । इति मेदिनी ।

अक्षीबः पुं, शोभाञ्जनवृक्षः । इत्यमरः ॥

अक्षुण्णः त्रि, (न क्षुण्ण इति नञ्समासः । अक्षो-

दितः । अचूर्णितः । इति क्षुदधात्वर्थदर्शनात् ।
अच्छिन्नः । यथा । अक्षुण्णं परिवप । इति चूडा-
करणे पशुपतिः ॥

अक्षुब्धः त्रि, क्षोभरहितः । अक्षोभितः । इति क्षुभ-

धातोः क्तप्रत्यये क्षुब्धः । ततो न क्षुब्धः अक्षुब्ध
इति नञ्समासनिष्पन्नः ॥

अक्षेमं क्ली, (न क्षेमम् इति नञ्समासः ।) अम-

ङ्गलं । यथा --
“किन्नु तेषां गृहे क्षेममक्षेमं किन्नु साम्प्रतम् ।
कथन्ते किन्नु सद्वृत्ता दुर्वृत्ताः किन्नु मे सुताः” ॥
इति देवीमाहात्म्ये १ अध्यायः ॥

अक्षोटः पुं, (अक्ष्णोति । अक्षू व्याप्तौ संघाते च ।

बाहुलकादोटः ॥ अक्षस्येव उटाः पर्णानि अस्य
इति वा ।) अक्षोडवृक्षः । स च पर्व्वतजपीलु-
वृक्षः । इत्यमरटीकायां भरतः ॥ आख्रोट् इति
हिन्दीभाषा । इति राजनिर्घण्टः ॥
“पीलः शैलभवोऽक्षोटः कर्परालश्च कीर्त्तितः ।
अक्षोटकोऽपि वातादसदृशः कफपित्तकृत्” ॥
इति भावप्रकाशः ॥

अक्षोडः पुं, (अक्ष्णोति इति अक्ष + ओडप्रत्ययः ।)

पर्व्वतोत्पन्नपीलुवृक्षः । तत्पर्य्यायः । कर्परालः २
कन्दरालः ३ आक्षोडः ४ अक्षोटः ५ आक्षोटः ६ ।
इत्यमरः तट्टीका च ॥

अक्षोडकः पुं, (अक्षोड एव इति स्वार्थे कन् ।) पर्व्व-

तोत्पन्नपीलुवृक्षः । इति रत्नमाला ॥

अक्षोभः पुं, (न क्षोभ इति नञ्समासः । नास्ति

क्षोभो यस्येति वा ।) हस्तिबन्धनस्तम्भः । तत्प-
र्य्यायः । आलानं २ शङ्कु ३ । इति त्रिकाण्ड-
शेषः ॥ क्षोभरहिते त्रि ॥

अक्षौरिभं क्ली, क्षुरिकर्म्माविहितनक्षत्रं । यथा, --

“उत्तरात्रितययाम्यरोहिणी-
रौद्रसर्पपितृभेषु चाग्निभे ।
अमश्रुकर्म्म सकलं विवर्ज्जयेत्
प्रेतकार्य्यमपि बुद्धिमान् नरः ॥
चन्द्रशुद्धिर्यदा नास्ति तारायाश्च विशेषतः ।
अक्षौरिभेऽपि कर्त्तव्यं चन्द्रचन्द्रजयोर्दिने” ॥
इति ज्योतिस्तत्त्वं ॥

अक्षौहिणी स्त्री, (ऊहः समूहः अस्ति अस्या इति

इनिः । अक्षाणाम् ऊहिनी । पूर्ब्बपदादिति
णत्वम् । अक्षादूहिन्यामिति बृद्धिः ।) सङ्ख्या-
विशेषयुक्तसेना । तद्यथा । २१८७० हस्तिनः ।
२१८७० रथाः । ६५६१० घोटकाः । १०९३५०
पदातयः । समुदायेन २१८७०० ।
तथा चोक्तं ।
“अक्षौहिण्यामित्यधिकैः सप्तत्यन्ताष्टभिः शतैः ।
पृष्ठ १/००७
:संयुक्तानि सहस्राणि गजानामेकविंशतिः ॥
एवमेव रथानान्तु सङ्ख्यानं कीर्त्तितं बुधैः ।
पञ्चषष्टिसहस्राणि षट्शतानि दशैव तु ।
सङ्ख्यातास्तुरगास्तज्ज्ञैर्व्विना रथ्यैस्तुरङ्गमैः ।
नृणां शतसहस्रन्तु सहस्राणि नवैव तु ।
शतानि त्रीणि चान्यानि पञ्चाशच्च पदातयः” ।
इत्यमरभरतौ ॥ (अक्षुहिणीपरिमाणं । यथा
महाभारते आदिपर्ब्बणि, --
“अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन ।
एतदिच्छामहे श्रोतुं सर्व्वमेव यथायथम् ॥
अक्षौहिण्याः परीमाणं नराश्वरथदन्तिनाम् ।
यथावच्चैव नो ब्रूहि सर्व्वं हि विदितं तव” ॥
सौतिरुवाच ।
“एको रथो गजश्चैको नराः पञ्च पदातयः ।
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥
पत्तिन्तु त्रिगुणामेतामाहुः सेनामुखं बुधाः ।
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः ।
स्मृतास्त्रिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥
चमूस्तु पृतनास्त्रिस्रस्त्रिस्रश्चम्बस्त्वनीकिनी ।
अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ॥
अक्षौहिण्याः प्रसङ्ख्याता रथानां द्विजसत्तमाः ।
सङ्ख्या गणिततंत्त्वज्ञैः सहस्राण्येकविंशतिः ॥
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः ।
गजानाञ्च परीमाणमेतदेव विनिर्द्दिशेत् ॥
ज्ञेयं शतसहस्रन्तुं सहस्राणि नवैव तु ।
नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः ॥
पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च ।
दशोत्तराणि षट् प्राहुर्यथावदिह सङ्ख्यया ॥
एतामक्षौहिणीं प्राहुः सङ्ख्यातत्त्वविदो जनाः ।
यथा कथितवानस्मि विस्तरेण तपोधनाः” ॥

अक्ष्णं क्ली, (अश्नुते । अशू व्याप्तौ संघाते च । कृत्य-

शूभ्यां क्स्नः । कालः । इत्युणादिकोषः ॥

अखट्टः, पुं, पियालवृक्षः । इति राजनिर्घण्टः ॥

पियासाल इति भाषा ॥

अखट्टिः, पुं, असद्व्यवहारः । आखुटि इति

ख्यातः । इति त्रिकाण्डशेषः ॥

अखण्डः, त्रि, (न खण्ड्यते इति । खडि भेदने

घञ् । नास्ति खण्डो यस्य इति वा ।) खण्ड
रहितः । पूर्णः । इत्यमरः ॥ (“अखण्डं पुण्यानां
फलमिव च तद्रूपमनघम्” इति शाकुन्तले ।)

अखण्डनः, पुं, (नास्ति खण्डनं विच्छेदो यस्य सः ।)

कालः । इति शब्दचन्द्रिका ॥

अखण्डितर्त्तुः, त्रि, (न खण्डितः ऋतुरस्य इति ।

बहुब्रोहिः ।) सफलवृक्षादिः । इति शब्द-
चन्द्रिका ॥

अखातं, क्ली, पुं, (न खातं नञ्समासः । खात-

भिन्नम् इत्यर्थः ।) देवखातं । अकृत्रिमजला-
शयः । इत्यमरः ॥ अखातमिति स्वामी ॥ पुंसि
यथा, -- अखातो देवखातक इत्यमरदत्तः ॥

अखाद्यं, त्रि, (न खाद्यं । अप्रशस्तं विरुद्धं वा

खाद्यम् ।) खाद्यानर्हं । अभक्ष्यं ॥

अखिलं, त्रि, (न खिलम् अस्य । न + खिल ।)

सर्व्वं । इत्यमरः ॥ (खिलमप्रहतं स्थानं । तत्
न भवति इति अकृष्टस्थानं ।)

अख्यातः, त्रि, (न ख्यातः विरुद्धार्थे वा नञ् ।)

अख्यातिविशिष्टः । अप्रतिष्ठितः ॥ अप्रसिद्धः ।

अग, म वक्रगतौ । कुटिलगमने । इति कवि-

कल्पद्रुमः ॥ म अगयति अगति सर्पः । इति
दुर्गादासः ॥

अग, इ गतौ । इति कविकल्पद्रुमः ॥ गत्यां इ

अङ्ग्यते । इति दुर्गादासः ॥

अगः, पुं, (न गच्छति । गम गतौ । अन्येभ्योऽपीति

अन्येष्वपि इति वा डः । न गोऽप्राणिषु इति
पाक्षिकोऽप्रकृतिभावः ।) पर्व्वतः । वृक्षः । सर्पः ।
सूर्य्यः । इति हेमचन्द्रः ॥ (सरीसृपः ।)

अगच्छः, पुं, (न + गच्छ ।) वृक्षः । इति त्रिकाण्ड-

शेषः ॥

अगजं, क्ली, (अग + जन् + ड ।) शिलाजतु ।

इति रत्नमाला ॥ पर्व्वतवृक्षजे त्रि ॥ (गिरि-
जाते ।)

अगण्यं, त्रि, (न गण्यं । नञ् समासः ।) अगण-

नीयं । अगणेयं । अगणितव्यं । यथा, --
“गुणैरगण्यैरतिशीलशालिभिरिति भारविः” ।

अगदः, पुं, (गदविरुद्धः । न गदः अस्मात इति

वा ।) औषधं । इत्यमरः ॥ आयुर्वेदोक्ताष्टशा-
खान्तर्गतशाखाभेदः । यथा, --
“औषधान्यगदो विद्या दैवी च विविधा स्थितिः” ।
तपसैव प्रसिध्यन्ति” । इति मनुः ।) नीरोगेत्रि ।
इति रमानाथः ॥

अगदङ्कारः, पुं, (अगदम् अरोगं करोति इति ।

अगद + कृ + अण् । मुमागमः ।) वैद्यः । इत्य-
मरः ॥

अगमः, पुं, (न गच्छतीति । न + गम + अच् ।

पचाद्यच् ।) वृक्षः । इत्यमरः ॥ पर्व्वतः । न
गच्छतीत्यगमः ॥

अगम्यं, त्रि, (न गम्य इति । न + गम् + यत् ।)

अगन्तव्यं । अगमनीयं । गमनायोग्यं । यथा, --
“अगम्या साभवत्तत्र यत्राभूत् स महारणः” ।
इति देवीमाहात्म्यं ॥

अगम्या, स्त्री, अमैथुनार्हा नारी । गम्यागम्या-

विवरणं यथा, यम उवाच, --
“या या गम्या नृणामेव निबोध कथयामि ते ।
स्वस्त्री गम्या च सर्व्वेषामिति वेदनिरूपिता ॥
अगम्या च तदन्या या इति वेदविदो विदुः ।
सामान्यं कथितं सर्व्वं विशेषं शृणु सुन्दरि ! ॥
अगम्याश्चैव या याश्च निबोध कथयामि ताः ।
शूद्राणां विप्रपत्नी च विप्राणां शूद्रकामिनी ॥
अत्यगम्या च निन्द्या च लोके वेदे पतिव्रते ।
शूद्रश्च ब्राह्मणीं गच्छेद् ब्रह्महत्याशतं लभेत् ॥
तत्समं ब्राह्मणी चापि कुम्भीपाकं व्रजेद्ध्रुवं ।
यदि शूद्रां व्रजेद्विप्रो वृषलीपतिरेव सः ॥
स भ्रष्टो विप्रजातेश्च चाण्डालात् सोऽधमः स्मृतः ।
विष्ठासमश्च तत्पिण्डो मूत्रं तस्य च तर्पणं ॥
तत् पितॄणां सुराणाञ्च पूजने तत् समं सति ।
कोटिजन्मार्ज्जितं पण्यं सन्ध्यार्च्चातपसार्ज्जितं ॥
द्विजस्य वृषलीभोगान्नश्यत्येव न संशयः ।
ब्राह्मणश्च सुरापीती विड्भोजी वृषलीपतिः ॥
हरिवासरभोजी च कुम्भीपाकं व्रजेद्ध्रुवं ।
गुरुपत्नीं राजपत्नीं सपत्नीमातरं प्रसूं ॥
सुतां पुत्त्रबधूं श्वश्रूं सगर्भां भगिनीं सति ।
सोदरभ्रातृजायाञ्च भगिनीभ्रातृकन्यकां ॥
शिष्याञ्च शिष्यपत्नीञ्च भागिनेयस्य कामिनीं
भ्रातृपुत्त्रप्रियाञ्चैवात्यगम्यामाह पद्मजः ॥
एतास्वेकामनेकां वा यो व्रजेन्मानवाधमः ।
स मातृगामी वेदेषु ब्रह्महत्याशतं लभेत् ॥
अकर्म्मार्होऽपि सोऽस्पृश्यो लोके वेदेऽतिनिन्दितः ।
स याति कुम्भीपाकञ्च महापापी सुदुष्करं” ॥
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥

अगरी, स्त्री, (न + गॄ + अच् + ङीष् ।) देवताड-

वृक्षः । इत्यमरटीकायां भरतः ॥

अगर्हितः, त्रि, (न गर्हितः । नञ्समासः) अनि-

न्दितः । यथा, --
“ज्येष्ठः कुलं वर्द्धयति विनाशयति वा पुनः ।
ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिरगर्हितः” ॥
इति मानवे ९ अध्याये १०९ श्लोकः ॥

अगरु, क्ली पुं, (न गरुः दुर्भरः अस्मात् इति ।)

अगुरु । इति हेमचन्द्रः ॥

अगस्तिः, पुं, (विन्ध्याख्यम् अगम् अस्यति इति

अगस्तिः । अस्यतेः क्तिच् । बाहुलकात् तिर्वा ।)
वकवृक्षः । अगस्त्यमुनिः । इति मेदिनी ॥ यथा
वैद्यके, --
“अगस्तिः पित्तकफजित् चतुर्थकहरो हिमः ।
रूक्षो वातकरस्तिक्तः प्रतिश्यायनिवारणः” ॥

अगस्तिद्रुः, पुं, वकपुष्पवृक्षः । इति त्रिकाण्डशेषः ॥

अगस्त्यः, पुं, (अगं विन्ध्यं स्त्यायति स्तभ्नाति वा ।

स्त्यै संधाते । आतोऽनुपसर्गे इति कः । अग +
स्त्यै + क ।) वकपुष्पवृक्षः । इति राजनिर्घण्टः ॥
मित्रावरुणयोः पुत्त्रः मुनिविशेषः । तस्य पर्य्यायः ।
कुम्भसम्भवः २ मैत्रावरुणिः ३ । इत्यमरः ॥
अगस्तिः ४ पीताब्धिः ५ वातापिद्विट् ६ आग्नेयः
७ और्व्वशीयः ८ आग्निमारुतः ९ घटोद्भवः १०
इति हेमचन्द्रः ॥ (तदुत्पत्तिर्यथा यास्कनिरुक्ते, --
“तयोरादित्ययोः सत्रे दृष्ट्वाप्सरसमुर्व्वशीम् ।
रेतश्चस्कन्द तत्कुम्भे न्यपतत् वाशतीवरे ॥
तेनैव तु मुहूर्त्तेन वीर्य्यवन्तौ तपस्विनौ ।
अगस्त्यश्च वशिष्ठश्च तत्रर्षी सम्बभूवतुः ॥
बहुधा पतितं रेतः कलसे च जले स्थले ।
स्थले वशिष्ठस्तु मुनिः सम्बभूवर्षिसत्तमः ॥
कुम्भे त्वगस्त्यः सम्भूतो जले मत्स्यो महाद्युतिः ।
उदियाय ततोऽगस्त्यः शम्यामात्रो महातपाः ॥
मानेन सम्मितो यस्मात्तस्मान्मान्य इहोच्यते ।
यद्वा कुम्भादृषिर्जातः कुम्भेनापि महीयते” ॥

अगस्त्योदयः, पुं, (अगस्त्यस्य नक्षत्रस्य उदयः शर-

त्काले गगने आविर्भावः ।) आकाशे नक्षत्र-
रूपेण अगस्त्यमुनेरुदयः । स तु सौरभाद्रस्य सप्त-
पृष्ठ १/००८
:दशदिने भवति । अस्यार्घ्यदानं तन्मासीयशेष-
दिनत्रये कर्त्तव्यं । यथा, --
“अगस्त्यार्घ्यदानं सौरेण सिंहराशौ विधानात्” ।
यथा ब्रह्मवैवर्त्ते, --
“अप्राप्ते भास्करे कन्यां शेषभूतैस्त्रिभिर्दिनैः ।
अर्घ्यं दद्यरगस्त्याय गौडदेशनिवासिनः” ॥
यथा भीमपराक्रमे ।
“यस्तु भाद्रपदस्यान्ते उदिते कलसोद्भवे ।
अर्घ्यं दद्यादगस्त्याय सर्व्वान् कामान् लभेत सः” ॥
यथा नारसिंहे ।
“शङ्खे तोयं विनिक्षिप्य सितपुष्प्राक्षतैर्युतं ।
मन्त्रेणानेन वै दद्यात् दक्षिणाशामुखस्थितः ॥
काशपुष्पप्रतीकाश अग्निमारुतसम्भव ।
मित्रावरुणयोः पुत्त्र कुम्भयोने नमोऽस्तु ते” ॥
प्रार्थनन्तु ।
“आतापिर्भक्षितो येन वातापिश्च महासुरः ।
समुद्रः शोषितो येन स मेऽगस्त्यः प्रसीदतु” ॥
गन्धादिकन्तु अगस्त्याय नमः इत्यनेन देयं ।
विशेषानुपदेशे सामान्यतः प्राप्तचात् दक्षि-
णाशामुखस्थित इति गन्धादावपि प्रयोगाङ्ग-
कर्तृधर्म्मत्वादिति रत्नाकरः ॥ * ॥ तत्पत्न्यर्घ्य-
मन्त्रस्तु ।
“लोपामुद्रे महाभागे राजपुत्रि पतिव्रते ।
गृहाणार्घ्यं मया दत्तं मित्रावरुणिवल्लभे” ॥
इति मलमासतत्त्वं ॥ (अगस्त्योदये जलानि
प्रसीदन्ति इत्यागमः । तथा च रघौ, --
“प्रससादोदयादम्भः कुम्भयोनेर्महौजसः ।

अगाधः, त्रि, (नास्ति गाधः स्थितिरत्र । नञो-

ऽस्त्यर्थानामिति बहुब्रीहिः ।) अतिगभीरः । अतल-
स्पर्शः । इत्यमरः ॥ (अतिगम्भीरः । दुर्बो-
धाशयः ।)

अगाधं, क्ली, छिद्रं । इति मेदिनी ॥

अगाधजलः, पुं, (अगाधं जलं यस्मिन् । बहु-

ब्रीहिः ।) ह्रदः । इत्यमरः ॥ त्रि । अपरि-
च्छेद्यजलविशिष्टः ।)

अगारं, क्ली, (अगान् ऋच्छति । ऋगतौ । कर्म्म-

ण्यण् ।) आगारं । गृहं । इत्यमरटीकायां
भरतः ॥
शून्यानि चाप्यगाराणि वनान्युपवनानि च” ।
इति । ‘खलात् क्षेत्रादगाराद्वा’ इति मनुः ।)

अगिरः, पुं, (अग + इर ।) अग्निः ॥ सूर्य्यः ॥

राक्षसः ॥ इति जटाधरः ॥

अगुः, पुं, (नास्ति गौः किरणो यस्य सः । बहु-

ब्रीहिः ।) राहुग्रहः इति दीपिका ॥ किरण-
रहिते त्रि ॥

अगुरु, क्ली, (न गुरु दुर्भरः अस्मात् इति ।

बहुब्रीहिः ।) शिंशपावृक्षः ॥ कालागुरु । स्व-
नामप्रसिद्धसुगन्धिकाष्ठविशेषः । अगर इति
ख्यातः । अस्य पर्य्यायः । वंशिकं १ राजार्हं
२ लोहं ३ कृमिजं ४ जोङ्गकं ५ । इत्यमरः ॥
श्टङ्गजं ६ कृष्णं ७ लोहाख्यं ८ लघु ९ । इति
रत्नमाला ॥ पीतकं १० वर्णप्रसादनं ११ अनार्य्यकं
१२ असारं १३ कृमिजग्धं १४ काष्ठकं १५ । इति
राजनिर्घण्टः ॥ अस्य गुणाः । तिक्तत्वं । उष्णत्वं ।
कटुत्वं । लेपे रूक्षत्वं । व्रणकफवायुवान्तिमुख-
रोगनाशित्वञ्च । इति राजवल्लभः राजनिर्घण्टश्च ॥
अगुरुर्वापुंसीति वोपालितः ॥ पुमान् इति सर्व्वा-
नन्दः ॥ गन्धद्रव्यविशेषः । यथा, --
अगुरु प्रवणं लोहं राजार्हं योगजं तथा ।
वंशिकं कृमिजञ्चापि कृमिजग्धमनार्य्यकं ॥
अगुरूष्णं कटुत्वं च तिक्तं तीक्ष्णञ्च पित्तलं ।
लघु कर्णाक्षिरोगघ्नं शीतवातकफप्रणुत् ॥
कृष्णं गुणाधिकं तत्तु लोहवद्वारि मज्जति ।
अगुरुप्रभवः स्नेहः कृष्णागुरुसमः स्मृतः” ॥
इति भावप्रकाशः ॥

अगुरुः, त्रि, (न गुरुः । नञ् समासः ।) गुरुभिन्नः ।

लघुः । इति मेदिनी ॥

अगुरुशिंशपा, स्त्री, शिंशपावृक्षः । इत्यमरटीकायां

स्वामी ॥

अगूढगन्धं, क्ली, (न गूढः अत्युत्कटः गन्धः यस्य ।

बहुब्रीहिः ।) हिङ्गु । इति राजनिर्घण्टः ॥

अगोचरः, त्रि, (न गोचरः । नञ् समासः ।) इन्द्रिय-

जन्यप्रत्यक्षाविषयः ॥ अज्ञातः । यथा, --
“अगोचरहतं व्याढमृदितंमांसमुत्सृजेत्” ।
इति राजवल्लभः ॥ (वाचामगोचरचरित्रविचि-
त्रिताय इति शृङ्गारशतके ।)

अगौकाः [स्] पुं, (अगः ओकः यस्य सः ।

बहुब्रीहिः ।) शरभः । सिंहः । पक्षी । इति
मेदिनी ॥ (त्रि । पर्व्वतवासी ।)

अग्नायी, स्त्री, (अग्नेः स्त्री इत्यस्मिन् अर्थे वृषा-

कप्यग्निकुसितेत्यादिसूत्रेण अग्निशब्दस्यैकारादेशो
ङीप् च ।) अग्निभार्य्या । इत्यमरः ॥ त्रेतायुगं ।
इति जटाधरः ॥ (‘अग्नायी स्वाहा च हुतभुक्-
प्रिया’ इत्यमरः ।)

अग्निः, पुं, (अङ्गयन्ति अग्य्रं जन्म प्रापयन्ति इति

व्युत्पत्त्या हविः प्रक्षेपाधिकरणेषु गार्हपत्याहवनी-
यदक्षिणाग्निसभ्यावसथ्यौपासनाख्येषु षड्ग्निषु ।
यद्वा अङ्गति ऊर्द्ध्वं गच्छति इति । अगि गतौ ।
अङ्गेर्नलोपश्चेति निः नलोपश्च ।) तेजःपदार्थ-
विशेषः । आगुन इति भाषा । धर्म्मस्य वसु-
भार्य्यायां जातः प्रथमोऽग्निः । तस्य पत्नी स्वाहा ।
पुत्त्रास्त्रयः पावकः १ पवमानः २ शुचिः ३ । षष्ठ-
मन्वन्तरे अग्नेर्वसोर्धारायां द्रविणकादयः पुत्त्राः ।
एतेभ्यः पञ्चचत्वारिंशदग्नयो जाताः । सर्व्वेमिलित्वा
एकोनपञ्चाशदग्नयः । इति पुराणं ॥ अस्य
पर्य्यायः । वैश्वानरः १ वह्निः २ वीतिहोत्रः ३
धनञ्जयः ४ कृपीटयोनिः ५ ज्वलनः ६ जातवेदाः
७ तनूनपात् ८ तनूनपाः ९ वर्हिःशुष्मा १० वर्हिः
११ शुष्मा १२ कृष्णवर्त्मा १३ शोचिष्केशः १४ उष-
र्ब्बुधः १५ आश्रयाशः १६ आशयाशः १७
वृहद्भानुः १८ कृशानुः १९ पावकः २० अनलः
२१ रोहिताश्वः २२ वायुसखा २३ वायुसखः
२४ शिखावान् २५ शिखी २६ आशुशुक्षणिः
२७ हिरण्यरेताः २८ हुतभुक् २९ हव्यभुक्
३० दहनः ३१ हव्यवाहनः ३२ सप्तार्च्चिः ३३
दमुनाः ३४ दमूनाः ३५ शुक्रः ३६ चित्रभानुः
३७ विभावसुः ३८ शुचिः ३९ अप्पित्तं ४० ।
इत्यमरस्तट्टीका च ॥ वृषाकपिः ४१ जुहूवालः
४२ कपिलः ४३ पिङ्गलः ४४ अरणिः ४५ अगिरः
४६ पाचनः ४७ विश्वप्साः ४८ छागवाहनः ४९
कृष्णार्च्चिः ५० जुहूवारः ५१ उदर्च्चिः ५२ भास्करः
५३ वसुः ५४ शुष्मः ५५ हिमारातिः ५६ तमोनुत्
५७ सुशिखः ५८ सप्तजिह्वः ५९ अपपारिकः
६० सर्व्वदेवमुखः ६१ । इति जटाधरः ॥ * ॥ अस्य
गुणाः । वायुकफस्तम्भशीतकम्पनाशकत्वं । आमा-
शयाजनकत्वं । रक्तपित्तप्रकोपकत्वञ्च । इति
राजवल्लभः ॥ अपिच ।
“अग्नेर्दुर्द्धर्षता ज्योतिस्तापः पाकः प्रकाशनम् ।
शोको रोगो लघुस्तैक्ष्णं सततञ्चोर्द्ध्वभासिता” ॥
इति मोक्षधर्म्मः ॥ * ॥
अथ कर्म्मविशेषेऽग्नेर्नामानि । यथा, --
“लौकिके पावको ह्यग्निः प्रथमः परिकीर्त्तितः” १ ।
लौकिके नवगृहप्रवेशादौ ।
“अग्रेस्तु मारुतो नाम गर्भाधाने विधीयते २ ।
पुंसवने चन्द्रनामा ३ शुङ्गाकर्म्मणि शोभनः ४ ॥
सीमन्ते मङ्गलो नाम ५ प्रगल्मो जातकर्म्मणि ६ ।
नाम्नि स्यात् पार्थिवो ह्यग्निः ७ प्राशने च शुचिस्तथा ८
सत्यनामाथ चूडायां ९ व्रतादेशे समुद्भवः १०” ।
व्रतादेशे उपनयने ।
“गोदाने सूर्य्यनामा च ११ केशान्ते ह्यग्निरुच्यते १२” ।
गोदाने गोदानाख्यसंस्कारे । केशान्ते समा-
वर्त्तने ।
“वैश्वानरो विसर्गे तु १३ विवाहे योजकः स्मृतः १४” ।
विसर्गे साग्निकर्त्तव्यकर्म्मविशेषे ।
“चतुर्थ्यान्तु शिखीनाम १५ धृतिरग्निस्तथापरे १६” ।
चतुर्थ्यां विवाहान्ते चतुर्थीहोमे । अपरे धृति-
होमादौ ।
“प्रायश्चित्ते विधुश्चैव १७ पाकयज्ञ तु साहसः १८” ।
प्रायश्चित्ते प्रायश्चित्तात्मकमहाव्याहृतिहोमादौ ।
पाकयज्ञे पाकाङ्गकहोमे वृषोत्सर्गगृहप्रतिष्ठादौ ।
“लक्षहोमे चवह्निःस्यात् १९ कोटिहोमे हुताशनः २० ।
पूर्णाहुत्यां मृडोनाम २० शान्तिके वरदस्तथा २२ ॥
पौष्टिके बलदश्चैव २३ क्रोधाग्निश्चाभिचारिके २४ ।
वश्यर्थे शमनो नाम २५ वरदानेऽभिदूषकः २६ ॥
कोष्ठेतु जठरो नाम २७ क्रव्यादोऽमृतभक्षने २८” ॥
इति गोभिलपुत्त्रकृतसंग्रहः ॥ * ॥ अथ तस्य रूपं ।
यथा, --
“पिङ्गभ्रूश्मशुकेशाक्षः पीनाङ्गजठरोऽरुणः ।
छागस्थः साक्षसूत्रोऽग्निः सप्तार्च्चिः शक्तिधारकः” ॥
इत्यादित्यपुराणं ॥ * ॥ अथ होमीयाग्नेः शुभ-
लक्षणानि । यथा, --
“अर्च्चिष्मान् पिण्डितशिखः सर्पिःकाञ्चनसन्निभः ।
स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात् कार्य्यसिद्धये” ॥
इति बायुपुराणं ॥ * ॥ वैद्यकमते अग्निस्त्रिधा
भौमः १ दिव्यः २ उदर्य्यः ३ तत्राद्यः काष्ठेन्धन-
प्रभवः ऊर्द्ध्वज्वलनस्वभावः पचनस्वेदादिसमर्थश्च ।
पृष्ठ १/००९
:द्वितीय उदकेन्धनः पर्य्यग्ज्वलनशीलो वाडवः ।
तृतीय उभयेन्धनः पर्य्यग्ज्वलनशीलः भुक्तस्या-
हारस्य रसादिपरिणामनिमित्तञ्च विद्युदादिश्च ।
इति विजयरक्षितोपरि सन्देहभञ्जिका ॥ * ॥
अपिच, --
“मन्दस्तीक्ष्णोऽथ विषमः समश्चेति चतुर्विधः ।
कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः” ॥
तषां कार्य्यं यथा, --
“विषमोवातजान्रोगान् तीक्ष्णः पित्तनिमित्तजान् ।
करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान् ॥
समासमाग्नेरशिता मात्रा सम्यग्विपच्यते ।
स्वल्पापि नैव मन्दाग्नेर्विषमाग्नेस्तु देहिनः ॥
कदाचित् पच्यते सम्यक् कदाचिच्च न पच्यते ।
तीक्ष्णाग्निरिति तं विद्यात् समाग्निः श्रेष्ठ उच्यते” ॥
इति माधवकरः ॥ अत्यन्ततीक्ष्णाग्निरेव हि भस्म-
क उच्यते । स तु आहाराभावे शोणितादीन् धा-
तून् पाचयित्वा आशु मारयति । इति रक्षितः ॥ * ॥
(देहजन्याग्नेः नादोत्पादकत्वं यथा सङ्गीतदर्पणे, --
“आत्मना प्रेरितं चित्तं वह्निमाहन्ति देहजम् ।
ब्रह्मग्रन्थिस्थितं प्राणं स प्रेरयति पावकः ॥
पावकप्रेरितः सोऽथ क्रमादूर्द्ध्वपथे चरन् ।
अतिसूक्ष्मध्वनिं नाभौ हृदि सूक्ष्मं गले पुनः ॥
पुष्टं शीर्षे त्वपुष्टञ्च कृत्रिमं वदने तथा ।
आविर्भावयतीत्येवं पञ्चधा कीर्त्त्यते बुधैः ॥
नकारं प्राणनामानं दकारमनलं विदुः ।
जातः प्राणाग्निसंयोगात्तेन नादोऽभिधीयते”
अग्नेः सर्व्वसाक्षित्वादि यथा रामायणे, --
“त्वमग्ने सर्व्वदेवानां शरीरान्तरगोचरः ।
त्वं साक्षी मम देहस्थस्त्राहि मां देवमत्तम” ।
यथा च भारते, --
“आदित्यचन्द्रावनिलोऽनलश्च ।
दौर्भूमिरापो हृदयं यमश्च ॥
अहश्च रात्रिश्च उभे च सन्ध्ये ।
धर्म्मश्च जानाति नरस्य वृत्तम्” ॥
अस्य सर्व्वप्रथमाराध्यत्वं ऋग्वेदस्य सर्व्वप्रथमसूक्ते
ऊक्तं यथा, -- “अग्निमीले पुरोहितम्” । इत्यादि ।
विष्णुः । सूर्य्यः ।) अग्निकोणाधिपतिः । इत्यमरः ।
चित्रकवृक्षः । रक्तचित्रकः । मल्लातकः । निम्बुकः ॥
पित्तं । स्वर्णं । इति राजनिर्घण्टः ।

अग्निकः, पुं, (अग्नि + सादृश्ये कप्रत्ययः) इन्द्रगोप-

नामरक्तवर्णकीटः । इति हेमचन्द्रः ॥

अग्निकणः, पुं, (अग्नेः कणः । अग्नि + कण ।) अग्नि-

कणा । स्फुलिङ्गः । इत्यमरः ॥

अग्निकारिका, स्त्री, (अग्नि + कारिका ।) अग्नि-

कार्य्यं । इति हेमचन्द्रः ॥

अग्निकार्य्यं, क्ली, (अग्नि + कार्य्यं ।) अग्नावग्नेर्वा कार्य्यं ।

हविर्दानादिपूर्ब्बकाग्निज्वालनं । तत्पर्य्यायः ।
अग्नीन्धनं २ अग्नीध्रा ३ अग्निकारिका ४ ।
इति हेमचन्द्रः ॥ (होमादौ हविर्दानादिपूर्ब्बका-
ग्निज्वालनां अग्नौ सायं प्रातः समिद्धोमानुष्ठान ।
यथा --
“उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः ।
आचारमग्निकार्य्यञ्च सन्ध्योपासनमेव च” ॥
इति मनुः ।)

अग्निकाष्ठं, क्ली, (अग्नि + काष्ठं ।) अगुरु । इति

राजनिर्घण्टः ॥

अग्निकुक्कुटः, पुं, (अग्नेः कुक्कुटैव ।) ज्वलदग्नि-

तृणोल्का । ज्वलन्त नुडा इति ख्यातः । इति
त्रिकाण्डशेषः ॥

अग्निकोणं, क्ली, (अग्नेः अग्निदेवेन अधिष्ठितमित्यर्थः

कोणं ।) पूर्ब्बदक्षिणकोणं । तत्कोणाधिपतिरग्निः ।
इति ज्योतिषं ॥ यथा हलायुधधृतं, --
“गत्त्वैव तीर्थं कर्त्तव्यं श्राद्धं तत्प्रीतिहेतुकम् ।
पूर्ब्बाह्नेऽप्यथवा प्रातर्देशे स्यात् पूर्ब्बदक्षिणे” ॥
पूर्ब्बदक्षिणे अग्निकोणे । इति प्रायश्चित्ततत्त्वं ॥

अग्निक्रीडा, स्त्री, (अग्निभिः क्रीडा ।) अग्निखेला ।

खधूपादित्यागः । आतशवाजीति ख्याता ॥

अग्निगर्भः, पुं, (अग्निः गर्भे अभ्यन्तरे यस्य सः ।)

अग्निजारवृक्षः । सूर्य्यकान्तमणिः । इति राजनि-
र्घण्टः ॥ (शमीवृक्षः । त्रि । अग्नियुक्तगर्भविशिष्टः ।
यथा, -- “अग्निगर्भां शमीमिव” । इति शाकुन्तले ।)

अग्निगर्भा, स्त्री, (अग्निः गर्भे यस्याः सा ।)

महाज्योतिष्मतीवृक्षः । इति राजनिर्घण्टः ॥
(शमीवृक्षः ।)

अग्निचित्, पुं, (अग्निं चितवान् स्वयम् इति चि

चयने । अग्नौ चेरिति क्विप् तुगागमश्च ।)
अग्निहोत्री । साग्निकः । इत्यमरः ॥ (यथा
रघुवंशे --
“विदधे विधिमस्य नैष्ठिकं ।
यतिभिः सार्द्धमनग्निमग्निचित्” ।)

अग्निजः, पुं, (अग्नि + जन् + ड ।) अग्निजारवृक्षः ।

इति राजनिर्घण्टः ॥ (त्रि । अग्निजातमात्रे ।)

अग्निजातः, पुं, (अग्नेः जातः । अग्नि + जन् + क्त ।)

अग्निजारवृक्षः । इति राजनिर्घण्टः । (त्रि । अग्नि-
जातमात्रे ।)

अग्निजारः, पुं, (अग्नि + जार, अग्निं जठराग्निं जार-

यति परिपाकशक्तिं प्रदाय वर्द्धयति जॄ कर्म्म-
ण्यण् इति पाणिनिसूत्रं) औषधविशेषः । अस्य
पर्य्यायः । अग्निनिर्य्यासः २ अग्निगर्भः ३ अग्निजः
४ वडवाग्निमलः ५ जरायुः ६ अर्णवोद्भवः ७
अग्निजातः ८ अग्निजालः ९ सिन्धुफलः १० ।
अस्य गुणाः । कटुत्वं । उष्णत्वं । कफवायुसन्निपा-
तशूलातिशीतरोगनाशित्वं । पित्तप्रदत्वञ्च । इति
राजनिर्घण्टः ॥

अग्निजालः, पुं, (अग्नि + जाल ।) अग्निजारवृक्षः ।

इति राजनिर्घण्टः ॥

अग्निज्वाला, स्त्री, (अग्नेरिव ज्वाला यस्याः । अग्नेः

ज्वाला इति वा ।) जलपिप्पली । धातकी-
वृक्षः । इति राजनिर्घण्टः ॥ अग्निशिखा ॥
(लाङ्गलिकी ।)

अग्निजिह्वा, स्त्री, (अग्नेः जिह्वा ।) लाङ्गली-

वृक्षः । विषलाङ्गला इति भाषा । इति राज-
निर्घण्टः ॥ अग्नेः काल्यादिसप्तार्च्चींषि । इति
जटाधरः ॥ अग्नेः सप्तशिखाः । तासां नामा-
दिकं सप्तजिह्वशब्दे द्रष्टव्यं ॥ (योगविशेषः ।
यथा, --
“सप्तषष्ट्यादितिथयः सोमवारादिभिर्युताः ।
अग्निजिह्वाः सप्त योगा मङ्गलेष्वतिगर्हिताः” ॥
इति । योगशास्त्रे ।)

अग्निदमनी, स्त्री, (अग्नेः जठरानलस्य दमनी ।)

क्षुपविशेषः । अस्य पर्य्यायः । वह्निदमनी २
बहुकण्टका ३ वल्लिकण्टारिका ४ गुच्छफला
५ क्षुद्रफला ६ क्षुद्रदुःस्पर्शा ७ क्षुद्रकण्टारिका
८ मर्त्येन्द्रमाता ९ दमनी १० । अस्या गुणाः ।
कटुत्वं । उष्णत्वं । रूक्षत्वं । वातकफगुल्म-
प्लीहनाशित्वं । रुचिकरत्वं । अग्निदीपनत्वं । हृद्य-
त्वञ्च । इति राजनिर्घण्टः ॥

अग्निदीपनः, त्रि, (अग्नेः जठरानलस्य दीपनः ।)

अग्निवर्द्धकः । जठराग्निकारकौषधविशेषः । यथा
रसेन्द्रचिन्तामणौ, --
“पारदामृतलवङ्गगन्धकं,
भागयुग्ममरिचेन मिश्रितम् ।
तत्र जातिफलमर्द्धभागिकं,
तित्तिडीफलरसेन मर्दितम् ॥
बह्निमान्द्यदशवक्त्रनाशनो,
रामवाण इति विश्रुतो रसः ।
संग्रहग्रहणिकुम्भकर्णक-
मामवातखरदूषणं जयेत् ॥
दीयते तु शणकानुमानतः,
सद्य एव जठराग्निदीपनः” ।
“हरीतकी तथा शुण्ठी भक्ष्यमाणा गुडेन वा ।
सैन्धवेन युता वा स्यात् सातत्येनाग्निदीपनी” ॥
इति च भावप्रकाशः ॥

अग्निदीप्ता, स्त्री, (अग्नि + दीप्ता) महाज्यो-

तिष्मतीवृक्षः । इति राजनिर्घण्टः ॥ (त्रि । वह्नि-
ज्वलितः । यथा, -- “नापि कर्ण्याकारफलकैः
बाणैः नापि विषाक्तैः नाप्यग्निदीप्तफलकैः” इति
कुल्लूकभट्टः ।)

अग्निदेवा, स्त्री, (अग्निः देवः अधिष्ठात्री देवता

अस्या इति) कृत्तिकानक्षत्रं । इति हेमचन्द्रः ॥
(पुं, अग्निदेवः अग्निरूपो देवः । अग्निः देवः
अस्य इति विग्रहे त्रि । अग्निपूजकः ।)

अग्निनिर्य्यासः, पुं, अग्निजारवृक्षः । इति राज-

निर्घण्टः ॥

अग्निप्रस्तरः, पुं, अग्निजनकपाषाणः । चकमकोर

पाथर इति भाषा ॥

अग्निवर्द्धनं, क्ली, (अग्नेः जठरानलस्य वर्द्धनं वृद्धि-

कारकम् ।) जठराग्निवृद्धिकारकम् । तथा, --
“जीरकं रुचिकृत् स्वर्य्यं गन्धाढ्यं कफवातनुत् ।
पाके च कटुतीक्ष्णोष्णं लघुपित्ताग्निवर्द्धनम्” ॥
इति राजवल्लभः ॥

अग्निभं, क्ली, (अग्निरिव भाति इति । अग्नि +

भा + क ।) स्वर्णं । इति राजनिर्घण्टः ॥

अग्निभूः, पुं, (अग्नेर्भवतीति । अग्नि + भू + क्विप् ।)

कार्त्तिकेयः । इत्यमरः ॥ (पुरा किल तारका-
सुरेण उत्पीडितानां देवानां रक्षार्थं शिवेन
पृष्ठ १/०१०
:अग्निरूपं स्ववीजं वह्निमुखे क्षिप्तं । तेन अग्निना
कृत्तिकासु क्षिप्तं । ताश्च दैवागतगर्भरक्षार्थं
शरवनं प्रविश्य प्रसूताः । तेन अग्निभूरिति
कार्त्तिकेयः । जले क्ली । इति वेदपुराणे ॥ यथाह
मनुः, --
“अग्नौ दत्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” ॥

अग्निभूतिः, पुं, (अग्नि + भू + क्ति ।) बौद्धभेदः ।

सच शेषजैनाचार्य्यशिष्यः । इति हेमचन्द्रः ॥

अग्निमणिः, पुं, सूर्य्यकान्तमणिः । इति जटाधरः ॥

अग्निमन्थः, पुं, (अग्निं मथ्नाति इति । मन्थ विलो-

डने । कर्म्मणि अण् ।) गणिकारिकावृक्षः ।
इत्यमरः ॥ (यथा वैद्यके, --
“अग्निमन्थः श्वयथुहृद् वीर्य्योष्णः कफवातहृत् ।
पाण्डुनुत् कटुकस्तिक्तस्तुवरो मधुरोऽग्निदः” ॥
अग्निमन्थकुसुमशाकस्तु --
“अग्निमन्थभववालसुनीता
सप्तरात्रमुदके सुसाधिता ।
तक्रतप्तघृतयुक्तपाचिता
हिङ्गुना जनितवासवासिता” ॥
अपिच --
“अग्निमन्थोऽथ हृद्यश्च त्रिदोषशमनः सरः । ।
आध्मानच्छर्द्दिहा शोथचक्षूरोगविषापहः” ॥)

अग्निमारुतिः, पुं, (अग्नौ जठराग्निविषये मारुतिः

हनूमान् इव । तस्य जठराग्नौ वातापिप्रभृतयो
राक्षसाः भस्मीभूता आसन् । इत्यसौ अग्निमा-
रुतिरुच्यते) अगस्त्यमुनिः । इति हेमचन्द्रः ॥

अग्निमुखः, पुं, (अग्निः मुखं यस्य, बहुव्रीहिः ।)

देवता । ब्राह्मणः । इति मेदिनी ॥ चित्रकवृक्षः ।
भल्लातकः । इति विश्वः ॥ (क्ली । अग्नेः पञ्चसु
मुखेषु ।)

अग्निमुखी, स्त्री, (अग्निरिव मुखं यस्याः । बहु-

व्रीहिः ।) भल्लातकी (भेला) । इत्यमरः ॥ ला-
ङ्गलिकी । इति राजनिर्घण्टः ॥

अग्निरक्षणं, क्ली, (अग्नेः रक्षणम् । षष्ठीतत्पुरुषः ।)

अग्न्याधानं । अग्निहोत्रं । इति हेमचन्द्रः ॥

अग्निरजाः, [स्] पुं, (अग्नेः रजः स्फुलिङ्गैव ॥

इन्द्रगोपाख्यकीटः । इति हेमचन्द्रः ॥ (क्ली --
अग्निवीर्य्यं । स्वर्णं) ।

अग्निरुहा, स्त्री, मांसरोहिणी । इति राजनिर्घण्टः ॥

अग्निवर्द्धकः, त्रि, (अग्निं जठरानलं वर्द्धयति इति)

अग्नि + वृध् + ण्वुल् ।) अग्निवृद्धिकारकौषधा-
दिः । आग्नेयः । इति वैद्यकं ॥

अग्निवल्लभः, पुं, (अग्नेः वल्लभः उद्दीपकत्वात् प्रियः ।)

सालवृक्षः । रालः । इति राजनिर्घण्टः ॥

अग्निवाहः, पुं, (अग्नेः वाहः ।) धूमः । इति त्रि-

काण्डशेषः ॥ (छागः) ।

अग्निबाहुः, पुं, (अग्नेः बाहुरिव ।) धूमः । इति

जटाधरः ॥ (प्रियव्रतपुत्त्रः । स्वायम्भुवमनुपुत्त्रः ।)

अग्निवित्, पुं, (अग्निं वेत्ति इति विदः क्विप् ।)

अग्निचित् । अग्निहोत्री । इति हेमचन्द्रः ॥
(अग्निसंस्कारज्ञः ।)

अग्निवीजं, क्ली, (अग्निः वीजं उत्पत्तिस्थानं यस्य तत् ।

अग्नेः स्वर्णस्य उत्पत्तिं यथाह मनुः, --
“अपामग्नेश्च संयोगात् हेमं रूप्यञ्च निर्बभौ ।
तस्मात् तयोः स्वयोन्येव निर्णेको गुणवत्तरः” ॥)
स्वर्णं । इति त्रिकाण्डशेषः ॥

अग्निवीर्य्यं, क्ली, (अग्नेः वीर्य्यं सारैव ।) स्वर्णं ।

इति राजनिर्घण्टः ॥ (त्रि, अग्नितुल्यद्रव्ये) ।

अग्निशिखं, क्ली, (अग्नेरिव शिखा केशरः अस्य ।)

स्वर्णं । इति राजनिर्घण्टः ॥ कुङ्कुमं । कुसुम्भपुष्पं ।
इति मेदिनी ॥ (जाङ्गलिवृक्षः) ।

अग्निशिखः, पुं, (अग्नेरिव शिखा रक्तवर्णः केशरः

अस्य ।) कुसुम्भवृक्षः । कुङ्कुमं । दीपः । बाणः ।
इति शब्दरत्नावली ॥

अग्निशिखा, स्त्री, (अग्नेरिव शिखा केशरः अस्याः ।)

लाङ्गलिकीवृक्षः । विषलाङ्गला इति भाषा ।
वृक्षविशेषः । तस्य पर्य्यायः । विशल्या १ अ-
नन्ता २ फलिनी ३ शक्रपुष्पी ४ । इत्यमरः ॥
(अग्नेः शिखा ।) ज्वाला । आगुनेर शिष इति
भाषा ॥

अग्निशेखरं, क्ली, (अग्नेरिव शेखरं केशरः अस्य ।)

कुङ्कुमं । इति राजनिर्घण्टः ॥

अग्निष्टोमः, पुं, (अग्नीनां स्तोमः । अग्नेः स्तुत्-

स्तोमसोमा इति षः ।) यज्ञविशेषः । इति
शब्दरत्नावली ॥ तस्य विधिः । ज्योतिष्टोमेन
स्वर्गकामो यजेतेति वाक्यविहितज्योतिष्टोमना-
मकयागविशेषस्य गुणविकारोऽग्निष्टोमो नाम ।
तस्य कालो वसन्तः । तत्राधिकारी अधीतवेद
आहिताग्निश्च । द्रव्यं सोमः । देवता इन्द्रवाष्वा-
दयः । ऋत्विजः षोडशः । तेषाञ्च चत्वारो गणाः ।
होतृगणः १ अध्वर्य्युगणः २ ब्रह्मगणः ३ उद्गातृ-
गणः ४ । एकैकस्य गणस्य चत्वारश्चत्वारः । तत्र
होतृगणे होता १ प्रशास्ता २ अच्छावाकः ३
ग्रावस्तोता ४ । अध्वर्य्युगणे अध्वर्य्युः १ प्रति-
प्रस्थाता २ नेष्टा ३ उन्नेता ४ । ब्रह्मगणे ब्रह्मा १
ब्राह्मणाच्छंशी २ अग्नीतृ ३ पोता ४ । उद्गातृ-
गणे उद्गाता १ प्रस्तोता २ प्रतिहर्त्ता ३ सु-
ब्रह्मण्यः ४ । स च पञ्चाहसाध्यः । प्रथमदिने
दीक्षा दीक्षणीयादितदङ्गानुष्ठानं । तत्र द्वितीय-
दिवसे प्रायणीययागः सोमलताक्रयणं । ततो
द्वितीयतृतीयचतुर्थदिवसेषु प्रातःकाले सायंकाले
च प्रवर्ग्योपसन्नामकयागानुष्ठानं । चतुर्थदिवसे
प्रवर्ग्योद्वासनानन्तरं अग्नीषोमीयपश्वनुष्ठानं ।
तत्र यस्य यजमानस्य गृहे पितृपितामहप्रपिता-
महानां मध्ये केनापि वेदो नाधीतोऽग्निष्टोमो
वा न कृतः स दुर्ब्राह्मणो भवति । तस्य दौ-
र्ब्राह्मण्यपरिहारायाश्विनपशुः कर्त्तव्यः । यस्य
यजमानस्य पितृपितामहप्रपितामहानां मध्ये
केनापि सोमपानं न कृतं स्यात् तस्य सोमपान-
विच्छेददोषपरिहारार्थमैन्द्राग्नपश्वनुष्ठानं कर्त्तव्यं ।
इत्थं त्रयाणां पशूनां युगपदालम्भपक्षे एकस्मि-
न्नेव यूपे त्रयाणां पशूनां बन्धनं । इत्थं पशु-
त्रयानुष्ठानं चतुर्थदिवसे तस्मिन्नेव दिने वा
तृतीयभागे उत्थाय प्रयोगारम्भः कार्य्यः । तत्र
पात्रासादनं । पात्राणि च ग्रहाश्चमसाः स्थाल्य-
श्चेति । तत्र ग्रहपात्राणि वितस्तिमात्राणि
उलूखलाकाराणि । ऊर्द्धपात्राणि चमसपात्राणि
तावत्परिमितान्येव तिर्य्यगाकृतीनि कोणचतु-
ष्टयविशिष्टानि धारणार्थदण्डयुक्तानि । स्थाल्यो
मार्त्तिक्यः । तत आरभ्य सोमलताकण्डनेन
सोमरसं निष्कास्य निष्कास्य ग्रहैश्चमसैश्च होमः
कर्त्तव्यः । तत्र सूर्य्योदयानन्तरं आग्नेयपशुयागः
कर्त्तव्यः । एवमुक्थ्यपर्य्यायान्ते कृते प्रातःसवन-
समाप्तिः । ततो मध्यन्दिनसवनं । तत्र दक्षिणा-
दानं । दक्षिणा च द्वादशोत्तरशतं गावः । तत-
स्तृतीयसवनं । इत्थं प्रातःसवनमाध्यन्दिनसवन-
तृतीयसवनरूपसवनत्रयात्मकः अग्निष्टोमः प्र-
धानयागः । इतरेऽङ्गयागाः । तृतीयसवनसमा-
प्त्युत्तरमवभृथयागः । उदके वरुणदेवताकपुरो-
डाशहोमः । तदनन्तरमनुबन्ध्या पशुयागः ।
तत्र गौः पशुः । तस्य कलिनिषिद्धत्वात् तस्य
च नित्यत्वात् तत् स्थाने आमीक्षायागः । तत
उदयनीया तत उदवसानीया । सा च पञ्चम-
दिवसे यावद्रात्रि कर्त्तव्या । तत्समाप्तावग्निष्टोम-
यागसमाप्तिः । इत्यग्निष्टोमयागीयपदार्थकला-
सूची ॥

अग्निष्ठः, पुं, (अग्नौ तिष्ठतीति । अग्नि + स्था + कः) ।

लौहमयतण्डुलादिभर्जनपात्रं । इति त्रिकाण्ड-
शेषः ॥ (कडा इति भाषा) ।

अग्निसखः, पुं, (अग्नेः सखा इति समासे राजाहः-

सखिभ्यष्टच् इति समासान्तष्टच् ।) वायुः ।
वायुसखोऽग्निरिति दर्शनात् ॥

अग्निसन्दीपनं, त्रि, (अग्नेः सन्दीपनम् । सम् +

दीप् + ल्युट् ।) वह्निवर्द्धकौषधादि । यथा, --
“एला त्वङ्नागपुष्पाणां मात्रोत्तरविवर्द्धिता ।
मरिचं पिप्पली शुण्ठी चतुःपञ्चषडुत्तरा ॥
द्रव्याण्येतानि यावन्ति तावती सितशर्करा ।
चूर्णमेतत् प्रयोक्तव्यमग्निसन्दीपनं परं” ॥
इति भावप्रकाशः ॥
अपि च ।
“अग्निसन्दीपनं हृद्यं लबणार्द्रकभक्षणं” ।
इति राजवल्लभः ॥

अग्निसम्भवः, पुं, (अग्निः सम्भवो यस्य सः । अग्नि-

+ सम् + भू + अप् ।) अरण्यकुसुम्भः । इति राज-
निर्घण्टः ॥ (कार्त्तिकेयः । त्रि । अग्निसमुत्पन्नः ।)

अग्निसहायः, पुं, (अग्नेः जठरानलस्य सहायः

उद्दीपकः । कपोतमांसस्य अग्निवर्द्धकत्वात् ।)
वनकपोतः । इति राजनिर्घण्टः ॥ (अग्नेः सहायः
बन्धुः । वायुः ।)

अग्निसारं, क्ली, (अग्नेरिव सारः बलं यस्य ।)

रसाञ्जनं । इति राजनिर्घण्टः ॥

अग्निस्तम्भनं, क्ली, (अग्नेः स्तम्भनम् । षष्ठीतत्-

पुरुषः ।) मन्त्रौषधिद्वारा अग्नेर्द्दाहिकाशक्ति-
निवारणं । तद्यथा, --
“मालूरस्य वासां गृह्य जलौकां तत्र पेषयेत् ।
पृष्ठ १/०११
:हस्तौ तु लेपयेत्तेन अग्निस्तम्भनमुत्तमं ॥
मालूरस्य स्थाने मानुषस्य इति वा पाठः ॥ १ ॥
शाल्मलीरसमादाय खरमूत्रे निधापितं ।
अग्न्यागारे क्षिपेत्तेन अग्निस्तम्भनमुत्तमं ॥ २ ॥
वायसी उदरं गृह्य मण्डूकवसया सह ।
गुटिकां कारयेत्तेन ततोऽग्निं प्रक्षिपेद्वशी ॥
एवमेतत् प्रयोगेण अग्निस्तम्भनमुत्तमं ॥ ३ ॥
रक्तपाटलमूलन्तु अवष्टब्धञ्च मूलकैः ॥
दिव्यं स्तम्भयते क्षिप्रं पयःपिण्डं जलान्तकं ॥ ४ ॥
मुण्डीतका वचा कुष्ठं मरीचं नागरं तथा ॥
चर्व्वित्वा च इमं सद्यो जिह्वया ज्वलनं लिहेत् । ५ ।
गोरोचनां भृङ्गराजं चूर्णीकृत्य घृतं समं ॥
दिव्यस्तम्भश्च पीत्वा स्यान्मन्त्रेणानेन वै तथा” । ६ ।
ओमह्यं अग्निस्तम्भनं कुरु । इति गारुडे १८६
अध्यायः ॥

अग्निस्वात्ताः, पुं, (अग्निना सुष्ठु यथा स्यात् एवम्

आत्ताः भक्षिताः, श्रौतस्मार्त्ताग्निदग्धा इत्यर्थः ।
मन्वादिस्मृतिषु मूर्द्ध्वन्यषकारवान् एव पाठः ।
मूर्द्ध्वन्यादेशस्तु न युक्तः ।) मरीचिपुत्त्रपितृगण-
विशेषः । नित्यबहुवचनान्तशब्दोऽयं । इति
शब्दमाला, --
“विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः ।
अग्निस्वात्ताश्च देवानां मारीच्या लोकविश्रुताः” ॥
इति मनुः ।

अग्निहोत्रं, क्ली, (अग्नये होत्रम् अत्र इति

बहुव्रीहिः ।) यज्ञविशेषः । तत् द्विविधं ।
माससाध्यं यावज्जीवनसाध्यञ्च । द्वितीये वि-
शेषोऽयं । तदग्नौ यावज्जीवं प्रत्यहं प्रातः
सायं हवनं । तदग्निना यागकर्त्तुर्दाहश्च । इति
स्मृतिः ॥ तत्र क्रमो यथा । ब्राह्मणक्षत्त्रिय-
वैश्यानां कृतदारपरिग्रहाणां काणत्वान्धत्व-
वधिरत्वपङ्गुत्वादिदोषरहितानां वर्णक्रमेण वस-
न्तग्रीष्मशरत्सु अग्न्याधानं विहितं । अग्न-
यस्त्रयः गार्हपत्यः १ दक्षिणाग्निः २ आहवनीयः
३ । एषामाधानं नाम देशविशेषे तत्तन्मन्त्रैः
स्थापनं । तेष्वग्निषु सायंकाले प्रातःकाले चा-
ग्निहोत्रहोमः कर्त्तव्यः । अग्निहोत्रं नाम होमस्य
नामधेयं । अग्नये होत्रं होमो यस्मिन् कर्म्म-
णीति व्यधिकरणबहुव्रीहिः । तत्र द्रव्याणि
दश । पयः १ दधि २ यवागूः ३ घृतं ४ ओदनः
५ तण्डुलाः ६ सोमरसः ७ मांसं ८ तैलं ९ माषाः
१० । सम्प्रति कलियुगे पयसा तण्डुलैर्यवाग्वा
च होम-शिष्टाचारप्रसिद्धः । तत्र एक ऋत्विक्
नित्यं होमः यजमानेन वा कर्त्तव्यः ऋत्विजा वा
कारयितव्यः । अमावास्यायान्तु रात्रौ यवा-
गूद्रव्येण यजमानेनैव कर्त्तव्यः । स चाग्निहोत्र-
होमः आरम्भप्रभृति यावज्जीवनं कर्त्तव्यः ।
प्रथमदिने पूर्ब्बोक्तानां दशानां द्रव्याणां मध्ये
सम्प्रति प्रचलद्रूपाणाञ्च मध्ये येन द्रव्येण
प्रथमाग्निहोत्रहोमः कृतः तेनैव द्रव्येण या-
वज्जीवनं कर्त्तव्यः । प्रथमहोमश्च यस्मिन्
दिने अग्न्याधानं कृतं तस्मिन् दिने सायं-
काले आरम्भणीयः । तत्र शतहोमे सूर्य्यो
देवता सायंकाले अग्निर्देवता । आधानानन्तरं
प्रथमपौर्णमास्यां दर्शपूर्णमासयागारम्भः क-
र्त्तव्यः । दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति
विधिवाक्यं । तत्र षड्यागाः । पौर्णमास्यां
त्रयः । अमायां त्रयः । पौर्णमास्यामाग्नेयाग्नी-
षोमीयोपांशुयागास्त्रयो यागाः । अमावस्या-
यामाग्नेयैन्द्रदधिपयो यागास्त्रयः । तत्रामायां
कर्त्तव्ययागत्रयस्य दर्शपदं नामधेयं । पौर्ण-
मास्यां कर्त्तव्ययागत्रयस्य पूर्णमासपदं नाम-
धेयं । दर्शश्च पूर्णमासश्च दर्शपूर्णमासाविति
द्वन्द्वः । पौर्णमासयागस्य प्राथमिकत्वेऽपि अल्पा-
च्तरमिति पाणिनीयानुशासनानुसारेण दर्श-
शब्दस्याल्पाच्कत्वात् पूर्ब्बनिपातः । दर्शपूर्ण-
मासावपि यावज्जीवं कार्य्यौ । तत्रापि त्रयाणां
वर्णानामुपरि लिखितान्धत्वाद्यधिकारप्रतिबन्ध-
कीभूतदोषसम्बन्धाभाववतां कृताग्निधानानां स-
पत्नीकानामधिकारः । सामान्यतः पर्ब्बण्यारम्भः
प्रतिपदि याग इति परिभाषा । तत्राकृत-
सोमयागस्य यजमानस्य पौर्णमास्यामाग्नेयपुरो-
डाशयागः आज्येनोपांशुयाजयागः । अमायान्तु
आग्नेयपुरोडाशयागः ऐन्द्राग्नपुरोडाशयागः ।
कृतसोमयागस्य यजमानस्य तु पौर्णमास्यामा-
ग्नेयपुरोडाशयागः आज्येनोपांशुयाजयागः अग्नी-
षोमीयपुरोडाशयागः । अमायान्तु आग्नेयपुरो-
डाशयागः ऐन्द्रपयोयागः ऐन्द्रदधियागश्चेति
त्रयः । तत्र ऋत्विजश्चत्वारः । अध्वर्य्युः १ ब्रह्मा
२ होता ३ अग्नीदिति ४ । यजुर्वेदकर्म्मकर्त्ता
अध्वर्य्युः । ऋग्यजुःसामवेदत्रयकर्म्मकर्त्ता ब्रह्मा ।
ऋग्वेदकर्म्मकर्त्ता होता । अग्नीत्तु प्रायशो-
ऽध्वर्य्योरेवानुयायी तत्प्रेरितकर्म्मकर्त्ता । पुरो-
डाशो व्रीहितण्डुलैर्यवतण्डुलैर्वा कर्त्तव्यः । अग्नि-
होत्रवद्येन द्रव्येणारम्भः कृतस्तेनैव द्रव्येण याव-
ज्जीवं यागः कर्त्तव्यः । आरम्भवेलायामिच्छैव
नियामिकेत्यादिदिङ्यात्रमिदं । इति यजुर्वेदः ॥ * ॥
यज्ञाग्निसञ्चयः । तत्पर्य्यायः । अग्न्याधानं २ अ-
ग्निरक्षणं ३ । इति हेमचन्द्रः ॥

अग्निहोत्रः, पुं, अग्निः । घृतं । इति मेदिनी ॥

अग्निहोत्री, [न्] पुं, (अग्निहोत्रम् अस्यास्तीति ।

अत इनिठनावितीनिः ।) अग्निहोत्रयागकर्त्ता ।
तत्पर्य्यायः । अग्निवित् २ आहिताग्निः ३ । इति
हेमचन्द्रः ॥ अग्निचित् ४ । इत्यमरः ॥ साग्निकः
५ । इति पुराणं ॥
(“अग्निहोत्र्यपविध्याग्नीन् ब्राह्मणः कामकारतः ।
चान्द्रायणं चरेन्मासं वीरहत्यासमं हि तत्” ॥
इति मनुः ।)

अग्नीध्रः, पुं, (अग्नि + इन्ध + रन् ।) ऋत्विग्विशेषः ।

तस्य कर्म्माग्निरक्षणं । इत्यमरः ॥ (अग्निद्वारा
वरणीयो ऋत्विग्विशेषः । काम्यायां प्रियव्रतात्
उत्पन्नो नृपभेदः । स्वायम्भुवमनुपुत्त्रो राजभेदः ।)

अग्नीध्रा, स्त्री, अग्निकार्य्यं । हविर्द्दानादिपूर्ब्बकाग्नि-

ज्वालनं । इति हेमचन्द्रः ॥

अग्नीन्धनं, क्ली, (अग्नौ इन्धनम् । अग्नि + इन्ध् +

करणे ल्युट् ।) अग्निकार्य्यं । हविर्द्दानादिपूर्ब्ब-
काग्निज्वालनं । इति हेमचन्द्रः ॥ यथाह मनुः --
“अग्नीन्धनं भैक्षचर्य्यामधः शय्यां गुरोर्हितम् ।
आसमावर्त्तनात् कुर्य्यात् कृतोपनयनो द्विजः” ॥

अग्न्यस्त्रं, क्ली, (अग्निमयम् अस्त्रम् । कर्म्मधारयः ।)

आग्नेयास्त्रं । अग्निघटितास्त्रं । वन्दूककामान
इत्यादिभाषा ॥

अग्न्याधानं, क्ली, (अग्नेः आधानं । अग्नि + आ +

धा + ल्युट् ।) श्रुतिविहिताग्निसंस्कारः । अग्नि-
रक्षणं । अग्निहोत्रं । इति हेमचन्द्रः ॥

अग्न्यालयः, पुं, (अग्नेः आलयः ।) यज्ञाग्न्याधार-

कुण्डं । इति जटाधरः ॥

अग्न्युत्पातः, पुं, (अग्नेः उत्पातः ।) आकाशादिषु

अग्निविकारः । धूमकेतूल्कापातादिः । अग्नि-
निष्ठोत्पातो वा । स तु मन्त्रादिद्वारा अग्ने-
र्दाहशक्तिनिवारणं । तत्पर्य्यायः । उपाहितः २ ।
इत्यमरस्तट्टीका च ॥

अग्रं, क्ली, (अग्यते अगति वा । अग कुटिलायां

गतौ ऋज्रेन्द्रेति साधु ।) उपरिभागः । आगा
इति भाषा । अस्य पर्य्यायः । शिरः २ शिखरं ३-
इत्यमरः ॥ पुरस्तात् । अवलम्बनं । पलपरि-
माणं । प्रान्तं । समूहः । इति मेदिनी ॥
(भिक्षाविशेषः । ग्रासचतुष्टयम् । “ग्रासप्र-
माणा भिक्षास्यादग्रं ग्रासचतुष्टयम्” ॥ इति
स्मृतेः ।)

अग्रः, त्रि, श्रेष्ठः । उत्तमः । इत्यमरः ॥ प्रधानं ।

अधिकः । प्रथमः । इति मेदिनी ॥

अग्रगण्यः, त्रि, (अग्रे गण्यः । गणसङ्ख्याने, यत् ।)

अग्रेगणनीयः । यथा, --
“शमनभवनयाने यद्भवानग्रगण्यः” ।
इति महानाटकं ॥

अग्रगामी, [न्] त्रि, (अग्रे गच्छतीति । अग्र +

गम् + णिन् ।) अग्रे गमनकर्त्ता । अग्रेसरः ।
इति हेमचन्द्रः ॥

अग्रजः, पुं, (अग्रे जात इति सप्तम्यां जनेः डः ।)

ज्येष्ठभ्राता । तत्पर्य्यायः । पूर्ब्बजः २ अग्रियः ३ ।
इत्यमरः ॥ (यथाह मनुः, --
“सर्व्वेषां धनजातानामाददीताग्र्यमग्रजः” ।)
ब्राह्मणः । इति हेमचन्द्रः ॥ अग्रे जाते त्रि ॥

अग्रजङ्घा, स्त्री, (अग्रा जङ्घा अवयवावयविनोर-

भेदात् (कर्म्मधारयः । अथवा जङ्घाया अग्रं षष्ठी-
तत् राजदन्तादित्वात् परनिपातः) प्रतिजङ्घा ।
जङ्घाग्रभागः । इति हेमचन्द्रः ॥

अग्रजन्मा, [न] पुं, (अग्रे जन्म यस्य स बहुव्रीहिः,)

(जन् + भावे मनिन्) ब्राह्मणः ॥ इत्यमरः ॥
“अध्यापनमध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहश्चैव षट्कर्म्माण्यग्रजन्मनः” ॥
मनुः । ज्येष्ठभ्राता । ब्रह्मा । इति विश्वः ॥

अग्रजातकः, पुं, (अग्रे जातं जन्म यस्य स बहुव्रीहिः,

(जन् + भावे क्तः) ब्राह्मणः । समासान्त कः इति
शब्दरत्नावली ॥
पृष्ठ १/०१२

अग्रजातिः, पुं, (अग्रे जातिर्जन्म यस्य सः) (जन् +

भावे क्तिन्) ब्राह्मणः । इति हेमचन्द्रः ॥

अग्रणीः, त्रि, (अग्रे नीयतेऽसौ अग्र + नी + क्विप्

अग्रग्रामाभ्याञ्च इति पाणिनिसूत्रेण णत्वं ।)
(वह्नौ च पुं, यथा चास्याग्रणीत्वं तथाग्निशब्दे
निरुक्तव्याख्यायामुक्तम्) अग्रिमः । श्रेष्ठः । इति
हेमचन्द्रः ॥

अग्रतः, [स्] (अग्रे अग्र + सप्तम्यर्थे तस् अव्यं)

अग्रे । प्रथमे । तत्पर्य्यायः । पुरतः २ पुरः ३ ।
इत्यमरः ॥

अग्रतःसरः, त्रि, (अग्रतः अग्रे सरति गच्छति यः

सः अग्रतः + सृ + टः । स्त्रियां ङीप् अग्रतः-
सरी) (पुरोऽग्रतोऽग्रेषु सर्त्तेः इति पाणिनि-
सूत्रम्) अग्रगामी । इत्यमरः ॥

अग्रदानी, [न्] पुं, (अग्रे दानं प्रेतोद्देशेन तिला-

द्यर्पणं ग्राह्यत्वेन विद्यतेऽस्य अग्र + दान + विद्य-
मानार्थे इन्) पतितब्राह्मणविशेषः । स च प्रेत-
सम्प्रदानकषडङ्गतिलादिद्रव्यग्राही । यथा, --
“लोभी विप्रश्च शूद्राणामग्रे दानं गृहीतवान् ।
ग्रहणे मृतदानानामग्रदानी बभूव सः” ॥
इति ब्रह्मवैवर्त्तपुराणं ॥ तत्पर्य्यायः । आग्रहा-
रिकः २ । इति स्मृतिः ॥

अग्रपर्णी, स्त्री, (अग्रे पर्ण्णं पत्रं यस्याः सा जाति-

त्वात् ङीप्) अजलोमावृक्षः । इति रत्नमाला ॥
आलकुशी इति केचित् ॥
अग्रमांसं, क्लो, (अग्रं प्रधानं मन्यते ज्ञायते यत्
अग्र + मन् + स । पृषोदरादित्वात् दीर्घः ।)
हृदयं । इत्यमरः ॥ उदरमध्यवर्त्तिमांसवर्द्धन-
रूपरोगविशेषः । इति वैद्यकं ॥

अग्रयानं, क्ली, (अग्रं प्रथमं यानं सनागमनं)

नासीरं । सेनाग्रगमनं । इति हेमचन्द्रः ॥

अग्रलोहिता, स्त्री, (अग्रमग्रभागः लोहितं रक्त-

वर्ण्णं यस्याः सा बहुव्रीहिः) चिल्लीशाकं । इति
राजनिर्घण्टः ॥

अग्रवीजः, पुं, (अग्रं शाखाग्रं वीजमुत्पत्तिकारणं

यस्य सः बहुव्रीहिः । कलम इति भाषायाम्)
वीजाग्रवृक्षमात्रं । स च कुरण्टादिः । इति
हेमचन्द्रः ॥

अग्रसन्धानी, स्त्री, (अग्रे फलभोगात्पूर्ब्बं सन्धीयते

अन्विष्यते कार्य्यमनया अग्र + सम् + धा +
करणे ल्युट् स्त्रियां ङीप्) यमपञ्जिका । जीवानां
शुभाशुभकर्म्मलिखितं यमस्य पुस्तकं । इति त्रि-
काण्डशेषः ॥

अग्रसरः, त्रि, (अग्रे सरति गच्छति अग्र + सृ +

टः ।) अग्रेसरः । अग्रगामी । इति हेमचन्द्रः ॥
(यथा, -- “अग्रेसरोजघन्यानां” ।) इति भट्टिकाव्ये ।

अग्रहः, पुं, (नाम्ति ग्रहः गार्हस्थाश्रमस्वीकारो

यम्य सः बहुत्रीहिः । वानप्रस्थे । नास्ति ग्रहो ज्ञानं
यस्य सः ।) ज्ञानशून्ये च । वानप्रस्थः । इति
त्रिकाण्डशेषः ॥ अगृह इति पाठे गार्हस्थाश्रम-
वहिर्भूतः ॥

अग्रहायणः, पुं, (हायनम्य वर्षस्य अग्रः । हश्च

व्रीहिकालयोरिति सूत्रेण हा + ल्युट् युक् च ।)
मासविशेषः । तस्य व्युत्पत्तिर्यथा, -- “हायनस्या-
ग्रोऽग्रहायणः निपातनात् परनिपातनत्वञ्च” ।
इत्यमरटीकायां भरतः ॥ मार्गशीर्षमासः । इति
शब्दरत्नावली ॥ अस्य पर्य्यायः आग्रहायणिके
जातफलं तत्कृत्यञ्च मार्गशीर्षे द्रष्टव्यम् ॥

अग्राह्यं, त्रि, (न ग्राह्यं ग्रहणीयं ग्रह + कर्म्मणि ।

ण्यत् ग्रहणायोग्ये) अग्रहणीयं । ग्रहणायोग्यं
यथा, --
“अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलं ।
सालग्रामशिलास्पर्शात् सर्व्वं याति पवित्रतां” ॥
इति तिथ्यादितत्त्वं ॥

अग्रिमः, त्रि, (अग्रे भवः अग्र + डिमन्) प्रधानं ।

उत्तमः । इति हेमचन्द्रः ॥ ज्येष्ठः । अग्रजः ।
इति जटाधरः ॥

अग्रिमा, स्त्री, (अग्रे भवा अग्र + डिमन्) लवणी-

फलं । लोणा इति ख्याता । इति शब्दचन्द्रिका ॥

अग्रियं, त्रि, (अग्रे भवम् अग्र + घ) प्रधानं । इत्य-

मरः ॥

अग्रियः, पुं, (अग्रे भव अग्र + घ) अग्रजः । ज्येष्ठ-

भ्राता । इत्यमरः ॥

अग्रीयं, त्रि, (अग्रे भवः अग्र + छ) प्रधानं । इत्य-

मरः ॥ अग्रजे पुं, । इति तट्टीकायां रमानाथः ॥

अग्रुः, स्त्री, (अङ्ग्यते द्रव्यं गृह्यतेऽनया अगि + क्रु

ऊङुत इति स्त्रियां वा ऊङ् । निपातनात्
नलोपः ।) अङ्गुलिः । वेदप्रचुरप्रयोगोऽयं ॥

अग्रेगाः, पुं, अग्रगामी । इति मुग्धबोधव्याकरणं ॥

अग्रेगूः, पुं, (अग्रे गच्छति यः अग्रे + गम् + क्विप्

ऊचगमादीनामित्युपसङ्ख्यानमिति पाणिनिवा-
र्त्तिकेन मलोपः अकारस्य ऊकारः ।) अग्र-
गामी । इत्युणादिवृत्तिः ॥

अग्रेदिधिषुः, पुं, (दिधिं धैर्य्यं स्यति इन्द्रियदौर्ब्ब-

ल्यात् त्यजति दिधि + सो + अब्धुदृनकूजम्बु-
कम्बुककेलूकर्कन्धूदिधिषु इत्युणादिसूत्रेण कु ष-
त्वञ्च दिधिषुः पुनर्भूयोषित् अग्रे गणनीया दि-
धिषुः द्विरूढा स्त्री यस्य सः बहु० हलदन्तात्
सप्तम्याः संज्ञायामिति पाणिनिसूत्रेण अलुक्
पुनर्भूविवाहकारिणि जने) द्विरूढैव यस्य कुटु-
म्बिनी स द्विजः । द्विज इत्युपलक्षणं । दिधिषुः
परपूर्ब्बाग्रे दिधिषुस्तत्पुरन्ध्रिकः । इति सामा-
न्येन नाममालादर्शनात् । द्वितीयवारविवाहित-
पुत्त्रादिमती गृहिणीर स्वामी इति भाषा । इत्य-
मरः ॥

अग्रेदिधिषुः, स्त्री, (प्रागनूढज्येष्ठभगिन्याः प्रागूढ-

कनिष्ठभगिन्यां । अग्रे प्रथमे ज्येष्ठायां भगिन्यां
विद्यमानायां गणनीया दिधिषुः ज्येष्ठा विवाह-
कालासहनरूपधैर्य्यलोपकारिणीति विग्रहे शा-
कपार्थिवादित्वात् समासः मध्यपदलोपश्च ।)
अविवाहितज्येष्ठभगिनीसत्त्वे अग्रे विवाहिता
कनिष्ठा । यथा, --
“ज्येष्ठायां विद्यमानायां कन्यायामुह्यतेऽनुजा ।
सा चाग्रे दिधिषुर्ज्ञेया पूर्ब्बा च दिधिषुः स्मृता” ॥
इति देवलः । दिधिषूर्दोर्घोकारान्तोऽपि ॥

अग्रेवणं, क्ली, (वनस्याग्रे राजदन्तादित्वात् पर-

निपातः अलुक् । वनं पुरगे आदित्वात् णत्वम् ।)
वनस्याग्रभागः । इति शब्दमाला ॥

अग्रेसरः, त्रि, (अग्रे सरति गच्छतीति अग्रे + सृ +

टः ।) अग्रे गमनकर्त्ता । तत्पर्य्यायः । पुरोगः
२ प्रष्ठः ३ अग्रतःसरः ४ पुरःसरः ५ । इत्य-
मरः ॥ अग्रगामी ६ अग्रसरः ७ अग्रगः ८ पुरो-
गमः ९ पुरोगामी १० । इति हेमचन्द्रः ॥

अग्रेसरिकः, त्रि, (अग्रेसरणं गमनम् अग्रे + सृ +

भावे अप् अग्रेसरे गमने प्रसृतः अग्रेसर + ठन्
अग्रगामिनि ।) अग्रगामी । इति त्रिकाण्डशेषः ॥

अग्र्यः, त्रि, (अग्रे भवः अग्र + यत् ।) प्रधानं ।

उत्तमः इत्यमरः । ज्येष्ठभ्रातरि पुं इति तट्टी-
कायां रमानाथः ॥

अघ इ ङ् गतौ (अघि गतौ कर्म्मणि लट् ते इदितो

नुम् धातोरिति पाणिनिसूत्रेण नुम् अङ्घ्यते ।
कर्त्तरि लट् ते अङ्घते) । निन्दायां । आरम्भे ।
जवे । इति कविकल्पद्रुमः ॥ जवो वेगगतिः । इ
अङ्घ्यते । ङ अङ्घते वायुर्वेगेन गच्छतीत्यर्थः ।
जवे एव कैश्चित् पठ्यते । इति दुर्गादासः ॥

अघ त् क तत्कृतौ । इति कविकल्पद्रुमः ॥ तत्-

कृतिः पापकृर्तिः । अघयति व्याधः । कर्म्मणो-
ऽर्थमध्यपाठादकर्म्मकोऽयं । तथा च, --
“धातोरर्थान्तरे वृत्ते धात्वर्थेनोपसङ्ग्रहात् ।
प्रसिद्धेरविवक्षातः कर्म्मणोऽकर्म्मिका क्रिया” ॥
इति गोयीचन्द्रः ॥ धात्वर्थेन सह कर्म्मण उप-
सङ्ग्रहादित्यर्थः । क्रमेणोदाहरणानि । नदी
वहति क्षरतीत्यर्थः । अघयति व्याधः । भवति
घटः । आहते जनः । इति दुर्गादासः ॥

अघं, क्ली, (अघ पापकरणे चुरां अघयति अघ +

णिच् + अच् ।) पापं । दुःखं । व्यसनं । इत्यमरः ॥

अघमर्षणं, त्रि, (अघं पापं मृष्यते उत्पन्नत्वेऽपि

नाशनेन कर्म्माक्षमत्वात् सह्यतेऽनेन अघ + मृष्
+ करणेल्युट् ।) पापनाशनं । सर्व्वपापध्वंसि-
जप्यं । इत्यमरः ॥ (उत्पन्नपापनाशार्थं जप्ये मन्त्र-
भेदे यथा सन्ध्यामन्त्रे द्रुपदादिवेत्यादि) अश्वमेध-
यज्ञाङ्गावभृथस्नानमन्त्रः । वैदिकसन्ध्यान्तर्गत-
मन्त्रकरणकाघ्रातजलप्रक्षेपरूपपापनाशकक्रिया-
विशेषः । इति स्मृतिः ॥ तान्त्रिकसन्ध्यायान्तु, --
“षडङ्गन्यासमाचर्य्य वामहस्ते जलं ततः ।
गृहीत्वा दक्षिणेनैव संपुटं कारयेद्बुधः ॥
शिववायुजलपृथ्वीवह्निवीजैस्त्रिधा पुनः ।
अभिमन्त्र्य च मूलेन सप्तधा तत्त्वमुद्रया ॥
निःक्षिपेत् तज्जलं मूर्द्ध्नि शेषं दक्षे निधाय च ।
इडयाकृष्य देहान्तःक्षालितं पापसञ्चयं ॥
कृष्णवर्णं तदुदकं दक्षनाड्या विरेचयेत् ।
दक्षहस्ते च तन्मन्त्री पापरूपं विचिन्त्य च ॥
पुरतो वज्रपाषाणे निक्षिपेदस्त्रमुञ्चरन्” ॥
इति तन्त्रसारः ॥

अघवान्, [त्] त्रि, (अघं पापं विद्यतेऽस्य अघ +

मतुप्) अघविशिष्टः । पापी ॥
पृष्ठ १/०१३

अघासुरः, पुं, (अघनामा असुरः शाकपार्थिवादि-

त्वात् समासः मध्यपदलोपश्च) अघनामासुरः ।
स च कंसराजसेनापतिः । इति श्रीभागवतं ॥

अघोः, [स्] व्य, सम्बोधनं । यथा अघो यज इति

बोपदेवः ॥

अघोरः, पुं, (न घोरः सौम्यरूपः “या ते रुद्र !

शिवा तनुरघोरा पापनाशिनी” इति वेदः ।)
महादेवः । इति शिवचतुर्द्दशीव्रतपूजायां ॥
अतिभयानके अभयानके च त्रि ॥

अघोरा, स्त्री, (नास्ति घोरा भयानका मूर्त्तिर्यस्याः ।

अतिभयानका इति व्युत्पत्त्यर्थः) भाद्रकृष्णचतु-
र्द्दशी । यथा, --
“भाद्रे मास्यसिते पक्षे अघोराख्या चतुर्द्दशी ।
तस्यामाराधितः स्थाणुर्नयेच्छिवपुरं ध्रुवं” ॥
इति स्मृतिः ॥

अघोषः, त्रि, (नास्ति घोषः शब्दो यत्र बहुव्रीहिः

शब्दशून्ये, न अल्पः घोषः शब्दो यत्र बहुव्रीहिः
अल्पध्वनियुक्ते । तथाहि, --
“तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता ।
अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः” ॥
इति स्मरणात् ।) आभीरशून्यदेशादिः । शब्द-
रहितः । अल्पध्वनियुक्तः । कलापादिव्याकरणस्य
संज्ञाविशेषे पुं । स त वर्गप्रथमद्वितीयवर्णाः
शषसाश्च ॥

अघ्न्यः, पुं, (न हन्ति विनाशयति स्रष्टृत्वात् न +

हन् + कर्त्तरि यक् । निपातनात् साधु ।) ब्रह्मा ।
इत्युणादिकोषः ॥

अघ्न्या, स्त्री, (न हन्यते या हन् + कर्म्मणि यक्

स्त्रियामाप् । पतिं वो अघ्न्यानां धनूनाम् इति वेदः ।
“अबध्याञ्च स्त्रियं प्राहुस्तिर्य्यग्योनिगतामपि” ॥
इति निषेधात् ।) स्त्रीगवी । इत्यमरः ॥

अङ्क त् क पदे । लक्ष्मणि । इति कविकल्पद्रुमः ॥

कण्ठ्यवर्गाद्योपधः । पदं सङ्ख्यासंस्थानं । लक्ष्म
चिह्नयुक्तक्रिया । तथा च, --
“अर्थक्रियैव धातूनां कर्तृव्यापारलक्ष्मणा ।
आत्मनिष्ठं क्रियार्थत्वं धात्वर्थेष्वक्रियात्मसु” ॥
इति वोपदेवः ॥
“अङ्कयत्यरिसैन्यानि युधि पृष्ठेषु शायकैः” ।
इति हलायुधः ॥ अङ्कयति अङ्कापयति । इति
दुर्गादासः ॥

अङ्कः, पुं, (अङ्कयति चिह्नयति, अङ्क + अच्)

चिह्नं । (स्वनामकाङ्कां निचखान शायकं इति
रघुवंशे ।) क्रोडं । (सपत्नीतनयं दृष्ट्वा तमङ्कारोह-
णोत्सुकं । इति विष्णुपुराणे ॥) रूपकविशेषः ।
अपराधः । रेखा । विभूषणं । समोपं । स्थानं ।
नाटकांशः । इति मेदिनी ॥ (प्रत्यक्षनेतृचरितो
रसभावससुज्ज्वलः । भवेदगूढशब्दार्थः क्षुद्र-
चूर्णकसंयुतः ॥ अन्तर्निष्क्रान्तनिखिलपात्रोऽङ्क
इति कीर्त्तितः । इति साहित्यदर्पणे) । चित्र-
युद्धं । इति विश्वः ॥ शरीरं । इत्युणादिकोषः ॥
नवसङ्ख्या । इति ज्योतिषं ॥ (कुचभूषायां ।
प्रकरणे । अगे । कटिप्रदेशे । कलङ्के । एको हि
दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्वि-
वाङ्कः । इति कुमारसम्भवे ।)

अङ्कतिः, पुं, (अच्यते पूज्यतेऽसौ अन्च + कर्म्मणि

अति न्यङ्क्वादीनाञ्च इति पाणिनिसूत्रेण चस्य
कः । वायुपक्षे अञ्चति गच्छति इति व्युत्पत्त्या)
ब्रह्मा । अग्निः । अग्निहोत्री । इति विश्वः ॥ वायुः ।
इति त्रिकाण्डशेषः ॥

अङ्कनं, क्ली, (अङ्क + णिच् भावे ल्युट्) सङ्ख्यासंस्थानं ।

चिह्नयुक्तीकरणं । आँकन् दागन इति भाषा ।
चिह्नकरणं । यथा पराशराङ्गिरसौ ।
“अन्यत्राङ्कनलक्ष्माभ्यां वाहनिर्म्मोचने कृते ।
सायं संयमनार्थन्तु न दुष्येद्रोधबन्धयोः” ॥
अङ्कनं त्रिशूलादिचिह्नकरणं । लक्ष्म स्थिरचिह्न-
करणं । इति प्रायश्चित्ततत्त्वं ॥

अङ्कपालिका, स्त्री, (अङ्कपालि + स्वार्थे कः स्त्रिया-

माप् ।) आलिङ्गनं । इति शब्दमाला ॥

अङ्कपाली, स्त्री, (अङ्केन क्रोडेन पालयति अङ्क + पा

+ अलि स्त्रियां वा ङीप् पक्षे अङ्कपालिः ।) आलि-
ङ्गनं । धात्री । वेदिकाख्यगन्धद्रव्यं । तस्य नामा-
न्तरं कोटिः । इति मेदिनी ॥

अङ्कलोड्यः, पुं, (अङ्केन लोड्यतेऽसौ लोड + ण्यत्)

चिञ्चोटकवृक्षः । चेँच्को इति भाषा । चिञ्चो-
डमूल इति केचित् ॥ अस्य गुणाः । गुरुत्वं ।
अजीर्णकारित्वं । शीतलत्वञ्च । इति राजव-
ल्लभः ॥

अङ्कितः, त्रि, (अङ्क + क्त ।) लाञ्छितः । चिह्नितः ।

इति व्याडिः ॥

अङ्की, स्त्री, (अङ्कः + स्त्रियां ङीप् ।) अङ्क्यः ।

मृदङ्गविशेषः । इति शब्दरत्नाकली ॥

अङ्कुरः, पुं, (अङ्क + उरच्) वीजोद्भवः । नूतनोत्पन्न-

तृणादिः । (दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे
तन्वी स्थिता कतिचिदेव पदानि गत्वा । इति शाकु,
न्तले । अस्य पर्य्यायः । अभिनवोद्भिद् २ । इत्य-
मरः ॥ उद्भेदः ३ प्ररोहः ४ (चूताङ्कुरास्वाद-
कषायकण्ठः ॥ इति कुमारसम्भवे ।) अकुरः ५ ।
इति राजनिर्घण्टः । रोहः ६ अङ्करः ७ । इति
हेमचन्द्रः ॥ जलं । रक्तं । लोम । इति मे-
दिनी ॥

अङ्कुरकः, पुं, (अङ्क्यते तृणादिभिर्न्निर्म्मीयतेऽसौ अङ्क

+ उरच् ततः स्वार्थे क) नीडः । पक्षिवासस्थानं ।
इति शब्दभाला ॥

अङ्कुशः, पुं क्ली, (अङ्क्यते हस्तिचालनार्थमाहन्यते-

ऽनेन अङ्क + उशच् ।) हस्तिचालनार्थलोहमय-
वक्राग्रास्त्रं । डाङ्गश इति भाषा । तत्पर्य्यायः ।
श्टणिः २ । इत्यमरः ॥ सृणिः ३ । इति तट्टीका ॥
अङ्कूषः ४ । इत्युणादिकोषः ॥ (रामायणे, --
“उष्ट्रान् हयान् खरान् नागान् जघ्नुर्दण्डकषाङ्कुशैः ॥
कम्पना अङ्कुशा भल्लाः कालचक्रा गदास्तथा” ॥)

अङ्कुशदुर्धरः, पुं, (अङ्कुशेन दुर्ध्रियते दुर्द्दम्यतेऽसौ

दुर् + धृ + कर्म्मणि खल् ।) दुरन्तहस्ती । इति
त्रिकाण्डशेषः ॥

अङ्कुशी, स्त्री, (अच्यते आराध्यतेऽसौ बौद्धविशेषैः

अङ्क + उशच् स्त्रियां ङीप् । न्यङ्कादीनाञ्च इति
चस्य कः ।) जिनानां चतुर्विंशतिशासनदेव्यन्त-
र्गतदेवीविशेषः । इति हेमचन्द्रः ॥

अङ्कूरः, पुं, (अङ्क + खर्जूरादित्वात् ऊरच् वा उरच्)

अङ्कुरः । अभिनवोद्भिद् । इति हेमचन्द्रः ॥

अङ्कूषः, पुं क्ली, (अङ्क्यते हस्तिचालनार्थमाहन्यतेऽनेन

अङ्क + ऊषच् करणे) अङ्कुशः । इत्युणादिकोषः ॥

अङ्कोटः, पुं, (अङ्क + ओटच्) अङ्कोठवृक्षः । इति

रत्नमाला ॥

अङ्कोठः, पुं, (अङ्क्यतेऽनुभूयतेऽसौ अङ्क + ओठच्)

वृक्षविशेषः । आकोड इति ख्यातः । धल-
आँकूडा इति केचित् । अस्य पर्य्यायः ।
निकोचकः २ । इत्यमरः ॥ निकोठकः ३ लिको-
चकः ४ । इति भरतः ॥ अङ्कोलकः ५ बोधः
६ नेदिष्ठः ७ दीर्घकीलकः ८ । इति जटाधरः ॥
अङ्कोटः ९ रामठः १० । इति रत्नमाला ॥
कोठरः ११ रेची १२ गूढपत्रः १३ गुप्तस्नेहः
१४ पीतसारः १५ मदनः १६ गूढवल्लिका
१७ पीतः १८ ताम्रफलः १९ दीर्घकीलः २०
गुणाढ्यकः २१ कोलकः २२ लम्बकर्णः २३ गन्ध-
पुष्पः २४ रोचनः २५ विशानतैलगर्भः २६ । अस्य
गुणाः । कटुत्वं । स्निग्धत्वं । विषलूतादिदोष-
नाशित्वं । कफवायुहारित्वं । सूतशुद्धिकारित्वं ।
रेचकत्वञ्च ॥ * ॥ तत्फलगुणाः । शीतलत्वं ।
स्वादुत्वं । श्लेष्मनाशित्वं । गुरुत्वं । बलकारित्वं ।
धातुपोषकत्वं । विरेचकत्वं । वातपित्तदाहक्षय-
दुष्टरक्तनाशित्वञ्च । इति राजनिर्घण्टः ॥

अङ्कोलः, पुं, (अङ्क्यतेऽनुभूयतेऽसौ अङ्क + ओलच्)

अङ्कोठवृक्षः । आकोड यस्य प्रसिद्धिः । इत्यम-
रटीकायां स्वामी ॥

अङ्कोलकः, पुं, (अङ्कोल + स्वार्थे कः) अङ्कोठवृक्षः ।

इति जटाधरः ।

अङ्कोलिका, स्त्री, आलिङ्गनं । इति शब्दमाला ॥

अङ्कोल्लसारः, पुं, (अङ्कोल्लस्य सारः षष्ठीतत्

स्थिरांशः ।) स्थावरविषप्रभेदः । इति हेमचन्द्रः ॥

अङ्क्यः, पुं, (अङ्क्यते वाद्यते हरीतक्याकृतिर्वाद्य-

विशेषः यः । अङ्क + ण्यत् ।) हरीतक्याकृतिमृदङ्गः ।
पाखओयाज इति भाषा । इत्यमरः ॥ तदुक्तं, --
“सार्द्धतालत्रयायामश्चतुर्द्दशाङ्गुलाननः ।
हरीतक्याकृतिर्यः स्यादङ्क्योऽङ्के स हि वाद्यते ॥
इति भरतः ॥ (अपराधिविशेषाणां ललाटादिषु
राज्ञा अङ्कनीयः । मनुः, --
“प्रायश्चित्तन्तु कुर्व्वाणाः सर्व्वे वर्णा यथोदितं ।
नाङ्क्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसं” ॥)

अङ्ग, त् क पदे । (अङ्गयति चेष्टयति अङ्ग + णिच्

अच् ।) लक्ष्मणि । इति कविकल्पद्रुमः ॥ कण्ठ्य-
वर्गतृतीयोपधः । पदं सङ्ख्यासंस्थानं । लक्ष्म
चिह्नयुक्तक्रिया । तथा च ।
अर्थक्रियैव धातूनां कर्तृव्यापारलक्ष्मणा ।
आत्मनिष्ठं क्रियार्थत्वं धात्वर्थेष्वक्रियात्मसु ॥
इति बोपदेवः । अङ्गयति अङ्गापयति, इति
दुर्गादासः ॥
पृष्ठ १/०१४

अङ्ग, व्य सम्बोधनं । इत्यमरः ॥ (रामायणे, --

“अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूं” ।
पुनरर्थः ।

अङ्गं, क्ली, शरीरादेरेकदेशः । आं इति हिन्दी-

भाषा । तत्पर्य्यायः । अवयवः २ प्रतीकः ३ अप-
घनः ४ । इत्यमरः ॥ गात्रं । (शृङ्गारतिलके, --
“अङ्गानि चम्पकदलैः स विधाय धाता” ।)
अप्रधानं । (साहित्यदर्पणे, --
“एक एव भवेदङ्गी शृङ्गारो वीर एव वा ।
अङ्गमन्ये रसाः सर्व्वे कार्य्यनिर्वहणेऽद्भुतं” ॥
उपायः । इति मेदिनी ॥ (अङ्ग्यते विषयो बुध्यते
अनेन अङ्ग + करणे घञ् इति व्युत्पत्त्या) मनः ।
अङ्गं मनसि काये चेत्यमिधानान्तरदर्शनात् ।
यथा । “हिरण्यगर्भाङ्गभुवं मुनिं हरिरिति
माघः” ॥ वेदाङ्गशास्त्राणि षट् । यथा, --
“शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः ।
ज्योतिषामयनञ्चैव वेदाङ्गानि षडेव तु” ॥
शिक्षा १ कल्पः २ व्याकरणं ३ निरुक्तं ४ ज्यो-
तिषं ५ छन्दः ६ । इत्यमरः ॥ अङ्गस्य लक्षणं
यथा । तदीयप्रधानफलजनकव्यापारजनकत्वे सति
तदीयप्रधानफलाजनकत्वं । इति तिथ्यादितत्त्व-
टीका ॥

अङ्गः, पुं, स्वनामख्यातदेशः । इति हेमचन्द्रः ॥ मे-

दिनीकारमते नित्यबहुवचनान्तशब्दोऽयं । देश-
विशेषः । यथा, --
“वैद्यनाथं समास्भ्य भुवनेशान्तगं शिवे ।
तावदङ्गाभिधो देशो यात्रायां न हि दुंष्यते ॥
इति शक्तिसङ्गमतन्त्रे ७ पटलः ॥ (अयञ्च देशः
सरष्वाः सङ्गमे अवस्थितः, अत्र महादेवस्य
हुङ्कारेण कामस्य अङ्गत्यागात् अयं अङ्गनाम्ना
ख्यातः । यथा रामायणे, --
“अनङ्ग इति विख्यातस्ततःप्रभृति राघव ।
स चाङ्गविषयः श्रीमान् यत्राङ्गं स मुमोच ह” ॥

अङ्गः, त्रि, (अङ्गं विद्यतेऽस्य अङ्ग + अर्श आद्यच्

तथा मेदिन्यां अङ्गं गात्रे प्रतोकोपाययोः पुं भूम्नि-
नीवृति । क्लीवैकत्वे त्वप्रधाने त्रिष्वङ्गवति चा-
न्तिके इति मेदिनी ।) अङ्गविशिष्टः । निकटः ।
इति मेदिनी ॥

अङ्गग्रहः, पुं, (ग्रह + भावे अप् । अङ्गानां रो-

गादिना ग्रहः वेदना) गात्रवेदना । इति वै-
द्यकं ॥

अङ्गजं, क्ली, (अङ्गे जायते अङ्ग + जन् + सप्तम्यां

जनेर्ड इति पाणिनिसूत्रेण डः कर्त्तरि) रक्तं ।
इति मेदिनी ॥ शरीरजे वाच्यलिङ्गं ॥

अङ्गजः, पुं, पुत्त्रः । केशः । कामः । मदः । इति

विश्वमेदिन्यौ ॥ मदस्थाने गदः । इति काचि-
न्मेदिनी ॥ (स्त्रीणां यौवने सात्त्विकभावविशेषः ।
यथा साहित्यदर्पणे, --
“यौवने सत्त्वजास्तासामष्टाविंशतिसंख्यकाः ।
अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः ॥

अङ्गजा, स्त्री, कन्या । अङ्गाज्जात इत्यस्मात् स्त्रि-

यामाप् ॥

अङ्गणं, क्ली, (अङ्ग्यते गम्यते अत्र + अधिकरणे ल्युट्

पृषोदरादित्वाण्णत्वम्) अङ्गनं । चत्वरं । इत्यमर-
टीकायां भरतः ॥ (देवीमाहात्म्ये, विमानं हंस-
सयुक्तमेतत्तिष्ठतितेऽङ्गने ।)

अङ्गतिः, पुं, (अङ्ग्यते सेवायै गम्यते अगि + कर्म्मणि

अति । ब्रह्मणि विष्णौ अग्नौ च ।) ब्रह्मा । विष्णुः ।
अग्निः । अग्निहोत्री । इति शब्दरत्नावली ॥
(अग्निहोत्रिपक्षे तु कर्त्तरि अति । अङ्ग्यते गम्यते
ऽनेन इति व्युत्पत्त्या वाहने ।)

अङ्गदं, क्ली, (अङ्गं द्यति व्यथयति अङ्ग + दो + कः

उपपदसमासः) केयूरं । ताड वाजू इत्यादि
भाषा । इत्यमरः ॥ (रामायणे, --
“धूयमानैश्च वासोभिः श्लक्ष्णैरङ्गदमूषणैः” ।)

अङ्गदः, पुं, (अङ्गं द्यति युद्धकाले अवखण्डयति

अङ्ग + दो + कर्त्तरि कः) कपिभेदः । स च बालि-
नामवानरराजपुत्त्रः । इति मेदिनी ॥ (रामायणे, --
“कुमदं पञ्चदशभिर्जाम्बवन्तञ्च सप्तमिः ।
अशीत्या बालिनः पुत्रमङ्गदं बिभिदे शरैः” ॥

अङ्गदा, स्त्री, अङ्गंदेहं ददाति स्वस्वामिनि समर्पयति

या अङ्ग + दा + कर्त्तरि कः स्त्रियामाप्) दक्षिण
दिघस्तिभार्य्या । इति मेदिनीकरहेमचन्द्रौ ॥

अङ्गनं, क्ली, अङ्गनभूमिः । आङ्गन् उठान इति

भाषा । तत्पर्य्यायः । चत्वरं २ अजिरं ३ ।
इत्यमरः ॥ अङ्गणं ४ । इति तट्टीका ॥ प्राङ्गणं ।
(रामायणे, --
“महाराजाङ्गनं शूराः प्रविशन्तु महोदयं” ।)
५ । यानं । गमनं । इति मेदिनी ॥

अङ्गना, स्त्री, प्रशस्तानि अङ्गानि अस्या इति

अङ्गात् कल्याण इति नः । कामिनी । सुन्दराङ्गी
स्त्री । इति मेदिनी । (मनुः --
“ब्रह्महत्या सुरापानं स्तेयं गुर्व्वङ्गनागमः” ।)
सार्व्वभौमनाम्न उत्तरदिग्गजस्य पत्नी । इत्य-
मरः ॥ वृषकर्कटकन्यावृश्चिकमकरमीनराशयः ।
इति ज्योतिषतत्त्वम् ॥

अङ्गनाप्रियः, पुं, (अङ्गनानां प्रियः प्रीतिप्रदः । स्त्रि-

यश्च अशोकपुष्पेण स्वीयमङ्गमलङ्कुर्व्वन्ति इति
लोके प्रसिद्धिः । अङ्गनाया दक्षिणदिक्पत्न्याः
प्रियः इतिव्युत्पत्त्या तत्स्वामिनि) अशोकवृक्षः ।
इति शब्दमाला ॥

अङ्गपालिः, पुं, (अङ्गेन पाल्यते संश्लिष्यतेऽनेन अङ्ग

+ पा + अलिः) आलिङ्गनं । इति त्रिकाण्डशेषः ॥
स्त्रियां डीप् वेदिकाख्यगन्धद्रव्ये ।)

अङ्गमर्द्दः, पुं, (अङ्गं मर्द्दयति यः अङ्ग + मर्द्द + कर्म्म-

ण्यण् उपपदसमासः ।) अङ्गमर्द्दनकारकभृत्यः ।
तत्पर्य्यायः । संवाहकः २ । इति हेमचन्द्रः ॥ अङ्ग-
मर्द्दकः ३ । इति त्रिकाण्डशेषः ॥ अङ्गमर्द्दो ४ ।
इति हलायुधः ॥

अङ्गमर्द्दकः, पुं, (अङ्गस्य मर्द्दकः संवाहकः षष्ठी-

तत् ।) अङ्गमर्द्दः । इति त्रिकाण्डशेषः ॥

अङ्गमर्द्दी [न्] पुं, अङ्गं साधु मर्द्दयति संवाहयति

यः अङ्ग + मर्द्द + णिनि ।) अङ्गमर्द्दः । इति हला-
युधः ॥

अङ्गरक्तः, पुं, (रक्तं रक्तवर्णं अङ्गं यस्य स बहुव्रीहिः

वाहिताग्न्यादिषु इति सूत्रेण परं पूर्व्वं वा नि-
पात्यते ।) वृक्षविशेषः । गुण्डारोचनी इति
ख्यातः । तत्पर्य्यायः । पिकाक्षः २ रोचनी ३
लघुपत्रकः ४ । इति शब्दचन्द्रिका ॥ कम्पिल्लः
५ कर्कशः ६ चन्द्रः ७ रक्ताङ्गः ८ । इत्यमरः ॥

अङ्गरक्षिणी, स्त्री, अङ्गं रक्षति पालयति या अङ्ग +

रक्ष + णिनि ।) अङ्गत्राणं । साँजोया इति
भाषा । तत्पर्य्यायः । जालिका २ जालप्राया ३
आयसी ४ । इति हेमचन्द्रः ॥

अङ्गरागः, पुं, रज्यतेऽङ्गमलङ्क्रियतेऽनेन रन्ज +

करणे घञ् घञि च भावकरणयोरिति नलोपो-
वृद्धिश्च । अङ्गस्य रागः षष्ठीतत्परुषः ।) गात्र-
रञ्जनं । अङ्गे चन्दनादिलेपनं । तत्पर्य्यायः । विलेपनं
२ । इति हेमचन्द्रः ॥ (रामायणे, --
“स्नानानि चाङ्गरागांश्च माल्यानि विविधानि च” ।)

अङ्गराट्, पुं, (अङ्गे तद्देशे राजते यः अङ्ग + राज् +

क्विप् उपपदसमासः) । अङ्गदेशाधिपतिः । स च
कर्णः । इति हेमचन्द्रः ॥ (दशरथसखः लोम-
पादश्च रामायणे, --
“सख्यं तस्याङ्गराजेन भविष्यति महात्मनः ।
कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥
अङ्गराजेऽनपत्यस्तु लोमपादो भविष्यति ।
स राजानं दशरथं प्रार्थयिष्यति भूमिपः” ॥

अङ्गलोड्यः, पुं, (अङ्गेन अङ्गुल्यादिना लोड्यते छि-

द्यतेऽसौ लोडि + कर्म्मणि यत् अङ्गेन लोड्यः तृती-
यातत् पुरुषः । अङ्कलोड्य इति पाठे अङ्केन तद्-
वृक्षस्थितचिह्नविशेषेण लोड्यः अनुमेयः धातूना-
मनेकार्थत्वादत्र लोडिधातुरनुमानार्थः ।) चिञ्चाट-
कतृणं । इति रत्नमाला ॥ अङ्कलोड्य इति च पाठः ॥

अङ्गवः, पुं, अङ्गे स्वदेहे वाति अतिशुष्कत्वात् लीन-

मिव भवति अङ्ग + वा + कर्त्तरि कः । शुष्कफलं ।
इति शब्दचन्द्रिका ॥

अङ्गविकृतिः, पुं, (अङ्गानां विकृतिर्व्विकारो यस्मात्

बहुब्रीहिः ।) अपस्माररोगः । इति राजनिर्घण्टः ॥

अङ्गविक्षेपः, पुं, (वि + क्षिप् + भावे घञ् । अङ्गस्य

विक्षेपः एकस्थानादन्यस्थाने चालनं षष्ठीतत्पुरुषः
अङ्गहारोऽङ्गविक्षेप इत्यमरः ।) अङ्गहारः । अ-
ङ्गचालनरूपनृत्यं । इत्यमरः ॥

अङ्गवैकृतं, क्ली, (विकृति + प्रज्ञादिभ्यश्च इति स्वार्थे

अण् अङ्गस्य वैकृतम्) आकारः । इङ्गितं । इति
जटाधरः

अङ्गसंस्कारः, पुं, (अङ्गस्य सस्कारः शोभा षष्ठी-

तत् । सम् + कृ + भावे घञ् संपर्य्युपेभ्यः इत्या-
दिना इति सुट् ।) कुङ्कुमादिना शरीरशोभा-
धानरूपसंस्कारः । इति भरतः ॥ स्नानोद्वर्त्त-
नादिः । इति स्वामी ॥ शरीरसंस्कारमात्रं ।
इत्यन्ये ॥ स्वेदादिकृतदौर्गन्ध्यहरणाय चन्दनादिना
उद्वर्त्तनानुलेपनादिः । इति सारसुन्दरी ॥ तत्-
पर्य्यायः । परिकर्म्म २ । इत्यमरः ॥ प्रतिकर्म्म ३ ।
इति क्वचित् पाठः ॥

अङ्गहारः, पुं, (अङ्गानां हारः एकस्थानादन्यस्थाने

पृष्ठ १/०१५
:चालनं षष्ठीतत्पुरुषः ।) अङ्गानां स्थानात् स्थानान्त-
रनयनं । तत्पर्य्यायः । अङ्गविक्षेपः २ । इत्यमरः ॥
अङ्गहारिः ३ । इति तट्टीका ॥ स्थिरहस्तपर्य्य-
स्तकादिको द्वात्रिंशत्प्रकारः । इति मधुः ॥
वृश्चिकभ्रमरादिद्वात्रिंशद्रूपः । इति रायः । अङ्गु-
ल्यादिविन्यासस्त्रिं शद्रूपः । इति कौमुदी ॥

अङ्गहारिः, पुं, (अङ्गानि ह्रियन्ते चाल्यन्तेऽत्र अङ्ग

+ हृ + इञ् अजादिभ्यश्च इति पाणिनिसूत्रेण
अधिकरणे इञ् । रङ्गभूमिः, नृत्यभूमिश्च ।) अङ्ग-
हारः । इति भरतधृतहड्डचन्द्रः ॥

अङ्गहीनः, त्रि, (अङ्गेन हीनः रहितः तृतीया तत्-

पुरुषः । हा + कर्म्मणि क्तः ।) अवयवरहितः ।
अङ्गहानिविशिष्टः । (यथा, याज्ञवल्क्यः, --
“कालकर्म्मात्मवीजानां दोषैर्मातुस्तथैव च ।
गर्मस्य वैकृतं दृष्टमङ्गहीनादि जन्मतः ॥)
अङ्गहीनं क्रियाहीनं विधिहीनञ्च यद्भवेत्” ॥
इति स्मृतिः ॥ कामदेवे पुंलिङ्गः ॥

अङ्गाधिपः, पुं, (अङ्गस्य देशविशेषस्य अधिपः षष्ठी-

तत्पुरुषः ।) अङ्गदेशाधिपतिः । स च कर्णः । इति
भूरिप्रयोगः ॥

अङ्गारः, पुं, क्ली, (अगि + आरन् इदितो नुम्धातो-

रिति नुम् ।) दग्धकाष्ठखण्डं । तत्तु निरग्नि
साग्नि च । कयला आङ्गरा इति भाषा । तत्-
पर्य्यायः । अलातं २ उल्मूकं ३ । इत्यमरः ॥
आलातं ४ उल्मूकं ५ । इति तट्टीका ।
(“घृतकुम्मसमा नारी तप्ताङ्गारसमः पुमान्” ।)

अङ्गारः, पुं, (रक्तं रक्तवर्ण्णमङ्गं यस्य स बहुव्रीहिः

पृषोदरादित्वात् साधु ।) मङ्गलग्रहः । इति मेदिनी ॥
हितावली । इति वैद्यकं ॥

अङ्गारकः, पुं, (अङ्गार + स्वार्थ कः ।) मङ्गलग्रहः

इत्यमरः, --
(“धरात्मजः कुजो भौमो भूमिजोभूमिनन्दनः ।
अङ्गारको यमश्चैव सर्व्वरोगापहारकः” ॥
इति वराहपुराणम् ।) (रामायणे, --
“दिवीव ग्रहयोर्घोरं वुधाङ्गारकयोर्महत् ।
कौशलानाञ्च नक्षत्रं ज्येष्ठा मैत्राग्निदैवतं ।
आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे” ॥)
अङ्गारः । कुरुण्टकवृक्षः । इति मेदिनी ॥ भृङ्ग-
राजः । इति राजनिर्घण्टः ॥

अङ्गारतैलं, क्ली, (अङ्गारेण पक्वं तैलं शाकपार्थि-

वादित्वात् समासः । मध्यपदलोपश्च) स्वनाम-
ख्यातपक्वतैलं । तस्य पाकप्रकारो गुणश्च ।
यथा, --
“मूर्व्वा लाक्षा हरिद्रे द्वे मञ्जिष्ठा सेन्द्रवारुणी ।
वृहती सैन्धवं कुष्ठं रास्ना मांसी शतावरी ॥
आरनालाढकेनैव तैलप्रस्थं विपाचयेत् ।
तैलमङ्गारकं नाम सर्व्वज्वरविमोक्षणं” ॥
इति सुखबोधः ॥

अङ्गारकमणिः, पुं, (रक्तवर्ण्णत्वादङ्गारकवत् मणिः

अथवा अङ्गारकस्य मणिः षष्ठीतत्पुरुषः । माणिक्यं
भास्करे देयं चन्द्रे मुक्तां प्रदापयेत् प्रबालञ्च कुजे
दद्यादित्यादिना तत्कृताशुभप्रतिकाराय प्रबाल-
दानोक्तेः तत्प्रियत्वं ।) प्रबालः । इति राज-
निर्घण्टः ॥

अङ्गारकुष्ठकः, पुं, (अङ्गारवर्ण्णं कुष्ठमिव कन्) हि-

तावली । इति राजनिर्घण्टः ॥

अङ्गारधानिका, स्त्री, (अङ्गाराणि धीयन्ते धार्य्यन्ते-

ऽत्र धा + अधिकरणे ल्युट् स्त्रियां ङीप् । अङ्गा-
राणां धानी ततः स्वार्थे कः । पक्षे अङ्गार-
धानी ।) अङ्गारधारणपात्रं । आङ्गटा इति
ख्याता । साँजाल इति केचित् । तत्पर्य्यायः ।
अङ्गारशकटी २ हसन्ती ३ हसनी ४ । इत्य-
मरः ॥

अङ्गारपरिपाचितं, क्ली, (अङ्गारेण परिपाच्यते परि

+ पच् + स्वार्थे णिच् ततः कर्म्मणि क्तः ।) अङ्गार-
पक्वं । शूलविद्धाङ्गारदग्धमांसं । कावाव इति
ख्यातं । इति शब्दचन्द्रिका ॥

अङ्गारपर्णः, पुं, (अङ्गारवत् पर्णं पत्र यस्य स बहु-

व्रीहिः । वनभेदे । सोऽस्यास्ति ततः अर्श आद्यच्
तत्स्वामी) चित्ररथगन्धर्व्वः । इति महामारतं ॥

अङ्गारपुष्पः, पुं, (अङ्गारवत् रक्तवर्णं पुष्पं यस्य सः

बहुव्रीहिः ।) इङ्गुदीवृक्षः । जियापुता । इति
ख्यातः । इति रत्नमाला ॥

अङ्गारमञ्जी, स्त्री, (अङ्गारवत् रक्तवर्णा मञ्जी मञ्जरी

यस्याः सा बहुव्रीहिः । समासान्तविधेरनित्यत्वात्
कबभावः ।) करञ्जविशेषः । इति शब्दरत्नावली ॥
अस्य नामान्तरं अङ्गारमञ्जरी ॥

अङ्गारवल्लरी, स्त्री, करञ्जविशेषः । इत्यमरः ।

भार्गी । गुञ्जा । इति राजनिर्घण्टः ॥

अङ्गारवल्ली, स्त्री, (अङ्गारवत् रक्तवर्णा वल्ली कर्म्म-

धारयः । गुञ्जालता, स्वार्थे कन् अङ्गारवल्लिका ।)
महाकरञ्जः । भार्गी । इति राजनिर्घण्टः ॥

अङ्गारशकटी, स्त्री, (शक्नोति वोढुं शकटं । शकट

+ स्त्रियां ङीप् अल्पार्थे शकटी । अङ्गारस्य
शकटी षष्ठीतत्पुरुषः । आङ्टा इति भाषा ।
धुनाची इति) अङ्गारधानिका । इत्यमरः ॥

अङ्गारिः, स्त्री, (अङ्गारमस्या अस्ति अङ्गार + अत

इन् ठनाविति ठन् तस्य इ कः पृषोदरादित्वात्
कलोपः) अङ्गारधानिका । इति जटाधरः ॥

अङ्गारिका, स्त्री, (अङ्गारवत् रक्तवर्ण्णा अङ्गार +

इवार्थे कन् स्त्रियां टाप्) इक्षुकाण्डं । पलाश-
कलिका । इति मेदिनी ॥ (अङ्गारमस्या अस्ति
अङ्गार + मत्वर्थे ठन् तस्य इ कः स्त्रियां टाप्
इति व्युत्पत्त्या अङ्गारपात्रम् ।)

अङ्गारिणी, स्त्री, (अङ्गारमस्या अस्ति अङ्गार +

मत्वर्थे इन् स्त्रियां ङीप् ।) अङ्गारधानिका ।
भास्करत्यक्ता दिक् । (सूर्य्यत्यक्ततया अङ्गारवत्
रक्तवर्ण्णा दिक् ।) इति मेदिनी ॥

अङ्गारितं, क्ली, (अङ्गारमिवाचरति अङ्गार + क्विप्

ततः क्तः ।) पलाशकलिकोद्गमः । (अङ्गारं क-
रोति अङ्गार + णिच् कर्म्मणि क्तः । मत्वर्थे इतच्
वा दग्धप्रायकाष्ठं) दग्धे त्रि । इति विश्वः ।

अङ्गिका, स्त्री, कञ्चुकः । काँचली इति ख्याता ।

इति हेमचन्द्रः ॥

अङ्गिरा, [स्] पुं, (अङ्गति ब्रह्मणो मुखान्निःसरति

अगि गतौ + अस् इरस् च) मुनिविशेषः । स च
ब्रह्मणो मुखाज्जातः । तस्य भार्य्या कर्द्दममुनि-
कन्या श्रद्धा । पुत्त्रः उतथ्यः १ वृहस्पतिः २ ।
कन्या सिनीवाली १ कुहूः २ राका ३ अनु-
मतिः । ४ । इति श्रीभागवतं ॥

अङ्गी, [न्] त्रि, (अङ्गं विद्यतेऽस्य अङ्ग + मत्वर्थे इन् ।)

अङ्गविशिष्टः । अवयवी । यथा येनाङ्गेनाङ्गी
विकृतो भण्यते तस्मादङ्गाच्च त्रि । इति मुग्ध-
बोधटीकायां दुर्गादासः ॥ प्रधानं । मुख्यः ।
यथा । “यद्यङ्गी स्याद्रसान्तरे” । इति घ्वनि-
कारः ॥

अङ्गीकारः, पुं, (अङ्गीति च्च्यन्तं तत्पूर्ब्बकात् कृ +

घञ्) स्वीकारः । तत्पर्य्यायः । सम्बित् २ आगूः ३
प्रतिज्ञानं ४ नियमः ५ आश्रवः ६ संश्रवः ७
अभ्युपगमः ८ समाधिः ९ प्रतिश्रवः १० । इत्य-
मरः ॥

अङ्गीकृतं, त्रि, (अङ्गोति च्च्यन्तं तत्पूर्ब्बकात् कृ +

कर्म्मणि क्तः) स्वीकृतं तस्य पर्य्यायः । ऊरीकृतं २
उररीकृतं ३ आश्रुतं ४ प्रतिज्ञातं ५ संगीणं ६
विदितं ७ संश्रुतं ८ समाहितं ९ उपश्रुतं १०
उपगतं ११ प्रतिश्रुतं १२ अभ्युपगतं १३ ।
इत्यमरः ॥

अङ्गुरिः, स्त्री, (अगि गतौ + उ णिच् रलयोरेकत्व-

स्मरणात् लस्य रत्वम्) पाणिपादाङ्गली । इत्यु-
णादिकोषः ॥

अङ्गुरिः, स्त्री, (अङ्ग + उणिच् पक्षे ङीप्) अङ्गुली ।

इत्यमरटीका ॥

अङ्गुरीयः, पुं, क्ली, (अङ्गरेरिदं तत्र भवं वा अङ्गुरि

+ छः तस्य ईयः) अङ्गुलीयकं । आङ्गुटी इति
भाषा । अङ्गुलौ भवं अङ्गुलीयं मनीषादित्वात्
लस्य रः । इति भरतः ॥ (यथा रामायणे, --
“ददौ चास्य तदा प्रीतः स्वनामाङ्काभिचिह्नितं ।
अङ्गुरीयमभिज्ञानं राजपुत्र्याः परन्तपः” ॥)

अङ्गुरीयकं, क्ली, पुं, (स्वार्थे कः) अङ्गुलीयकं । इत्य-

मरटीकायां मुकुटादयः ॥ रामायणे, --
“रामनामाङ्कितञ्चेदं प्रगृहाणाङ्गुरीयकं” ।

अङ्गुलः पुं, (अङ्ग + उन् अङ्गौ हस्ते लीयते अङ्गु +

ली + डः) हेमचन्द्रः ॥ अङ्गुली ॥ इत्यमरटीकायां
रमानाथः ॥ अष्टयवपरिमाणं । इत्यमरटीकायां
वाचस्पतिः ॥ (अष्टसंख्यकयवोदरपरिमाणे यवो-
दरैरङ्गुलमष्टसंख्यैरिति भास्कराचार्य्योक्तेः न० ।)
(यथा रामायणे, --
“न ह्यविद्ध्वं तयोर्गात्रे बभूवाङ्गुलमन्तरं” ।)

अङ्गुलिः, स्त्री, (अङ्ग + उलिच्) करशाखा । आङ्गुल

इति भाषा । (यथा मनुः, --
“कायमङ्गुलिमूलेऽग्रे दैवं पित्त्र्यं तयोरधः” ।)
गजकर्णिका । हस्तिशुण्डाग्रमागः । इति हेम-
चन्द्रः ॥ अङ्गुष्ठः । इत्युणादिकोषः ॥

अङ्गुलितोरणं क्ली, (अङ्गुलेः तोरणं वहिर्द्वारमिव

षष्ठीतत्पुरुषः) चन्दनादिद्वारा ललाटे कृतोऽर्द्ध-
चन्द्रः । इति हारावली ॥
पृष्ठ १/०१६

अङ्गुलिमुद्रा, स्त्री, (अङ्गुलेः मुदं लक्षणया धारयितु-

र्हर्षं राति ददाति या अङ्गुलिमुद् + रा + कर्त्तरि
कः) साक्षरोर्म्मिका । प्रभुनाम्ना स्वनाम्ना वा अ-
ङ्कितमङ्गुरीयकं । छापेर आङ्गुटी मोहरखोदा
आङ्गुटी इति भाषा । इत्यमरः ॥

अङ्गुलिमुद्रिका, स्त्री, (अङ्गुलिमुद्रा + स्वार्थे कः)

अङ्गुलिमुद्रा । इत्यमरटीकायां रमानाथः ॥

अङ्गुलिमोटनं, क्ली, (अङ्गुल्योर्म्मोटनं मर्द्दनं यस्मिन्

तत् बहुव्रीहिः) अङ्गुलिद्वयमर्द्दनजातशब्दः । आ-
ङ्गुलमट्कान इति भाषा । तत्पर्य्यायः । पुच्छटी २ ।
इति त्रिकाण्डशेषः ॥ स्वच्छटी ३ अङ्गुलिसन्देशः ४ ।
इति हारावली ॥ मुचुटी ५ । इति जटाधरः ॥
मुचुटीतु मुष्टिपर्य्याये हेमचन्द्रेण लिखिता ।

अङ्गुलिसन्देशः, पुं, (अङ्गुल्या आङ्गुलिघ्वनिना सन्देशः

मोटनं षष्ठीतत्पुरुषः सम् + दिश् + भावे घञ्)
अङ्गुलिमोटनं । इति हारावली ॥

अङ्गुली, स्त्री, (अङ्ग + उलिच् स्त्रियां वा ङीप् पक्षे

अङ्गुलिः) शरीरावयवविशेषः । आङ्गुल इति
भाषा । (रामायणे, --
“कनिष्ठायामप्यङ्गुल्यां भ्रातुर्मम स राक्षसः ॥
ज्वालाङ्गुलीभिर्भगवान् विष्टभ्यः स हुताशनः” ॥)
तत्पर्य्यायः । करशाखा २ । इत्यमरः ॥ (अङ्गुलिः ३
अङ्गुरिः ४ अङ्गुरी ५ अङ्गुलः ६ ।) इति तट्टीका ॥
सा क्रमेण पञ्चधा, यथा -- अङ्गुष्ठः १ तर्ज्जनी २
मध्यमा ३ अनामिका ४ कनिष्ठा ५ इत्यमर-
जटाधरौ ॥ हस्तिशुण्डाग्रं । इति मेदिनी ॥

अङ्गुलीकः, पुं, क्ली, (अङ्गुल्यां कायते निधीयते-

ऽसौ अङ्गुली + कै + घञर्थे कर्म्मणि कः) अङ्गु-
लीयकं । इति त्रिकाण्डशेषः ॥

अङ्गुलीपञ्चकं, क्ली, (पञ्चानामङ्गुलीनां समाहारः

द्विगुसमासः राजदन्तादित्वात् पञ्चशब्दस्य पर-
निपातः) हस्तस्य पञ्चाङ्गुलानि यथा, -- अङ्गुष्ठः १
प्रदेशिनी २ मध्यमा ३ अनामिका ४ कनिष्ठिका
५ । इति राजनिर्घण्टः ॥

अङ्गुलीयः, पुं, क्ली, (अङ्गुल्या अयं तत्रभवो वा अङ्गुली

+ छ तस्य ईयः) अङ्गुलीयकं । इत्यमरटीका ॥

अङ्गुलीयकं, क्ली पुं, (अङ्गुलीय + स्वार्थे कः) अ-

ङ्गुलिभूषणं । आङ्गुटी इति भाषा । तत्पर्य्यायः ।
ऊर्म्मिका २ । इत्यमरः ॥ अङ्गुरीयकं ३ अङ्गु-
रीयः ४ अङ्गुलीयः ५ । इति तट्टीका ॥ करा-
रोटः ६ अङ्गुलीकः ७ । इति त्रिकाण्डशेषः ॥
पुंसि प्रमाणं । अयं मैथिल्यभिज्ञानं काकुत्स्थस्या-
ङ्गुरीयकः । इति भट्टिः ॥

अङ्गुलीसम्भूतः, पुं, (अङ्गुल्यां सम्भूतः जातः सप्तमी-

तत्पुरुषः) नखः । इति राजनिर्घण्टः ॥

अङ्गुष्ठः, पुं, (अङ्गौ हस्ते मुख्यत्वेन तिष्ठति यः अङ्गु

+ कर्त्तरि कः अम्बाम्बगोभू इत्यादिना षत्वम्)
वृद्धाङ्गुलिः । इत्यमरः । वुडो आङ्गुल इति भाषा ।
(मनुः, --
“अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते” ।)

अङ्गूषः, पुं, (अङ्गति गच्छति अगि + ऊषन्)

नकुलः । बाणः । इत्युणादिकोषः ॥

अङ्घः, [स्] क्ली, (अङ्घ्यते टुर्गतिं गच्छत्यनेन अघि

+ सर्व्वधातुभ्योऽसुन् इति असुन्) अंहः । पापं ।
इत्युणादिकोषः ॥ (सूर्य्यशतके, --
“विदधतु घृणयः शीघ्रमङ्घोविघात” ।)

अङ्घिः, पुं, (अङ्घ्यते गच्छत्यनेन अघि + करणे इक्)

अङ्घ्रिः । इति विश्वः ॥

अङ्घ्रिः, पुं, (अङ्घ्यते गच्छत्यनेन अघि + करणे रिः)

पादः । (सूर्य्यशतके, -- “शीर्णघ्राणाङ्घ्रिपाणीन्” ।)
वृक्षमूलं । इति त्रिकाण्डशेषः ॥
अङ्घ्रिनाम, [न्] क्ली, (अङ्घ्रिरूपेण नमते जलाद्या-
कर्षणेन कल्पते यत् अङ्घ्रि + नम् + अन् णिच्च)
वृक्षमूलं । इति हेमचन्द्रः ॥

अङ्घ्रिनामकः, पुं, (अङ्घ्रिनाम + स्वार्थे कः) वृक्ष-

मूलं । इत्यमरः ॥

अङ्घ्रिपः, पुं, (अङ्घ्रिणा पिबति अङ्घ्रि + पा + ड)

वृक्षः । इति हेमचन्द्रः ॥

अङ्घ्रिपर्णी, स्त्री, (अङ्घ्रिवत् पर्ण्णं पत्रं यस्याः सा

बहुव्रीहिः स्त्रियां ङीप्) पृश्निपर्णी । चाकुलिया
इति ख्याता । इत्यमरटीकायां रमानाथः ॥

अङ्घ्रिवल्लिका, स्त्री, (अङ्घ्रिवत् वल्लिः उपमिति-

कर्म्मधारयः । स्वार्थेकः) चित्रपर्णीवृक्षः । चाकुलिया
इति भाषा । इत्यमरः ॥ अस्या रूपान्तरं अङ्घ्रि-
वल्लिः अङ्घ्रिवल्ली ॥

अच इ पूजायां । इति कविकल्पद्रुमः ॥ इ अ-

ञ्चते । अञ्चु गतिपूजनयोरिति पूजार्थो यः स
एवायं । इदित् पाठः पूजायां नलोपाभावात् ।
उदनुबन्धाभावश्च क्षुधवसपजार्थाञ्चेत्यादिना क्त्वा-
प्रत्ययस्य निष्ठायाश्च नित्येम्बिधानात् । इति दुर्गा-
दासः ॥

अच इ ञ गतौ । म्लिष्टोक्तौ । इति कविकल्प-

द्रुमः ॥ इ अञ्च्यते । ञ अञ्चति अञ्चते । इति
दुर्गादासः ॥

अच उ ञ गतौ म्लिष्टोक्तौ । इति कविकल्प-

द्रुमः ॥ अचति अचते । उ अचित्वा (उदितो
वा इतीडभावपक्षे) अक्त्वा । म्लिष्टोक्तिरव्यक्त-
शब्दः । इति दुर्गादासः ॥

अचण्डी, स्त्री, (चडि कोपने पचाद्यच् इदित्त्वात्

नुम् स्त्रियां ङीप् न चण्डी नञ्समासः) सुशीला
गौः । शान्त गाइ इति भाषा । तत्पर्य्यायः
सुकरा २ । इत्यमरः ॥ अकोपना स्त्री ॥

अचलः, पुं, (चलति यः चल् + पचाद्यच् न चलः

नञ्समासः) पर्व्वतः । (रामायणे, --
“आससाद ततो रामं स्थितं शैलमिवाचलं” ।)
कीलकः । इति मेदिनी ॥ अकम्पे त्रि ॥ (शिवः,
स्थिरः । यदुक्तं, --
“न स्वरूपात् न सामर्थ्यात्
नच ज्ञानादिकात् गुणात् ।
चलनं विद्यते यस्ये-
त्यचलः कीर्त्तितोऽच्युतः” ॥
अविकारी, कूटस्थः) ।

अचलकीला, स्त्री, (अचलः सुमेरुपर्व्वतः कीलः

स्तम्भस्वरूपो यस्याः सा बहुव्रीहिः । कीलो
लेशे द्वयोः स्तम्भ इति मेदिनी) पृथिवी । इति
शब्दरत्नावली ॥

अचलत्विट्, [ष्] पुं, (अचला स्थिरा त्विट् यस्य सः

बहुव्रीहिः) कोकिलः । इति शब्दचन्द्रिका ॥

अचलभ्राता, [ऋ] पुं, बौद्धगणाधिपविशेषः । स

तु शेषजैनाचार्य्यस्य एकादशशिष्यान्तर्गतः । इति
हेमचन्द्रः ॥

अचला, स्त्री, (न चला नञ्समासः) पृथिवी । इति

मेदिनी ॥ यथा रामायणे, --
“पृथिवीमपि कामं तं ससागरवनाचलां” ।

अचिरद्युतिः, स्त्री, (अचिरा क्षणस्थायिनी द्युतिः

कान्तिर्यस्याः सा बहुव्रीहिः) विद्युत् । इति त्रि-
काण्डशेषः ॥

अचिरप्रभा, स्त्री, (अचिरा क्षणस्थायिनी प्रभा

कान्तिर्यस्याः सा बहुव्रीहिः) विद्युत् । इति हेम-
चन्द्रः ॥

अचिररोचिः, [स्] स्त्री, (अचिरा रोचिः कान्ति-

र्यस्याः सा बहुव्रीहिः) विद्युत् । इति जटाधरः ॥

अचिरा, स्त्री, (अचिं ज्ञानोपदेशं राति ददाति

या अचि + रा + कर्त्तरि क उपपदसमासः अच्
+ भावे इक्) अर्हतां मातृविशेषः । इति हेम-
चन्द्रः ॥

अचिरांशुः, स्त्री, (अचिराः क्षणस्थायिनः अंशवः

किरणा प्रभाः यस्याः सा बहुव्रीहिः ।) विद्युत् । इति
हलायुधः ॥ अचिरात् व्य अचिरं । शीघ्रं ।
अविलम्बं । यथा, --
“अचिरादुपकर्त्तुराचरे-
दथवात्मौपयिकीमुपक्रियां” ।
इति नैषधं ॥

अचिराभा, स्त्री, (अचिरा क्षणस्थायिनी आभा दी-

प्तिर्यस्याःसा बहुव्रीहिः) विद्युत् । इति हारावली ॥

अचेतनः, त्रि, (नास्ति चेतना ज्ञानं यस्य स बहु-

व्रीहिः) चेतनारहितः । चैतन्यशून्यः । अज्ञानः ।
यथा, --
“कामार्त्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु” ।
इति मेघदूतकाव्यं ॥ सेन्द्रियं चेतनं द्रव्यं निरि-
न्द्रियमचेतनं । इति चरकः ॥

अचैतन्यं, क्ली, (न चैतन्यं चेतना नञ्तत्पुरुषः)

निश्चेतना । चेतनाभावः । अज्ञानं । यथा, --
“अचैतन्यमिदं विश्वं चैतन्यं देवमेव यत् ।
न जानन्त्यपि शास्त्रज्ञा भ्रमन्त्येव हि केवलं” ॥
इति चैतन्यचन्द्रामृतं ॥ तद्वति त्रि ॥

अच्छं, व्य, (न च्छ्यति सम्मुखत्वात् दृष्टिं नावृणोति

न छो + घञर्थे कः नञ्तत्पुरुषः) आभिमुख्यं ।
साम्मुख्यं । इति मेदिनी ॥

अच्छः, त्रि, (न च्छ्यति निर्म्मलत्वात् दृष्टिं नावृणोति

नञ् + छो + कर्त्तरि कः उपपदसमासः) स्वच्छः ।
निर्म्मलः । इत्यमरः ॥ (अमरुशतके, अच्छकपोल-
मूलगलितैः) ।

अच्छः, पुं, (न च्छ्यति निम्मलत्वात् दृष्टिं नावृणोति

न + छो + कर्त्तरि कः उपपदसमासः) स्फटिकः ।
भालूकः । इति मेदिनी ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/अ&oldid=43877" इत्यस्माद् पुनः प्राप्तिः