शनिवज्रपंजरकवचम्

विकिस्रोतः तः

श्रीगणेशाय नमः
नीलांबरो नीलवपुः किरीटी गृधस्थितस्त्रासकरो धनुष्मान्।
चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद्वरदः प्रशान्तः॥१॥
ब्रह्मा उवाच॥ श्रुणुध्वमृषयः सर्वे शनिपीडाहरं महत्।
कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥२॥
कवचं देवतावास वज्रपंजरसंज्ञकम् ।
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ॥३॥
ॐ शिरो शनैश्चरः पातु भालं मे सूर्यनंदनः ।
नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ॥४॥
नासां वैवस्वतः पातु मुखं मे भास्करः सदा ।
स्निग्धकंठश्च मे कंठं भुजौ पातु महाभुजः ॥५॥
स्कंधौ पातु शनिश्चैव करौ पातु शुभप्रदः ।
वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ॥६॥
नाभिं ग्रहपतिः पातु मंदः पातु कटिं तथा ।
ऊरू ममांतकः पातु यमो जानुयुगं तथा॥७॥
पादौ मंदगतिः पातु सर्वांगं पातु पिप्पलः।
अङ्गोपाङ्गानि सर्वाणि रक्षेन् मे सूर्यनंदनः ॥८॥
इत्येतत्कवचं दिव्यं पठेत्सूर्यसुतस्य़ यः।
न तस्य जायते पीडा प्रीतो भवति सूर्यजः॥९॥
व्ययजन्मव्दितियस्थो मृत्युस्थानगतोऽपि वा ।
कलत्रस्थो गतो वापि सुप्रीतस्तु सदा शनिः ॥१०॥
अष्टमस्थे सूर्यसुते व्यये जन्मव्दितीयगे ।
कवचं पठते नित्यं न पीडा जायते क्वचित ॥११॥
इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा ।
व्दादशाष्टमजन्मस्थदोषान्नाशयते सदा ।
जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ॥१२॥
॥ इति श्रीब्रह्माण्डपुराणे ब्रह्मनारदसंवादे शनिवज्रपंजरकवचं संपूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=शनिवज्रपंजरकवचम्&oldid=209318" इत्यस्माद् प्रतिप्राप्तम्