शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ७/ब्राह्मणम् ३

विकिस्रोतः तः

६.७.३

अथैनमिति प्रगृह्णाति । एतद्वै देवा अकामयन्त पर्जन्यो रूपं स्यामेति त एतेनात्मना पर्जन्यो रूपमभवंस्तथैवैतद्यजमान एतेनात्मना पर्जन्यो रूपं भवति - ६.७.३.१

अक्रन्ददग्नि स्तनयन्निव द्यौरिति । क्रन्दतीव हि पर्जन्य स्तनयन्क्षामा रेरिहद्वीरुधः समञ्जन्निति क्षामा वै पर्जन्यो रेरिह्यमाणो वीरुधः समनक्ति सद्यो जज्ञानो वि हीमिद्धो अख्यदिति सद्यो वा एष जज्ञान इदं सर्वं विख्यापयत्या रोदसी भानुना भात्यन्तरितीमे वै द्यावापृथिवी रोदसी ते एष भानुना भाति परोबाहु प्रगृह्णाति परोबाहु हि पर्जन्यः - ६.७.३.२

अथैनमुपावहरति । एतद्वै योऽस्मिंलोके रसो यदुपजीवनं तेनैतत्सहोर्ध्व इमांल्लोकान्रोहत्यग्निर्वा अस्मिंलोके रसोऽग्निरुपजीवनं तद्यत्तावदेव स्यान्न हास्मिंलोके रसो नोपजीवनं स्यादथ यत्प्रत्यवरोहत्यस्मिन्नेवैतल्लोके रसमुपजीवनं दधाति - ६.७.३.३

यद्वेव प्रत्यवरोहति । एतद्वा एतदिमांल्लोकानित ऊर्ध्वो रोहति स स पराङिव रोहऽ
इयमु वै प्रतिष्ठा तद्यत्तावदेव स्यात्प्र हास्माल्लोकाद्यजमानश्च्यवेताथ यत्प्रत्यवरोहतीमामेवैतत्प्रतिष्ठामभिप्रत्यैत्यस्यामेवैतत्प्रतिष्ठायां प्रतितिष्ठति - ६.७.३.४

यदेवं प्रत्यवरोहति । एतद्वा एतदिमांल्लोकानित ऊर्द्ध्वो जयति स स पराङिव जयो
यो वै पराङेव जयत्यन्ये वै तस्य जितमन्ववस्यन्त्यथ य उभयथा जयति तस्य तत्र कामचरणं भवति तद्यत्प्रत्यवरोहतीमानेवैतल्लोकानितश्चोर्ध्वानमुतश्चार्वाचो जयति - ६.७.३.५

अग्नेऽभ्यावर्तिन् । अभि मा निवर्तस्वाग्ने अङ्गिरः पुनरूर्जा सह रय्येत्येतेन मा सर्वेणाभिनिवर्तस्वेत्येतच्चतुष्कृत्वः प्रत्यवरोहति चतुर्हि कृत्व ऊर्ध्वो रोहति तद्यावत्कृत्व ऊर्ध्वो रोहति तावत्कृत्वः प्रत्यवरोहति तमुपावहृत्योपरिनाभि धारयति तस्योक्तो बन्धुः - ६.७.३.६

अथैनमभिमन्त्रयते । आयुर्वा अग्निरायुरेवैतदात्मन्धत्त आ त्वाहार्षमित्या ह्येनं हरन्त्यन्तरभूरित्यायुरेवैतदात्मन्धत्ते ध्रुवस्तिष्ठाविचाचलिरित्यायुरेवैतद्ध्रुवमन्तरात्मन्धत्ते विशस्त्वा सर्वा वाञ्छन्त्वित्यन्नं वै विशोऽन्नं त्वा सर्वं वाञ्छत्वित्येतन्मा त्वद्राष्ट्रमधिभ्रशदिति श्रीर्वै राष्ट्रं मा त्वच्छ्रीरधिभ्रशदित्येतत् - ६.७.३.७

अथ शिक्यपाशं च रुक्मपाशं चोन्मुञ्चते । वारुणो वै पाशो वरुणपाशादेव तत्प्रमुच्यते वारुण्यऽर्चा स्वेनैव तदात्मना स्वया देवतया वरुणपाशात्प्रमुच्यत उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथायेति यथैव यजुस्तथा बन्धुरथा वयमादित्य व्रते तवानागसो अदितये स्यामेतीयं वा अदितिरनागसस्तुभ्यं चास्यै स्यामेत्येतत् - ६.७.३.८

अथैनमिति प्रगृह्णाति । एतद्वा एनमदो विकृत्येत ऊर्ध्वं प्राञ्चं प्रगृह्णाति तं तत इति प्रगृह्णाति तद्यत्तावदेवाभविष्यदत्र हैवैष व्यरंस्यताथ यदेनमिति प्रगृह्णाति तस्मादेष इतीत्वाऽथेति पुनरैति - ६.७.३.९

[१]अग्रे बृहन्नुषसामूर्ध्वो अस्थादिति । अग्रे ह्येष बृहन्नुषसामूर्ध्वस्तिष्ठति निर्जगन्वान्तमसो ज्योतिषागादिति निर्जगन्वान्वा एष रात्र्यै तमसोऽह्ना ज्योतिषैत्यग्निर्भानुना रुशता स्वङ्ग इत्यग्निर्वा एष भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्रा इतीमे वै लोका विश्वा सद्मानि तानेष जातऽ आपूरयति परोबाहु प्रगृह्णाति परोबाहु ह्येष इतोऽथैनमुपावहरतीमामेवैतत्प्रतिष्ठामभिप्रत्यैत्यस्यामेवैतत्प्रतिष्ठायां प्रतितिष्ठति जगत्या जगती हेमांल्लोकानमुतोऽर्वाचो व्यश्नुते - ६.७.३.१०

हंसः शुचिषदिति । असौ वा आदित्यो हंसः शुचिषद्वसुरन्तरिक्षसदिति वायुर्वै वसुरन्तरिक्षसद्धोता वेदिषदित्यग्निर्वै होता वेदिषदतिथिरिति सर्वेषां वा एष भूतानामतिथिर्दुरोणसदिति विषमसदित्येतन्नृषदिति प्राणो वै नृषन्मनुष्या नरस्तद्योऽयं मनुष्येषु प्राणोऽग्निस्तमेतदाह वरसदिति सर्वेषु ह्येष वरेषु सन्न ऋतसदिति सत्यसदित्येतद्व्योमसदिति सर्वेषु ह्येष व्योमसु सन्नोऽब्जा गोजा इत्यब्जाश्च ह्येष गोजाश्चऽर्तजा इति सत्यजा इत्येतदद्रिजा इत्यद्रिजा ह्येष ऋतमितिसत्यमित्येतद्बृहदिति निदधाति बृहद्ध्येष तद्यदेष तदेनमेतत्कृत्वा निदधाति - ६.७.३.११

द्वाभ्यामक्षराभ्याम् । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतन्निदधाति - ६.७.३.१२

अथैनमुपतिष्ठते । एतद्वा एनमेतल्लघूयतीव यदेनेन सहेति चेति चेमांल्लोकान्क्रमते तस्मा एवैतन्निह्नुतेऽहिंसायै - ६.७.३.१३

यद्वेवोपतिष्ठते । एतद्वै देवा अबिभयुर्यद्वै नोऽयमिमांल्लोकानन्तिकान्न हिंस्यादिति तदेभ्य एवैनमेतल्लोकेभ्योऽशमयंस्तथैवैनमयमेतदेभ्यो लोकेभ्यः शमयति - ६.७.३.१४

सीद त्वं मातुः । अस्या उपस्थेऽन्तरग्ने रुचा त्वं शिवो भूत्वा मह्यमग्ने अथो सीद शिवस्त्वमिति शिवः शिव इति शमयत्येवैनमेतदहिंसायै तथो हैष इमांल्लोकाञ्छान्तो न हिनस्ति - ६.७.३.१५

त्रिभिरुपतिष्ठते । त्रय इमे लोका अथो त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मा एतन्निह्नुतेऽथो तावतैवैनमेतदेभ्यो लोकेभ्यः शमयति - ६.७.३.१६



  1. वासं १२.१३