शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ८/ब्राह्मणं २

विकिस्रोतः तः

११.८.२ अग्नेश्चातुर्विध्याभिधायकं ब्राह्मणम्

चत्वारो ह वा अग्नयः। आहित उद्धृतः प्रहृतो विहृतोऽयमेव लोक आहितोऽन्तरिक्षलोक उद्धृतो द्यौष्प्रहृतो दिशो विहृतोऽग्निरेवाहितो वायुरुद्धृत आदित्यः प्रहृतश्चन्द्रमा विहृतो गार्हपत्य एवाहित आहवनीय उद्धृतोऽथ यमेतमाहवनीयात्प्राञ्चं प्रणयन्ति स प्रहृतोऽथ यमेतमुदञ्चम्पशुश्रपणायाहरन्ति यं चोपयङ्भ्यः स विहृतस्तस्मात्प्रहार्येऽग्नौ पशुबन्धेन यजेत - ११.८.२.१