सामग्री पर जाएँ

व्याकरणमहाभाष्यम्/अष्टाध्यायी-द्वितीयोऽध्यायः

विकिस्रोतः तः

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {1/28} विधिः इति कः अयम् शब्दः ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {2/28} विपूर्वात् धाञः कर्मसाधनः इकारः ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {3/28} विधीयते विधिः इति ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {4/28} किम् पुनः विधीयते ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {5/28} समासः विभक्तिविधानम् पराङ्गवद्भावः च ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {6/28} किम् पुनः अयम् अधिकारः आहोस्वित् परिभाषा ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {7/28} कः पुनः अधिकारपरिभाषयोः विशेषः ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {8/28} अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {9/28} परिभाषा पुनः एकदेशस्था सती सर्वम् शास्त्रम् अभिज्वलयति प्रदीपवत् ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {10/28} तत् यथा प्रदीपः सुप्रज्वलितः एकदेशस्थः सर्वम् वेश्म अभिज्वलयति ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {11/28} कः पुनः अत्र प्रयत्नविशेषः ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {12/28} अधिकारे सति स्वरयितव्यम् परिभाषायाम् पुनः सत्याम् सर्वम् अपेक्ष्यम् ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {13/28} तथा इदम् अपरम् द्वैतम् भवति ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {14/28} एकार्थीभावः वा सामर्थ्यम् स्यात् व्यपेक्षा वा इति ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {15/28} तत्र एकार्थीभावे सामर्थ्ये अधिकारे च सति समासः एकः सङ्गृहीतः भवति बिभक्तिविधानम् पराङ्गवद्भावः च असङ्गृहीतः ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {16/28} व्यपेक्षायाम् पुनः सामर्थ्ये अधिकारे च सति बिभक्तिविधानम् पराङ्गवद्भावः च सङ्गृहीतः समासः तु एकः असङ्गृहीतः ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {17/28} अन्यत्र खलु अपि समर्थग्रहणानि युक्तग्रहणानि च कर्तव्यानि भवन्ति ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {18/28} क्व अन्यत्र ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {19/28} इसुसोः सामर्थ्ये न चवाहाहैवयुक्ते इति ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {20/28} व्यपेक्षायाम् पुनः सामर्थ्ये परिभाषायाम् च सत्याम् यावान् व्याकरणे पदगन्धः अस्ति सः सर्वः सङ्गृहीतः भवति समासः तु एकः असङ्गृहीतः ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {21/28} तत्र एकार्थीभावः सामर्थ्यम् परिभाषा च इति एवम् सूत्रम् अभिन्नतरकम् भवति ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {22/28} एवम् अपि क्व चित् अकर्तव्यम् समर्थग्रहणम् क्रियते क्व चित् च कर्तव्यम् न क्रियते ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {23/28} अकर्तव्यम् तावत् क्रियते समर्थानाम् प्रथमात् वा इति ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {24/28} कर्तव्यम् च न क्रियते कर्मणि अण् समर्थात् इति ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {25/28} ननु च गम्यते तत्र सामर्थ्यम् ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {26/28} कुम्भकारः नगरकारः इति ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {27/28} सत्यम् गम्यते उत्पन्ने तु प्रत्यये ।

(P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {28/28} सः एव तावत् समर्थात् उत्पाद्यः ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {1/96} अथ समर्थग्रहणम् किमर्थम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {2/96} वक्ष्यति द्वितीया श्रितादिभिः समस्यते ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {3/96} कष्टश्रितः नरकश्रितः इति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {4/96} समर्थग्रहणम् किमर्थम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {5/96} पश्य देवदत्त कष्टम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {6/96} श्रितः विष्णुमित्रः गुरुकुलम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {7/96} तृतीया तत्कृतार्थेन गुणवचनेन ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {8/96} शङ्कुलाखण्डः किरिकाणः ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {9/96} समर्थग्रहणम् किमर्थम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {10/96} तिष्ठ त्वम् शङ्कुलया ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {11/96} खण्डः धावति मुसलेन ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {12/96} चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {13/96} गोहितम् अश्रहितम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {14/96} समर्थग्रहणम् किमर्थम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {15/96} सुखम् गोभ्यः ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {16/96} हितम् देवदत्ताय ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {17/96} पञ्चमी भयेन ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {18/96} वृकभयम् दस्युभयम् चोरभयम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {19/96} समर्थग्रहणम् किमर्थम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {20/96} गच्छ त्वम् मा वृकेभ्यः ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {21/96} भयम् देवदत्तस्य यज्ञदत्तात् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {22/96} षष्ठी सुबन्तेन समस्यते : राजपुरुषः , ब्राह्मणकम्बलः ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {23/96} समर्थग्रहणम् किमर्थम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {24/96} भार्या राज्ञः ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {25/96} पुरुषः देवदत्तस्य ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {26/96} सप्तमी शौण्डैः : अक्षशौण्डः , स्त्रीशौण्डः ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {27/96} समर्थग्रहणम् किमर्थम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {28/96} कुशलः देवदत्तः अक्षेषु ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {29/96} शौण्डः पिबति पानागारे ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {30/96} अथ क्रियमाणे अपि समर्थग्रहणे इह कस्मात् न भवति महत् कष्टम् श्रितः इति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {31/96} न वा भवति महाकष्टश्रितः इति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {32/96} भवति यदा एतत् वाक्यम् भवति : महत् कष्टम् महाकष्टम् , महाकष्टम् श्रितः महाकष्टश्रितः इति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {33/96} यदा तु एतत् वाक्यम् भवति : महत् कष्टम् श्रितः इति तदा न भवितव्यम् तदा च प्रप्नोति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {34/96} तदा कस्मात् न भवति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {35/96} कस्य कस्मात् न भवति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {36/96} किम् द्वयोः आहोस्वित् बहूनाम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {37/96} बहूनाम् कस्मात् न भवति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {38/96} सुप् सुपा इति वर्तते ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {39/96} ननु च भोः आकृतौ शास्त्राणि प्रवर्तन्ते ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {40/96} तत् यथा प्रातिपदिकात् इति वर्तमाने अन्यस्मात् च अन्यस्मात् च प्रातिपदिकात् उत्पत्तिः भवति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {41/96} सत्यम् एतत् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {42/96} आकृतिः तु प्रत्येकम् परिसमाप्यते ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {43/96} यावति एतत् परिसमाप्यते प्रातिपदिकात् इति तावतः उत्पत्त्या भवितव्यम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {44/96} प्रत्येकम् च एतत् परिसमाप्यते न समुदाये ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {45/96} एवम् इह अपि यावति एतत् परिसमाप्यते सुप् सुपा इति तावतः समासेन भवितव्यम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {46/96} द्वयोः द्वयोः च एतत् परिसमाप्यते न बहुषु ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {47/96} द्वयोः तर्हि कस्मात् न भवति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {48/96} असामर्थ्यात् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {49/96} कथम् असामर्थ्यम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {50/96} सापेक्षम् असमर्थम् भवति इति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {51/96} यदि सापेक्षम् असमर्थम् भवति इति उच्यते राजपुरुषः अभिरूपः राजपुरुषः दर्शनीयः अत्र वृत्तिः न प्राप्नोति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {52/96} न एषः दोषः ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {53/96} प्रधानम् अत्र सापेक्षम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {54/96} भवति च प्रधानस्य सापेक्षस्य अपि समासः ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {55/96} यत्र तर्हि अप्रधानम् सापेक्षम् भवति तत्र ते वृत्तिः न प्राप्नोति : देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {56/96} न एषः दोषः ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {57/96} समुदायपेक्षा अत्र षष्ट्ःी सर्वम् गुरुकुलम् अपेक्षते ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {58/96} यत्र तर्हि न समुदायपेक्षा षष्ट्ःी तत्र वृत्तिः न प्राप्नोति : किम् ओदनः शालीनाम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {59/96} सक्त्वाढकम् आपणीयानाम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {60/96} कुतः भवान् पाटलिपुत्रकः ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {61/96} इह च अपि : देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति : यदि एषा समुदायपेक्षा षष्ट्ःी स्यात् न एतत् नियोगतः गम्येत देवदत्तस्य यः गुरुः तस्य यः पुत्रः इति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {62/96} किम् तर्हि ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {63/96} अन्यस्य अपि गुरुपुत्रः देवदत्तस्य किम् चित् इति एषः अर्थः गम्येत ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {64/96} यतः तु नियोगतः देवदत्तस्य यः गुरुः तस्य यः पुत्रः इति एषः अर्थः गम्यते अतः मन्यामहे न समुदायपेक्षा षष्ट्ःी इति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {65/96} अन्यत्र खलु अपि समर्थग्रहणे सापेक्षस्य अपि कार्यम् भवति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {66/96} क्व अन्यत्र ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {67/96} इसुसोः सामर्थ्ये ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {68/96} ब्राहमणस्य सर्पिः करोति इति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {69/96} तस्मात् न अएत शक्यक् वक्तुम् सापेक्षम् असमर्थम् भवति इति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {70/96} वृत्तिः तर्हि कस्मात् न भवति महत् कष्टम् श्रितः इति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {71/96} सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति वक्तव्यम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {72/96} यदि सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति उच्यते देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्या इति अत्र वृत्तिः न प्राप्नोति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {73/96} अगुरुकुलपुत्रादीनाम् इति वक्तव्यम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {74/96} तत् तर्हि वक्तव्यम् सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते अगुरुकुलपुत्रादीनाम् इति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {75/96} न वक्तव्यम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {76/96} वृत्तिः तर्हि कस्मात् न भवति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {77/96} अगमकत्वात् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {78/96} इह समानार्थेन वाक्येन भवितव्यम् समासेन च ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {79/96} यः च इह अर्थः वाक्येन गम्यते महत् कष्टम् श्रितः इति न जातु चित् समासेन असौ गम्यते महत् कष्टश्रितः इति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {80/96} एतस्मात् हेतोः ब्रूमः अगमकत्वात् इति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {81/96} न ब्रूमः अपशब्दः स्यात् इति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {82/96} यत्र गमकः भवति भवति तत्र वृत्तिः ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {83/96} तत् यथा : देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {84/96} यदि अगमकत्वम् हेतुः न अर्थः समर्थग्रहणेन ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {85/96} इह अपि भार्या राज्ञः पुरुषः देवदत्तस्य इति यः अर्थः वाक्येन गम्यते न असौ जातु चित् समासेन असौ गम्यते भार्य राजपुरुषः देवदत्तस्य इति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {86/96} तस्मात् न अर्थः समर्थग्रहणेन ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {87/96} इदम् तर्हि प्रयोजनम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {88/96} अस्ति असमर्थसमासः नञ्समासः गमकः ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {89/96} तस्य साधुत्वम् मा भूत् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {90/96} अकिञ्चित् कुर्वाणम् अमाषम् हरमाणम् अगाधात् उत्सृष्टम् इति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {91/96} एतत् अपि न अस्ति प्रयोजनम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {92/96} अवश्यम् कस्य चित् नञ्समासस्य गमकस्य साधुत्वम् वक्तव्यम् ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {93/96} असूर्यम्पश्यानि मुखानि अपुनर्गेयाः श्लोकाः अश्राद्धभोजी अलवणभोजी ब्राह्मणः ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {94/96} सुट् अनपुंसकस्य एतत् नियमार्थम् भविष्यति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {95/96} एतस्य एव असमर्थसमासस्य नञ्समासस्य गमकस्य साधुत्वम् भवति न अन्यस्य इति ।

(P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {96/96} तस्मान् न अर्थः समर्थग्रहणेन ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {1/109} अथ क्रियमाणे अपि समर्थग्रहणे समर्थम् इति उच्यते किम् समर्थम् नाम ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {2/109} पृथगर्थानाम् एकार्थीभावः समर्थवचनम्

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {3/109} पृथगर्थानाम् पदानम् एकार्थीभावः समर्थम् इति उच्यते ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {4/109} वाक्ये पृथगर्थानि राज्ञः पुरुषः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {5/109} समासे पुनः एकार्थानि राजपुरुषः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {6/109} किम् उच्यते पृथगर्थानि इति यावता राज्ञः पुरुषः आनीयताम् इति उक्ते राजपुरुषः इति च सः एव ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {7/109} न अपि ब्रूमः अन्यस्य आनयनम् भवति इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {8/109} कः तर्हि एकार्थीभावकृतः विशेषः ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {9/109} सुबलोपः व्यवधानम् यथेष्टम् अन्यतरेण अभिसम्बन्धः स्वरः

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {10/109} सुपः अलोपः भवति वाक्ये ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {11/109} राज्ञः पुरुषः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {12/109} समासे पुनः न भवति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {13/109} राजपुरुषः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {14/109} व्यवधानम् च भवति वाक्ये ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {15/109} राज्ञः ऋद्धस्य पुरुषः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {16/109} समासे न भवति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {17/109} राजपुरुषः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {18/109} यथेष्टम् अन्यतरेण अभिसम्बन्धः भवति वाक्ये ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {19/109} रज्ञः पुरुषः पुरुषः राज्ञः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {20/109} समासे न भवति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {21/109} राजपुरुषः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {22/109} द्वौ स्वरौ भवतः वाक्ये ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {23/109} रज्ञः पुरुषः ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {24/109} समासे पुनः एकः एव ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {25/109} राजपुरुषः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {26/109} न एते एकार्थीभावकृताः विशेषाः ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {27/109} किम् तर्हि ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {28/109} वाचनिकानि एतानि ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {29/109} आह हि भगवान् सुपः धातुप्रातिपदिकयोः उपसर्जनम् पूर्वम् समासस्य अन्तः उदात्तः भवति इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {30/109} इमे तर्हि एकार्थीभाव्कृताः विशेषाः ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {31/109} सङ्ख्याविशेषः व्यक्ताभिदानम् ल्कुपसर्जनविशेषणम् चयोगः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {32/109} सङ्ख्याविशेषः भवति वाक्ये ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {33/109} राज्ञः पुरुषः राज्ञोः पुरुषः राज्ञाम् पुरुषः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {34/109} समासे न भवति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {35/109} राजपुरुषः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {36/109} अस्ति कारणम् येन एतत् एवम् भवति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {37/109} किम् कारणम् ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {38/109} यः असौ विशेषवाची शब्दः तदसान्निध्यात् ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {39/109} अङ्ग हि भवान् तम् उच्चारयतु गंस्यते सः विशेषः ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {40/109} ननु च न एतेन एवम् भवितव्यम् ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {41/109} न हि शब्दकृतेन नाम अर्थेन भवितव्यम् ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {42/109} अर्थकृतेन नाम शब्देन भवितव्यम् ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {43/109} तत् एतत् एवम् दृश्यताम् ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {44/109} अर्थरूपम् एव एतत् एवञ्जातीयकम् येन अत्र विशेषः न गम्यते इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {45/109} अवश्यम् च एतत् एवम् विज्ञेयम् ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {46/109} यः हि मन्यते यः असौ विशेषवाची शब्दः तदसान्निध्यात् अत्र विशेषः न गम्यते इति इह तस्य विशेषः गम्येत : अप्सुचरः गोषुचरः वर्षासुजः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {47/109} व्यक्ताभिधानम् भवति वाक्ये ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {48/109} ब्राह्मणस्य कम्बलः तिष्ठति इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {49/109} समासे पुनः अव्यक्तम् ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {50/109} ब्राह्मणकम्बलः तिष्ठति इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {51/109} सन्देहः भवति सम्बुद्धिः स्यात् षष्ठीसमासः वा इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {52/109} एषः अपि अविशेषः ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {53/109} भवति हि किम् चित् वाक्ये अव्यक्तम् तत् च समासे व्यक्तम् ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {54/109} वाक्ये तावत् अव्यक्तम् ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {55/109} अर्धम् पशोः देवदत्तस्य इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {56/109} सन्देहः भवति पशुगुणस्य वा देवदत्तस्य यत् अर्धम् अर्थ वा यः असौ सञ्ज्ञीभूतः पशुः नाम तस्य यत् अर्धम् इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {57/109} तत् च समासे व्यक्तम् भवति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {58/109} अर्ध्हपशुः देवदत्तस्य इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {59/109} उपसर्जनविशेषणम् भवति वाक्ये ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {60/109} ऋद्धस्य राज्ञः पुरुषः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {61/109} समासे न भवति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {62/109} राजपुरुषः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {63/109} एषः अपि अदोषः ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {64/109} समासे अपि उपसर्जनविशेषणम् भवति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {65/109} तत् यथा देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्या इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {66/109} चयोगः भवति वाक्ये ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {67/109} स्वचयोगः स्वामिचयोगः च ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {68/109} स्वचयोगः राज्ञः गौः च अश्वः च पुरुषः च इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {69/109} समासे न भवति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {70/109} राज्ञः गवाश्वपुरुषाः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {71/109} स्वामिचयोगः देवदत्तस्य च यज्ञदत्तस्य च विष्णुमित्रस्य च गौः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {72/109} समासे न भवति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {73/109} देवदत्तयज्ञदत्तविष्णुमित्राणाम् गौः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {74/109} अथ एतस्मिन् एकार्थीभाव्कृते विशेषे किम् स्वाभाविकम् शब्दैः अर्थाभिधानम् आहोस्वित् वाचनिकम् ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {75/109} स्वाभाविकम् इति आह ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {76/109} कुतः एतत् ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {77/109} अर्थानादेशात् ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {78/109} न हि अर्थाः आदिश्यन्ते ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {79/109} कथम् पुनः अर्थान् आदिशन् एवम् ब्रूयात् न अर्थाः आदिश्यन्ते इत् ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {80/109} यत् आह भवान् अनेकम् अन्यपदार्थे चार्थे द्वन्द्वः अपत्ये रक्ते निर्वृत्ते इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {81/109} न एतानि अर्थादेशनानि ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {82/109} स्वभावतः एतेषाम् शब्दानाम् एतेषु अर्थेषु अभिनिविष्टानाम् निमित्तत्वेन अन्वाख्यानम् क्रियते ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {83/109} तत् यथा ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {84/109} कूपे हस्तदक्षिणः पन्थाः ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {85/109} अभ्रे चन्द्रमसम् पश्य इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {86/109} स्वभावतः तत्रस्थस्य पथः चन्द्रमसः च निमित्तत्वेन अन्वाख्यानम् क्रियते ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {87/109} एवम् इह अपि चार्थे यः सः द्वन्द्वसमासः अन्यपदार्थः यः सः बहुव्रीहिः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {88/109} किम् पुन कारणम् न आदिश्यन्ते ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {89/109} तत् च लघ्वर्थम् ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {90/109} लघ्वर्थम् हि अर्थाः न आदिश्यन्ते ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {91/109} अवश्यम् हि अनेन अर्थान् आदिशता केन चित् शब्देन निर्देशः कर्तव्यः स्यात् ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {92/109} तस्य च तावत् केन कृतः येन असौ क्रियते ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {93/109} अथ तस्य केन चित् कृतः तस्य केन कृतः इति अनवस्था ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {94/109} असम्भवः खलु अपि आदेशः तस्य ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {95/109} कः हि नाम समर्थः धातुप्रातिपदिकप्रत्ययनिपातानाम् अर्थान् आदेष्टुम् ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {96/109} न च एतत् मन्तव्यम् प्रत्ययार्थे निर्दिष्टे प्रकृत्यर्थः अनिर्दिष्टः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {97/109} भवति हि गुणाभिधाने गुणिनः सम्प्रत्ययः ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {98/109} तत् यथा शुक्लः कृष्णः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {99/109} विषमः उपन्यासः ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {100/109} सामान्यशब्दाः एते एवम् स्युः ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {101/109} सामन्यशब्दाः च न अन्तरेण विशेषम् प्रकरणम् वा विशेषेषु अवतिष्ठन्ते ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {102/109} यतः तु खलु नियोगतः वृक्षः इति उक्ते स्वभावतः कस्मिन् चित् एव विशेषे वृक्षशब्दः वर्तते अतः मन्यामहे न इमे सामान्यशब्दाः इति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {103/109} न चेत् सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे वर्तते ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {104/109} अप्रवृत्तिः खलु अपि अर्थादेशनस्य ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {105/109} बहवः हि शब्दाः येषाम् अर्थाः न विज्ञायन्ते ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {106/109} जर्भरी तुर्फरीतू ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {107/109} अन्तरेण खलु अपि शब्दप्रयोगम् बहवः अर्थाः गम्यन्ते अक्षिनिकोचैः पाणिविहारैः च ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {108/109} न खलु अपि निर्ज्ञातस्य अर्थस्य अन्व्याख्यने किम् चित् प्रयोजनम् अस्ति ।

(P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {109/109} यः हि ब्रूयात् पुरस्तात् आदित्यः उदेति पश्चात् अस्तम् एति मधुरः गुडः कटुकम् शृङ्गवेरम् इति किम् तेन कृतम् स्यात् ।

(P_2,1.1.4) KA_I,364.1-5 Ro_II,516 {1/9} वावचनानर्थक्यम् च स्वभावसिद्धत्वात्

(P_2,1.1.4) KA_I,364.1-5 Ro_II,516 {2/9} वावचनानर्थक्यम् ।

(P_2,1.1.4) KA_I,364.1-5 Ro_II,516 {3/9} किम् कारणम् ।

(P_2,1.1.4) KA_I,364.1-5 Ro_II,516 {4/9} स्वभावसिद्धत्वात् ।

(P_2,1.1.4) KA_I,364.1-5 Ro_II,516 {5/9} इह द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च ।

(P_2,1.1.4) KA_I,364.1-5 Ro_II,516 {6/9} स्वभावतः च एतत् भवति वाक्यम् च समासः च ।

(P_2,1.1.4) KA_I,364.1-5 Ro_II,516 {7/9} तत्र स्वाभाविके वृत्तिविषये नित्ये समासे प्रप्ते वावचनेन किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः ।

(P_2,1.1.4) KA_I,364.1-5 Ro_II,516 {8/9} न च सञ्ज्ञायाः भावाभावौ इष्येते ।

(P_2,1.1.4) KA_I,364.1-5 Ro_II,516 {9/9} तस्मात् न अर्थः वा वचनेन

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {1/65} अथ ये वृत्तिम् वर्तयन्ति किम् ते आहुः ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {2/65} परार्थाभिधानम् वृत्तिः इति आहुः ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {3/65} अथ तेषाम् एवम् ब्रुवताम् किम् जहत्स्वार्था वृत्तिः आहोस्वित् अजहत्स्वार्था ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {4/65} किम् च अतः ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {5/65} यदि जहत्स्वार्था वृत्तिः राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् प्राप्नोति औपगवम् आनय इति उक्ते अपत्यमात्रस्य ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {6/65} अथ अजहत्स्वार्था वृत्तिः उभयोः विद्यमानस्वार्थयोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {7/65} का पुनः वृत्तिः न्याय्या ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {8/65} जहत्स्वार्था ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {9/65} युक्तम् पुनः यत् जहत्स्वार्था नाम वृत्तिः स्यात् ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {10/65} बाढम् युक्तम् ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {11/65} एवम् हि दृश्यते लोके ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {12/65} पुरुषः अयम् परकर्मणि प्रवर्तमानः स्वम् कर्म जहाति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {13/65} तत् यथा तक्षा राजकर्मणि वर्तमानः स्वम् कर्म जहाति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {14/65} एवम् युक्तम् यत् राजा पुरुषार्थे वर्तमानः स्वम् अर्थम् जह्यात् उपगुः च अपर्त्यार्थे वर्तमानः स्वम् अर्थम् जह्यात् ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {15/65} ननु च उक्तम् राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् प्राप्नोति औपगवम् आनय इति उक्ते अपत्यमात्रस्य इति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {16/65} न एषः दोषः ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {17/65} जहत् अपि असौ स्वार्थम् न अत्यन्ताय जहाति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {18/65} यः परार्थविरोधी स्वार्थः तम् जहाति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {19/65} तत् यथा तक्षा राजकर्मणि वर्तमानः स्वम् तक्षकर्म जहाति न हिक्कितहसितकण्डूयितानि ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {20/65} न च अयम् अर्थः परार्थविरोधी विशेषणम् नाम ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {21/65} तस्मात् न हास्यति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {22/65} अथ वा अन्वयात् विशेषणम् भविष्यति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {23/65} तत् यथा ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {24/65} घृतघटः तैलघटः इति निषिक्ते घृते तैले वा अन्व्ययात् विशेषणम् भवति अयम् घृतघटः अयम् तैलघटः इति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {25/65} विषमः उपन्यासः ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {26/65} भवति हि तत्र या च यावती च अर्थमात्रा ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {27/65} अङ्ग हि भवान् अग्नौ निष्टप्य घृतघटम् तृणकूर्चेन प्रक्षालयतु ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {28/65} न गंस्यते सः विशेषः ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {29/65} यथा तर्हि मल्लिकापुटः चम्पकपुतः इति निष्कीर्णासु अपि सुमनःसु अन्वयात् विशेषणम् भवति अयम् मल्लिकपुटः अयम् चम्पकपुटः इति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {30/65} अथ वा समर्थाधिकारः अयम् वृत्तौ क्रियते ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {31/65} सामर्थम् नम भेदः संसर्गः वा ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {32/65} अपरः आह : भेदसंसर्गौ वा सामर्थ्यम् इति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {33/65} कः पुनः भेदः संसर्गः वा ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {34/65} इह राज्ञः इति उक्ते सर्वम् स्वम् प्रसक्तम् पुरुषः इति उक्ते सर्वः स्वामि प्रसक्तः ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {35/65} इह इदानीम् राजपुरुषः इति उक्ते राजा पुरुषम् निवर्तयति अन्येभ्यः स्वामिभ्यः पुरुषः अपि राजानम् अन्येभ्यः स्वेभ्यः ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {36/65} एवम् एतस्मिन् उभयतः व्यवच्छिन्ने यदि जहाति कामम् जहातु ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {37/65} न जातु चित् पुरुषमात्रस्य आनयनम् भविष्यति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {38/65} अथ वा पुनः अस्तु अजहत्स्वार्था वृत्तिः ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {39/65} युक्तम् पुनः यत् अजहत्स्वार्था नाम वृत्तिः स्यात् ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {40/65} बाढम् युक्तम् ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {41/65} एवम् हि दृश्यते लोके ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {42/65} भिक्षुकः अयम् द्वितीयाम् भिक्षाम् आसाद्य पूर्वाम् न जहाति सञ्चयाय प्रवर्तते ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {43/65} ननु च उक्तम् उभयोः विद्यमानस्वार्थयोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति इति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {44/65} कस्याः पुनः द्विवचनम् प्राप्नोति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {45/65} प्रथामायाः ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {46/65} न प्रथमासमर्थः राजा ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {47/65} षष्ठ्याः तर्हि ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {48/65} न षष्ठीसमर्थः पुरुषः ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {49/65} प्रथमायाः एव तर्हि प्राप्नोति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {50/65} ननु च उक्तम् न प्रथमासमर्थः राजा इति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {51/65} अभिनिहितः सः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {52/65} तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमायाः एव द्विवचनम् प्राप्नोति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {53/65} सङ्घातस्य ऐकार्थ्यात् न अवयवसङ्ख्यातः सुबुत्पत्तिः

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {54/65} सङ्घातस्य एकत्वम् अर्थः ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {55/65} तेन अवयवसङ्ख्यातः सुबुत्पत्तिः न भविष्यति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {56/65} परस्परव्यपेक्षा सामर्थ्येम् एके

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {57/65} परस्परव्यपेक्षा सामर्थ्येम् एके इच्छन्ति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {58/65} का पुनः शब्दयोः व्यपेक्षा ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {59/65} न ब्रूमः शब्दयोः इति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {60/65} किम् तर्हि ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {61/65} अर्थयोः ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {62/65} इह राज्ञः पुरुषः इति उक्ते राजा पुरुषम् अपेक्षते मम अयम् इति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {63/65} पुरुषः अपि राजानम् अपेक्षते अहम् अस्य इति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {64/65} तयोः अभिसम्बन्धस्य षष्ठी वाचिका भवति ।

(P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {65/65} तथा कष्टम् श्रितः इति क्रियाकारकयोः अभिसम्बन्धस्य द्वितीया वाचिका भवति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {1/91} अथ यदि एव एकार्थीभावः सामर्थ्यम् अथ अपि व्यपेक्षा सामर्थ्यम् किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {2/91} गतम् इति आह ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {3/91} कथम् ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {4/91} समः अयम् अर्थशब्देन सह समासः ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {5/91} सम् च उपसर्गः ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {6/91} उपसर्गाः च पुनः एवमात्मकाः यत्र कः चित् क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषम् आहुः ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {7/91} न च इह कः चित् क्रियावाची शब्दः प्रयुज्यते येन समः सामर्थ्यम् स्यात् ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {8/91} तत्र प्रयोगात् एतत् गन्तव्यम् नूनम् अत्र कः चित् प्रयोगार्हः शब्दः न प्रयुज्यते येन समः सामर्थ्यम् इति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {9/91} तत् यथा ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {10/91} धूमम् दृष्ट्वा अग्निः अत्र इति गम्यते त्रिविष्टब्धकम् च दृष्ट्वा परिव्राजकः इति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {11/91} कः पुनः असौ प्रयोगार्हः शब्दः ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {12/91} उच्यते ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {13/91} सङ्गतार्थम् समर्थम् संसृष्टार्थम् समर्थम् सम्प्रेक्षितम् अर्थम् समर्थम् सम्बद्धार्थम् समर्थम् इति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {14/91} तत् यदा तावत् एकार्थीभावः सामर्थ्यम् तदा एवम् विग्रहः करिष्यते सङ्गतार्थः संसृष्टार्थः समर्थः इति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {15/91} तत् यथा सङ्गतम् घृतम् सङ्गतम् तैलम् इति उच्यते ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {16/91} एकीभूतम् इति गम्यते ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {17/91} यदा व्यपेक्षा सामर्थ्यम् तदा एवम् विग्रहः करिष्यते सम्प्रेक्षितार्थः समर्थः सम्बद्धार्थः समर्थः इति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {18/91} कः पुनः इह बध्नात्यर्थः ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {19/91} सम्बद्धः इति उच्यते यः रज्ज्वा अयसा वा कीले व्यतिषिक्तः भवति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {20/91} न अवश्यम् बध्नातिः व्यतिषङ्गे एव वर्तते ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {21/91} किम् तर्हि ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {22/91} अहानौ अपि वर्तते ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {23/91} तत् यथा सम्बद्धौ इमौ दम्यौ इति उच्येते यौ अन्योन्यम् न जहीतः ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {24/91} अथ वा भवति च एवञ्जातीयकेषु बध्नातिः वर्तते ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {25/91} तत् यथा ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {26/91} अस्ति नः गर्गैः सम्बन्धः ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {27/91} अस्ति नः वत्सैः सम्बन्धः ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {28/91} संयोगः इति अर्थः ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {29/91} अथ एतस्मिन् व्यपेक्षायाम् सामर्थ्ये यः असौ एकार्थीभाव्कृतः विशेषः स वक्तव्यः ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {30/91} तत्र नानाकारकात् निघातयुष्मदस्मदादेशेप्रतिषेधः

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {31/91} तत्र एतस्मिन् व्यपेक्षायाम् सामर्थ्ये नानाकारकात् निघातयुष्मदस्मदादेशाः प्राप्नुवन्ति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {32/91} तेषाम् प्रतिषेधः वक्तव्यः ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {33/91} निघातः ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {34/91} अयम् दण्डः ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {35/91} हर अनेन ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {36/91} अस्ति दण्डस्य हरतेः च व्यपेक्षा इति कृत्वा निघातः प्राप्नोति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {37/91} युष्मदस्मदादेशाः ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {38/91} ओदनम् पच ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {39/91} तव भविष्यति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {40/91} ओदनम् पच मम भविष्यति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {41/91} अस्ति ओदनस्य युष्मदस्मदोः च व्यपेक्षा इति कृत्वा वाम्नावादयः प्राप्नुवन्ति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {42/91} तेषाम् प्रतिषेधः वक्तव्यः ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {43/91} किम् उच्यते नानाकारकात् इति यदा तेन एव आसज्य ह्रियते ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {44/91} न अपि ब्रूमः अन्येन आसज्य ह्रियते इति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {45/91} किम् तर्हि ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {46/91} शब्दप्रमाणकाः वयम् ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {47/91} यत् शब्दः आह तत् अस्माकम् प्रमाणम् ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {48/91} शब्दः च इह सत्ताम् आह ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {49/91} अयम् दण्डः ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {50/91} अस्ति इति गम्यते ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {51/91} सः दण्डः कर्ता भूत्वा अन्येन शब्देन अभिसम्बध्यमानः करणम् सम्पद्यते ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {52/91} तत् यथा ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {53/91} कः चित् कम् चित् पृच्छति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {54/91} क्व देवदत्तः इति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {55/91} सः तस्मै आचष्टे ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {56/91} असौ वृक्षे इति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {57/91} कतरस्मिन् ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {58/91} यः तिष्ठति इति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {59/91} सः वृक्षः अधिकरणम् भूत्वा अन्येन शब्देन अभिसम्बध्यमानः कर्ता सम्पद्यते ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {60/91} प् रचये समासप्रतिषेधः

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {61/91} प्रचये समासप्रतिषेधः वक्तव्यः ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {62/91} राज्ञः गौः च अश्वः च पुरुषः च राजगवाश्वपुरुषाः इति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {63/91} समर्थतराणाम् वा

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {64/91} समर्थतराणाम् वा पदानाम् समासः भविष्यति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {65/91} कानि पुनः समर्थतराणि ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {66/91} यानि द्वन्द्वभावीनि ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {67/91} कुतः एतत् ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {68/91} एषाम् हि आशुतरा वृत्तिः प्राप्नोति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {69/91} तत् यथा समर्थतरः अयम् माणवकः अध्ययनाय इति उच्यते ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {70/91} आश्रुतरग्रन्थः इति गम्यते ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {71/91} अपरः आह : समर्थतराणाम् वा पदानाम् समासः भविष्यति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {72/91} कानि पुनः समर्थतराणि ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {73/91} यानि द्वन्द्वभावीनि ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {74/91} कुतः एतत् ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {75/91} एतानि समानविभक्तीनि अन्यविभक्तिः राजा ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {76/91} भवति विशेषः स्वस्मिन् भ्रातरि पितृव्यपुत्रे च ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {77/91} समुदायसामर्थ्यात् वा सिद्धम् षमुदायसामर्थ्यात् वा पुनः सिद्धम् एतत् ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {78/91} समुदायेन राज्ञः सामर्थ्यम् भवति न अवयवेन ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {79/91} अपरः आह ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {80/91} समर्थतराणाम् वा समुदायसामर्थ्यात् ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {81/91} समर्थतराणाम् वा पदानाम् समासः भवति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {82/91} कुतः एतत् ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {83/91} समुदायसामर्थ्यात् एव ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {84/91} अस्मिन् पक्षे वा इति एतत् असमर्थितम् भवति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {85/91} एतत् च समर्थितम् ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {86/91} कथम् ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {87/91} न एव वा पुनः अत्र राज्ञः अश्वपुरुषौ अपेक्षमाणस्य गवा सह समासः भवति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {88/91} किम् तर्हि ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {89/91} गोः राजानम् अपेक्षमाणस्य आस्वपुरुषाभ्याम् समासः समासः भवति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {90/91} प्रधानम् अत्र तद गौः भवति ।

(P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {91/91} भवति च प्रधानस्य सापेक्षस्य अपि समासः ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {1/79} आख्यातम् साव्ययकारकविशेषणम् वाक्यम्

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {2/79} आख्यातम् साव्ययम् सकारकम् सकारकविशेषणम् वाक्यसञ्ज्ञम् भवति वक्तव्यम् ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {3/79} साव्ययम् ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {4/79} उच्चैः पठति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {5/79} नीचैः पठति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {6/79} सकारकम् ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {7/79} ओदनम् पचति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {8/79} सकारकविशेषणम् ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {9/79} ओदनम् मृदु विशदम् पचति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {10/79} सक्रियाविशेषणम् च इति वक्तव्यम् ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {11/79} सुष्ठु पचति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {12/79} दुष्ठु पचति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {13/79} अपरः आह : आख्यातम् सविशेषणम् इति एव ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {14/79} सर्वाणि हि एतानि क्रियाविशेषणानि ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {15/79} एकतिङ्

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {16/79} एकतिङ् वाक्यसञ्ज्ञम् भवति वक्तव्यम् ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {17/79} ब्रूहि ब्रूहि ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {18/79} समानवाक्ये निघातयुष्मदस्मदादेशाः

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {19/79} समानवाक्ये इति प्रकृत्य निघातयुष्मदस्मदादेशाः वक्तव्याः ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {20/79} किम् प्रयोजनम् ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {21/79} नानावाक्ये मा भूवन् निघातादयः इति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {22/79} अयम् दण्डः ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {23/79} हर अनेन ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {24/79} ओदनम् पच ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {25/79} तव भविष्यति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {26/79} ओदनम् पच ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {27/79} मम भविष्यति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {28/79} योगे प्रतिषेधः चादिभिः

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {29/79} चादिभिः योगे प्रतिषेधः वक्तव्यः ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {30/79} ग्रामः तव च स्वम् मम च स्वम् ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {31/79} किमर्थम् इचम् उच्यते ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {32/79} यथान्यासम् एव चादिभिः योगे प्रतिषेधः उच्यते ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {33/79} इदम् अद्य अपूर्वम् क्रियते वाक्यसञ्ज्ञा समानवाक्याधिकारः च ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {34/79} तत् द्वेष्यम् विजानीयात् : सर्वम् एतत् विकल्पते इति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {35/79} तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे चादिभिः योगे यथान्यासम् एव भवति इति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {36/79} समर्थनिघाते हि समानाधिकरणयुक्तयुक्तेषु उपसङ्ख्यानम् असमर्थत्वात्

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {37/79} समर्थनिघाते हि समानाधिकरणयुक्तयुक्तेषु उपसङ्ख्यानम् कर्तव्यम् स्यात् ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {38/79} समानाधिकरणे ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {39/79} पटवे ते दास्यामि ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {40/79} म्र्दवे ते दास्यामि ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {41/79} समानाधिकरणे ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {42/79} युक्तयुक्ते ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {43/79} नद्याः तिष्ठति कूले ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {44/79} वृक्षस्य लम्बते शाखा ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {45/79} शालीनाम् ते ओदनम् ददामि ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {46/79} शालीनाम् मे ओदनम् ददाति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {47/79} किम् पुनः कारणम् न सिध्यति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {48/79} असमर्थत्वात् ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {49/79} राजगवीक्षीरे द्विसमासप्रसङ्गः द्विषष्ठीभावात्

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {50/79} राजगवीक्षीरे द्विसमासप्रसङ्गः ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {51/79} किम् कारणम् ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {52/79} द्विषष्ठीभावात् ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {53/79} द्वे हि अत्र षष्ठ्यौ ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {54/79} राज्ञः गोः क्षीरम् इति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {55/79} किम् उच्यते द्विसमासप्रसङ्गः इति यावता सुप् सह सुपा इति वर्तते ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {56/79} द्विसमासप्रसङ्गः इति न एवम् विज्ञायते द्वयोः सुबन्तयोः समासप्रसङ्गः द्विसमासप्रसङ्गः इति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {57/79} कथम् तर्हि ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {58/79} द्विप्रकारस्य समासस्य प्रसङ्गः द्विसमासप्रसङ्गः इति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {59/79} राजगोक्षीरम् इति अपि प्राप्नोति न च एवम् भवितव्यम् ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {60/79} भवितव्यम् च यदा एतत् वाक्यम् भवति गोः क्षीरम् गोक्षीरम् राज्ञः गोक्षीरम् राजगोक्षीरम् इति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {61/79} यदा तु एतत् वाक्यम् भवति राज्ञः गोः क्षीरम् इति तदा न भवितव्यम् तदा च प्राप्नोति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {62/79} तदा कस्मात् न भवति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {63/79} सिद्धम् तु राजविशिष्टायाः गोः क्षीरेण सामर्थ्यात्

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {64/79} सिद्धम् एतत् ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {65/79} कथम् ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {66/79} राजविशिष्टायाः गोः क्षीरेण सह समासः भवति न केवलायाः ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {67/79} किम् वक्तव्यम् एतत् ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {68/79} न हि ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {69/79} कथम् अनुच्यमानम् गंस्यते ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {70/79} यथा एव अयम् गवि यतते न क्षीरमात्रेण सन्तोषम् करोति एवम् राजनि अपि यतते ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {71/79} राज्ञः या गौः तस्याः यत् क्षीरम् इति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {72/79} न एव वा पुनः अत्र गोः राजानम् अपेक्षमाणायाः क्षीरेण सह समासः प्राप्नोति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {73/79} किम् कारणम् ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {74/79} असामर्थ्यात् ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {75/79} कथम् असामर्थ्यम् ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {76/79} सापेक्षम् असमर्थम् भवति इति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {77/79} कथम् तर्हि गोः क्षीरम् अपेक्षमाणायाः राज्ञा सह समासः भवति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {78/79} प्रधानम् अत्र तद गौः भवति ।

(P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {79/79} भवति च प्रधानस्य सापेक्षस्य अपि समासः

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {1/30} अथ किमर्थम् पदविधौ समर्थाधिकारः क्रियते ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {2/30} पदविधौ समर्थवचनम् वर्णाश्रये शास्त्रे आनन्तर्यविज्ञानात् । पदविधौ समर्थाधिकारः क्रियते वर्णाश्रये शास्त्रे आनन्तर्यमात्रे कार्यम् यथा विज्ञायेत ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {3/30} तिष्ठतु दधि अशान त्वम् शाकेन ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {4/30} तिष्ठतु कुमारी छत्रम् हर देवदत्त इति ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {5/30} समर्थाधिकारस्य विधेयसामानाधिकरण्यात् निर्देशानर्थक्यम्

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {6/30} समर्थाधिकारः अयम् विधेयेन समानाधिकरणः ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {7/30} किम् च विधेयम् ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {8/30} समासः ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {9/30} यावत् ब्रूयात् समर्थः समासः इति तावत् समर्थः पदविधिः ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {10/30} न च राजपुरुषः इति एतस्याम् अवस्थायाम् समर्थाधिकारेण किम् चित् अपि शक्यम् प्रवर्तयितुम् निवर्तयितुम् वा ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {11/30} समर्थाधिकारस्य विधेयसामानाधिकरण्यात् निर्देशः अनर्थकः ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {12/30} सिद्धम् तु समर्थानाम् इति वचनात्

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {13/30} सिद्धम् एतत् ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {14/30} कथम् ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {15/30} समर्थानाम् पदानाम् विधिः इति वक्तव्यम् ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {16/30} एवम् अपि द्व्येकयोः न प्राप्नोति ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {17/30} एकशेषनिर्देशात् वा

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {18/30} अथ वा एकशेषनिर्देशः अयम्। समर्थस्य च समर्थयोः च समर्थानाम् च समर्थानाम् इति ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {19/30} एवम् अपि षट्प्रभृतीनाम् एव प्राप्नोति ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {20/30} षट्प्रभृतिषु हि एकशेषः परिसमाप्यते ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {21/30} न एषः दोषः ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {22/30} प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति द्व्येकयोः अपि भविष्यति ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {23/30} एवम् अपि विविभक्तीनाम् न प्राप्नोति ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {24/30} समर्थात् समर्थे पदात् पदे इति ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {25/30} एवम् तर्हि समर्थपदयोः विधिशब्देन सर्वविभक्त्यन्तः समासः : समर्थस्य विधिः समर्थविधिः , समर्थयोः विधिः समर्थविधिः , समर्थात् विधिः समर्थविधिः , समर्थे विधिः समर्थ्विधिः ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {26/30} पदस्य विधिः पदविधिः , पदयोः विधिः पदविधिः , पदानाम् विधिः पदविधिः , पदात् विधिः पदविधिः , पदे विधिः पदविधिः ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {27/30} समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {28/30} पदविधिः च पदविधिः च पदविधिः च पदविधिः च पदविधिः च पदविधिः ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {29/30} समर्थविधिः च पदविधिः च समर्थः पदविधिः ।

(P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {30/30} पूर्वः समासः उत्तरपदलोपी यादृच्छिकीविभक्तिः ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {1/90} समानाधिकरणेषु उपसङ्ख्यानम् असमर्थत्वात्

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {2/90} समानाधिकरणेषु उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {3/90} वीरः पूरुषः वीरपुरुषः ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {4/90} किम् पुनः कारणम् न सिध्यति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {5/90} असमर्थत्वात् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {6/90} कथम् असमर्थत्वम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {7/90} द्रव्यम् पदार्थः इति चेत् । यदि द्रव्यम् पदार्थः न भवति तदा सामर्थ्यम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {8/90} अथ हि गुणः पदार्थः भवति तदा सामर्थ्यम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {9/90} अन्यः हि वीरत्वम् गुणः अन्यः हि पुरुषत्वम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {10/90} न अन्यत्वम् अस्ति इति इयता सामर्थ्यम् भवति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {11/90} अन्यः हि देवदत्तः गोभ्यः अश्वेभ्यः च न च तस्य एतावता सामर्थम् भवति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {12/90} कः वा विशेषः यत् गुणे पदार्थे सामर्थ्यम् स्यात् द्रव्ये च न स्यात् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {13/90} एषः विशेषः ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {14/90} एकम् तयोः अधिकरणम् अन्यः च वीरत्वम् गुणः अन्यः पुरुषत्वम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {15/90} द्रव्यपदार्थिकस्य अपि तर्हि गुणभेदात् सामर्थ्यम् भविष्यति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {16/90} अशक्यः द्रव्यपदार्थिकेन द्रव्यस्य गुणकृतः उपकारः प्रतिज्ञातुम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {17/90} ननु च अभ्यन्तरः असौ भवति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {18/90} यदि अपि अभ्यन्तरः न तु गम्यते ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {19/90} न हि गुडः इति उक्ते मधुरत्वम् गम्यते शृङ्गवेरम् इति वा कटुकत्वम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {20/90} गुणपदार्थिकेन अपि तर्हि अशक्यः गुणस्य द्रव्यकृतः उपकारः प्रतिज्ञातुम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {21/90} अथ गुणपदार्थिकः प्रतिजानीते द्रव्यपदार्थिकः अपि कस्मात् न प्रतिजानीते ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {22/90} एवम् अनयोः सामर्थ्यम् स्यात् वा न वा ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {23/90} क्व च तावत् इदम् स्यात् समानाधिकरणेन इति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {24/90} यत्र सर्वम् समामन् : इन्द्रः शक्रः पुरुहूतः पुरन्दरः ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {25/90} कन्दुः कोष्ठः कुशूलः इति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {26/90} न एवञ्जातीयकानाम् समासेन भवितव्यम् प्रत्ययेन वा उत्पत्तव्यम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {27/90} किम् कारणम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {28/90} अर्थगत्यर्थः शब्दप्रयोगः ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {29/90} अर्थम् प्रत्याययिष्यामि इति शब्दः प्रयुज्यते ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {30/90} तत्र एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {31/90} किम् कारणम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {32/90} उक्तार्थानाम् अप्रयोगः इति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {33/90} न तर्हि इदानीम् इदम् भवति भृत्यभरणीयः इति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {34/90} न एतौ समानार्थौ ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {35/90} एकः अत्र शक्यार्थे कृत्यः भवति अपरः अर्हत्यर्थे : शक्यः भर्तुम् भृत्यः ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {36/90} अर्हति भृतिम् भरणीयः ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {37/90} भृत्यः भरणीयः भृत्यभरणीयः इति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {38/90} यदि तर्हि यत्र किम् चित् समानम् कः चित् विशेषः तत्र भवितव्यम् इह अपि तर्हि प्राप्नोति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {39/90} दर्शनीयायाः माता दर्शनीयमाता इति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {40/90} अत्र अपि किम् चित् समानम् कः चित् विशेषः ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {41/90} किम् पुनः तत् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {42/90} सद्भावान्यभावौ ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {43/90} न क्व चित् सद्भावान्यभावौ न स्तः उच्यते च समानाधिकरणेन इति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {44/90} तत्र प्रकर्षगतिः विज्ञास्यते : यत्र साधीयः सामानाधिकरण्यम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {45/90} क्व च साधीयः सामानाधिकरण्यम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {46/90} यत्र सर्वम् समानम् सद्भावान्यभावौ द्रव्यम् च। अथ वा समानाधिकरणेन इति तत् समानम् आश्रीयते यत् समानम् भवति न च भवति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {47/90} न च एतत् समानम् क्व चित् अपि न भवति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {48/90} अथ वा यावत् ब्रूयात् समानद्रव्येण इति तावत् समानाधिकरणेन इति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {49/90} द्रव्यम् हि लोके अधिकरणम् इति उच्यते ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {50/90} तत् यथा ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {51/90} एकस्मिन् द्रव्ये व्युदितम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {52/90} एकस्मिन् अधिकरणे व्युदितम् इति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {53/90} तथा व्याकरणे विप्रतिषिद्धम् च अनधिकरणवाचि इति अद्रव्यवाचि इति गम्यते ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {54/90} एवम् अपि इदम् अवश्यम् कर्तव्यम् समानाधिकरणम् असमर्थवत् भवति इति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {55/90} किम् प्रयोजनम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {56/90} सर्पिः कालकम् यजुः पीतकम् इति एवमर्थम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {57/90} यदि समानाधिकरणम् असमर्थवत् भवति इति उच्यते सर्पिः पीयते यजुः क्रियते इति अत्र षत्वम् न प्राप्नोति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {58/90} अधात्वभिहितम् इति एवम् तत् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {59/90} एवम् च कृत्वा समानाधिकरणेषु उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {60/90} वीरः पूरुषः वीरपुरुषः ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {61/90} किम् कारणम् असमर्थत्वात् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {62/90} न वा वचनप्रामाण्यात्

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {63/90} न वा कर्तव्यम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {64/90} किम् कारणम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {65/90} वचनप्रामाण्यात् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {66/90} वचनप्रामाण्यात् अत्र समासः भविष्यति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {67/90} किम् वचनप्रामाण्यम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {68/90} समानमध्यमध्यमवीराः च इति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {69/90} लुप्ताख्यातेषु च

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {70/90} लुप्ताख्यातेषु च उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {71/90} निष्कौशाम्बिः निर्वाराणसिः ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {72/90} लुप्ताख्यातेषु च ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {73/90} किम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {74/90} वचनप्रामाण्यात् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {75/90} किम् वचनप्रामाण्यम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {76/90} कुगतिप्रादयः च इति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {77/90} अस्ति अन्यत् एतस्य वचने प्रयोजनम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {78/90} किम् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {79/90} सुराजा अतिराजा इति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {80/90} न ब्रूमः वृत्तिसूत्रवचनप्रामाण्यात् इति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {81/90} किम् तर्हि ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {82/90} वार्त्तिकवचनप्रामाण्यात् इति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {83/90} सिद्धम् तु क्वाङ्क्स्वतिदुर्गतिवचनात् प्रादयः क्तार्थे इति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {84/90} तदर्थगतेः वा

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {85/90} तदर्थगतेः वा पुनः सिद्धम् एतत् ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {86/90} किम् इदम् तदर्थगतेः इति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {87/90} तस्य अर्थः तदर्थः तदर्थस्य गतिः तदर्थगतिः तदर्थगतेः इति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {88/90} यस्य अर्थस्य कौशाम्ब्या सामर्थ्यम् सः निसा उच्यते ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {89/90} अथ वा सः अर्थः तदर्थः तदर्थस्य गतिः तदर्थगतिः तदर्थगतेः इति ।

(P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {90/90} यः अर्थः कौशाम्ब्या समर्थः सः निसा उच्यते ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {1/110} अथ यत्र बहूनाम् समासप्रसङ्गः किम् तत्र द्वयोः द्वयोः समासः भवति आहोस्वित् अविशेषेण ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {2/110} कः च अत्र विशेषः ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {3/110} समासः द्वयोः द्वयोः चेत् द्वन्द्वे अनेकग्रहणम्

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {4/110} समासः द्वयोः द्वयोः चेत् द्वन्द्वे अनेकग्रहणम् कर्तव्यम् ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {5/110} चर्थे द्वन्द्वः ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {6/110} अनेकम् इति वक्तव्यम् इह अपि यथा स्यात् ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {7/110} प्लक्षन्यग्रोधखदिरपलाशाः इति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {8/110} न एषः दोषः ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {9/110} अत्र अपि द्वयोः द्वयोः समासः भविष्यति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {10/110} द्वयोः द्वयोः समासः इति चेत् न बहुषु द्वित्वाभावात्

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {11/110} द्वयोः द्वयोः समासः इति चेत् तत् न ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {12/110} किम् कारणम् ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {13/110} बहुषु द्वित्वाभावात् ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {14/110} न बहुषु द्वित्वम् अस्ति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {15/110} न अवश्यम् एवम् विग्रहः कर्तव्यः : प्लक्षः च न्यग्रोधः च खदिरः च पलाशः च इति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {16/110} किम् तर्हि एवम् विघ्रहः करिष्यते : प्लक्षः च न्यग्रोधः च प्लक्षन्यग्रोधौ खदिरः च पलाशः च खदिरपलाशौ प्लक्षन्यग्रोधौ च खदिरपलाशौ प्लक्षन्यग्रोधखदिरपलाशाः इति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {17/110} होतृपोतृनेष्टोद्गातारः तर्हि न सिध्यन्ति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {18/110} होतापोतानेष्टोद्गातारः इति प्राप्नोति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {19/110} न च एवम् भवितव्यम् ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {20/110} भवितव्यम् च यदा एवम् विग्रहः क्रियते होता च पोता च होतापोतारौ नेष्टा च उद्गाता च नेष्टोद्गातारौ होतापोतारौ च नेष्टोद्गातारौ च होतापोतानेष्टोद्गातारः इति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {21/110} होतृपोतृनेष्टोद्गातारः तु न सिध्यन्ति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {22/110} समासान्तप्रतिषेधः च

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {23/110} समासान्तस्य च प्रतिषेधः वक्तव्यः ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {24/110} वाक्त्वक्स्रुग्दृषदम् इति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {25/110} वाक्त्वचस्रुग्दृषदम् इति प्राप्नोति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {26/110} न एषः दोषः ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {27/110} अत्र अपि परेण परेण सह समासः भविष्यति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {28/110} स्रुक् च दृषदम् च स्रुग्दृषदम् त्वक् च स्रुग्दृषदम् च त्वक्स्रुग्दृषदम् वाक् च त्वक्स्रुग्दृषदम् च वाक्त्वक्स्रुग्दृषदम् इति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {29/110} होतृपोतृनेष्टोद्गातारः एवम् तर्हि सिध्यन्ति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {30/110} इह च सुसुक्ष्मजटकेशेन सुनताजिवासना समन्तशितिरन्ध्रेण द्वयोः वृत्तौ न सिध्यति

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {31/110} अस्तु तर्हि अविशेषेण ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {32/110} अविशेषेण बहुव्रीहौ अनेकपदप्रसङ्गः

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {33/110} यदि अविशेषेण बहुव्रीहौ अनेकपदप्रसङ्गः ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {34/110} तत्र कः दोषः ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {35/110} तत्र स्वरसमासान्तपुंवद्भावेषु दोषः

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {36/110} तत्र स्वरसमासान्तपुंवद्भावेषु दोषः भवति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {37/110} स्वर ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {38/110} पूर्वशालाप्रियः अपरशालाप्रियः ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {39/110} स्वर ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {40/110} समासान्त ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {41/110} पञ्चगवप्रियः ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {42/110} समासान्त ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {43/110} पुंवद्भाव ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {44/110} खादिरेतरशम्यम् रौरवेतर्शम्यम् ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {45/110} न वा अवयवतत्पुरुषत्वात् । न वा एषः दोषः ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {46/110} किम् कारणम् ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {47/110} अवयवतत्पुरुषत्वात् ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {48/110} अवयवः अत्र तत्पुरुषसञ्ज्ञः तदाश्रयौ समासान्तपुंवद्भावौ भविष्यतः ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {49/110} स्वरः कथम् ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {50/110} तस्य अन्तोदात्तत्वम् विप्रतिषेधात्

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {51/110} अन्तोदात्तत्वम् क्रियताम् पूर्वपदप्रकृतिस्वरः इति अन्तोदात्तत्वम् भवति विप्रतिषेधेन ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {52/110} न एषः युक्तः विप्रतिषेधः ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {53/110} विप्रतिषेधे परम् इति उच्यते ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {54/110} पूर्वम् च अन्तोदात्तत्वम् परम् पूर्वपदप्रकृतिस्वरत्वम् ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {55/110} न परविप्रतिषेधम् ब्रूमः ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {56/110} किम् तर्हि ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {57/110} अन्तरङ्गविप्रतिषेधम् ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {58/110} निमित्तिस्वरबलीयस्त्वात् वा

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {59/110} अथ वा निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति वक्तव्यम् ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {60/110} किम् पुनः निमित्तम् कः वा निमित्ती ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {61/110} बहुव्रीहिः निमित्तम् तत्पुरुषः निमित्ती ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {62/110} तत् तर्हि वक्तव्यम् निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {63/110} न वक्तव्यम् ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {64/110} एकशितिपात्स्वरवचनम् तु ज्ञापकम् निमित्तिस्वरबलीयस्त्वस्य

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {65/110} यत् अयम् युक्तारोह्यादिषु एकशितिपच्छब्दम् पठति तत् ज्ञापयति आचार्यः निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {66/110} कः पुनः अर्हति युक्तारोह्यादिषु एकशितिपच्छब्दम् पठितुम् ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {67/110} एवम् किल नाम पठ्यते एकः शितिः एकशितिः एकः शितिः पादः यस्य इति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {68/110} तत् च न ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {69/110} एवम् विग्रहः करिष्यते ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {70/110} एकः शितिः एषु ते इमे एकशितयः एकशितयः पादाः यस्य इति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {71/110} अथ अपि एवम् विग्रहः क्रियते एकः शितिः एकशितिः एकः शितिः पादः यस्य इति एवम् अपि न अर्थः पाठेन ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {72/110} इगन्ते द्विगौ इति एषः स्वरः अत्र बाधकः भविष्यति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {73/110} अस्य तर्हि बहुव्रीह्यवयवस्य तत्पुरुषञ्ज्ञा प्राप्नोति सुसुक्ष्मजटकेशेन सुनताजिवासना समन्तशितिरन्ध्रेण इति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {74/110} तत्र कः दोषः ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {75/110} तस्य अन्तोदात्तत्वम् विप्रतिषेधात् इति अन्तोदात्तत्वम् स्यात् विप्रतिषेधेन ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {76/110} न एषः दोषः ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {77/110} न इदम् बहुव्रीह्यवयवस्य तत्पुरुषस्य लक्षणम् आरभ्यते ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {78/110} किम् तर्हि ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {79/110} यस्य बहुव्रीह्यवयवस्य तत्पुरुषस्य तत् लक्षणम् अस्ति तस्य अन्तोदात्तत्वम् भविष्यति विप्रतिषेधेन ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {80/110} ननु च अस्य अपि अस्ति किम् विशेषणम् विशेष्येण बहुलम् इति। बहुलवचनात् न भविष्यति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {81/110} अस्य तर्हि बहुव्रीह्यवयवस्य तत्पुरुषञ्ज्ञा प्राप्नोति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {82/110} अधिकषष्टिवर्षः इति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {83/110} तत्र कः दोषः ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {84/110} तस्य अन्तोदात्तत्वम् विप्रतिषेधात् इति अन्तोदात्तत्वम् स्यात् विप्रतिषेधेन ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {85/110} न एषः दोषः ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {86/110} इगन्ते द्विगौ इति एषः स्वरः भविष्यति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {87/110} यः तर्हि न इगन्तः अधिकशतवर्षः इति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {88/110} इह च अपि अधिकषष्टिवर्षः इति समासन्तः प्राप्नोति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {89/110} डच्प्रकरणे सङ्ख्यायाः तत्पुरुषस्य उपसङ्ख्यानम् निस्त्रिंशाद्यर्थम् इति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {90/110} न एषः दोषः ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {91/110} अव्ययादेः इति एवम् तत् ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {92/110} किम् पुनः कारणम् अव्ययादेः इति एवम् तत् ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {93/110} इह मा भूत् गोत्रिंशत् गोचत्वारिंशत् इति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {94/110} बहुव्रीहिसञ्ज्ञा तर्हि प्राप्नोति। सङ्ख्यया अव्ययासन्नादूराधिकसङ्ह्याः सङ्ख्येये इति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {95/110} न सङ्ख्याम् सङ्ख्येये वर्तयिष्यामः ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {96/110} कथम् ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {97/110} एवम् विग्रहः करिष्यते अधिका षष्टिः वर्षाणाम् अस्य इति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {98/110} यथा तर्हि सः योगः प्रत्याख्यायते तथा पूर्वेण प्राप्नोति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {99/110} कथम् च सः योगः प्रत्याख्यायते ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {100/110} अशिष्यः सङ्ख्योत्तरपदः सङ्ख्या इव अभिधायित्वात् इति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {101/110} प्रत्याख्याते तस्मिन् योगे सङ्ख्याम् सङ्ख्येये वर्तयिष्यामः ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {102/110} तत्र एवम् विग्रहः करिष्यते अधिका षष्टिः वर्षाणि अस्य इति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {103/110} सर्वथ वयम् अधिकषष्टिवर्षात् न मुच्यामहे ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {104/110} कथम् ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {105/110} यावता सः च योगः प्रत्याख्यायते अयम् च विग्रहः अस्ति अधिका षष्टिः वर्षाणाम् अस्य इति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {106/110} यत् तु तत् उक्तम् अधिकषष्टिवर्षः न सिध्यति इति सः सिद्धः भवति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {107/110} कथम् ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {108/110} यावता सः च योगः प्रत्याख्यायते अयम् च विग्रहः अस्ति अधिका षष्टिः वर्षाणि अस्य इति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {109/110} अधिकशतवर्षः तु न सिध्यति ।

(P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {110/110} कर्तव्यः अत्र यत्नः

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {1/80} सुप् इति किमर्थम् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {2/80} करोषि अटन् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {3/80} न एतत् अस्ति ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {4/80} असामर्थ्यात् अत्र न भविष्यति ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {5/80} कथम् असामर्थ्यम् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {6/80} समानाधिकरणम् असमर्थवत् भवति इति ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {7/80} इदम् तर्हि ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {8/80} पीड्ये पीड्यमान ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {9/80} इदम् च अपि उदाहरणम् करोषि अटन् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {10/80} ननु च उक्तम् असामर्थ्यात् अत्र न भविष्यति ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {11/80} कथम् असामर्थ्यम् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {12/80} समानाधिकरणम् असमर्थवत् भवति इति ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {13/80} न एषः दोषः ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {14/80} अधात्वभिहितम् इति एवम् तत् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {15/80} आमन्त्रितस्य पराङ्ग्वद्भावे षष्ठ्यामन्त्रितकारकवचनम्

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {16/80} आमन्त्रितस्य पराङ्ग्वद्भावे षष्ठ्यन्तम् आमन्त्रितकारकम् च परस्य अङ्गवत् भवति इति वक्तव्यम् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {17/80} षष्थ्यन्तम् तावत् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {18/80} मद्राणाम् राजन् मगधानाम् राजन् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {19/80} आमन्त्रितकारकम् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {20/80} कुण्डेन अटन् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {21/80} न अस्ति अत्र विशेषः पराङ्गवद्भावे सति असति वा ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {22/80} इदम् तर्हि ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {23/80} परशुना वृश्चन् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {24/80} तन्निमित्तग्रहणम् वा

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {25/80} तन्निमित्तग्रहणम् वा कर्तव्यम्। आमन्त्रितनिमित्तम् परस्य अङ्गवत् भवति इति वक्तव्यम् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {26/80} तत् च अवश्यम् अन्यतरत् वक्तव्यम् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {27/80} अवचने हि सुबन्तमात्रप्रसङ्गः

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {28/80} अनुच्यमाने हि एतस्मिन् सुबन्त्रमात्रस्य पराङ्गवद्भावः प्राप्नोति ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {29/80} अस्य अपि प्रसज्येत ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {30/80} क्ष्त्रेण अग्ने स्वायुः संरभस्य मित्रेण अग्ने मित्रधेये यतस्व ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {31/80} किम् पुनः अत्र ज्यायः ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {32/80} तन्निमित्तग्रहणम् एव ज्यायः ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {33/80} इदम् अपि सिद्धम् भवति ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {34/80} गोषु स्वामिन् अश्वेषु स्वामिन् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {35/80} एतत् हि न एव षष्थ्यन्तम् न अपि आमन्त्रितकारकम् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {36/80} सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्य उपसङ्ख्यनम् अननन्तरत्वात्

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {37/80} सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्य उपसङ्ख्यनम् कर्तव्यम् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {38/80} तीक्ष्णया सूच्या सीव्यन् तीक्ष्णेन परशुना वृश्चन् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {39/80} किम् पुनः कारणम् न सिध्यति ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {40/80} अननन्तरत्वात् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {41/80} ननु च परस्य पराङ्गवद्भावे कृते पूर्वस्य अपि भविष्यति ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {42/80} स्वरे अवधारणात् च

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {43/80} स्वरे अवधारणात् च न सिध्यति ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {44/80} स्वरे अवधारणम् क्रियते न आनन्तर्ये ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {45/80} परम् अपि छन्दसि

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {46/80} परम् अपि छन्दसि पूर्वस्य अङ्गवत् भवति इति वक्तव्यम् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {47/80} आ ते पितः मरुताम् सुम्नम् एतु ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {48/80} प्रति त्वा दुहितः दिवः ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {49/80} वृणीष्व दुहितः दिवः ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {50/80} अव्ययप्रतिषेधः च

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {51/80} अव्ययानाम् च प्रतिषेधः वक्तव्यः ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {52/80} उच्चैः अधीयान नीचैः अधीयान ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {53/80} अनव्ययीभावस्य

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {54/80} अनव्ययीभावस्य इति वक्तव्यम् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {55/80} इह मा भूत् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {56/80} उपाग्नि अधीयान प्रत्यग्नि अधीयान ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {57/80} अथ किमर्थम् स्वरे अवधारणम् क्रियते ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {58/80} स्वरे अवधारणम् सुबलोपार्थम्

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {59/80} स्वरे अवधारणम् क्रियते सुब्लः मा भूत् इति ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {60/80} परशुना वृश्चन् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {61/80} न वा सुबन्तैकान्तत्वात्

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {62/80} न वा कर्तव्यम् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {63/80} किम् कारणम् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {64/80} सुबन्तैकान्तत्वात् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {65/80} सुबन्तैकान्तः पराङ्गवद्भावः भवति ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {66/80} प्रातिपदिकैकान्तः तु सुब्लोपे

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {67/80} प्रातिपदिकैकान्तः तु भवति सुब्लोपे कृते ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {68/80} प्रत्ययलक्षणेन सुबन्तैकान्तता स्यात् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {69/80} तस्मात् स्वरे अवधारणम् न कर्तव्यम् सुबलोपार्थम् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {70/80} प्रातिपदिकस्थायाः सुपः लुक् उच्यते ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {71/80} तस्मात् स्वरग्रहणेन न अर्थः ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {72/80} इदम् तर्हि प्रयोजनम् षत्वणत्वे मा भूताम् इति ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {73/80} कूपे सिञ्चन् चर्म नमन् इति ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {74/80} एतत् अपि न अस्ति प्रयोजनम् ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {75/80} इह तावत् कूपे सिञ्चन् इति स्वाश्रयम् पदादित्वम् भविष्यति ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {76/80} चर्म नमन् इति पूर्वपदात् सञ्ज्ञायाम् अगः इति एतस्मात् नियमात् न भविष्यति ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {77/80} ननु च समासे एतत् भवति पूर्वपदम् उत्तरपदम् इति ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {78/80} न इति आह ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {79/80} अविशेषेण एतत् भवति ।

(P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {80/80} पूर्वम् पदम् पूर्वपदम् उत्तरम् पदम् उत्तरपदम् इति ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {1/32} प्राग्वचनम् किमर्थम् ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {2/32} प्राग्वचनम् सञ्ज्ञानिवृत्त्यर्थम्

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {3/32} प्राग्वचनम् क्रियते समाससञ्ज्ञायाः अनिवृत्तिः यथा स्यात् ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {4/32} अक्रियमाणे हि प्राग्वचने अनवकाशाः अव्ययीभावादयः सञ्ज्ञाः समाससञ्ज्ञाम् बाधेरन् ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {5/32} ताः मा बाधिषत इति प्राग्वचनम् क्रियते ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {6/32} अथ क्रियमाणे अपि प्राग्वचने यावता अनवकाशाः अव्ययीभावादयः सञ्ज्ञाः कस्मात् एव न बाधन्ते ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {7/32} क्रियमाणे हि प्राग्वचने सत्याम् समाससञ्ज्ञायाम् एताः अवयवसञ्ज्ञाः आरभ्यन्ते ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {8/32} तत्र वचनसमावेशः भविष्यति ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {9/32} समाससञ्ज्ञा अपि अनवकाशा ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {10/32} सा वचनात् भविष्यति ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {11/32} सावकाशा समाससञ्ज्ञा ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {12/32} कः अवकाशः ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {13/32} विस्पष्टादीनि अवकाशः ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {14/32} विस्पष्टम् पटुः विस्पष्टपटुः इति ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {15/32} न एषः अस्ति अवकाशः ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {16/32} एषा हि आचार्यस्य शैली लक्ष्यते येन एव अवयवकार्यम् भवति तेन एव समुदायकार्यम् अपि भवति ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {17/32} येन एव अवयवकार्यम् स्वरः तेन एव समुदाकार्यम् अपि समासः भविष्यति ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {18/32} विस्पष्टादीनि गुणवचनेषु इति ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {19/32} इदम् तर्हि काकतालीयम् अजाकृपाणीयम् ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {20/32} अत्र अपि येन एव अवयवकार्यम् प्रत्ययोत्पत्तिः क्रियते तेन एव समुदाकार्यम् समाससञ्ज्ञा भविष्यति ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {21/32} समासात् च तद्विषयात् ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {22/32} इदम् तर्हि पुनाराजः पुनर्गवः ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {23/32} अत्र अपि अवश्यम् तत्पुरुषसञ्ज्ञा वक्तव्य तत्पुरुषाश्रयः समासान्तः यथा स्यात् ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {24/32} इदम् तर्हि ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {25/32} पुनराधेयम् ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {26/32} अत्र अपि अवश्यम् गतिसञ्ज्ञा वक्तव्या गतिकारकोपपदात् कृत् इति एषः स्वरः यथा स्यात् ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {27/32} इदम् तर्हि पुनरुत्स्यूतम् वासः देयम् ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {28/32} अत्र अपि अवश्यम् गतिसञ्ज्ञा वक्तव्या गतिः गतौ इति निघातः यथा स्यात् ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {29/32} यदि तत् न अस्ति पुनश्चनसौ छन्दसि इति। सति तस्मिन् तेन एव सिद्धम् ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {30/32} एवम् अपि एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {31/32} पर्यायः प्रसज्येत ।

(P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {32/32} तस्मात् प्राग्वचनम् कर्तव्यम् ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {1/27} सहवचनम् किमर्थम् ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {2/27} सहवचनम् पृथक् असमासार्थम्

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {3/27} सहग्रहणम् क्रियते सहभूतयोः समासञ्ज्ञा यथा स्यात् एकैकस्य मा भूत् इति ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {4/27} किम् च स्यात् ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {5/27} यदि एकैकस्य समासञ्ज्ञा स्यात् इह ऋक्पादः इति समासान्तः प्रसज्येत ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {6/27} इह च राजाश्वः इति द्वौ स्वरौ स्याताम् ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {7/27} कथम् च कृत्वा एकैकस्य सञ्ज्ञा प्राप्नोति ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {8/27} प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {9/27} तत् यथा वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {10/27} ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {11/27} तत् यथा गर्गाः शतम् दण्ड्यन्ताम् इति ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {12/27} अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {13/27} सति एतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकम् इति उच्यते इह अपि सहग्रहणम् कर्तव्यम् ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {14/27} अथ तत्र अन्तरेण प्रत्येकम् इति वचनम् प्रत्येकम् गुणवृद्धिसञ्ज्ञे भवतः इह अपि न अर्थः सहग्रहणेन ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {15/27} एवम् तर्हि सिद्धे सति यत् सहग्रहणम् करोति तस्य एतत् प्रयोजनम् योगाङ्गम् यथा विज्ञायेत ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {16/27} सति च योगाङ्गे योगविभागः करिष्यते ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {17/27} सह सुप् समस्यते ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {18/27} केन सह ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {19/27} समर्थेन। अनुव्याचलत् अनुप्राविशत् ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {20/27} ततः सुपा ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {21/27} सुपा च सह सुप् समस्यते ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {22/27} अधिकारः च लक्षणम् च ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {23/27} यस्य समासस्य अन्यत् लक्षणम् न अस्ति इदम् तस्य लक्षणम् भविष्यति ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {24/27} पुनरुत्स्यूतम् वासः देयम् पुनर्निष्कृतः रथः इति ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {25/27} इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वम् च

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {26/27} इवेन सह समासः विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वम् च वक्तव्यम् ।

(P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {27/27} वाससीइव कन्ये इव ।

(P_2,1.5) KA_I,378.17-19 Ro_II,569 {1/4} किमर्थम् महती सञ्ज्ञा क्रियते ।

(P_2,1.5) KA_I,378.17-19 Ro_II,569 {2/4} अन्वर्थसञ्ज्ञा यथा विज्ञयेत ।

(P_2,1.5) KA_I,378.17-19 Ro_II,569 {3/4} अनव्ययम् अव्ययम् भवति इति अव्ययीभावः ।

(P_2,1.5) KA_I,378.17-19 Ro_II,569 {4/4} अव्ययीभावः च समासः अव्ययसञ्ज्ञः भवति इति एतत् न वक्तव्यम् भवति ।

(P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {1/11} इह कस्मात् न भवति ।

(P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {2/11} सुमद्राः सुमगधाः सपुत्रः सच्छात्रः इति ।

(P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {3/11} समृद्धौ साकल्ये इति च प्राप्नोति ।

(P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {4/11} न एषः दोषः ।

(P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {5/11} इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः ।

(P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {6/11} पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः उभयपदार्थप्रधानः द्वन्द्वः ।

(P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {7/11} न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते ।

(P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {8/11} अथ वा न इमे समासार्थाः निर्दिश्यन्ते ।

(P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {9/11} किम् तर्हि ।

(P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {10/11} अव्ययार्थाः निर्दिश्यन्ते इमे ।

(P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {11/11} एतेषु अर्थेषु यत् अव्ययम् वर्तते तत् सुबन्तेन समस्यते इति ।

(P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {1/13} असादृश्ये इति किमर्थम् ।

(P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {2/13} यथा देवदत्तः तथा यज्ञदत्तः इति ।

(P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {3/13} असादृश्ये इति उच्यते ।

(P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {4/13} तत्र इदम् न सिध्यति : यथाशक्ति यथाबलम् इति ।

(P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {5/13} किम् कारणम् ।

(P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {6/13} यथा इति अयम् प्रकारवचने थाल् सः च सादृश्ये वर्तते ।

(P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {7/13} न एषः दोषः ।

(P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {8/13} अयम् यथाशब्दः अस्ति एव अव्युत्पन्नम् प्रातिपदिकम् वीप्सावाची ।

(P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {9/13} अस्ति प्रकारवचने थाल् ।

(P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {10/13} तत् यत् अव्युत्पन्नम् प्रातिपदिकम् वीप्सावाचि तस्य इदम् ग्रहणम् ।

(P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {11/13} अथ यः प्रकारवचने थाल् तस्य ग्रहणम् कस्मात् न भवति ।

(P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {12/13} पूर्वेण प्राप्नोति सादृश्यसम्पत्ति इति ।

(P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {13/13} प्रतिषेधवचनसामर्थ्यात् न भविष्यति ।

(P_2,1.9) KA_I,379.14-15 Ro_II,572 {1/3} सुप् इति वर्तमाने पुनः सुब्ग्रहणम् किमर्थम् ।

(P_2,1.9) KA_I,379.14-15 Ro_II,572 {2/3} अव्ययम् इति एवम् तत् अभूत् सुब्मात्रे यथा स्यात् ।

(P_2,1.9) KA_I,379.14-15 Ro_II,572 {3/3} माषप्रति सूपप्रति ओदनप्रति ।

(P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {1/12} अक्षादयः तृतीयान्ताः पूर्वोक्तस्य यथा न तत् । अक्षादयः तृतीयान्ताः परिणा सह समस्यन्ते इति वक्तव्यम् ।

(P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {2/12} पूर्वोक्तस्य यथा न तत् ।

(P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {3/12} अयथाजातीयके द्योत्ये ।

(P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {4/12} अक्षेण न तथा वृत्तम् यथा पूर्वम् इति अक्षपरि शलाकापरि ।

(P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {5/12} एकत्वे अक्षशलाकयोः

(P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {6/12} अक्षशलाकयोः च एकवचनान्तयोः इति वक्तव्यम् ।

(P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {7/12} इह मा भूत् ।

(P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {8/12} अक्षाभ्याम् वृत्तम् अक्षैः वृत्तम् ।

(P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {9/12} कितवव्यवहारे च

(P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {10/12} कितवव्यवहारे इति वक्तव्यम् ।

(P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {11/12} इह मा भूत् ।

(P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {12/12} अक्षेण इदम् न वृत्तम् शकटेन यथा पूर्वम् ।

(P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {1/12} योगविभागः कर्तव्यः ।

(P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {2/12} विभाषा इति अयम् अधिकारः। ततः अपपरिबहिरञ्चवः पञ्चम्या इति ।

(P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {3/12} पञ्चमीग्रहणम् शक्यम् अकर्तुम् ।

(P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {4/12} कथम् ।

(P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {5/12} सुबन्तेन इति वर्तते एतैः च कर्मप्रवचनीयैः योगे पञ्चमी विधीयते ।

(P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {6/12} तत्र अन्तरेण अपि पञ्चमीग्रहणम् पञ्चम्यन्तेन एव समासः भविष्यति ।

(P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {7/12} इदम् तर्हि प्रयोजनम् ।

(P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {8/12} बहिःशब्देन योगे पञ्चमी न विधीयते ।

(P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {9/12} तत्र अपि यथा स्यात् इति ।

(P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {10/12} बहिर्ग्रामात् ।

(P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {11/12} अथ क्रियमाणे अपि पञ्चमीग्रहणे यावता बहिःशब्देन योगे पञ्चमी न विधीयते कथम् एव एतत् सिध्यति ।

(P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {12/12} पञ्चमीग्रहणसामर्थ्यात् ।

(P_2,1.13) KA_I,380.14-16 Ro_II,575 {1/4} मर्यादाभिविधिग्रहणम् शक्यम् अकर्तुम् ।

(P_2,1.13) KA_I,380.14-16 Ro_II,575 {2/4} कथम् ।

(P_2,1.13) KA_I,380.14-16 Ro_II,575 {3/4} पञ्चम्यन्तेन इति वर्तते आङा च कर्मप्रवचनीययुक्ते पञ्चमी विधीयते ।

(P_2,1.13) KA_I,380.14-16 Ro_II,575 {4/4} एतयोः च एव अर्थयोः आङ् कर्मप्रवचनीयसञ्ज्ञः भवति न अन्यत्र ।

(P_2,1.16) KA_I,380.18-23 Ro_II,575-576 {1/8} किम् उदाहरणम् ।

(P_2,1.16) KA_I,380.18-23 Ro_II,575-576 {2/8} अनुगङ्गम् हास्तिनपुरम् अनुगङ्गम् वाराणसी अनुशोणम् पाटलिपुत्रम् ।

(P_2,1.16) KA_I,380.18-23 Ro_II,575-576 {3/8} यस्य च आयामः इति उच्यते गङ्गा च अपि आयता वाराणसी अपि आयता ।

(P_2,1.16) KA_I,380.18-23 Ro_II,575-576 {4/8} तत्र कुतः एतत् गङ्गया सह समासः भविष्यति न पुनः वाराणस्या इति ।

(P_2,1.16) KA_I,380.18-23 Ro_II,575-576 {5/8} एवर्म् तर्हि लक्षणेन इति वर्तते गङ्गा च एव हि लक्षणम् न वाराणसी ।

(P_2,1.16) KA_I,380.18-23 Ro_II,575-576 {6/8} अथ वा यस्य च आयामः इति उच्यते गङ्गा च अपि आयता वाराणसी अपि आयता ।

(P_2,1.16) KA_I,380.18-23 Ro_II,575-576 {7/8} तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यस्य आयामः इति ।

(P_2,1.16) KA_I,380.18-23 Ro_II,575-576 {8/8} साधीयः च गङ्गायाः न वाराणस्याः ।

(P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {1/12} किमर्थः चकारः ।

(P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {2/12} एवकारार्थः ।

(P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {3/12} तिष्ठद्गुप्रभृतीनि एव ।

(P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {4/12} क्व मा भूत् ।

(P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {5/12} परमम् तिष्ठद्गु ।

(P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {6/12} तिष्ठद्गु कालविशेषे

(P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {7/12} तिष्ठद्गु कालविशेषे इति वक्तव्यम् ।

(P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {8/12} तिष्ठन्ति गावः अस्मिन् काले तिष्ठद्गु ।

(P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {9/12} वहद्गु ।

(P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {10/12} खलेयवादीनि प्रथमान्तानि अन्यपदार्थे

(P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {11/12} खलेयवादीनि प्रथमान्तानि अन्यपदार्थे समस्यन्ते ।

(P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {12/12} खलेयवम् खलेबुसम् लूनयवम् लूयमानयवम् पूतयवम् पूयमानयवम् ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {1/28} वावचनम् किमर्थम् ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {2/28} विभाषा समासः यथ स्यात् ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {3/28} समासेन मुक्ते वाक्यम् अपि यथा स्यात् ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {4/28} पारम् गङ्गायाः इति ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {5/28} न एतत् अस्ति प्रयोजनम् ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {6/28} प्रकृता महाविभाषा ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {7/28} तया वाक्यम् अपि भविष्यति ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {8/28} इदम् तर्हि प्रयोजनम् अव्ययीभावेन मुक्ते षष्ठीसमासः यथा स्यात् ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {9/28} गङ्गापारम् इति ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {10/28} एतत् अपि न अस्ति प्रयोजनम् ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {11/28} अयम् अपि विभाषा षष्ठीसमासः अपि ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {12/28} तौ उभौ वचनात् भविष्यतः ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {13/28} अतः उत्तरम् पठति ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {14/28} पारे मध्ये षष्ठ्या वावचनम्

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {15/28} पारे मध्ये षष्ठ्या वा इति वक्तव्यम् ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {16/28} अवचने हि षष्ठीसमासाभावः यथा एकदेशिप्रधाने

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {17/28} अक्रियमाणे हि वावचने षष्ठीसमासस्य अभावः स्यात् यथा एकदेशिप्रधाने ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {18/28} तत् यथ एकदेशिसमासेन मुक्ते षष्ठीसमासः न भवति ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {19/28} किम् पुनः कारणम् एकदेशिसमासेन मुक्ते षष्ठीसमासः न भवति ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {20/28} समासतद्धितानाम् वृत्तिः विभाषा ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {21/28} वृत्तिविषये नित्यः अपवादः ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {22/28} इह पुनः वावचने क्रियमाणे एकया वृत्तिः विभाषा अपरया वृत्तिविषये विभाषापवादः ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {23/28} एकारान्तनिपातनम् च

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {24/28} एकारान्तनिपातनम् च कर्तव्यम् ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {25/28} पारेगङ्गम् इति ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {26/28} न कर्तव्यम् ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {27/28} सप्तम्याः अलुका सिद्धम् ।

(P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {28/28} भवेत् सिद्धम् यदा सप्तमी यदा तु अन्याः विभक्तयः तदा न सिध्यति ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {1/27} नदीभिः सङ्ख्यासमासे अन्यपदार्थे प्रतिषेधः

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {2/27} नदीभिः सङ्ख्यासमासे अन्यपदार्थे प्रतिषेधः वक्तव्यः ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {3/27} द्वीरावतीकः देशः त्रीरावतीकः देशः ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {4/27} नदीभिः सङ्ख्या इति प्राप्नोति ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {5/27} न वक्तव्यः ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {6/27} इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {7/27} पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः , उभयपदार्थप्रधानः द्वन्द्वः। न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {8/27} ननु च यत् येन उच्यते सः तस्य अर्थः भवति ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {9/27} अत्र च वयम् एताभ्याम् पदाभ्याम् एतम् अर्थम् उच्यमानम् पश्यामः ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {10/27} एतत् एव च जानीमः यत् येन उच्यते सः तस्य अर्थः इति ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {11/27} अपि च अन्यपदार्थता न प्रकल्पेत ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {12/27} चित्रगुः शबलगुः इति ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {13/27} किम् कारणम् ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {14/27} अत्र अपि हि वयम् एताभ्याम् शब्दाभ्याम् एतम् अर्थम् उच्यमानम् पश्यामः ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {15/27} यदि अपि अत्र एताभ्याम् शब्दाभ्याम् एषः अर्थः उच्यते अन्यपदार्थः अपि तु गम्यते ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {16/27} तत्र अन्यपदार्थाश्रयः बहुव्रीहिः भविष्यति ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {17/27} इह अपि तर्हि अन्यपदार्थः गम्यते स्वपदार्थः अपि तु गम्यते ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {18/27} तत्र स्वपदार्थाश्रयः अव्ययीभावः प्राप्नोति ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {19/27} एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {20/27} अव्ययीभावः क्रियताम् बहुव्रीहिः इति ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {21/27} बहुव्रीहिः भविष्यति विप्रतिषेधेन ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {22/27} भवेत् एकसञ्ज्ञाधिकारे सिद्धम् परङ्कार्यत्वे तु न सिध्यति ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {23/27} आरम्भसामर्थ्यात् अव्ययीभावः प्राप्नोति परङ्कार्यत्वात् च बहुव्रीहिः ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {24/27} परङ्कार्यत्वे च न दोषः ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {25/27} नदीभिः सङ्ख्यायाः समाहारे अव्ययीभावः वक्तव्यः ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {26/27} सः च अवश्यम् वक्तव्यः ।

(P_2,1.20) KA_I,382.5-21 Ro_II,579-582 {27/27} सर्वम् एकनदीतरे ।

(P_2,1.23) KA_I,382.23-24 Ro_II,582 {1/3} द्विगोः तत्पुरुषत्वे कानि प्रयोजनानि ।

(P_2,1.23) KA_I,382.23-24 Ro_II,582 {2/3} द्विगोः तत्पुरुषत्वे समासान्ताः प्रयोजनम् ।

(P_2,1.23) KA_I,382.23-24 Ro_II,582 {3/3} पञ्चगवम् दशगवम् पञ्चराजम् दशराजम् ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {1/50} श्रितादिषु गमिगाम्यादीनाम् उपसङ्ख्यानम्

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {2/50} श्रितादिषु गमिगाम्यादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {3/50} ग्रामम् गमी ग्रमगमी ग्रमम् गामी ग्रामगामी ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {4/50} श्रितादिभिः अहीने द्वितीयासमासवचनानर्थक्यम् बहुव्रीहिकृतत्वात्

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {5/50} श्रितादिभिः अहीनवाचिन्याः द्वितीयायाः समासवचनम् अनर्थकम् ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {6/50} किम् कारणम् ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {7/50} बहुव्रीहिकृतत्वात् ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {8/50} इह हि यः कष्टम् श्रितः कष्टम् अनेन श्रितम् भवति ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {9/50} तत्र बहुव्रीहिणा सिद्धम् ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {10/50} अहीने द्वीतीयास्वरवचनानर्थक्यम् च

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {11/50} अहीने द्वितीया पूर्वपदम् प्रकृतिस्वरम् भवति इति एतत् स्वरवचनम् अनर्थकम् ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {12/50} किम् कारणम् ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {13/50} बहुव्रीहिकृतत्वात् एव ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {14/50} जातिस्वरप्रसङ्गः तु

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {15/50} जातिस्वरः तु प्राप्नोति ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {16/50} ग्रामततः अरण्यगतः ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {17/50} जातिकालसुखादिभ्यः अनाच्छादनात् क्तः अकृतमितप्रतिपन्नाः इति ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {18/50} तत्र जातादिषु वावचनात् सिद्धम्

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {19/50} यत् एतत् वा जाते इति एतत् वा जातादिषु इति वक्ष्यामि ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {20/50} इमे जातादयः भविष्यन्ति ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {21/50} ननु च भेदः भवति ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {22/50} बहुव्रीहौ सति समासान्तोदात्तत्वेन अपि भवितव्यम् पूर्वपदप्रकृतिस्वरत्वेन अपि तत्पुरुषत्वे सति पूर्वपदप्रकृतिस्वरत्वेन एव ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {23/50} न अस्ति भेदः ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {24/50} यः अपि तत्पुरुषम् आरभते न तस्य दण्डवारितः बहुव्रीहिः ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {25/50} तत्र तत्पुरुषे सति द्वौ समासौ द्वौ स्वरौ ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {26/50} बहुव्रीहौ सति एकः समासः द्विस्वरत्वम् ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {27/50} एवम् तर्हि सिद्धे सति यत् तत्पुरुषम् शास्ति तत् ज्ञापयति आचार्यः समाने अर्थे केवलम् विग्रहभेदात् यत्र तत्पुरुषः प्राप्नोति बहुव्रीहिः च तत्र तत्पुरुषः भवति इति ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {28/50} किम् एतस्य ज्ञापने प्रयोजनम् ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {29/50} राज्ञः सखा राजसखः ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {30/50} राजा सखा अस्य इति बहुव्रीहिः न भवति ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {31/50} न एतत् ज्ञापकसाध्यम् अपवादैः उत्सर्गाः बाध्यन्ते इति ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {32/50} बाधकेन अनेन भवितव्यम् सामान्यविहितस्य विशेषविहितेन ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {33/50} अथ न सामान्यविहितः ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {34/50} यत् उच्यते बहुव्रीहिकृतत्वात् इति एतत् अयुक्तम् ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {35/50} अस्ति खलु अपि विशेषः बहुव्रीहेः तत्पुरुषस्य च ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {36/50} किम् शब्दकृतः अथ अर्थकृतः ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {37/50} शब्दकृतः व अर्थकृतः च ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {38/50} शब्दकृतः तावत् ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {39/50} बहुव्रीहौ सति कपा भवितव्यम् ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {40/50} तत्पुरुषे सति न भवितव्यम् ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {41/50} अर्थकृतः ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {42/50} तत्पुरुषे सति रुहादीनाम् क्तः कर्तरि भवति धात्वर्थस्य अनपवर्गे ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {43/50} आरूढः वृक्षम् देवदत्तः इति ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {44/50} बहुव्रीहौ व्यपवृक्ते कर्मणि भवति ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {45/50} आरूढः वृक्षः देवदत्तेन इति ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {46/50} अन्यथाजातीयकः खलु अपि प्रत्यक्षेण अर्थसम्प्रत्ययः अन्यथाजातीयकः सम्बन्धात् ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {47/50} राज्ञः सखा राजसखा ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {48/50} सम्बन्धात् एतत् गन्तव्यम् नूनम् राज अपि अस्य सखा इति ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {49/50} उभयम् खलु अपि इष्यते : स्वस्ति सोमसखा पुनः एहि ।

(P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 {50/50} गवाङ्सखः इति ।

(P_2,1.26) KA_I,384.10-12 Ro_II,587 {1/7} किम् उदाहरणम् ।

(P_2,1.26) KA_I,384.10-12 Ro_II,587 {2/7} खट्वारूढः जाल्मः ।

(P_2,1.26) KA_I,384.10-12 Ro_II,587 {3/7} क्षेपे इति उच्यते ।

(P_2,1.26) KA_I,384.10-12 Ro_II,587 {4/7} कः क्षेपः नाम ।

(P_2,1.26) KA_I,384.10-12 Ro_II,587 {5/7} अधीत्य स्नात्वा गुरुभिः अनुज्ञातेन खट्वा आरोढव्या ।

(P_2,1.26) KA_I,384.10-12 Ro_II,587 {6/7} यः इदानीम् अतः अन्यथ करोति सः खट्वारूढः अयम् जाल्मः ।

(P_2,1.26) KA_I,384.10-12 Ro_II,587 {7/7} न अतिव्रतवान् इति ।

(P_2,1.29) KA_I,384.14-20 Ro_II,588 {1/12} अत्यन्तसंयोगे समासस्य अविशेषवचनात् क्तेन समासवचनानर्थक्यम्

(P_2,1.29) KA_I,384.14-20 Ro_II,588 {2/12} अत्यन्तसंयोगे समासस्य अविशेषवचनात् क्तान्तेन च अक्तान्तेन च कालाः क्तान्तेन इति समासवचनम् अनर्थकम् ।

(P_2,1.29) KA_I,384.14-20 Ro_II,588 {3/12} अत्यन्तसंयोगे इति एव सिद्धम् ।

(P_2,1.29) KA_I,384.14-20 Ro_II,588 {4/12} अनत्यन्तसंयोगार्थम् तु

(P_2,1.29) KA_I,384.14-20 Ro_II,588 {5/12} अनत्यन्तसंयोगार्थम् तर्हि इदम् वक्तव्यम् ।

(P_2,1.29) KA_I,384.14-20 Ro_II,588 {6/12} षट् मुहूर्ताः चराचराः ।

(P_2,1.29) KA_I,384.14-20 Ro_II,588 {7/12} ते कदा चित् अहः गच्छन्ति कदा चित् रात्रिम् ।

(P_2,1.29) KA_I,384.14-20 Ro_II,588 {8/12} तत् उच्यते अहर्गताः रात्रिगताः इति ।

(P_2,1.29) KA_I,384.14-20 Ro_II,588 {9/12} न एतत् अस्ति ।

(P_2,1.29) KA_I,384.14-20 Ro_II,588 {10/12} गतग्रहणात् अपि एतत् सिद्धम् ।

(P_2,1.29) KA_I,384.14-20 Ro_II,588 {11/12} इदम् तर्हि ।

(P_2,1.29) KA_I,384.14-20 Ro_II,588 {12/12} अहरतिसृताः रात्र्यतिसृताः मासप्रमितः चन्द्रमाः ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {1/52} तत्कृतार्थेन इति किमर्थम् ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {2/52} दध्ना पटुः घृतेन पटुः ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {3/52} न एतत् अस्ति ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {4/52} असामर्थ्यात् अत्र न भविष्यति ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {5/52} कथम् असामर्थ्यम् ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {6/52} सापेक्षम् असमर्थम् भवति इति ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {7/52} न हि दध्नः पटुना सामर्थ्यम् ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {8/52} केन तर्हि ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {9/52} भुजिना ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {10/52} दध्ना भुङ्क्ते पटुः इति ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {11/52} इह अपि तर्हि न प्राप्नोति ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {12/52} शङ्कुलाखण्डः किरिकाणः इति ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {13/52} अत्र अपि न शङ्कुलायाः खण्डेन सामर्थ्यम् ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {14/52} केन तर्हि ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {15/52} करोतिना ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {16/52} शङ्कुलया कृतः खण्डः इति ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {17/52} वचनात् भविष्यति ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {18/52} इह अपि वचनात् भविष्यति दध्ना पटुः घृतेन पटुः इति ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {19/52} तस्मात् तत्कृतार्थग्रहणम् कर्तव्यम् ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {20/52} गुणवचनेन इति किमर्थम् ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {21/52} गोभिः वपावान् धान्येन धनवान् ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {22/52} किम् पुनः इह उदाहरणम् ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {23/52} शङ्कुलाखण्डः देवदत्तः इति ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {24/52} कथम् पुनः गुणवचनेन समासः उच्यमानः द्रव्यवचनेन स्यात् ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {25/52} इह तृतीया तत्कृतार्थेन गुणेन इति इयता सिद्धम् ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {26/52} सः अयम् एवम् सिद्धे सति यत् वचनग्रहणम् करोति तस्य एतत् प्रयोजनम् एवम् यथा विज्ञायेत गुणम् उक्तवता गुणवचनेन इति ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {27/52} कथम् पुनः अयम् गुणवचनः सन् द्रव्यवचनः सम्पद्यते ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {28/52} आरभ्यते तत्र मतुब्लोपः गुणवचनेभ्यः मतुपः लुक् इति ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {29/52} तत् यथा शुक्लगुणः शुक्लः कृष्णगुणः कृष्णः एवम् खण्डगुणः खण्डः ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {30/52} यदि एवम् न अर्थः कृतार्थग्रहणेन ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {31/52} भवति हि शङ्कुलायाः खण्डेन सामर्थ्यम् ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {32/52} असामर्थ्यात् च अत्र न भविष्यति दध्ना पटुः घृतेन पटुः इति ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {33/52} तस्मत् न अर्थः तत्कृतार्थग्रहणेन ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {34/52} तृतीयासमासे अर्थग्रहणम् अनर्थकम् अर्थगतिः हि अवचनात्

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {35/52} तृतीयासमासे अर्थग्रहणम् अनर्थकम् ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {36/52} किम् कारणम् ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {37/52} अर्थगतिः हि अवचनात् ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {38/52} अन्तरेण अपि वचनम् अर्थगतिः भविष्यति ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {39/52} निर्देश्यम् इति चेत् तृतीयार्थनिर्देशः अपि

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {40/52} अथ एवम् अपि निर्देशः कर्तव्यः इति चेत् तृतीयार्थनिर्देशः अपि कर्तव्यः स्यात् ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {41/52} तृतीया तदर्थकृतार्थेन इति वक्तव्यम् ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {42/52} तत् तर्हि वक्तव्यम् ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {43/52} न वक्तव्यम् ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {44/52} न अयम् अर्थनिर्देशः ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {45/52} किम् तर्हि ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {46/52} योगाङ्गम् इदम् निर्दिश्यते ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {47/52} सति च योगाङ्गे योगविभागः करिष्यते ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {48/52} तृतीया तत्कृतेन गुणवचनेन समस्यते ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {49/52} ततः अर्थेन ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {50/52} अर्थशब्देन च तृतीया समस्यते ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {51/52} धान्याऋथः वसनार्थः ।

(P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 {52/52} पूर्वसदृशसमोनार्थ इति अर्थग्रहणम् न कर्तव्यम् भवति ।

(P_2,1.31) KA_I,385.24-386.3 Ro_II,592-593 {1/7} पूर्वादिषु अवरस्य उपसङ्ख्यानम्

(P_2,1.31) KA_I,385.24-386.3 Ro_II,592-593 {2/7} पूर्वादिषु अवरस्य उपसङ्ख्यानम् ।

(P_2,1.31) KA_I,385.24-386.3 Ro_II,592-593 {3/7} मासावरः अयम् संवत्सरावरः अयम् ।

(P_2,1.31) KA_I,385.24-386.3 Ro_II,592-593 {4/7} सदृशग्रहणे उक्तम्

(P_2,1.31) KA_I,385.24-386.3 Ro_II,592-593 {5/7} किम् उक्तम् ।

(P_2,1.31) KA_I,385.24-386.3 Ro_II,592-593 {6/7} सद्र्शग्रहणम् अनर्थकम् तृतीयासमासवचनात् ।

(P_2,1.31) KA_I,385.24-386.3 Ro_II,592-593 {7/7} षष्ठ्यर्थम् इति चेत् तृतीयासमासवचनानर्थक्यम् इति ।

(P_2,1.32) KA_I,386.5-8 Ro_II,593 {1/8} कर्तृकरणे कृता क्तेन

(P_2,1.32) KA_I,386.5-8 Ro_II,593 {2/8} कर्तृकरणे कृता क्तेन इति वक्तव्यम्। अहिहतः नखनिर्भिन्नः दात्रलूनः परशुच्छिन्नः ।

(P_2,1.32) KA_I,386.5-8 Ro_II,593 {3/8} कृता क्तेन इति किमर्थम् ।

(P_2,1.32) KA_I,386.5-8 Ro_II,593 {4/8} इह मा भूत् ।

(P_2,1.32) KA_I,386.5-8 Ro_II,593 {5/8} दात्रेण लूनवान् परशुना छिन्नवान् ।

(P_2,1.32) KA_I,386.5-8 Ro_II,593 {6/8} तत् तर्हि वक्तव्यम् ।

(P_2,1.32) KA_I,386.5-8 Ro_II,593 {7/8} न वक्तव्यम् ।

(P_2,1.32) KA_I,386.5-8 Ro_II,593 {8/8} बहुलवचनात् सिद्धम् ।

(P_2,1.33) KA_I,386.10-15 Ro_II,594 {1/7} कृत्र्यैः अधिकार्थवचने अन्यत्र अपि दृश्यते ।कृत्र्यैः अधिकार्थवचने अन्यत्र अपि दृश्यते इति वक्तव्यम् ।

(P_2,1.33) KA_I,386.10-15 Ro_II,594 {2/7} बुसोपेन्ध्यम् तृणोपेन्ध्यम् घनघात्यम् ।

(P_2,1.33) KA_I,386.10-15 Ro_II,594 {3/7} साधनम् कृता इति वा पादहारकाद्यर्थम्

(P_2,1.33) KA_I,386.10-15 Ro_II,594 {4/7} अथ वा साधनम् कृता सह समस्यते इति वक्तव्यम् ।

(P_2,1.33) KA_I,386.10-15 Ro_II,594 {5/7} किम् प्रयोजनम् ।

(P_2,1.33) KA_I,386.10-15 Ro_II,594 {6/7} पादहारकाद्यर्थम् ।

(P_2,1.33) KA_I,386.10-15 Ro_II,594 {7/7} पादाभ्याम् ह्रियते पादहारकः गले चोप्यते गलेचोपकः ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {1/37} अन्नेन व्यञ्जनम् भक्ष्येण मिश्रीकरणम् इति असमर्थसमासः

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {2/37} अन्नेन व्यञ्जनम् भक्ष्येण मिश्रीकरणम् इति असमर्थसमासः अयम् द्रष्टव्यः ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {3/37} किम् कारणम् ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {4/37} कारकाणाम् क्रियया सामर्थ्यात्

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {5/37} कारकाणाम् क्रियया सामर्थ्यम् भवति न तेषाम् अन्योन्येन ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {6/37} तत् यथा निश्रयण्या द्वाभ्याम् काष्ठाभ्याम् सामर्थ्यम् न तेषाम् अन्योन्येन ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {7/37} एवम् तर्हि आह अयम् अन्नेन व्यञ्जनम् भक्ष्येण मिश्रीकरणम् इति न च अस्ति सामर्थ्यम् ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {8/37} तत्र वचनात् समासः भविष्यति ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {9/37} वचनप्रामाण्यात् इति चेत् नानाकारकाणाम् प्रतिषेधः । वचनप्रामाण्यात् इति चेत् नानाकारकाणाम् प्रतिषेधः वक्तव्यः ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {10/37} तिष्ठतु दध्ना ओदनः भुज्यते देवदत्तेन ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {11/37} सिद्धम् तु समानाधिकरणाधिकारे क्तः तृतीयापूर्वपदः उत्तरपदलोपः च षिद्धम् एतत् ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {12/37} कथम् ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {13/37} समानाधिकरणाधिकारे वक्तव्यम् क्तः तृतीयापूर्वपदः समस्यतेसुपा उत्तरपदस्य च लोपः भवति इति ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {14/37} दध्ना उपसिक्तः दध्युपसिक्तः दध्युपसिक्तः ओदनः दध्योदनः गुडेन संसृष्टाः गुडसंसृष्टाः , गुडसंसृष्टाः धानाः गुडधानाः ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {15/37} षष्ठीसमासः च युक्तपूर्णान्तः

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {16/37} षष्ठीसमासः च युक्तपूर्णान्तः समस्यते उत्तरपदस्य च लोपः वक्तव्यः ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {17/37} अश्वानाम् युक्तः अश्वयुक्तः अश्वयुक्तः रथः अश्वरथः ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {18/37} दध्नः पूर्णः ददिपूर्णः दधिपूर्णः घटः दधिघटः ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {19/37} तत् तर्हि बहु वक्तव्यम् ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {20/37} न वा असमासे अदर्शनात्

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {21/37} न वा वक्तव्यम् ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {22/37} किम् कारणम् ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {23/37} असमासे अदर्शनात् ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {24/37} यत् हि असमासे दृश्यते समासे च न दृश्यते तत् लोपारम्भम् प्रयोजयति ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {25/37} न च असमासे उपसिक्तशब्दः संसृष्टशब्दः पूर्णशब्दः वा दृश्यते ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {26/37} कथम् तर्हि सामर्थ्यम् गम्यते ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {27/37} युक्तार्थसम्प्रत्ययात् च सामर्थ्यम्

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {28/37} दध्ना युक्तार्थता सम्प्रतीयते ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {29/37} कथम् पुनः ज्ञायते दध्ना युक्तार्थता सम्प्रतीयते इति ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {30/37} सम्प्रत्ययात् च तदर्थाध्यवसानम्

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {31/37} सम्प्रत्ययात् च तदर्थः अध्यवसीयते ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {32/37} अवश्यम् च एतत् एवम् विज्ञेयम् ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {33/37} सम्प्रतीयमानार्थलोपे हि अनवस्था ।यः हि मन्यते सम्प्रतीयमानार्थानाम् शब्दानाम् लोपः भवति इति अनवस्था तस्य लोपस्य स्यात् ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {34/37} दधि इति उक्ते बहवः अर्थाः गम्यन्ते मन्दकम् उत्तरकम् निलीनकम् इति तद्वाचिनाम् शब्दानाम् लोपः वक्तव्यः स्यात् ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {35/37} तथा गुडः इति उक्ते मधुरशब्दस्य शृङ्गवेरम् इति उक्ते च कटुशब्दस्य ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {36/37} अन्तरेण खलु अपि शब्दप्रयोगम् बहवः अर्थाः गम्यन्ते अक्षिनिकोचैः पाणिविहारैः च ।

(P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 {37/37} तद्वाचिनाम् शब्दानाम् लोपः वक्तव्यः स्यात् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {1/105} किम् चतुर्थ्यन्तस्य तदर्थमात्रेण समासः भवति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {2/105} एवम् भवितुम् अर्हति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {3/105} चतुर्थी तदर्थमात्रेण चेत् सर्वप्रसङ्गः अविशेषात्

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {4/105} चतुर्थी तदर्थमात्रेण चेत् सर्वप्रसङ्गः सर्वस्य चतुर्थ्यन्तस्य तदर्थमात्रेण सह समासः प्राप्नोति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {5/105} अनेन अपि प्राप्नोति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {6/105} रन्धनाय स्थाली अवहननाय उलूखलम् इति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {7/105} किम् कारणम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {8/105} अविशेषात् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {9/105} न हि कः चित् विशेषः उपादीयते एवञ्जातीयकस्य चतुर्थ्यन्तस्य तदर्थेन सह समासः भवति इति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {10/105} अनुपादीयमने विशेषे सर्वप्रसङ्गः ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {11/105} बलिरक्षिताभ्याम् च अनर्थकम् वचनम्

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {12/105} बलिरक्षिताभ्याम् च समासवचनम् अनर्थकम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {13/105} यः हि महाराजाय बलिः महाराजार्थः सः भवति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {14/105} तत्र तदर्थः इति एव सिद्धम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {15/105} यदि पुनः विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति एतत् लक्षणम् क्रियेत ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {16/105} विकृतिः प्रकृत्या इति चेत् अश्वघासादीनाम् उपसङ्ख्यानम्

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {17/105} विकृतिः प्रकृत्या इति चेत् अश्वघासादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {18/105} अश्वघासः श्वश्रूसुरम् हस्तिविधा इति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {19/105} अर्थेन नित्यसमासवचनम्

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {20/105} अर्थ्शब्देन नित्यसमासः वक्तव्यः ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {21/105} ब्राह्मणार्थम् क्षत्रियार्थम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {22/105} किम् विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति अतः अर्थेन नित्यसमासः वक्तव्यः ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {23/105} न इति आह सर्वथा अर्थेन नित्यसमासः वक्तव्यः विग्रहः मा भूत् इति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {24/105} सर्वलिङ्गता च

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {25/105} सर्वलिङ्गता च वक्तव्या ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {26/105} ब्राह्मणार्थम् पयः ब्राह्मणार्थः सूपः ब्राह्मणार्था यवागूः इति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {27/105} किम् अर्थेन नित्यसमासः उच्यते इति अतः सर्वलिङ्गता वक्तव्या ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {28/105} न इति आह ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {29/105} सर्वथा सर्वलिङ्गता वक्तव्या ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {30/105} किम् कारणम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {31/105} अर्थशब्दः अयम् पुंलिङ्गः उत्तरपदार्थप्रधानः च तत्पुरुषः ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {32/105} तेन पुंलिङ्गस्य एव समासस्य अभिधानम् स्यात् स्त्रीनपुंसकलिङ्गस्य न स्यात् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {33/105} तत् तर्हि बहु वक्तव्यम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {34/105} विकृतिः प्रकृत्या इति वक्तव्यम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {35/105} अश्वघासादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {36/105} अर्थेन नित्यसमासः वक्तव्यः ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {37/105} सर्वलिङ्गता च वक्तव्या ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {38/105} न वक्तव्यम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {39/105} यत् तावत् उच्यते विकृतिः प्रकृत्या इति वक्तव्यम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {40/105} न वक्तव्यम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {41/105} आचार्यप्रवृत्तिः ज्ञायपति विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति यत् अयम् बलिरकिषितग्रहणम् करोति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {42/105} कथम् कृत्वा ज्ञापकम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {43/105} यथाजातीयकानाम् समासे बलिरक्षितग्रहणेन अर्थः तथाजातीयकानाम् समासः ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {44/105} यदि च विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते न तदर्थमात्रेण ततः बलिरकिषितग्रहणम् अर्थवत् भवति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {45/105} यत् अपि उच्यते अश्वघासादीनाम् उपसङ्ख्यानम् कर्तव्यम् इति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {46/105} न कर्तव्यम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {47/105} अश्वघासादयः षष्ठीसमासाः भविष्यन्ति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {48/105} यत् हि यदर्थम् भवति अयम् अपि तत्र अभिसम्बन्धः भवति अस्य इदम् इति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {49/105} तत् यथा गुरोः इदम् गुर्वर्थम् इति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {50/105} ननु च स्वरभेदः भवति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {51/105} चतुर्थीसमासे सति पूर्वपदप्रकृतिस्वरत्वेन भवितव्यम् षष्ठीसमासे पुनः अन्तोदात्तत्वेन ण अस्ति भेदः ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {52/105} चतुर्थीसमासे अपि सति अन्तोदात्तत्वेन एव भवितव्यम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {53/105} कथम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {54/105} आचार्यप्रवृत्तिः ज्ञापयति विकृतिः चतुर्थ्यन्ता प्रकृतिस्वरा भवति न चतुर्थीमात्रम् इति यत् अयम् चतुर्थी तदर्थे अर्थे क्ते च इति अर्थग्रहणम् क्तग्रहणम् च करोति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {55/105} कथम् कृत्वा ज्ञापकम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {56/105} यथाजातीयकानाम् अर्थग्रहणेन क्तग्रहणेन च अर्थः तथाजातीयकानाम् प्रकृतिस्वरत्वम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {57/105} यदि च विकृतिः चतुर्थ्यन्ता प्रकृत्या भवति न चतुर्थीमात्रम् ततः अर्थग्रहणम् क्तग्रहणम् च अर्थवत् भवति ।यत् अपि उच्यते अर्थेन नित्यसमासः वक्तव्यः इति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {58/105} न वक्तव्यः ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {59/105} सर्थप्प्रत्ययः करिष्यते ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {60/105} किम् कृतम् भवति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {61/105} न च एव हि कदा चित् विग्रहः भवति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {62/105} अपि च सर्वलिङ्गता सिद्धा भवति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {63/105} यदि सर्थप्प्रतयः क्रियते इत्सञ्ज्ञा न प्राप्नोति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {64/105} अथ अपि कथम् चित् इत्सञ्ज्ञा स्यात् एवम् अपि श्र्यर्थम् भ्वर्थम् इति अङ्गस्य इति इयङुवङौ स्याताम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {65/105} एवम् तर्हि बहुव्रीहिः भवैष्यति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {66/105} किम् कृतम् भवति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {67/105} भवति वै कः चित् अस्वपदविग्रहः बहुव्रीहिः ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {68/105} तत् यथा शोभनम् मुखम् अस्याः सुमुखी इति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {69/105} न एवम् शक्यम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {70/105} इह हि महदर्थम् इति आत्त्वकपौ प्रसज्येताम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {71/105} एवम् तर्हि तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः करिष्यते ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {72/105} किम् कृतम् भवति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {73/105} न च एव कदा चित् आदेशेन विग्रहः भवति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {74/105} अपि च सर्वलिङ्गता सिद्धा भवति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {75/105} तत् तर्हि वक्तव्यम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {76/105} न वक्तव्यम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {77/105} योगविभागः करिष्यते ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {78/105} चतुर्थी सुबन्तेन सह समस्यते ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {79/105} ततः तदर्थार्थ ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {80/105} तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः भवति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {81/105} इह अपि तर्हि समासः प्राप्नोति छात्राय रुचितम् छात्राय स्वदितम् इति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {82/105} आचार्यप्रवृत्तिः ज्ञापयति तादर्थ्ये य चतुर्थी सा समस्यते न चतुर्थीमात्रम् इति यत् अयम् हितसुखग्रहणम् करोति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {83/105} कथम् कृत्वा ज्ञापकम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {84/105} यथाजातीयकानाम् समासे हितसुखग्रहणेन अर्थः तथाजातीयकानम् समासः ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {85/105} यदि च तादर्थ्ये या चतुर्थी सा समस्यते न चतुर्थीमात्रम् ततः हितसुखग्रहणम् अर्थवत् भवति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {86/105} इह अपि तर्हि तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः प्राप्नोति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {87/105} यूपाय दारु यूपदारु रथदारु ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {88/105} वावचनम् विधास्यते ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {89/105} इह अपि तर्हि विभाषा प्राप्र्नोति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {90/105} ब्राह्मणाऋथम् क्षत्रियार्थम् इति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {91/105} एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति प्रकृतिविकृत्योः यः समासः तत्र तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः भवति अन्यत्र नित्यः इति यत् अयम् बलिहितग्रहणम् करोति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {92/105} एवम् तर्हि उदकार्थः वीवधः ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {93/105} स्थानिवद्भावात् उदभावः प्राप्नोति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {94/105} तस्मात् न एवम् शक्यम् ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {95/105} न चेत् एवम् अर्थेन नित्यसमासः वक्तव्यः सर्वलिङ्गता च ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {96/105} न एषः दोषः ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {97/105} इदम् तावत् अयम् प्रष्टव्यः ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {98/105} अथ इह ब्राह्मणेभ्यः इति का एषा चतुर्थी ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {99/105} तादर्थ्ये इति आह ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {100/105} यदि तादर्थ्ये चतुर्थी अर्थशब्दस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {101/105} समासः अपि तर्हि न प्राप्नोति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {102/105} वचनात् समासः भविष्यति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {103/105} यत् अपि उच्यते सर्वलिङ्गता च वक्तव्या इति ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {104/105} न वक्तव्या ।

(P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 {105/105} लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।

(P_2,1.37) KA_I,390.21-24 Ro_II,604 {1/4} अत्यल्पम् इदम् उच्यते भयेन इति ।

(P_2,1.37) KA_I,390.21-24 Ro_II,604 {2/4} भयभीतभीतिभीभिः इति वक्तव्यम् ।

(P_2,1.37) KA_I,390.21-24 Ro_II,604 {3/4} वृकात् भयम् वृकभयम् वृकात् भीतः वृकभीतः वृकात् भीतिः वृकभीतिः वृकात् भीः वृकभीः इति ।

(P_2,1.37) KA_I,390.21-24 Ro_II,604 {4/4} अपरः आह : भयनिर्गतजुगुप्सुभिः इति वक्तव्यम् : वृकभयम् ग्रामनिर्गतः अधर्मजुगुप्सुः इति ।

(P_2,1.40) KA_I,390.26-391.2 Ro_II,604 {1/6} शौण्डादिभिः इति वक्तव्यम् ।

(P_2,1.40) KA_I,390.26-391.2 Ro_II,604 {2/6} इह अपि यथा स्यात् ।

(P_2,1.40) KA_I,390.26-391.2 Ro_II,604 {3/6} अक्षधूर्तः स्त्रीधूर्तः अक्षकितवः स्त्रीकितवः इति ।

(P_2,1.40) KA_I,390.26-391.2 Ro_II,604 {4/6} तत् तर्हि वक्तव्यम् ।

(P_2,1.40) KA_I,390.26-391.2 Ro_II,604 {5/6} न वक्तव्यम् ।

(P_2,1.40) KA_I,390.26-391.2 Ro_II,604 {6/6} बहुवचननिर्देशात् शौण्डादिभिः इति विज्ञास्यते ।

(P_2,1.42) KA_I,391.4-7 Ro_II,605 {1/7} ध्वाङ्क्षेण इति अर्थग्रहणम्

(P_2,1.42) KA_I,391.4-7 Ro_II,605 {2/7} ध्वाङ्क्षेण इति अर्थग्रहणम् कर्तव्यम् ।

(P_2,1.42) KA_I,391.4-7 Ro_II,605 {3/7} इह अपि यथा स्यात् ।

(P_2,1.42) KA_I,391.4-7 Ro_II,605 {4/7} तीर्थकाकः इति ।

(P_2,1.42) KA_I,391.4-7 Ro_II,605 {5/7} क्षेपे इति उच्यते ।

(P_2,1.42) KA_I,391.4-7 Ro_II,605 {6/7} कः इह क्षेपः नाम ।

(P_2,1.42) KA_I,391.4-7 Ro_II,605 {7/7} यथा तीर्थे काकाः न चिरम् स्थातारः भवन्ति एवम् यः गुरुकुलानि गत्वा न चिरम् तिष्ठति स उच्यते तीर्थकाकः इति ।

(P_2,1.43) KA_I,391.9-13 Ro_II,605 {1/12} कृत्यैः नियोगे यद्ग्रहणम्

(P_2,1.43) KA_I,391.9-13 Ro_II,605 {2/12} कृत्यैः नियोगे इति वक्तव्यम् ।

(P_2,1.43) KA_I,391.9-13 Ro_II,605 {3/12} इह अपि यथा स्यात् ।

(P_2,1.43) KA_I,391.9-13 Ro_II,605 {4/12} पूर्वाःणेगेयम् साम प्रातः अध्येयः अनुवाकः इति ।

(P_2,1.43) KA_I,391.9-13 Ro_II,605 {5/12} तत् तर्हि वक्तव्यम् ।

(P_2,1.43) KA_I,391.9-13 Ro_II,605 {6/12} न वक्तव्यम् ।

(P_2,1.43) KA_I,391.9-13 Ro_II,605 {7/12} ऋणे इति एव सिद्धम् ।

(P_2,1.43) KA_I,391.9-13 Ro_II,605 {8/12} इह यत् यस्य नियोगतः कार्यम् ऋणम् तस्य तत् भवति ।

(P_2,1.43) KA_I,391.9-13 Ro_II,605 {9/12} ततः ऋणे इति एव सिद्धम् ।

(P_2,1.43) KA_I,391.9-13 Ro_II,605 {10/12} यग्रहणम् च कर्तव्यम् ।

(P_2,1.43) KA_I,391.9-13 Ro_II,605 {11/12} इह मा भूत् ।

(P_2,1.43) KA_I,391.9-13 Ro_II,605 {12/12} पूर्वाह्णे दातव्या भिक्षा इति ।

(P_2,1.47) KA_I,391.15-20 Ro_II,605 {1/9} किम् उदाहरणम् ।

(P_2,1.47) KA_I,391.15-20 Ro_II,605 {2/9} अवतप्तेनकुलस्थितम् ते एतत् ।

(P_2,1.47) KA_I,391.15-20 Ro_II,605 {3/9} क्षेपे इति उच्यते ।

(P_2,1.47) KA_I,391.15-20 Ro_II,605 {4/9} कः इह क्षेपः नाम ।

(P_2,1.47) KA_I,391.15-20 Ro_II,605 {5/9} यथा अवतप्ते नकुलाः न चिरम् स्थातारः भवन्ति एवम् कार्याणि आरभ्य यः न चिरम् तिष्ठति स उच्यते अवतप्तेनकुलस्थितम् ते एतत् इति ।

(P_2,1.47) KA_I,391.15-20 Ro_II,605 {6/9} क्षेपे सप्तम्यन्तम् क्तान्तेन सह समस्यते इति उच्यते ।

(P_2,1.47) KA_I,391.15-20 Ro_II,605 {7/9} तत्र सगतिकेन सनकुलेन च समासः न प्राप्नोति ।

(P_2,1.47) KA_I,391.15-20 Ro_II,605 {8/9} क्षेपे गतिकारकपूर्वे उक्तम् । किम् उक्तम् ।

(P_2,1.47) KA_I,391.15-20 Ro_II,605 {9/9} कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति ।

(P_2,1.48) KA_I,392.2-3 Ro_II,606 {1/5} किमर्थः चकारः ।

(P_2,1.48) KA_I,392.2-3 Ro_II,606 {2/5} एवकारार्थः ।

(P_2,1.48) KA_I,392.2-3 Ro_II,606 {3/5} पात्रेसमितादयः एव ।

(P_2,1.48) KA_I,392.2-3 Ro_II,606 {4/5} क्व मा भूत् ।

(P_2,1.48) KA_I,392.2-3 Ro_II,606 {5/5} परमम् पात्रेसमिताः इति ।

(P_2,1.49) KA_I,392.5-14 Ro_II,606-607 {1/13} इह कस्मात् अव्ययीभावः न भवति ।

(P_2,1.49) KA_I,392.5-14 Ro_II,606-607 {2/13} एका नदी एकनदी ।

(P_2,1.49) KA_I,392.5-14 Ro_II,606-607 {3/13} नदीभिः सङ्ख्या इति प्राप्नोति ।

(P_2,1.49) KA_I,392.5-14 Ro_II,606-607 {4/13} इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः ।

(P_2,1.49) KA_I,392.5-14 Ro_II,606-607 {5/13} पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः , उभयपदार्थप्रधानः द्वन्द्वः। न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते ।

(P_2,1.49) KA_I,392.5-14 Ro_II,606-607 {6/13} अथवा अव्ययीभावः क्रियताम् बहुव्रीहिः इति ।

(P_2,1.49) KA_I,392.5-14 Ro_II,606-607 {7/13} बहुव्रीहिः भविष्यति विप्रतिषेधेन ।

(P_2,1.49) KA_I,392.5-14 Ro_II,606-607 {8/13} भवेत् एकसञ्ज्ञाधिकारे सिद्धम् परङ्कार्यत्वे तु न सिध्यति ।

(P_2,1.49) KA_I,392.5-14 Ro_II,606-607 {9/13} आरम्भसामर्थ्यात् च अव्ययीभावः प्राप्नोति परङ्कार्यत्वात् च बहुव्रीहिः ।

(P_2,1.49) KA_I,392.5-14 Ro_II,606-607 {10/13} परङ्कार्यत्वे च न दोषः ।

(P_2,1.49) KA_I,392.5-14 Ro_II,606-607 {11/13} नदीभिः सङ्ख्यायाः समाहारे अव्ययीभावः वक्तव्यः ।

(P_2,1.49) KA_I,392.5-14 Ro_II,606-607 {12/13} सः च अवश्यम् वक्तव्यः ।

(P_2,1.49) KA_I,392.5-14 Ro_II,606-607 {13/13} सर्वम् एकनदीतरे ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {1/32} समाहारः इति कः अयम् शब्दः ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {2/32} समाङ्पूर्वात् हरतेः सर्मसाधने घञ् ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {3/32} समाह्रियते समाहारः इति ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {4/32} यदि कर्मसाधनः पञ्च कुमार्यः समहृताः पञ्चकुमारि दशकुमारि गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् न प्राप्नोति द्विगुः एकवचनम् इति एतत् च वक्तव्यम् ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {5/32} एवम् तर्हि भावसाधनः भविष्यति ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {6/32} समाहरणम् समाहारः ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {7/32} अथ भावसाधने सति किम् अभिधीयते ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {8/32} यत् तत् औत्तराधर्यम् ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {9/32} कः पुनः गवाम् समाहारः ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {10/32} यत् तत् अर्जनम् क्रयणम् भिषणम् अपरहरणम् वा ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {11/32} यदि एवम् विक्षिप्तेषु पूलेषु गोषु चरन्तीषु न सिध्यति ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {12/32} एवम् तर्हि समभ्याशीकरणम् समाहारः ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {13/32} एवम् अपि पञ्चग्रामी षण्णगरी त्रिपुरी इति न सिध्यति ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {14/32} किम् कारणम् ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {15/32} सम् एकत्ववाची आङ् आभिमुख्ये वर्तते हरतिः देशान्तरप्रापणे ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {16/32} न अवश्यम् हरतिः देशान्तरप्रापणे एव वर्तते ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {17/32} किम् तर्हि ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {18/32} सादृश्ये अपि वर्तते ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {19/32} तत् यथा मातुः अनुहरति पितुः अनुहरति ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {20/32} अथ वा पञ्चग्रामी षण्णगरी त्रिपुरी इति न एव इदम् इयति एव अवतिष्ठते ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {21/32} अवश्यम् असौ ततः किम् चित् आकाङ्क्षति क्रियाम् वा गुणम् वा ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {22/32} यत् आकाङ्क्षत तत् एकम् स च समाहारः ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {23/32} अयम् तर्हि भावसाधने सति दोषः ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {24/32} पञ्चपूली आनीयताम् इति भावानयने चोदिते द्रव्यानयनम् न प्रापोति ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {25/32} न एषः दोषः ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {26/32} इह तावत् अयम् प्रष्टव्यः ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {27/32} अथ इह गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति कथम् आकृतौ चोदितायाम् द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनानि क्रियन्ते ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {28/32} असम्भवात् ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {29/32} आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {30/32} इदम् अपि एवञ्जातीयकम् एव ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {31/32} असम्भवात् भावानयनस्य द्रव्यानयनम् भविष्यति ।

(P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 {32/32} अथ वा अव्यतिरेकात् द्रव्याकृत्योः ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {1/54} किम् पुनः द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः भवति ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {2/54} एवम् भवितुम् अर्हति ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {3/54} द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {4/54} द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {5/54} का एतरेतराश्रयता ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {6/54} द्विगुनिमित्ते प्रत्ययोत्तरपदे प्रत्ययोत्तरपदनिमित्ता च द्विगुसञ्ज्ञा ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {7/54} तत् एतत् इतरेतराश्रयम् ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {8/54} इतरेतराश्रयाणि च न प्रकल्पन्ते ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {9/54} एवम् तर्हि अर्थे इत् वक्ष्यामि ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {10/54} अर्थे चेत् तद्धितानुत्पत्तिः बहुव्रीहिवत्

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {11/54} अर्थे चेत् तद्धितोत्पत्तिः न प्राप्नोति ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {12/54} पाञ्चनापितिः , द्विमातुरः , त्रैमातुरः ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {13/54} किम् कारणम् ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {14/54} द्विगुना उक्तत्वात् बहुव्रीहिवत् ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {15/54} तत् यथा चित्रगुः इति बहुव्रीहिणोक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {16/54} एवम् तर्हि समासतद्धितविधौ इति वक्ष्यामि ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {17/54} समासतद्धितविधौ इति चेत् अन्यत्र समाससञ्ज्ञाभावः

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {18/54} समासतद्धितविधौ इति चेत् अन्यत्र समाससञ्ज्ञा न प्राप्नोति ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {19/54} क्व अन्यत्र ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {20/54} स्वरे ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {21/54} पञ्चारत्निः , दशारत्निः ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {22/54} इगन्ते द्विगौ इति एषः स्वरः न प्राप्नोति ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {23/54} सिद्धम् तु प्रत्ययोत्तरपदयोः च इति वचनात्

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {24/54} सिद्धम् एतत् ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {25/54} कथम् ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {26/54} प्रत्ययोत्तरपदयोः च इति वचनात् ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {27/54} प्रत्ययोत्तरपदयोः द्विगुसञ्ज्ञा भवति इति वक्तव्यम् ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {28/54} ननु च उक्तम् द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः इति ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {29/54} न एषः दोषः ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {30/54} इतरेतराश्रयमात्रम् एतत् चोदितम् सर्वाणि च इतरेतराश्रयाणि एकत्वेन परिहृतानि सिद्धम् तु नित्यशब्दत्वात् इति ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {31/54} न इदम् तुल्यम् अन्यैः इतरेतराश्रयैः ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {32/54} न हि सञ्ज्ञा नित्या ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {33/54} एवम् तर्हि भाविनी सञ्ज्ञा विज्ञास्यते ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {34/54} तत् यथा : कः चित् कम् चित् तन्तुवायम् आह : अस्य सूत्रस्य शाटकम् वय इति ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {35/54} सः पश्यति ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {36/54} यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {37/54} शाटकः वातव्यः च इति विप्रतिषिद्धम् ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {38/54} भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {39/54} सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {40/54} एवम् इह अपि तस्मिन् द्विगुः भवति यस्य अभिनिर्वृत्तस्य प्रत्यय उत्तरपदम् इति च एते सञ्ज्ञे भविष्यतः ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {41/54} अथ वा पुनः अस्तु अर्थे इति ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {42/54} ननु च उक्तम् अर्थे चेत् तद्धितानुत्पत्तिः बहुव्रीहिवत् इति ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {43/54} न एषः दोषः ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {44/54} न अवश्यम् अर्थशब्दः अभिधेये एव वर्तते ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {45/54} किम् तर्हि ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {46/54} स्यादर्थे अपि वर्तते ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {47/54} तत् यथा ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {48/54} दारार्थम् घटामहे ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {49/54} धनार्थम् भिक्षामहे ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {50/54} दाराः नः स्युः ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {51/54} धनानि नः स्युः इति ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {52/54} एवम् इह अपि तद्धितार्थे द्विगुः भवति तद्धितः स्यात् इति ।

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {53/54} द्विगोः वा लुग्वचनम् ज्ञापकम् तद्धितोत्पत्तेः

(P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 {54/54} अथ वा यत् अयम् द्विगोः लुक् अनपत्ये इति द्विगोः उत्तरस्य तद्धितस्य लुकम् शास्ति तत् ज्ञापयति आचार्यः उत्पद्यते द्विगोः तद्धितः इति।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {1/71} समाहारसमूहयोः अविशेषात् समाहारग्रहणानर्थक्यम् तद्धितार्थेन कृतत्वात्

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {2/71} समाहारः समूहः इति अविशिष्तौ एतौ अर्थौ ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {3/71} समाहारसमूहयोः अविशेषात् समाहारग्रहणम् अनर्थकम् ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {4/71} किम् कारणम् ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {5/71} तद्धितार्थे कृतत्वात् ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {6/71} तद्धितार्थे द्विगुः इति एवम् अत्र द्विगुः भविष्यति ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {7/71} यदि तद्धितार्थे द्विगुः इति एवम् अत्र द्विगुः भवति तद्धितोत्पत्तिः प्राप्नोति ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {8/71} उत्पद्यताम् ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {9/71} लुक् भविष्यति ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {10/71} लुक्कृतानि प्राप्नुवन्ति ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {11/71} कानि ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {12/71} पञ्चपूली दशपूली ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {13/71} अपरिमाणबिस्ताचितकम्बलेभ्यः न तद्धितलुकि इति प्रतिषेधः प्राप्नोति ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {14/71} पञ्चगवम् दशगवम् ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {15/71} गोः अतद्धितलुकि इत् टच् न प्रप्नोति ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {16/71} न एषः दोषः ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {17/71} अविशेषेण द्विगोः ङीप् भवति इति उक्त्वा समाहारे इति वक्ष्यामि ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {18/71} तत् नियमार्थम् भविष्यति ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {19/71} समाहारे एव न अन्यत्र इति ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {20/71} गोः अकारः द्विगोः समाहारे ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {21/71} अविशेषेण गोः टच् भवति इति उक्त्वा द्विगोः समाहारे इति वक्ष्यामि ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {22/71} तत् नियमार्थम् भविष्यति ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {23/71} समाहारे एव न अन्यत्र इति ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {24/71} अभिधानार्थम् तु

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {25/71} अभिधानार्थम् तु समाहारग्रहणम् कर्तव्यम् ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {26/71} समाहारेण अभिधानम् यथा स्यात् तद्धितार्थेन मा भूत् इति ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {27/71} किम् च स्यात् ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {28/71} तद्धितोत्पत्तिः प्रसज्येत ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {29/71} उत्पद्यताम् ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {30/71} लुक् भविष्यति ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {31/71} लुक्कृतानि प्राप्नुवन्ति ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {32/71} सर्वाणि परिहृतानि ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {33/71} न सर्वाणि परिहृतानि ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {34/71} पञ्चकुमारि दशकुमारि ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {35/71} लिक् तद्धितलुकि इति ङीपः लुक् प्रसज्येत ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {36/71} द्वन्द्वतत्पुरुषयोः उत्तरपदे नित्यसमासवचनम्

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {37/71} द्वन्द्वतत्पुरुषयोः उत्तरपदे नित्यसमासः वक्तव्यः ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {38/71} वाग्दृषदप्रियः छत्रोपानहप्रियः पञ्चगवप्रियः दशगवप्रियः ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {39/71} किम् प्रयोजनम् ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {40/71} समुदायवृत्तौ अवयवानाम् मा कदा चित् अवृत्तिः भूत् इति ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {41/71} तत् तर्हि वक्तव्यम् ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {42/71} न वक्तव्यम् ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {43/71} इह द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {44/71} यदा वृत्तिपक्षः तदा सर्वेषाम् एव वृत्तिः ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {45/71} यदा तु अवृत्तिः तदा सर्वेषाम् अवृत्तिः ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {46/71} उत्तरपदेन परिमाणिन द्विगोः समासवचनम्

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {47/71} उत्तरपदेन परिमाणिन द्विगोः समासः वक्तव्यः ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {48/71} द्विमासजातः त्रिमासजातः ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {49/71} किम् पुनः कारणम् न सिध्यति ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {50/71} सुप् सुपा इति वर्तते ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {51/71} एवम् तर्हि इदम् स्यात् : द्वौ मासौ द्विमासम् , द्विमासम् जातस्य इति ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {52/71} न एवम् शक्यम् ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {53/71} स्वरे हि दोषः स्यात् ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {54/71} द्विमासजातः इति प्राप्नोति द्विमासजातः इति च इष्यते ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {55/71} द्व्याह्नजातः च न सिध्यति ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {56/71} द्व्यहजात इति प्राप्नोति न च एवम् भवितव्यम् ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {57/71} भवितव्यम् च यदा समाहारे द्विगुः ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {58/71} द्व्यह्नजातः तु न सिध्यति ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {59/71} किम् उच्यते परिमाणिना इति न पुनः अन्यत्र अपि ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {60/71} पञ्चगवप्रियः दशगवप्रियः ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {61/71} अन्यत्र समुदायबहुव्रीहित्वात् उत्तरपदप्रसिद्धिः

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {62/71} अन्यत्र समुदायबः हुव्रीहिसञ्ज्ञ्ः ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {63/71} अन्यत्र समुदायबहुव्रीहित्वात् उत्तरपदम् प्रसिद्धम् ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {64/71} उत्तरपदे प्रसिद्धे उत्तरपदे इति द्विगुः भविष्यति ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {65/71} सर्वत्र मत्वर्थे प्रतिषेधः

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {66/71} सर्वेषु पक्षेषु द्विगुसञ्ज्ञायाः मत्वर्थे प्रतिषेधः वक्तव्यः ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {67/71} किम् प्रयोजनम् ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {68/71} पञ्चखट्वा दशखट्वा ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {69/71} द्विगोः इति ईकारः मा भूत् ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {70/71} पञ्चगुः दशगुः ।

(P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 {71/71} गोः अतद्धितलुकि इति टच् मा भूत् इति ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {1/25} किम् अनन्तरे योगे सङ्ख्यापूर्वः सः द्विगुसञ्ज्ञः आहोस्वित् पूर्वमात्रे ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {2/25} किम् च अतः ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {3/25} यदि अनन्तरे योगे एकशाटी द्विगोः इति ईकारः न प्राप्नोति ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {4/25} अथ पूर्वमात्रे अकभिक्षा अत्र अपि प्राप्नोति ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {5/25} अस्तु अनन्तरे ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {6/25} कमम् एकशाटी ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {7/25} ईकारान्तेन समासः भविष्यति ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {8/25} एका शाटी एकशाटी ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {9/25} इह तर्हि एकापूपी द्विगोः इति ईकारः न प्राप्नोति ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {10/25} अस्तु तर्हि पूर्वमात्रे। कथम् एकभिक्षा ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {11/25} टाबन्तेन समासः भविष्यति ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {12/25} एका भिक्षा एकभिक्षा ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {13/25} इह तर्हि सप्तर्षयः इगन्ते द्विगौ इति एषः स्वरः प्राप्नोति ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {14/25} अस्तु तर्हि अनन्तरे ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {15/25} कथम् एकापूपी ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {16/25} समाहारे इति एव सिद्धम् ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {17/25} कः पुनः अत्र समाहारः ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {18/25} यत् तद्दानम् सम्भ्रमः वा ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {19/25} इह तर्हि पञ्चहोतारः दशहोतारः इगन्ते द्विगौ इति एषः स्वरः न प्रप्नोति ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {20/25} अस्तु तर्हि पूर्वमात्रे ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {21/25} कथम् सप्तर्षयः ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {22/25} अन्तोदात्तप्रकरणे त्रिचक्रादीनाम् छन्दसि इति एवम् एतत् सिद्धम् ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {23/25} अथ वा पुनः अस्तु अनन्तरे ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {24/25} कथम् पञ्चहोतारः दशहोतारः ।

(P_2,1.52) KA_I,396.13-23 Ro_II,617-618 {25/25} आद्युदात्तप्रकरणे दिवोदासादीनाम् छन्दसि इति एव सिद्धम् ।

(P_2,1.53) KA_I,397.2-3 Ro_II,619 {1/5} किम् उदाहरण्म् ।

(P_2,1.53) KA_I,397.2-3 Ro_II,619 {2/5} वैयाकरणखसूचिः ।

(P_2,1.53) KA_I,397.2-3 Ro_II,619 {3/5} किम् व्याकरणम् कुत्सितम् आहोस्वित् वैयाकरणः ।

(P_2,1.53) KA_I,397.2-3 Ro_II,619 {4/5} वैयाकरणः कुत्सितः ।

(P_2,1.53) KA_I,397.2-3 Ro_II,619 {5/5} तस्मिन् कुत्सिते तत्स्थम् अपि कुत्सितम् भवति ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {1/63} उपमानानि इति उच्यते ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {2/63} कानि पुनः उपमानानि ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {3/63} किम् यत् एव उपमानम् तत् एव उपमेयम् आहोस्वित् अन्यत् उपमानम् अन्यत् उपमेयम् ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {4/63} किम् च अतः ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {5/63} यदि यत् एव उपमानम् तत् एव उपमेयम् कः इह उपमार्थः गौः इव गौः इति ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {6/63} अथ अन्यत् एव उपमानम् अन्यत् उपमेयम् कः इह उपमार्थः गौः इव अश्वः इति ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {7/63} एवम् तर्हि यत्र किम् चित् सामान्यम् कः चित् विशेषः तत्र उपमानोपमेये भवतः ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {8/63} किम् वक्तव्यम् एतत् ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {9/63} न हि ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {10/63} कथम् अनुच्यमानम् गंस्यते ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {11/63} मानम् हि नाम अनिर्ज्ञातज्ञानार्थम् उपादीयते अनिर्ज्ञातम् अर्थम् ज्ञास्यामि इति ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {12/63} तत् समीपे यत् न अत्यन्ताय मिमीते तत् उपमानम् ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {13/63} गौः इव गवयः इति ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {14/63} गौः निर्ज्ञातः गवयः अनिर्ज्ञातः ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {15/63} कामम् तर्हि अनेन एव हेतुना यस्य गवयः निर्ज्ञातः स्यात् गौः अनिर्ज्ञातः तेन कर्तव्यम् स्यात् गवयः इव गौः इति। बाढम् कर्तव्यम् ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {16/63} किम् पुनः इह उदाहरणम् ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {17/63} शस्त्रीश्यामा ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {18/63} क्व पुनः अयम् श्यामाशब्दः वर्तते ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {19/63} शत्र्याम् इति आह ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {20/63} केन इदानीम् देवदत्ता अभिधीयते ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {21/63} समासेन। यदि एवम् शस्त्रीश्यामो देवदत्तः इति न सिध्यति ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {22/63} उपसर्जनस्य इति ह्रस्वत्वम् भविष्यति ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {23/63} यदि तर्हि उपसर्जनानि अपि एवञ्जातीयकानि भवन्ति तित्तिरिकल्माषी कुम्भकपाललोहिनी अनुपसर्जनलक्षणः ईकारः न प्राप्नोति ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {24/63} एवम् तर्हि शस्त्र्याम् एव शस्त्रीशब्दः वर्तते देवदत्तायाम् श्यामाशब्दः ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {25/63} एवम् अपि गुणः अनिर्दिष्टः भवति ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {26/63} बहवः शस्त्र्याम् गुणाः तीक्ष्णा सूक्ष्मा पृथुः इति ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {27/63} अनिर्दिश्यमानस्य अपि गुणस्य भवति लोके सम्प्रत्ययः ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {28/63} तत् यथा चन्द्रमुखी देवदत्ता इति ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {29/63} बहवः चन्द्रे गुणाः या च असौ प्रियदर्शनता सा गम्यते ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {30/63} एवम् अपि समानाधिकरणेन इति वर्तते ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {31/63} व्यधिकरणत्वात् समासः न प्राप्नोति ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {32/63} किम् हि वचनात् न भवति ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {33/63} यदि अपि तावत् वचनात् समासः स्यात् इह तु खलु मृगी इव चपला मृगचपला समानाधिकरणलक्षणः पुंवद्भावः न प्राप्नोति ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {34/63} एवम् तर्हि तस्याम् एव उभयम् वर्तते ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {35/63} एतत् च अत्र युक्तम् यत् तस्याम् एव उभयम् वर्तते इति ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {36/63} इतरथा हि बहु अपेक्ष्यम् स्यात् ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {37/63} यदि तावत् एवम् विग्रहः क्रियते शस्त्री इव श्यामा देवदत्ता इति शस्त्र्याम् श्यामा इति एतत् अपेक्ष्यम् ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {38/63} अथ अपि एवम् विग्रहः क्रियते यथा सास्त्रीश्यामा तद्वत् इयम् देवदत्ता इति एवम् अपि देवदत्तायाम् श्यामा इति अपेक्ष्यम् स्यात् ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {39/63} एवम् अपि गुणः अनिर्दिष्टः भवति ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {40/63} बहवः शस्त्र्याम् गुणाः तीक्ष्णा सूक्ष्मा पृथुः इति ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {41/63} अनिर्दिश्यमानस्य अपि गुणस्य भवति लोके सम्प्रत्ययः ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {42/63} तत् यथा चन्द्रमुखी देवदत्ता इति ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {43/63} बहवः चन्द्रे गुणाः या च असौ प्रियदर्शनता सा गम्यते ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {44/63} उपमानसमासे गुणवचनस्य विशेषभाक्त्वात् सामन्यवचनाप्रसिद्धिः

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {45/63} उपमानसमासे गुणवचनस्य विशेषभाक्त्वात् सामन्यवचनस्य अप्रसिद्धिः स्यात् ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {46/63} शस्त्रीश्यामा ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {47/63} श्यामाशब्दः अयम् शस्त्रीशब्देन अभिसम्बध्यमानः विशेषवचनः सम्पद्यते ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {48/63} तत्र सामान्यवचनैः इति समासः न प्राप्नोति ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {49/63} न वा श्यामत्वस्यो उह्हयत्र भावात् तद्वाचक्त्वात् च शब्दस्य सामान्यवचनप्रसिद्धिः

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {50/63} न वा एषः दोषः ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {51/63} किम् कारणम् ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {52/63} श्यामत्वस्यो उह्हयत्र भावात् ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {53/63} उभयत्र एव श्यामत्वम् अस्ति शस्त्र्याम् देवदत्तायाम् च ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {54/63} तद्वाचक्त्वात् च शब्दस्य ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {55/63} सामान्यवचनप्रसिद्धिः तद्वाचकः च अत्र श्यामाशब्दः प्रयुज्यते ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {56/63} किम्वाचकः ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {57/63} उभयवाचकः ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {58/63} श्यामत्वस्य उभयत्र भावात् तद्वाचकत्वात् च शब्दस्य सामान्यवचनम् प्रसिद्धम् ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {59/63} सामान्यवचने प्रसिद्धे सामान्यवचनैः इति समासः भविष्यति ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {60/63} न च अवश्यम् सः एव सामान्यवचनः यः बहूनाम् सामान्यम् आह। द्वयोः अपि सामान्यम् आह सः अपि सामान्यवचनः एव ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {61/63} अथ वा सामान्यवचनैः इति उच्यते ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {62/63} सर्वः च शब्दः अन्येन शब्देन अभिसम्बध्यमानः विशेषवचनः सम्पद्यते ।

(P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 {63/63} ते एवम् विज्ञास्यामः प्राक् अभिसम्बन्धात् सामान्यवचनः इति ।

(P_2,1.56) KA_I,398.21-399.2 Ro_II,627-628 {1/13} सामान्याप्रयोगे इति किमर्थम् ।

(P_2,1.56) KA_I,398.21-399.2 Ro_II,627-628 {2/13} इह मा भूत् ।

(P_2,1.56) KA_I,398.21-399.2 Ro_II,627-628 {3/13} पुरुषः अयम् व्याघ्रः इव शूरः ।

(P_2,1.56) KA_I,398.21-399.2 Ro_II,627-628 {4/13} पुरुषः अयम् व्याघ्रः इव बलवान् ।

(P_2,1.56) KA_I,398.21-399.2 Ro_II,627-628 {5/13} सामान्याप्रयोगे इति शक्यम् अकर्तुम् ।

(P_2,1.56) KA_I,398.21-399.2 Ro_II,627-628 {6/13} कस्मात् न भवति पुरुषः अयम् व्याघ्रः इव शूरः ।

(P_2,1.56) KA_I,398.21-399.2 Ro_II,627-628 {7/13} पुरुषः अयम् व्याघ्रः इव बलवान् इति ।

(P_2,1.56) KA_I,398.21-399.2 Ro_II,627-628 {8/13} असामर्थ्यात् ।

(P_2,1.56) KA_I,398.21-399.2 Ro_II,627-628 {9/13} कथम् असामर्थ्यम् ।

(P_2,1.56) KA_I,398.21-399.2 Ro_II,627-628 {10/13} सापेक्षम् असमर्थम् भवति इति ।

(P_2,1.56) KA_I,398.21-399.2 Ro_II,627-628 {11/13} एवम् तर्हि सिद्धे सति यत् सामान्याप्रयोगे इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति वै प्रधानस्य सापेक्षस्य अपि समासः इति ।

(P_2,1.56) KA_I,398.21-399.2 Ro_II,627-628 {12/13} किम् एतस्य ज्ञापने प्रयोजनम् ।

(P_2,1.56) KA_I,398.21-399.2 Ro_II,627-628 {13/13} राजपुरुषः अभिरूपः राजपुरुषः दर्शनीयः अत्र वृत्तिः सिद्धा भवति ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {1/34} विशेषणविशेष्ययोः उभयविशेषणत्वात् उभयोः च विशेष्यत्वात् उपसर्जनाप्रसिद्धिः

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {2/34} विशेषणविशेष्ययोः उभयविशेषणत्वात् उभयोः च विशेष्यत्वात् उपसर्जन्स्य अप्रसिद्धिः ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {3/34} कृष्णतिलाः इति कृष्णशब्दः अयम् तिलशब्देन अभिसम्बध्यमानः विशेषणवचनः सम्पद्यते ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {4/34} तथा तिलशब्दः कृष्णशब्देन अभिसम्बध्यमानः विशेषणवचनः सम्पद्यते ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {5/34} तत् उभयम् विशेषणम् भवति उभयम् च विशेष्यम् ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {6/34} विशेषणविशेष्ययोः उभयविशेषणत्वात् उभयोः च विशेष्यत्वात् उपसर्जन्स्य अप्रसिद्धिः ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {7/34} न वा अन्यतरस्य प्रधानभावात् तद्विशेषकत्वात् च अपरस्य उपसर्जनप्रसिद्धिः

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {8/34} न वा एषः दोषः ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {9/34} किम् कारणम् ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {10/34} अन्यतरस्य प्रधानभावात् ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {11/34} अन्यतरत् अत्र प्रधानम् ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {12/34} तद्विशेषकत्वात् च अपरस्य ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {13/34} तद्विशेषकम् च अपरम् ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {14/34} अन्यतरस्य प्रधानभावात् तद्विशेषकत्वात् च अपरस्य उपसर्जनसञ्ज्ञा भविष्यति ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {15/34} यदा अस्य तिलाः प्राधान्येन विवक्षिताः भवन्ति कृष्णः विशेषणत्वेन तदा तिलाः प्रधानम् कृष्णः विशेषणम् ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {16/34} कामम् तर्हि अनेन एव हेतुना यस्य कृष्णाः प्राधान्येन विवक्षिताः भवन्ति तिलाः विशेषणत्वेन तेन कर्तव्यम् तिलकृष्णाः इति ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {17/34} न कर्तव्यम् ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {18/34} न हि अयम् द्वन्द्वः तिलाः च कृष्णाः च इति ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {19/34} न खलु अपि षष्ठीसमासः तिलानाम् कृष्णाः इति ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {20/34} किम् तर्हि ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {21/34} द्वौ इमौ प्रधानशब्दौ एकस्मिन् अर्थे युगपत् अवरुध्येते ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {22/34} न च द्वयोः प्रधानशब्दयोः एकस्मिन् अर्थे युगपत् अवरुध्यमानयोः किम् चित् अपि प्रयोजनम् अस्ति ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {23/34} तत्र प्रयोगात् एतत् गन्तव्यम् ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {24/34} नूनम् अत्र अन्यतरत् प्रधानम् तद्विशेषकम् च अपरम् इति ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {25/34} तत्र तु एतावान् सन्देहः किम् प्रधानम् किम् विशेषणम् इति ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {26/34} सः च अपि क्व सन्देहः ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {27/34} यत्र उभौ गुणशब्दौ ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {28/34} तत् यथा कुञ्जखञ्जकः खञ्जकुब्जकः इति ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {29/34} यत्र हि अन्यतरत् द्रव्यम् अन्यतरः गुणः तत्र यत् द्रव्यम् तत् प्रधानम् ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {30/34} तत् यथा शुक्लम् आलभेत कृष्णम् आलभेत इति न पिष्टपिण्डीम् आलभ्य कृती भवति ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {31/34} अवश्यम् तद्गुणम् द्रव्यम् आकाङ्क्षति ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {32/34} कथम् तर्हि इमौ द्वौ प्रधानशब्दौ एकस्मिन् अर्थे युगपत् अवरुध्येते वृक्षः शिंशिपा इति ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {33/34} न एतयोः आवश्यकः समावेशः ।

(P_2,1.57) KA_I,399.4-26 Ro_II,628-632 {34/34} न हि अवृक्षः शिंशिपा अस्ति ।

(P_2,1.58) KA_I,400.2-11 Ro_II,633-634 {1/14} अथ किमर्थम् उत्तरत्र एवमादि अनुक्रमणम् क्रियते न विशेषणम् विशेष्येण बहुलम् इति एव सिद्धम् ।

(P_2,1.58) KA_I,400.2-11 Ro_II,633-634 {2/14} बहुलवचनस्य अकृत्स्नत्वात् उत्तरत्रानुक्रमणसामर्थ्यम्

(P_2,1.58) KA_I,400.2-11 Ro_II,633-634 {3/14} अकृत्स्नम् बहुलवचनम् इति उत्तरत्र अनुक्रमणम् क्रियते ।

(P_2,1.58) KA_I,400.2-11 Ro_II,633-634 {4/14} यदि अकृत्स्नम् यत् अनेन कृतम् अकृतम् तत् ।

(P_2,1.58) KA_I,400.2-11 Ro_II,633-634 {5/14} एवम् तर्हि न ब्रूमः अकृत्स्नम् इति ।

(P_2,1.58) KA_I,400.2-11 Ro_II,633-634 {6/14} कृत्स्नम् च कारकम् च साधकम् च निर्वर्तकम् च ।

(P_2,1.58) KA_I,400.2-11 Ro_II,633-634 {7/14} यत् च अनेन कृतम् सुक्तृतम् तत् ।

(P_2,1.58) KA_I,400.2-11 Ro_II,633-634 {8/14} किमर्थम् तर्हि एवमादि अनुक्रमणम् क्रियते ।

(P_2,1.58) KA_I,400.2-11 Ro_II,633-634 {9/14} उदाहरणभूयस्त्वात् ।

(P_2,1.58) KA_I,400.2-11 Ro_II,633-634 {10/14} ते खलु अपि विधयः सुपरिगृहीताः भवन्ति येषु लक्षणम् प्रपञ्चः च ।

(P_2,1.58) KA_I,400.2-11 Ro_II,633-634 {11/14} केवलम् लक्षणम् केवलः प्रपञ्चः वा न तथा कारकम् भवति ।

(P_2,1.58) KA_I,400.2-11 Ro_II,633-634 {12/14} अवश्यम् खलु अस्माभिः इदम् वक्तव्यम् बहुलम् अन्यतरस्याम् उभयथा वा एकेषाम् इति ।

(P_2,1.58) KA_I,400.2-11 Ro_II,633-634 {13/14} सर्ववेदपाऋइषदम् हि इदम् शास्त्रम् ।

(P_2,1.58) KA_I,400.2-11 Ro_II,633-634 {14/14} तत्र न एकः पन्थाः शक्यः आस्थातुम्

(P_2,1.59) KA_I,400.13-18 Ro_II,635 {1/11} श्रेण्यादयः पठ्यन्ते ।

(P_2,1.59) KA_I,400.13-18 Ro_II,635 {2/11} कृतादिः आकृतिगणः ।

(P_2,1.59) KA_I,400.13-18 Ro_II,635 {3/11} श्रेण्यादिषु च्व्यर्थवचनम्

(P_2,1.59) KA_I,400.13-18 Ro_II,635 {4/11} श्रेण्यादिषु च्व्यर्थग्रहणम् कर्तव्यम् ।

(P_2,1.59) KA_I,400.13-18 Ro_II,635 {5/11} अश्रेणयः श्रेणयः कृताः श्रेणिकृताः ।

(P_2,1.59) KA_I,400.13-18 Ro_II,635 {6/11} यदा हि श्रेणयः एव किम् चित् क्रियन्ते तदा मा भूत् ।

(P_2,1.59) KA_I,400.13-18 Ro_II,635 {7/11} अन्यत्र अयम् च्व्यर्थग्रहणेषु च्व्यन्तस्य प्रतिषेधम् शास्ति ।

(P_2,1.59) KA_I,400.13-18 Ro_II,635 {8/11} तत् इह न तथा ।

(P_2,1.59) KA_I,400.13-18 Ro_II,635 {9/11} किम् कारणम् ।

(P_2,1.59) KA_I,400.13-18 Ro_II,635 {10/11} अन्यत्र पूर्वम् च्व्यन्तकार्यम् परम् च्व्यर्थकार्यम् ।

(P_2,1.59) KA_I,400.13-18 Ro_II,635 {11/11} इह पुनः पूर्वम् च्य्वर्थकार्यम् परम् च्व्यन्तकार्यम् इति ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {1/49} नञ्विशिष्टे समानप्रकृतिवचनम्

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {2/49} नञ्विशिष्टे समानप्रकृतिग्रहणम् कर्तव्यम् ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {3/49} इह मा बूत् ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {4/49} सिद्धम् च अभुक्तम् च इति ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {5/49} अनञ् इति च प्रतिषेधः कर्तव्यः ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {6/49} इह मा भूत् ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {7/49} कर्तव्यम् अकृतम् इति ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {8/49} नुडिडधिकेन च

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {9/49} नुडिडधिकेन च समासः वक्तव्यः ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {10/49} इह अपि यथा स्यात् ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {11/49} अशितानशितेन जीवति ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {12/49} क्लिष्टाक्लिशितेन जीवति ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {13/49} किम् उच्यते समानप्रकृतिग्रहणम् कर्तव्यम् इति यदा नञ्विशिष्टेन इति उच्यते ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {14/49} न च अत्र नञ्कृतः एव विशेषः ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {15/49} किम् तर्हि ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {16/49} प्रकृतिकृतः अपि ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {17/49} अयम् विशिष्टशब्दः अस्ति एव अवधारणे वर्तते ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {18/49} तत् यथा ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {19/49} देवदत्तयज्ञदत्तौ आढ्यौ अभिरूपौ दर्शनीयौ पक्षवन्तौ देवदत्तः तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {20/49} स्वाध्यायेन एव इति गम्यते ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {21/49} अन्ये गुणाः समाः भवन्ति ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {22/49} अस्ति आधिक्ये वर्तते ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {23/49} तत् यथा ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {24/49} देवदत्तयज्ञदत्तौ आढ्यौ अभिरूपौ दर्शनीयौ पक्षवन्तौ देवदत्तः तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {25/49} स्वाध्यायेन अधिकः अन्ये गुणाः अविवक्षिताः भवन्ति ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {26/49} तत् यदा तावत् अवधारणे विशिष्टशब्दः तदा न एव अर्थः समानप्रकृतिग्रहणेन ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {27/49} न इह भविष्यति ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {28/49} सिद्धम् च अभुक्तम् च इति ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {29/49} न अपि अनञ् इति प्रतिषेधेन ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {30/49} न इह भविष्यति कर्तव्यम् अकृतम् इति ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {31/49} नुडिडधिकेन अपि तु तदा समासः न प्राप्नोति ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {32/49} यदा आधिक्ये विशिष्टशब्दः तदा समानप्रकृतिग्रहणम् कर्तव्यम् ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {33/49} इह मा भूत् षिद्धम् च अभुक्तम् च इति ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {34/49} अनञ् इति च प्रतिषेधः कर्तव्यः ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {35/49} इह मा भूत् ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {36/49} कर्तव्यम् अकृतम् इति ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {37/49} नुडिडधिकेन अपि तु समासद्ः सिद्धः भवति ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {38/49} तत्र आधिक्ये विशिष्टग्रहणम् मत्वा समानप्रकृतिग्रहणम् चोद्यते ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {39/49} अवधारणम् नञा चेत् नुडिड्विशिष्टेन न प्रकल्पेत

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {40/49} अथ चेत् अधिकविवक्षा कार्यम् तुल्यप्रकृतिकेन इति

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {41/49} कृतापकृतादीनाम् च उपसङ्ख्यानम्

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {42/49} कृतापकृतादीनाम् च उपसङ्ख्यानम् ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {43/49} कृतापकृतम् भुक्तविभुक्तम् पीतविपीतम् ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {44/49} सिद्धम् तु क्तेन विसमाप्तौ अनञ्

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {45/49} सिद्धम् एतत् ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {46/49} कथम्। क्तान्तेन क्रियाविसमाप्तौ अनञ् क्तान्तम् समस्यते इति वक्तव्यम् ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {47/49} गतप्रत्यागतादीनाम् च उपसङ्ख्यानम्

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {48/49} गतप्रत्यागतादीनाम् च उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 {49/49} गतप्रत्यागतम् यातानुयातम् पुटापुटिका क्रयाक्रयिका फलाफलिका मानोन्मानिका ।

(P_2,1.67) KA_I,402.2-5 Ro_II,639 {1/6} अयुक्तः अयम् निर्देशः ।

(P_2,1.67) KA_I,402.2-5 Ro_II,639 {2/6} समानाधिकरणेन इति वर्तते ।

(P_2,1.67) KA_I,402.2-5 Ro_II,639 {3/6} कः प्रसङ्गः यद् व्यधिकरणानाम् समासः स्यात् ।

(P_2,1.67) KA_I,402.2-5 Ro_II,639 {4/6} एवम् तर्हि ज्ञापयति आचार्यः यथाजातीयकम् उक्तम् उत्तरपदम् तथाजातीयकेन पूर्वपदेन समस्यते इति ।

(P_2,1.67) KA_I,402.2-5 Ro_II,639 {5/6} किम् एतस्य ज्ञापने प्रयोजनम् ।

(P_2,1.67) KA_I,402.2-5 Ro_II,639 {6/6} प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति एषा परिभाषा न कर्तव्या भवति ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {1/37} इदम् विचार्यते : वर्णेन तृतीयासमासः वा स्यात् : कृष्णेन सारङ्गः कृष्णसारङ्गः समानाधिकरणेन वा : कृष्णः सारङ्गः कृष्णसारङ्गः इति ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {2/37} कः च अत्र विशेषः ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {3/37} वर्णेन तृतीयासमासः एतप्रतिषेधे वर्णग्रहणम्

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {4/37} वर्णेन तृतीयासमासः एतप्रतिषेधे वर्णग्रहणम् कर्तव्यम् ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {5/37} तृतीया पूर्वपदम् प्रकृतिस्वरम् भवति ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {6/37} अनेते वर्णः इति वक्तव्यम् ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {7/37} अथ द्वितीयेन वर्णग्रहणेन एतविशेषणेन अर्थः ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {8/37} बाढम् अर्थः यदि अवर्ण एतशब्दः अस्ति ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {9/37} ननु च अयम् अस्ति : आ* इतः एतः , कृष्णेतः , लोहितेतः इति ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {10/37} न अर्थः एवमर्थेन वर्णग्रहणेन ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {11/37} यदि तावत् अयम् कर्तरि क्तः तृतीया कर्मणि इति अनेन स्वरेण भवितव्यम् ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {12/37} अथ अपि कर्तरि परत्वात् कृत्स्वरेण भवितव्यम् ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {13/37} अथ समानाधिकरणः ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {14/37} समानाधिकरणे द्विः वर्णग्रहणम्

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {15/37} समानाधिकरणे द्विः वर्णग्रहणम् कर्तव्यम् ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {16/37} वर्णः वर्णेषु अनेते इति वक्तव्यम् ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {17/37} एकम् वर्णग्रहणम् कर्तव्यम् इह मा भूत् ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {18/37} परमशुक्लः परमकृष्णः इति ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {19/37} द्वितीयम् वर्णग्रहणम् कर्तव्यम् इह मा भूत् ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {20/37} कृष्णतिलाः इति ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {21/37} एकम् वर्णग्रहणम् अनक्र्थकम् ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {22/37} अन्यतरत्र कस्मात् न भवति ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {23/37} लक्षणप्रतिपदिकोक्तयोः प्रतिपदोक्तस्य एव इति ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {24/37} एवम् सति ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {25/37} तानि एतानि त्रीणि वर्णग्रहणानि भवन्ति समासविधौ द्वे स्वरविधौ च एकम् ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {26/37} यस्य अपि तृतीयासमासः तस्य अपि तानि एव त्रीणि वर्णग्रहणानि भवन्ति समासविधौ द्वे स्वरविधौ च एकम् ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {27/37} सामान्येन मम तृतीयासमासः भविष्यति तृतीया तत्कृतार्थेन गुणवचनेन इति ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {28/37} अवश्यम् वर्णेन प्रतिपदम् समासः वक्तव्यः यत्र तेन न सिध्यति तदर्थम् ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {29/37} क्व च तेन न सिध्यति ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {30/37} शुकबभ्रुः हरितबभ्रुः इति ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {31/37} तथा च सति तानि एव त्रीणि वर्णग्रहणानि भवन्ति समासविधौ द्वे स्वरविधौ च एकम् ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {32/37} अथ समानाधिकरणः सामान्येन सिद्धः स्यात् ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {33/37} बाढम् सिद्धः ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {34/37} कथम् ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {35/37} विशेषणम् विशेष्येण बहुलम् इति ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {36/37} एवम् अपि द्वे वर्णग्रहणे कर्तव्ये स्वरविधौ एव प्रतिपदोक्तस्य अभावात् ।

(P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 {37/37} तस्मात् समानाधिकरणः इति एषः पक्षः ज्यायान् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {1/151} समानाधिकरणाधिकारे प्रधानोपसर्जनानाम् परम् परम् विप्रतिषेधेन

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {2/151} समानाधिकरणाधिकारे प्रधानोपसर्जनानाम् परम् परम् भवति विप्रतिषेधेन ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {3/151} प्रधानानाम् प्रधानम् उपसर्जनानाम् उपसर्जनम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {4/151} प्रधानानाम् तावत् प्रधानम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {5/151} वृदारकनागकुञ्जरैः पूज्यमानम् इति अस्य अवकाशः गोवृन्दारकः अश्ववृन्दारकः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {6/151} पोटायुवतीनाम् अवकाशः इभ्ययुवतिः आढ्ययुवतिः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {7/151} इह उभयम् प्राप्नोति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {8/151} नागयुवतिः वृन्दारकयुवतिः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {9/151} प्रधानानाम् परम् भवति विप्रतिषेधेन ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {10/151} उपसर्जनानाम् परम् उपसर्जनम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {11/151} सन्महत्परमोत्कृष्टाः इति अस्य अवकाशः सद्गवः सदश्वः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {12/151} कृत्यतुल्याख्या अजात्या इति अस्य अवकाशः तुल्यश्वेतः तुल्यकृष्णः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {13/151} इह उभयम् प्राप्नोति : तुल्यसत् तुल्यमहान् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {14/151} उपसर्जनानाम् परम् उपसर्जनम् भवति विप्रतिषेधेन ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {15/151} समानाधिकरणसमासात् बहुव्रीहिः । समानाधिकरणसमासात् बहुव्रीहिः भवति विप्रतिषेधेन ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {16/151} समानाधिकरणसमासस्य अवकाशः वीरः पुरुषः वीरपुरुषः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {17/151} बहुव्रीहेः अवकाशः कण्ठेकालः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {18/151} इह उभयम् प्राप्नोति : वीरपुरुषकः ग्रामः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {19/151} बहुव्रीहिः भवति विप्रतिषेधेन ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {20/151} कदा चित् कर्मधारयः सर्वधनाद्यर्थः

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {21/151} कदा चित् कर्मधारयः भवति बहुव्रीहेः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {22/151} किम् प्रयोजनम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {23/151} सर्वधनाद्यर्थः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {24/151} सर्वधनी सर्वबीजी सर्वकेशी नटः गौरखरवत् वनम् गौरमृगवत् वनम् कृष्णसर्पवान् वल्मीकः लोहितशालिमान् ग्रामः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {25/151} किम् प्रयोजनम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {26/151} कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् यथा स्यात् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {27/151} किम् च कारणम् न स्यात् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {28/151} बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {29/151} यदि उक्तत्वम् हेतुः कर्मधारयेण अपि उक्तत्वात् न प्राप्नोति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {30/151} न खलु अपि सञ्ज्ञाश्रयः मत्वर्थीयः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {31/151} किम् तर्हि ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {32/151} अर्थाश्रयः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {33/151} सः यथा एव बहुव्रीहिणा उक्तत्वात् न भवति एवम् कर्मधारयेण अपि उक्तत्वात् न भविष्यति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {34/151} एवम् तर्हि इदम् स्यात् : सर्वाणि धनानि सर्वधनानि सर्वधनानि अस्य सनिति सर्वधनी ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {35/151} न एवम् शक्यम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {36/151} नित्यम् एवम् सति कर्मधारयः स्यात् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {37/151} तत्र यत् उक्तम् कदा चित् कर्मधारयः इति एतत् अयुक्तम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {38/151} एवम् तर्हि भवति वै किम् चित् आचार्याः कार्यवत् बुद्धिम् कृत्वा पठन्ति कार्याः शब्दाः इति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {39/151} तद्वत् इदम् पठितम् समानाधिकरणसमादात् बहुव्रीहिः कर्तव्यः कदा चित् कर्मधारयः सर्वधनाद्यर्थः इति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {40/151} यद् उच्यते समानाधिकरणसमासात् बहुव्रीहिः भवति विप्रतिषेधेन इति न एषः युक्तः विप्रतिषेधः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {41/151} अन्तरङ्गः कर्मधारयः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {42/151} का अन्तरङ्गता ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {43/151} स्वपदार्थे कर्मधारयः अन्यपदार्थे बहुव्रीहिः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {44/151} अस्तु ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {45/151} विभाषा कर्मधारयः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {46/151} यदा न कर्मधारयः तदा बहुव्रीहिः भविष्यति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {47/151} एवम् अपि यदि अत्र कदा चित् कर्मधारयः भवति कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् प्राप्नोति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {48/151} सर्वः च अयम् एवमर्थः यत्नः कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् मा भूत् इति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {49/151} एवम् तर्हि न इदम् तस्य योगस्य उदाहरणम् विप्रतिषेधे परम् इति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {50/151} किम् तर्हि ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {51/151} इष्टिः इयम् पठिता ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {52/151} समानाधिकरणसमासात् बहुव्रीहिः इष्टः कदा चित् कर्मधारयः सर्वधनाद्यर्थः इति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {53/151} यदि इष्टिः पठिता न अर्थः अनेन ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {54/151} इह हि सर्वे मनुष्याः अल्पेन यत्नेन महतः अर्थान् आकाङ्क्षन्ति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {55/151} एकेन माषेण शतसहस्रम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {56/151} एकेन कुद्दालकेन खारीसहस्रम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {57/151} तत्र कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् अस्तु बहुव्रीहिणा इति बहुव्रीहिणा भविष्यति लघुत्वात् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {58/151} कथम् सर्वधनी सर्वबीजी सर्वकेशी नटः इति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {59/151} इनिप्रकरणे सर्वादेः इनिम् वक्ष्यामि ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {60/151} तत् च अवश्यम् वक्तव्यम् ठनः बाधनार्थम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {61/151} कथम् गौरखरवत् वनम् गौरमृगवत् वनम् कृष्णसर्पवान् वल्मीकः लोहितशालिमान् ग्रामः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {62/151} अस्ति अत्र विशेषः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {63/151} जात्या अत्र अभिसम्बन्धः क्रियते ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {64/151} कृष्णसर्पः नाम सर्पजातिः सा अस्मिन् वल्मीके अस्ति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {65/151} यदा हि अन्तरेण जातिम् तद्वताम् अभिसम्बन्धः क्रियते कृष्णसर्पः वल्मीकः इति एवम् तदा भविष्यति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {66/151} पूर्वपदातिशये आतिशायिकात् बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {67/151} पूर्वपदातिशये आतिशायिकात् बहुव्रीहिः भवति विप्रतिषेधेन ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {68/151} किम् प्रयोजनम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {69/151} सूक्ष्मवस्त्रतराद्यर्थः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {70/151} आतिशायिकस्य अवकाशः पटुतरः पटुतमः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {71/151} बहुव्रीहेः अवकाशः चित्रगुः शबलगुः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {72/151} इह उभयम् प्राप्नोति सूक्ष्मवस्त्रतरः तीक्ष्ण्शृङ्गतरः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {73/151} बहुव्रीहिः भवति विप्रतिषेधेन ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {74/151} न एषः युक्तः विप्रतिषेधः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {75/151} विर्पतिषेधे परम् इति उच्यते ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {76/151} पूर्वः च बहुव्रीहिः परः आतिशायिकः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {77/151} इष्टवाची परशब्दः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {78/151} विप्रतिषेधे परम् यत् इष्टम् तत् भवति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {79/151} एवम् अपि अयुक्तः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {80/151} अन्तरङ्गः आतिशाइयिकः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {81/151} का अन्तरङ्गता ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {82/151} ङ्याप्प्रातिपदिकात् आतिशायिकः सुबन्तानाम् बहुव्रीहिः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {83/151} आतिशायिकः अपि न अन्तरङ्गः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {84/151} कथम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {85/151} समर्थात् तद्धितः उत्पद्यते सामर्थ्यम् च सुबन्तेन्त ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {86/151} एवम् अपि अन्तरङ्गः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {87/151} कथम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {88/151} स्वपदार्थे आतिशायिकः अन्यपदार्थे बहुव्रीहिः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {89/151} एवम् अपि न अन्तरङ्गः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {90/151} कथम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {91/151} स्पर्धायाम् आतिशायिकः भवति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {92/151} न च अन्तरेण प्रतियोगिनम् स्पर्धा भवति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {93/151} न एव वा अत्र आतिशायिकः प्राप्नोति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {94/151} किम् कारणम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {95/151} असामर्थ्यात् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {96/151} कथम् असामर्थ्यम्। सापेक्षम् असमर्थम् भवति इति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {97/151} यावता वस्त्राणि तद्वन्तम् अपेक्षन्ते तद्वन्तम् च अपेक्ष्य वस्त्राणाम् वस्त्रैः युगपत् स्पर्धा भवति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {98/151} ननु च अयम् आतिशायिकः एवमात्मकः सत्याम् व्यपेक्षायाम् विधीयते ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {99/151} सत्यम् एवमात्मकः याम् च न अनतरेण व्यपेक्षाम् प्रवृत्तिः तस्यम् सत्याम् भवितव्यम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {100/151} काम् च न अन्तरेण व्यपेक्षाम् आतिशायिकस्य प्रवृत्तिः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {101/151} या हि प्रतियोगिनम् प्रति व्यपेक्षा ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {102/151} या हि तद्वन्तम् प्रति न तस्याम् भवितव्यम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {103/151} बहुव्रीहिः अपि तर्हि न प्राप्नोति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {104/151} किम् कारणम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {105/151} असामर्थ्यात् एव ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {106/151} कथम् असामर्थ्यम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {107/151} सापेक्षम् असमर्थम् भवति इति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {108/151} यावता वस्त्राणि वस्त्रान्तराणि अपेक्षन्ते तद्वता च अभिसम्बन्धः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {109/151} एवम् तर्हि न इदम् तस्य योगस्य उदाहरणम् विप्रतिषेधे परम् इति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {110/151} किम् तर्हि ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {111/151} इष्टिः इयम् पठिता ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {112/151} पूर्वपदातिशये आतिशायिकात् बहुव्रीहिः इष्टः : सूक्ष्मवस्त्रतराद्यर्थः इति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {113/151} यदि इष्टिः इयम् पठिता न अर्थः अनेन ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {114/151} कथम् या एषा युक्तिः उक्ता : यावता वस्त्राणि वस्त्रान्तराणि अपेक्षन्ते तद्वता च अभिसम्बन्धः इति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {115/151} यदा हि अन्तरेण वस्त्राणाम् वस्त्रैः युगपत् स्पर्धाम् तद्वता च अभिसम्बन्धः क्रियते निष्प्रतिद्वन्द्वः तदा बहुव्रीहिः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {116/151} बहुव्रीहेः आतिशायिकः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {117/151} न तर्हि इदानीम् इदम् भवति : सूक्ष्मतरवस्त्रः इति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {118/151} भवति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {119/151} यदा अन्तरेण तद्वन्तम् वस्त्राणाम् वस्त्रैः युगपत् स्पर्धा निष्प्रतिद्वन्द्वः तदा आतिशायिकः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {120/151} कथम् पुनः अन्यस्य प्रकर्षेण अन्यस्य प्रकर्षः स्यात् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {121/151} न एव अन्यस्य प्रकर्षेण अन्यस्य प्रकर्षेण भवितव्यम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {122/151} यथा एव अयम् द्रव्येषु यतते वस्त्राणि मे स्युः इति एवम् गुणेषु अपि यतते सूक्ष्मतराणि मे स्युः इति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {123/151} न अत्र आतिशायिकः प्राप्नोति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {124/151} किम् कारणम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {125/151} गुणवचनात् इति उच्यते ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {126/151} न च समासः गुणवचनः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {127/151} समासः अपि गुणवचनः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {128/151} कथम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {129/151} अजहत्स्वार्था वृत्तिः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {130/151} अथ जहत्स्वार्थायाम् तु दोषः एव ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {131/151} जहत्स्वाऋथायाम् अपि न दोषः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {132/151} भवति बहुव्रीहौ तद्गुणसंविज्ञानम् अपि ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {133/151} तत् यथा ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {134/151} शुक्लवाससम् आनय ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {135/151} लोहितोष्णीषाः ऋत्विजः प्रचरन्ति इति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {136/151} तत्गुणः आनीयते तद्गुणाः च प्रचरन्ति ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {137/151} उत्तरपदार्थातिशये आतिशायिकः बहुव्रीहेः बह्वाढ्यतराद्यर्थः

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {138/151} उत्तरपदार्थातिशये आतिशायिकः बहुव्रीहेः भवति विप्रतिषेधेन ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {139/151} किम् प्रयोजनम् ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {140/151} बह्वाढ्यतराद्यर्थः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {141/151} बह्वाढ्यतरः बहुसुकुमारतरः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {142/151} कः पुनः अत्र विशेषः बहुव्रीहेः वा आतिशायिकः स्यात् आतिशायिकान्तेन वा बहुव्रीहिः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {143/151} स्वरकपोः विशेषः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {144/151} यदि अत्र आतिशायिकात् बहुव्रीहिः स्यात् बह्वाड्यतरः एवम् स्वरः प्रसज्येत बह्वाढ्यतरः इति च इष्यते ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {145/151} बह्वाढ्यकतरः इति च प्राप्नोति बह्वाढ्यतरकः इति च इष्यते ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {146/151} समानाधिकरणाधिकारे शाकपार्थिवादीनाम् उपसङ्ख्यानम् उत्तरपदलोपः च

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {147/151} समानाधिकरणाधिकारे शाकपार्थिवादीनाम् उपसङ्ख्यानम् कर्तव्यम् उत्तरपदलोपः च वक्तव्यः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {148/151} शाकभोजी पार्थिवः शाकपार्थिवः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {149/151} कुतपवासः सौश्रुतः कुतपसौश्रुत्रः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {150/151} अजापण्यः तौल्वलिः अजातौल्वलिः ।

(P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 {151/151} यष्टिप्रधानः मौद्गल्यः यष्टिमौद्गल्यः ।

(P_2,1.71) KA_I,406.10-11 Ro_II,653 {1/3} चतुष्पात् जातिः इति वक्तव्यम् ।

(P_2,1.71) KA_I,406.10-11 Ro_II,653 {2/3} इह मा भूत् ।

(P_2,1.71) KA_I,406.10-11 Ro_II,653 {3/3} कालाक्षीगर्भिणी स्वस्तिमती गर्भिणी ।

(P_2,1.72) KA_I,406.13-14 Ro_II,654 {1/5} किमर्थः चकारः ।

(P_2,1.72) KA_I,406.13-14 Ro_II,654 {2/5} एवकारार्थः ।

(P_2,1.72) KA_I,406.13-14 Ro_II,654 {3/5} मयूरव्यंसकादयः एव ।

(P_2,1.72) KA_I,406.13-14 Ro_II,654 {4/5} क्व मा भूत् ।

(P_2,1.72) KA_I,406.13-14 Ro_II,654 {5/5} परमः मयूरव्यंसकः इति ।

(P_2,2.2) KA_I,407.2-9 Ro_II,655-656 {1/13} इह कस्मात् न भवति : ग्रामार्धः , नगरार्धः इति ।

(P_2,2.2) KA_I,407.2-9 Ro_II,655-656 {2/13} अर्धशब्दस्य नपुंसकलिङ्गस्य इदम् ग्रहणम् पुंलिङ्गः च अयम् अर्धशब्दः ।

(P_2,2.2) KA_I,407.2-9 Ro_II,655-656 {3/13} क्व पुनः अयम् नपुंसकलिङ्गः क्व पुंलिङ्गः ।

(P_2,2.2) KA_I,407.2-9 Ro_II,655-656 {4/13} समप्रविभागे नपुंसकलिङ्गः , अवयववाची पुंलिङ्गः ।

(P_2,2.2) KA_I,407.2-9 Ro_II,655-656 {5/13} इह कस्मात् न भवति : अर्धम् पिप्पलीनाम् इति ।

(P_2,2.2) KA_I,407.2-9 Ro_II,655-656 {6/13} न वा भवति अर्धपिप्पल्यः इति ।

(P_2,2.2) KA_I,407.2-9 Ro_II,655-656 {7/13} भवति यदा खण्डसमुच्चयः : अर्धपिप्पली च अर्धपिप्पली च अर्धपिप्पली च अर्धपिप्पल्यः इति ।

(P_2,2.2) KA_I,407.2-9 Ro_II,655-656 {8/13} यद तु एतत् वाक्यम् भवति अर्धम् पिप्पलीनाम् इति तदा न भवितव्यम् ।

(P_2,2.2) KA_I,407.2-9 Ro_II,655-656 {9/13} तदा कस्मात् न भवति ।

(P_2,2.2) KA_I,407.2-9 Ro_II,655-656 {10/13} एकाद्खिकरणे इति वर्तते ।

(P_2,2.2) KA_I,407.2-9 Ro_II,655-656 {11/13} न तर्हि इदानीम् इदम् भवति : अर्धराशिः इति ।

(P_2,2.2) KA_I,407.2-9 Ro_II,655-656 {12/13} भवति ।

(P_2,2.2) KA_I,407.2-9 Ro_II,655-656 {13/13} एकम् एतत् अधिकरणम् यः असौ राशिः नाम ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {1/64} अन्यतरस्याङ्ग्रहणम् किमर्थम् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {2/64} अन्यतरस्याम् समासः यथा स्यात् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {3/64} समासेन मुक्ते वाक्यम् अपि यथा स्यात् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {4/64} द्वितीयम् भिक्षायाः इति ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {5/64} न एतत् अस्ति प्रयोजनम् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {6/64} प्रकृता महाविभाषा ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {7/64} तया वाक्यम् अपि भविष्यति ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {8/64} इदम् तर्हि प्रयोजनम् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {9/64} एकदेशिसमासेन मुक्ते षष्ठीसमासः अपि यथा स्यात् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {10/64} भिक्षाद्वितीयम् इति ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {11/64} एतत् अपि न अस्ति प्रयोजनम् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {12/64} अयम् अपि विभाषा षष्ठीसमासः अपि ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {13/64} तौ उभौ वचनात् भविष्यतः ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {14/64} अतः उत्तरम् पठति ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {15/64} द्वितीयादीनाम् विभाषाप्रकरणे विभाषावचनम् ज्ञापकम् अवयवविधाने सामान्यविधानाभावस्य

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {16/64} द्वितीयादीनाम् विभाषाप्रकरणे विभाषावचनम् क्रियते ज्ञापार्थम् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {17/64} किम् ज्ञाप्यते ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {18/64} एतत् ज्ञापयति आचार्यः ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {19/64} अवयवविधौ सामान्यविधिः न भवति इति ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {20/64} किम् एतस्य ज्ञापने प्रयोजनम् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {21/64} भिनत्ति छिनत्ति ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {22/64} श्नमि कृते शप् न भवति ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {23/64} न एतत् अस्ति प्रयोजनम् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {24/64} शबादेशाः श्यनादयः करिष्यन्ते ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {25/64} तत् तर्हि शपः ग्रहणम् कर्तव्यम् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {26/64} न कर्तव्यम् ।प्रकृतम् अनुवर्तते ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {27/64} क्व प्रकृतम् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {28/64} कर्तरि शप् इति ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {29/64} तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {30/64} रुधादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्थीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {31/64} प्रत्ययविधिः अयम् न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {32/64} न अयम् प्रत्ययविधिः ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {33/64} विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {34/64} एवम् तर्हि ज्ञापयति आचार्यः यत्र उत्सर्गापवादम् विभाषा तत्र अपवादेन मुक्ते उत्सर्गः न भवति इति ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {35/64} किम् एतस्य ज्ञापने प्रयोजनम् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {36/64} दिक्पूर्वपदात् ङीप् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {37/64} प्राङ्मुखी प्राङ्मुखा प्रत्यङ्मुखी प्रत्यङ्मुखा ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {38/64} ङीप मुक्ते ङीष् न भवति ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {39/64} न एतत् अस्ति प्रयोजनम् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {40/64} वक्ष्यति एतत् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {41/64} दिक्पूर्वपदात् ङीषः अनुदात्तत्वम् ङीब्विधाने हि अन्यत्र अपि ङीष्विषयात् ङीप्प्रसङ्गः इति ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {42/64} इदम् तर्हि प्रयोजनम् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {43/64} अर्धपिप्पली अर्धकोशातकी ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {44/64} एकदेशिसमासेन मुक्ते षष्ठीसमासः न भवति ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {45/64} उन्मत्तगङ्गम् लोहितगङ्गम् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {46/64} अव्ययीभावेन मुक्ते बहुव्रीहिः न भवति ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {47/64} दाक्षिः प्लाक्षिः ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {48/64} इञा मुक्ते अण् न भवति ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {49/64} यदि एतत् ज्ञाप्यते उपगोः अपत्यम् औपगवः ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {50/64} तद्धितेन मुक्ते उपग्वपत्यम् इति न सिध्यति ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {51/64} अस्ति अत्र विशेषः ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {52/64} द्वे हि अत्र विभाषा ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {53/64} दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्यः अन्यतरस्याम् इति समर्थानाम् प्रथमात् वा इति च ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {54/64} तत्र एकय वृत्तिः भविष्यति अपरय वृत्तिविषये विभाषपवादः ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {55/64} क्रियमाणे अपि वै अन्यतरस्याङ्ग्रहणे षष्ठीसमासः न प्राप्नोति ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {56/64} किम् कारणम् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {57/64} पूरणेन इति प्रतिषेधात् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {58/64} न एतत् पूरणान्तम् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {59/64} अना एतत् पर्यवपन्नम् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {60/64} एतत् अपि पूरणान्तम् एव ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {61/64} कथ। पूरणम् नाम अर्थः तम् आह तीयशब्दः ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {62/64} अतः पूरणम् ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {63/64} यः असौ पूरणान्तात् स्वार्थे भागे अन् सः अपि पूरणम् एव ।

(P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 {64/64} एवम् तर्हि अन्यतरस्याङ्ग्रहणसामर्थ्यात् षष्ठीसमासः अपि भविष्यति ।

(P_2,2.4) KA_I,408.22-409.4 Ro_II,660 {1/20} किमर्थः चकारः ।

(P_2,2.4) KA_I,408.22-409.4 Ro_II,660 {2/20} अनुकरषणार्थः ।

(P_2,2.4) KA_I,408.22-409.4 Ro_II,660 {3/20} अन्यतरस्याम् इति एतत् अनुकृष्यते ।

(P_2,2.4) KA_I,408.22-409.4 Ro_II,660 {4/20} किम् प्रयोजनम् ।

(P_2,2.4) KA_I,408.22-409.4 Ro_II,660 {5/20} अन्यतरस्याम् समासः यथा स्यात् ।

(P_2,2.4) KA_I,408.22-409.4 Ro_II,660 {6/20} समासेन मुक्ते वाक्यम् अपि यथ स्यात् ।

(P_2,2.4) KA_I,408.22-409.4 Ro_II,660 {7/20} जीविकाम् प्राप्तः इति ।

(P_2,2.4) KA_I,408.22-409.4 Ro_II,660 {8/20} न एतत् अस्ति प्रयोजनम् ।

(P_2,2.4) KA_I,408.22-409.4 Ro_II,660 {9/20} प्रकृता महाविभाषा ।

(P_2,2.4) KA_I,408.22-409.4 Ro_II,660 {10/20} तया वाक्यम् भविष्यति ।

(P_2,2.4) KA_I,408.22-409.4 Ro_II,660 {11/20} इदम् तर्हि प्रयोजनम् ।

(P_2,2.4) KA_I,408.22-409.4 Ro_II,660 {12/20} द्वितीयासमासः अपि यथ स्यात् ।

(P_2,2.4) KA_I,408.22-409.4 Ro_II,660 {13/20} जीविकाप्राप्तः इति ।

(P_2,2.4) KA_I,408.22-409.4 Ro_II,660 {14/20} एतत् अपि न अस्ति प्रयोजनम्। अयम् अपि उच्यते द्वितीयासमासः अपि ।

(P_2,2.4) KA_I,408.22-409.4 Ro_II,660 {15/20} तत् उभयम् वचनात् भविष्यति ।

(P_2,2.4) KA_I,408.22-409.4 Ro_II,660 {16/20} एवम् तर्हि न अयम् अनुकर्षणार्थः चकारः ।

(P_2,2.4) KA_I,408.22-409.4 Ro_II,660 {17/20} किम् तर्हि ।

(P_2,2.4) KA_I,408.22-409.4 Ro_II,660 {18/20} अत्वम् अनेन विधीयते ।

(P_2,2.4) KA_I,408.22-409.4 Ro_II,660 {19/20} प्राप्तापन्ने द्वितीयान्तेन सह समस्येते अत्वम् च भवति प्राप्तपन्नयोः इति ।

(P_2,2.4) KA_I,408.22-409.4 Ro_II,660 {20/20} प्राप्ता जीविकाम् प्राप्तजीविका आपन्ना जीविकाम् आपन्नजिविका ।

(P_2,2.5.1) KA_I,409.6-12 Ro_II,661-662 {1/12} किम्प्रधानः अयम् समासः ।

(P_2,2.5.1) KA_I,409.6-12 Ro_II,661-662 {2/12} उत्तरपदार्थप्रधानः ।

(P_2,2.5.1) KA_I,409.6-12 Ro_II,661-662 {3/12} यदि उत्तरपदार्थप्रधानः सधर्मणा अनेन अन्यैः उत्तरपदार्थप्रधानैः भवितव्यम् ।

(P_2,2.5.1) KA_I,409.6-12 Ro_II,661-662 {4/12} अन्येषु च उत्तरपदार्थप्रधानेषु या एव असौ अन्तर्वर्तिनी विभक्तिः तस्याः समासे अपि श्रवणम् भवति : राज्ञः पुरुषः राजपुरुषः इति ।

(P_2,2.5.1) KA_I,409.6-12 Ro_II,661-662 {5/12} इह पुनः वाक्ये षष्ठी समासे प्रथमा ।

(P_2,2.5.1) KA_I,409.6-12 Ro_II,661-662 {6/12} केन एतत् एवम् भवति ।

(P_2,2.5.1) KA_I,409.6-12 Ro_II,661-662 {7/12} यः असौ मासजातयोः अभिसम्बन्धः सः समासे निवर्तते ।

(P_2,2.5.1) KA_I,409.6-12 Ro_II,661-662 {8/12} अभिहितः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः ।

(P_2,2.5.1) KA_I,409.6-12 Ro_II,661-662 {9/12} तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमा भवति ।

(P_2,2.5.1) KA_I,409.6-12 Ro_II,661-662 {10/12} न तर्हि इदानीम् इदम् भवति : मासजातस्य इति ।

(P_2,2.5.1) KA_I,409.6-12 Ro_II,661-662 {11/12} भवति ।

(P_2,2.5.1) KA_I,409.6-12 Ro_II,661-662 {12/12} बाह्यम् अर्थम् अपेक्ष्य षष्ठी ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {1/36} कालस्य येन समासः तस्य अपरिमाणित्वात् अनिर्देशः

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {2/36} कालस्य येन समासः सः अपरिमाणी ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {3/36} तस्य अपरिमाणित्वात् अनिर्देशः ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {4/36} अगमकः निर्देशः अनिर्देशः ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {5/36} न हि जातस्य मासः परिमाणम् ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {6/36} कस्य तर्हि ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {7/36} त्रिंशद्रात्रस्य ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {8/36} तत् यथा ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {9/36} द्रोणः बदराणाम् देवदत्तस्य इति ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {10/36} न देवदत्तस्य द्रोणः परिमाणम् ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {11/36} कस्य तर्हि ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {12/36} बदराणाम् ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {13/36} सिद्धम् तु कालपरिमाणम् यस्य स कालः तेन

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {14/36} सिद्धम् एतत् ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {15/36} कथम् ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {16/36} कालपरिमाणम् यस्य स कालः तेन समस्यते इति वक्तव्यम् ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {17/36} सिध्यति ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {18/36} सूत्रम् तर्हि भिद्यते ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {19/36} यथान्यासम् एव अस्तु ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {20/36} ननु च उक्तम् कालस्य येन समासः तस्य अपरिमाणित्वात् अनिर्देशः इति ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {21/36} कम् पुनः कालम् मत्वा भवान् आह कालस्य येन समासः तस्य अपरिमाणित्वात् अनिर्देशः इति ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {22/36} येन मूर्तीनाम् उपचयाः च अपचयाः च लक्ष्यन्ते तम् कालम् आहुः ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {23/36} तस्य एव कया चित् क्रियया युक्तस्य अहः इति च भवति रात्रिः इति च ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {24/36} कया क्रियया ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {25/36} आदित्यगत्या ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {26/36} तया एव असकृत् आवृत्तया मासः इति भवति संवत्सरः इति च ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {27/36} यदि एवम् जातस्य मासः परिमाणम् ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {28/36} एकवचनद्विगोः च उपसङ्ख्यानम् । एकवचनान्तानाम् इति वक्तव्यम् ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {29/36} इह मा भूत् ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {30/36} मासौ जातस्य मासाः जातस्य इति ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {31/36} द्विगोः च इति वक्तव्यम् इह अपि यथा स्यात् : द्विमासजातः , त्रिमासजातः ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {32/36} उक्तम् वा ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {33/36} किम् उक्तम् ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {34/36} एकवचने तावत् उक्तम् अनभिधानात् इति ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {35/36} द्विगोः किम् उक्तम् ।

(P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 {36/36} उत्तरपदेन परिमाणिन द्विगोः समासवचनम् इति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {1/93} किम्प्रधानः अयम् समासः ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {2/93} उत्तरपदार्थप्रधानः ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {3/93} यदि उत्तरपदार्थप्रधानः अब्राह्मणम् आनय इति उक्ते ब्राह्मणमात्रस्य आनयनम् प्राप्नोति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {4/93} अन्यपदार्थप्रधानः तर्हि भविष्यति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {5/93} यदि अन्यपदार्थप्रधानः , अवर्षा हेमन्तः इति हेमन्तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि प्राप्नोति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {6/93} पूर्वपदार्थप्रधानः तर्हि भविष्यति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {7/93} यदि पूर्वपदार्थप्रधानः अव्ययसञ्ज्ञा प्राप्नोति : अव्ययम् हि अस्य पूर्वपदम् इति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {8/93} न एषः दोषः ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {9/93} पाठेन अव्ययसञ्ज्ञा क्रियते ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {10/93} न च नञ्समासः तत्र पठ्यते ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {11/93} यदि अपि नञ्समासः न पठ्यते नञ् तु पठ्यते ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {12/93} पाठेन अपि अव्ययसञ्ज्ञायाम् सत्याम् अभिदेहेयवत् लिङ्गवचनानि भवन्ति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {13/93} यः च इह अर्थः अभिधीयते न तस्य लिङ्गसङ्ख्याभ्याम् योगः अस्ति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {14/93} न इदम् वाचनिकम् अलिङ्गता असङ्ख्यता व ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {15/93} किम् तर्हि ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {16/93} स्वाभाविकम् एतत् ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {17/93} तत् यथा : समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {18/93} न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः शक्यम् भवितुम् कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {19/93} तत्र किम् अस्माभिः शक्यम् कर्तुम् ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {20/93} यत् नञः प्राक् समासात् लिङ्गसङ्ख्याभ्याम् योगः न अस्ति समासे च भवति स्वाभाविकम् एतत् ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {21/93} अथ वा आश्रयतः लिङ्गवचनानि भविष्यन्ति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {22/93} गुङवचनानाम् हि शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {23/93} तत् यथा : शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {24/93} यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {25/93} एवम् इह अपि यत् असौ द्रव्यम् श्रितः भवति समासः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {26/93} अथ वा पुनः अस्तु उत्तरपदार्थप्रधानः ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {27/93} ननु च उक्तम् अब्राह्मणम् आनय इति उक्ते ब्राह्मणमात्रस्य आनयनम् प्राप्नोति इति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {28/93} न एषः दोषः ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {29/93} इदम् तावत् अयम् प्रष्टव्यः : अथ इह राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् कस्मात् न भवति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {30/93} अस्ति अत्र विशेषः ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {31/93} राजा विशेषकः प्रयुज्यते ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {32/93} तेन विशिष्टस्य आनयनम् भवति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {33/93} इह अपि तर्हि नञ् विशेषकः प्रयुज्यते ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {34/93} तेन नञ्विशिष्टस्य आनयनम् भविष्यति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {35/93} कः पुनः असौ ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {36/93} निवृत्तपदार्थकः ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {37/93} यदा पुनः अस्य पदार्थः निवर्तते किम् स्वाभाविकी निवृत्तिः आहोस्वित् वाचनिकी ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {38/93} किम् च अतः ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {39/93} यदि स्वाभाविकी किम् नञ् प्रयुज्यमानः करोति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {40/93} अथ वाचनिकी तत् वक्तव्यम् : नञ् प्रयुज्यमानः पदार्थम् निवर्तयति इति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {41/93} एवम् तर्हि स्वाभाविकी निवृत्तिः ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {42/93} ननु च उक्तम् किम् नञ् प्रयुज्यमानः करोति इति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {43/93} नञ् प्रयुज्यमानः पदार्थम् निवर्तयति कथम् ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {44/93} कीलप्रतिकीलवत् ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {45/93} तत् यथा कीलः आहन्यमानः प्रतिकीलम् निर्हन्ति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {46/93} यदि एतत् नञः माहात्म्यम् स्यात् न जातु चित् राजानः हस्त्यश्वम् बिभृयुः ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {47/93} न इति एव राजानः ब्रूयुः ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {48/93} एवम् तर्हि स्वाभाविकी निवृत्तिः ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {49/93} ननु च उक्तम् किम् नञ् प्रयुज्यमानः करोति इति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {50/93} नञ्निमित्ता तु उपलब्धिः ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {51/93} तत् यथा समन्धकारे द्रव्याणाम् समवस्थितानाम् प्रदीप्निमित्तम् दर्शनम् न च तेषाम् प्रदीपः निर्वर्तकः भवति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {52/93} यदि पुनः अयम् निवृत्तपदार्थकः किमर्थम् ब्राह्मणशब्दः प्रयुज्यते ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {53/93} एवम् यथा विज्ञयेत अस्य पदार्थः निवर्तते इति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {54/93} न इति हि उक्ते सन्देहः स्यात् कस्य पदार्थः निवर्तते इति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {55/93} तत्र असन्देहार्थम् ब्राह्मणशब्दः प्रयुज्यते ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {56/93} एवम् वा एतत् ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {57/93} अथ वा सर्वे एते शब्दाः गुणसमुदायेषु वर्तन्ते ब्राह्मणः क्षत्रियः वैश्यः शूद्रः इति । तपः श्रुतम् च योनिः च इति एतद् ब्राह्मणकारकम्

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {58/93} तपःश्त्रुताभ्याम् यः हीनः जातिब्राह्मणः एव सः । तथा गौरः शुच्याचारः पिङ्गलः कपिलकेशः इति एतान् अपि अभ्यन्तरान् ब्राह्मण्ये गुणान् कुर्वन्ति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {59/93} समुदायेषु च वृत्ताः शब्दाः अवयवेषु अपि वर्तन्ते। तद् यथा ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {60/93} पूर्वे पञ्चालाः उत्तरे पञ्चालाः तैलम् भुक्तम् घृतं भुक्तम् शुक्लः नीलः कपिलः कृष्णः इति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {61/93} एवम् अयम् समुदाये ब्राह्मणशब्दः प्रवृत्तः अवयवेषु अपि वर्तते जातिहीने गुणहीने च ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {62/93} गुणहीने तावत्। अब्राह्मणः अयम् यः तिष्ठन् मूत्रयति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {63/93} अब्राह्मणः अयं यः गच्छन् भक्षयति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {64/93} जातिहीने सन्देहात् दुरुपदेशात् च ब्राह्मणशब्दः वर्तते ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {65/93} सन्देहात् तावत् : गौरम् शुच्याचारं पिङ्गलम् कपिलकेशम् दृष्ट्वा अध्यवस्यति ब्राह्मणः अयम् इति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {66/93} ततः पश्चात् उपलभते न अयं ब्राह्मणः अब्राह्मणः अयम् इति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {67/93} तत्र सन्देहात् च ब्राह्मणशब्दः वर्तते जातिकृता च अर्थस्य निवृत्तिः ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {68/93} दुरुपदेशात् : दुरुपदिष्टम् अस्य भवति अमुष्मिन् अवकाशे ब्राह्मणः तम् आनय इति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {69/93} स तत्र गत्वा यम् पश्यति तम् अध्यवस्यति ब्राह्मणः अयम् इति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {70/93} ततः पश्चात् उपलभते न अयं ब्राह्मणः अब्राह्मणः अयम् इति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {71/93} तत्र दुरुपदेशात् च ब्राह्मणशब्दः वर्तते जातिकृता च अर्थस्य निवृत्तिः ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {72/93} आतः च सन्देहात् दुरुपदेशात् वा ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {73/93} न हि अयम् कालम् माषराशिवर्णम् आपणे आसीनम् दृष्ट्वा अध्यवस्यति ब्राह्मणः अयम् इति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {74/93} निर्ज्ञातम् तस्य भवति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {75/93} इदम् खलु अपि भूयः उत्तरपदार्थप्राधान्ये सति सङ्गृहीतम् भवति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {76/93} किम् ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {77/93} अनेकम् इति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {78/93} किम् अत्र सङ्गृहीतम् ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {79/93} एकवचनम् ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {80/93} कथम् पुनः एकस्य प्रतिषेधेन अनेकस्य सम्प्रत्ययः स्यात् ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {81/93} प्रसज्य अयम् क्रियागुणौ ततः पश्चात् निवृत्तिम् करोति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {82/93} तत् यथा : आसय शायय भोजय अनेकम् इति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {83/93} यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र क्रियागुणौ प्रसज्येते यत्र खलु न प्रसज्येते तत्र कथम् : अनेकः तिष्ठति इति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {84/93} भवति च एवञ्जातीयकानाम् अपि एकस्य प्रतिषेधेन बहूनाम् सम्प्रत्ययः ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {85/93} तत् यथा न नः एकम् प्रियम् न नः एकम् सुखम् इति ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {86/93} इह अब्राह्मणत्वम् अब्राह्मणता परत्वात् त्वतलौ प्राप्नुतः ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {87/93} तत्र कः दोषः ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {88/93} स्वरे हि दोषः स्यात् ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {89/93} अब्राह्मणत्वम् इति एवम् स्वरः प्रसज्येत ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {90/93} अब्राह्मणत्वम् इति च इष्यते ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {91/93} नञ्समासे भाववचने उक्तम्

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {92/93} किम् उक्तम् ।

(P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 {93/93} त्वतल्भ्याम् नञ्समासः पूर्वप्रतिषिद्धम् स्वर्सिद्ध्यर्थम् इति ।

(P_2,2.7) KA_I,412.14-16 Ro_II,677 {1/5} ईषत् गुणवचनेन ।ईषत् गुणवचनेन इति वक्तव्यम् ।

(P_2,2.7) KA_I,412.14-16 Ro_II,677 {2/5} अकृता इति उच्यमाने इह च प्रसज्येत ।

(P_2,2.7) KA_I,412.14-16 Ro_II,677 {3/5} ईषत् गार्ग्यः इति ।

(P_2,2.7) KA_I,412.14-16 Ro_II,677 {4/5} इह च न स्यात् ।

(P_2,2.7) KA_I,412.14-16 Ro_II,677 {5/5} ईषत्कडारः ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {1/31} कृद्योगा च

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {2/31} कृद्योगा च षष्ठी समस्यते इति वक्तव्यम् ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {3/31} इध्मप्रव्रश्चनः पलाशशातनः ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {4/31} किमर्थम् इदम् उच्यते ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {5/31} प्रतिपदविधाना च षष्ठी न समस्यते इति वक्ष्यति ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {6/31} तस्य अयम् पुरस्तात् अपकर्षः ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {7/31} का पुनः षष्ठीप्रतिपदविधाना का कृद्योगा ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {8/31} सर्वा षष्ठी प्रतिपदविधाना शेषलक्षणाम् वर्जयित्वा ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {9/31} कर्तृकर्मणोः कृति इति या षष्ठी सा कृद्योगा ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {10/31} तत्स्थैः च गुणैः

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {11/31} तत्स्थैः च गुणैः षष्थीगुणैः षष्ठी समस्यते इति वक्तव्यम् ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {12/31} ब्राह्मणवर्णः चन्दनगन्धः पटहशब्दः नधीघोषः ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {13/31} न तु तद्विशेषणैः

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {14/31} न तु तद्विशेषणैः इति वक्तव्यम् ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {15/31} इह मा भूत् ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {16/31} घृतस्य तीव्रः चन्दनस्य मृदुः इति ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {17/31} किमर्थम् इदम् उच्यते ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {18/31} गुणेन इति प्रतिषेधम् वक्ष्यति ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {19/31} तस्य अयम् पुरस्तात् अपकर्षः ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {20/31} किम् कारणम् गुणेन न इति उच्यते न पुनः गुणवचनेन इति उच्यते ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {21/31} न एवम् शक्यम् ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {22/31} इह हि न स्यात् ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {23/31} काकस्य कार्ष्ण्यम् कण्टकस्य तैक्ष्ण्यम् बलाकायाः शौक्ल्यम् इति ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {24/31} एतत् एव तस्मिन् योगे उदाहरणम् ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {25/31} यत् वै ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णाः इति असामर्थ्यात् अत्र न भविष्यति ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {26/31} कथम् असामर्थ्यम् ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {27/31} सापेक्षम् असमर्थम् भवति इति ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {28/31} द्रव्यम् अत्र अपेक्ष्यते दन्ताः ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {29/31} तस्मात् गुणेन न इति वक्तव्यम् ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {30/31} गुणेन न इति उच्यमाने तत्स्थैः च गुणैः इति वक्तव्यम् ।

(P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 {31/31} तत्स्थैः च गुणैः इति उच्यमाने न तु तद्विशेषणैः इति वक्तव्यम् ।

(P_2,2.10) KA_I,413.15-17 Ro_II,681 {1/4} प्रतिपदविधाना च

(P_2,2.10) KA_I,413.15-17 Ro_II,681 {2/4} प्रतिपदविधाना च षष्ठी न समस्यते इति वक्तव्यम् ।

(P_2,2.10) KA_I,413.15-17 Ro_II,681 {3/4} इह मा भूत् ।

(P_2,2.10) KA_I,413.15-17 Ro_II,681 {4/4} सर्पिषः ज्ञानम् मधुनः ज्ञानम् इति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {1/61} गुणे किम् उदाहरणम् ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {2/61} ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णाः इति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {3/61} न एतत् अस्ति प्रयोजनम् ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {4/61} असामर्थ्यात् अत्र न भविष्यति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {5/61} कथम् असामर्थ्यम् ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {6/61} सापेक्षम् असमर्थम् भवति इति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {7/61} द्रव्यम् अत्र अपेक्ष्यते दन्ताः ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {8/61} इदम् तर्हि काकस्य कार्ष्ण्यम् कण्टकस्य तैक्ष्ण्यम् बलाकायाः शौक्ल्यम् इति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {9/61} इदम् अपि उदाहरणम् ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णाः इति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {10/61} ननु च उक्तम् ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {11/61} असामर्थ्यात् अत्र न भविष्यति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {12/61} कथम् असामर्थ्यम् ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {13/61} सापेक्षम् असमर्थम् भवति इति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {14/61} द्रव्यम् अत्र अपेक्ष्यते दन्ताः इति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {15/61} न एषः दोषः ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {16/61} भवति वै कस्य चित् अर्थात् प्रकरणात् वा अपेक्ष्यम् निर्ज्ञातम् तदा वृत्तिः प्राप्नोति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {17/61} सति किम् उदाहरणम् ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {18/61} ब्रह्मणस्य पक्ष्यन् ब्राह्मणस्य पक्ष्यमाणः ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {19/61} न एतत् अस्ति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {20/61} प्रतिषिध्यते अत्र षष्ठी लप्रयोगे न इति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {21/61} या च श्रूयते एषा बाह्यम् अर्थम् अपेक्ष्य भवति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {22/61} तत्र अस्मार्थ्यात् न भविष्यति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {23/61} कथम् असामर्थ्यम् ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {24/61} सापेक्षम् असमर्थम् भवति इति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {25/61} द्रव्यम् अत्र अपेक्ष्यते ओदनः ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {26/61} इदम् तर्हि चौरस्य द्विषन् वृषलस्य द्विषन् ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {27/61} ननु च अत्र अपि प्रतिषिध्यते ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {28/61} वक्ष्यति एतत् द्विषः शतुः वावचनम् इति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {29/61} अव्यये किम् उदाहरणम् ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {30/61} ब्राह्मणस्य उच्चैः वृषलस्य नीचैः इति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {31/61} न एतत् अस्ति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {32/61} असामर्थ्यात् अत्र न भविष्यति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {33/61} कथम् असामर्थ्यम् ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {34/61} सापेक्षम् असमर्थम् भवति इति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {35/61} द्रव्यम् अत्र अपेक्ष्यते आसनम् ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {36/61} इदन् तर्हि ब्राह्मणस्य कृट्वा वृषलस्य कृत्वा इति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {37/61} एतत् अपि न अस्ति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {38/61} प्रतिषिध्यते तत्र षष्ठी अव्ययप्रयोगे न इति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {39/61} या च श्रूयते एषा बाह्यम् अर्थम् अपेक्ष्य भवति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {40/61} तत्र अस्मार्थ्यात् न भविष्यति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {41/61} कथम् असामर्थ्यम् ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {42/61} सापेक्षम् असमर्थम् भवति इति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {43/61} द्रव्यम् अत्र अपेक्ष्यते कटः ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {44/61} इदम् तर्हि ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {45/61} पुरा सूर्यस्य उदेतोः आधेयः ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {46/61} पुरा वत्सानाम् अपाकर्तोः ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {47/61} ननु च अत्र अपि प्रतिषिध्यते अव्ययम् इति कृत्वा ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {48/61} वक्ष्यति एतत् ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {49/61} अव्ययप्रतिषेधे तोसुन्कसुनोः अप्रतिषेधः इति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {50/61} समानाधिकरणे किम् उदाहरणम् ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {51/61} राज्ञः पाटलिपुत्रकस्य शुकस्य माराविदस्य पाणिनेः सूत्रकारस्य ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {52/61} न एतत् अस्ति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {53/61} असामर्थ्यात् अत्र न भविष्यति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {54/61} कथम् असामर्थ्यम् ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {55/61} समानाधिकरणम् असमर्थवत् भवति इति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {56/61} इदम् तर्हि ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {57/61} सर्पिषः पीयमानः यजुषः क्रियमाणस्य इति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {58/61} ननु च अत्र अपि असामर्थ्यात् एव न भविष्यति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {59/61} कथम् असामर्थ्यम् ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {60/61} समानाधिकरणम् असमर्थवत् भवति इति ।

(P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 {61/61} अधात्वभिहितम् इति एवम् तत् ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {1/35} कथम् इदम् विज्ञायते कर्मणि या षष्ठी सा न समस्यते इति आहोस्वित् कर्मणि यः क्तः इति ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {2/35} कुतः सन्देहः ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {3/35} उभयम् प्रकृतम् ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {4/35} तत्र अन्यतरत् शक्यम् विशेषयितुम् ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {5/35} कः च अत्र विशेषः ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {6/35} कर्मणि इति षष्ठीनिर्देशः चेत् अकर्तरि कृता समासवचनम्

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {7/35} कर्मणि इति षष्ठीनिर्देशः चेत् अकर्तरि कृता समासः वक्तव्यः ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {8/35} इध्मप्रव्रश्चनः पलाशशातनः ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {9/35} तृककाभ्यम् च अनर्थकः प्रतिषेधः

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {10/35} तृककाभ्यम् च अनर्थकः प्रतिषेधः ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {11/35} अपाम् स्रष्टा ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {12/35} कर्मणि इति एव सिद्धम् ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {13/35} अस्तु तर्हि कर्मणि यः क्तः इति ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {14/35} किम् उदाहरणम् ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {15/35} ब्राह्मणस्य भुक्तम् वृषलस्य पीतम् इति ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {16/35} क्तनिर्देशे असमर्थत्वात् अप्रतिषेधः

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {17/35} क्तनिर्देशे असमर्थत्वात् अप्रतिषेधः ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {18/35} अनर्थकः प्रतिषेधः अप्रतिषेधः ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {19/35} समासः कस्मात् न भवति ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {20/35} असामर्थ्यात् ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {21/35} कथम् असामर्थ्यम् ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {22/35} सापेक्षम् असमर्थम् भवति इति ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {23/35} द्रव्यम् अत्र अपेक्ष्यते ओदनः ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {24/35} प्रतिषेध्यम् इति चेत् कर्तरि अपि प्रतिषेधः ।अथ एवम् सति प्रतिषेधः कर्तव्यः इति दृश्यते कर्तरि अपि प्रतिषेधः वक्तव्यः स्यात् ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {25/35} ब्राह्मणस्य गतः ब्राह्मणस्य यातः इति ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {26/35} पूजायाम् च प्रतिषेधानर्थक्यम्

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {27/35} पूजायाम् च प्रतिषेधः अनर्थः ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {28/35} राज्ञाम् पूजितः ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {29/35} कर्मणि इति एव सिद्धम् ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {30/35} तस्मात् उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधः

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {31/35} तस्मात् उभयप्राप्तौ कर्मणि इति एवम् या षष्ठी तस्याः प्रतिषेधः वक्तव्यः ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {32/35} सः तर्हि वक्तव्यः ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {33/35} न वक्तव्यः इत्यर्थे अयम् चः पठितः ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {34/35} कमणि च ।

(P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 {35/35} कर्मणि इति एवम् या षष्ठी इति ।

(P_2,2.17) KA_I,415.21-22 Ro_II,686 {1/4} किम् इह नित्यग्रहणेन अभिसम्बध्यते विधिः आहोस्वित् प्रतिषेधः ।

(P_2,2.17) KA_I,415.21-22 Ro_II,686 {2/4} विधिः इति आह ।

(P_2,2.17) KA_I,415.21-22 Ro_II,686 {3/4} कुतः एतत् ।

(P_2,2.17) KA_I,415.21-22 Ro_II,686 {4/4} विधिः हि विभाषा नित्यः प्रतिषेधः ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {1/60} प्रादिप्रसङ्गे कर्मप्रवचनीयप्रतिषेधः । प्रादिप्रसङ्गे कर्मप्रवचनीयानाम् प्रतिषेधः वक्तव्यः ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {2/60} वृक्षम् प्रति विद्योतते विद्युत् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {3/60} साधुः देवदत्तः मातरम् प्रति ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {4/60} व्यवेतप्रतिषेधः च

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {5/60} व्यवेतानाम् च प्रतिषेधः वक्तव्यः ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {6/60} अ मन्द्रैः इन्द्र हरिभिः यहि मयुररोमभिः ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {7/60} सिद्धम् तु क्वाङ्स्वतिदुर्गतिवचनात्

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {8/60} सिद्धम् एतत् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {9/60} कथम् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {10/60} क्वाङ्स्वतिदुर्गतयः समस्यन्ते इति वक्तव्यम् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {11/60} कु ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {12/60} कुब्राह्मणः कुवृषलः ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {13/60} आङ् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {14/60} आकडारः आपिङ्गलः ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {15/60} सु ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {16/60} सुब्राह्मणः सुवृषलः ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {17/60} अत् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {18/60} अतिब्राह्मणः अतिवृषलः ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {19/60} दुर् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {20/60} दुर्ब्राह्मणः ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {21/60} गति ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {22/60} प्रकारकः प्रणायकः प्रसेचकः ऊरीकृत्य ऊरीकृतम् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {23/60} प्रादयः क्तार्थे

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {24/60} प्रादयः क्तार्थे समस्यन्ते इति वक्तव्यम् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {25/60} प्रगतः आचार्यः प्राचार्यः प्रान्तेवासी प्रपितामहः ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {26/60} एतत् एव च सौनागैः विस्तरतरकेण पठितम् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {27/60} स्वती पूजायाम्

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {28/60} स्वतीपूजायाम् इति वक्तव्यम् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {29/60} सुराजा अतिराजा ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {30/60} दुः निन्दायाम्

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {31/60} दुः निन्दायाम् इति वक्तव्यम् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {32/60} दुष्कुलम् दुर्गवः ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {33/60} आङ् ईषदर्थे

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {34/60} आङ् ईषदर्थे इति वक्तव्यम् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {35/60} आकडारः आपिङ्गलः ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {36/60} कुः पापार्थे

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {37/60} कुः पापार्थेइति वक्तव्यम् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {38/60} कुब्राह्मणः कुवृषलः ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {39/60} प्रादयः गताद्यर्थे प्रथमया

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {40/60} प्रादयः गताद्यर्थे प्रथमया समस्यन्ते इति वक्तव्यम् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {41/60} प्रगतः आचार्यः प्राचार्यः प्रान्तेवासी प्रपितामहः ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {42/60} अत्यादयः क्रान्ताद्यर्थे द्वितीयया

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {43/60} अत्यादयः क्रान्ताद्यर्थे द्वितीयया समस्यन्ते इति वक्तव्यम् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {44/60} अतिक्रान्तः खट्वाम् अतिखट्वः अतिमालः ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {45/60} अवादयः क्रुष्टाद्यर्थे तृतीयया

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {46/60} अवादयः क्रुष्टाद्यर्थे तृतीयया समस्यन्ते इति वक्तव्यम् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {47/60} अवक्रुष्टः कोकिलया अवकोकिलः वसन्तः ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {48/60} पर्यादयः ग्लानाद्यर्थे चतुर्थ्या

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {49/60} पर्यादयः ग्लानाद्यर्थे चतुर्थ्या समस्यन्ते इति वक्तव्यम् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {50/60} परिग्लानः अध्ययनाय पर्यधयनः ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {51/60} निरादयः क्रान्ताद्यर्थे पञ्चम्या

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {52/60} निरादयः क्रान्ताद्यर्थे पञ्चम्या समस्यन्ते इति वक्तव्यम् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {53/60} निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः निर्वाराणसिः ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {54/60} अव्ययम् प्रवृद्धादिभिः

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {55/60} अव्ययम् प्रवृद्धादिभिः समस्यते इति वक्तव्यम् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {56/60} पुनःप्र्ववृद्धम् बर्हिः भवति पुनर्णवम् पुनःसुखम् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {57/60} इवेन विभक्त्यन्तलोपः पूर्व्पदप्रकृतिस्वरत्वम् च

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {58/60} वाससीइव कन्येइव ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {59/60} उदात्तवता तिङा गतिमता च अव्ययम् समस्यते इति वक्तव्यम् ।

(P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 {60/60} अनुव्यचलत् अनुप्राविशत् यत् परियन्ति ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {1/62} अतिङ् इति किमर्थम् ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {2/62} कारकः व्रजति ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {3/62} हारकः व्रजति ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {4/62} अतिङ् इति शक्यम् अकर्तुम् ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {5/62} कस्मात् न भवति ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {6/62} कारकः व्रजति ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {7/62} हारकः व्रजति इति ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {8/62} सुप् सुपा इति वर्तते ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {9/62} अतः उत्तरम् पठति ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {10/62} उपपदम् अतिङ् इति तदर्थप्रतिषेधः

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {11/62} उपपदम् अतिङ् इति तदर्थस्य अयम् प्रतिषेधः वक्तव्यः ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {12/62} कस्य ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {13/62} तिङर्थस्य ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {14/62} कः पुनः तिङर्थः ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {15/62} क्रिया ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {16/62} क्रियाप्रतिषेधः वा

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {17/62} अथ वा व्यक्तम् एव इदम् पठितव्यम् उपपदम् अक्रियया इति ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {18/62} अथ अक्रियया इति किम् प्रत्युदाह्रियते ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {19/62} कारकः गतः हारकः गतः ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {20/62} न एतत् क्रियावाचि ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {21/62} किम् तर्हि। द्रव्यवाचि ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {22/62} इदम् तर्हि कारकस्य गतिः कारकस्य व्रज्या ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {23/62} एतत् अपि द्रव्य्वाचि ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {24/62} कथम् ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {25/62} कृदभिहितः भावः द्रव्यवत् भवति इति ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {26/62} एवम् तर्हि सिद्धे सति यत् अतिङ् इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः अनयोः योगयोः निवृत्तम् सुप् सुपा इति ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {27/62} किम् एतस्य ज्ञापने प्रयोजनम् ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {28/62} गतिकारकोपपदानाम् कृद्भिः समासः भवति इति एषा परिभाषा न कर्तव्या भवति ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {29/62} यदि एतत् ज्ञाप्यते केन इदानीम् समासः भविष्यति ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {30/62} समर्थेन ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {31/62} यदि एवम् धातूपसर्गयोः अपि समासः प्राप्नोति ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {32/62} पूर्वम् धातुः उपसर्गेण युज्यते पश्चात् साधनेन इति ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {33/62} न एतत् अस्ति ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {34/62} पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {35/62} साधनम् हि क्रियाम् निर्वर्तयति ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {36/62} ताम् उपसर्गः विशिनष्टि ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {37/62} अभिनिर्वृत्तस्य च अर्थस्य उपसर्गेण विशेषः शक्यः वक्तुम् ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {38/62} षष्ठीसमासात् उपसर्गसमासः विप्रतिषेधेन

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {39/62} षष्ठीसमासात् उपसर्गसमासः विप्रतिषेधेन ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {40/62} षष्ठीसमासस्य अवकाशः राज्ञः पुरुषः राजपुरुषः ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {41/62} उपपदसमासस्य अवकाशः स्तम्बेरमः कर्णेजपः ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {42/62} इह उभयम् प्राप्नोति ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {43/62} कुम्भकारः नगरकारः ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {44/62} उपपदसमासः भवति विप्रतिषेधेन ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {45/62} न वा षष्ठीसमासाभावाद् उपपदसमासः । न वा अर्थः विप्रतिषेधेन ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {46/62} किम् कारणम् ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {47/62} न वा षष्ठीसमासाभावाद् उपपदसमासः भविष्यति ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {48/62} कथम् ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {49/62} गतिकारकोपदानाम् कृद्भिः सह समासवनचम् प्राक् सुबुत्पत्तेः इति वचनात् ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {50/62} अथ वा विभाषा षष्ठीसमासः ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {51/62} यदा न षष्ठीसमासः तदा उपपदसमासः भविष्यति ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {52/62} अनेन एव यथा स्यात् तेन मा भूत् इति ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {53/62} कः च अत्र विशेषः तेन वा स्यात् अनेन वा ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {54/62} उपपदसमासः नित्यसमासः षष्ठीसमासः पुनः विभाषा ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {55/62} ननु च नित्यम् यः समासः सः नित्यसमासः ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {56/62} यस्य विग्रहः न अस्ति ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {57/62} न इति आह ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {58/62} नित्याधिकारे यः समासः सः नित्यसमासः ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {59/62} न एवम् शक्यम् ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {60/62} अव्ययीभावस्य हि अनित्यसमासता प्रसज्येत ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {61/62} तस्मात् नित्यः समासः नित्यसमासः ।

(P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 {62/62} यस्य विग्रहः न अस्ति ।

(P_2,2.20) KA_I,418.15-22 Ro_II,697 {1/18} एवकारः किमर्थः ।

(P_2,2.20) KA_I,418.15-22 Ro_II,697 {2/18} नियमार्थः ।

(P_2,2.20) KA_I,418.15-22 Ro_II,697 {3/18} न एतत् अस्ति प्रयोजनम् ।

(P_2,2.20) KA_I,418.15-22 Ro_II,697 {4/18} सिद्धे विधिः आरभ्यमाणः अन्तरेण अपि एवकारम् नियमार्थः भविष्यति ।

(P_2,2.20) KA_I,418.15-22 Ro_II,697 {5/18} इष्टतः अवधारणार्थः तर्हि भविष्यति ।

(P_2,2.20) KA_I,418.15-22 Ro_II,697 {6/18} यथा एवम् विज्ञायेत : अमा एव अव्ययेन इति ।

(P_2,2.20) KA_I,418.15-22 Ro_II,697 {7/18} मा एवम् विज्ञायि : अमा अव्ययेन एव इति ।

(P_2,2.20) KA_I,418.15-22 Ro_II,697 {8/18} अस्ति च इदानीम् अनव्ययम् अम्शब्दः यदर्थः विधिः स्यात् ।

(P_2,2.20) KA_I,418.15-22 Ro_II,697 {9/18} अस्ति इति आह ।

(P_2,2.20) KA_I,418.15-22 Ro_II,697 {10/18} खशयम् ब्राह्मणकुलम् इति ।

(P_2,2.20) KA_I,418.15-22 Ro_II,697 {11/18} न एतत् अस्ति प्रयोजनम् ।

(P_2,2.20) KA_I,418.15-22 Ro_II,697 {12/18} अन्तरङ्गत्वात् अत्र समासः भविष्यति ।

(P_2,2.20) KA_I,418.15-22 Ro_II,697 {13/18} इदम् तर्हि प्रयोजनम् ।

(P_2,2.20) KA_I,418.15-22 Ro_II,697 {14/18} अमा एव यत् तुल्यविधानम् उपपदम् तत्र एव यथा स्यात् ।

(P_2,2.20) KA_I,418.15-22 Ro_II,697 {15/18} अमा च अन्येन च यत् तुल्यविधानम् उपपदम् तत्र मा भूत् इति ।

(P_2,2.20) KA_I,418.15-22 Ro_II,697 {16/18} अग्रे भोजम् अग्रे भुक्त्वा ।

(P_2,2.20) KA_I,418.15-22 Ro_II,697 {17/18} अग्रादिषु अप्राप्तविधेः समासप्रतिषेधम् चोदयिष्यति ।

(P_2,2.20) KA_I,418.15-22 Ro_II,697 {18/18} सः न वक्तव्यः भवति ।

(P_2,2.23) KA_I,418.24-419.8 Ro_II,698 {1/18} शेषः इति उच्यते ।

(P_2,2.23) KA_I,418.24-419.8 Ro_II,698 {2/18} कः शेषः नाम ।

(P_2,2.23) KA_I,418.24-419.8 Ro_II,698 {3/18} येषाम् पदानाम् अनुक्तः समासः सः शेषः ।

(P_2,2.23) KA_I,418.24-419.8 Ro_II,698 {4/18} शेषवचनम् पदतः चेत् न अभावात्

(P_2,2.23) KA_I,418.24-419.8 Ro_II,698 {5/18} शेषवचनम् पदतः चेत् तत् न ।

(P_2,2.23) KA_I,418.24-419.8 Ro_II,698 {6/18} किम् कारणम् ।

(P_2,2.23) KA_I,418.24-419.8 Ro_II,698 {7/18} अभावात् ।

(P_2,2.23) KA_I,418.24-419.8 Ro_II,698 {8/18} न हि सन्ति तानि पदानि येषाम् पदानाम् अनुक्तः समासः ।

(P_2,2.23) KA_I,418.24-419.8 Ro_II,698 {9/18} अर्थतः तर्हि शेषग्रहणम् ।

(P_2,2.23) KA_I,418.24-419.8 Ro_II,698 {10/18} येषु अर्थेषु अनुक्तः समासः सः शेषः ।

(P_2,2.23) KA_I,418.24-419.8 Ro_II,698 {11/18} अर्थतः चेत् अविशिष्टम् । अर्थतः चेत् अविशिष्टम् एतत् भवति ।

(P_2,2.23) KA_I,418.24-419.8 Ro_II,698 {12/18} कुतः ।

(P_2,2.23) KA_I,418.24-419.8 Ro_II,698 {13/18} पदतः ।

(P_2,2.23) KA_I,418.24-419.8 Ro_II,698 {14/18} न हि सन्ति ते अर्थाः येषु अनुक्तः समासः ।

(P_2,2.23) KA_I,418.24-419.8 Ro_II,698 {15/18} त्रिकतः तर्हि शेषग्रहणम् ।

(P_2,2.23) KA_I,418.24-419.8 Ro_II,698 {16/18} यस्य त्रिकस्य अनुक्तः समासः सः शेषः ।

(P_2,2.23) KA_I,418.24-419.8 Ro_II,698 {17/18} कस्य च अनुक्तः ।

(P_2,2.23) KA_I,418.24-419.8 Ro_II,698 {18/18} प्रथमायाः ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {1/72} पदग्रहणम् किमर्थम्। अनेकम् अन्यार्थे इति इयति उच्यमाने वक्यार्थे अपि बहुव्रीहिः स्यात् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {2/72} यथा मे माता तथा मे पिता सुस्नातम् भोः इति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {3/72} पदग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {4/72} अथ अन्यग्रहणम् किमर्थम् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {5/72} अनेकम् पदार्थे इति इयति उच्यमाने स्वपदार्थे अपि बहुर्वीहिः स्यात् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {6/72} राजपुरुषः तक्षपुरुषः इति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {7/72} न एतत् अस्ति प्रयोजनम् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {8/72} तत्पुरुषः स्वपदार्थे बाधकः भविष्यति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {9/72} भवेत् एकसञ्ज्ञाधिकारे सिद्धम् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {10/72} परङ्कार्यत्वे तु न सिध्यति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {11/72} आरम्भसामर्थ्यात् च तत्पुरुषः परङ्कार्यत्वात् च बहुव्रीहिः प्राप्नोति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {12/72} परङ्कार्यत्वे च न दोषः ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {13/72} शेषः इति वर्तते ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {14/72} शेषत्वात् न भविष्यति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {15/72} शेषवचने उक्तम्

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {16/72} किम् उक्तम् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {17/72} तत्र शेषवचनात् दोषः सङ्ख्यासमानाधिकरणनञ्समासेषु बहुव्रीहिप्रतिषेधः इति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {18/72} अथ एकसङ्ज्ञाधिकारे न अर्थः अन्यग्रहणेन ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {19/72} एकसङ्ज्ञाधिकारे च कर्तव्यम् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {20/72} अक्रियमाणे हि अन्यग्रहणे यथा एव तत्पुरुषः स्वपदार्थे बहुव्रीहिम् बाधते एवम् अन्यपदार्थे अपि बाधेत ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {21/72} अथ अनेकग्रहणम् किमर्थम्। अन्यपदार्थे इति इयति उच्यमाने एकस्य अपि पदस्य बहुव्रीहिः स्यात् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {22/72} सर्पिषः अपि स्यात् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {23/72} मधुनः अपि स्यात् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {24/72} गोमूत्रस्य अपि स्यात् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {25/72} न एतत् अस्ति प्रयोजनम् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {26/72} सुप् सुपा इति वर्तते ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {27/72} इदम् तर्हि प्रयोजनम् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {28/72} बहूनाम् अपि समासः यथा स्यात् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {29/72} सुसूक्ष्मजटकेशेन सुनताजिनवाससा ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {30/72} उत्तरार्थम् च अनेकग्रहणम् कर्तव्यम् चार्थे द्वन्द्वः अनेकम् इति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {31/72} इह अपि यथा स्यात् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {32/72} प्लक्षन्यग्रोधखदिरपलाशाः इति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {33/72} एतत् अपि न अस्ति प्रयोजनम् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {34/72} आचार्यप्रवृत्तिः ज्ञापयति बहूनाम् अपि समासः भवति इति यत् अयम् उत्तरपदे द्विगुम् शास्ति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {35/72} तत्पुरुषः अपि तर्हि बहूनाम् प्राप्नोति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {36/72} ग्रहणेन तत्पुरुषः उच्यते ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {37/72} तेन बहूनाम् न भविष्यति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {38/72} अतः उत्तरम् पठति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {39/72} अनेकवचनम् उपसर्जनार्थम्

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {40/72} अनेकग्रहणम् क्रियते उपसर्जनार्थम् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {41/72} प्रथमानिर्दिष्टम् समासे उपसर्जनम् इति अनेकस्य सुपः उपसर्जनसञ्ज्ञा यथा स्यात् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {42/72} चित्रगुः शबलगुः इति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {43/72} न वा एकविभक्तित्वात्

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {44/72} न वा एतत् अपि प्रयोजनम् अस्ति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {45/72} किम् कारणम् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {46/72} एकविभक्तित्वात् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {47/72} एकविभक्ति च अपूर्व्निपाते इति उपसर्जनसञ्ज्ञा भविष्यति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {48/72} चित्रगुः शबलगुः इति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {49/72} चित्राः यस्य गावः चित्रगुः तिष्ठति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {50/72} चित्राः यस्य गावः चित्रगुम् पश्य ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {51/72} चित्राः यस्य गावः चित्रगुणा कृतम् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {52/72} चित्राः यस्य गावः चित्रगवे देहि ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {53/72} चित्राः यस्य गावः चित्रगोः आनय ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {54/72} चित्राः यस्य गावः चित्रगोः स्वम् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {55/72} चित्राः यस्य गावः चित्रगौ निधेहि ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {56/72} चित्राः यस्य गावः हे चित्रगो इति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {57/72} यदि तर्हि यतः कुतः चित् एव किम् चित् पदम् अध्याहृत्य एकविभक्त्या योगः क्रियते एतत् अपि एकविभक्तियुक्तम् भवति इह अपि प्राप्नोति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {58/72} राजकुमारी तक्षकुमारी ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {59/72} राज्ञः या कुमारी राजकुमारी तिष्ठति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {60/72} राज्ञः या कुमारी राजकुमारीम् पश्य ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {61/72} राज्ञः या कुमारी राजकुमार्या कृतम् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {62/72} राज्ञः या कुमारी राजकुमार्यै देहि ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {63/72} राज्ञः या कुमारी राजकुमार्याः आनय ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {64/72} राज्ञः या कुमारी राजकुमार्याः स्वम् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {65/72} राज्ञः या कुमारी राजकुमार्याम् निधेहि ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {66/72} राज्ञः या कुमारी हे राजकुमारि इति ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {67/72} किम् वक्तव्यम् एतत् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {68/72} न हि ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {69/72} कथम् अनुच्यमानम् गंस्यते ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {70/72} एकग्रहणसामर्थ्यात् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {71/72} यदि हि यत् एकविभक्तियुक्तम् च अनेकविभक्तियुक्तम् च तत्र स्यात् एकग्रहणम् अनर्थकम् स्यात् ।

(P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 {72/72} विभक्तियुक्तम् च अपूर्वनिपाते इति एव ब्रूयात् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {1/90} पदार्थाभिधाने अनुप्रयोगानुपपत्तिः अभिहितत्वात्

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {2/90} पदार्थस्य अभिधाने अनुप्रयोगस्य अनुपपत्तिः ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {3/90} चित्रगुः देवदत्तः इति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {4/90} किम् कारणम् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {5/90} अभिहितत्वात् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {6/90} चित्रगुशब्देन अभिहितः सः अर्थः इति कृत्वा अनुप्रयोगः न प्राप्नोति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {7/90} न वा अनभिहितत्वात्

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {8/90} न वा एषः दोषः ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {9/90} किम् कारणम् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {10/90} अनभिहितत्वात् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {11/90} चित्रगुशब्देन अनभिहितः सः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {12/90} कथम् अनभिहितः यावता इदानीम् एव उक्तम् पदार्थाभिधाने अनुप्रयोगानुपपत्तिः अभिहितत्वात् इति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {13/90} सामान्याभिधाने हि विशेषानभिधानम्

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {14/90} सामान्ये हि अभिधीयमाने विशेषः अनभ्हितः भवति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {15/90} तत्र अवश्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {16/90} चित्रगुः ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {17/90} कः ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {18/90} देवदत्तः इति। भवेत् सिद्धम् यदा सामान्ये वृत्तिः ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {19/90} यदा तु खलु विशेषे वृत्तिः तदा न सिध्यति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {20/90} चित्रा गावः देवदत्तस्य चित्रगुः देवदत्तः इति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {21/90} तत् अपि सिद्धम् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {22/90} कथम् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {23/90} न इदम् उभयम् युगपत् भवति वाक्यम् च समासः च ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {24/90} यदा वाक्यम् तदा न समासः ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {25/90} यदा समासः तदा न वक्यम् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {26/90} यदा समासः तदा सामान्ये वृत्तिः ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {27/90} तत्र अवश्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {28/90} चित्रगुः ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {29/90} कः ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {30/90} देवदत्तः इति। सामान्यस्य एव तर्हि अनुप्रयोगः न प्राप्नोति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {31/90} चित्रगु तत् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {32/90} चित्रगु किम् चित् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {33/90} चित्रगु सर्वम् इति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {34/90} सामान्यम् अपि यथा विशेषः तद्वत् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {35/90} चित्रगु इति उक्ते सन्देहः स्यात् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {36/90} सर्वम् वा विश्वम् वा इति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {37/90} तत्र अवश्यम् सन्देहनिवृत्त्यर्थम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {38/90} अथ वा विभक्त्यर्थः अभिदीयते ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {39/90} एतत् च अत्र युक्तम् यत् विभक्त्यर्थः अभिधीयते ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {40/90} तत्र हि सर्वपश्चात् पदम् वर्तते अस्य इति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {41/90} विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्योपचारानुपपत्तिः

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {42/90} विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्याभ्याम् उपचारः अनुपपन्नः ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {43/90} बहुयवम् बहुयवा बहुयवः बहुयवौ बहुहवाः इति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {44/90} अपरः आह : विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्योपचारानुपपत्तिः विभक्त्यर्थाभिधाने द्रव्यस्य ये लिङ्गसङ्ख्ये ताभ्याम् विभक्त्यर्थस्य उपचारः अनुपपन्नः ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {45/90} बहुयवम् बहुयवाः बहुयवः बहुयवौ बहुहवाः इति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {46/90} कथम् हि अन्यस्य लिङ्गसङ्ख्याभ्याम् अन्यस्य उपचारः स्यात् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {47/90} सिद्धम् तु यथा गुणवचनेषु

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {48/90} सिद्धम् एतत्। कथम् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {49/90} यथा गुणवचनेषु ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {50/90} गुणवचनेषु उक्तम् : गुणवचनानाम् शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति इति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {51/90} तत् यथा शुक्लम् वस्त्रम् शुक्ला शाटी शुक्लः कम्बलः शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {52/90} यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {53/90} एवम् इह अपि यत् असौ द्रव्यम् श्रितः विभक्त्यर्थः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {54/90} यदि तर्हि विभक्त्यर्थः अभिधीयते कृत्स्नः पदार्थः कथम् अभिहितः भवति सद्रव्यः सलिङ्गः ससङ्ख्यः च ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {55/90} अर्थग्रहणसामर्थ्यात् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {56/90} इह अनेकम् अन्यपदे इति इयता सिद्धम् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {57/90} कथम् पुनः पदे नाम वृत्तिः स्यात् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {58/90} शब्दः हि एषः ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {59/90} शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {60/90} सः अयम् एवम् सिद्धे सति यत् अर्थग्रहणम् करोति तस्य एतत् प्रयोजनम् कृत्स्नः पदार्थः यथा अभिधीयेत सद्रव्यः सलिङ्गः ससङ्ख्यः च इति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {61/90} यदि तर्हि कृत्स्नः पदार्थः अभिधीयते लैङ्गाः साङ्ख्याः च विधयः न सिध्यन्ति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {62/90} उक्तम् वा

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {63/90} किम् उक्तम् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {64/90} लिङ्गेषु तावत् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {65/90} सिद्धम् तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादयः इति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {66/90} साङ्ख्येषु अपि उक्तम् कर्मादीनाम् अनुक्ताः एकत्वादयः इति कृत्वा साङ्ख्याः भविष्यन्ति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {67/90} प्रथमा तर्हि न प्राप्नोति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {68/90} समयात् भविष्यति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {69/90} यदि सामयिकी न नियोगतः अन्याः कस्मात् न भवन्ति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {70/90} कर्मादीनाम् अभावात् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {71/90} षष्ठी तर्हि प्राप्नोति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {72/90} शेषलक्षणा षष्ठी ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {73/90} अशेषत्वात् न भविष्यति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {74/90} एवम् अपि व्यतिकरः ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {75/90} एकस्मिन् अपि द्विवचनबहुवचने प्राप्नुतः द्वयोः अपि एकवचनबहुवचने बहुषु अपि एकवचनद्विवचने ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {76/90} अर्थतः व्यवस्था भविष्यति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {77/90} अथ वा सङ्ख्या नाम इयम् परप्रधाना ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {78/90} सङ्ख्येअम् अन्या विशेष्यम् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {79/90} यदि च अत्र प्रथमा न स्यात् सङ्ख्येयम् अविशेषितम् स्यात् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {80/90} अथ वा वक्ष्यति एतत् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {81/90} तत्र वचनग्रहणस्य प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् इति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {82/90} एवम् अपि षष्ठी प्राप्नोति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {83/90} किम् कारणम् ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {84/90} व्यभिचरति एव हि अयम् समासः लिङ्गसङ्ख्ये ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {85/90} षष्थ्यर्थम् पुनः न व्यभिचरति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {86/90} अभिहितः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {87/90} तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमा भविष्यति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {88/90} न तर्हि इदानीम् इदम् भवति : चित्रगोः देवदत्तस्य ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {89/90} भवति ।

(P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 {90/90} बाह्यम् अर्थम् अपेक्ष्य षष्ठी ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {1/65} परिगणनम् कर्तव्यम् ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {2/65} बहुव्रीहिः समानाधिकरणानाम्

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {3/65} समानाधिकरणानाम् बहुव्रीहिः वक्तव्यः ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {4/65} किम् प्रयोजनम् ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {5/65} व्यधिकरणानाम् मा भूत् इति ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {6/65} पञ्चभिः भुक्तम् अस्य इति ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {7/65} अव्ययानाम् च

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {8/65} अव्ययानाम् बहुव्रीहिः वक्तव्यः ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {9/65} उच्चैर्मुखः नीचैर्मुखः ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {10/65} सप्तम्युपमानपूर्वपदस्य उत्तरपदलोपः च

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {11/65} सप्तमीपूर्वस्य उपमानपूर्वस्य च बहुव्रीहिः वक्तव्यः उत्तरपदस्य च लोपः वक्तव्यः ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {12/65} कण्ठेस्थः कालः अस्य कण्ठेकालः उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः खरमुखः ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {13/65} समुदायविकारषष्ठ्याः च

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {14/65} समुदायषष्ठ्याः विकारषष्ठ्याः च बहुव्रीहिः वक्तव्यः उत्तरपदस्य च लोपः वक्तव्यः ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {15/65} केशानाम् समाहारः चूडा अस्य केशचूडः सुवर्णस्य विकारः अलङ्कारः अस्य सुवर्णालङ्कारः ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {16/65} प्रादिभ्यः धातुजस्य वा

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {17/65} प्रादिभ्यः धातुजस्य बहुव्रीहिः वक्तव्यः उत्तरपदस्य च वा लोपः वक्तव्यः ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {18/65} प्रपतितपर्णः प्रपर्णः प्रपतितपलाशः प्रपलाशः ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {19/65} नञः अस्त्यर्थानाम्

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {20/65} नञः अस्त्यर्थानाम् बहुव्रीहिः वक्तव्यः उत्तरपदस्य च वा लोपः वक्तव्यः ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {21/65} अविद्यमानपुत्रः अपुत्रः अविद्यमानभार्यः अभार्यः ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {22/65} तत् तर्हि बहु वक्तव्यम् ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {23/65} न वा अनभिधानात् असमानाधिकरणे सञ्ज्ञाभावः

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {24/65} न वा वक्तव्यम् ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {25/65} असमानाधिकरणानाम् बहुव्रीहिः कस्मात् न भवति : पञ्चभिः भुक्तम् अस्य इति ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {26/65} अनभिधानात् ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {27/65} तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {28/65} क्रियमाणे अपि वै परिगणने यत्र अभिधानम् न अस्ति न भवति तत्र बहुव्रीहिः ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {29/65} तत् यथा पञ्च भुक्तवन्तः अस्य इति ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {30/65} अथ एतस्मिन् सति अनभिधाने यदि वृत्तिपरिगणनम् क्रियते वर्तिपरिगणनम् अपि कर्तव्यम् ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {31/65} तत् कथम् कर्तव्यम् ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {32/65} अर्थनियमे मत्वर्थग्रहणम्

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {33/65} अर्थनियमे मत्वर्थग्रहणम् कर्तव्यम् ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {34/65} मत्वर्थे यः सः बहुव्रीहिः इति वक्तव्यम् ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {35/65} इह मा भूत् : कष्टम् श्रितम् अनेन इति ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {36/65} तथा च उत्तरस्य वचनार्थः

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {37/65} एवम् च कृत्वा उत्तरस्य योगस्य वचनार्थः उपपन्नः भवति ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {38/65} के चित् तावत् आहुः : यत् वृत्तिसूत्रे इति ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {39/65} सङ्ख्याव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये इति ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {40/65} अपरः आह : यत् वार्त्तिके इति ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {41/65} कर्मवचनेन अप्रथ्मायाः

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {42/65} कर्मवचनेन अप्रथ्मायाः बहुव्रीहिः वक्तव्यः ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {43/65} ऊढः रथः अनेन ऊढरथः अनड्वान् उपहृतः पशुः रुद्राय उपहृतपशुः रुद्रः उद्धृतः ओदनः स्थाल्याः उद्धृतौदना स्थाली ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {44/65} यदि कर्मवचनेन इति उच्यते कर्तृवचनेन कथम् ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {45/65} प्राप्तम् उदकम् ग्रामम् प्राप्तोदकः ग्रामः आगताः अतिथयः ग्रामम् आगतातिथिः ग्रामः ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {46/65} कर्तृवचनेन अपि

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {47/65} कर्तृवचनेन अपि इति वक्तव्यम् ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {48/65} अप्रथमायाः इति किमर्थम् ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {49/65} वृष्टे देवे गतः ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {50/65} अप्रथमायाः इति उच्यमाने इह कस्मात् न भवति ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {51/65} वृष्टे देवे गतम् पश्य इति ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {52/65} बहिरङ्गा अत्र अप्रथमा ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {53/65} सुबधिकारे अस्तिक्षीरादिवचनम्

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {54/65} सुबधिकारे अस्तिक्षीरादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {55/65} अस्तिक्षीरा ब्राह्मणी ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {56/65} तत् तर्हि वक्तव्यम् ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {57/65} न वा अव्ययत्वात्

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {58/65} न वा वक्तव्यम् ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {59/65} किम् कारणम् ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {60/65} अव्ययत्वात् ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {61/65} अव्ययः अयम् अस्तिशब्दः ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {62/65} न एषः अस्तेः लट् ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {63/65} कथम् अव्ययत्वम् ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {64/65} उपसर्गविभक्तिस्वरप्रतिरूपकाः च निपातसञ्ज्ञाः भवन्ति इति निपातस्ञ्ज्ञा ।

(P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 {65/65} निपातः अव्ययम् इति अव्ययसञ्ज्ञा ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {1/101} अथ किंसब्रह्मचारी इति कः अयम् समासः ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {2/101} बहुव्रीहिः इति अह ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {3/101} कः अस्य विग्रहः ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {4/101} के सब्रह्मचारिणः अस्य इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {5/101} यदि एवम् कठः इति प्रतिवचनम् न उपपद्यते ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {6/101} न हि अन्यत् पृष्टेन अन्यत् आख्यायते ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {7/101} एवम् तर्हि एवम् विग्रहः करिष्यते : केषाम् सब्रह्मचारी किंस्ब्रह्मचारी इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {8/101} प्रतिवचनम् च एव न उपपद्यते स्वरे च दोषः भवति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {9/101} किंसब्रह्मचारी इति एवम् स्वरः प्रसज्येत ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {10/101} किंसब्रह्मचारी इति च इष्यते ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {11/101} एवम् तर्हि एवम् विग्रहः करिष्यते ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {12/101} कः सब्रह्मचारी किंसब्रह्मचारी इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {13/101} भवेत् प्रतिवचनम् उपपन्नम् स्वरे तु दोषः भवति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {14/101} एवम् तर्हि एवम् विग्रहः करिष्यते ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {15/101} कः सब्रह्मचारी तव किंसब्रह्मचारी त्वम् इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {16/101} अथ वा पुनः अस्तु एवम् विग्रहः : के सब्रह्मचारिणः अस्य इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {17/101} ननु च उक्तम् कठः इति प्रतिवचनम् न उपपद्यते ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {18/101} न एषः दोषः ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {19/101} अग्नौकरवाणिन्यायेन भविष्यति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {20/101} तत् यथा ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {21/101} कः चित् कम् चित् आह ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {22/101} अग्नौ करवाणि इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {23/101} कुरु इति कर्तरि अनुज्ञाते कर्म अपि अनुज्ञातम् भवति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {24/101} अपरः आह : अग्नौ करिष्यते इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {25/101} क्रियताम् इति कर्मणि अनुज्ञाते कर्ता अपि अनुज्ञातः भवति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {26/101} यथा एव खलु अपि के सब्रह्मचारिणः अस्य इति कठाः इति उक्ते सम्बन्धात् एतत् गम्यते ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {27/101} नूनम् सः अपि कठ इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {28/101} एवम् कठः इति उक्ते सम्बन्धात् एतत् गन्तव्यम् स्यात् ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {29/101} नूनम् ते अपि कठाः इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {30/101} न खलु अपि ते शक्याः समासेन प्रतिनिर्देष्टुम् ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {31/101} उपसर्जनम् हे ते भवन्ति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {32/101} अथ अर्थतृतीयाः इति कः अयम् समासः ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {33/101} बहुव्रीहिः इति आह ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {34/101} कः अस्य विग्रहः ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {35/101} अर्धम् तृतीयम् एषाम् इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {36/101} कः समासार्थः ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {37/101} समासार्थः न उपपद्यते ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {38/101} अन्यपदार्थः हि नाम सः भवति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {39/101} येषाम् पदानाम् समासः ततः अन्यस्य पदस्य अर्थः अन्यपदार्थः ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {40/101} एवम् तर्हि एवम् विग्रहः करिष्यते ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {41/101} अर्धम् तृतीयम् अनयोः इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {42/101} एवम् अपि कः षष्ठ्यर्थः ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {43/101} षष्ठ्यर्थः न उपपद्यते ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {44/101} किम् हि तयोः अर्धम् भवति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {45/101} अस्तु तरि एवम् विग्रहः अर्धम् तृतीयम् एषाम् इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {46/101} ननु च उक्तम् समासार्थः न उपपद्यते इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {47/101} न एषः दोषः ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {48/101} अवयवेन विग्रहः समुदायः समासार्थः ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {49/101} यदि अवयवेन विग्रहः समुदायः समासार्थः असिद्वितीयः अनुससार पाण्डवम् ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {50/101} सङ्कर्षणद्वितीयस्य बलम् कृष्णस्य वर्धताम् इति। द्वयोः द्विवचनम् प्राप्नोति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {51/101} अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् अनयोः ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {52/101} ननु च उक्तम् ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {53/101} षष्ठ्यर्थः न उपपद्यते इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {54/101} न एषः दोषः ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {55/101} इदम् तावत् अयम् प्रष्टव्यः ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {56/101} अथ इह देवदत्तस्य भ्राता इति कः षष्ठ्यर्थः ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {57/101} तत्र एतत् स्यात् ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {58/101} एकस्मात् प्रादुर्भावः इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {59/101} एतत् च वार्तम् ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {60/101} तत् यथा ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {61/101} सार्थिकनम् एकप्रतिश्रये उषितानाम् प्रातः उत्थाय प्रतिष्ठमानानाम् न कः चित् परस्परम् सम्बन्धः भवति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {62/101} एवञ्जातीयकम् भ्रातृत्वम् नाम ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {63/101} अत्र चेत् युक्तः षष्ठ्यर्थः दृश्यते इह अपि युक्तः दृश्यताम् ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {64/101} इह तर्हि अर्धतृतीयाः आनीयन्ताम् इति उक्ते अर्धस्य आनयनम् न प्राप्नोति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {65/101} अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् एषाम् इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {66/101} ननु च उक्तम् अनुससार पाण्डवम् ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {67/101} सङ्कर्षणद्वितीयस्य बलम् कृष्णस्य वर्धताम् इति। द्वयोः द्विवचनम् प्राप्नोति इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {68/101} न एषः दोषः ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {69/101} अयम् तीयन्तः शब्दः अस्ति एव पूरणम् ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {70/101} अस्ति सहायवाची ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {71/101} तत् यः सहायवाची तस्य इदम् ग्रहणम् ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {72/101} असिद्वितीयः असिसहायः इति गम्यते ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {73/101} एवम् अपि अर्धतृतीयाः इति एकस्मिन् एकवचनम् इति एकवचनम् प्राप्नोति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {74/101} एकार्थाः हि समुदायाः भवन्ति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {75/101} तत् यथा शतम् यूथम् वनम् इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {76/101} अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् अनयोः इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {77/101} ननु च उक्तम् अर्धतृतीयाः आनीयन्ताम् इति उक्ते अर्धस्य आनयनम् न प्राप्नोति इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {78/101} न एषः दोषः ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {79/101} भवति बहुव्रीहौ तद्गुणसंविज्ञानम् अपि ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {80/101} तत् यथा ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {81/101} शुक्लवाससम् आनय ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {82/101} लोहितोष्णीषाः ऋत्विजः प्रचरन्ति इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {83/101} तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {84/101} अथ वा पुनः अस्तु अयम् एव विग्रहः अर्धम् तृतीयम् एषाम् इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {85/101} ननु च उक्तम् एकवचनम् प्राप्नोति इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {86/101} न एषः दोषः ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {87/101} सङ्ख्या नाम इयम् परप्रधाना ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {88/101} सङ्ख्येयम् अनया विशेष्यम् ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {89/101} यदि च अत्र एकवचनम् स्यात् सङ्ख्येयम् अविशेषितम् स्यात् ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {90/101} इह तर्हि अर्धतृतीयाः द्रोणाः इति अयम् द्रोणशब्दः समुदाये प्रवृत्तः अवयवे न उपपद्यते ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {91/101} न एषः दोषः ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {92/101} समुदायेषु अपि शब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते। तद् यथा ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {93/101} पूर्वे पञ्चालाः उत्तरे पञ्चालाः तैलम् भुक्तम् घृतं भुक्तम् शुक्लः नीलः कपिलः कृष्णः इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {94/101} एवम् अयम् समुदाये द्रोणशब्दः प्रवृत्तः अवयवेषु अपि वर्तति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {95/101} कामम् तर्हि अनेन एव हेतुना यदा द्वौ द्रोणौ अर्धार्ढकम् च कर्तव्यम् अर्धतृतीयाः द्रोणाः इति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {96/101} न कर्तव्यम् ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {97/101} समुदायेषु अपि हि शब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते। केषु अवयवेषु ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {98/101} यः अवयवः तम् समुदायम् न व्यभिचरति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {99/101} कम् च समुदायम् न व्यभिचरति ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {100/101} अर्ध्द्रोणः द्रोणम् ।

(P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 {101/101} अर्धाढकम् पुनः व्यभिचरति ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {1/65} द्वित्राः त्रिचतुराः इति कः अयम् समासः ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {2/65} बहुव्रीहिः इति आह ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {3/65} कः अस्य विग्रहः ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {4/65} द्वौ वा त्रयः वा इति ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {5/65} भवेत् यदा बहूनाम् आनयनम् तदा बहुवचनम् उपपन्नम् यदा तु खलु द्वौ आनीयेते तदा न सिध्यति ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {6/65} तदा अपि सिध्यति ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {7/65} कथम् ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {8/65} के चित् तावत् आहुः : अनिर्ज्ञाते अर्थे बहुवचनम् प्रयोक्तव्यम् इति ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {9/65} तत् यथा : कति भवतः पुत्राः ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {10/65} कति भवतः भार्याः इति ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {11/65} अपरः आह : द्वौ वा इति उक्ते त्रयः वा इति गम्यते ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {12/65} त्रयः वा इति उक्ते द्वौ वा इति गम्यते ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {13/65} सा एषा पञ्चाधिष्ठाना वाक् ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {14/65} अत्र युक्तम् बहुवचनम् ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {15/65} अथ द्विदशाः त्रिदशाः इति कः अयम् समासः ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {16/65} बहुव्रीहिः इति आह ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {17/65} कः अस्य विग्रहः ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {18/65} द्विः दश द्विशशाः इति ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {19/65} सङ्ख्यासमासे सुजन्तत्वात् सङ्ख्याप्रसिद्धिः

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {20/65} सङ्ख्यासमासे सुजन्तत्वात् सङ्ख्या इति अप्रसिद्धिः ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {21/65} न हि सुजन्ता सङ्ख्या अस्ति ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {22/65} एवम् तर्हि एवम् विग्रहः करिष्यते ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {23/65} द्वौ दशतौ द्विदशाः इति ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {24/65} एवम् अपि अत्कारान्तत्वात् सङ्ख्या इति अप्रसिद्धिः ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {25/65} न हि अत्कारान्ता सङ्ख्या अस्ति ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {26/65} अस्तु तर्हि अयम् एव विग्रहः द्विः दश द्विशशाः इति ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {27/65} ननु च उक्तम् सङ्ख्यासमासे सुजन्तत्वात् सङ्ख्या इति अप्रसिद्धिः इति ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {28/65} न वा असुजन्तत्वात्

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {29/65} न वा एषः दोषः ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {30/65} किम् कारणम् ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {31/65} असुजन्तत्वात् ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {32/65} सुजन्ता इति उच्यते ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {33/65} न च अत्र सुजन्तम् पश्यामः ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {34/65} किम् पुनः कारणम् वाक्ये सुच् दृश्यते समासे तु न दृश्यते ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {35/65} सुजभावः अहिहितार्थत्वात् समासे

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {36/65} समासे सुचः अभावः ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {37/65} किम् कारणम् ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {38/65} अहिहितार्थत्वात् ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {39/65} अभिहितः सुजर्थः समासेन इति कृत्वा समासे सुच् न भविष्यति ।किम् च भोः सुजर्थे इति समासः उच्यते ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {40/65} न खलु सुजर्थे इति उच्यते गम्यते तु सुजर्थः ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {41/65} कथम् ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {42/65} यावता सङ्ख्येयः यः सङ्ख्यया सङ्ख्यायते सः च क्रियाभ्यावृत्त्यर्थः ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {43/65} सः च उक्तः समासेन इति कृत्वा समासे सुच् न भविष्यति ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {44/65} अशिष्यः सङ्ख्योत्तरपदः सङ्ख्येयवाभिध्यायित्वात्

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {45/65} अशिष्यः सङ्ख्योत्तरपदः बहुव्रीहिः ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {46/65} किम् कारणम् ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {47/65} सङ्ख्येयवाभिध्यायित्वात् ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {48/65} सङ्ख्येयम् वार्थः च अभिदीयते ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {49/65} तत्र अन्यपदार्थे इति एव सिद्धम् ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {50/65} भवेत् सिद्धम् अधिकविंशाः अधिकत्रिंशाः इति यत्र एतत् विचार्यते ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {51/65} विशत्यादयः दशदर्थे वा स्युः परिमाणिनि वा इति ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {52/65} इदम् तु न सिध्यति अधिकदशाः इति यत्र नियोगतः सङ्ख्येये एव वर्तते ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {53/65} अथ उपदशाः इति कः अयम् समासः ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {54/65} बहुव्रीहिः इति आह ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {55/65} कः अस्य विग्रहः ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {56/65} दशानाम् समीपे उपदशाः इति ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {57/65} कस्य पुनः सामीप्यम् अर्थः ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {58/65} उपस्य ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {59/65} यदि एवम् न अन्यपदार्थः भवति ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {60/65} तत्र प्रथानिर्दिष्टम् सङ्ख्याग्रहणम् शक्यम् अकर्तुम् ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {61/65} मत्वर्थे वा पूर्वस्य विधानात्

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {62/65} अथ वा मत्वर्थे पूर्वः योगः ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {63/65} अमत्वर्थः अयम् आरम्भः ।

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {64/65} कबभावार्थम् वा

(P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 {65/65} अथ व कप् मा भूत् इति ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {1/33} दिक्समाससहयोगयोः च अन्तरालप्रधानाभिधानात्

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {2/33} दिक्समाससहयोगयोः च अशिष्यः बहुव्रीहिः ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {3/33} किम् कारणम् ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {4/33} अन्तरालप्रधानाभिधानात् ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {5/33} दिक्समासे सहयोगे च अन्तरालम् प्रधानम् च अभिधीयते ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {6/33} तत्र अन्यपदार्थे इति एव सिद्धम् ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {7/33} यदि एवम् दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावः न प्राप्नोति ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {8/33} अद्य पुनः इयम् सा एव दक्षिणा सा एव पूर्वा इति कृत्वा समानाधिकरणलक्षणः पुंवद्भावः सिद्धः भवति ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {9/33} न सिध्यति ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {10/33} भाषितपुंस्कस्य पुंवद्भावः ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {11/33} न च एतौ भाषितपुंस्कौ ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {12/33} ननु च भोः दक्षिणशब्दः पूर्वशब्दः च पुंसि भाष्येते ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {13/33} समानायाम् आकृतौ यत् भाषितपुंस्कम् ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {14/33} आकृत्यन्तरे च एतौ भाषितपुंस्कौ ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {15/33} दक्षिणा पूर्वा इति दिक्शब्दौ ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {16/33} दक्षिणः पूर्वः इति व्यवस्थाशब्दौ ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {17/33} यदि पुनः दिक्शब्दाः अपि व्यवस्थाशब्दाः स्युः ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {18/33} कथम् यानि दिगपदिष्टानि कार्याणि ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {19/33} यदा दिशः व्यवस्थाम् वक्ष्यन्ति ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {20/33} यदि तरि यः यः दिशि वर्तते सः सः दिक्शब्दः रमणीयादिषु अतिप्रसङ्गः भवति ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {21/33} रमणीया दिक् शोभना दिक् इति ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {22/33} अथ मतम् एतत् दिशि दृष्टः दिग्दृष्टः दिग्दिष्टः शब्दः दिक्शब्दः दिशम् यः न व्यभिचरति इति रमणीयादिषु अतिप्रसङ्गः न भवति ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {23/33} पुंवद्भावः तु प्राप्नोति ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {24/33} एवम् तर्हि सर्वनाम्नः वृत्तिमात्रे पुंवद्भावः वक्तव्यः दक्षिणोत्तरपूर्वाणाम् इति एवमर्थम् ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {25/33} एवम् च कृत्वा दिक् दिक्समाससहयोगयोः च अन्तरालप्रधानाभिधानात् इति एव ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {26/33} ननु च उक्तम् दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावः न प्राप्नोति इति ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {27/33} न एषः दोषः ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {28/33} सर्वनाम्नः वृत्तिमात्रे पुंवद्भावेन परिहृतम् ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {29/33} मत्वर्थे वा पूर्वस्य विधानात्

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {30/33} अथ वा मत्वर्थे पूर्वः योगः ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {31/33} अमत्वर्थः अयम् आरम्भः ।

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {32/33} कबभावार्थम् वा

(P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 {33/33} अथ व कप् मा भूत् इति ।

(P_2,2.27) KA_I,429.18-430.6 Ro_II,727-728 {1/20} तृतीयासप्तम्यन्तेषु च क्रियाभिधानात्

(P_2,2.27) KA_I,429.18-430.6 Ro_II,727-728 {2/20} तृतीयासप्तम्यन्तेषु च क्रियाभिधानात् अशिष्यः बहुव्रीहिः ।

(P_2,2.27) KA_I,429.18-430.6 Ro_II,727-728 {3/20} किम् कारणम् ।

(P_2,2.27) KA_I,429.18-430.6 Ro_II,727-728 {4/20} क्रियाभिधानात् ।

(P_2,2.27) KA_I,429.18-430.6 Ro_II,727-728 {5/20} क्रिया अभिधीयते ।

(P_2,2.27) KA_I,429.18-430.6 Ro_II,727-728 {6/20} तत्र अन्यपदार्थे इति एव सिद्धम् ।

(P_2,2.27) KA_I,429.18-430.6 Ro_II,727-728 {7/20} न वा एकशेषप्रतिषेधार्थम्

(P_2,2.27) KA_I,429.18-430.6 Ro_II,727-728 {8/20} न वा अशिष्यः ।

(P_2,2.27) KA_I,429.18-430.6 Ro_II,727-728 {9/20} किम् कारणम् ।

(P_2,2.27) KA_I,429.18-430.6 Ro_II,727-728 {10/20} एकशेषप्रतिषेधार्थम् इदम् वक्तव्यम् ।

(P_2,2.27) KA_I,429.18-430.6 Ro_II,727-728 {11/20} पूर्वदीर्घार्थम् च

(P_2,2.27) KA_I,429.18-430.6 Ro_II,727-728 {12/20} पूर्वदीर्घार्थम् च इदम् वक्तव्यम् ।

(P_2,2.27) KA_I,429.18-430.6 Ro_II,727-728 {13/20} केशाकेशि ।

(P_2,2.27) KA_I,429.18-430.6 Ro_II,727-728 {14/20} स्यात् एतत् प्रयोजनम् यदि नियोगतः अस्य अनेन एव दीर्घत्वम् स्यात् ।

(P_2,2.27) KA_I,429.18-430.6 Ro_II,727-728 {15/20} अथ इदानीम् अन्येषाम् अपि दृश्यते इति दीर्घत्वम् न प्रयोजनम् भवति ।

(P_2,2.27) KA_I,429.18-430.6 Ro_II,727-728 {16/20} मत्वर्थे वा पूर्वस्य विधानात्

(P_2,2.27) KA_I,429.18-430.6 Ro_II,727-728 {17/20} अथ व मत्वर्थे पूर्वः योगः ।

(P_2,2.27) KA_I,429.18-430.6 Ro_II,727-728 {18/20} अमत्वर्थः अयम् आरम्भः ।

(P_2,2.27) KA_I,429.18-430.6 Ro_II,727-728 {19/20} कबभावार्थम् वा

(P_2,2.27) KA_I,429.18-430.6 Ro_II,727-728 {20/20} अथ व कप् मा भूत् इति ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {1/28} चार्थे इति उच्यते चः च अव्ययम् ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {2/28} तेन समासस्य अव्ययसञ्ज्ञा प्राप्नोति ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {3/28} न एषः दोषः ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {4/28} पाठेन अव्ययसञ्ज्ञा क्रियते ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {5/28} न च समासः तत्र पठ्यते ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {6/28} पाठेन अपि अव्ययसञ्ज्ञायाम् सत्याम् अभिदेहेयवत् लिङ्गवचनानि भवन्ति ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {7/28} यः च इह अर्थः अभिधीयते न तस्य लिङ्गसङ्ख्याभ्याम् योगः अस्ति ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {8/28} न इदम् वाचनिकम् अलिङ्गता असङ्ख्यता व ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {9/28} किम् तर्हि ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {10/28} स्वाभाविकम् एतत् ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {11/28} तत् यथा : समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {12/28} न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः शक्यम् भवितुम् कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {13/28} तत्र किम् अस्माभिः शक्यम् कर्तुम् ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {14/28} यत् प्राक् समासात् चार्थस्य लिङ्गसङ्ख्याभ्याम् योगः न अस्ति समासे च भवति स्वाभाविकम् एतत् ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {15/28} अथ वा आश्रयतः लिङ्गवचनानि भविष्यन्ति ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {16/28} गुणवचनानाम् हि शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {17/28} तत् यथा शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {18/28} यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {19/28} एवम् इह अपि यत् असौ द्रव्यम् श्रितः भवति समासः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {20/28} अथ इह कस्मात् न भवति ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {21/28} याज्ञिकः च अयम् वैयाकरणः च ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {22/28} कठः च अयम् बह्वृचः च ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {23/28} औक्थिकः च अयम् मीमांसकः च इति ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {24/28} शेषः इति वर्तते ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {25/28} अशेषत्वात् न भविष्यति ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {26/28} यदि शेषः इति वर्तते उपास्नातम् स्थूलसिक्तम् तूष्णीङ्गङ्गम् महाह्रदम् द्रोणम् चेत् अशकः गन्तुम् मा त्वा ताप्ताम् कृताकृते इति एतत् न सिध्यति ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {27/28} न एषः दोषः ।

(P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 {28/28} अन्यत् हि कृतम् अन्यत् अकृतम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {1/134} चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टप्रसङ्गः

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {2/134} चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टम् प्राप्नोति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {3/134} अहः अहः नयमानः गाम् अश्वम् पुरुषम् पशुम् वैवस्वतः न तृप्यति सुरायाः इव दुर्मदी इन्द्रः त्वष्टा वरुणः वायुः आदित्यः इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {4/134} सिद्धम् तु युगपदधिकरणवचने द्वन्द्ववचनात्

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {5/134} सिद्धम् एतत् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {6/134} कथम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {7/134} युगपदधिकरणवचने द्वन्द्वः भवति इति वक्तव्यम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {8/134} तत्र पुंवद्भावप्रतिषेधः

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {9/134} तत्र एतस्मिन् लक्षणे पुंवद्भावस्य प्रतिषेधः वक्तव्यः ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {10/134} पट्वीमृद्व्यौ ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {11/134} समानाधिकरणलक्षणः पुंवद्भावः प्राप्नोति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {12/134} विप्रतिषिद्धेषु च अनुपपत्तिः

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {13/134} विप्रतिषिद्धेषु युगपदधिकरणवचतायाः अनुपपत्तिः ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {14/134} शीतोष्णे सुखदुःखे जननमरणे ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {15/134} किम् कारणम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {16/134} सुखप्रतिघातेन हि दुःखम् दुःकप्रतिघातेन च सुखम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {17/134} यत् तावत् उच्यते तत्र पुंवद्भावप्रतिषेधः इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {18/134} इदम् तावत् अयम् प्रष्टव्यः : अथ इह कस्मात् न भवति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {19/134} दर्शनीयायाः माता दर्शनीयामाता इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {20/134} अथ मतम् एतत् प्राक् समासात् यत्र सामानाधिकरण्यम् तत्र पुंवद्भावः भवति इति इह अपि न दोषः भवति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {21/134} यद् अपि उच्यते विप्रतिषिद्धेषु च अनुपपत्तिः इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {22/134} सर्वे एव हि शब्दाः विप्रतिषिद्धाः ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {23/134} इह अपि प्लक्षन्यग्रोधौ इति प्लक्षशब्दः प्रयुज्यमानः प्लक्षार्थम् सम्प्रत्याययति न्यग्रोधार्थम् निवर्तयति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {24/134} न्यग्रोधशब्दः प्रयुज्यमानः न्यग्रोधार्थम् सम्प्रत्याययति प्लक्षार्थम् निवर्तयति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {25/134} अत्र चेत् युक्ता युगपत् अधिकरण्वचनता दृश्यते इह अपि युक्ता दृश्यताम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {26/134} एवम् अपि शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {27/134} शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् प्राप्नोति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {28/134} अतः किम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {29/134} युगपतधिकरणवचनतायाः अनुपपत्तिः ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {30/134} प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाः इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {31/134} यथ एव हि शब्दानाम् पौर्वापर्यम् तद्वत् अर्थानाम् अपि भवितव्यम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {32/134} शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् इति चेत् द्विवचनबहुवचनानुपपत्तिः

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {33/134} शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् इति चेत् द्विवचनबहुवचनानुपपत्तिः : प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाः इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {34/134} प्लक्षशब्दः सार्थकः निवृत्तः न्यग्रोधशब्दः उपस्थितः एकार्थः तस्य एकार्थत्वात् एकवचनम् एव प्राप्नोति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {35/134} विग्रहे तु युगपद्वचनम् ज्ञापकम् युगपद्वचनस्य

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {36/134} विग्रहे खलु अपि युगपद्वचनता दृश्यते : द्यवा ह क्षमा ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {37/134} द्यवा चित् अस्मै पृथिवी नमेते इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {38/134} किम् एतत् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {39/134} युगपदधिकरणवचनतायाः उपोद्बलकम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {40/134} विग्रहे किल नाम युगपदधिकरणवचनता स्यात् किम् पुनः समासे ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {41/134} समुदायात् सिद्धम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {42/134} समुदायात् सिद्धम् एतत् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {43/134} किम् एतत् समुदायात् सिद्धम् इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {44/134} द्विवचनबहुवचनप्रसिद्धिः इति चोदितम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {45/134} तस्य अयम् परिहारः ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {46/134} समुदायात् सिद्धम् इति चेत् न एकार्थत्वात् समुदायस्य

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {47/134} समुदायात् सिद्धम् इति चेत् तत् न ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {48/134} किम् कारणम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {49/134} एकार्थत्वात् समुदायस्य ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {50/134} एकार्थाः हि समुदायाः भवन्ति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {51/134} तत् यथा शतम् यूथम् वनम् इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {52/134} न ऐकार्थ्यम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {53/134} न अयम् एकार्थः ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {54/134} किम् तर्हि ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {55/134} द्व्यर्थः बह्वर्थः च ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {56/134} प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {57/134} यदि तर्हि प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {58/134} तयोः अनेकार्थत्वात् बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {59/134} तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः इति चेत् न बहुत्वाभावात्

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {60/134} तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः इति चेत् तत् न ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {61/134} किम् कारणम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {62/134} बहुत्वाभावात् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {63/134} न अत्र बहुत्वम् अस्ति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {64/134} किम् उच्यते बहुत्वाभावात् इति यावता इदानीम् एव उक्तम् प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {65/134} याभ्याम् एव अत्र एकः द्व्यर्थः ताभ्याम् एव अपरः अपि ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {66/134} यदि एवम् अन्यवाचकेन अन्यस्य वचनानुपपत्तिः ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {67/134} अन्यवाचकेन शब्देन अन्यस्य वचनम् न उपपद्यते ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {68/134} अन्यवाचकेन अन्यस्य वचनानुपपत्तिः इति चेत् प्लक्षस्य न्यग्रोधत्वात् न्यग्रोधस्य प्लक्षत्वात् स्वशब्देन अभिधानम्

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {69/134} अन्यवाचकेन अन्यस्य वचनानुपपत्तिः इति चेत् उच्यते तत् न ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {70/134} किम् कारणम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {71/134} प्लक्षस्य न्यग्रोधत्वात् न्यग्रोधस्य प्लक्षत्वात् स्वशब्देन अभिधानम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {72/134} प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {73/134} कथम् पुनः प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः स्यात् यावता कारणात् द्रव्ये शब्दनिवेशः ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {74/134} कारणात् द्रव्ये शब्दनिवेशः इति चेत् तुल्यकारणत्वात् सिद्धम्

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {75/134} कारणात् द्रव्ये शब्दनिवेशः इति चेत् एवम् उच्यते : तत् न तुल्यकारणत्वात् सिद्धम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {76/134} तुल्यम् हि कारणम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {77/134} यदि तावत् प्रक्षरति इति प्लक्षः स्यान् न्यग्रोधे अपि एतत् भवति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {78/134} तथा यदि न्यक् रोहति इति न्यग्रोधः प्लक्षे अपि एतत् भवति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {79/134} दर्शनम् वै हेतुः न च न्यग्रोधे प्लक्षशब्दः दृश्यते ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {80/134} दर्शनम् हेतुः इति चेत् तुल्यम्

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {81/134} दर्शनम् हेतुः इति चेत् तुल्यम् एतत् भवति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {82/134} प्लक्षे अपि न्यग्रोधशब्दः दृश्यताम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {83/134} तुल्यम् हि कारणम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {84/134} न वै लोके एषः सम्प्रत्ययः भवति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {85/134} न हि प्लक्षः आनीयताम् इति उक्ते न्य्रग्रोधः आनीयते ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {86/134} तद्विषयम् च

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {87/134} तद्विषयम् च एतत् द्रष्टव्यम् प्लक्षस्य न्यग्रोधत्वम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {88/134} किंविषयम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {89/134} द्वन्द्वविषयम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {90/134} युक्तम् पुनः यत् नियतविषयाः नाम शब्दाः स्युः ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {91/134} बाढम् युक्तम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {92/134} अन्यत्र अपि तद्विषयदर्शनात्

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {93/134} अन्यत्र अपि हि नियतविषयाः शब्दाः दृश्यन्ते ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {94/134} तत् यथा : समाने रक्ते वर्णे गौः लोहितः इति भवति आस्वः शोणः इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {95/134} समाने च काले वर्णे गौः कृष्णः इति भवति अश्वः हेमः इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {96/134} समाने च शुक्ले वर्णे गौः श्वेतः इति भवति अश्वः कर्कः इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {97/134} यदि तर्हि प्लक्षः अपि न्यग्रओधः न्यग्रोधः अपि प्लक्षः एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {98/134} एकेन उक्तत्वात् तस्य अर्थस्य अपरस्य प्रयोगः न उपपद्यते ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {99/134} प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {100/134} एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् अनुक्तत्वात् प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः । एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् तत् न ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {101/134} किम् कारणम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {102/134} अनुक्तत्वात् प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {103/134} अनुक्तः प्लक्षेण न्यग्रोधार्थः इति कृत्वा न्यग्रोधशब्दः प्रयुज्यते ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {104/134} कथम् अनुक्तः यावता इदानीम् एव उक्तम् प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {105/134} सहभूतौ एतौ अन्योन्यस्य अर्थम् आहतुः न पृथग्भूतौ ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {106/134} किम् पुनः कारणम् सहभूतौ एतौ अन्योन्यस्य अर्थम् आहतुः न पृथग्भूतौ ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {107/134} अभिधानम् पुनः स्वाभाविकम्

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {108/134} स्वाभाविकम् अभिधानम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {109/134} अथ वा इह कौ चित् प्राथमकल्पिकौ प्लक्षन्यग्रोधौ कौ चित् क्रियया वा गुणेन व प्लक्षः इव अयम् प्लक्षः , न्यग्रोधः इव अयम् न्यग्रोधः इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {110/134} तत्र प्लक्षौ इति उक्ते सन्देहः स्यात् : किम् इमौ प्लक्षौ आहोस्वित् प्लक्षन्यग्रोधौ इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {111/134} तत्र असन्देहार्थम् न्यग्रोधशब्दः प्रयुज्यते ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {112/134} इयम् युगपदधिकरणवचनत नाम दुःखा च दुरुपपादा च ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {113/134} यत् च अपि अस्या निबन्धनम् उक्तम् द्यावा ह क्षामा इति तत् अपि छान्दसम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {114/134} तत्र सुपाम् सुपः भवन्ति इति एव सिद्धम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {115/134} सूत्रम् च भिद्यते ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {116/134} यथान्यासम् एव अस्तु ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {117/134} ननु च उक्तम् चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टप्रसङ्गः इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {118/134} न एषः दोषः ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {119/134} इह चे द्वन्द्वे इति इयता सिद्धम् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {120/134} कथम् पुनः चे नाम वृत्तिः स्यात् ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {121/134} शब्दः हि एषः ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {122/134} शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {123/134} सः अयम् एवम् सिद्धे सति यत् अर्थग्रहणम् करोति तस्य एतत् प्रयोजनम् एवम् यथा विज्ञायेत चेन कृतः अर्तः चार्थः इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {124/134} कः पुनः चेन कृतः अर्थः ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {125/134} समुच्चयः अन्वाचयः इतरेतरयोगः समाहारः इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {126/134} समुच्चयः ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {127/134} प्लक्षः च इति उक्ते गम्यते एतत् न्यग्रोधः च इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {128/134} अन्वाचयः ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {129/134} प्लक्षः च इति उक्ते गम्यते एतत् सापएक्षः अयम् प्रयुज्यते इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {130/134} इतरेतरयोगः ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {131/134} प्लक्षः च न्यग्रोधः च इति उक्ते गम्यते एतत् प्लक्षः अपि न्यग्रोधसहायः न्यग्रोधः अपि प्लक्षसहायः इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {132/134} समाहारे अपि क्रियते प्लक्षन्यग्रोधम् इति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {133/134} तत्र अयम् अपि अर्थः द्वन्द्वैकवद्भावः न पठितव्यः भवति ।

(P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 {134/134} समाहारस्य एकत्वात् एव सिद्धम् ।

(P_2,2.29.3) KA_I,434.15-435.3 Ro_II,742-743 {1/19} एकादश द्वादश इति कः अयम् समासः ।

(P_2,2.29.3) KA_I,434.15-435.3 Ro_II,742-743 {2/19} एकादीनाम् दशादिभिः द्वन्द्वः ।

(P_2,2.29.3) KA_I,434.15-435.3 Ro_II,742-743 {3/19} एकादीनाम् दशादिभिः द्वन्द्वः समासः ।

(P_2,2.29.3) KA_I,434.15-435.3 Ro_II,742-743 {4/19} एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनप्रसङ्गः

(P_2,2.29.3) KA_I,434.15-435.3 Ro_II,742-743 {5/19} एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनम् प्राप्नोति ।

(P_2,2.29.3) KA_I,434.15-435.3 Ro_II,742-743 {6/19} एकविंशतिः द्वाविंशतिः ।

(P_2,2.29.3) KA_I,434.15-435.3 Ro_II,742-743 {7/19} सिद्धम् तु अधिकान्ता सङ्ख्य सङ्ख्यया समानाधिकरणाधिकारे अधिकलोपः च । सिद्धम् एतत् ।

(P_2,2.29.3) KA_I,434.15-435.3 Ro_II,742-743 {8/19} कथम् ।

(P_2,2.29.3) KA_I,434.15-435.3 Ro_II,742-743 {9/19} समानाधिकरणाधिकारे वक्तव्यम् अधिकान्ता सङ्ख्य सङ्ख्यया सह समस्यते अधिकशब्दस्य च लोपः भवति इति ।

(P_2,2.29.3) KA_I,434.15-435.3 Ro_II,742-743 {10/19} एकाधिका विंशतिः एकविंशतिः द्व्यधिका विंशतिः द्वाविंशतिः ।

(P_2,2.29.3) KA_I,434.15-435.3 Ro_II,742-743 {11/19} यदि समानाधिकरणः स्वरः न सिध्यति ।

(P_2,2.29.3) KA_I,434.15-435.3 Ro_II,742-743 {12/19} यत् हि तत् सङ्ख्या पूर्वपदम् प्रकृतिस्वरम् भवति इति द्वन्द्वे इति तत् ।

(P_2,2.29.3) KA_I,434.15-435.3 Ro_II,742-743 {13/19} किम् पुनः कारणम् द्वन्द्वे इति एवम् तत् ।

(P_2,2.29.3) KA_I,434.15-435.3 Ro_II,742-743 {14/19} इह मा भूत् शतसहस्रम् इति ।

(P_2,2.29.3) KA_I,434.15-435.3 Ro_II,742-743 {15/19} अस्तु तर्हि द्वन्द्वः ।

(P_2,2.29.3) KA_I,434.15-435.3 Ro_II,742-743 {16/19} ननु च उक्तम् एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनप्रसङ्गः इति। न एषः दोषः ।

(P_2,2.29.3) KA_I,434.15-435.3 Ro_II,742-743 {17/19} सर्वः द्वन्द्वः विभाषा एकवत् भवति ।

(P_2,2.29.3) KA_I,434.15-435.3 Ro_II,742-743 {18/19} यदा तर्हि एकवचनम् तदा नपुंसकलिङ्गम् प्राप्नोति ।

(P_2,2.29.3) KA_I,434.15-435.3 Ro_II,742-743 {19/19} लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।

(P_2,2.30) KA_I,435.5-16 Ro_II,743-744 {1/15} किमर्थम् इदम् उच्यते ।

(P_2,2.30) KA_I,435.5-16 Ro_II,743-744 {2/15} उपसर्जनस्य पूर्ववचनम् परप्रयोगनिवृत्त्यर्थम्

(P_2,2.30) KA_I,435.5-16 Ro_II,743-744 {3/15} उपसर्जनस्य पूर्ववचनम् क्रियते परप्रयोगः मा भूत् इति ।

(P_2,2.30) KA_I,435.5-16 Ro_II,743-744 {4/15} न वा अनिष्टदर्शनात्

(P_2,2.30) KA_I,435.5-16 Ro_II,743-744 {5/15} न वा एतत् प्रयोजनम् अस्ति ।

(P_2,2.30) KA_I,435.5-16 Ro_II,743-744 {6/15} किम् कारणम् ।

(P_2,2.30) KA_I,435.5-16 Ro_II,743-744 {7/15} अनिष्टदर्शनात् ।

(P_2,2.30) KA_I,435.5-16 Ro_II,743-744 {8/15} न हि किम् चित् अनिष्टम् दृश्यते ।

(P_2,2.30) KA_I,435.5-16 Ro_II,743-744 {9/15} न हि कः चित् राजपुरुषः इति प्रयोक्तव्ये पुरुषराजः इति प्रयुङ्क्ते ।

(P_2,2.30) KA_I,435.5-16 Ro_II,743-744 {10/15} यदि च अनिष्टम् द्र्श्येते ततः यत्नार्थम् स्यात् ।

(P_2,2.30) KA_I,435.5-16 Ro_II,743-744 {11/15} अथ यत्र द्वे षष्ठ्यन्ते भवतः कस्मात् तत्र प्रधानस्य पूर्वनिपातः न भवति ।

(P_2,2.30) KA_I,435.5-16 Ro_II,743-744 {12/15} राज्ञः पुरुषस्य राजपुरुषस्य इति ।

(P_2,2.30) KA_I,435.5-16 Ro_II,743-744 {13/15} षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य अपूर्वनिपातः

(P_2,2.30) KA_I,435.5-16 Ro_II,743-744 {14/15} षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य पूर्वनिपातः न भविष्यति ।

(P_2,2.30) KA_I,435.5-16 Ro_II,743-744 {15/15} एवम् न च इदम् अकृतम् भवति उपसर्जनम् पूर्वम् इति अर्थः च अभिन्नः इति कृत्वा प्रधानस्य पूर्वनिपातः न भविष्यति ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {1/25} किम् अयम् तन्त्रम् तरनिर्देशः आहोस्वित् अतन्त्रम् ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {2/25} किम् च अतः ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {3/25} यदि तन्त्रम् द्वयोः नियमः बहुषु अनियमः ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {4/25} तत्र कः दोषः ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {5/25} शङ्खदुन्दुभिवीङानाम् इति न सिध्यति ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {6/25} दुन्दुभिशब्दस्य अपि पूर्व्निपातः प्राप्नोति ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {7/25} अथ अतन्त्रम् मृदङ्गशङ्खतूणवाः पृथक् नदन्ति संसदि । प्रासादे धनपतिरामकेशवानाम् इति एतत् न सिध्यति ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {8/25} यथा इच्छसि तथा अस्तु ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {9/25} अस्तु तावत् तन्त्रम् ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {10/25} ननु च उक्तम् द्वयोः नियमः बहुषु अनियमः इति ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {11/25} तत्र शङ्खदुन्दुभिवीङानाम् इति न सिध्यति ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {12/25} दुन्दुभिशब्दस्य अपि पूर्व्निपातः प्राप्नोति इति ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {13/25} न एषः दोषः ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {14/25} यत् एतत् अल्पाच्तरम् इति तत् अल्पाच् इति वक्ष्यामि ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {15/25} अथ वा पुनः अस्तु अतन्त्रम् ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {16/25} ननु च उक्तम् मृदङ्गशङ्खतूणवाः पृथक् नदन्ति संसदि। प्रासादे धनपतिरामकेशवानाम् इति एतत् न सिध्यति इति ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {17/25} अतन्त्रे तरनिर्देशे शङ्खतूणवयोः मृदङ्गेन समासः

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {18/25} अतन्त्रे तरनिर्देशे शङ्खतूणवयोः मृदङ्गेन समासः करिष्यते ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {19/25} शङ्खः च तूणवः च शण्खतूणवौ ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {20/25} मृदङ्गः च शण्खतूणवौ च मृदङ्गशङ्खतूणवाः ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {21/25} रामः च केशवः च रामकेशवौ धनपतिः च रामकेशवौ च धनपतिरामकेशवाः तेषाम् धनपतिरामकेशवानाम् इति ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {22/25} अथ यत्र बहूनाम् पूर्वनिपातप्रसङ्गः किम् तत्र एकस्य नियमः भवति अहोस्वित् अविशेषेण ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {23/25} अनेकप्राप्तौ एकस्य नियमः अनियमः शेषेषु

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {24/25} अनेकप्राप्तौ एकस्य नियमः अनियमः शेषेषु ।

(P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 {25/25} पटुमृदुशुक्लाः पटुशुक्लमृदवः इति ।

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {1/24} ऋतुनक्षत्राणाम् आनुपूर्व्येण समानाक्षराणाम्

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {2/24} ऋतुनक्षत्राणाम् आनुपूर्व्येण समानाक्षराणाम् पूर्वनिपातः वक्तव्यः ।

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {3/24} शिशिरवसन्तौ उदगयनस्थौ कृत्तिकारोहिण्यः ।

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {4/24} अभ्यर्हितम्

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {5/24} अभ्यर्हितम् पूर्वम् निपतति इति वक्तव्यम् ।

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {6/24} मातापितरौ श्रद्धामेधे ।

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {7/24} लघ्वक्षरम्

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {8/24} लघ्वक्षरम् पूर्वम् निपतति इति वक्तव्यम् ।

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {9/24} कुशकाशम् शरशीर्यम् ।

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {10/24} अपरः आह : सर्वत्र एव अभ्यर्हितम् पूर्वम् निपतति इति वक्तव्यम् ।

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {11/24} लघ्वक्षरात् अपि इति ।

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {12/24} श्रद्धातपसी दीक्षातपसी ।

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {13/24} वर्णानाम् आनुपूर्व्येण

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {14/24} वर्णानाम् आनुपूर्व्येण पूर्वनिपातः भवति इति वक्तव्यम् ।

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {15/24} ब्राह्मणक्षत्रियविट्शूद्राः ।

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {16/24} भ्रातुः च ज्यायसः

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {17/24} भ्रातुः च ज्यायसः पूर्वनिपातः भवति इति वक्तव्यम् ।

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {18/24} युधिष्ठिरार्जुनौ ।

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {19/24} सङ्ख्यायाः अल्पीयसः

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {20/24} सङ्ख्यायाः अल्पीयसः पूर्वनिपातः वक्तव्यः ।

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {21/24} एकादश द्वादश ।

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {22/24} धर्मादिषु उभयम्

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {23/24} धर्मादिषु उभयम् पूर्वम् निपतति इति वक्तव्यम् ।

(P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 {24/24} धर्मार्थौ अर्थधर्मौ कामार्थौ अर्थकामौ गुणवृद्धी वृद्धिगुणौ आद्यन्तौ अन्तादी

(P_2,2.35) KA_I,437.9-17 Ro_II,748 {1/10} बहुव्रीहौ सर्वनामसङ्ख्ययोः उपसङ्ख्यानम्

(P_2,2.35) KA_I,437.9-17 Ro_II,748 {2/10} बहुव्रीहौ सर्वनामसङ्ख्ययोः उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,2.35) KA_I,437.9-17 Ro_II,748 {3/10} विश्वदेवः विश्वयसाः द्विपुत्रः द्विभार्यः ।

(P_2,2.35) KA_I,437.9-17 Ro_II,748 {4/10} अथ यत्र सङ्ख्यासर्वनाम्नोः एव बहुर्वीहिः कस्य तत्र पूर्वनिपातेन भवितव्यम् ।

(P_2,2.35) KA_I,437.9-17 Ro_II,748 {5/10} परत्वात् सङ्ख्यायाः : द्व्यन्याय त्र्यन्याय ।

(P_2,2.35) KA_I,437.9-17 Ro_II,748 {6/10} वा प्रियस्य

(P_2,2.35) KA_I,437.9-17 Ro_II,748 {7/10} वा प्रियस्य पूर्वनिपातः वक्तव्यः ।

(P_2,2.35) KA_I,437.9-17 Ro_II,748 {8/10} प्रियगुडः गुडप्रियः ।

(P_2,2.35) KA_I,437.9-17 Ro_II,748 {9/10} सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परवचनम् । सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परा सप्तमीभवति इति वक्तव्यम् ।

(P_2,2.35) KA_I,437.9-17 Ro_II,748 {10/10} गडुकण्ठः गडुशिराः ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {1/33} निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परवचनम्

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {2/33} निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परा निष्ठा भवति इति वक्तव्यम् ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {3/33} शार्ङ्गजग्धी पलाण्डुभक्षिती मासजाता संवत्सरजाता सुखजाता दुःखजाता ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {4/33} न वा उत्तरपदस्य अन्तोदात्तवचनम् ज्ञापकम् परभावस्य

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {5/33} न वा वक्तव्यम् ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {6/33} किम् कारणम् ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {7/33} उत्तरपदस्य अन्तोदात्तवचनम् ज्ञापकम् परभावस्य ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {8/33} यत् अयम् जातिकालसुखादिभ्यः परस्याः निष्ठायाः उत्तरपदस्य अन्तोदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः परा अत्र निष्ठा भवति इति ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {9/33} प्रतिषेधे तु पूर्वनिपातप्रसङ्गः तस्मात् राजदन्तादिषु पाठः

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {10/33} प्रतिषेधे तु पूर्वनिपातः प्राप्नोति ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {11/33} अकृतमितप्रतिपन्नाः इति ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {12/33} तस्मात् राजदन्तादिषु पाठः कर्तव्यः ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {13/33} न कर्तव्यः ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {14/33} अत्र अपि प्रतिषेधवचनम् ज्ञापकम् परा निष्ठा भवति इति ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {15/33} प्रहरणार्थेभ्यः च

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {16/33} प्रहरणार्थेभ्यः च परे निष्ठासप्तम्यौ भवतः इति वक्तव्यम् ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {17/33} अस्युद्यतः मुसलोद्यतः असिपाणिः दण्डपाणिः ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {18/33} द्वन्द्वे घि अजाद्यन्तम् विप्रतिषेधेन

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {19/33} द्वन्द्वे घि इति अस्मात् अजाद्यन्तम् इति एतत् भवति विप्रतिषेधेन ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {20/33} द्वन्द्वे घि इति अस्य अवकाशः पटुगुप्तौ ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {21/33} अजाद्यदन्तम् इति अस्य अवकाशः उष्ट्रखरौ ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {22/33} इह उभयम् प्राप्नोति इन्द्राग्नी ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {23/33} अजाद्यदन्तम् इति एतत् भवति विप्रतिषेधेन ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {24/33} उभाभ्याम् अल्पाच्तरम्

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {25/33} उभाभ्याम् अल्पाच्तरम् इति एतत् भवति ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {26/33} द्वन्द्वे घि इति अस्य अवकाशः पटुगुप्तौ ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {27/33} अल्पाच्तरम् इति अस्य अवकाशः वाग्दृषदौ ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {28/33} इह उभयम् प्राप्नोति वागग्नी ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {29/33} अल्पाच्तरम् इति एतत् भवति विप्रतिषेधेन ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {30/33} अजाद्यदन्तम् इति अस्य अवकाशः उष्ट्रखरौ ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {31/33} अल्पाच्तरम् इति अस्य अवकाशः सः एव ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {32/33} इह उभयम् प्राप्नोति वागिन्द्रौ ।

(P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 {33/33} अल्पाच्तरम् इति एतत् भवति विप्रतिषेधेन ।

(P_2,2.38) KA_I,438.22-24 Ro_II,750 {1/5} कडारादयः इति वक्तव्यम् इह अपि यथा स्यात् ।

(P_2,2.38) KA_I,438.22-24 Ro_II,750 {2/5} गडुलशाण्डिल्यः शाण्डिल्यगडुलः खण्डवात्स्यः वत्स्यकण्डः ।

(P_2,2.38) KA_I,438.22-24 Ro_II,750 {3/5} तत् तर्हि वक्तव्यम् ।

(P_2,2.38) KA_I,438.22-24 Ro_II,750 {4/5} न वक्तव्यम् ।

(P_2,2.38) KA_I,438.22-24 Ro_II,750 {5/5} बहुवचननिर्देशात् कडारादयः इति विज्ञास्यते ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {1/122} अनभिहिते इति उच्यते ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {2/122} किम् इदम् अनभिहितम् नाम ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {3/122} उक्तम् निर्दिष्टम् अभिहितम् इति अनर्थान्तरम् ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {4/122} यावत् ब्रूयात् अनुक्ते अनिर्दिष्टे इति तावत् अनभिहिते इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {5/122} अनभिहितवचनम् अनर्थकम् अन्यत्र अपि विहितस्य अभावात् अभिहिते

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {6/122} अनभिहितवचनम् अनर्थकम् ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {7/122} किम् कारणम् ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {8/122} अन्यत्र अपि विहितस्य अभावात् अभिहिते ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {9/122} अन्यत्र अपि अभिहिते विहितम् न भवति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {10/122} क्व अन्यत्र ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {11/122} चित्रगुः शबलगुः ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {12/122} बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {13/122} गर्गाः वत्साः विदाः उर्वाः ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {14/122} यञञ्भ्याम् उक्तत्वात् अपत्यार्थस्य न्याय्योत्पत्तिः न भवति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {15/122} सप्तपर्णः अष्टापदमिति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {16/122} समासेन उक्तत्वात् वीप्सायाः द्विर्वचनम् न भवति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {17/122} यत् तावत् उच्यते चित्रगुः शबल्गुः बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {18/122} अस्तिना सामानाधिकरण्ये मतुप् विधीयते ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {19/122} न च अत्र अस्तिना सामानाधिकरण्यम् ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {20/122} यत् अपि उच्यते गर्गाः वत्साः विदाः उर्वाः यञञ्भ्याम् उक्तत्वात् अपत्यार्थस्य न्याय्योत्पत्तिः न भवति इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {21/122} समर्थानाम् प्रथमात् वा इति वर्तते ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {22/122} न च एतत् समर्थानाम् प्रथमम् ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {23/122} किं तर्हि ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {24/122} द्वितीयम् अर्थमुपसंक्रान्तम् ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {25/122} यत् अपि उच्यते सप्तपर्णः अष्टापदम् इति समासेन उक्तत्वात् वीप्सायाः द्विर्वचनम् न भवति इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {26/122} यत् अत्र वीप्सायुक्तम् न अदः प्रयुज्यते ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {27/122} किम् पुनः तत् ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {28/122} पर्वणि पर्वणि सप्त पर्णानि अस्य ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {29/122} पङ्क्तौ पङ्क्तौ अष्टौ पदानि इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {30/122} श्नम्बहुजकक्षु तर्हि ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {31/122} श्नम् : भिनत्ति छिनत्ति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {32/122} श्नमा उक्तत्वात् कर्तृत्वस्य कर्तरि शप् न भवति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {33/122} बहुच् : बहुकृतम् , बहुभिन्नम् इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {34/122} बहुचा उक्तत्वात् ईषदस्माप्तेः कल्पबादयः न भवन्ति इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {35/122} अकच् : उच्चकैः , नीचकैः इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {36/122} अकचा उक्तत्वात् कुत्सादीनाम् कादयः न भवन्ति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {37/122} ननु च श्नम्बहुजकचः अपवादाः ते अपवादत्वात् बाधकाः भविष्यन्ति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {38/122} श्नम्बहुजकक्षु नानादेशत्वात् उत्सर्गाप्रतिषेधः

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {39/122} समानदेशैः अपवादैः उत्सर्गाणाम् बाधनम् भवति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {40/122} नानादेशत्वात् न प्राप्नोति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {41/122} किम् पुनः इह अकर्तव्यः अनभिहिताधिकारः क्रियते आहोस्वित् अन्यत्र कर्तव्यः न क्रियते ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {42/122} इह अकर्तव्यः क्रियते ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {43/122} एषः एव हि न्याय्यः पक्षः यत् अभिहिते विहितम् न स्यात् ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {44/122} अनभितः तु विभक्त्यर्थः तस्मात् अनभिहितवचनम् । अनभिहितः तु विभक्त्यर्थः ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {45/122} कः पुनः विभक्त्यर्थः ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {46/122} एकत्वादयः विभक्त्यर्थाः तेषु अनभिहितेषु कर्मादयः भिहिताः विभक्तीनाम् उत्पत्तौ निमित्तत्वाय मा भूवन् इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {47/122} तस्मात् अनभिहितवचनम् ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {48/122} तस्मात् अनभिहिताधिकारः क्रियते ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {49/122} अवश्यम् च एतत् एवम् विज्ञेयम् एकत्वादयः विभक्त्यर्थाः इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {50/122} अभिहिते प्रथमाभावः । यः हि मन्यते कर्मादयः विभक्त्यर्थाः तेषु अभिहितेषु सामर्थ्यात् मे विभक्तीनाम् उत्पत्तिः न भविष्यति इति प्रथमा तस्य न प्राप्नोति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {51/122} क्व ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {52/122} वृक्षः प्लक्षः ।किं कारणम् ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {53/122} प्रातिपदिकेन उक्तः प्रातिपदिकार्थः इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {54/122} न क्व चित् प्रातिपदिकेन अनुक्तः प्रातिपदिकार्थः उच्यते च प्रथमा ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {55/122} सा वचनात् भविष्यति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {56/122} तव एव तु खलु एषः दोषः यस्य ते एकत्वादयः विभक्त्यर्थाः अभिहिते प्रथमाभावः इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {57/122} प्रथमा ते न प्राप्नोति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {58/122} क्व ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {59/122} पचति ओदनम् देवदत्तः इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {60/122} किम् कारणम् ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {61/122} तिङा उक्ताः एकत्वादयः इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {62/122} अनभिहिताधिकारम् च त्वम् करोषि परिगणनम् च ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {63/122} न क्व चित् तिङा एकत्वादीनाम् अनभिधानम् उच्यते च प्रथमा ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {64/122} सा वचनात् भविष्यति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {65/122} ननु च इह अनभिधानम् वृक्षः प्लक्षः इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {66/122} अत्र अपि अभिधानम् अस्ति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {67/122} कथम् ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {68/122} वक्ष्यति एतत् : अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {69/122} वृक्षः प्लक्षः ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {70/122} अस्ति इति गम्यते ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {71/122} तव एव तु खलु एषः दोषः यस्य ते कर्मादयः विभक्त्यार्थाः अभिहिते प्रथमाभावः इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {72/122} प्रथमा ते प्राप्नोति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {73/122} क्व ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {74/122} कटम् करोति भीष्मम् उदारम् शोभनम् दर्शनीयम् इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {75/122} कटशब्दात् उत्पद्यमानया द्वितीयया अभिहितम् कर्म इति कृत्वा भीषादिभ्यः द्वितीया न प्राप्नोति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {76/122} का तर्हि प्राप्नोति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {77/122} प्रथमा ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {78/122} तत् यथा ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {79/122} कृतः कटः भीष्मः उदारः शोभनः दर्शनीयः इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {80/122} करोतेः उत्पद्यमानेन क्तेन अभिहितम् कर्म इति कृत्वा भीष्मादिभ्यः द्वितीया न भवति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {81/122} का तर्हि ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {82/122} प्रथमा भवति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {83/122} न एषः दोषः ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {84/122} न हि मम अनभिहिताधिकारः अस्ति न अपि परिगणनम् ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {85/122} सामर्थ्यात् मे विभक्तीनाम् उत्पत्तिः भविष्यति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {86/122} अस्ति च सामर्थ्यम् ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {87/122} किम् ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {88/122} कर्मविशेषः वक्तव्यः ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {89/122} अथ वा कटः अपि कर्म भीष्मादयः अपि ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {90/122} तत्र कर्मणि इति एव सिद्धम् ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {91/122} अथ वा कटः एव कर्म तत् सामानाधिकरण्यात् भीष्मादिभ्यः द्वितीया भविष्यति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {92/122} अस्ति खल्वपि विशेषः कटं करोति भीष्ममुदारम् शोभनम् दर्शनीयम् इति च कृतः कटो भीष्मः उदारः शोभनः दर्शनीयः इति च ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {93/122} करोतेः उत्पद्यमानः क्तः अनवयवेन सर्वम् कर्म अभिधत्ते ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {94/122} कटशब्दात् पुनः उत्पद्यमानया द्वितीयया यत् कटस्थम् कर्म तत् शक्यमभिधातुम् न हि कर्मविशेषः ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {95/122} तव एव तु खलु एषः दोषः यस्य ते एकत्वादयः विभक्त्यर्थाः अभिहिते प्रथमाभावः इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {96/122} प्रथमा ते न प्राप्नोति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {97/122} क्व ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {98/122} एकः द्वौ बहवः इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {99/122} किम् कारणम् ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {100/122} प्रातिपदिकेन उक्ताः एकत्वादयः इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {101/122} कर्मादिषु अपि वै विभक्त्यर्थेषु अवश्यम् एकत्वादयः निमित्तत्वेन उपादेयाः ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {102/122} कर्मणः एवत्वे कर्मणः द्वित्वे कर्मणः बहुत्वे इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {103/122} न च एकत्वादीनाम् एकत्वादयः सन्ति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {104/122} अथ सन्ति मम अपि सन्ति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {105/122} तेषु अनभिहितेषु प्रथमा भविष्यति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {106/122} अथ वा उभयवचनाः ह्येते ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {107/122} द्रव्यम् च आहुः गुणम् च ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {108/122} यत्स्थः असौ गुणः तस्य अनुक्ताः एकत्वादयः इति कृत्वा प्रथमा भविष्यति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {109/122} अथ वा सङ्ख्या नाम इयम् परप्रधाना ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {110/122} संख्येयम् अनया विशेष्यम् ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {111/122} यदि च अत्र प्रथमा न स्यात् सङ्ख्येयम् अविशेषितम् स्यात् ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {112/122} अथ वा वक्ष्यति तत्र वचनग्रहणस्य प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् इति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {113/122} अथ वा समयात् भविष्यति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {114/122} यदि सामयकी न नियोगतः अन्याः कस्मात् न भवन्ति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {115/122} कर्मादीनाम् अभावात् ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {116/122} षष्ठी तर्हि प्राप्नोति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {117/122} शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {118/122} एवम् अपि व्यतिकरः प्राप्नोति ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {119/122} एकस्मिन् अपि द्विवचनबहुवचने प्राप्नुतः ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {120/122} द्वयोः अपि एकववचनबहुवचने प्राप्नुतः ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {121/122} बहुषु अपि एकवचनद्विवचने प्राप्नुतः ।

(P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 {122/122} अर्थतः व्यवस्था भविष्यति ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {1/29} परिगणनं कर्तव्यम् ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {2/29} तिङ्कृत्तद्धितसमासैः परिसङ्ख्यानम्

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {3/29} तिङ्कृत्तद्धितसमासैः परिसङ्ख्यानम् कर्तव्यम् ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {4/29} तिङ् ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {5/29} क्रियते कटः ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {6/29} कृत् ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {7/29} कृतः कटः ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {8/29} तद्धित ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {9/29} औपगवः कापटवः ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {10/29} समास ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {11/29} चित्रगुः शबलगुः ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {12/29} उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिवचनम् । उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिः वक्तव्या ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {13/29} क्व ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {14/29} कटम् करोति भीष्मम् उदारम् शोभनम् दर्शनीयम् इति ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {15/29} कटशब्दात् उत्पद्यमानया द्वितीयया अभिहितम् कर्म इति कृत्वा भीष्मादिभ्यः द्वितीया न प्राप्नोति ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {16/29} का तर्हि स्यात् ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {17/29} षष्ठी ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {18/29} शेषलक्षणा षष्ठी ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {19/29} अशेषत्वात् न भविष्यति ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {20/29} अन्याः अपि न प्राप्नुवन्ति ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {21/29} किम् कारणम् ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {22/29} कर्मादीन् आमभावात् ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {23/29} समयश्च कृतः ने केवला प्रकृतिः प्रोक्तव्या न केवलः प्रत्ययः इति ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {24/29} न चान्या उत्पद्यमाना एतम् अभिसम्बन्धम् उत्सहन्ते वक्तुम् इति कृत्वा द्वितीया भविष्यति ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {25/29} अथ वा कटः अपि कर्म भीष्मादयः अपि ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {26/29} तत्र कर्मणि इति एव सिद्धम् ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {27/29} अथ वा कटः एव कर्म ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {28/29} तत्सामानाधिकरण्यात् भीष्मादिभ्यः द्वितीया भविष्यति ।

(P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 {29/29} तस्मात् न अर्थः परिगणनेन ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {1/39} द्वयोः क्रिययोः कारके अन्यतरेण अभिहिते विभक्त्यभावप्रसङ्गः । द्वयोः क्रिययोः कारके अन्यतरेण अभिहिते विभक्तिः न प्राप्नोति ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {2/39} क्व ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {3/39} प्रासादे आस्ते , शयने आस्ते इति ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {4/39} किम् कारणम् ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {5/39} सदिप्रत्ययेन अभिहितम् अधिकरणम् इति कृत्वा सप्तमी न प्राप्नोति ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {6/39} न वा अन्यतरेण अनभिधानात्

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {7/39} न वा एषः दोषः ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {8/39} किम् कारणम् ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {9/39} अन्यतरेण अनभिधानात् ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {10/39} अन्यतरेण अत्र अनभिधानम् ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {11/39} सदिप्रत्ययेन भिधानम् आसिप्रत्ययेन अनभिधानम् ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {12/39} यतः अनभिधानम् तदाश्रया सप्तमी भविष्यति ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {13/39} कुतः न खलु एतत् सति अभिधाने च अनभिधाने च अनभिहिताश्रया सप्तमी भविष्यति न पुनः अभिहिताश्रयः प्रतिषेधः इति ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {14/39} अनभिहिते हि विधानम्

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {15/39} अनभिहिते हि सप्तमी विधीयते न अभिहिते प्रतिषेधः ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {16/39} यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र अन्या च अन्या च क्रिया यत्र तु खलु सा एव क्रिया तत्र कथम् ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {17/39} आसने आस्ते ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {18/39} शयने शेते इति ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {19/39} अत्र अपि अन्यत्वम् अस्ति ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {20/39} कुतः ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {21/39} कालभेदात् साधनभेदात् च ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {22/39} एकस्य अत्र आसेः आसिः साधनम् सर्वकालः च प्रत्ययः ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {23/39} अपरस्य बाह्यम् साधनम् वर्तमानकालः च प्रत्ययः ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {24/39} किम् पुनः द्रव्यम् साधनम् आहोस्वित् गुणः ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {25/39} किम् च अतः ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {26/39} यदि द्रव्यम् साधनम् न एतत् अन्यत् भवति अभिहितात् ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {27/39} अथ हि गुणः साधनम् भवति एतत् अन्यत् अभिहितात् ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {28/39} अन्यः हि सदिगुणः अन्यः च आसिगुणः ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {29/39} किं पुनः साधनम् न्याय्यम् ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {30/39} गुणः इति आह ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {31/39} कथम् ज्ञायते ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {32/39} एवम् हि कः चित् कम् चित् पृच्छति ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {33/39} क्व देवदत्तः इति ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {34/39} सः तस्मै आचष्टे ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {35/39} असौ वृक्षे इति ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {36/39} कतरस्मिन् ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {37/39} यः तिष्ठति इति ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {38/39} सः वृक्षः अधिकरणम् भूत्वा अन्येन शब्देन अभिसम्बध्यमानः कर्ता सम्पद्यते ।

(P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 {39/39} द्रव्ये पुनः साधने सति यत् कर्म कर्म एव स्यात् यत् करणम् करणम् एव यत् अधिकरणम् अधिकरणम् एव ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {1/30} अनभिहितवचनम् अनर्थकम् प्रथमाविधानस्य अनवकाशत्वात्

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {2/30} अनभिहितवचनम् अनर्थकम् ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {3/30} किम् कारणम् ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {4/30} प्रथमाविधानस्य अनवकाशत्वात् ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {5/30} अनवकाशा प्रथमा ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {6/30} सा वचनात् भविष्यति। सावकाशा प्रथमा ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {7/30} कः अवकाशः ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {8/30} अकारकम् ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {9/30} वृक्षः प्लक्षः इति ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {10/30} अवकाशः अकारकम् इति चेत् न अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {11/30} अवकाशः अकारकम् इति चेत् तत् न ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {12/30} किम् कारणम् ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {13/30} अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति गम्यते ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {14/30} वृक्षः प्लक्षः ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {15/30} अस्ति इति गम्यते। विप्रतिषेधात् वा प्रथमाभावः । अथ वा द्वितीयादयः क्रियन्ताम् प्रथमा वा इति प्रथमा भविष्यति विप्रतिषेधेन ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {16/30} द्वितीयादीनाम् अवकाशः कटम् करोति भीष्मम् उदारम् शोभनम्दर्शनीयम् इति ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {17/30} प्रथमायाः अवकाशः अकारकम् वृक्षः प्लक्षः इति ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {18/30} इह उभयम् प्राप्नोति ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {19/30} कृतः कटः भीष्मः उदारः शोभनः दर्शनीयः इति ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {20/30} प्रथमा भविष्यति विप्रतिषेधेन ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {21/30} न सिध्यति ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {22/30} परत्वात् षष्ठी प्राप्नोति ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {23/30} शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {24/30} कृत्प्रयोगे तु परम् विधानम् षष्ठ्याः तत्प्रतिषेधार्थम्

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {25/30} कृत्प्रयोगे तु परत्वा त्षष्ठी प्राप्नोति ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {26/30} तत्प्रतिषेधार्थम् अनभिहिताधिकारः कर्तव्यः ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {27/30} कर्तव्यः कटः इति ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {28/30} सः कथम् कर्तव्यः ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {29/30} यदि एकत्वादयः विभक्त्यर्थाः ।

(P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 {30/30} अथ हि कर्मादयः विभक्त्यर्थाः न अर्थः अनभिहिताधिकारेण ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {1/25} समयानिकषाहायोगेषु उपसङ्ख्यानम् । समयानिकषाहायोगेषु उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {2/25} समया ग्रामम् निकषा ग्रामम् ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {3/25} हायोगे ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {4/25} हा देवदत्तम् ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {5/25} हा यज्ञदत्तम् ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {6/25} अपरः आह : द्वितीयाविधाने अभितःपरितःसमयानिकषाध्यधिधिग्योगेषु उपसङ्ख्यानम्

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {7/25} द्वितीयाविधाने अभितःपरितःसमयानिकषाध्यधिधिग्योगेषु उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {8/25} अभितः ग्रामम् परितः ग्रामम् ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {9/25} समया ग्रामम् ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {10/25} निकषा ग्रामम् ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {11/25} अधि अधि ग्रामम् ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {12/25} धिक् जाल्मम् धिक् वृषलम् ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {13/25} अपरः आह ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {14/25} उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु द्वितीया आम्रेडितान्तेषु ततः अन्यत्र अपि दृश्यते

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {15/25} उभय सर्व इति एताभ्याम् तसन्ताभ्याम् द्वितीया वक्तव्या ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {16/25} उभयतः ग्रामम् सर्वतः ग्रामम् ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {17/25} धिग्योगे ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {18/25} धिक् जाल्मम् धिक् वृषलम् ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {19/25} उपर्यादिषु त्रिषु आम्रेडितान्तेषु द्वितीया वक्तव्या ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {20/25} उपरि उपरि ग्रामम् ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {21/25} अधि अधि ग्रामम् ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {22/25} अधः अधः ग्रामम् ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {23/25} ततः अन्यत्र अपि दृश्यते ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {24/25} न देवदत्तम् प्रतिभाति किम् चित् ।

(P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 {25/25} बुभुक्षितम् न प्रतिभाति किम् चित् ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {1/27} किमर्थम् इदम् उच्यते ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {2/27} तृतीया यथा स्यात् ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {3/27} अथ द्वितीया सिद्धा ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {4/27} सिद्धा कर्मणि इति एव ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {5/27} तृतीया अपि सिद्धा ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {6/27} कथम् ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {7/27} सुपाम् सुपः भवन्ति इति एव ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {8/27} असति एतस्मिन् सुपाम् सुपः भवन्ति इति तृतीयार्थः अयम् आरम्भः ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {9/27} यवाग्वा अग्निहोत्रं जुहोति ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {10/27} एवम् तर्हि तृतीया अपि सिद्धा ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {11/27} कथम् ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {12/27} कर्तृकरणयोः इति एव ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {13/27} अयम् अग्निहोत्रशब्दः अस्ति एव ज्योतिषि वर्तते ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {14/27} तद्यथा ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {15/27} अग्निहोत्रम् प्रज्वलयति इति ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {16/27} अस्ति हविषि वर्तते ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {17/27} तत् यथा ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {18/27} अग्निहोत्रम् जुहोति इति ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {19/27} जुहोतिः च अस्ति एव प्रक्षेपणे वर्तते अस्ति प्रीणात्यर्थे वर्तते ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {20/27} तत् यथा तावत् यवागूशब्दात् तृतीया तदा अग्निहोत्रशब्दः ज्योतिषि वर्तते जुहोतिः च प्रीणात्यर्थे ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {21/27} तत् यथा ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {22/27} यवाग्वा अग्निहोत्रम् जुहोति ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {23/27} अग्निं प्रीणाति ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {24/27} यदा यवागूशब्दात् द्वितीया तदा अग्निहोत्रशब्दः हविषि वर्तते जुहोतिः च प्रक्षेपणे ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {25/27} तत् यथा ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {26/27} यवागूम् अग्निहोत्रम् जुहोति ।

(P_2,3.3) KA_I,444.13-22 Ro_II,771-772 {27/27} यवागूम् हविः अग्नौ प्रक्षिपति ।

(P_2,3.4) KA_I,444.24-445.10 Ro_II,772-774 {1/18} इह कस्मात् न भवति ।

(P_2,3.4) KA_I,444.24-445.10 Ro_II,772-774 {2/18} किम् ते बाभ्रवशालङ्कायनानाम् अन्तरेण गतेन इति ।

(P_2,3.4) KA_I,444.24-445.10 Ro_II,772-774 {3/18} लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

(P_2,3.4) KA_I,444.24-445.10 Ro_II,772-774 {4/18} अथ वा यदि अपि तावत् अयम् अन्तरेणशब्दः दृष्टापचारः निपातः च अनिपातः च अयं तु खलु अन्तराशब्दः अदृष्टापचारः निपातः एव ।

(P_2,3.4) KA_I,444.24-445.10 Ro_II,772-774 {5/18} तस्य अस्य कः अन्यः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः निपातात् ।

(P_2,3.4) KA_I,444.24-445.10 Ro_II,772-774 {6/18} तत् यथा ।

(P_2,3.4) KA_I,444.24-445.10 Ro_II,772-774 {7/18} अस्य गोः द्वितीयेन अर्थः इति गौः एव आनीयते न अश्वः न गदर्भः ।

(P_2,3.4) KA_I,444.24-445.10 Ro_II,772-774 {8/18} अन्तरान्तरेणयुक्तानाम् अप्रधानवचनम्

(P_2,3.4) KA_I,444.24-445.10 Ro_II,772-774 {9/18} अन्तरान्तरेणयुक्तानामप्रधानग्रहणम् वक्तव्यम् ।

(P_2,3.4) KA_I,444.24-445.10 Ro_II,772-774 {10/18} अप्रधाने द्वीइया भवति इति वक्तव्यम् ।

(P_2,3.4) KA_I,444.24-445.10 Ro_II,772-774 {11/18} अन्तरा त्वाम् च माम् च कमण्डलुः इति ।

(P_2,3.4) KA_I,444.24-445.10 Ro_II,772-774 {12/18} कमण्डलोः द्वितीया मा भूत् इति ।

(P_2,3.4) KA_I,444.24-445.10 Ro_II,772-774 {13/18} कः पुनः एताभ्याम् कमण्डलोः योगः ।

(P_2,3.4) KA_I,444.24-445.10 Ro_II,772-774 {14/18} यत् तत् त्वाम् च माम् च अन्तरा तत् कमण्डलोः स्थानम् ।

(P_2,3.4) KA_I,444.24-445.10 Ro_II,772-774 {15/18} तत्त् अर्हि वक्तव्यम् ।

(P_2,3.4) KA_I,444.24-445.10 Ro_II,772-774 {16/18} न वक्तव्यम् ।

(P_2,3.4) KA_I,444.24-445.10 Ro_II,772-774 {17/18} कमण्डलोः द्वितीया कस्मात् न भवति ।

(P_2,3.4) KA_I,444.24-445.10 Ro_II,772-774 {18/18} उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {1/40} अत्यन्तसंयोगे कर्मवत् लाद्यर्थम्

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {2/40} अत्यन्तसंयोगे कालाध्वानौ कर्मवत् भवतः इति वक्तव्यम् ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {3/40} किम् प्रयोजनम् ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {4/40} लाद्यर्थम् ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {5/40} लादिभिः अभिधानम् यथा स्यात् ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {6/40} आस्यते मासः ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {7/40} शय्यते क्रोशः ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {8/40} अथ वत्करणम् किमर्थम् ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {9/40} स्वाश्रयम् अपि यथा स्यात् ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {10/40} आस्यते मासम् ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {11/40} शय्यते क्रोशम् ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {12/40} अकर्मकाणाम् भावे लः भवति इति भावे लः यथा स्यात् ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {13/40} तत् तर्हि वक्तव्यम् ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {14/40} न वक्तव्यम् ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {15/40} प्राकृतमेव एतत् कर्म यथा कटम् करोति शकटम् करोति इति ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {16/40} एवम् मन्यते ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {17/40} यत्र कः चित्क्रियाकृतः विशेषः उपजायते तत् न्याय्यम् कर्म इति ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {18/40} न च इह कः चित् क्रियाकृतः विशेषः उपजायते ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {19/40} न एवम् शक्यम् ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {20/40} इह अपि न स्यात् ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {21/40} आदित्यम् पश्यति ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {22/40} हिमवन्तम् शृणोति ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {23/40} ग्रामम् गच्छति ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {24/40} तस्मात् प्राकृतमेव एतत् कर्म यथा कटम् करोति शकटम् करोति इति ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {25/40} यदि तर्हि प्राकृतम् एव एतत् कर्म अकर्मकाणाम् भावे लः भवति इति भावे लः न प्राप्नोति। आस्यते मासम् देवदत्तेन इति ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {26/40} तत् तर्हि वक्तव्यम् ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {27/40} न वक्तव्यम् ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {28/40} अकर्मकाणाम् इति उच्यते न च के चित् कालभावाध्वभिः अकर्मकाः ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {29/40} ते एवम् विज्ञास्यामः ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {30/40} क्व चित् ये अकर्मकाः इति ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {31/40} अथ वा येन कर्मणा सकर्मकाः च अकर्मकाः च भवन्ति तेन अकर्मकाणाम् ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {32/40} न च एतेन कर्मणा कः चिद् अपि अकर्मकः ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {33/40} अथ वा यत् कर्म भवति न च भवति तेन कर्मकाणाम् ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {34/40} न च एतत् कर्म क्व चित् अपि न भवति ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {35/40} न तर्हि इदानीम् इदम् सूत्रम् वक्तव्यम् ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {36/40} वक्तव्यम् च ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {37/40} किम् प्रयोजनम् ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {38/40} यत्र अक्रियया अत्यन्तसंयोगः तदर्थम् ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {39/40} क्रोशम् कुटिला नदी ।

(P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 {40/40} क्रोशम् रमणीया वनराजिः ।

(P_2,3.6) KA_I,446.6-7 Ro_II,777 {1/3} क्रियापर्वर्गे इति वक्तव्यम् ।

(P_2,3.6) KA_I,446.6-7 Ro_II,777 {2/3} साधनापवर्गे मा भूत् ।

(P_2,3.6) KA_I,446.6-7 Ro_II,777 {3/3} मासम् अधीतः अनुवाको न च अनेन गृहीतः इति ।

(P_2,3.7) KA_I,446.9-13 Ro_II,777-778 {1/9} क्रियामध्ये इति वक्तव्यम् ।

(P_2,3.7) KA_I,446.9-13 Ro_II,777-778 {2/9} इह अपि यथा स्यात् ।

(P_2,3.7) KA_I,446.9-13 Ro_II,777-778 {3/9} अद्य देवदत्तः भुक्त्वा द्व्यहात् भोक्ता द्व्यहे भोक्ता ।

(P_2,3.7) KA_I,446.9-13 Ro_II,777-778 {4/9} कारकमध्ये इति इयति उच्यमाने इह एव स्यात् : इहस्थः अयम् इष्वासः क्रोशात् लक्ष्यम् विध्यति क्रोशे लक्ष्यम् विध्यति ।

(P_2,3.7) KA_I,446.9-13 Ro_II,777-778 {5/9} यम् च विध्यति यतः च विध्यति उभयोः तन्मध्यम् भवति ।

(P_2,3.7) KA_I,446.9-13 Ro_II,777-778 {6/9} तत् तर्हि वक्तव्यम् ।

(P_2,3.7) KA_I,446.9-13 Ro_II,777-778 {7/9} न वक्तव्यम् ।

(P_2,3.7) KA_I,446.9-13 Ro_II,777-778 {8/9} न अन्तरेण साधनम् क्रियायाः प्रवृत्तिः भवति ।

(P_2,3.7) KA_I,446.9-13 Ro_II,777-778 {9/9} क्रियामध्यम् चेत् कारकमध्यम् अपि भवति तत्र कारकमध्ये इति एव सिद्धम् ।

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {1/23} कर्मप्रवचनीययुक्ते प्रत्यादिभिः च लक्षणादिषु उपसङ्ख्यानम् सप्तमीपञ्चम्योः प्रतिषेधार्थम्

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {2/23} कर्मप्रवचनीययुक्ते प्रत्यादिभिः च लक्षणादिषु उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {3/23} वृक्षम् प्रति विद्योतते विद्युत् ।

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {4/23} वृक्षम् परि ।

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {5/23} वृक्षमनु ।

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {6/23} साधुः देवदत्तः मातरम् प्रति ।

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {7/23} मातरम् परि ।

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {8/23} मातरम् अनु ।

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {9/23} किम् प्रयोजनम् ।

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {10/23} सप्तमीपञ्चम्योः प्रतिषेधार्थम् ।

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {11/23} सप्तमीपञ्चम्यौ मा भूताम् इति ।

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {12/23} साधुनिपुणाभ्याम् अर्चायाम् सप्तमी इति सप्तमी ।

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {13/23} पञ्चमी अपाङ्परिभिः इति पञ्चमी ।

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {14/23} तत्र अयम् अपि अर्थः अप्रतेः इति न वक्तव्यम् भवति ।

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {15/23} तत् तर्हि वक्तव्यम् ।

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {16/23} न वक्तव्यम् ।

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {17/23} उक्तं वा

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {18/23} किम् उक्तम् ।

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {19/23} एकत्र तावत् उक्तम् अप्रतेः इति ।

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {20/23} इतरत्र अपि यदि अपि तावत् अयम् परिः दृष्टापचारः वर्जने च अवर्जने च अयं खलु अपशब्दः अदृष्टापचारः वर्जनार्थः एव ।

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {21/23} तस्य कः अन्यः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः वर्जनार्थात् ।

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {22/23} तत् यथा ।

(P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 {23/23} अस्य गोः द्वितीयेन अर्थः इति गौः एव आनीयते न अश्वः न गदर्भः ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {1/55} कथम् इदम् विज्ञायते ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {2/55} यस्य च ऐश्वर्यम् ईश्वरता ईश्वरभावः तस्मात् कर्मप्रवचनीययुक्तात् इति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {3/55} आहोस्वित् यस्य स्वस्य ईश्वरः तस्मात् कर्मप्रवचनीययुक्तात् इति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {4/55} कः च अत्र विशेषः ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {5/55} यस्य च ईश्वरवचनम् इति कर्तृनिर्देशः चेत् अवचनात् सिद्धम्

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {6/55} यस्य च ईश्वरवचनम् इति कर्तृनिर्देशः चेत् अन्तरेण वचनम् सिद्धम् ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {7/55} अधि ब्रह्मदत्ते पञ्चालाः ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {8/55} आधृताः ते तस्मिन् भवन्ति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {9/55} सत्यम् एवम् एतत् ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {10/55} नित्यम् परिग्रहीतव्यम् परिग्रहीत्रधीनम् भवति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {11/55} प्रथमानुपपत्तिः तु । प्रथमा न उपपद्यते ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {12/55} कुतः ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {13/55} पञ्चालेभ्यः ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {14/55} का तर्हि स्यात् ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {15/55} षष्ठीसप्तम्यौ ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {16/55} स्वामीश्वराधिपति इति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {17/55} न तत्र अधिशब्दः पठ्यते ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {18/55} यदि अपि न पठ्यते अधिः ईश्वरवाची ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {19/55} न तत्र पर्यायवचनानाम् ग्रहणम् ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {20/55} कथम् ज्ञायते ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {21/55} यत् अयम् कस्य चित् पर्यायवचनस्य ग्रहणम् करोति : अधिपतिदायाद इति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {22/55} षष्ठी तर्हि प्राप्नोति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {23/55} शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {24/55} द्वितीया तर्हि प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीया इति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {25/55} सप्तम्या उक्तत्वात् तस्य अभिसम्बन्धस्य द्वितीया न भविष्यति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {26/55} भवेत् यः अधेः ब्रहमदत्तस्य च अभिसम्बन्धः सः सप्तम्या उक्तः स्यात् ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {27/55} यः तु खलु अधेः पञ्चालानाम् च अभिसम्बन्धः तत्र द्वितीया प्राप्नोति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {28/55} स्ववचनात् सिद्धम् । अस्तु यस्य स्वस्य ईश्वरः तस्मात् कर्मप्रवचनीययुक्तात् इति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {29/55} एवम् अपि अन्तरेण वचनम् सिद्धम् ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {30/55} अधि ब्रह्मदत्तः पञ्चालेषु ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {31/55} आधृतः स तेषु भवति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {32/55} सत्यम् एवम् एतत् ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {33/55} नित्यम् परिग्रहीता परिग्रहीतव्याधीनः भवति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {34/55} प्रथमानुपपत्तिः तु

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {35/55} प्रथमा न उपपद्यते ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {36/55} कुतः ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {37/55} ब्रह्मदत्तात् ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {38/55} का तर्हि स्यात् ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {39/55} षष्ठीसप्तम्यौ ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {40/55} स्वामीश्वराधिपति इति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {41/55} न तत्र अधिशब्दः पठ्यते ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {42/55} यदि अपि न पठ्यते अधिः ईश्वरवाची ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {43/55} न तत्र पर्यायवचनानाम् ग्रहणम् ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {44/55} कथम् ज्ञायते ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {45/55} यत् अयम् कस्य चित् पर्यायवचनस्य ग्रहणम् करोति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {46/55} अधिपतिदायाद इति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {47/55} षष्ठी तर्हि प्राप्नोति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {48/55} शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {49/55} द्वितीया तर्हि प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीया इति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {50/55} सप्तम्या उक्तत्वात् तस्य अभिसम्बन्धस्य द्वितीया न भविष्यति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {51/55} भवेत् यः धेः पञ्चालानाम् च अभिसम्बन्धः सः सप्तम्या उक्तः स्यात् यः तु खलु अधेः ब्रह्मदत्तस्य च अभिसंबन्धः तत्र द्वितीया प्राप्नोति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {52/55} एवं तर्हि स्ववचनात् सिद्धम्

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {53/55} अधिः स्वम् प्रति कर्मप्रवचनीयसंज्ञः भवति इति वक्तव्यम् ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {54/55} एवम् अपि यदा ब्रह्मदत्ते अधिकरणे सप्तमी तदा पञ्चालेभ्यः द्वितीया प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीय इति ।

(P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 {55/55} उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {1/29} अध्वनि अर्थग्रहणम् । अध्वनि अर्थग्रहणम् कर्तव्यम् ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {2/29} इह अपि मा भूत् ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {3/29} पन्थानम् गच्छति ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {4/29} वीवधम् गच्छत् इ इति ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {5/29} आस्थितप्रतिषेधः च

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {6/29} आस्थितप्रतिषेधः च अयम् वक्तव्यः ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {7/29} यः हि उत्पथेन पन्थानम् गच्छति पथे गच्छति इति एव तत्र भवितव्यम् ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {8/29} किम् अर्थम् पुनः इदम् उच्यते ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {9/29} चतुर्थी यथा स्यात् ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {10/29} अथ द्वितीया सिद्धा ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {11/29} सिद्धा कर्मणि इति एव ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {12/29} चतुर्थी अपि सिद्धा ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {13/29} । कथम् ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {14/29} सम्प्रदाने इति एव ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {15/29} न सिध्यति ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {16/29} कर्मणा यम् अभिप्रैति सः संप्रदानम् इति उच्यते ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {17/29} क्रियया च असौ ग्रामम् अभिप्रैति ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {18/29} कया क्रियया ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {19/29} गमिक्रियया ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {20/29} क्रियाग्रहणम् अपि तत्र चोद्यते ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {21/29} चेष्टायाम् अनध्वनि स्त्रियम् गच्छति अजाम् नयति इति अतिप्रसङ्गः

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {22/29} चेष्टायाम् अनध्वनि स्त्रियम् गच्छति अजाम् नयति इति अतिप्रसङ्गः भवति ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {23/29} सिद्धम् तु असम्प्राप्तवचनात्

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {24/29} सिद्धम् एतत् ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {25/29} कथम् ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {26/29} असम्प्राप्ते कर्मणि द्वितीयाचतुर्थ्यौ भवतः इति वक्तव्यम् ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {27/29} अध्वनः च अनपवादः

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {28/29} एवम् च कृत्वा अनध्वनि इति एतत् अपि न वक्तव्यम् भवति ।

(P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 {29/29} सम्प्राप्तम् हि एतत् कर्म अध्वानम् गच्छति इति ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {1/40} चतुर्थीविधाने तादर्थ्ये उपसङ्ख्यानम् । चतुर्थीविधाने तादर्थ्ये उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {2/40} यूपाय दारु कुण्डलाय हिरण्यम् ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {3/40} किम् इदम् तादर्थ्यम् इति ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {4/40} तदर्थस्य भावः तादर्थ्यम् ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {5/40} तदर्थम् पुनः किम् ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {6/40} सर्वनाम्नः अयम् चतुर्थ्यन्तस्य अर्थशब्देन सह समासः ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {7/40} कथम् च अत्र चतुर्थी ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {8/40} अनेन एव ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {9/40} यदि एवम् इतरेतराश्रयम् भवति ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {10/40} का इतरेतराश्रयता ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {11/40} निर्देशोत्तरकालम् चतुर्थ्या भवितव्यम् चतुर्थ्या च निर्देशः तत् इतरेतराश्रयम् भवति ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {12/40} इतरेतराश्रयाणि च न प्रकल्पन्ते ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {13/40} तत् तर्हि वक्तव्यम् ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {14/40} न वक्तव्यम् ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {15/40} आचार्यप्रवृत्तिः ज्ञापयति भवति अर्थशब्देन योगे चतुर्थी इति यत् अयम् चर्तुर्थी तदर्थार्थ इति चतुर्थ्यन्तस्य अर्थशब्देन सह समासम् शास्ति ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {16/40} न खलु अपि अवश्यं चतुर्थ्यन्तस्य एव अर्थशब्देन सह समासः भवति ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {17/40} किम् तर्हि ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {18/40} षष्ठ्यन्तस्य अपि भवति ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {19/40} तत् यथा ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {20/40} गुरोः इदम् गुर्वर्थम् इति ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {21/40} यदि तादर्थ्ये उपसङ्ख्यानम् क्रियते न अर्थः सम्प्रदानग्रहणेन ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {22/40} यः अपि हि उपाध्यायाय गौः दीयते उपाध्यायार्थः सः भवति ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {23/40} तत्र तादर्थ्ये इति एव सिद्धम् ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {24/40} अवश्यम् संप्रदानग्रहणम् कर्तव्यम् या अन्येन लक्षणेन सम्प्रदानसञ्ज्ञा तदर्थम् ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {25/40} छात्राय रुचितम् ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {26/40} छात्राय स्वदितम् इति ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {27/40} तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {28/40} न कर्तव्यम् ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {29/40} आचार्यप्रवृत्तिः ज्ञापयति भवति तादर्थ्ये चतुर्थी इति यत् अयम् चतुर्थी तदर्थार्थ इति चतुर्थ्यन्तस्य तदर्थेन सह समासम् शास्ति ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {30/40} कॢपि सम्पद्यमाने

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {31/40} कॢपि सम्पद्यमाने चतुर्थी वक्तव्या ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {32/40} मूत्राय कल्पते यवागूः ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {33/40} उच्चाराय कल्पते यवान्नम् इति ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {34/40} उत्पातेन ज्ञाप्यमाने

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {35/40} उत्पातेन ज्ञाप्यमाने चतुर्थी वक्तव्या ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {36/40} वाताय कपिला विद्युत् आतपाय अतिलोहिनी पीता भवति सस्याय दुर्भिक्षाय सिता भवेत् ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {37/40} मांसौदनाय व्याहरति मृगः ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {38/40} हितयोगे च

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {39/40} हितयोगे चतुर्थी वक्तव्या ।

(P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 {40/40} । हितम् अरोचकिने हितम् आमयाविने ।

(P_2,3.16) KA_I,450.5-14 Ro_II,787-788 {1/17} स्वस्तियोगे चतुर्थी कुशलार्थैः आशिषि वाविधानात्

(P_2,3.16) KA_I,450.5-14 Ro_II,787-788 {2/17} स्वस्तियोगे चतुर्थी कुशलार्थैः आशिषि वाविधानात् भवति विप्रतिषेधेन ।

(P_2,3.16) KA_I,450.5-14 Ro_II,787-788 {3/17} स्वस्तियोगे चतुर्थ्याः अवकाशः स्वस्ति जाल्माय स्वस्ति वृषलाय ।

(P_2,3.16) KA_I,450.5-14 Ro_II,787-788 {4/17} कुशलार्थैः आशिषि वाविधानस्य अवकाशः अन्ये कुशलार्थाः ।

(P_2,3.16) KA_I,450.5-14 Ro_II,787-788 {5/17} कुशलम् देवत्ताय कुशलम् देवदत्तस्य ।

(P_2,3.16) KA_I,450.5-14 Ro_II,787-788 {6/17} इह उभयम् प्राप्नोति ।

(P_2,3.16) KA_I,450.5-14 Ro_II,787-788 {7/17} स्वस्ति गोभ्यः स्वस्ति ब्राह्मणेभ्यः इति ।

(P_2,3.16) KA_I,450.5-14 Ro_II,787-788 {8/17} चतुर्थी भवति विप्रतिषेधेन ।

(P_2,3.16) KA_I,450.5-14 Ro_II,787-788 {9/17} अलमिति पर्याप्त्यर्थग्रहणम्

(P_2,3.16) KA_I,450.5-14 Ro_II,787-788 {10/17} अलमिति पर्याप्त्यर्थग्रहणम् कर्तव्यम् ।

(P_2,3.16) KA_I,450.5-14 Ro_II,787-788 {11/17} इह मा भूत् ।

(P_2,3.16) KA_I,450.5-14 Ro_II,787-788 {12/17} अलङ्कुरुते कन्याम् इति ।

(P_2,3.16) KA_I,450.5-14 Ro_II,787-788 {13/17} अपरः आह : अलम् इति पर्याप्त्यर्थग्रहणम् कर्तव्यम् ।

(P_2,3.16) KA_I,450.5-14 Ro_II,787-788 {14/17} इह अपि यथा स्यात् ।

(P_2,3.16) KA_I,450.5-14 Ro_II,787-788 {15/17} अलम् मल्लः मल्लाय ।

(P_2,3.16) KA_I,450.5-14 Ro_II,787-788 {16/17} प्रभुःमल्लः मल्लाय ।

(P_2,3.16) KA_I,450.5-14 Ro_II,787-788 {17/17} प्रभवति मल्लः मल्लाय इति ।

(P_2,3.17) KA_I,450.16-451.3 Ro_II,788-789 {1/13} अप्राणिषु इति उच्यते ।

(P_2,3.17) KA_I,450.16-451.3 Ro_II,788-789 {2/13} तत्र इदम् न सिध्यति : न त्वा श्वानम् मन्ये , न त्वा शुने मन्ये इति ।

(P_2,3.17) KA_I,450.16-451.3 Ro_II,788-789 {3/13} एवम् तर्हि योगविभागः करिष्यते ।

(P_2,3.17) KA_I,450.16-451.3 Ro_II,788-789 {4/13} मन्यकर्मणि अनादरे विभाषा ।

(P_2,3.17) KA_I,450.16-451.3 Ro_II,788-789 {5/13} ततः अप्राणिषु ।

(P_2,3.17) KA_I,450.16-451.3 Ro_II,788-789 {6/13} अप्राणिषु च विभाषा इति ।

(P_2,3.17) KA_I,450.16-451.3 Ro_II,788-789 {7/13} इह अपि तर्हि प्राप्नोति : न त्वा काकम् मन्ये , न त्वा शुकम् मन्ये इति ।

(P_2,3.17) KA_I,450.16-451.3 Ro_II,788-789 {8/13} यत् एतत् अप्राणिषु इति एतत् अनावादिषु इति वक्ष्यामि ।

(P_2,3.17) KA_I,450.16-451.3 Ro_II,788-789 {9/13} इमे च नावादयः भविष्यन्ति ।

(P_2,3.17) KA_I,450.16-451.3 Ro_II,788-789 {10/13} न त्वा नावम् मन्ये यावत् तीर्णम् न नाव्यम् ।

(P_2,3.17) KA_I,450.16-451.3 Ro_II,788-789 {11/13} न त्वा अन्नम् मन्ये यावत् भुक्तम् न श्राद्धम् ।

(P_2,3.17) KA_I,450.16-451.3 Ro_II,788-789 {12/13} अत्र येषु प्राणिषु न इष्यते ते नावादयः भविष्यन्ति ।

(P_2,3.17) KA_I,450.16-451.3 Ro_II,788-789 {13/13} मन्यकर्मणि प्रकृष्यकुत्सितग्रहणम् । मन्यकर्मणि प्रकृष्यकुत्सितग्रहणम् कर्तव्यम् इह मा भूत् : त्वाम् तृणम् मन्ये इति ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {1/33} तृतीयाविधाने प्रकृत्यादिभ्यः उपसङ्ख्यानम्

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {2/33} तृतीयाविधाने प्रकृत्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {3/33} तृतीयाविधाने प्रकृत्यादिभ्यः उपसङ्ख्यानम् ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {4/33} प्रकृत्या अभिरूपः प्रकृत्या दर्शनीयः ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {5/33} प्रायेण याज्ञिकाः प्रायेण वैयाकरणाः ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {6/33} माठरः अस्मि गोत्रेण। गार्ग्यः अस्मि गोत्रेण ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {7/33} समेन धावति ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {8/33} विषमेण धावति ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {9/33} द्विद्रोणेन धान्यम् क्रीणाति ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {10/33} त्रिद्रोणेन धान्यम् क्रीणाति ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {11/33} पञ्चकेन पशून् क्रीणाति ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {12/33} साहस्रेण अश्वान् क्रीणाति। तत् तर्हि वक्तव्यम् ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {13/33} न वक्तव्यम् ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {14/33} कर्तृकरणयोः तृतीया इति एव सिद्धम् ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {15/33} इह तावत् प्रकृत्या अभिरूपः प्रकृत्या दर्शनीयः इति प्रकृतिकृतम् तस्य आभिरूप्यम् ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {16/33} प्रायेण याज्ञिकाः प्रायेण वैयाकरणाः इति ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {17/33} एषः तत्र प्रायः येन ते अधीयते ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {18/33} माठरः अस्मि गोत्रेण। गार्ग्यः अस्मि गोत्रेण इति ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {19/33} एतेन अहम् सञ्ज्ञाये ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {20/33} समेन धावति ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {21/33} विषमेण धावति ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {22/33} इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते समेन पथा धावति विषमेण पथा धावतीति ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {23/33} द्विद्रोणेन धान्यम् क्रीणाति ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {24/33} त्रिद्रोणेन धान्यम् क्रीणाति ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {25/33} तादर्थ्यात् ताच्छब्द्यम् ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {26/33} द्विद्रोणार्थम् द्विद्रोणम् ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {27/33} द्विद्रोणेन हिरण्येन धान्यम् क्रीणाति इति ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {28/33} पञ्चकेन पशून् क्रीणाति इति ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {29/33} अत्र अपि तादर्थ्यात् ताच्छब्द्यम् ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {30/33} पञ्चपश्वर्थः पञ्चकः ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {31/33} पञ्चकेन पशून् क्रीणाति इति ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {32/33} साहस्रेण अश्वान् क्रीणाति इति। सहस्रपरिमाणम् साहस्रम् ।

(P_2,3.18) KA_I,452.2-15 Ro_II,789-791 {33/33} साहस्रेण हिरण्येन अश्वान् क्रीणाति इति।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {1/28} किम् उदाहरणम् ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {2/28} तिलैः सह माषान् वपति इति ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {3/28} न एतत् अस्ति ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {4/28} तिलैः मिश्रीकृत्य माषाः उप्यन्ते ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {5/28} तत्र करणे इति एव सिद्धम् ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {6/28} इदम् तर्हि ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {7/28} पुत्रेण सह आगतः देवदत्तः इति ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {8/28} अप्रधाने कर्तरि तृतीया यथा स्यात् ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {9/28} एतत् अपि न अस्ति प्रयोजनम् ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {10/28} प्रधाने कर्तरि लादयः भवन्ति इति प्रधानकर्ता क्तेन अभिधीयते यः च अप्रधानम् सिद्धा तत्र कर्तरि इति एव तृतीया ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {11/28} इदम् तर्हि ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {12/28} पुत्रेण सह आगमनम् देवदत्तस्य इति ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {13/28} षष्ठी अत्र बाधिका भविष्यति ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {14/28} इदम् तर्हि ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {15/28} पुत्रेण सह स्थूलः ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {16/28} पुत्रेण सह पिङ्गलः इति ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {17/28} इदम् च अपि उदाहरणम् तिलैः सह माषान् वपति इति ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {18/28} ननु च उक्तम् तिलैः मिश्रीकृत्य माषाः उप्यन्ते ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {19/28} तत्र करणे इति एव सिद्धम् इति ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {20/28} भवेत् सिद्धम् यदा तिलैः मिश्रीकृत्य उप्येरन् ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {21/28} यदा तु खलु कस्य चिन् माषबीजावापः उपस्थितः तदर्थम् च क्षेत्रम् उपार्जितम् तत्र अन्यत् अपि किं चिद् उप्यते यदि भविष्यति भविष्यति इति तदा न सिध्यति ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {22/28} सहयुक्ते अप्रधानवचनम् अनर्थकम् उपपदविभक्तेः कारकविभक्तिबलीयस्त्वात् अन्यत्र अपि

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {23/28} सहयुक्ते अप्रधानवचनम् अनर्थकम् ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {24/28} किं कारणम् ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {25/28} उपपदविभक्तेः कारकविभक्तिबलीयस्त्वात् ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {26/28} अन्यत्र अपि कारकविभक्तिर्बलीयसी इति प्रथमा भविष्यति ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {27/28} क्व अन्यत्र ।

(P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 {28/28} गाः स्वामी व्रजति इति ।

(P_2,3.20) KA_I,453.9-14 Ro_II,793-794 {1/8} इह कस्मात् न भवति ।

(P_2,3.20) KA_I,453.9-14 Ro_II,793-794 {2/8} अक्षि काणम् अस्य इति ।

(P_2,3.20) KA_I,453.9-14 Ro_II,793-794 {3/8} अङ्गात् विकृतात् तद्विकारतः चेत् अङ्गिनः वचनम्

(P_2,3.20) KA_I,453.9-14 Ro_II,793-794 {4/8} अङ्गात् विकृतात् तृतीया वक्तव्या तेन एव चेत् विकारेण अङ्गी द्योत्यते इति वक्तव्यम् ।

(P_2,3.20) KA_I,453.9-14 Ro_II,793-794 {5/8} तत् तर्हि वक्तव्यम् ।

(P_2,3.20) KA_I,453.9-14 Ro_II,793-794 {6/8} न वक्तव्यम् ।

(P_2,3.20) KA_I,453.9-14 Ro_II,793-794 {7/8} अङ्गशब्दः अयम् समुदायशब्दः येन इति च करणे एषा तृतीया ।

(P_2,3.20) KA_I,453.9-14 Ro_II,793-794 {8/8} येन अवयवेन समुदायः अङ्गी द्योत्यते तस्मिन् भवितव्यम् न च एतेन अवयवेन समुदायः द्योत्यते ।

(P_2,3.21) KA_I,453.16-23 Ro_II,794-795 {1/14} इत्थम्भूतलक्षणे तत्स्थे प्रतिषेधः

(P_2,3.21) KA_I,453.16-23 Ro_II,794-795 {2/14} इत्थम्भूतलक्षणे तत्स्थे प्रतिषेधः वक्तव्यः ।

(P_2,3.21) KA_I,453.16-23 Ro_II,794-795 {3/14} अपि भवान्कमण्डलुपाणिम् छात्रम द्राक्षीत् इति ।

(P_2,3.21) KA_I,453.16-23 Ro_II,794-795 {4/14} न वा इत्थम्भूतस्य लक्षणेन अपृथग्भावात्

(P_2,3.21) KA_I,453.16-23 Ro_II,794-795 {5/14} न वा वक्तव्यम् ।

(P_2,3.21) KA_I,453.16-23 Ro_II,794-795 {6/14} किम् कारणम् ।

(P_2,3.21) KA_I,453.16-23 Ro_II,794-795 {7/14} इत्थम्भूतस्य लक्षणेन अपृथग्भावात् ।

(P_2,3.21) KA_I,453.16-23 Ro_II,794-795 {8/14} यत्र इत्थम्भूतस्य पृथग्भूतम् लक्षणम् तत्र भवितव्यम् ।

(P_2,3.21) KA_I,453.16-23 Ro_II,794-795 {9/14} न च अत्र इत्थम्भूतस्य पृथग्भूतम् लक्षणम् ।

(P_2,3.21) KA_I,453.16-23 Ro_II,794-795 {10/14} किम् वक्तव्यम् एतत् ।

(P_2,3.21) KA_I,453.16-23 Ro_II,794-795 {11/14} न हि ।

(P_2,3.21) KA_I,453.16-23 Ro_II,794-795 {12/14} कथम् अनुच्यमानम् गंस्यते ।

(P_2,3.21) KA_I,453.16-23 Ro_II,794-795 {13/14} तथा हि अयम् प्राधान्येन लक्षणम् प्रतिनिर्दिशति ।

(P_2,3.21) KA_I,453.16-23 Ro_II,794-795 {14/14} इत्थम्भूतस्य लक्षणम् इत्थंभूतलक्षणम् तस्मिन् नित्थंभूतलक्षणे इति ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {1/31} सञ्ज्ञः कृत्प्रयोगे षष्ठी विप्रतिषेधेन । सञ्ज्ञः अन्यतरस्याम् कर्मणि इति एतस्मात् कृप्रयोगे षष्ठी भवति विप्रतिषेधेन ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {2/31} सञ्ज्ञः अन्यतरस्याम् इति अस्य अवकाशः ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {3/31} मातरम् सञ्जानीते ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {4/31} मात्रा सञ्जानीते ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {5/31} कृत्प्रयोगे षष्ठ्याः अवकाशः ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {6/31} इध्मप्रव्रश्चनः पलाशशातनः ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {7/31} इह उभयम् प्राप्नोति ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {8/31} मातुः सञ्ज्ञाता ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {9/31} पितुः सञ्ज्ञाता इति ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {10/31} षष्ठी भवति विप्रतिषेधेन ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {11/31} उपपदविभक्तेः च उपपदविभक्तिः । उपपदविभक्तेः च उपपदविभक्तिः भवति विप्रतिषेधेन । अन्यारादितरेर्तदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते इति अस्य अवकाशः ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {12/31} अन्यः देवदत्तात् ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {13/31} स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः च इति अस्य अवकाशः ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {14/31} गोषु स्वामी ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {15/31} गवां स्वामी ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {16/31} इह उभयम् प्राप्नोति ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {17/31} अन्यः गोषु स्वामी ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {18/31} अन्यः गवां स्वामी इति ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {19/31} स्वामीश्वराधिपति इति एतत् भवति विप्रतिषेधेन ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {20/31} न एषः युक्त्ः विप्रतिषेधः ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {21/31} न हि अत्र गावः अन्ययुक्ताः ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {22/31} कः तर्हि ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {23/31} स्वामी ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {24/31} एवम् तर्हि तुल्यार्थः अतुलोपमाभ्याम् तृतीया अन्यतरस्याम् इति अस्य अवकाशः ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {25/31} तुल्यः देवदत्तस्य ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {26/31} तुल्यः देवदत्तेन इति ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {27/31} स्वामीश्वराधिपति इति अस्य वकाशः सः एव ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {28/31} इह उभयम् प्राप्नोति ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {29/31} तुल्यः गोभिः स्वामी ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {30/31} तुल्यः गवां स्वामी इति ।

(P_2,3.22) KA_I,454.2-16 Ro_II,796 {31/31} तुल्यार्थः रतुलोपमाभ्याम् इति एतत् भवति विप्रतिषेधेन ।

(P_2,3.23) KA_I,454.18-455.2 Ro_II,797 {1/20} निमित्तकारणहेतुषु सर्वासाम् प्रायदर्शनम् । निमित्तकारणहेतुषु सर्वा विभक्तयः प्रायेण दृश्यन्ते इति वक्तव्यम् ।

(P_2,3.23) KA_I,454.18-455.2 Ro_II,797 {2/20} किम् निमित्तम् वसति ।

(P_2,3.23) KA_I,454.18-455.2 Ro_II,797 {3/20} केन निमित्तेन वसति ।

(P_2,3.23) KA_I,454.18-455.2 Ro_II,797 {4/20} कस्मै निमित्ताय वसति ।

(P_2,3.23) KA_I,454.18-455.2 Ro_II,797 {5/20} कस्मात् निमित्तात् वसति ।

(P_2,3.23) KA_I,454.18-455.2 Ro_II,797 {6/20} कस्य निमित्तस्य वसति ।

(P_2,3.23) KA_I,454.18-455.2 Ro_II,797 {7/20} कस्मिन् निमित्ते वसति ।

(P_2,3.23) KA_I,454.18-455.2 Ro_II,797 {8/20} किम् कारणम् वसति ।

(P_2,3.23) KA_I,454.18-455.2 Ro_II,797 {9/20} केन कारणेन वसति ।

(P_2,3.23) KA_I,454.18-455.2 Ro_II,797 {10/20} कस्मै कारणाय वसति ।

(P_2,3.23) KA_I,454.18-455.2 Ro_II,797 {11/20} कस्मात् कारणात् वसति ।

(P_2,3.23) KA_I,454.18-455.2 Ro_II,797 {12/20} कस्य कारणस्य वसति ।

(P_2,3.23) KA_I,454.18-455.2 Ro_II,797 {13/20} कस्मिन् कारणे वसति ।

(P_2,3.23) KA_I,454.18-455.2 Ro_II,797 {14/20} कः हेतुः वसति ।

(P_2,3.23) KA_I,454.18-455.2 Ro_II,797 {15/20} कम् हेतुम् वसति ।

(P_2,3.23) KA_I,454.18-455.2 Ro_II,797 {16/20} केन हेतुना वसति ।

(P_2,3.23) KA_I,454.18-455.2 Ro_II,797 {17/20} कस्मै हेतवे वसति ।

(P_2,3.23) KA_I,454.18-455.2 Ro_II,797 {18/20} कस्मात् हेतोः वसति ।

(P_2,3.23) KA_I,454.18-455.2 Ro_II,797 {19/20} कस्य हेतोः वसति ।

(P_2,3.23) KA_I,454.18-455.2 Ro_II,797 {20/20} कस्मिन् हेतौ वसति ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {1/44} पञ्चमीविधाने ल्यब्लोपे कर्मणि उपसङ्ख्यानम्

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {2/44} पञ्चमीविधाने ल्यब्लोपे कर्मणि उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {3/44} प्रासादम् आरुह्य प्रेक्षते ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {4/44} प्रासादात्प्रेक्षते ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {5/44} अधिकरणे च

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {6/44} अधिकरणे च उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {7/44} आसनात् प्रेक्षते ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {8/44} शयनात् प्रेक्षते ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {9/44} प्रश्नाख्यानयोः च

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {10/44} प्रश्नाख्यानयोः च पञ्चमी वक्तव्या ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {11/44} कुतः भवान् ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {12/44} पाटलिपुत्रात् ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {13/44} यतः च अध्वकालनिर्माणम् । यतः च अध्वकालनिर्माणम् तत्र पञ्चमी वक्तव्या ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {14/44} गवीधुमतः सावकाश्यईम् चत्वारि योजनानि ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {15/44} कार्तिक्याः आग्रहायणी मासे ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {16/44} तद्युक्तात् काले सप्तमी । तद्युक्तात् काले सप्तमी वक्तव्या ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {17/44} कार्तिक्याः आग्रहायणी मासे ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {18/44} अध्वनः प्रथमा च । अध्वनः प्रथमा च सप्तमी च वक्तय्वा ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {19/44} गवीधुमतः सावकाश्यईम् चत्वारि योजनानि चतुर्षु योजनेषु ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {20/44} तत् तर्हि इदं बहु वक्तव्यम् ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {21/44} न वक्तव्यम् ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {22/44} अपादाने इति एव सिद्धम् ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {23/44} इह तावत् प्रासादात् प्रेक्षते ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {24/44} शयनात् प्रेक्षते इति ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {25/44} अपक्रामति तत् तस्मात् दर्शनम् ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {26/44} यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {27/44} सन्ततत्वात् ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {28/44} अथ वा अन्यान्यप्रादुर्भावा ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {29/44} प्रश्नाख्यानयोः च पञ्चमी वक्तव्या इति ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {30/44} इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {31/44} कुतः भवान् आगच्छति ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {32/44} पाटलिपुत्रात् आगच्छमि इति ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {33/44} यतः च अध्वकालनिर्माणम् तत्र पञ्चमी वक्तव्या इति ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {34/44} इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते गवीधुमतः निःसृत्य साङ्काश्यम् चत्वारि योजनानि ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {35/44} कार्तिक्याः आग्रहायणी मासे इति ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {36/44} इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {37/44} कार्त्तिक्याः प्रभृति आग्रहायणी मास इति ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {38/44} तद्युक्तात् काले सप्तमी वक्तव्या इति ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {39/44} इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {40/44} कार्त्तिक्याः आग्रहायणी गते मासे इति ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {41/44} अध्वनः प्रथमा च सप्तमी च इति ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {42/44} इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {43/44} गवीधुमतो निःसृत्य यदा चत्वारि योजनानि गतानि भवन्ति ततः साङ्काश्यम् ।

(P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 {44/44} चतुर्षु योजनेषु गतेषु साङ्काश्यम् इति ।

(P_2,3.29) KA_I,456.7-8 Ro_II,800 {1/3} अञ्चूत्तरपदग्रहणम् किमर्थम् न दिक्शब्दैः योगे इति एव सिद्धम् ।

(P_2,3.29) KA_I,456.7-8 Ro_II,800 {2/3} षष्ठी अतसर्थप्रत्ययेन इति वक्ष्यति ।

(P_2,3.29) KA_I,456.7-8 Ro_II,800 {3/3} तस्य अयम् पुरस्तात् अपकर्षः ।

(P_2,3.30) KA_I,456.10-15 Ro_II,801 {1/11} अर्थग्रहणम् किमर्थम् ।

(P_2,3.30) KA_I,456.10-15 Ro_II,801 {2/11} षष्ठी अतस्प्रत्ययेन इति उच्यमाने इह एव स्यात् ।

(P_2,3.30) KA_I,456.10-15 Ro_II,801 {3/11} दक्षिणतो ग्रामस्य उत्तरतो ग्रामस्य इति ।

(P_2,3.30) KA_I,456.10-15 Ro_II,801 {4/11} इह न स्यात् ।

(P_2,3.30) KA_I,456.10-15 Ro_II,801 {5/11} उपरि ग्रामस्य उपरिष्टात् ग्रामस्य इति ।

(P_2,3.30) KA_I,456.10-15 Ro_II,801 {6/11} अर्थग्रहणे पुनः क्रियमाणे अतस्प्रत्ययेन च सिद्धम् भवति यः च अन्यः तेन समानार्थः ।

(P_2,3.30) KA_I,456.10-15 Ro_II,801 {7/11} अथ प्रत्ययग्रहणम् किमर्थम् ।

(P_2,3.30) KA_I,456.10-15 Ro_II,801 {8/11} इह मा भूत् ।

(P_2,3.30) KA_I,456.10-15 Ro_II,801 {9/11} प्राक् ग्रामात् प्रत्यक् ग्रामात् ।

(P_2,3.30) KA_I,456.10-15 Ro_II,801 {10/11} अञ्चूत्तरपदस्य अपि एतत् प्रयोजनम् उक्तम् ।

(P_2,3.30) KA_I,456.10-15 Ro_II,801 {11/11} तत्र अन्यतरत् शक्यम् अकर्तुम् ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {1/38} पृथगादिषु पञ्चमीविधानम्

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {2/38} पृथगादिषु पञ्चमीविधेया ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {3/38} पृथक् देवदत्तात् ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {4/38} किमर्थम् न प्रकृतम् पञ्चमीग्रहणम् अनुवर्तते ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {5/38} क्व प्रकृतम् ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {6/38} अपादाने पञ्चमी इति। अनधिकारात्

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {7/38} अनधिकारः सः ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {8/38} अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {9/38} अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः वक्तव्यः स्यात् ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {10/38} दक्षिणेन ग्रामम् , दक्षिणतः ग्रामस्य ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {11/38} एवम् तर्हि अन्यतरस्याङ्ग्रहणसामर्थ्यात् पञ्चमी भविष्यति ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {12/38} अस्ति अन्यत् अन्यतरस्याङ्ग्रहणस्य प्रयोजनम् ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {13/38} किम् ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {14/38} यस्याम् न अप्राप्तायाम् तृतीया आरभ्यते सा यथा स्यात् ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {15/38} कस्याम् च न अप्राप्तायाम् ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {16/38} अन्ततः षष्ठ्याम् ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {17/38} तत् तर्हि वक्तव्यम् ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {18/38} न वक्तव्यम् ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {19/38} प्रकृतम् अनुवर्तते ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {20/38} क्व प्रकृतम् ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {21/38} अपादाने पञ्चमी इति ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {22/38} ननु च उक्तम् अनधिकारः सः अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः इति ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {23/38} एवम् तर्हि सम्बन्धम् अनुवर्तिष्यते ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {24/38} अपादाने पञ्चमी ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {25/38} अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते पञ्चमी ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {26/38} षष्ठी अतसर्थप्रत्ययेन अन्यारादिभिः योगे पञ्चमी ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {27/38} एनपा द्वितीया अन्यारादिभिर्योगे पञ्चमी ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {28/38} पृथग्विनानानाभिः तृतीया अन्यतरस्याम् ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {29/38} पञ्चमीग्रहणम् अनुवर्तते अन्यारादिभिः योगे इति निवृत्तम् ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {30/38} अथ वा मण्डूकगतयः अधिकाराः ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {31/38} तत्। यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {32/38} अथ वा अन्यवचनात् चकाराकरणात् प्रकृतस्य अपवादः विज्ञायते यथा उत्सर्गेण प्रसक्तस्य ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {33/38} अन्यस्या विभक्तेः वचनात् चकारस्य अनुकर्षणार्थस्य अकरणात् प्रकृतायः पञ्चम्याः द्वितीयाषष्ठ्यौ बाधिके भविष्यतः यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {34/38} अथ वा वक्ष्यति एतत् ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {35/38} अनुवर्तन्ते च नाम विधयः ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {36/38} न च अनुवर्तनात् एव भवन्ति ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {37/38} किम् तर्हि ।

(P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 {38/38} यत्नात् भवन्ति इति ।

(P_2,3.35) KA_I,457.17-23 Ro_II,803-804 {1/7} दूरान्तिकार्थेभ्यः पञ्चमीविधाने तद्युक्तात् पञ्चमीप्रतिषेधः

(P_2,3.35) KA_I,457.17-23 Ro_II,803-804 {2/7} दूरान्तिकार्थेभ्यः पञ्चमीविधाने तद्युक्तात्पञ्चम्याः प्रतिषेधः वक्तव्यः ।

(P_2,3.35) KA_I,457.17-23 Ro_II,803-804 {3/7} दूराद् ग्रामस्य ।

(P_2,3.35) KA_I,457.17-23 Ro_II,803-804 {4/7} न वा तत्र अपि दर्शनात् अप्रतिषेधः

(P_2,3.35) KA_I,457.17-23 Ro_II,803-804 {5/7} न वा तत्र अपि दर्शनात् पञ्चम्याः प्रतिषेधः अनर्थकः ।

(P_2,3.35) KA_I,457.17-23 Ro_II,803-804 {6/7} तत्र अपि पञ्चमी दृश्यते ।

(P_2,3.35) KA_I,457.17-23 Ro_II,803-804 {7/7} दूरात् आवसथात् मूत्रम् दूरात् पादावसेचनम् दूरात् च भाव्यम् दस्युभ्यः दूरात् च कुपितात् गुरोः ।

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {1/27} सप्तमीविधाने क्तस्य इन्विषयस्य कर्मणि उप्सङ्ख्यानम्

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {2/27} सप्तमीविधाने क्तस्य इन्विषयस्य कर्मणि उप्सङ्ख्यानम् वक्तव्यम् ।

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {3/27} अधीती व्याकरणे ।

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {4/27} परिगणिती याज्ञिक्ये ।

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {5/27} आम्नाती च्छन्दसि ।

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {6/27} साध्वसाधुप्रयोगे च

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {7/27} साध्वसाधुप्रयोगे च सप्तमी वक्तव्या ।

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {8/27} साधुः देवदत्तः मातरि ।

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {9/27} असाधुः पितरि ।

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {10/27} कारकार्हाणाम् च कारकत्वे

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {11/27} कारकार्हाणाम् च कारकत्वे सप्तमी वक्तव्या ।

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {12/27} ऋद्धेषु भुञ्जानेषु दरिद्राः आसते ।

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {13/27} ब्राह्मणेषु तरत्सु वृषलाः आसते ।

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {14/27} अकारकार्हाणाम् चाकारकत्वे

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {15/27} अकारकार्हाणाम् चाकारकत्वे सप्तमी वक्तव्या ।

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {16/27} मूर्खेषु आसीनेषु वृद्धाः भुञ्जते ।

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {17/27} वृषलेषु आसीनेषु ब्राह्मणाः तरन्ति ।

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {18/27} तद्विपर्यासे च

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {19/27} तद्विपर्यासे च सप्तमी वक्तव्या ।

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {20/27} ऋद्धेषु आसीनेषु मूर्खाः भुञ्जते ।

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {21/27} ब्राह्मणेषु आसीनेषु वृषलाः तरन्ति ।

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {22/27} निमित्तात् कर्मसंयोगे

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {23/27} निमित्तात्कर्मसंयोगे सप्तमी वक्तव्या ।

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {24/27} चर्मणि द्वीपिनम् हन्ति ।

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {25/27} दन्तयोः हन्ति कुञ्जरम् ।

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {26/27} केषेषु चमरीम् हन्ति ।

(P_2,3.36) KA_I,458.2-29 Ro_II,804-806 {27/27} सीम्नि पुष्कलकः हतः ।

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {1/22} भावलक्षणे सप्तमीविधाने अभावलक्षणे उपसङ्ख्यानम्

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {2/22} भावलक्षणे सप्तमीविधाने अभावलक्षणे उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {3/22} अग्निषु हूयमानेषु प्रस्थितः हुतेषु आगतः ।

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {4/22} गोषु दुह्यमानासु प्रस्थितः दुग्धासु आगतः ।

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {5/22} किम् पुनः कारणम् न सिध्यति ।

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {6/22} लक्षणम् हि नाम तत् भवति येन पुनः पुनः लक्ष्यते ।

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {7/22} सकृत् च असौ कथम् चित् अग्निषु हूयमानेषु प्रस्थितः हुतेषु आगतः गोषु दुह्यमानासु प्रस्थितः दुग्धासु आगतः ।

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {8/22} सिद्धम् तु भावप्रवृत्तौ यस्य भावारम्भवचनात्

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {9/22} सिद्धमेतत् ।

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {10/22} कथम् ।

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {11/22} यस्य भावप्रवृत्तौ द्वितीयः भावः आरभ्यते तत्र सप्तमी वक्तव्या ।

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {12/22} सिध्यति ।

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {13/22} सूत्रम् तर्हि भिद्यते ।

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {14/22} यथान्यासम् एव अस्तु ।

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {15/22} ननु च उक्तम् भावलक्षणे सप्तमीविधाने अभावलक्षणे उपसङ्ख्यानम् इति ।

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {16/22} न एषः दोषः ।

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {17/22} न खलु अवश्यम् तत् एव लक्षणम् भवति येन पुनः पुनः लक्ष्यते ।

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {18/22} सकृत् अपि यत् निमित्तत्वाय कल्पते तत् अपि लक्षणम् भवति ।

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {19/22} तत् यथा ।

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {20/22} अपि भवान् कमण्डलुपाणिम् छात्रम् अद्राक्षीत् इति ।

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {21/22} सकृत् असौ कमण्डलुपाणिः दृष्टः छात्रः ।

(P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 {22/22} तस्य तत् एव लक्षणम् भवति ।

(P_2,3.42) KA_I,459.12-16 Ro_II,807 {1/13} इह कस्मात् न भवति ।

(P_2,3.42) KA_I,459.12-16 Ro_II,807 {2/13} कृष्णा गवाम् सम्पन्नक्षीरतमा इति ।

(P_2,3.42) KA_I,459.12-16 Ro_II,807 {3/13} विभक्ते इति उच्यते ।

(P_2,3.42) KA_I,459.12-16 Ro_II,807 {4/13} न च एतत् विभक्तम् ।

(P_2,3.42) KA_I,459.12-16 Ro_II,807 {5/13} विभक्तमेतत् ।

(P_2,3.42) KA_I,459.12-16 Ro_II,807 {6/13} गोभ्यः कृष्णा विभज्यते ।

(P_2,3.42) KA_I,459.12-16 Ro_II,807 {7/13} विभक्तम् एव यत् नित्यम् तत्र भवितव्यम् ।

(P_2,3.42) KA_I,459.12-16 Ro_II,807 {8/13} न च एतत् नित्यम् विभक्तम् ।

(P_2,3.42) KA_I,459.12-16 Ro_II,807 {9/13} किम् वक्तव्यम् एतत् ।

(P_2,3.42) KA_I,459.12-16 Ro_II,807 {10/13} न हि ।

(P_2,3.42) KA_I,459.12-16 Ro_II,807 {11/13} कथम् अनुच्यमानम् गंस्यते ।

(P_2,3.42) KA_I,459.12-16 Ro_II,807 {12/13} विभक्तग्रहणसामर्थ्यात् ।

(P_2,3.42) KA_I,459.12-16 Ro_II,807 {13/13} यदि हि यत् विभक्तम् च अविभक्तम् च तत्र स्यात् विभाक्तग्रहणम् अनर्थकम् स्यात् ।

(P_2,3.43) KA_I,459.18-19 Ro_II,808 {1/4} अप्रत्यादिभिः इति वक्तव्यम् ।

(P_2,3.43) KA_I,459.18-19 Ro_II,808 {2/4} इह अपि यथा स्यात् ।

(P_2,3.43) KA_I,459.18-19 Ro_II,808 {3/4} साधुः देवदत्तः मातरम् परि ।

(P_2,3.43) KA_I,459.18-19 Ro_II,808 {4/4} मातरम् अनु ।

(P_2,3.44) KA_I,459.21-22 Ro_II,808 {1/5} प्रसितः इति उच्यते कः प्रसितः नाम ।

(P_2,3.44) KA_I,459.21-22 Ro_II,808 {2/5} यः तत्र नित्यम् प्रतिबद्धः ।

(P_2,3.44) KA_I,459.21-22 Ro_II,808 {3/5} कुतः एतत् ।

(P_2,3.44) KA_I,459.21-22 Ro_II,808 {4/5} सिनोतिः अयम् बध्नात्यर्थे वर्तते ।

(P_2,3.44) KA_I,459.21-22 Ro_II,808 {5/5} बद्धः इव असौ तत्र भवति ।

(P_2,3.45) KA_I,460.2 Ro_II,808 {1/4} इह कस्मात् न भवति ।

(P_2,3.45) KA_I,460.2 Ro_II,808 {2/4} अद्य पुष्यः ।

(P_2,3.45) KA_I,460.2 Ro_II,808 {3/4} अद्य मघा इति ।

(P_2,3.45) KA_I,460.2 Ro_II,808 {4/4} अधिकरणे इति वर्तते ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {1/47} प्रातिपदिकग्रहणम् किमर्थम् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {2/47} उच्चैः नीचैः इति आपि यथा स्यात् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {3/47} किम् पुनः अत्र प्रथमया प्रार्थ्यते ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {4/47} पदत्वम् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {5/47} न एतत् अस्ति ।षष्ठ्या अत्र पदत्वम् भविष्यति ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {6/47} इदम् तर्हि प्रयोजनम् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {7/47} ग्रामः उचैः ते स्वम् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {8/47} ग्रामः उच्चैः तव स्वम् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {9/47} सपूर्वायाः प्रथमायाः विभाषा इति एषः विधिः यथा स्यात् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {10/47} अथ लिङ्गग्रहणम् किमर्थम् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {11/47} स्त्री पुमान् नपुंसकम् इति अत अपि यथा स्यात् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {12/47} न एतत् अस्ति प्रयोजनम् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {13/47} एषः एव अत्र प्रातिपदिकार्थः ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {14/47} इदम् तर्हि ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {15/47} कुमारी वृक्षः कुण्डम् इति ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {16/47} अथ परिमाणग्रहणम् किमर्थम् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {17/47} द्रोणः खारी आढकम् इति अत्र अपि यथा स्यात् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {18/47} अथ वचनग्रहणम् किमर्थम् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {19/47} इह समुदाये वाक्यपरिसमाप्तिः दृश्यते ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {20/47} तत् यथा ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {21/47} गर्गाः शतम् दण्ड्यन्ताम् इति ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {22/47} अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {23/47} सति एतस्मिन् दृष्टान्ते यत्र एतानि समुदितानि भवन्ति तत्र एव स्यात् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {24/47} द्रोणः खारी आढकम् इति ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {25/47} इह न स्यात् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {26/47} कुमारी वृक्षः कुण्डम् इति ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {27/47} न एतत् अस्ति प्रयोजनम् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {28/47} प्रत्येकम् अपि वाक्यपरिसमाप्तिः दृश्यते ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {29/47} तत् यथा वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {30/47} इदम् तर्हि प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {31/47} एकः द्वौ बहवः इति ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {32/47} अथ मात्रग्रहणम् किमर्थम् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {33/47} एतन्मात्रे एव प्रथमा यथा स्यात् कर्मादिविशिष्टे मा भूत् इति ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {34/47} कटम् करोति ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {35/47} न एतत् अस्ति प्रयोजनम् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {36/47} कर्मादिषु द्वितीयाद्याः विभक्तयः ताः कर्मादिविशिष्टे बाधिकाः भविष्यन्ति ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {37/47} अथ वा आचार्यप्रवृत्तिः ज्ञापयति न कर्मादिविशिष्टे प्रथमा भवति इति यत् अयम् सम्बोधने प्रथमाम् शास्ति ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {38/47} न एतत् अस्ति ज्ञापकम् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {39/47} अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {40/47} किम् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {41/47} सा आमन्त्रितम् इति वक्ष्यामि इति ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {42/47} यत् तर्हि योगविभागम् करोति ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {43/47} इतरथा हि सम्बोधने आमन्त्रितम् इति एव ब्रूयात् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {44/47} इदम् तर्हि उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {45/47} एकः द्वौ बहवः इति ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {46/47} वचनग्रहणस्य अपि एतत् प्रयोजनम् उक्तम् ।

(P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 {47/47} अन्यतरत् शक्यम् अकर्तुम् ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {1/54} प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्ये उपसङ्ख्यानम् अधिकत्वात्

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {2/54} प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्ये उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {3/54} वीरः पुरुषः ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {4/54} किम् पुनः कारणम् न सिध्यति ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {5/54} अधिकत्वात् ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {6/54} व्यतिरिक्तः प्रातिपदिकार्थः इति कृत्वा प्रथमा न प्राप्नोति ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {7/54} कथम् व्यतिरिक्तिः ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {8/54} पुरुषे वीरत्वम् ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {9/54} न वा वाक्यार्थत्वात्

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {10/54} न वा वक्तव्यम् ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {11/54} किम् कारणम् ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {12/54} वाक्यार्थत्वात् ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {13/54} यत् अत्र आधिक्यम् वाक्यार्थः सः ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {14/54} अथ वा अभिहिते प्रथमा इति एतत् लक्षणम् करिय्ष्यते ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {15/54} अभिहितलक्षणायाम् अनभिहिते प्रथमाविधिः । अभिहितलक्षणायामनभिहिते प्रथमा विधेया ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {16/54} वृक्षः प्लक्षः इति ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {17/54} उक्तम् वा । किम् उक्तम् ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {18/54} अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {19/54} वृक्षः प्लक्षः ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {20/54} अस्ति इति गम्यते ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {21/54} अभिहितानभिहिते प्रथमाभावः । अभिहितानभ्हिते प्रथमा प्राप्नोति ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {22/54} क्व ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {23/54} प्रासादे आस्ते ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {24/54} शयने आस्ते ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {25/54} सदिप्रत्ययेन अभिहितम् अधिकरणम् इति कृत्वा प्रथमा प्राप्नोति ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {26/54} एवम् तर्हि तिङ्समानाधिकरणे प्रथमा इति एतत् लक्षणं करिष्यते ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {27/54} तिङ्समानाधिकरणे इति चेत् तिङः अप्रयोगे प्रथमाविधिः । तिङ्समानाधिकरणे इति चेत् तिङः अप्रयोगे प्रथमा विधेया ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {28/54} वृक्षः प्लक्ष इति ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {29/54} उक्तम् पूर्वेण

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {30/54} किम् उक्तम् ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {31/54} अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {32/54} वृक्षः प्लक्षः ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {33/54} अस्ति इति गम्यते ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {34/54} शतृशानचोः च निमित्तभावात् तिङः अभावः तयोः अपवादत्वात्

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {35/54} शतृशानचोः च निमित्तभावात् तिङः अभावः ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {36/54} क्व ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {37/54} पचति ओदनम् देवदत्तः इति ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {38/54} किम् कारणम् ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {39/54} तयोः अपवादत्वात् ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {40/54} शतृशानचौ तिङपवादौ ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {41/54} तौ च अत्र बाधकौ ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {42/54} न च अपवादविषये उत्सर्गः अभिनिविशते ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {43/54} पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गः ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {44/54} प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {45/54} तत् न तावत् अत्र कदा चित् तिङादेशो भवति ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {46/54} अपवादौ तावत् शतृशानचौ प्रतीक्षते ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {47/54} पाक्षिकः एषः दोषः ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {48/54} कतरस्मिन् पक्षे ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {49/54} शतृशानचोः द्वैतम् भवति ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {50/54} अप्रथमा वा विधिना आश्रीयते प्रथमा वा प्रतिषेधेन इति ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {51/54} विभक्तिनियमे च अपि द्वैतम् भवति ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {52/54} विभक्तिनियमः वा स्यात् अर्थनियमः वा इति ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {53/54} तत् यदा तावत् अर्थनियमः अप्रथमा च विधिना आश्रीयते तदा एष दोषः भवति ।

(P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 {54/54} यदा हि विभक्तिनियमः यदि एव अप्रथमा विधिना आश्रीयते अथ अपि प्रथमा प्रतिषेधेन न तदा दोषः भवति

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {1/72} शेषे इति उच्यते। कः शेषः नाम ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {2/72} कर्मादिभ्यः ये अन्ये अर्थाः सः शेषः ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {3/72} यदि एवम् शेषः न प्रकल्पते ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {4/72} न हि कर्मादिभ्यः अन्ये अर्थाः सन्ति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {5/72} इह तावत् राज्ञः पुरुषः इति राजा कर्ता पुरुषः सम्प्रदानम् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {6/72} वृक्षस्य शाखा इति वृक्षः शाख्यायाः अधिकरणम् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {7/72} तथा यत् एतत् स्वम् नाम चतुर्भिः एतत् प्रकारैः भवति क्रयणात् अपहरणात् याञ्चायाः विनिमयात् इति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {8/72} अत्र च सर्वत्र कर्मादयः सन्ति। एवम् तर्हि कर्मादीनाम् अविवक्षा शेषः ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {9/72} कथम् पुनः सतः नाम अवाविवक्षा स्यात् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {10/72} सतः अपि अविवक्षा भवति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {11/72} तत् यथा ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {12/72} अलोमिका एडका ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {13/72} अनुदरा कन्या इति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {14/72} असतः च विवक्षा भवति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {15/72} समुद्रः कुण्डिका ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {16/72} विन्ध्यः वर्धितकम् इति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {17/72} किमर्थम् पुनः शेषग्रहणम् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {18/72} प्रत्ययावधारणात् शेषवचनम् । प्रत्ययावधारणात् शेषवचनम् कर्तव्यम् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {19/72} प्रत्ययाः नियताः अर्थाः अनियताः तत्र षष्ठी प्राप्नोति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {20/72} तत्र शेषग्रहणम् कर्तव्यम् षष्ठीनियमार्थम् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {21/72} शेषे एव षष्ठी भवति न अन्यत्र इति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {22/72} अर्थावधारणात् वा

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {23/72} अथ वा अर्थाः नियताः प्रत्ययाः अनियताः ते शेषे अपि प्राप्नुवन्ति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {24/72} तत्र शेषग्रहणम् कर्तव्यम् शेषनियमार्थम् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {25/72} शेषे षष्ठी एव भवति न अन्या इति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {26/72} अर्थनियमे शेषग्रहणम् शक्यम् अकर्तुम् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {27/72} कथम् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {28/72} अर्थाः नियताः प्रत्ययाः अनियताः ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {29/72} ततः वक्ष्यामि षष्ठी भवति इति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {30/72} तत् नियमार्थम् भविष्यति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {31/72} यत्र षष्ठी च अन्या च प्राप्नोति षष्ठी एव तत्र भवति इति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {32/72} षष्ठी शेषे इति चेत् विशेष्यस्य प्रतिषेधः

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {33/72} षष्ठी शेषे इति चेत् विशेष्यस्य प्रतिषेधः वक्तव्यः ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {34/72} राज्ञः पुरुषः इति अत्र राजा विशेषणम् पुरुषः विशेष्यः ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {35/72} तत्र प्रातिपदिकार्थः व्यतिरिक्तः इति कृत्वा प्रथमा न प्राप्नोति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {36/72} तत्र षष्ठी स्यात् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {37/72} तस्याः प्रतिषेधः वक्तव्यः ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {38/72} तत्र प्रथमाविधिः

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {39/72} तत्र षष्ठीम् प्रतिषिध्य प्रथमा विधेया ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {40/72} राज्ञः पुरुषः इति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {41/72} उक्तम् पूर्वेण

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {42/72} किमुक्तम् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {43/72} न वा वाक्यार्थत्वात् इति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {44/72} यदत्रादिख्यम् वाक्यार्थः सः ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {45/72} कुतः नु खलु एतत् पुरुषे यत् आदिख्यम् सः वाक्यार्थः इति न पुनः राजनि यत् आधिक्यम् सः वाक्यार्थः स्यात् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {46/72} अन्तरेण अपि पुरुषशब्दप्रयोगम् राजनि सः अर्थः गम्यते ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {47/72} न पुनः अन्तरेण राजशब्दप्रयोगम् पुरुषे सः अर्थः गम्यते ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {48/72} अस्ति कारणम् येन एतत् एवम् भवति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {49/72} किम् कारणम् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {50/72} राजशब्दात् हि भवान् षष्ठीम् उच्चारयति। अङ्ग हि भवान् पुरुषशब्दात् अपि उच्चारयतु गंस्यते सः अर्थः ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {51/72} ननु च न एतेन एवम् भवितव्यम् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {52/72} न हि शब्दकृतेन नाम अर्थेन भवितव्यम् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {53/72} अर्थकृतेन नाम शब्देन भवितव्यम् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {54/72} तत् एतत् एवम् दृश्यताम् : अर्थरूपम् एव एतत् एवञ्जातीयकम् येन अत्र अन्तरेण अपि पुरुषशब्दप्रयोगम् राजनि सः अर्थः गम्यते ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {55/72} किम् पुनः तत् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {56/72} स्वामित्वम् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {57/72} किङ्कृतम् पुनः तत् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {58/72} स्वकृतम् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {59/72} तत् यथा : प्रातिपदिकार्थानाम् क्रियाकृताः विशेषाः उपजायन्ते तत्कृताः च आख्याः प्रादुर्भवन्ति कर्म करणम् अपादानं सम्प्रदानम् अधिकरणम् इति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {60/72} ताः च पुनः विभक्तीनाम् उत्पत्तौ कदा चित् निमित्तत्वेन उपादीयन्ते कदा चित् न ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {61/72} कदा च विभक्तीनाम् उत्पत्तौ निमित्तत्वेन उपादीयन्ते ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {62/72} यदा व्यभिचरन्ति प्रातिपदिकार्थम् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {63/72} यदा हि न व्यभिचरन्ति आख्याभूताः एव तदा भवन्ति कर्म करणम् अपादानम् सम्प्रदानम् अधिकरणम् इति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {64/72} यथा एव तर्हि राजनि स्वकृतम् स्वामित्वम् तत्र षष्ठी एवम् पुरुषे अपि स्वामिकृतम् स्वत्वम् ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {65/72} तत्र षष्ठी प्राप्नोति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {66/72} राजशब्दात् उत्पद्यमानया षष्ठ्या अभिहितः सः अर्थः इति कृत्वा पुरुषशब्दात् षष्ठी न भविष्यति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {67/72} न तर्हि इदानीम् इदम् भवति पुरुषस्य राजा इति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {68/72} भवति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {69/72} राजशब्दात् तु तदा प्रथमा ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {70/72} न तर्हि इदानीम् इदम् भवति : राज्ञः पुरुषस्य इति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {71/72} भवति ।

(P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 {72/72} बाह्यम् अर्थम् अभिसमीक्ष्य ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {1/39} कर्मादिषु अकर्मकवद्वचनम् । कर्मादिषु अकर्मकवद्भावः वक्तव्यः ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {2/39} किम् प्रयोजनम् ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {3/39} अकर्मकाणाम् भावे लः भवति ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {4/39} भावे लः यथा स्यात् ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {5/39} मातुः स्मर्यते ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {6/39} पितुः स्मर्यते ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {7/39} अथ वत्करणम् किमर्थम् ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {8/39} स्वाश्रयम् अपि यथा स्यात् ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {9/39} माता स्मर्यते ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {10/39} पिता स्मर्यते इति ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {11/39} कर्माभिधाने हि लिङ्गवचनानुपपत्तिः

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {12/39} कर्माभिधाने हि सति लिङ्गवचनयोः अनुपपत्तिः स्यात् ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {13/39} मातुः स्मृतम् ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {14/39} मात्रोः स्मृतम् ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {15/39} माटॄणाम् स्मृतम् इति ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {16/39} मातुः यत् लिङ्गम् वचनम् च तत् स्मृतशब्दस्य अपि प्राप्नोति ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {17/39} षष्ठीप्रसण्गः च

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {18/39} षष्ठी च प्राप्नोति ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {19/39} कुतः ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {20/39} स्मृतशब्दात् ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {21/39} मातुः सामानाधिकरण्यात् षष्ठी प्राप्नोति ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {22/39} अपरः आह : षष्ठीप्रसङ्गः च

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {23/39} षष्ठी च प्रसङ्क्तव्या ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {24/39} कुतः ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {25/39} मातृशब्दात् ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {26/39} स्मृतशब्देन भिहितम् कर्म इति कृत्वा षष्ठी न प्राप्नोति ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {27/39} तत् तर्हि वक्तव्यम् ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {28/39} न वक्तव्यम् ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {29/39} अविवक्षिते कर्मणि षष्ठी भवति ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {30/39} किम् वक्तव्यम् एतत् ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {31/39} न हि ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {32/39} कथम् अनुच्यमानम् गंस्यते ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {33/39} शेषे इति वर्तते ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {34/39} शेषः च कः ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {35/39} कर्मादीनाम् अविवक्षा शेषः ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {36/39} यदा कर्म विवक्षितम् भवति तदा षष्ठी न भवति ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {37/39} तत् यथा ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {38/39} स्मरामि अहम् मातरम् ।

(P_2,3.52) KA_I,465.2-17 Ro_II,826-827 {39/39} स्मरामि अहम् पितरम् इति ।

(P_2,3.54) KA_I,465.19-22 Ro_II,828 {1/8} अज्वरिसन्ताप्योः इति वक्तव्यम् ।

(P_2,3.54) KA_I,465.19-22 Ro_II,828 {2/8} इह अपि यथा स्यात् ।

(P_2,3.54) KA_I,465.19-22 Ro_II,828 {3/8} चौरम् सन्तापयति ।

(P_2,3.54) KA_I,465.19-22 Ro_II,828 {4/8} वृषलम् सन्तापयति ।

(P_2,3.54) KA_I,465.19-22 Ro_II,828 {5/8} अथ किमर्थम् भाववचनानाम् इति उच्यते यावता रुजार्थाः भाववचनाः एव भवन्ति ।

(P_2,3.54) KA_I,465.19-22 Ro_II,828 {6/8} भावकर्तृकात् यथा स्यात् ।

(P_2,3.54) KA_I,465.19-22 Ro_II,828 {7/8} इह मा भूत् ।

(P_2,3.54) KA_I,465.19-22 Ro_II,828 {8/8} नदी कूलानि रुजति इति ।

(P_2,3.60) KA_I,466.2-3 Ro_II,828-829 {1/8} किम् उदाहरणम् ।

(P_2,3.60) KA_I,466.2-3 Ro_II,828-829 {2/8} गाम् घ्नन्ति ।

(P_2,3.60) KA_I,466.2-3 Ro_II,828-829 {3/8} गाम् प्रदीव्यन्ति ।

(P_2,3.60) KA_I,466.2-3 Ro_II,828-829 {4/8} गाम् सभासद्भ्यः उपहरन्ति ।

(P_2,3.60) KA_I,466.2-3 Ro_II,828-829 {5/8} न एतत् अस्ति ।

(P_2,3.60) KA_I,466.2-3 Ro_II,828-829 {6/8} पूर्वेण अपि एतत् सिद्धम् ।

(P_2,3.60) KA_I,466.2-3 Ro_II,828-829 {7/8} इदम् तर्हि ।

(P_2,3.60) KA_I,466.2-3 Ro_II,828-829 {8/8} गामस्य तदहः सभायाम् दीव्येयुः ।

(P_2,3.61) KA_I,466.5-6 Ro_II,829 {1/3} हविषः अप्रस्थितस्य

(P_2,3.61) KA_I,466.5-6 Ro_II,829 {2/3} हविषः अप्रस्थितस्य इति वक्तव्यम् ।

(P_2,3.61) KA_I,466.5-6 Ro_II,829 {3/3} इन्द्राग्निभ्याम् छागम् हविः वपाम् मेदः प्रस्थितम् प्रेष्य ।

(P_2,3.62) KA_I,466.10-17 Ro_II,830 {1/12} षष्ठ्यर्थे चतुर्थीवचनम्

(P_2,3.62) KA_I,466.10-17 Ro_II,830 {2/12} षष्ठ्यर्थे चतुर्थी वक्तव्या ।

(P_2,3.62) KA_I,466.10-17 Ro_II,830 {3/12} या खर्वेण पिबति तस्यै खर्वः तिस्रः रात्रीः ।

(P_2,3.62) KA_I,466.10-17 Ro_II,830 {4/12} तस्याः इति प्राप्ते ।

(P_2,3.62) KA_I,466.10-17 Ro_II,830 {5/12} यः ततः जायते सः भिशस्तः याम् अरण्ये तस्यै स्तेनः याम् पराचीम् तस्यै ह्रीतमुखी अपगगल्भः या स्नाति तस्यै अप्सु मारुकः या अभ्यङ्क्ते तस्यै दुश्चर्मा या प्रलिखते तस्यै खलतिः अपमारी या आङ्क्ते तस्यै काणः या दतः धावते तस्यै श्यावदन् या नखनि निकृन्तते तस्यै कुनखॄ या कृणत्ति तस्यै क्लीबः या रज्जुम् सृजति तस्यै उद्बन्धुकः या पर्णेन पिबति तस्यै उन्मादुकः जायते ।

(P_2,3.62) KA_I,466.10-17 Ro_II,830 {6/12} अहल्यायै जारः ।

(P_2,3.62) KA_I,466.10-17 Ro_II,830 {7/12} मनाय्यै तन्तुः ।

(P_2,3.62) KA_I,466.10-17 Ro_II,830 {8/12} तत् तर्हि वक्तव्यम् ।

(P_2,3.62) KA_I,466.10-17 Ro_II,830 {9/12} न वक्तव्यम् ।

(P_2,3.62) KA_I,466.10-17 Ro_II,830 {10/12} योगविभागात् सिद्धम् ।

(P_2,3.62) KA_I,466.10-17 Ro_II,830 {11/12} चतुर्थी ।

(P_2,3.62) KA_I,466.10-17 Ro_II,830 {12/12} ततः अर्थे बहुलम् छन्दसि इति ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {1/68} कृद्ग्रहणम् किमर्थम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {2/68} इह मा भूत् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {3/68} पचति ओदनम् देवदत्तः इति ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {4/68} कर्तृकर्मणोः षष्ठीविधाने कृद्ग्रहणानर्थक्यम् लप्रतिषेधात्

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {5/68} कर्तृकर्मणोः षष्ठीविधाने कृद्ग्रहणम् अनर्थकम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {6/68} किम् कारणम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {7/68} लप्रतिषेधात् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {8/68} प्रतिषिध्यते तत्र षष्थी लप्रयोगे न इति ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {9/68} तस्य कर्मकर्त्रर्थम् तर्हि कृद्ग्रहणम् कर्तव्यम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {10/68} कृतः ये कर्तृकर्मणी तत्र यथा स्यात् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {11/68} अन्यस्य ये कर्तृकर्मणी तत्र मा भूत् इति ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {12/68} न एतत् अस्ति प्रयोजनम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {13/68} धातोः हि द्वये प्रत्ययाः विधीयन्ते तिङः च कृतः च ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {14/68} तत्र कृत्प्रयोगे इष्यते तिङ्प्रयोगे प्रतिषिध्यते ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {15/68} न ब्रूमः इहार्थम् तस्य कर्मकर्त्रर्थम् कृद्ग्रहणम् कर्तव्यम् इति ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {16/68} किम् तर्हि ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {17/68} उत्तरार्थम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {18/68} अव्ययप्रयोगे न इति षष्ठ्याः प्रतिषेधम् वक्ष्यति ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {19/68} सः कृतः अव्ययस्य ये कर्तृकर्मणी तत्र यथा स्यात् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {20/68} अकृतः अव्ययस्य ये कर्तृकर्मणी तत्र मा भूत् इति ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {21/68} उच्चैः कटानाम् स्रष्टा इति ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {22/68} तस्य कर्मकर्त्रर्थम् इति चेत् प्रतिषेधे अपि तदन्तकर्मकर्तृत्वात् सिद्धम्

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {23/68} कृतः एते कर्तृकर्मणी न अव्ययस्य ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {24/68} अधिकरणम् अत्र अव्ययम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {25/68} इदम् तर्हि प्रयोजनम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {26/68} उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधम् वक्ष्यति ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {27/68} सः कृतः ये कर्तृकर्मणी तत्र यथा स्यात् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {28/68} कृतोः ये कर्तृकर्मणी तत्र मा भूत् इति ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {29/68} आश्चर्यम् इदम् वृत्तम् ओदनस्य च नाम पाकः ब्राह्मणानाम् च प्रादुर्भावः इति ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {30/68} अथ क्रियमाणे अपि कृद्ग्रहणे कस्मात् एव अत्र न भवति ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {31/68} उभयप्राप्तौ इति न एवम् विज्ञायते उभयोः प्राप्तिः उभयप्राप्तिः उभयप्राप्तौ इति ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {32/68} कथम् तर्हि ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {33/68} उभयोः प्राप्तिः यस्मिन् कृति सः अयम् उभयप्राप्तिः कृत् उभयप्राप्तौ इति ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {34/68} अथ वा कृतः ये कर्तृकर्मणी तत्र यथा स्यात् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {35/68} तद्धितस्य ये कर्तृकर्मणी तत्र मा भूत् इति ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {36/68} कृतपूर्वी कटम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {37/68} भुक्तपूर्वी ओदनम् इति ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {38/68} ननु च वाक्येन एव अनेन न भवितव्यम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {39/68} द्वितीयया तावत् न भवितव्यम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {40/68} किम् कारणम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {41/68} क्तेन अभिहितम् कर्म इति कृत्वा ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {42/68} इनिप्रत्ययेन च अपि न उत्पत्तव्यम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {43/68} किम् कारणम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {44/68} असामर्थ्यात् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {45/68} कथम् असमार्थ्यम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {46/68} सापेक्षम् असमर्थम् भवति इति ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {47/68} यत् तावत् उच्यते द्वितीयया तावत् न भवितव्यम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {48/68} किम् कारणम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {49/68} क्तेन अभिहितम् कर्म इति कृत्वा इति ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {50/68} यः असौ कृतकटयोः अभिसंबन्धः सः उत्पन्ने प्रत्यये निवर्तते ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {51/68} अस्ति च करोतेः कटेन सामर्थ्यम् इति कृत्वा द्वितीया भविष्यति ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {52/68} यत् अपि उच्यते इनिप्रत्ययेन च अपि न उत्पत्तव्यम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {53/68} किम् कारणम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {54/68} असामर्थ्यात् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {55/68} कथम् असमार्थ्यम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {56/68} सापेक्षम् असमर्थम् भवति इति ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {57/68} न इदम् उभयम् युगपत् भवति वाक्यम् च प्रत्ययः च ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {58/68} यदा वाक्यम् न तदा प्रत्ययः ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {59/68} यदा प्रत्ययः सामान्येन तदा वृत्तिः ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {60/68} तत्र अवश्यं विशेषार्थिना विशेषः अनुप्रयोक्तव्यः ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {61/68} कृतपूर्वी ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {62/68} किम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {63/68} कटम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {64/68} भुक्तपूर्वी ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {65/68} किम् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {66/68} ओदनम् इति ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {67/68} अथ वा इदम् प्रयोजनम् कर्तृभूतपूर्वमात्रात् अपि षष्ठीयथा स्यात् ।

(P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 {68/68} भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानाम् इति ।

(P_2,3.66) KA_I,468.6-12 Ro_II,836 {1/10} उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधे अकादिप्रयोगे अप्रतिषेधः

(P_2,3.66) KA_I,468.6-12 Ro_II,836 {2/10} उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधे अकादिप्रयोगे प्रतिषेधः न भवति इति वक्तव्यम् ।

(P_2,3.66) KA_I,468.6-12 Ro_II,836 {3/10} भेदिका देवदत्तस्य काष्ठानाम् ।

(P_2,3.66) KA_I,468.6-12 Ro_II,836 {4/10} चिकीर्षा विष्णुमित्रस्य कटस्य ।

(P_2,3.66) KA_I,468.6-12 Ro_II,836 {5/10} अपरः आह : अकाकारयोः प्रयोगे प्रतिषेधः न इति वक्तव्यम् ।

(P_2,3.66) KA_I,468.6-12 Ro_II,836 {6/10} शेषे विभाषा ।

(P_2,3.66) KA_I,468.6-12 Ro_II,836 {7/10} शोभना खलु पाणिनेः सूत्रस्य कृतिः ।

(P_2,3.66) KA_I,468.6-12 Ro_II,836 {8/10} शोभना खलु पाणिनिना सूत्रस्य कृतिः ।

(P_2,3.66) KA_I,468.6-12 Ro_II,836 {9/10} शोभना खलु दाक्षायणस्य सङ्ग्रहस्य कृतिः ।

(P_2,3.66) KA_I,468.6-12 Ro_II,836 {10/10} शोभना खलु दाक्षायेण सङ्ग्रहस्य कृतिः इति ।

(P_2,3.67) KA_I,468.14-23 Ro_II,837-838 {1/15} क्तस्य च वर्तमाने नापुंसके भावे उपसङ्ख्यानम्

(P_2,3.67) KA_I,468.14-23 Ro_II,837-838 {2/15} क्तस्य च वर्तमाने नापुंसके भावे उपसङ्ख्यानम् कर्तव्यम् : छात्त्रस्य हसितम् , नटस्य भुक्तम् , मयूरस्य नृत्तम् , कोकिलस्य व्याहृतम् इति ।

(P_2,3.67) KA_I,468.14-23 Ro_II,837-838 {3/15} शेषविज्ञानात् सिद्धम् । शेषलक्षणा अत्र षष्ठी भविष्यति ।

(P_2,3.67) KA_I,468.14-23 Ro_II,837-838 {4/15} शेषः इति उच्यते ।

(P_2,3.67) KA_I,468.14-23 Ro_II,837-838 {5/15} कः च शेषः ।

(P_2,3.67) KA_I,468.14-23 Ro_II,837-838 {6/15} कर्मादीनाम् अविवक्षा शेषः ।

(P_2,3.67) KA_I,468.14-23 Ro_II,837-838 {7/15} कथम् पुनः सतः नाम अविवक्षा स्यात् यदा छात्रः हसति , नटः भुङ्क्ते , मयूरः नृत्यति , कोकिलः व्याहरति ।

(P_2,3.67) KA_I,468.14-23 Ro_II,837-838 {8/15} सतः अपि अविवक्षा भवति ।

(P_2,3.67) KA_I,468.14-23 Ro_II,837-838 {9/15} तत् यथा : अलोमिका एडका , अनुदरा कन्या इति ।

(P_2,3.67) KA_I,468.14-23 Ro_II,837-838 {10/15} असतः च विवक्षा भवति ।

(P_2,3.67) KA_I,468.14-23 Ro_II,837-838 {11/15} समुद्रः कुण्डिका ।

(P_2,3.67) KA_I,468.14-23 Ro_II,837-838 {12/15} विन्ध्यः वर्धितकम् इति ।

(P_2,3.67) KA_I,468.14-23 Ro_II,837-838 {13/15} यदि एवम् उत्तरत्र चातुःशब्द्यम् प्राप्नोति ।

(P_2,3.67) KA_I,468.14-23 Ro_II,837-838 {14/15} इदम् अहेः सृप्तम् , इह अहिना सृप्तम् , इह अहिः सृप्तः , इह अहेः सृप्तम् , ग्रामस्य पार्श्वे ग्रामस्य मध्ये इति ।

(P_2,3.67) KA_I,468.14-23 Ro_II,837-838 {15/15} इष्यते एव चातुःशब्द्यम् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {1/59} लादेशे सल्लिड्ग्रहणम् किकिनोः प्रतिषेधार्थम्

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {2/59} लादेशे सल्लिड्गग्रहणम् कर्तव्यम् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {3/59} सल्लिटोः प्रयोगे न इति वक्तव्यम् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {4/59} किम् प्रयोजनम् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {5/59} किकिनोः प्रतिषेधार्थम् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {6/59} किकिनोः अपि प्रयोगे प्रतिषेधः यथा स्यात् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {7/59} । पपिः सोमं ददिः गाः ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {8/59} किम् पुनः कारणम् न सिध्यति ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {9/59} तयोः अलादेशत्वात्

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {10/59} न हि तौ लादेशौ ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {11/59} अथ तौ लादेशौ स्याताम् स्यात् प्रतिषेधः ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {12/59} बाढम् स्यात् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {13/59} लादेशौ तर्हि भविष्यतः ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {14/59} तत् कथम् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {15/59} आदृगमहनजनः किकिनौ लिट् च इति लिड्वत् इति वक्ष्यामि ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {16/59} सः तर्हि वतिनिर्देशः कर्तव्यः ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {17/59} न हि अन्तरेण वतिम् अतिदेशः गम्यते ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {18/59} अन्तरेण अपि वतिम् अतिदेशः गम्यते ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {19/59} तत् यथा ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {20/59} एषः ब्रह्मदत्तः ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {21/59} अब्रह्मदत्तम् ब्रह्मदत्तः इति आह ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {22/59} ते मन्यामहे : ब्रह्मदत्तवत् अयम् भवति इति ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {23/59} एवम् इह अपि अलिटम् लिट् इति आह ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {24/59} लिड्वत् इति विज्ञास्यते ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {25/59} उकारप्रयोगे न इति वक्तव्यम् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {26/59} कटम् चिकीर्षुः ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {27/59} ओदनम् बुभुक्षुः ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {28/59} तत् तर्हि वक्तव्यम् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {29/59} न वक्तव्यम् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {30/59} उकारः अपि अत्र निर्दिश्यते ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {31/59} कथम् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {32/59} प्रश्लिष्टनिर्देशः अयम् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {33/59} उ उक ऊक ल ऊक लोक इति ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {34/59} उकप्रतिषेधे कमेः भाषायाम् अप्रतिषेधः

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {35/59} उकप्रतिषेधे कमेः भाषायाम् प्रतिषेधः न भवति इति वक्तव्यम् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {36/59} दस्याः कामुकः ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {37/59} वृषल्याः कामुकः ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {38/59} अव्ययप्रतिषेधे तोसुन्कसुनोः अप्रतिषेधः । अव्ययप्रतिषेधे तोसुन्कसुनोः प्रतिषेधः न भवति इति वक्तव्यम् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {39/59} पुरा सूर्यस्य उदेतोः आधेयः ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {40/59} पुरा वत्सानाम् अपाकर्तोः ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {41/59} पुरा क्रूरस्य विसृपः विरप्शिन् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {42/59} शानंश्चानश्शतॄऋणाम् उपसङ्ख्यानम्

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {43/59} शानंश्चानश्शतॄऋणाम् उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {44/59} सोमम् पवमानः ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {45/59} नडम् आघ्नानः ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {46/59} अधीयन् पारायणम् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {47/59} लप्रयोगे न इति प्रतिषेधः न प्राप्नोति ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {48/59} मा भूत् एवम् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {49/59} तृन् इति एवम् भविष्यति ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {50/59} कथम् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {51/59} तृन् इति न इदम् प्रत्ययग्रहणम् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {52/59} किम् तर्हि ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {53/59} प्रत्याहारग्रहणम् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {54/59} क्व संनिविष्टानाम् प्रत्याहारः ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {55/59} लटः शतृ इति अतः प्रभृति आ तृनः नकारात् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {56/59} यदि प्रत्याहारग्रहणम् चौरस्य द्विषन् वृषलस्य द्विषन् अत्र अपि प्राप्नोति ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {57/59} द्विषः शतुः वावचनम् । द्विषः शतुः वा इति वक्तव्यम् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {58/59} तत् च अवश्यं वक्तव्यम् प्रत्ययग्र्हणे सति प्रतिषेधार्थम् ।

(P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 {59/59} तत् एव प्रत्याहारग्रहणे सति विध्यर्थम् भविष्यति ।

(P_2,3.70) KA_I,470.8-13 Ro_II,840-841 {1/9} अकस्य भविष्यति

(P_2,3.70) KA_I,470.8-13 Ro_II,840-841 {2/9} अकस्य भविष्यति इति वक्तव्यम् ।

(P_2,3.70) KA_I,470.8-13 Ro_II,840-841 {3/9} यवान् लावकः व्रजति ।

(P_2,3.70) KA_I,470.8-13 Ro_II,840-841 {4/9} ओदनम् भोजकः व्रजति ।

(P_2,3.70) KA_I,470.8-13 Ro_II,840-841 {5/9} सक्तून्पायकः व्रजति ।

(P_2,3.70) KA_I,470.8-13 Ro_II,840-841 {6/9} इनः आधमर्ण्ये च । ततः इनः आधमर्ण्ये च भविष्यति च इति वक्तव्यम् ।

(P_2,3.70) KA_I,470.8-13 Ro_II,840-841 {7/9} शतम् दायी ।

(P_2,3.70) KA_I,470.8-13 Ro_II,840-841 {8/9} सहस्रम् दायी ।

(P_2,3.70) KA_I,470.8-13 Ro_II,840-841 {9/9} ग्रामम् गामी ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {1/24} कर्तृग्रहणम् किमर्थम् ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {2/24} कर्मणि मा भूत् इति ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {3/24} न एतत् अस्ति प्रयोजनम् ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {4/24} भावकर्मणोः कृत्याः विधीयन्ते टत्र कृत्यैः अभिहितत्वात् कर्मणि षष्ठी न भविष्यति ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {5/24} अतः उत्तरम् पठति ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {6/24} भव्यादीनाम् कर्मणः अनभिधानात् कृत्यानाम् कर्तृग्रहणम्

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {7/24} भव्यादीनाम् कर्म कृत्यैः अनभितम् ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {8/24} गेयः माणवकः साम्नाम् ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {9/24} भव्यादीनम् कर्मणः अनभिधानात् कृत्यानाम् कर्तृग्रहणम् क्रियते ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {10/24} किम् उच्यते भव्यादीनाम् कर्म कृत्यैः अनभितम् इति ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {11/24} न इह अपि अनभिहितं भवति ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {12/24} आक्रष्टव्या ग्रांम् शाखा इति ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {13/24} एवम् तर्हि योगविभागः करिष्यते ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {14/24} कृत्यानाम् ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {15/24} कृत्यानाम् प्रयोगे षष्ठी न भवति इति ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {16/24} किम् उदाहरणम् ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {17/24} ग्रामम् आक्रष्टव्या शाखा ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {18/24} ततः कर्तरि वा इति ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {19/24} इह अपि तर्हि प्राप्नोति ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {20/24} गेयः माणवकः साम्नाम् इति ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {21/24} उभयप्राप्तौ इति वर्तते ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {22/24} ननु च उभयप्राप्तिः एषा ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {23/24} गेयः माणवकः साम्नाम् इति च गेयानि माणवकेन सामानि इति च भवति ।

(P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 {24/24} उभयप्राप्तिः नाम सा भवति यत्र उभयस्य युगपत्प्रसङ्गः अत्र च यदा कर्मणि न तदा कर्तरि यदा कर्तरि न तदा कर्मणि इति।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {1/58} किमर्थम् इदम् उच्यते ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {2/58} प्रत्यधिकरणम् वचनोत्पत्तेः सङ्ख्यासामानाधिकरण्यात् च द्विगोः एकवचनविधानम्

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {3/58} प्रत्यधिकरणम् वचनोत्पत्तिः भवति ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {4/58} किम् इदम् प्रत्यधिकरणम् इति ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {5/58} अधिकरणम् अधिकरणम् प्रति प्रत्यधिकरणम् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {6/58} सङ्ख्यासामानाधिकरण्यात् च ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {7/58} सङ्ख्यया बह्वर्थया च अस्य सामानाधिकरण्यम् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {8/58} प्रत्यधिकरणम् वचनोत्पत्तेः सङ्ख्यासामानाधिकरण्यात् च बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {9/58} इष्यते च एकवचनम् स्यात् इति ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {10/58} तत् च अन्तरेण यत्नम् न सिध्यति इति द्विगोः एकवचनविधानम् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {11/58} एवमर्थम् इदम् उच्यते ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {12/58} अस्ति प्रयोजनम् एतत् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {13/58} किम् तर्हि इति ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {14/58} तत्र अनुप्रयोगस्य एकवचनाभावः अद्विगुत्वात्

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {15/58} तत्र अनुप्रयोगस्य एकवचनम् न प्राप्नोति : पञ्चपूली इयम् इति ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {16/58} किम् कारणम् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {17/58} अद्विगुत्वात् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {18/58} द्विगोः एकवचन्म् इति उच्यते ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {19/58} न च अत्र अनुप्रयोगः द्विगुसञ्ज्ञः ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {20/58} सिद्धम् तु द्विग्वर्थस्य एकवद्वचनात्

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {21/58} सिद्धम् एतत् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {22/58} कथम् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {23/58} द्विग्वर्थः एकवत् भवति इति वक्तव्यम् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {24/58} तत् तर्हि वक्तव्यम् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {25/58} न वक्तव्यम् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {26/58} न इदम् पाऋइभाषिकस्य वचनस्य ग्रहणम् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {27/58} किम् तर्हि ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {28/58} अन्वर्थग्रहणम् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {29/58} उच्यते वचनम् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {30/58} एकस्य अर्थस्य वचनम् एकवचनम् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {31/58} एकशेषप्रतिषेधः च

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {32/58} एकशेषस्य च प्रतिषेधः वक्तव्यः ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {33/58} पञ्चपूली च पञ्चपूली च पञ्चपूली च पञ्चपूल्यः ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {34/58} न वा अन्यस्य अनेकत्वात्

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {35/58} न वा वक्तव्यः ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {36/58} किम् कारणम् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {37/58} अन्यस्य अनेकत्वात् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {38/58} न एतत् द्विगोः अनेकत्वम् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {39/58} कस्य तर्हि ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {40/58} द्विग्वर्थसमुदायस्य ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {41/58} समाहारग्रहणम् च तद्धितार्थप्रतिषेधार्थम्

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {42/58} समाहारग्रहणम् च कर्तव्यम् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {43/58} किम् प्रयोजनम् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {44/58} तद्धितार्थप्रतिषेधार्थम् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {45/58} तद्धितार्थे यः द्विगुः तस्य मा भूत् इति ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {46/58} पञ्चकपालौ पञ्चकपालाः इति ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {47/58} किम् पुनः अयम् पञ्चकपालशब्दः प्रत्येकम् परिसमाप्यते आहोस्वित् समुदाये वर्तते ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {48/58} किम् च अतः ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {49/58} यदि प्रत्येकम् परिसमाप्यते पुरस्तात् एव चोदितम् परिहृतम् च। अथ समुदाये वर्तते ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {50/58} न वा समाहारैकत्वात्

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {51/58} न वा एतत् समाहारैकत्वात् अपि सिध्यति ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {52/58} एवम् तर्हि प्रत्येकम् परिसमाप्यते ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {53/58} पुरस्तात् एव चोदितम् परिहृतम् च। अपरः आह : न वा समाहारैकत्वात् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {54/58} न वा योगारम्भेण एव अर्थः ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {55/58} किम् कारणम् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {56/58} समाहारैकत्वात् ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {57/58} एकः अयम् समाहारः नाम ।

(P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 {58/58} तस्य एकत्वात् एकवचनम् भविष्यति ।

(P_2,4.2) KA_I,473.12-19 Ro_II,846-847 {1/16} प्राणितूर्यसेनाङ्गानाम् तत्पूर्वपदोत्तरपदग्रहणम्

(P_2,4.2) KA_I,473.12-19 Ro_II,846-847 {2/16} प्राणितूर्यसेनाङ्गानाम् तत्पूर्वपदोत्तरपदग्रहणम् कर्तव्यम् ।

(P_2,4.2) KA_I,473.12-19 Ro_II,846-847 {3/16} प्राण्यङ्गानाम् प्राण्यङैः इति वक्तव्यम् ।

(P_2,4.2) KA_I,473.12-19 Ro_II,846-847 {4/16} तूर्याङ्गाणां तूर्याङ्गैः ।

(P_2,4.2) KA_I,473.12-19 Ro_II,846-847 {5/16} सेनाङ्गानाम् सेनाङ्गैः इति ।

(P_2,4.2) KA_I,473.12-19 Ro_II,846-847 {6/16} किम् प्रयोजनम् ।

(P_2,4.2) KA_I,473.12-19 Ro_II,846-847 {7/16} व्यतिकरः मा भूत् इति ।

(P_2,4.2) KA_I,473.12-19 Ro_II,846-847 {8/16} तत् तर्हि वक्तव्यम् ।

(P_2,4.2) KA_I,473.12-19 Ro_II,846-847 {9/16} योगविभागात् सिद्धम्

(P_2,4.2) KA_I,473.12-19 Ro_II,846-847 {10/16} योगविभागः करिष्यते ।

(P_2,4.2) KA_I,473.12-19 Ro_II,846-847 {11/16} द्वन्द्वः च प्राण्यङ्गानाम् ।

(P_2,4.2) KA_I,473.12-19 Ro_II,846-847 {12/16} ततः तूर्याङ्गाणाम् ।

(P_2,4.2) KA_I,473.12-19 Ro_II,846-847 {13/16} ततः सेनाङ्गानाम् इति ।

(P_2,4.2) KA_I,473.12-19 Ro_II,846-847 {14/16} सः तर्हि योगविभागः कर्तव्यः ।

(P_2,4.2) KA_I,473.12-19 Ro_II,846-847 {15/16} न कर्तव्यः ।

(P_2,4.2) KA_I,473.12-19 Ro_II,846-847 {16/16} प्रत्येकम् अङ्गशब्दः परिसमाप्यते ।

(P_2,4.3) KA_I,473.21-474.5 Ro_II,847 {1/11} इह कस्मात् न भवति ।

(P_2,4.3) KA_I,473.21-474.5 Ro_II,847 {2/11} नन्दन्तु कठकालापाः ।

(P_2,4.3) KA_I,473.21-474.5 Ro_II,847 {3/11} वर्धन्ताम् कठकौथुमाः ।

(P_2,4.3) KA_I,473.21-474.5 Ro_II,847 {4/11} स्थेणोः

(P_2,4.3) KA_I,473.21-474.5 Ro_II,847 {5/11} स्थेणोः इति वक्तव्यम् ।

(P_2,4.3) KA_I,473.21-474.5 Ro_II,847 {6/11} एवम् अपि तिष्ठन्तु कठकालापाः इति अत्र अपि प्राप्नोति ।

(P_2,4.3) KA_I,473.21-474.5 Ro_II,847 {7/11} अद्यतन्याम् च

(P_2,4.3) KA_I,473.21-474.5 Ro_II,847 {8/11} अद्यतन्याम् च इति वक्तव्यम् ।

(P_2,4.3) KA_I,473.21-474.5 Ro_II,847 {9/11} उदगात् कठकापालम् ।

(P_2,4.3) KA_I,473.21-474.5 Ro_II,847 {10/11} प्रत्यष्ठात् कठकौथुमम् ।

(P_2,4.3) KA_I,473.21-474.5 Ro_II,847 {11/11} उदगात् मौदपैप्पलादम् ।

(P_2,4.7) KA_I,474.7-11 Ro_II,848 {1/9} ग्रामप्रतिषेधे नगरप्रतिषेधः

(P_2,4.7) KA_I,474.7-11 Ro_II,848 {2/9} अग्रामाः इति अत्र अनगराणाम् इति वक्तव्यम् ।

(P_2,4.7) KA_I,474.7-11 Ro_II,848 {3/9} इह मा भूत् ।

(P_2,4.7) KA_I,474.7-11 Ro_II,848 {4/9} मथुरापाटलिपुत्रम् इति ।

(P_2,4.7) KA_I,474.7-11 Ro_II,848 {5/9} उभयतः च ग्रामाणाम्

(P_2,4.7) KA_I,474.7-11 Ro_II,848 {6/9} उभयतः च ग्रामाणाम् प्रतिषेधः वक्तव्यः ।

(P_2,4.7) KA_I,474.7-11 Ro_II,848 {7/9} इह मा भूत् ।

(P_2,4.7) KA_I,474.7-11 Ro_II,848 {8/9} शौर्यम् च केतवता च शौर्यकेतवते ।

(P_2,4.7) KA_I,474.7-11 Ro_II,848 {9/9} जाम्बवम् च शालुकिनी च जाम्बवशालुकिन्यौ

(P_2,4.8) KA_I,474.13-17 Ro_II,848 {1/9} क्षुद्र्जन्तवः इति उच्यते ।

(P_2,4.8) KA_I,474.13-17 Ro_II,848 {2/9} के पुनः क्षुद्रजन्तवः ।

(P_2,4.8) KA_I,474.13-17 Ro_II,848 {3/9} क्षोत्तव्याः जन्तवः ।

(P_2,4.8) KA_I,474.13-17 Ro_II,848 {4/9} यदि एवम् यूकालिक्षम् कीटपिपीलिकम् इति न सिध्यति ।

(P_2,4.8) KA_I,474.13-17 Ro_II,848 {5/9} एवम् तर्हि अनथिकाः क्षुद्रजन्तवः ।

(P_2,4.8) KA_I,474.13-17 Ro_II,848 {6/9} अथ वा येषाम् न शोणितम् ते क्षुद्रजन्तवः ।

(P_2,4.8) KA_I,474.13-17 Ro_II,848 {7/9} अथ वा येषाम् आ सहस्रात् अञ्जलिः न पूर्यते ते क्षुद्रजन्तवः ।

(P_2,4.8) KA_I,474.13-17 Ro_II,848 {8/9} अथ वा येषाम् गोचर्ममात्रम् न पतितः भवति ते क्षुद्रजन्तवः ।

(P_2,4.8) KA_I,474.13-17 Ro_II,848 {9/9} अथ व नकुलपर्यन्ताः क्षुद्रजन्तवः ।

(P_2,4.9) KA_I,474.19-21 Ro_II,849 {1/6} किमर्थः चकारः ।

(P_2,4.9) KA_I,474.19-21 Ro_II,849 {2/6} एवकारार्थः चकारः ।

(P_2,4.9) KA_I,474.19-21 Ro_II,849 {3/6} येषाम् विरोधः शाश्वतिकः तेषाम् द्वन्द्वे एकवचनम् यथा स्यात् ।

(P_2,4.9) KA_I,474.19-21 Ro_II,849 {4/6} अन्यत् यत् प्राप्नोति तत् मा भूत् इति ।

(P_2,4.9) KA_I,474.19-21 Ro_II,849 {5/6} किम् च अन्यत् प्राप्नोति ।

(P_2,4.9) KA_I,474.19-21 Ro_II,849 {6/6} पशुशकुनिद्वन्द्वे विरोधिनाम् पूर्वविप्रतिषिद्धम् इति उक्तम् सः पूर्वविप्रतिषेधः न वक्तव्यः भवति ।

(P_2,4.10) KA_I,475.2-10 Ro_II,849-850 {1/15} अनिरवसितानाम् इति उच्यते ।

(P_2,4.10) KA_I,475.2-10 Ro_II,849-850 {2/15} कुतः अनिरवसितानाम् ।

(P_2,4.10) KA_I,475.2-10 Ro_II,849-850 {3/15} आर्यावर्तात् अनिरवसितानाम् ।

(P_2,4.10) KA_I,475.2-10 Ro_II,849-850 {4/15} कः पुनः आर्यावर्तः ।

(P_2,4.10) KA_I,475.2-10 Ro_II,849-850 {5/15} प्राग् आदर्शात् प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् ।

(P_2,4.10) KA_I,475.2-10 Ro_II,849-850 {6/15} यदि एवम् किष्किन्धगन्दिकम् शकयवनम् शौर्यक्रौञ्चम् इति न सिध्यति ।

(P_2,4.10) KA_I,475.2-10 Ro_II,849-850 {7/15} एवम् तर्हि आर्यनिवासात् अनिरवसितानाम् ।

(P_2,4.10) KA_I,475.2-10 Ro_II,849-850 {8/15} कः पुनः आर्यनिवासः ।

(P_2,4.10) KA_I,475.2-10 Ro_II,849-850 {9/15} ग्रामः घोषः नगरम् संवाहः इति ।

(P_2,4.10) KA_I,475.2-10 Ro_II,849-850 {10/15} एवम् अपि ये एते महान्तः संस्त्यायाः तेषु अभ्यन्तराः चण्डालाः मृतपाः च वसन्ति तत्र चण्डालमृतपाः इति न सिध्यति ।

(P_2,4.10) KA_I,475.2-10 Ro_II,849-850 {11/15} एवम् तर्हि याज्ञात् कर्मणः अनिरवसितानाम् ।

(P_2,4.10) KA_I,475.2-10 Ro_II,849-850 {12/15} एवम् अपि तक्षायस्कारम् रजकतन्तुवायम् इति न सिध्यति ।

(P_2,4.10) KA_I,475.2-10 Ro_II,849-850 {13/15} एवम् तर्हि पात्रात् अनिरवसितानाम् ।

(P_2,4.10) KA_I,475.2-10 Ro_II,849-850 {14/15} यैः भुक्ते पात्रम् संस्कारेण शुध्यति ते अनिरवसिताः ।

(P_2,4.10) KA_I,475.2-10 Ro_II,849-850 {15/15} यैः भुक्ते संस्कारेण अपि न शुध्यति ते निरवसिताः ।

(P_2,4.11) KA_I,475.12-14 Ro_II,851 {1/3} गवाश्वप्रभृतिषु यथोच्चारितम् द्वन्द्ववृत्तम्

(P_2,4.11) KA_I,475.12-14 Ro_II,851 {2/3} अवाश्वप्रभृतिषु यथोच्चारितम् द्वन्द्ववृत्तम् द्रष्टव्यम् ।

(P_2,4.11) KA_I,475.12-14 Ro_II,851 {3/3} गवाश्वम् गवाविकम् गवैडकम् ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {1/70} बहुप्रकृतिः फलसेनावनस्पतिमृगशकुन्त्क्षुद्रजन्तुधान्यतृणानाम्

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {2/70} फलसेनावनस्पतिमृगशकुन्त्क्षुद्रजन्तुधान्यतृणानाम् द्वन्द्वः विभाषा एकवत् भवति बहुप्रकृतिः इति वक्तव्यम् ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {3/70} फल। बदरामल्कम् बदरामलकनि ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {4/70} सेना ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {5/70} हस्त्यश्वम् हस्त्यश्वाः ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {6/70} वनस्पति ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {7/70} प्लक्षन्यग्रोधम् प्लक्षन्यरोधाः ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {8/70} मृग ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {9/70} रुरुपृषतम् रुरुपृषताः ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {10/70} शकुन्त ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {11/70} हंसचक्रवाकम् हंसचक्रवाकाः ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {12/70} क्षुद्रजन्तु ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {13/70} यूकालिक्षम् यूकालिक्षाः ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {14/70} धान्य ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {15/70} व्रीहियवम् व्रीहियवाः माषतिलम् माषतिलाः ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {16/70} तृण ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {17/70} कुशकासम् कुशकाशाः शरशीर्यम् शरशीर्याः ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {18/70} किम् प्रयोजनम् ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {19/70} बहुप्रकृतिः एव यथा स्यात् ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {20/70} क्व मा भूत् ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {21/70} बदरामलके तिष्ठतः ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {22/70} किम् पुनः अनेन या प्राप्तिः सा नियम्यते आहोस्वित् अविशेषेण ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {23/70} किम् च अतः ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {24/70} यदि अनेन या प्राप्तिः सा नियम्यते प्लक्षन्यग्रोधौ जातिः अप्राणिनाम् इति नित्यः द्वन्द्वैकवद्भावः प्राप्नोति ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {25/70} अथ अविशेषेण न दोषः भवति ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {26/70} यथा न दोषः तथाउ अस्तु ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {27/70} पशुशकुनिद्वन्द्वे विरोधिनाम् पूर्वविप्रतिषिद्धम् । पशुशकुनिद्वन्द्वे येषाम् च विरोधः शाश्वतिकः इति एतत् भवति पूर्वविप्रतिषेधेन ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {28/70} पशुशकुनिद्वन्द्वस्य अवकाशः महाजोरभ्रम् महाजोरभ्राः हंसचक्रवाकम् हंसचक्रवाकाः ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {29/70} येषाम् च विरोधः इति अस्य अवकाशः श्रमणब्राह्मणम् ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {30/70} इह उभयम् प्राप्नोति ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {31/70} काकोलूकम् श्वशृगालम् इति ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {32/70} येषाम् च विरोधः इति एतत् भवति पूर्वविप्रतिषेधेन ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {33/70} सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {34/70} न वक्तव्यः ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {35/70} उक्तम् तत्र चकारकरणस्य प्रयोजनम् येषाम् च विरोधः शाश्वतिकः तेषाम् द्वन्द्वे एकवचनम् यथा स्यात् ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {36/70} अन्यत् यत् प्राप्नोति तत् मा भूत् इति ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {37/70} अश्ववडवयोः पूर्वलिङ्गत्वात् पशुद्वन्द्वनपुंसकम्

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {38/70} अश्ववडवयोः पूर्वलिङ्गत्वात् पशुद्वन्द्वनपुंसकम् भवति पूर्वविप्रतिषेधेन ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {39/70} अश्ववडवयोः पूर्वलिङ्गत्वस्य अवकाशः ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {40/70} विभाषा पशुद्वन्द्वनपुंसकम् ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {41/70} यदा न पशुद्वन्द्वनपुंसकम् सः अवकाशः ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {42/70} अश्ववडवौ ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {43/70} पशुद्वन्द्वनपुंसकस्य अवकाशः अन्ये पशुद्वन्द्वाः ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {44/70} महाजोरभ्रम् महाजोरभ्राः ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {45/70} पशुद्वन्द्वनपुंसकप्रसङ्गे उभयम् प्राप्नोति ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {46/70} अश्ववडवम् ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {47/70} पशुद्वन्द्वनपुंसकम् भवति पूर्वविप्रतिषेधेन ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {48/70} सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {49/70} न वक्तव्यः ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {50/70} प्रतिपदविधानात् सिद्धम् । प्रतिपदम् अत्र नपुंसकम् विधीयते ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {51/70} अश्ववडवपूर्वापर इति ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {52/70} एकवचनम् अनर्थकम् समाहारैकत्वात्

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {53/70} एकवद्भावः अनर्थकः ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {54/70} किम् कारणम् ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {55/70} समाहारैकत्वात् ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {56/70} एकः अयम् अर्थः समाहारः नाम ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {57/70} तस्य एकत्वात् एकवचनम् भविष्यति ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {58/70} इदम् तर्हि प्रयोजनम् ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {59/70} एतत् ज्ञास्यामि ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {60/70} इह नित्यः विधिः इह विभाषा इति ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {61/70} न एतत् अस्ति प्रयोजनम् ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {62/70} आचार्यप्रवृत्तिः ज्ञापयति सर्वः द्वन्द्वः विभाषा एकवत् भवति इति यत् अयम् तिष्यपुनर्वस्वोः नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् इति आह ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {63/70} इदम् तर्हि प्रयोजनम् ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {64/70} सः नपुंसकम् इति वक्ष्यामि इति ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {65/70} एतत् अपि न अस्ति प्रयोजनम् ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {66/70} लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {67/70} न तर्हि इदानीम् इदम् वक्तव्यम् ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {68/70} वक्तव्यम् च ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {69/70} किम् प्रयोजनम् ।

(P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 {70/70} पूर्वत्र नित्यार्थम् उत्तरत्र व्यभिचारार्थम् विभाषा वृक्षमृग इति ।

(P_2,4.16) KA_I,477.7-11 Ro_II,855-856 {1/8} किम् उदाहरणम् ।

(P_2,4.16) KA_I,477.7-11 Ro_II,855-856 {2/8} उपदशम् पाणिपादम् उपदशाः पाणिपादाः ।

(P_2,4.16) KA_I,477.7-11 Ro_II,855-856 {3/8} न एतत् अस्ति प्रयोजनम् ।

(P_2,4.16) KA_I,477.7-11 Ro_II,855-856 {4/8} अयम् द्वन्द्वैकवद्भावः आरभ्यते ।

(P_2,4.16) KA_I,477.7-11 Ro_II,855-856 {5/8} तत्र कः प्रसङ्गः यत् अनुप्रयोगस्य स्यात् ।

(P_2,4.16) KA_I,477.7-11 Ro_II,855-856 {6/8} एवम् तर्हि अव्ययस्य सङ्खया अव्ययीभावः अपि आरभ्यते बहुव्रीहिः अपि ।

(P_2,4.16) KA_I,477.7-11 Ro_II,855-856 {7/8} तत् यदा तावत् एकवचनम् तदा अव्ययीभावः अनुप्रयुज्यते एकार्थस्य एकार्थः इति ।

(P_2,4.16) KA_I,477.7-11 Ro_II,855-856 {8/8} यदा बहुवचनम् तदा बहुव्रीहिः अनुप्रयुज्यते बह्वर्थस्य बह्वर्थः इति ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {1/28} किमर्थम् इदम् उच्यते ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {2/28} सञ्ज्ञायाम् कन्थोशीनरेषु इति वक्ष्यति ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {3/28} तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {4/28} न एतत् अस्ति प्रयोजनम् ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {5/28} न हि सञ्ज्ञायाम् कन्थान्तः उशीनरेषु अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {6/28} उत्तरार्थम् तर्हि ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {7/28} उपज्ञोपक्रमम् तदाद्याचिख्यासायाम् इति वक्ष्यति ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {8/28} तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {9/28} एतत् अपि न अस्ति प्रयोजनम् ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {10/28} न हि तदाद्याचिख्यासायाम् उपज्ञोपक्रमान्तः अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {11/28} उत्तरार्थम् एव तर्हि ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {12/28} छाया बाहुल्ये इति वक्ष्यति ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {13/28} तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {14/28} एतत् अपि न अस्ति प्रयोजनम् ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {15/28} न हि छायान्तः बाहुल्ये अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {16/28} उत्तरार्थम् एव तर्हि ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {17/28} सभा राजामनुष्यपूर्वा अशाला च इति वक्ष्यति ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {18/28} तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {19/28} एतत् अपि न अस्ति प्रयोजनम् ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {20/28} न हि सभान्तः अशालायाम् अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {21/28} इदम् तर्हि ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {22/28} विभाषा सेनासुरा इति वक्ष्यति ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {23/28} तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {24/28} दृढसेनः राजा ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {25/28} अनञ् इति किमर्थम् ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {26/28} असेना ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {27/28} अकर्मधारयः इति किमर्थम् ।

(P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 {28/28} परम्सेना उत्तमसेना ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {1/68} किमर्थम् इदम् उच्यते ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {2/68} द्वन्द्वः अयम् उभयपदार्थप्रधानः ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {3/68} तत्र कदा चित् पूर्वपदस्य यत् लिङ्गम् तत् समासस्य अपि स्यात् कदा चित् उत्तरपदस्य ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {4/68} इष्यते च परस्य यत् लिङ्गम् तत् समासस्य स्यात् इति ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {5/68} तत् च अन्तरेण यत्नम् न सिध्यति इति परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {6/68} एवमर्थम् इदम् उच्यते ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {7/68} तत्पुरुषः च कः प्रयोजयति ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {8/68} यः पूर्वपदार्थप्रधानः एकदेशिसमासः अर्धपिप्पली इति ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {9/68} यः हि उत्तरपदार्थप्रधानः दैवकृतम् तस्य परवत् लिङ्गम् ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {10/68} परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति चेत् प्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधः

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {11/68} परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति चेत् प्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधः वक्तव्यः ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {12/68} प्राप्तः जीविकाम् प्रप्तजीविकः आपन्नः जीविकाम् अपन्नजीविकः ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {13/68} अलम्पूर्वः ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {14/68} अलम् जीविकायाः अलम्जीविकः ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {15/68} गतिसमास ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {16/68} निष्कौशाम्बिः निर्वाराणसिः ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {17/68} पूर्वपदस्य च

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {18/68} पूर्वपदस्य च प्रतिषेधः वक्तव्यः ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {19/68} मयूरीकुक्कुटौ ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {20/68} यदि पुनः यथाजातीयकम् परस्य लिङ्गम् तथाजातीयकम् समासात् अन्यत् अतिदिश्येत ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {21/68} समासात् अन्यत् लिङ्गम् इति चेत् अश्ववडवयोः टाब्लुग्वचनम्

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {22/68} समासात् अन्यत् लिङ्गम् इति चेत् अश्ववडवयोः टापः लुक् वक्तव्यः ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {23/68} अश्ववडवौ ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {24/68} निपातनात् सिद्धम्

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {25/68} निपातनात् सिद्धम् एतत् ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {26/68} किम् निपातनम् ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {27/68} आश्ववडवपूर्वापर इति ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {28/68} उपसर्जनह्रस्वत्वम् वा

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {29/68} अथ वा उपसर्जनस्य इति ह्रस्वत्वम् भविष्यति ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {30/68} इह अपि तर्हि प्राप्नोति ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {31/68} कुक्कुटमयूर्यौ ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {32/68} अस्तु ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {33/68} परवत् लिङ्गम् इति शब्दशब्दार्थौ

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {34/68} परवत् लिङ्गम् इति शब्दशब्दार्थौ अतिदिश्येते ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {35/68} तत्र औपदेशिकस्य ह्रस्वत्वम् आतिदेशिकस्य श्रवणम् भविष्यति ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {36/68} इदम् तर्हि ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {37/68} दत्ता च कारीषगन्ध्या च दत्ताकारीषगन्ध्ये दत्ता च गार्ग्यायणी दत्तागार्ग्यायण्यौ ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {38/68} द्वौ ष्यङौ द्वौ ष्फौ च प्राप्नुतः ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {39/68} स्ताम् ।पूम्वद्भावेन एकस्य निवृत्तिः भविष्यति ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {40/68} इदम् तर्हि ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {41/68} दत्ता च युवतिः च दत्तायुवती ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {42/68} द्वौ तिशब्दौ प्राप्नुतः ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {43/68} तस्मात् न एतत् शक्यम् वक्तुम् शब्दशब्दार्थौ अतिदिश्येते इति ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {44/68} ननु च उक्तम् समासात् अन्यत् लिङ्गम् इति चेत् अश्ववडवयोः टाब्लुग्वचनम् इति ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {45/68} परिहृतम् एतत् : निपातनात् सिद्धम् इति ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {46/68} अथ वा न एवम् विज्ञायते परस्य एव परवत् इति ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {47/68} कथम् तर्हि ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {48/68} परस्य इव परवत् इति ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {49/68} यथाजातीयकम् परस्य लिङ्गम् तथाजातीयकम् समासस्य अतिदिश्यते ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {50/68} अथ पूर्वपदस्य न प्रतिषिध्यते प्राप्तादिषु कथम् ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {51/68} प्राप्तादिषु च एकदेशिग्रहणात् सिद्धम्

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {52/68} द्वन्द्वैकदेशिनोः इति वक्ष्यामि ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {53/68} तत् एकदेशिग्रहणम् कर्तव्यम् ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {54/68} न कर्तव्यम् ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {55/68} एकदेशिसमासः न आरप्स्यते ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {56/68} कथम् अर्धपिप्पली इति ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {57/68} समानाधिकरणसमासः भविष्यति ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {58/68} अर्धम् च सा पिप्पली च अर्धपिप्पली इति ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {59/68} न सिध्यति ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {60/68} परत्वात् षष्ठीसमासः प्राप्नोति ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {61/68} अद्य पुनः अयम् एकदेशिसमासः आरभ्यमाणः षष्ठीसमासम् बाधते ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {62/68} इष्यते च षष्ठीसमासः अपि ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {63/68} तत् यथा ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {64/68} अपूपार्धम् मया भक्षितम् ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {65/68} ग्रामार्धम् मया लब्धम् इति ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {66/68} एवम् पिप्पल्यर्धम् इति भवितव्यम् ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {67/68} कथम् अर्धपिप्पली इति ।

(P_2,4.26) KA_I,478.5-479 Ro_II,857-862 {68/68} समानाधिकरणः भविष्यति ।

(P_2,4.29) KA_I,479.19-21 Ro_II,862 {1/3} अनुवाकादयः पुंसि

(P_2,4.29) KA_I,479.19-21 Ro_II,862 {2/3} अनुवाकादयः पुंसि भाष्यन्ते इति वक्तव्यम् ।

(P_2,4.29) KA_I,479.19-21 Ro_II,862 {3/3} अनुवाकः शम्युवाकः सूक्तवाकः ।

(P_2,4.30) KA_I,479.22-480.12 Ro_II,8663-864 {1/17} पुण्यसुदिनाभ्याम् अह्नः नपुंसकत्वम् वक्तव्यम् ।

(P_2,4.30) KA_I,479.22-480.12 Ro_II,8663-864 {2/17} पुण्याहम् सुदिनाहम् ।

(P_2,4.30) KA_I,479.22-480.12 Ro_II,8663-864 {3/17} पथः सङ्ख्याव्ययादेः

(P_2,4.30) KA_I,479.22-480.12 Ro_II,8663-864 {4/17} पथः सङ्ख्याव्ययादेः इति वक्तव्यम् ।

(P_2,4.30) KA_I,479.22-480.12 Ro_II,8663-864 {5/17} द्विपथम् त्रिपथम् चतुष्पथम् उत्पथम् विपथम् ।

(P_2,4.30) KA_I,479.22-480.12 Ro_II,8663-864 {6/17} द्विगुः च

(P_2,4.30) KA_I,479.22-480.12 Ro_II,8663-864 {7/17} द्विगुः च समासः नपुंसकलिङ्गः भवति इति वक्तव्यम् ।

(P_2,4.30) KA_I,479.22-480.12 Ro_II,8663-864 {8/17} पञ्चगवम् दशगवम् ।

(P_2,4.30) KA_I,479.22-480.12 Ro_II,8663-864 {9/17} अकारान्तोत्तरपदः द्विगुः स्त्रियाम् भाष्यते इति वक्तव्यम् ।

(P_2,4.30) KA_I,479.22-480.12 Ro_II,8663-864 {10/17} पञ्चपूली दशपूली ।

(P_2,4.30) KA_I,479.22-480.12 Ro_II,8663-864 {11/17} वा आबन्तः

(P_2,4.30) KA_I,479.22-480.12 Ro_II,8663-864 {12/17} वा आबन्तः स्त्रियाम् भाष्यते इति वक्तव्यम् ।

(P_2,4.30) KA_I,479.22-480.12 Ro_II,8663-864 {13/17} पञ्चखट्वम् पञ्चखट्वी दशखट्वम् दशखट्वी ।

(P_2,4.30) KA_I,479.22-480.12 Ro_II,8663-864 {14/17} अनः नलोपः च वा च स्त्रियाम् भाष्यते इति वक्तव्यम् ।

(P_2,4.30) KA_I,479.22-480.12 Ro_II,8663-864 {15/17} पञ्चतक्षम् पञ्चतक्षी दशतक्षम् दशतक्षी ।

(P_2,4.30) KA_I,479.22-480.12 Ro_II,8663-864 {16/17} पात्रादिभ्यः प्रतिषेधः वक्तव्यः ।

(P_2,4.30) KA_I,479.22-480.12 Ro_II,8663-864 {17/17} द्विपात्रम् पञ्चपात्रम् ।

(P_2,4.31) KA_I,480.14-16 Ro_II,864 {1/5} अर्धर्चादयः इति वक्तव्यम् ।

(P_2,4.31) KA_I,480.14-16 Ro_II,864 {2/5} अर्धर्चम् अर्धर्चः कार्षापणम् कार्षापणः गोमयम् गोमयः सारम् सारः ।

(P_2,4.31) KA_I,480.14-16 Ro_II,864 {3/5} तत् तर्हि वक्तव्यम् ।

(P_2,4.31) KA_I,480.14-16 Ro_II,864 {4/5} न वक्तव्यम् ।

(P_2,4.31) KA_I,480.14-16 Ro_II,864 {5/5} बहुवचननिर्देशात् आद्यर्थः गम्यते ।

(P_2,4.32.1) KA_I,480.18-481.4 Ro_II,865 {1/10} अन्वादेशे समानाधिकरणग्रहणम्

(P_2,4.32.1) KA_I,480.18-481.4 Ro_II,865 {2/10} अन्वादेशे समानाधिकरणग्रहणम् कर्तव्यम् ।

(P_2,4.32.1) KA_I,480.18-481.4 Ro_II,865 {3/10} किम् प्रयोजनम् ।

(P_2,4.32.1) KA_I,480.18-481.4 Ro_II,865 {4/10} देवदत्तम् भोजय इमम् च इति अप्रसङ्गार्थम्

(P_2,4.32.1) KA_I,480.18-481.4 Ro_II,865 {5/10} इह मा भूत् ।

(P_2,4.32.1) KA_I,480.18-481.4 Ro_II,865 {6/10} देवदत्तम् भोजय इमम् च यज्ञ दत्तम् भोजय इति ।

(P_2,4.32.1) KA_I,480.18-481.4 Ro_II,865 {7/10} अन्वादेशः च कथितानुकथनमात्रम्

(P_2,4.32.1) KA_I,480.18-481.4 Ro_II,865 {8/10} अन्वादेशः च कथितानुकथनमात्रम् द्रष्टव्यम् ।

(P_2,4.32.1) KA_I,480.18-481.4 Ro_II,865 {9/10} तत् द्वेष्यम् विजानीयात् : इदमा कथितम् इदमा यदा अनुकथ्यते इति ।

(P_2,4.32.1) KA_I,480.18-481.4 Ro_II,865 {10/10} तत् आचार्यः सुहृत् भूत्वा आचष्टे : अन्वादेशः च कथितानुकथनमात्रम् द्रष्टव्यम् इति ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {1/32} अथ किमर्थम् अशादेशः क्रियते न तृतीयादिषु इति एव उच्येत ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {2/32} तत्र टायाम् ओसि च एनेन भवितव्यम् ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {3/32} अन्याः सर्वाः हलादयः विभक्तयः ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {4/32} तत्र इद्रूपलोपे कृते केवलम् इदमः अनुदात्तत्वम् वक्तव्यम् ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {5/32} अतः उत्तरम् पठति ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {6/32} आदेशवचनम् साकच्कार्थम् ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {7/32} आदेशवचनम् साकच्कार्थम् क्रियते ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {8/32} साकच्कस्य अपि आदेशः यथा स्यात् ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {9/32} इमकाभ्याम् छात्राभ्याम् रात्रिः अधीता अथो आभ्याम् अपि अधीतम् ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {10/32} अथ किमर्थम् शित्करणम् ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {11/32} शित्करणम् सर्वादेशार्थम् । शित्करणम् क्रियते सर्वादेशार्थम् ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {12/32} शित् सर्वस्य इति सर्वादेशः यथा स्यात् : इमकाभ्याम् छात्राभ्याम् रात्रिः अधीता अथो* आभ्याम् अपि अधीतम् इति ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {13/32} अक्रियमाणे हि शित्करणे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {14/32} न वा अन्त्यस्य विकारवचनानर्थक्यात्

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {15/32} न वा कर्तव्यम् ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {16/32} किम् कारणम् ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {17/32} अन्त्यस्य विकारवचनानर्थक्यात् ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {18/32} अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण अपि शकारम् सर्वादेशः भविष्यति ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {19/32} अर्थवत् तु आदेशप्रतिषेधाऋथम्

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {20/32} अर्थवत् तु अस्य अकारवचनम् ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {21/32} कः अर्थः ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {22/32} आदेशप्रतिषेधाऋथम् ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {23/32} ये अन्ये अकारस्य आदेशाः प्राप्नुवन्ति तद्बाधनार्थम् ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {24/32} तत् यथा ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {25/32} मः राजि समः क्वौ इति : मकारस्य मकारवचने प्रयोजनम् न अस्ति इति कृत्वा अनुस्वारादयः बाध्यन्ते ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {26/32} तस्मात् शित्करणम् । तस्मात् शकारः कर्तव्यः ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {27/32} न कर्तव्यः ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {28/32} प्रश्लिष्टनिर्देशः अयम् ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {29/32} अ* अ इति ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {30/32} अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {31/32} अथ वा विचित्राः तद्धितवृत्तयः ।

(P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 {32/32} न अन्वादेशे अकच् उत्पत्स्यते ।

(P_2,4.33) KA_I,482.2-8 Ro_II,867-868 {1/13} किमर्थम् त्रतसोः अनुदात्तत्वम् उच्यते ।

(P_2,4.33) KA_I,482.2-8 Ro_II,867-868 {2/13} उदात्तौ मा भूताम् इति ।

(P_2,4.33) KA_I,482.2-8 Ro_II,867-868 {3/13} न एतत् अस्ति प्रयोजनम् ।

(P_2,4.33) KA_I,482.2-8 Ro_II,867-868 {4/13} लित्स्वरे कृते निघाते एतदः अनुदात्तत्वेन सिद्धम् ।

(P_2,4.33) KA_I,482.2-8 Ro_II,867-868 {5/13} इदम् इह सम्प्रधार्यम् ।

(P_2,4.33) KA_I,482.2-8 Ro_II,867-868 {6/13} अनुदात्तत्वम् क्रियताम् लित्स्वरः इति ।

(P_2,4.33) KA_I,482.2-8 Ro_II,867-868 {7/13} किम् अत्र कर्तव्यम् ।

(P_2,4.33) KA_I,482.2-8 Ro_II,867-868 {8/13} परत्वात् लित्स्वरः ।

(P_2,4.33) KA_I,482.2-8 Ro_II,867-868 {9/13} नित्यत्वात् अनुदात्तत्वम् ।

(P_2,4.33) KA_I,482.2-8 Ro_II,867-868 {10/13} कृते अपि लित्स्वरे प्राप्त्नोति अकृते अपि ।

(P_2,4.33) KA_I,482.2-8 Ro_II,867-868 {11/13} तत्र नित्यत्वात् अनुदात्तत्वे कृते लिति पूर्वः उदात्तभावी न अस्ति इति कृत्वा यथाप्राप्तः प्रत्ययस्वरः प्रसज्येत ।

(P_2,4.33) KA_I,482.2-8 Ro_II,867-868 {12/13} तत् यथा गोष्पदप्रम् वृष्टः देवः इति ऊलोपे कृते पूर्वः उदात्तभावी न अस्ति इति कृत्वा यथाप्राप्तः प्रत्ययस्वरः भवति ।

(P_2,4.33) KA_I,482.2-8 Ro_II,867-868 {13/13} तस्मात् त्रतसोः अनुदात्तत्वम् वक्तव्यम् ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {1/30} कस्य अयम् एनः विधीयते ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {2/30} एतदः प्राप्नोति ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {3/30} इदमः अपि तु इष्यते ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {4/30} तत् इदमः ग्रहणम् कर्तव्यम् ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {5/30} न कर्तव्यम् ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {6/30} प्रकृतम् अनुवर्तते ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {7/30} क्व प्रकृतम् ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {8/30} इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ इति ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {9/30} यदि तत् अनुवर्तते एतदः त्रतसोः त्रतसौ च अनुदात्तौ इति इदमः च इति इदमः अपि प्राप्नोति ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {10/30} न एषः दोषः ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {11/30} सम्बन्धम् अनुवर्तिष्यते ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {12/30} इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {13/30} एतदः त्रतसोः त्रतसौ च अनुदात्तौ इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ अश् भवति ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {14/30} ततः द्वितीयाटौस्सु एनः इदमः एतदः च ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {15/30} तृतीयादौ इति निवृत्तम् ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {16/30} अथ वा मण्डूकगतयः अधिकाराः ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {17/30} तत् यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {18/30} अथ वा एकयोगः करिष्यते ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {19/30} इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ इति एतदः त्रतसोः त्रतसौ च अनुदात्तौ ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {20/30} ततः द्वितीयाटौस्सु एनः इदमः एतदः च ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {21/30} अथ वा उभयम् निवृत्तम् ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {22/30} तत् अपेक्षिष्यामहे ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {23/30} एनत् इति नपुंसकैकवचने

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {24/30} एनत् इति नपुंसकैकवचनेकर्तव्यम् ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {25/30} कुण्डम् आनय प्रक्षालय एनत् परिवर्तय एनत् ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {26/30} यदि एनत् क्रियते एनः न कर्तव्यः ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {27/30} का रूपसिद्धिः : अथो एनम् अथो एने अथो एनान् इति ट्यदाद्यत्वेन सिद्धम् ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {28/30} यदि एवम् एनश्रितकः न सिध्यति ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {29/30} एनच्छ्रितकः इति पाप्नोति ।

(P_2,4.34) KA_I,482.10-24 Ro_II,868-869 {30/30} यथालक्षणम् अप्रयुक्ते ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {1/40} जग्ध्यादिषु आर्धधातुकाश्रयत्वात् सति तस्मिन् विधानम्

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {2/40} जग्ध्यादिषु आर्धधातुकाश्रयत्वात् सति तस्मिन् आर्धधातुके जग्ध्यादिभिः भवितव्यम् ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {3/40} किम् अतः यत् सति भवितव्यम् ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {4/40} तत्र उत्सर्गलक्षणप्रतिषेधः

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {5/40} तत्र उत्सर्गलक्षणम् कार्यम् प्राप्नोति ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {6/40} तस्य प्रतिषेधः वक्तव्यः ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {7/40} भव्यम् प्रवेयम् आख्येयम् ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {8/40} ण्यति अवस्थिते अनिष्टे प्रत्यये आदेशः स्यात् ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {9/40} ण्यतः श्रवणम् प्रसज्येत ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {10/40} न एषः दोषः ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {11/40} सामान्याश्रयत्वात् विशेषस्य अनाश्रयः ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {12/40} सामान्येन हि आश्रीयमाणे विशेषः न आश्रितः भवति ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {13/40} तत्र आर्धधातुकसामान्ये जग्ध्यादिषु कृतेषु यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {14/40} सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति चेत् उवर्णाकारान्तेभ्यः ण्यद्विधिप्रसङ्गः

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {15/40} सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति चेत् उवर्णाकारान्तेभ्यः ण्यत् प्राप्नोति ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {16/40} लव्यम् पव्यम् इति ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {17/40} आर्धधातुकसामान्ये गुणे कृति यि प्रत्ययसामान्य च वान्तादेशे हलन्तात् इति ण्यत् प्राप्नोति ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {18/40} इह च दित्स्यम् धित्स्यम् आर्धधातुकसामान्ये अकारलोपे कृते हलन्तात् इति ण्यत् प्राप्नोति ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {19/40} पौर्वापर्याभात् च सामान्येन अनुपपत्तिः

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {20/40} पौर्वापर्याभात् च सामान्येन जग्ध्यादीनाम् अनुपपत्तिः ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {21/40} न हि सामान्येन पौर्वापर्यम् अस्ति ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {22/40} सिद्धम् तु सार्वधातुके प्रतिषेधात्

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {23/40} सिद्धम् एतत् ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {24/40} कथम् ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {25/40} अविशेषेण जग्ध्यादीन् उक्त्वा सार्वधातुके न इति प्रतिषेधम् वक्ष्यामि ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {26/40} सिध्यति ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {27/40} सूत्रम् तर्हि भिद्यते ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {28/40} यथान्यासम् एव अस्तु ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {29/40} ननु च उक्तम् जग्ध्यादिषु आर्धधातुकाश्रयत्वात् सति तस्मिन् विधानम् इति ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {30/40} परिहृतम् एतत् सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {31/40} ननु च उक्तम् सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति चेत् उवर्णाकारान्तेभ्यः ण्यद्विधिप्रसङ्गः इति ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {32/40} न एषः दोषः ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {33/40} वक्ष्यति तत्र अज्ग्रहणस्य प्रयोजनम् अजन्तभूतपूर्वमात्रात् अपि यथा स्यात् इति ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {34/40} यत् अपि उच्यते पौर्वापर्याभात् च सामान्येन अनुपपत्तिः इति ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {35/40} अर्थसिद्धिः एव एषा यत् सामान्येन पौर्वापर्यम् न अस्ति ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {36/40} असति पौर्वापर्ये विषयसप्तमी विज्ञास्यते ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {37/40} आर्धधातुकविषये इति ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {38/40} अथ वा आर्धधातुकासु इति वक्ष्यामि ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {39/40} कासु आर्धधातुकासु ।

(P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 {40/40} उक्तिषु युक्तिषु रूढिषु प्रतीतिषु श्रुतिषु सञ्ज्ञासु

(P_2,4.36) KA_I,484.11-21 Ro_II,873 {1/15} ल्यब्ग्रहणम् किमर्थम् न ति किति इति एव सिद्धम् ।

(P_2,4.36) KA_I,484.11-21 Ro_II,873 {2/15} ल्यपि कृते न प्राप्नोति ।

(P_2,4.36) KA_I,484.11-21 Ro_II,873 {3/15} इदम् इह सम्प्रधार्यम् ।

(P_2,4.36) KA_I,484.11-21 Ro_II,873 {4/15} ल्यप् क्रियताम् आदेशः इति ।

(P_2,4.36) KA_I,484.11-21 Ro_II,873 {5/15} किम् अत्र कर्तव्यम् ।

(P_2,4.36) KA_I,484.11-21 Ro_II,873 {6/15} परत्वात् ल्यप् ।

(P_2,4.36) KA_I,484.11-21 Ro_II,873 {7/15} अन्तरङ्गः आदेशः ।

(P_2,4.36) KA_I,484.11-21 Ro_II,873 {8/15} एवम् तर्हि सिद्धे सति यत् ल्यब्ग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्तरङ्गान् अपि विधीन् बहिरङ्गः ल्यप् बाधते इति ।

(P_2,4.36) KA_I,484.11-21 Ro_II,873 {9/15} किम् एतस्य ज्ञापने प्रयोजनम् ।

(P_2,4.36) KA_I,484.11-21 Ro_II,873 {10/15} ल्यबदेशे उपदेशिवद्वचनम् अनादिष्टार्थम् बहिरङ्गलक्षणत्वात् इति वक्ष्यति ।

(P_2,4.36) KA_I,484.11-21 Ro_II,873 {11/15} तत् न वक्तव्यम् भवति ।

(P_2,4.36) KA_I,484.11-21 Ro_II,873 {12/15} जग्धिः विधिः ल्यपि यत् तत् अकस्मात् सिद्धम् अस्ति किति इति विधानात्

(P_2,4.36) KA_I,484.11-21 Ro_II,873 {13/15} हिप्रभृतीन् तु सदा बहिरङ्गः ल्य ढ़् भरति इति कृतम् तत् उ विद्धि

(P_2,4.36) KA_I,484.11-21 Ro_II,873 {14/15} एषः एव अर्थः जग्धौ सिद्धे अन्तरङ्गत्वात् ति किति इति ल्यप् उच्यते

(P_2,4.36) KA_I,484.11-21 Ro_II,873 {15/15} ज्ञापयति अन्तरङ्गाणाम् ल्यपा भवति बाधनम्

(P_2,4.37) KA_I,484.23-24 Ro_II,874 {1/2} घसॢभावे अचि उपसङ्ख्यानम् । घसॢभावे अचि उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,4.37) KA_I,484.23-24 Ro_II,874 {2/2} प्रात्ति इति प्रघसः ।

(P_2,4.42-43) KA_I,485. 2-5 Ro_II,874 {1/6} किमयम् वधिः व्यञ्जन्तः आहोस्वित् अदन्तः ।

(P_2,4.42-43) KA_I,485. 2-5 Ro_II,874 {2/6} किम् च अतः ।

(P_2,4.42-43) KA_I,485. 2-5 Ro_II,874 {3/6} यदि व्यञ्जनान्तः वधौ व्यञ्जनान्ते उक्तम् । किम् उक्तम् ।

(P_2,4.42-43) KA_I,485. 2-5 Ro_II,874 {4/6} वध्यादेशे वृद्धितत्वप्रतिषेधः इड्विधिः च इति ।

(P_2,4.42-43) KA_I,485. 2-5 Ro_II,874 {5/6} अथ अदन्तः न दोषः भवति ।

(P_2,4.42-43) KA_I,485. 2-5 Ro_II,874 {6/6} यथा न दोषः तथा अस्तु ।

(P_2,4.45) KA_I,485.7-9 Ro_II,874 {1/4} इण्वत् इकः

(P_2,4.45) KA_I,485.7-9 Ro_II,874 {2/4} इण्वत् इकः इति वक्तव्यम् ।

(P_2,4.45) KA_I,485.7-9 Ro_II,874 {3/4} इह अपि यथा स्यात् ।

(P_2,4.45) KA_I,485.7-9 Ro_II,874 {4/4} अध्यगात् अध्यगाताम् ।

(P_2,4.46) KA_I,484.11 Ro_II,875 {1/2} इण्वत् इकः इति एव ।

(P_2,4.46) KA_I,484.11 Ro_II,875 {2/2} अधिगमयति अधिगमयतः अघिगमयन्ति ।

(P_2,4.47) KA_I,484.13 Ro_II,875 {1/2} इण्वत् इकः इति एव ।

(P_2,4.47) KA_I,484.13 Ro_II,875 {2/2} अघिजिगमिषति अधिजिगमिशतः अधिजिगमिषन्ति ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {1/37} ङित्करणम् किमर्थम् ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {2/37} गाङि अनुबन्धकरणम् विशेषणाऋथम्

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {3/37} गाङि अनुबन्धकरणम् क्रियते विशेषणाऋथम् ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {4/37} क्व विशेषणार्थेन अर्थः ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {5/37} गाङ्कुटादिभ्यः अञ्णित् ङित् इति ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {6/37} गाकुटादिभ्यः अञ्णित् ङित् इति इयति उच्यमाने इणादेशस्य अपि प्रसज्येत ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {7/37} ज्ञापकम् वा सानुबन्धकस्य आदेशवचने इत्कार्याभावस्य

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {8/37} अथ वा एतत् ज्ञापयति आचार्यः सानुबन्धकस्य आदेशे इत्कार्यम् न भवति इति ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {9/37} किम् एतस्य ज्ञापने प्रयोजनम् ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {10/37} प्रयोजनम् चक्षिङः ख्याञ् । ङितः इति आत्मनेपदम् न भवति ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {11/37} लटः शतृशानचौ । लटः शतृशानचौ प्रयोजनम् ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {12/37} पचमानः यजमानः इति ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {13/37} टितः इति एत्वम् न भवति ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {14/37} युवोः अनाकौ

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {15/37} युवोः अनाकौ च प्रयोजनम् ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {16/37} नन्दनः कारकः नन्दना कारिका इति ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {17/37} उगिल्लक्षणौ ङीब्नुमौ न भवतः ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {18/37} मेः च अननुबन्धकस्य अम्वचनम्

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {19/37} मेः च अननुबन्धकस्य अम्वक्तव्यः ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {20/37} अचिनवम् अकरवम् असुनवम् ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {21/37} अत्यल्पम् इदम् उच्यते ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {22/37} तिप्तिब्मिपाम् इति वक्तव्यम् ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {23/37} इह अपि यथा स्यात् : वेद वेत्थ ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {24/37} अस्य ज्ञापकस्य सन्ति दोषाः सन्ति प्रयोजनानि ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {25/37} दोषाः समाः भूयांसः वा ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {26/37} तस्मात् न अर्थः अनेन ज्ञापकेन ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {27/37} कथम् यानि प्रयोजनानि ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {28/37} न एतानि सन्ति ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {29/37} इह तावत् ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {30/37} चक्षिङः ख्याञ् इति ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {31/37} ञित्करणसामर्थ्यात् विभाषा आत्मनेपदम् भविष्यति ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {32/37} लटः शतृशानचौ इति ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {33/37} वक्ष्यति एतत् ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {34/37} प्रकृतानाम् आत्मनेपदानाम् एत्वम् भवति इति ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {35/37} युवोः अनाकौ इति ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {36/37} वक्ष्यति एतत् ।

(P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 {37/37} सिद्धम् तु युवोः अननुनासिकत्वात् इति ।

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {1/23} किम् अयम् कशादिः आहोश्वित् खयादिः ।

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {2/23} चक्षिङः क्शाञ्ख्याञौ

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {3/23} चकिङः ख्याञ् कशादिः खयादिः च ।

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {4/23} खशादिः वा

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {5/23} अथ वा खशादिः भविष्यति ।

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {6/23} केन इदानीम् कशादिः भविष्यति ।

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {7/23} चर्त्वेन ।

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {8/23} अथ खयादिः कथम् ।

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {9/23} असिद्धे शस्य यवचनम् विभाषा

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {10/23} असिद्धे शस्य विभाषा यत्वम् वक्तव्यम् ।

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {11/23} किम् प्रयोजनम् ।

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {12/23} प्रयोजनम् सौप्रख्ये वुञ्विधिः

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {13/23} सौप्रख्यः इति योपधलक्षणः वुञ्विधिः न भवति ।

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {14/23} सौप्रख्यीयः ।

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {15/23} वृद्धात् छः भवति ।

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {16/23} निष्ठानत्वम् आख्याते

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {17/23} आख्यातः इति निष्ठानत्वम् न भवति ।

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {18/23} रुविधिः पुङ्ख्याने

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {19/23} पुङ्ख्यानम् इति रुविधिः न भवति ।

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {20/23} णत्वम् पर्याख्याते

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {21/23} पर्याख्यानम् इति णत्वम् न भवति ।

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {22/23} सस्थानत्वम् नमः ख्यात्रे

(P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 {23/23} नमः ख्यात्रे इति सस्थानत्वम् न भवति।

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {1/22} वर्जने प्रतिषेधः । वर्जने प्रतिषेधः वक्तव्यः ।

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {2/22} अवसञ्चक्ष्याः परिसञ्चक्ष्याः ।

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {3/22} असनयोः च ।

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {4/22} असनयोः च प्रतिषेधः वक्तव्यः ।

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {5/22} नृचक्षाः रक्षः ।

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {6/22} विचक्षणः इति ।

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {7/22} बहुलम् तणि

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {8/22} बहुलम् तणि इति वक्तव्यम् ।

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {9/22} किम् इदम् तणि इति ।

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {10/22} सञ्ज्ञाछन्दसोः ग्रहणम् ।

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {11/22} किम् प्रयोजनम् ।

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {12/22} अन्नवधकगात्रविचक्षणाजिराद्यर्थम्

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {13/22} अन्न ।

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {14/22} अन्नम् ।

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {15/22} वधक ।

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {16/22} वधकम् ।

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {17/22} गात्र ।

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {18/22} गात्रम् पश्य ।

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {19/22} विचक्षण ।

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {20/22} विचक्षणः ।

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {21/22} अजिर ।

(P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 {22/22} अजिरे तिष्ठति ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {1/49} घञपोः प्रतिषेधे क्यपः उपसङ्ख्यानम्

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {2/49} घञपोः प्रतिषेधे क्यपः उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {3/49} इह अपि यथा स्यात् ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {4/49} समजनम् समज्या इति ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {5/49} तत् तर्हि वक्तव्यम् ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {6/49} न वक्तव्यम् ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {7/49} अपि इति एव भविष्यति ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {8/49} कथम् ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {9/49} अपि इति न इदम् प्रत्ययग्रहणम् ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {10/49} किम् तर्हि ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {11/49} प्रत्याहारग्रहणम् ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {12/49} क्व सन्निविष्टानाम् प्रत्याहारः ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {13/49} अपः अकातात् प्रभृति आ क्यपः पकारात् ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {14/49} यदि प्रत्याहारग्रहणम् संवीतिः न सिध्यति ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {15/49} एवम् तर्हि न अर्थः उअप्सङ्ख्यानेन न अपि घञ्नपोः प्रतिषेधेन ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {16/49} इदम् अस्ति ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {17/49} चक्षिङः ख्याञ् वा लिटि इति ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {18/49} ततः वक्ष्यामि ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {19/49} अजेः वी भवति वा व्यवस्थितविभाषा च इति ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {20/49} तेन इह च भविष्यति : प्रवेता प्रवेतुम् प्रवीतः रथः , संवीतिः इति ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {21/49} इह च न भविष्यति : समाजः , उदाजः , समजः , उदजः , समजनम् उदजनम् , समज्या इति ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {22/49} तत्र अयम् अपि अर्थः ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {23/49} इदम् अपि सिद्धम् भवति : प्राजिता इति ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {24/49} किम् च भोः इष्यते एतत् रूपम् ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {25/49} बाढम् इष्यते ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {26/49} एवम् हि कः चित् वैयाकरणः आह ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {27/49} कः अस्य रथस्य प्रवेता इति ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {28/49} सूतः आह ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {29/49} आयुष्मन् अहम् प्राजिता इति ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {30/49} वैयाकरणः आह ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {31/49} अपशब्दः इति ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {32/49} सूतः आह ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {33/49} प्रापित्ज्ञः देवानाम् प्रियः न तु इष्टज्ञः ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {34/49} इष्यते एतत् रूपम् इति ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {35/49} वैयाकरणः आह ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {36/49} आहो खलु अनेन दुरुतेन बाध्यामहे इति ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {37/49} सूतः आह ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {38/49} न खलु वेञः सूतः ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {39/49} सुवतेः एव सूतः ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {40/49} यदि सुवतेः कुत्सा प्रयोक्तव्या ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {41/49} दुःसूतेन इति वक्तव्यम् ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {42/49} न तर्हि इदानीम् इदम् वा यौ इति वक्तव्यम् ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {43/49} वक्तव्यम् च ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {44/49} किम् प्रयोजनम् ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {45/49} न इयम् विभाषा ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {46/49} किम् तर्हि ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {47/49} आदेशः अयम् विधीयते ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {48/49} वा इति अयम् आदेशः भवति अजेः यौ परतः ।

(P_2,4.56) KA_I,488.8-24 Ro_II,880-881 {49/49} वायुः इति ।

(P_2,4.58) KA_I,489.2-9 Ro_II,881-882 {1/9} अणिञोः लुकि तद्राजात् युवप्रत्ययस्य उपसङ्ख्यानम् । अणिञोः लुकि तद्राजात् युवप्रत्ययस्य उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,4.58) KA_I,489.2-9 Ro_II,881-882 {2/9} बौधिः पिता बौधीः पुत्रः औदुम्बरिः पिता औदुम्बरिः पुत्रः ।

(P_2,4.58) KA_I,489.2-9 Ro_II,881-882 {3/9} अपरः आह : अणिञोः लुकि क्षत्रियगोत्रमात्रात् युवप्रत्ययस्य उपसङ्ख्यानम् कर्तव्यम् इति ।

(P_2,4.58) KA_I,489.2-9 Ro_II,881-882 {4/9} जाबालिः पिता जाबालिः पुत्रः ।

(P_2,4.58) KA_I,489.2-9 Ro_II,881-882 {5/9} अपरः आह ।

(P_2,4.58) KA_I,489.2-9 Ro_II,881-882 {6/9} अब्राह्मणगोत्रमात्रात् युवप्रत्ययस्य उपसङ्ख्यानम् कर्तव्यम् इति ।

(P_2,4.58) KA_I,489.2-9 Ro_II,881-882 {7/9} किम् प्रयोजनम् ।

(P_2,4.58) KA_I,489.2-9 Ro_II,881-882 {8/9} इदम् अपि सिद्धम् भवति ।

(P_2,4.58) KA_I,489.2-9 Ro_II,881-882 {9/9} भाण्डिजङ्घिः पिता भाण्डिजङ्घिः पुत्रः कार्णखरकिः पिता कार्णखरकिः पुत्रः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {1/129} तद्राजादीनाम् लुकि समासबहुत्वे प्रतिषेधः

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {2/129} तद्राजादीनाम् लुकि समासबहुत्वे प्रतिषेधः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {3/129} प्रियः आङ्गः एषाम् ते इमे प्रियाङ्गाः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {4/129} प्रियः वाङ्गः एषाम् ते इमे प्रियवाङ्गाः इति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {5/129} किम् उच्यते समासबहुत्वे प्रतिषेधः इति यावता तेन एव चेत् कृतम् बहुत्वम् इति उच्यते न च अत्र तेन एव कृतम् बहुत्वम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {6/129} भवति वै किम् चित् आचार्याः क्रियमाणम् अपि चोदयन्ति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {7/129} तत् वा कर्तव्यम् तेन एव चेत् बहुत्वम् इति समासबहुत्वे वा प्रतिषेधः वक्तव्यः इति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {8/129} अबहुत्वे च लुग्वचनम्

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {9/129} अबहुत्वे च लुक् वक्तव्यः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {10/129} अतिक्रान्तः अङ्गान् अत्यङ्गः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {11/129} बहुवचने परतः यः तद्राजः इति एवम् कृत्वा चोद्यते ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {12/129} अथ किमर्थम् पुनः इदम् न बहुवचने इति एव सिद्धम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {13/129} न सिध्यति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {14/129} बहुवचने इति उच्यते न च अत्र बहुवचनम् पश्यामः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {15/129} प्रत्ययलक्षणेन भविष्यति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {16/129} न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {17/129} न लुमता आङ्गस्य इति वक्ष्यामि ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {18/129} न एवम् शक्यम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {19/129} इह हि दोषः स्यात् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {20/129} पञ्चभिः गार्गीभिः क्रीतः पटः पञ्चगार्ग्यः दशगार्ग्यः इति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {21/129} द्वन्द्वे अबहुषु लुग्वचनम्

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {22/129} द्वन्द्वे अबहुषु लुक् वक्तव्यः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {23/129} गर्गवत्सवाजाः इति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {24/129} इह च लुक् वक्तव्यः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {25/129} गर्गेभ्यः आगतम् गर्गरूप्यम् गर्गमयम् इति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {26/129} इह च अत्रयः इति उदात्तनिवृत्तिस्वरः प्राप्नोति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {27/129} सिद्धम् तु प्रत्ययार्थबहुत्वे लुग्वचनात्

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {28/129} सिद्धम् एतत् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {29/129} कथम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {30/129} प्रत्ययार्थबहुत्वे लुक् वक्तव्यः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {31/129} यदि प्रत्ययार्थबहुत्वे लुक् उच्यते अस्त्रियाम् इति वक्तव्यम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {32/129} इह मा भूत् : आङ्ग्यः स्त्रियः , वाङ्ग्यः स्त्रियः इति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {33/129} यस्य पुनः बहुवचने परतः लुक् उच्यते तस्य ईकारेण व्यवहितत्वात् न भविष्यति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {34/129} यस्य अपि बहुवचने परतः लुक् उच्यते तेन अपि अस्त्रियाम् इति वक्तव्यम् आम्बष्ठ्याः स्त्रियः सौवीर्याः स्त्रियः इति एवमर्थम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {35/129} अत्र अपि चापा व्यवधानम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {36/129} एकादेशे कृते न अस्ति व्यव्हदानम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {37/129} एकादेशः पूवविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {38/129} द्वन्द्वे अबहुषु लुग्वचनम्

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {39/129} द्वन्द्वे अबहुषु लुक् वक्तव्यः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {40/129} गर्गवत्सवाजाः इति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {41/129} गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक्

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {42/129} गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् वक्तव्यः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {43/129} बिदानाम् अपत्यम् माणवकः बैदः बैदौ ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {44/129} किमर्थम् इदम् न अचि इति एव अलुक् सिद्धः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {45/129} अचि इति उच्यते ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {46/129} न च अत्र अजादिम् पश्यामः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {47/129} प्रत्ययलक्षणेन ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {48/129} वर्णाश्रये न अस्ति प्रत्ययलक्षणम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {49/129} एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {50/129} एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {51/129} बैदस्य अपत्यम् बहवः माणवकाः बिदाः बैदयोः वा बिदाः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {52/129} अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {53/129} मा भूत् एवम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {54/129} अञन्तम् यत् बहुषु यञन्तम् यत् बहुषु इति एवम् भविष्यति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {55/129} न एवम् शक्यम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {56/129} इह हि दोषः स्यात् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {57/129} काश्यपप्रतिकृतयः काश्यपाः इति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {58/129} न वा सर्वेषाम् द्वन्द्वे बह्वर्थत्वात्

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {59/129} न वा एषः दोषः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {60/129} किम् कारणम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {61/129} सर्वेषाम् द्वन्द्वे बह्वर्थत्वात् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {62/129} सर्वाणि द्वन्द्वे बह्वर्थानि ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {63/129} कथम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {64/129} युगपत् अधिकरणविवक्षायाम् द्वन्द्वः भवति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {65/129} ततः अयम् आह यस्य बहुवचने परतः लुक् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {66/129} यदि सर्वाणि द्वन्द्वे बह्वर्थानि अहम् अपि इदम् अचोद्यम् चोद्ये ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {67/129} द्वन्द्वे अबहुषु लुग्वचनम् इति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {68/129} मम अपि सर्वत्र बहुवचनम् परम् भवति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {69/129} लुके कृते न प्राप्नोति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {70/129} प्रत्ययलक्षणेन ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {71/129} न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {72/129} न लुमता आङ्गस्य इति वक्ष्यामि ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {73/129} ननु च उक्तम् न एवम् शक्यम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {74/129} इह हि दोषः स्यात् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {75/129} पञ्चभिः गार्गीभिः क्रीतः पटः पञ्चगार्ग्यः दशगार्ग्यः इति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {76/129} इष्तम् एव एतत् सङ्गृहीतम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {77/129} पञ्चगर्गः दशगर्गः इति एव भवितव्यम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {78/129} तथा इदम् अपरम् अचोद्यम् चोद्ये ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {79/129} गर्गरूप्यम् गर्गमयम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {80/129} अत्र अपि बहुवचने इति एव सिद्धम् कथम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {81/129} समर्थात् तद्धितः उत्पद्यते ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {82/129} सामर्थ्यम् च सुबन्तेन ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {83/129} ततः अयम् आह यस्य प्र्तययार्थबहुत्वे लुक् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {84/129} यदि समर्थात् तद्धितः उत्पद्यते अहम् अपि इदम् अचोद्यम् चोद्ये ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {85/129} गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् इति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {86/129} कथम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {87/129} यस्य अपि बहुवचने परतः लुक् तेन अपि अत्र अलुक् वक्तव्यः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {88/129} तस्य अपि हि अत्र बहुवचनम् परम् भवति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {89/129} न वक्तव्यः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {90/129} अचि इति एवम् अलुक् सिद्धः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {91/129} अचि इति उच्यते ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {92/129} न च अत्र अजादिम् पश्यामः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {93/129} ननु च उक्तम् प्रत्ययलक्षणेन ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {94/129} वर्णाश्रये न अस्ति प्रत्ययलक्षणम् इति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {95/129} यदि वा कानि चित् वर्णाश्रयाणि अपि प्रत्ययलक्षणेन भवन्ति तथा इदम् अपि भविष्यति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {96/129} अथ वा अविशेषेण अलुकम् उक्त्वा हलि न इति वक्ष्यामि ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {97/129} यदि अविशेषेण अलुकम् उक्त्वा हलि न इति उच्यते बिदानाम् अपत्यम् बहवः माणवकाः बिदाः अत्र अपि अलुक् प्राप्नोति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {98/129} अस्तु ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {99/129} पुनः अस्य युवबहुत्वे वर्तमानस्य लुक् भविष्यति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {100/129} पुनः अलुक् कस्मात् न भवति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {101/129} समर्थानाम् प्रथमस्य गोत्रप्रत्ययान्तस्य अलुक् उच्यते न च तत् समर्थानाम् प्रथमम् गोत्रप्रत्ययान्तम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {102/129} किम् तर्हि ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {103/129} द्वितीयम् अर्थम् उपसङ्क्रान्तम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {104/129} अवश्यम् च एतत् एवम् विज्ञेयम् अत्रिभरद्वाजिका वसिष्ठकश्यपिका भृग्वङ्गिरसिका कुत्सकुशिका इति एवमर्थम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {105/129} गर्गभार्गविकाग्रहणम् वा क्रियते ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {106/129} तत् नियमार्थम् भविष्यति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {107/129} एतस्य एव द्वितीयम् अर्थम् उपसङ्क्रान्तस्य अलुक् भवति न अन्यस्य इति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {108/129} यत् अपि उच्यते एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः इति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {109/129} मा भूत् एवम् अञ् यः बहुषु यञ् यः बहुषु इति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {110/129} अञन्तम् यत्बहुषु यञन्तम् यत् बहुषु इति एवम् भविष्यति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {111/129} ननु च उक्तम् न एवम् शक्यम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {112/129} इह हि दोषः स्यात् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {113/129} काश्यपप्रतिकृतयः काश्यपाः इति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {114/129} न एषः दोषः ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {115/129} लौकिकस्य तत्र गोत्रस्य ग्रहणम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {116/129} न च एतत् लौकिकम् गोत्रम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {117/129} यस्य बहुवचने परतः लुक् समासबहुत्वे तेन प्रतिषेधः वक्तव्यः तेन एव चेत् कृतम् बहुत्वम् इति वा वक्तव्यम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {118/129} यस्य प्रत्ययार्थबहुत्वे लुक् तेन अस्त्रियाम् इति वक्तव्यम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {119/129} यस्य बहुवचने परतः लुक् तस्य अयम् अधिकः दोषः अत्रः इति उदात्तनिवृत्तिस्वरः प्राप्नोति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {120/129} तस्मात् प्रत्ययार्थबहुत्वे लुक् इति एषः पक्षः ज्यायान् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {121/129} अथ इह कथम् भवितव्यम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {122/129} गार्गी च बात्स्यः च इति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {123/129} यदि तावत् अस्त्रि विधिना आश्रीयते अस्ति अत्र अस्त्री इति कृत्वा भवितव्यम् लुका ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {124/129} अथ स्त्री प्रतिषेधेन आश्रीयते अस्ति अत्र स्त्री इति कृत्वा भवितव्यम् प्रतिषेधेन ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {125/129} किम् पुनः अत्र अर्थसतत्त्वम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {126/129} देवाः एतत् ज्ञातुम् अर्हन्ति ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {127/129} अथ यः लोप्यलोपिनाम् समासः तत्र कथम् भवितव्यम् ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {128/129} उभयम् हि दृश्यते ।

(P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 {129/129} शरद्वत् शुनकदर्भात् भ्रुगुवत् साग्रायणेषु न उदात्तस्वरितोदयम् अगार्ग्यकाश्यपगालवानाम् इति ।

(P_2,4.64) KA_I,493.2-8 Ro_II,893 {1/13} यञादीनाम् एकद्वयोः वा तत्पुरुषे षष्ठ्याः उपसङ्ख्यानम्

(P_2,4.64) KA_I,493.2-8 Ro_II,893 {2/13} यञादीनाम् एकद्वयोः वा तत्पुरुषे षष्ठ्याः उपसङ्ख्यानम् कर्तव्यम् ।

(P_2,4.64) KA_I,493.2-8 Ro_II,893 {3/13} गार्ग्यस्य कुलम् गार्ग्यकुलम् गर्गकुलम् वा ।

(P_2,4.64) KA_I,493.2-8 Ro_II,893 {4/13} गार्ग्ययोः कुलम् गार्ग्यकुलम् गर्गकुलम् वा ।

(P_2,4.64) KA_I,493.2-8 Ro_II,893 {5/13} बैदस्य कुलम् बैदकुलम् बिदकुलम् वा ।

(P_2,4.64) KA_I,493.2-8 Ro_II,893 {6/13} बैदयोः कुलम् बैदकुलम् बिदकुलम् वा ।

(P_2,4.64) KA_I,493.2-8 Ro_II,893 {7/13} यञादीनाम् इति किमर्थम् ।

(P_2,4.64) KA_I,493.2-8 Ro_II,893 {8/13} आङ्गस्य कुलम् आङ्गकुलम्। आङ्गयोः कुलम् आङ्गकुलम् ।

(P_2,4.64) KA_I,493.2-8 Ro_II,893 {9/13} एकद्वयोः इति किमर्थम् ।

(P_2,4.64) KA_I,493.2-8 Ro_II,893 {10/13} गर्गाणाम् कुलम् गर्गकुलम् ।

(P_2,4.64) KA_I,493.2-8 Ro_II,893 {11/13} तत्पुरुषे इति किमर्थम्। गार्ग्यस्य समीपम् उपगार्ग्यम् ।

(P_2,4.64) KA_I,493.2-8 Ro_II,893 {12/13} षष्ठ्याः इति किम् ।

(P_2,4.64) KA_I,493.2-8 Ro_II,893 {13/13} शोभनगार्ग्यः परमगार्ग्यः ।

(P_2,4.66) KA_I,493.10-16 Ro_II,893-894 {1/18} किम् अयम् समुच्चयः ।

(P_2,4.66) KA_I,493.10-16 Ro_II,893-894 {2/18} प्राक्षु भरतेषु च इति ।

(P_2,4.66) KA_I,493.10-16 Ro_II,893-894 {3/18} आहोस्वित् भरतविशेषणम् प्राग्ग्रहणम् ।

(P_2,4.66) KA_I,493.10-16 Ro_II,893-894 {4/18} प्राञ्चः ये भरताः इति ।

(P_2,4.66) KA_I,493.10-16 Ro_II,893-894 {5/18} किम् च अतः ।

(P_2,4.66) KA_I,493.10-16 Ro_II,893-894 {6/18} यदि समुच्चयः भरतग्रहणम् अनर्थकम् ।

(P_2,4.66) KA_I,493.10-16 Ro_II,893-894 {7/18} न हि अन्यत्र भरता सन्ति ।

(P_2,4.66) KA_I,493.10-16 Ro_II,893-894 {8/18} अथ प्राग्ग्रहणम् भरतविशेषणम् प्राग्ग्रहणम् अनर्थकम् ।

(P_2,4.66) KA_I,493.10-16 Ro_II,893-894 {9/18} न हि अप्राञ्चः भरताः सन्ति ।

(P_2,4.66) KA_I,493.10-16 Ro_II,893-894 {10/18} एवम् तर्हि समुच्चयः ।

(P_2,4.66) KA_I,493.10-16 Ro_II,893-894 {11/18} ननु च उक्तम् भरतग्रहणम् अनर्थकम् ।

(P_2,4.66) KA_I,493.10-16 Ro_II,893-894 {12/18} न हि अन्यत्र भरता सन्ति इति ।

(P_2,4.66) KA_I,493.10-16 Ro_II,893-894 {13/18} न अनर्थकम्। ज्ञापकार्थम् ।

(P_2,4.66) KA_I,493.10-16 Ro_II,893-894 {14/18} किम् ज्ञाप्यते ।

(P_2,4.66) KA_I,493.10-16 Ro_II,893-894 {15/18} एतत् ज्ञापयति आचार्यः अन्यत्र प्राग्ग्रहणे भरतग्रहणम् न भवति इति ।

(P_2,4.66) KA_I,493.10-16 Ro_II,893-894 {16/18} किम् एतस्य ज्ञापने प्रयोजनम् ।

(P_2,4.66) KA_I,493.10-16 Ro_II,893-894 {17/18} इञः प्राचाम् भरत्ग्रहणम् न भवति ।

(P_2,4.66) KA_I,493.10-16 Ro_II,893-894 {18/18} औद्दालकिः पिता औद्दालकायनः पुत्रः इति ।

(P_2,4.67) KA_I,493.18-20 Ro_II,894 {1/3} गोपवनादिप्रतिषेधः प्राक् हरितादिभ्यः

(P_2,4.67) KA_I,493.18-20 Ro_II,894 {2/3} गोपवनादिप्रतिषेधः प्राक् हरितादिभ्यः द्रष्टव्यः ।

(P_2,4.67) KA_I,493.18-20 Ro_II,894 {3/3} हारितः हारितौ बहुषु हरिताः ।

(P_2,4.69) KA_I,494.2-6 Ro_II,894-895 {1/8} किमर्थम् अद्वन्द्वे इति उच्यते ।

(P_2,4.69) KA_I,494.2-6 Ro_II,894-895 {2/8} द्वन्द्वे मा भूत् इति ।

(P_2,4.69) KA_I,494.2-6 Ro_II,894-895 {3/8} न एतत् अस्ति प्रयोजनम् ।

(P_2,4.69) KA_I,494.2-6 Ro_II,894-895 {4/8} इष्यते एव द्वन्द्वे : भ्रष्टककपिष्ठलाः भ्राष्टकिकापिष्थलयः इति ।

(P_2,4.69) KA_I,494.2-6 Ro_II,894-895 {5/8} अतः उत्तरम् पठति अद्वन्द्वे इति द्वन्द्वाधिकारनिवृत्त्यर्थम्

(P_2,4.69) KA_I,494.2-6 Ro_II,894-895 {6/8} अद्वन्द्वे इति उच्यते द्वन्द्वाधिकारनिवृत्त्यर्थम् ।

(P_2,4.69) KA_I,494.2-6 Ro_II,894-895 {7/8} द्वन्द्वाधिकारः निवर्तते ।

(P_2,4.69) KA_I,494.2-6 Ro_II,894-895 {8/8} तस्मिन् निवृत्ते अविशेषेण द्वन्द्वे च अद्वन्द्वे च भविष्यति ।

(P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 {1/21} आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनम् । आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनम् कर्तव्यम् ।

(P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 {2/21} अगस्तिकौण्डिनच् इति एतौ प्रकृत्यादेशौ भवतः इति वक्तव्यम् ।

(P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 {3/21} किम् प्रयोजनम् ।

(P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 {4/21} लुक्प्रतिषेधे वृद्ध्यर्थम् । लुक्प्रतिषेधे वृद्धिः यथा स्यात् ।

(P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 {5/21} प्रत्ययान्तनिपातने हि वृद्ध्यभावः

(P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 {6/21} प्रत्ययान्तनिपातने हि सति वृद्ध्यभावः स्यात् ।

(P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 {7/21} आगस्तीयाः कौण्डिन्याः इति ।

(P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 {8/21} यदि प्रक्र्टिनिपातनम् क्रियते केन इदानीम् प्रत्ययस्य लोपः भविष्यति ।

(P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 {9/21} अधिकारात् प्रत्ययलोपः

(P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 {10/21} अधिकारात् प्रत्ययलोपः भविष्यति ।

(P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 {11/21} तत् तर्हि प्रकृतिनिपातनम् कर्तव्यम् ।

(P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 {12/21} न कर्तव्यम् ।

(P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 {13/21} योगविभागः करिष्यते ।

(P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 {14/21} आगस्त्यकौण्डिन्ययोः बहुषु लुक् भवति ।

(P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 {15/21} ततः अगस्तिकुण्डिनच् इति एतौ प्रकृत्यादेशौ भवतः आगस्त्यकौण्डिन्ययोः इति ।

(P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 {16/21} एवम् अपि प्रत्ययान्तयोः एव प्राप्नोति ।

(P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 {17/21} प्रत्ययान्तात् हि भवान् षष्ठीम् उच्चारयति ।

(P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 {18/21} आगस्त्यकौण्डिन्ययोः इति ।

(P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 {19/21} न एषः दोषः ।

(P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 {20/21} यथा हि परिभाषितम् प्रत्ययस्य लुक्श्लुलुपः भवन्ति इति प्रत्ययस्य एव भविष्यति ।

(P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 {21/21} अवशिष्टस्य आदेशौ भविष्यतः ।

(P_2,4.74) KA_I,495.4-15 Ro_II,896-897 {1/11} ऊतः अचि ।ऊतः अचि इति वक्तव्यम् ।

(P_2,4.74) KA_I,495.4-15 Ro_II,896-897 {2/11} इह मा भूत् ।

(P_2,4.74) KA_I,495.4-15 Ro_II,896-897 {3/11} सनीस्रसः दनीध्वसः इति ।

(P_2,4.74) KA_I,495.4-15 Ro_II,896-897 {4/11} अथ ऊतः इति उच्यमाने इह कस्मात् न भवति ।

(P_2,4.74) KA_I,495.4-15 Ro_II,896-897 {5/11} योयूयः रोरूवः ।

(P_2,4.74) KA_I,495.4-15 Ro_II,896-897 {6/11} विहितविशेषणम् ऊकारान्तग्रहणन् ।

(P_2,4.74) KA_I,495.4-15 Ro_II,896-897 {7/11} ऊकारान्तात् यः विहितः इति ।

(P_2,4.74) KA_I,495.4-15 Ro_II,896-897 {8/11} तत् तर्हि वक्तव्यम् ।

(P_2,4.74) KA_I,495.4-15 Ro_II,896-897 {9/11} न वक्तव्यम् ।

(P_2,4.74) KA_I,495.4-15 Ro_II,896-897 {10/11} इष्टम् एव एतत् सङ्गृहीतम् ।

(P_2,4.74) KA_I,495.4-15 Ro_II,896-897 {11/11} सनीस्रंसः दनीध्वंसः इति एव भवितव्यम् ।

(P_2,4.77) KA_I,495.10-15 Ro_II,897-898 {1/11} गापोः ग्रहणे इण्पिबत्योः ग्रहणम् । गापोः ग्रहणे इण्पिबत्योः ग्रहणम् कर्तव्यम् ।

(P_2,4.77) KA_I,495.10-15 Ro_II,897-898 {2/11} इणः यः गाशब्दः पिबतेः यः पाशब्दः इति वक्तव्यम् ।

(P_2,4.77) KA_I,495.10-15 Ro_II,897-898 {3/11} इह मा भूत् ।

(P_2,4.77) KA_I,495.10-15 Ro_II,897-898 {4/11} अगासीत् नटः ।

(P_2,4.77) KA_I,495.10-15 Ro_II,897-898 {5/11} अपासीत् धनम् इति ।

(P_2,4.77) KA_I,495.10-15 Ro_II,897-898 {6/11} तत् तर्हि वक्तव्यम् ।

(P_2,4.77) KA_I,495.10-15 Ro_II,897-898 {7/11} न वक्तव्यम् ।

(P_2,4.77) KA_I,495.10-15 Ro_II,897-898 {8/11} इणः ग्रहणे तावत् वार्तम् ।

(P_2,4.77) KA_I,495.10-15 Ro_II,897-898 {9/11} निर्देशात् एव इदम् व्यक्तम् लुग्विकरणस्य ग्रहणम् इति ।

(P_2,4.77) KA_I,495.10-15 Ro_II,897-898 {10/11} पाग्रहणे च अपि वार्तम् ।

(P_2,4.77) KA_I,495.10-15 Ro_II,897-898 {11/11} वक्तव्यम् एव एतत् सर्वत्र एव पाग्रहणे अलुग्विकरणस्य ग्रहणम् इति ।

(P_2,4.79) KA_I,495.17-496.7 Ro_II,898 {1/16} तथासोः आत्मनेपदवचनम्

(P_2,4.79) KA_I,495.17-496.7 Ro_II,898 {2/16} तथासोः आत्मनेपदस्य ग्रहणम् कर्तव्यम् ।

(P_2,4.79) KA_I,495.17-496.7 Ro_II,898 {3/16} आत्मनेपदम् यौ तथासौ इति वक्तव्यम् ।

(P_2,4.79) KA_I,495.17-496.7 Ro_II,898 {4/16} एकवचनग्रहणम् वा

(P_2,4.79) KA_I,495.17-496.7 Ro_II,898 {5/16} अथ वा एकवचने ये तथासी इति वक्तव्यम् ।

(P_2,4.79) KA_I,495.17-496.7 Ro_II,898 {6/16} तत् च अवश्यम् अन्यतरत् कर्तव्यम् ।

(P_2,4.79) KA_I,495.17-496.7 Ro_II,898 {7/16} अवचने हि अनिष्टप्रसङ्गः

(P_2,4.79) KA_I,495.17-496.7 Ro_II,898 {8/16} अनुच्यमाने हि एतस्मिन् अनिष्टम् प्रसज्येत ।

(P_2,4.79) KA_I,495.17-496.7 Ro_II,898 {9/16} अतनिष्ट यूपम् ।

(P_2,4.79) KA_I,495.17-496.7 Ro_II,898 {10/16} असनिष्ट यूपम् इति ।

(P_2,4.79) KA_I,495.17-496.7 Ro_II,898 {11/16} तत् तर्हि वक्तव्यम् ।

(P_2,4.79) KA_I,495.17-496.7 Ro_II,898 {12/16} न वक्तव्यम् ।

(P_2,4.79) KA_I,495.17-496.7 Ro_II,898 {13/16} यदि अपि तावत् अयम् तशब्दः दृष्टापचारः अस्ति आत्मनेपदम् अस्ति एव परस्मैपदम् अस्ति एकवचनम् अस्ति बहुवचनम् अयम् खलु थास्शब्दः अदृष्टापचारः आत्मनेपदम् एकवचनम् एव ।

(P_2,4.79) KA_I,495.17-496.7 Ro_II,898 {14/16} तस्य अस्य कः अन्यः सहायः भवितुम् अर्हति अन्यत् अतः आत्मनेपदात् एकवचनात् च ।

(P_2,4.79) KA_I,495.17-496.7 Ro_II,898 {15/16} तत् यथा अस्यस् गोः द्वितीयेन अर्थः इति ।

(P_2,4.79) KA_I,495.17-496.7 Ro_II,898 {16/16} गौः एव आनीयते न अश्वः न गर्दभः ।

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {1/25} आमः लेः लोपे लुङ्लोटोः उपसङ्ख्यानम्

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {2/25} आमः लेः लोपे लुङ्लोटोः उपसङ्ख्यानम् कर्तव्यम् : ताम् बैजवापयः विदाम् अक्रन् ।

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {3/25} अत्र भवन्तः विदाम् कुर्वन्तु। तत् तर्हि वक्तव्यम् ।

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {4/25} न वक्तव्यम् ।

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {5/25} लिग्रहणम् निवर्तिष्यते ।

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {6/25} यदि निवर्तते प्रत्ययमात्रस्य प्राप्नोति ।

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {7/25} इष्यते च प्रत्ययमात्रस्य ।

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {8/25} आतः च इष्यते ।

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {9/25} एवम् हि आह : कृञ् च अनुप्रयुज्यते लिटि इति ।

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {10/25} यदि च प्रत्ययमात्रस्य लुक् भवति ततः एतत् उपपन्नम् भवति ।

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {11/25} आमन्तेभ्यः णलः प्रतिषेधः

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {12/25} आमन्तेभ्यः णलः प्रतिषेधः वक्तव्यः ।

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {13/25} शशाम तताम ।

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {14/25} वृद्धौ कृत्यायाम् आमः इति लुक् प्राप्नोति ।

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {15/25} आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {16/25} आमन्तेभ्यः णलः अप्रतिषेधः ।

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {17/25} अनर्थकः प्रतिषेधः अप्रतिषेधः ।

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {18/25} लुक् कस्मात् न भवति : शशाम तताम इति ।

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {19/25} अर्थवतः आम्शब्दस्य ग्रहणम् ।

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {20/25} न च एषः अर्थवान् ।

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {21/25} आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः इति चेत् अमः प्रतिषेधः । आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः इति चेत् अमः प्रतिषेधः वक्तव्यः ।

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {22/25} आम ।

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {23/25} उक्तम् वा

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {24/25} किम् उक्तम् ।

(P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 {25/25} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {1/39} किम् पुनः लुक् आदेशानाम् अपवादः आहोस्वित् कृतेषु आदेशेषु भवति ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {2/39} लुक् आदेशापवादः । लुक् आदेशानाम् अपवादः ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {3/39} तिङ्कृताभावः तु

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {4/39} तिङ्कृतस्य तु अभावः ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {5/39} कस्य ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {6/39} पदत्वस्य ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {7/39} सुबन्तपदत्वात् सिद्धम्

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {8/39} सुबन्तम् पदम् इति पदसञ्ज्ञा भविष्यति ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {9/39} कथम् स्वाद्युत्पत्तिः ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {10/39} लकारस्य कृत्त्वात् प्रातिपदिकत्वम् तदाश्रयम् प्रत्ययविधानम् । लकारः कृत् ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {11/39} कृत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {12/39} तदाश्रयम् प्रत्ययविधानम् ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {13/39} प्रातिपदिकाश्रयत्वात् स्वाद्युत्पत्तिः भविष्यति ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {14/39} सुपः श्रवणम् प्राप्नोति ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {15/39} अव्ययात् इति लुक् भविष्यति ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {16/39} कथम् अव्ययत्वम् ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {17/39} अव्ययत्वम् मकारान्तत्वात्

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {18/39} कृदन्तम् मान्तम् अव्ययसञ्ज्ञम् भवति इति अव्ययसञ्ज्ञा भविष्यति ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {19/39} स्वरः कथम् ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {20/39} यत् प्रकारयाम् चकार ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {21/39} स्वरः कृदन्तप्रकृतिस्वरत्वात्

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {22/39} कृदन्तम् उत्तरपदम् प्रकृतिस्वरम् भवति इति एषः स्वरः भविष्यति ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {23/39} तथा च निघातानिघातसिद्धिः

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {24/39} तथा च निघातानिघातसिद्धिः भवति ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {25/39} चक्षुष्कामम् याजयाम् चकार ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {26/39} तिङ् अतिङः इति तस्य च अनिघातः ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {27/39} तस्मात् च निघातः सिद्धः भवति ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {28/39} नञा तु समासप्रसङ्गः

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {29/39} नञा तु समासः प्राप्नोति ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {30/39} न कारयम् न हारयाम् ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {31/39} नञ् सुबन्तेन सह समस्यते इति समासः प्राप्नोति ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {32/39} उक्तम् वा

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {33/39} किम् उक्तम् ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {34/39} असामर्थ्यात् इति ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {35/39} न अत्र नञः आमन्तेन सामर्थ्यम् ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {36/39} केन तर्हि ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {37/39} तिङन्तेन ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {38/39} न चकार कारयाम् ।

(P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 {39/39} न चकार हारयाम् इति ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {1/23} अव्ययात् आपः लुग्वचनानर्थक्यम् लिङ्गाभावात् ।अव्ययात् आपः लुग्वचनम् अनर्थकम् ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {2/23} किम् कारणम् ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {3/23} लिङ्गाभावात् ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {4/23} अलिङ्गम् अव्ययम् ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {5/23} किम् इदम् भवान् सुपः लुकम् मृष्यति आपः लुकम् न मृष्यति ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {6/23} यथा एव हि अलिङ्गम् अव्ययम् एवम् असङ्ख्यम् अपि ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {7/23} सत्यम् एतत् ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {8/23} प्रत्ययलक्षणम् आचार्यः प्रार्थयमानः सुपः लुकम् मृष्यति ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {9/23} आपः पुनः अस्य लुकि सति न किम् चित् अपि प्रयोजनम् अस्ति ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {10/23} उच्यमाने अपि एतस्मिन् स्वाद्युत्पत्तिः न प्राप्नोति ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {11/23} किम् कारणम् ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {12/23} एकत्वादीनाम् अभावात् ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {13/23} एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {14/23} न च एषाम् एकत्वादयः सन्ति ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {15/23} अविशेषेण उत्पद्यन्ते ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {16/23} उत्पन्नानाम् नियमः क्रियते ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {17/23} अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {18/23} के च प्रकृताः ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {19/23} एकत्वादयः ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {20/23} एकस्मिन् एकवचनम् न द्वयोः न बहुषु ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {21/23} द्वयोः एव द्विवचनम् न एकस्मिन् न बहुषु ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {22/23} बहुषु एव बहुवचनम् न एकस्मिन् न द्वयोः इति ।

(P_2,4.82) KA_I,498.2-12 Ro_II,902-903 {23/23} अथ वा आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते अव्ययेभ्यः स्वादयः इति यत् अयम् अव्ययात् आपसुपः इति सुब्लुकम् शास्ति ।

(P_2,4.83.1) KA_I,498.14-23 Ro_II,903 {1/14} न अव्ययीभावात् अतः इति योगव्यवसानम्

(P_2,4.83.1) KA_I,498.14-23 Ro_II,903 {2/14} न अव्ययीभावात् अतः इति योगः व्यवसेयः ।

(P_2,4.83.1) KA_I,498.14-23 Ro_II,903 {3/14} न अव्ययीभावात् अकारान्तात् सुपः लुक् भवति ।

(P_2,4.83.1) KA_I,498.14-23 Ro_II,903 {4/14} ततः अम् तु अपञ्चम्याः इति ।

(P_2,4.83.1) KA_I,498.14-23 Ro_II,903 {5/14} किमर्थः योगविभागः ।

(P_2,4.83.1) KA_I,498.14-23 Ro_II,903 {6/14} पञ्चम्याः अम्प्रतिषेधार्थम् । पञ्चम्याः अमः प्रतिषेधः यथा स्यात् ।

(P_2,4.83.1) KA_I,498.14-23 Ro_II,903 {7/14} एकयोगे हि उभयोः प्रतिषेधः

(P_2,4.83.1) KA_I,498.14-23 Ro_II,903 {8/14} एकयोगे हि सति उभयोः प्रतिषेधः स्यात् अमः अलुकः च ।

(P_2,4.83.1) KA_I,498.14-23 Ro_II,903 {9/14} सः तर्हि योगविभागः कर्तव्यः ।

(P_2,4.83.1) KA_I,498.14-23 Ro_II,903 {10/14} न कर्तव्यः ।

(P_2,4.83.1) KA_I,498.14-23 Ro_II,903 {11/14} तुः नियामकः

(P_2,4.83.1) KA_I,498.14-23 Ro_II,903 {12/14} तुः क्रियते ।

(P_2,4.83.1) KA_I,498.14-23 Ro_II,903 {13/14} स नियामकः भविष्यति ।

(P_2,4.83.1) KA_I,498.14-23 Ro_II,903 {14/14} अम् एव अपञ्चम्याः इति ।

(P_2,4.83.2) KA_I,499.1-9 Ro_II,903-904 {1/14} अमि पञ्चमीप्रतिषेधे अपादानग्रहणम्

(P_2,4.83.2) KA_I,499.1-9 Ro_II,903-904 {2/14} अमि पञ्चमीप्रतिषेधे अपादानग्रहणम् कर्तव्यम् ।

(P_2,4.83.2) KA_I,499.1-9 Ro_II,903-904 {3/14} अपादानपञ्चम्याः इति वक्तव्यम् ।

(P_2,4.83.2) KA_I,499.1-9 Ro_II,903-904 {4/14} किम् प्रयोजनम् ।

(P_2,4.83.2) KA_I,499.1-9 Ro_II,903-904 {5/14} कर्मप्रवचनीययुक्ते अप्रतिषेधार्थम् । कर्मप्रवचनीययुक्ते मा भूत् ।

(P_2,4.83.2) KA_I,499.1-9 Ro_II,903-904 {6/14} आपाटलिपुत्रम् वृष्टः देवः ।

(P_2,4.83.2) KA_I,499.1-9 Ro_II,903-904 {7/14} न वा उत्तरपदस्य कर्मप्रवचनीययोगात् समासात् पञ्चम्यभावः

(P_2,4.83.2) KA_I,499.1-9 Ro_II,903-904 {8/14} न वा वक्तव्यम् ।

(P_2,4.83.2) KA_I,499.1-9 Ro_II,903-904 {9/14} किम् कारणम् ।

(P_2,4.83.2) KA_I,499.1-9 Ro_II,903-904 {10/14} उत्तरपदम् अत्र कर्मप्रवचनीययुक्तम् ।

(P_2,4.83.2) KA_I,499.1-9 Ro_II,903-904 {11/14} उत्तरपदस्य कर्मप्रवचनीययोगात् समासात् पञ्चमी न भविष्यति ।

(P_2,4.83.2) KA_I,499.1-9 Ro_II,903-904 {12/14} यदा च समासः कर्मप्रवचनीययुक्तः भवति तदा प्रतिषेधः ।

(P_2,4.83.2) KA_I,499.1-9 Ro_II,903-904 {13/14} तत् यथा ।

(P_2,4.83.2) KA_I,499.1-9 Ro_II,903-904 {14/14} आ उपकुम्भात् आ उपमणिकात् इति ।

(P_2,4.84) KA_I,499.11-14 Ro_II,904 {1/7} सप्तम्याः ऋद्धिनदीसमाससङ्ख्यावयवेभ्यः नित्यम् । सप्तम्याः ऋद्धिनदीसमाससङ्ख्यावयवेभ्यः नित्यम् इति वक्तव्यम् ।

(P_2,4.84) KA_I,499.11-14 Ro_II,904 {2/7} ऋद्धि ।

(P_2,4.84) KA_I,499.11-14 Ro_II,904 {3/7} सुमरम् सुमगधम् ।

(P_2,4.84) KA_I,499.11-14 Ro_II,904 {4/7} नदीसमासः ।

(P_2,4.84) KA_I,499.11-14 Ro_II,904 {5/7} उन्मत्तगङ्गम् लोहितगङ्गम् ।

(P_2,4.84) KA_I,499.11-14 Ro_II,904 {6/7} सङ्ख्यावयव ।

(P_2,4.84) KA_I,499.11-14 Ro_II,904 {7/7} एकविंसतिभारद्वाजम् त्रिपञ्चाशत्गौतमम् ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {1/60} टिताम् टेः एविधेः लुटः डारौरसः पूर्वविप्रतिषिद्धम्

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {2/60} टिताम् टेः एविधेः लुटः डारौरसः भवन्ति पूर्वविप्रतिषेधेन ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {3/60} टेः एत्वस्य अवकाशः पचते पचेते पचन्ते ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {4/60} डारौरसाम् अवकाशः श्वः कर्ता श्वः कर्तारौ श्वः कर्तारः ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {5/60} इह उभयम् प्राप्नोति ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {6/60} श्वः अधेता श्वः अध्येतारौ श्वः अध्येतारः ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {7/60} डारौरसः भवन्ति पूर्वविप्रतिषेधेन ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {8/60} सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {9/60} न वक्तव्यः ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {10/60} आत्मनेपदानाम् च इति वचनात् सिद्धम्

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {11/60} आत्मनेपदानाम् च डारौरसः भवन्ति इति वक्तव्यम् ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {12/60} तत् च समसङ्ख्यार्थम् । तत् च अवश्यम् आत्मनेपदग्रहणम् कर्तव्यम् समसङ्ख्यार्थम् ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {13/60} सङ्ख्यातनुदेशः यथा स्यात् ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {14/60} अक्रियमाणे हि आत्मनेपदग्रहणे शट् स्थानिनः त्रयः आदेशाः ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {15/60} वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {16/60} पूर्वविप्रतिषेधार्थेन तावत् न अर्थः आत्मनेपदग्रहणेन ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {17/60} इदम् इह सम्प्रधार्यम् ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {18/60} डारौरसः क्रियन्ताम् टेः एत्वम् इति ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {19/60} किम् अत्र कर्तव्यम् ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {20/60} परत्वात् एत्वम् ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {21/60} नित्याः डारौरसः ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {22/60} कृते अपि एत्वे प्रप्नुवन्ति अकृते अपि प्राप्नुवन्ति ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {23/60} टेः एत्वम् अपि नित्यम् ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {24/60} कृतेषु अपि डारौरस्सु प्राप्नोति अकृतेषु अपि प्राप्नोति ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {25/60} अनित्यम् एत्वम् ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {26/60} अन्यस्य कृतेषु डारौरस्सु प्राप्नोति अन्यस्य अकृतेषु ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {27/60} शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {28/60} डारौरसः अपि अनित्याः ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {29/60} अन्यस्य कृते एत्वे प्राप्नुवन्ति अन्यस्य अकृते ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {30/60} शब्दान्तरस्य प्राप्नुवन्तः अनित्या भवन्ति ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {31/60} उभयोः अनित्ययोः परत्वात् एत्वम् ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {32/60} एत्वे कृते पुनःप्रसङ्गविज्ञानात् डारौरसः भविष्यन्ति ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {33/60} समसङ्ख्यार्थेन च अपि न अर्थः आत्मनेपदग्रहणेन ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {34/60} स्थाने अन्तरमेन व्यवस्था भविष्यति ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {35/60} कुतः आन्तर्यम् ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {36/60} अर्थतः ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {37/60} एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {38/60} अथ वा आदेशाः अपि षट् एव निर्दिश्यन्ते ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {39/60} कथम् ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {40/60} एकशेषनिर्देशात् ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {41/60} एकशेषनिर्देशः अयम् ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {42/60} अथ एतस्मिन् एकशेषनिर्देशे सति किम् अयम् कृतैकशेषाणाम् द्वन्द्वः ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {43/60} डा च डा च डा रौ च रौ च रौ रः च रः च रः। डा च रौ च रः च डारौरसः इति ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {44/60} आहोस्वित् कृतद्वन्द्वानाम् एकशेषः ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {45/60} डा च रौ च रः च डारौरसः ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {46/60} डारौरसः च डारौरसः च डारौरसः इति ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {47/60} किम् च अतः ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {48/60} यदि कृतैकशेषाणाम् द्वन्द्वः अनिष्टः समसङ्ख्यः प्राप्नोति एकवचनद्विवचनयोः डा प्राप्नोति ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {49/60} बहुवचनैकवचनयोः रौ प्राप्नोति द्विवचनबहुवचनयोः च रः प्राप्नोति ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {50/60} अथ कृतद्वन्द्वानाम् एकशेषः न दोषः भवति ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {51/60} यथा न दोषः तथा अस्तु ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {52/60} किम् पुनः अत्र ज्यायः ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {53/60} उभयम् इति आह ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {54/60} उभयम् हि दृश्यते ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {55/60} बहु शक्तिकिटकम् बहूनि शक्तिकिटकानि बहु स्थालीपिठरम् बहूनि स्थालीपिठरानि ।

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {56/60} डारौरसः कृते टेः ए यथात् द्वित्वम् प्रसारणे समस्ङ्ख्येन न अर्थ अस्ति

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {57/60} सिद्धम् स्थाने अर्थतः अन्तराः

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {58/60} आन्तर्यतः व्यवस्था

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {59/60} त्रयः एव इमे भवन्तु सर्वेषाम्

(P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 {60/60} टेः एत्वम् च परत्वात् कृते अपि तस्मिन् इमे सन्तु

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {1/83} डाविकारस्य शित्करणम् सर्वादेशार्थम्

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {2/83} डाविकारः शित् कर्तव्यः ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {3/83} किम् प्रयोजनम् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {4/83} सर्वादेशार्थम् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {5/83} शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {6/83} अक्रियमाणे हि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्तस्य प्रसज्येत ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {7/83} निघातप्रसङ्गः तु

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {8/83} निघातः तु प्रप्नोति ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {9/83} श्वः कर्ता ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {10/83} तासेः परम् लसार्वधातुकम् अनुदात्तम् भवति इति एषः स्वरः प्राप्नोति ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {11/83} यत् तावत् उच्यते डाविकारस्य शित्करणम् सर्वादेशार्थम् इति ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {12/83} सिद्धम् अलः अन्त्यविकारात्

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {13/83} सिद्धम् एतत् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {14/83} कथम् ।अलः अन्त्यविकारात् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {15/83} अस्तु अयम् अलः अन्त्यस्य ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {16/83} का रूपसिद्धिः : कर्ता ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {17/83} डिति टेः लोपात् लोपः

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {18/83} डिति टेः लोपेन लोपः भविष्यति ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {19/83} अभत्वात् न प्राप्नोति ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {20/83} डित्करणसामर्थ्यात् भविष्यति ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {21/83} अनित्त्वात् वा

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {22/83} अथ वा अनित्त्वात् एतत् सिद्धम् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {23/83} किम् इदम् अनित्त्वात् इति ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {24/83} अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः स्यात् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {25/83} असत्याम् प्रत्ययसञ्ज्ञायाम् इत्सञ्ज्ञा न ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {26/83} असत्याम् इत्सञ्ज्ञायाम् लोपः न ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {27/83} असति लोपे अनेकाल् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {28/83} यद अनेकाल् तदा सर्वादेशः ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {29/83} यदा सर्वादेशः तदा प्रत्ययः ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {30/83} यदा प्रत्ययः तदा इत्सञ्ज्ञा ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {31/83} यदा इत्सञ्ज्ञा तदा लोपः ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {32/83} प्रश्लिष्टनिर्देशात् वा

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {33/83} अथ वा प्रश्लिष्टनिर्देशः अयम् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {34/83} डा आ डा ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {35/83} सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {36/83} यदा तर्हि अयम् अन्त्यस्य स्थाने भवति तदा तिङ्ग्रहणेन ग्रहणम् न प्राप्नोति ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {37/83} तिङ्ग्रहणम् एकदेशविकृतस्य अनन्यत्वात्

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {38/83} एकदेशविकृतम् अनन्यवत् भवति इति तिङ्ग्रहणेन ग्रहणम् भविष्यति स्वरः कथम् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {39/83} स्वरे विप्रतिषेधात् सिद्धम्

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {40/83} डारौरसः क्रियन्ताम् अनुदात्तत्वम् इति किम् अत्र कर्तव्यम् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {41/83} परत्वात् अनुदात्तत्वम् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {42/83} नित्याः डारौरसः ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {43/83} कृते अपि अनुदात्तत्वे प्रप्नुवन्ति अकृते अपि प्रप्नुवन्ति ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {44/83} अनुदात्तत्वम् अपि नित्यम् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {45/83} कृतेषु कृतेषु अपि डारौरस्सु प्राप्नोति अकृतेषु अपि प्राप्नोति ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {46/83} अनित्यम् अनुदात्तत्वम् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {47/83} अन्यस्य कृतेषु डारौरस्सु प्राप्नोति अन्यस्य अकृतेषु ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {48/83} शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {49/83} डारौरसः अपि अनित्याः ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {50/83} अन्यथास्वरस्य कृते अनुदात्तत्वे प्राप्नुवन्ति अन्यथास्वरस्य अकृते ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {51/83} स्वरभिन्नस्य च प्राप्नुवन्तः अनित्याः भवन्ति ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {52/83} उभयोः अनित्ययोः परत्वात् अनुदात्तत्वम् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {53/83} अनुदात्तत्वे कृते पुनःप्रसङ्गविज्ञातात् डारौरसः ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {54/83} टिलोपे उदात्तनिवृत्तिस्वरेण सिद्धम् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {55/83} न सिध्यति ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {56/83} किम् कारणम् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {57/83} अन्तरङ्गत्वात् डारौरसः ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {58/83} तत्र अन्तरङ्गत्वात् डारौरस्सु कृतेषु अनुदात्तत्वम् क्रियताम् टिलोपः इति किम् अत्र कर्तव्यम् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {59/83} परत्वात् टिलोपेन भवितव्यम् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {60/83} एवम् तर्हि स्वरे विप्रतिषेधात् सिद्धम् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {61/83} न्याय्यः एव अयम् स्वरे विप्रतिषेधः ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {62/83} इदम् इह सम्प्रधार्यम् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {63/83} अनुदात्तत्वम् क्रियताम् उदात्तनिवृत्तिस्वरः इति ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {64/83} किम् अत्र कर्तव्यम् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {65/83} परत्वात् अनुदात्तत्वम् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {66/83} अनुदात्तत्वे कृते पुनःप्रसङ्गविज्ञानात् उदात्तनिवृत्तिस्वरः भविष्यति ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {67/83} तत् एतत् क्व सिद्धम् भवति ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {68/83} यत् पित् वचनम् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {69/83} यत् अपित् वचनम् तत्र न सिध्यति ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {70/83} तत्र अपि सिद्धम् ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {71/83} कथम् इदम् अद्य लसार्वधातुकानुदात्तत्वम् प्रत्ययस्वरस्य अपवादः ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {72/83} न च अपवादविषये उत्सर्गः अभिनिविशते ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {73/83} पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {74/83} प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {75/83} तत् न तावत् कदा चित् प्रत्ययस्वरः भवति ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {76/83} अपवादम् लसार्वधातुकनुदात्तत्वम् प्रतीक्षते ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {77/83} तत्र अनुदात्तत्वम् क्रियताम् लोपः इति ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {78/83} यदि अपि परत्वात् लोपः सः असौ अविद्यमानोदात्तत्वे अनुदात्ते उदात्तः लुप्यते ।

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {79/83} प्रत्ययस्वरापवादः लसार्वधातुकानुदात्तम्

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {80/83} तेन तत्र न प्रसक्तः प्रत्ययस्वरः कदा चित्

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {81/83} प्रत्ययस्वरः तु तासेः वृत्तिसन्नियोगशिष्टः

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {82/83} तेन च अपि असौ उदात्तः लोप्स्यते

(P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 {83/83} तथा न दोषः