व्याकरणमहाभाष्यम्/अष्टाध्यायी-तृतीयोऽध्यायः
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {1/109} अधिकारेण इयम् प्रत्ययसञ्ज्ञा क्रियते ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {2/109} सा प्रकृत्युपपदोपाधीनाम् अपि प्राप्नोति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {3/109} तस्याः प्रतिषेधः वक्तव्यः ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {4/109} प्रकृति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {5/109} गुप्तिज्किभ्यः सन् ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {6/109} उपपद ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {7/109} स्तम्बकर्णयोः रमजपोः ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {8/109} उपाधि ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {9/109} हरतेः दृतिनाथयोः पशौ ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {10/109} एतेषाम् प्रतिषेधः वक्तव्यः ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {11/109} किम् च स्यात् यदि एतेषाम् अपि प्रत्ययसञ्ज्ञा स्यात् ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {12/109} परत्वम् आद्युदात्तत्वम् अङ्गसञ्ज्ञा इति एते विधयः प्रसज्येरन् ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {13/109} अतः उत्तरम् पठति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {14/109} प्रत्ययाधिकारे प्रकृत्युपपदोपाधीनाम् अप्रतिषेधः ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {15/109} अधिकारेण अपि प्रत्ययसञ्ज्ञायाम् सत्याम् प्रकृत्युपपदोपाधीनाम् अप्रतिषेधः ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {16/109} अनर्थकः प्रतिषेधः अप्रतिषेधः ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {17/109} प्रत्ययसञ्ज्ञा कस्मात् न भवति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {18/109} निमित्तस्य निमित्तिकार्यार्थत्वात् अन्यत्र अपि ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {19/109} निमित्तानि हि निमित्तिकार्यार्थानि भवन्ति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {20/109} किम् पुनः निमित्तम् कः वा निमित्ती ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {21/109} प्रकृत्युपपओपाधयः निमित्तम् प्रत्ययः निमित्ती ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {22/109} अन्यत्र अपि च एषः न्यायः दृष्टः ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {23/109} क्व अन्यत्र ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {24/109} लोके ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {25/109} तत् यथा ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {26/109} बहुषु आसीनेषु कः चित् कम् चित् पृच्छति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {27/109} कतमः देवदत्तः ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {28/109} कतरः यज्ञदत्तः इति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {29/109} सः तस्मै आचष्टे ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {30/109} यः अश्वे यः पीठे इति उक्ते निमित्तस्य निमित्तिकार्यार्थत्वात् अध्यवस्यति अयम् देवदत्तः अयम् यज्ञ्दत्त इति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {31/109} न इदानीम् अश्वस्य पीठस्य वा देवदत्तः इति सञ्ज्ञा भवति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {32/109} किम् पुनः निमित्तम् कः वा निमित्ती ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {33/109} निर्ज्ञातः अर्थः निमित्तम् अनिर्ज्ञातार्थः निमित्ती ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {34/109} इह च प्रत्ययः अनिर्ज्ञातः प्रकृत्युपपदोपाधयः निर्ज्ञाताः ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {35/109} क्व ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {36/109} धातूपदेशे प्रातिपदिकोपदेशे च ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {37/109} ते निर्ज्ञाताः निमित्तत्वेन उपादीयन्ते ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {38/109} प्रधाने कार्यसम्प्रत्ययात् वा सिद्धम् । अथ वा प्रधाने कार्यसम्प्रत्ययः भविष्यति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {39/109} किम् च प्रधानम् ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {40/109} प्रत्ययः ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {41/109} तत् यथा ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {42/109} बहुषु यात्सु कः चित् कम् चित् पृच्छति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {43/109} कः याति इति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {44/109} सः आह राजा इति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {45/109} राजा इति उक्ते प्रधाने कार्यसम्प्रत्ययात् यः पृच्छति यः च आचष्टे उभयोः सम्प्रत्ययः भवति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {46/109} किङ्कृतम् पुनः प्राधान्यम् ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {47/109} अर्थकृतम् ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {48/109} यथा पुनः लोके अर्थकृतम् प्राधान्यम् शब्दस्य इदानीम् किङ्कृतम् प्राधान्यम् ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {49/109} शब्दस्य अपूर्वोपदेशः प्राधान्यम् ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {50/109} यस्य अपूर्वोपदेशः सः प्रधानम् ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {51/109} प्रकृत्युपपदोपाधयः च उपदिष्टाः ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {52/109} क्व ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {53/109} धातूपदेशे प्रातिपदिकोपदेशे च ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {54/109} यदि एव निमित्तस्य निमित्तिकार्यार्थत्वात् अथ अपि प्रधाने कार्यसम्प्रत्ययात् प्रकृत्युपपदोपाधीनाम् न भवति विकारागमानाम् तु प्राप्नोति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {55/109} हनः त च ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {56/109} त्रपुजतुनोः षुक् इति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {57/109} एतेषाम् हि अपूर्वोपदेशात् प्राधान्यम् ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {58/109} निमित्तिनः च एते ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {59/109} विकारागमेषु च परविज्ञानात् ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {60/109} विकारागमेषु च परविज्ञानात् प्रत्ययसञ्ज्ञा न भविष्यति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {61/109} प्रत्ययः परः बह्वति इति उच्यते ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {62/109} न च विकारागमाः परे सम्भवन्ति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {63/109} किम् पुनः कारणम् समाने अपूर्वोपदेशे प्रत्ययः परः विकारागमाः न परे ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {64/109} षष्ठीनिर्दिष्टस्य च तद्युक्तत्वात् ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {65/109} षष्ठीनिर्दिष्तम् विकारागमयुक्तम् पञ्चमीनिर्द्ष्टात् च प्रत्ययः विधीयते ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {66/109} प्रत्ययविधानानुपपत्तिः तु ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {67/109} प्रत्ययविधिः तु न उपपप्द्यते ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {68/109} क्व ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {69/109} यत्र विकारागमाः विधीयन्ते ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {70/109} हनः त च ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {71/109} तर्पुजतुनोः षुक् ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {72/109} किम् पुनः कारणम् न सिध्यति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {73/109} विकारागमयुक्तत्वात् अपञ्चमीनिर्दिष्टत्वात् च ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {74/109} तस्मात् तत्र पञ्चमीनिर्देशात् सिद्धम् ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {75/109} तस्मात् तत्र पञ्चमीनिर्देशः कर्तव्यः ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {76/109} न कर्तव्यः ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {77/109} इह तावत् हनः ते इति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {78/109} धातोः इति वर्तते। इह त्रपुजतुनोः षुक् इति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {79/109} प्रातिपदिकात् इति वर्तते ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {80/109} यदि एवम् हनः त च धातोः क्यप् भवति इति धातुमात्रात् क्यप् प्राप्नोति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {81/109} न एषः दोषः ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {82/109} आचार्यप्रवृत्तिः ज्ञापयति न धातुमात्रात् क्यप् भवति इति यत् अयम् एतिस्तुशस्वृदृजुषः क्यप् इति परिगणनम् करोति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {83/109} अथ वा हन्तिम् एव अत्र धातुग्रहणेन अभिसम्भन्त्स्यामः ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {84/109} हनः तः भवति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {85/109} धातोः क्यप् भवति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {86/109} कस्मात् ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {87/109} हन्तेः इति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {88/109} अर्थाश्रयत्वात् वा ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {89/109} अथ वा अर्थाश्रयः प्रत्ययविधिः ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {90/109} यः तम् अर्थम् सम्प्रत्याययति सः प्रत्ययः ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {91/109} किम् वक्तव्यम् एतत् ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {92/109} न हि ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {93/109} कथम् अनुच्यमानम् गंस्यते ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {94/109} प्रत्ययः इति महती सञ्ज्ञा क्रियते ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {95/109} सञ्ज्ञा च नाम यतः न लघीयः ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {96/109} कुतः एतत् ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {97/109} लघ्वर्थम् हि सञ्ज्ञाकरणम् ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {98/109} तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {99/109} प्रत्याययिति इति प्रत्ययः ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {100/109} यदि प्रत्याययिति इति प्रत्ययः अविकादीनाम् प्रत्ययसञ्ज्ञा न प्राप्नोति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {101/109} न हि ते किम् चित् प्रत्याययन्ति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {102/109} एवम् तर्हि प्रत्याय्यते प्रत्ययः इति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {103/109} एवम् अपि सनादीनाम् न प्राप्नोति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {104/109} एवम् तरि उभयसाधनः अयम् कर्तृसाधनः कर्मसाधनः च ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {105/109} एवम् अपि कुतः एतत् समाने अपूर्वोपदेशे त्रापुषम् जातुषम् इति अत्र अकारः तम् अर्थम् सम्प्रत्याययति न पुनः षकारः इति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {106/109} अन्यत्र अपि अकारेण तस्य अर्थस्य वचनात् मन्यामहे अकारः तम् अर्थम् सम्प्रत्याययतिन षकारः इति ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {107/109} क्व अन्यत्र ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {108/109} बिल्वादिभ्यः अण् ।
(P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 {109/109} बैल्वः ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {1/100} किमर्थम् इदम् उच्यते ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {2/100} परः यथा स्यात् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {3/100} पूर्वः मा भूत् इति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {4/100} न एतत् अस्ति प्रयोजनम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {5/100} यम् इच्छति पूर्वम् आह तम् : विभाषा सुपः बहुच् पुरस्तात् तु इति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {6/100} मध्ये तर्हि मा भूत् इति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {7/100} मध्ये अपि यम् इच्छति आह तम् : अव्ययसर्वनाम्नाम् अकच् प्राक् टेः इति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {8/100} यः इदानीम् अन्यः प्रत्ययः शेषः सः अन्तरेण वचनम् परः एव भविष्यति इति ना अर्थः परवचनेन ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {9/100} एवम् अपि येषाम् एव प्रत्ययानाम् देशः नियम्यते ते एव नियतदेशाः स्युः ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {10/100} यः इदानीम् अनियतदेशः सः कदा चित् पूर्वः कदा चित् परः कदा चित् मध्ये स्यात् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {11/100} तत् यथा मातुः वत्सः कदा चित् अग्रतः कदा चित् पृष्ठतः कदा चित् पार्श्वतः भवति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {12/100} परः एव यथा स्यात् इति एवमर्थम् परवचनम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {13/100} परवचनम् अनर्थकम् पञ्चमीनिर्दिष्टत्वात् परस्य ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {14/100} परग्रहणम् अनर्थकम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {15/100} किम् कारणम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {16/100} पञ्चमीनिर्दिष्टत्वात् परस्य कार्यम् उच्यते ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {17/100} तत् यथा द्व्यन्तरुपसर्गेभ्यः अपः ईत् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {18/100} विषमः उपन्यासः ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {19/100} सतः तत्र परस्य कार्यम् उच्यते ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {20/100} इह इदानीम् कस्य सतः परस्य कार्यम् भवितुम् अर्हति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {21/100} इह अपि सतः एव। कथम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {22/100} परत्वम् स्वाभाविकम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {23/100} अथ वाचनिके परत्वे सति अर्थः स्यात् परग्रहणेन ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {24/100} वाचनिके च न अर्थः ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {25/100} एतत् हि तस्य परस्य कार्यम् यत् असौ परः स्यात् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {26/100} अथ वा यत् अस्य परस्य सतः सञ्ज्ञा स्यात् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {27/100} यत्र तर्हि पञ्चमी न अस्ति तदर्थम् अयम् योगः वक्तव्यः ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {28/100} क्व च पञ्चमी न अस्ति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {29/100} यत्र विकारागमाः शिष्यन्ते ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {30/100} क्व च विकारागमाः शिष्यन्ते ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {31/100} हनः त च ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {32/100} त्रपुजतुनोः षुक् इति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {33/100} विकारागमेषु च उक्तम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {34/100} किम् उक्तम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {35/100} प्रत्ययविधानानुपपत्तिः तु ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {36/100} तस्मात् तत्र पञ्चमीनिर्देशात् सिद्धम् इति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {37/100} अत्यन्तापरदृष्टानाम् वा परभूतलोपार्थम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {38/100} अत्यन्तापरदृष्टानाम् तर्हि परभूतलोपार्थम् परग्रहणम् कर्तव्यम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {39/100} ये एते अत्यन्तापरदृष्टाः क्विबादयः लुप्यन्ते तेषाम् परभूतानाम् लोपः यथा स्यात् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {40/100} अपरभूतानाम् मा भूत् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {41/100} किम् पुनः अत्यन्तापरदृष्टानाम् परभूतलोपवचने प्रयोजनम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {42/100} किति णिति इति कार्याणि यथा स्युः इति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {43/100} एतत् अपि न अस्ति प्रयोजनम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {44/100} आचार्यप्रवृत्तिः ज्ञापयति अत्यन्तापरदृष्टाः परभूताः लुप्यन्ते इति यत् अयम् तेषु कादीन् अनुबन्धान् आसजति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {45/100} कथम् कृत्वा ज्ञापकम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {46/100} अनुबन्धासञ्जने एतत् प्रयोजनम् किति णिति इति कार्याणि यथा स्युः इति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {47/100} यदि च अत्र अत्यन्तापरदृष्टाः परभूताः लुप्यन्तेततः अनुबन्धासञ्जनम् अर्थवत् भवति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {48/100} प्रयोगनियमार्थम् वा ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {49/100} प्रयोगनियमार्थम् तर्हि परग्रहणम् कर्तव्यम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {50/100} परभूतानाम् प्रयोगः यथा स्यात् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {51/100} अपरभूतानाम् मा भूत् इति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {52/100} अस्ति पुनः किम् चित् अनिष्टम् यदर्थः नियमः स्यात् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {53/100} अस्ति इति आह ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {54/100} प्रकृतेः अर्थाभिधाने प्रत्ययादर्शनात् । प्रकृतेः अर्थाभिधाने अप्रत्ययिकाः दृश्यन्ते ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {55/100} क्व सः देवदत्तः क्व सः यज्ञ्दत्तः बभ्रुः मण्डुः लमकः इति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {56/100} बाभ्रव्यः माण्डव्यः लामकायनः इति प्रयोक्तव्ये बभ्रुः मण्डुः लमकः इति प्रयुज्यते ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {57/100} द्वयसजादीनाम् च केवलदृष्टत्वात् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {58/100} द्वयसजादीनाम् च केवलानाम् प्रयोगः दृश्यते ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {59/100} किम् अस्य द्वयसम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {60/100} किम् अस्य मात्रम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {61/100} का अद्य तिथी इति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {62/100} द्वयसजादयः वै वृत्तिजसदृशाः अवृत्तिजाः यथा बहुः तथा ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {63/100} वावचने च अनुत्पत्त्यर्थम् । वावचने च अनुत्पत्त्यर्थम् परग्रहणम् कर्तव्यम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {64/100} वा वचनेन अनुत्पत्तिः यथा स्यात् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {65/100} अथ क्रियमाणे अपि वै परग्रहणे कथम् इव वावचनेन अनुत्पत्तिः लभ्या ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {66/100} क्रियमाणे परग्रहणे वावचनेन वा परः इति एतत् अभिसम्बध्यते ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {67/100} अक्रियमाणे पुनः परग्रहणे वावचनेन किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {68/100} न च सञ्ज्ञायाः भावाभावौ इष्येते ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {69/100} वावचने च उक्तम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {70/100} किम् उक्तम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {71/100} वावचनानर्थक्यम् च तत्र नित्यत्वात् सनः इति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {72/100} प्रयोगनियमार्थम् एव तर्हि परग्रहणम् कर्तव्यम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {73/100} अथ एतस्मिन् प्रयोगनियमे सति किम् अयम् प्रत्ययहियमः ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {74/100} प्रकृतिपरः एव प्रत्ययः प्रयोक्तव्यः अप्रकृतिपरः न इति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {75/100} आहोस्वित् प्रकृतिनियमः ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {76/100} प्रत्ययपरा एव प्रकृतिः प्रयोक्तव्या अप्रत्यया न इति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {77/100} कः च अत्र विशेषः ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {78/100} तत्र प्रत्ययनियमे प्र्कृतिनियमाभावः ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {79/100} तत्र प्रत्ययनियमे सति प्र्कृतिनियमः न प्राप्नोति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {80/100} अप्रत्ययिकायाः प्रकृतेः प्रयोगः प्राप्नोति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {81/100} क्व सः देवदत्तः क्व सः यज्ञ्दत्तः बभ्रुः मण्डुः लमकः इति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {82/100} अस्तु तर्हि प्रकृतिनियमः ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {83/100} प्रकृतिनियमे प्रत्ययानियमः ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {84/100} प्रकृतिनियमे सति प्रत्ययस्य नियमः न प्राप्नोति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {85/100} किम् अस्य द्वयसम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {86/100} किम् अस्य मात्रम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {87/100} का अद्य तिथी इति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {88/100} अप्रकृतिकस्य प्रत्ययस्य प्रयोगः प्राप्नोति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {89/100} सिद्धम् तु उभयनियमात् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {90/100} सिद्धम् एतत् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {91/100} कथम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {92/100} उभयनियमात् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {93/100} उभयनियमः अयम् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {94/100} प्रकृतिपरः एव प्रत्ययः प्रयोक्तव्यः प्रत्ययपरा एव च प्रकृतिः इति ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {95/100} किम् वक्तव्यम् एतत् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {96/100} न हि ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {97/100} कथम् अनुच्यमानम् गंस्यते ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {98/100} परग्रहणसामर्थ्यात् ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {99/100} अन्तरेण अपि परग्रहणम् स्यात् अयम् परः ।
(P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 {100/100} परः एव यथा स्यात् इति एवमर्थम् परग्रहणम् ।
(P_3,1.3.1) KA_II,6.4-14 Ro_III,20-21 {1/15} किमर्थम् इदम् उच्यते ।
(P_3,1.3.1) KA_II,6.4-14 Ro_III,20-21 {2/15} आद्युदात्तः यथा स्यात् ।
(P_3,1.3.1) KA_II,6.4-14 Ro_III,20-21 {3/15} अन्तोदात्तः मा भूत् इति ।
(P_3,1.3.1) KA_II,6.4-14 Ro_III,20-21 {4/15} न एतत् अस्ति प्रयोजनम् ।
(P_3,1.3.1) KA_II,6.4-14 Ro_III,20-21 {5/15} यम् इच्छति अन्तोदात्तम् करोति तत्र चकारम् अनुबन्धम् आह च चितः अन्तः उदात्तः इति ।
(P_3,1.3.1) KA_II,6.4-14 Ro_III,20-21 {6/15} मध्योदात्तः तर्हि मा भूत् इति ।
(P_3,1.3.1) KA_II,6.4-14 Ro_III,20-21 {7/15} मद्योदात्तम् यम् इच्छति तत्र रेफम् अनुबन्धम् करोति आह च उपोत्तमम् रिति इति ।
(P_3,1.3.1) KA_II,6.4-14 Ro_III,20-21 {8/15} अनुदात्तः तर्हि मा भूत् इति ।
(P_3,1.3.1) KA_II,6.4-14 Ro_III,20-21 {9/15} अनुदात्तम् अपि यम् इच्छति तत्र पकारम् अनुबन्धम् करोति आह च अनुदात्तौ सुप्पितौ इति ।
(P_3,1.3.1) KA_II,6.4-14 Ro_III,20-21 {10/15} स्वरितः तर्हि मा भूत् इति ।
(P_3,1.3.1) KA_II,6.4-14 Ro_III,20-21 {11/15} स्वरितम् अपि यम् इच्छति करोति तत्र तकारम् अनुबन्धम् आह च तित् स्वरितम् इति ।
(P_3,1.3.1) KA_II,6.4-14 Ro_III,20-21 {12/15} यः इदानीम् अतः अन्यः प्रत्ययः शेषः सः अन्तरेण अपि वचनम् आद्युदात्तः एव भविष्यति इति न अर्थः आद्युदात्तवचनेन ।
(P_3,1.3.1) KA_II,6.4-14 Ro_III,20-21 {13/15} एवम् अपि येषाम् एव प्रत्ययानाम् स्वरः नियम्यते ते एव नियतस्वराः स्युः ।
(P_3,1.3.1) KA_II,6.4-14 Ro_III,20-21 {14/15} यः इदानीम् अनियतस्वरः सः कदा चित् आद्युदात्तः कदा चित् अन्तोदात्तः कदा चित् मध्योदात्तः कदा चित् अनुदात्तः कचा चित् स्वरितः स्यात् ।
(P_3,1.3.1) KA_II,6.4-14 Ro_III,20-21 {15/15} आद्युदात्तः एव यथा स्यात् इति एवम् अर्थम् इदम् उच्यते ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {1/113} अथ किमर्थम् प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वम् उच्यते अनुदात्तत्वम् च न यत्र एव अन्यः स्वरः तत्र एव अयम् उच्येत ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {2/113} ञ्निति आदिः नित्यम् प्रत्ययस्य च ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {3/113} अदुपदेशात् लसार्वधातुकम् अनुदात्तम् सुप्पितौ च इति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {4/113} तत्र अयम् अपि अर्थः द्विः आद्युदात्तग्रहणम् द्विः च अनुदात्तग्रहणम् न कर्तव्यम् भवति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {5/113} प्रकृतम् अनुवर्तते ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {6/113} अतः उत्तरम् पठति : आद्युदात्तत्वस्य प्रत्ययसञ्ज्ञासन्नियोगे प्रयोजनम् यस्य सञ्ज्ञाकरणम् तस्य आद्युदात्तार्थम् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {7/113} आद्युदात्तत्वस्य प्रत्ययसञ्ज्ञासन्नियोगकरणे एतत् प्रयोजनम् यस्य सञ्ज्ञाकरणम् तस्य आद्युदात्तत्वम् यथा स्यात् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {8/113} असन्नियोगे हि यस्मात् सः तदादेः आद्युदात्तत्वम् तदन्तस्य च अनुदात्तत्वम् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {9/113} अक्रियमाणे हि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति तदादेः आद्युदात्तत्वम् प्रसज्येत तदन्तस्य च अनुदात्तत्वम् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {10/113} अथ क्रियमाणे अपि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे अनुदात्तत्वे च कस्मात् एव तदादेः आद्युदात्तत्वम् न भवति तदन्तस्य च अनुदात्तत्वम् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {11/113} उत्पन्नः प्रत्ययः प्रत्ययाश्रयाणाम् कार्याणाम् निमित्तम् भवति न उत्पद्यमानः ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {12/113} तत् यथा घटः कृतः घटाश्रयाणाम् कार्याणाम् निमित्तम् भवति न क्रियमाणः ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {13/113} न वा प्रकृतेः आद्युदात्तवचनम् ज्ञापकम् तदादेः अग्रहणस्य ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {14/113} न वा एषः दोषः ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {15/113} किम् कारणम् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {16/113} यत् अयम् ञ्निति आदिः नित्यम् इति प्रकृतेः आद्युदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः न तदादेः आद्युदात्तत्वम् भवति इति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {17/113} तदन्तस्य तर्हि अनुदात्तत्वम् प्राप्नोति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {18/113} प्रकृतिस्वरस्य च विधानसामर्थ्यात् प्रत्ययस्वराभावः । यत् अयम् धातोः अन्तः प्रातिपदिकस्य अन्तः इति प्रकृतेः अन्तोदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः न तदन्तस्य अनुदात्तत्वम् भवति इति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {19/113} कथम् कृत्वा ज्ञापकम् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {20/113} यत्र हि अनुदात्तःप्रत्ययः प्रकृतिस्वरः तत् प्रयोजयति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {21/113} आगमानुदात्तार्थम् वा ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {22/113} आगमानुदात्तार्थम् तर्हि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वम् उच्यते ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {23/113} प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते आगमाः अनुदात्ताः यथा स्युः इति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {24/113} न वा आगमस्य अनुदात्तवचनात् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {25/113} न वा एतत् अपि प्रयोजनम् अस्ति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {26/113} किम् कारणम् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {27/113} आगमस्य अनुदात्तवचनात् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {28/113} आगमाः अनुदात्ताः भवन्ति इति वक्ष्यामि ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {29/113} के पुनः आगमाः अनुदात्तत्वम् प्रयोजयन्ति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {30/113} इट् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {31/113} लविता ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {32/113} इट् तावत् न प्रयोजयति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {33/113} इदम् इह सम्प्रधार्यम् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {34/113} इट् क्रियताम् आद्युदात्तत्वम् इति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {35/113} किम् अत्र कर्तव्यम् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {36/113} परत्वात् इडागमः ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {37/113} नित्यम् आद्युदात्तत्वम् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {38/113} कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {39/113} इट् अपि नित्यः ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {40/113} कृते अपि आद्युदात्तत्वे प्राप्नोति अकृते अपि प्राप्नोति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {41/113} अनित्यः इट् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {42/113} अन्यथास्वरस्य कृते आद्युदात्तत्वे प्रप्नोति अन्यथास्वरस्य अकृते ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {43/113} स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {44/113} आद्युदात्तत्वम् अपि अनित्यम् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {45/113} अन्यस्य कृते इटि प्राप्नोति अन्यस्य अकृते ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {46/113} शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {47/113} उभयोः अनित्ययोः परत्वात् इडागमः ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {48/113} अन्तरङ्गम् तर्हि आद्युदात्तत्वम् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {49/113} का अन्तरङ्गता ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {50/113} उत्पत्तिसन्नियोगेन आद्युदात्तत्वम् उच्यते ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {51/113} उत्पन्ने प्रत्यये प्रकृतिप्रत्ययौ आश्रित्य अङ्गस्य इडागमः ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {52/113} आद्युदात्तत्वम् अपि न अन्तरङ्गम् यावता प्रत्यये आश्रीयमाणे प्रकृतिः अपि आश्रिता भवति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {53/113} अन्तरङ्गम् एव आद्युदात्तत्वम् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {54/113} कथम् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {55/113} इदानीम् एव हि उक्तम् न प्रत्ययस्वरविधौ तदादिविधिः भवति इति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {56/113} सीयुट् तर्हि प्रयोजयति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {57/113} अवचने हि सीयुडादेः आद्युदात्तत्वम् । अक्रियमाणे हि आगमानुदात्तत्वे क्रियमाणे अपि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे सीयुडादेः लिङः आद्युदात्तत्वम् प्रसज्येत ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {58/113} लविषीय पविषीय ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {59/113} तत् तर्हि वक्तव्यम् आगमाः अनुदात्ताः भवन्ति इति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {60/113} न वक्तव्यम् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {61/113} आचार्यप्रवृत्तिः ज्ञापयति आगमाः अनुदात्ताः भवन्ति इति यत् अयम् यासुट् परसमैपदेषु उदात्तः ङित् च इति आह ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {62/113} न एतत् अस्ति ज्ञापकम् वक्ष्यति एतत् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {63/113} यासुटः ङिद्वचनम् पिदर्थम् उदात्तवचनम् च इति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {64/113} शक्यम् अनेन वक्तुम् : यासुट् परस्मैपदेषु भवति अपित् च लिङ् भवति इति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {65/113} सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञपयति आचार्यः आगमाः अनुदात्ताः भवन्ति इति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {66/113} शक्यम् इदम् लब्धुम् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {67/113} यदि एव वचनात् अथ अपि ज्ञापकात् आगमाः अनुदात्ताः भवन्ति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {68/113} आगमैः तु व्यवहितत्वात् आद्युदात्तत्वम् न प्राप्नोति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {69/113} आगमाः अविद्यमानवत् भवन्ति इति वक्ष्यामि ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {70/113} यदि आगमाः अविद्यमानवत् भवन्ति इति उच्यते लविता अवादेशः न प्राप्नोति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {71/113} स्वरविधौ इति वक्ष्यामि ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {72/113} एवम् अपि लविता उदात्तात् अनुदात्तस्य स्वरितः इति स्वरितः न प्राप्नोति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {73/113} षाष्ठिके स्वरे इति वक्ष्यामि ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {74/113} एवम् अपि शिक्षितः निष्ठा च द्व्यच् अनात् इत् एषः स्वरः प्राप्नोति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {75/113} प्रत्ययस्वरविधौ इति वक्ष्यामि ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {76/113} तत् तर्हि वक्तव्यम् अविद्यमानवत् भवन्ति इति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {77/113} न वक्तव्यम् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {78/113} आचार्यप्रवृत्तिः ज्ञापयति आगमाः अविद्यमानवत् भवन्ति इति यत् अयम् यासुट् परसमैपदेषु उदात्तः ङित् च इति आह ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {79/113} न एतत् अस्ति ज्ञापकम् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {80/113} वक्ष्यति एतत् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {81/113} यासुटः ङिद्वचनम् पिदर्थम् उदात्तवचनम् च इति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {82/113} शक्यम् अनेन वक्तुम् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {83/113} यासुट् परस्मैपदेषु भवति अपित् च लिङ् भवति इति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {84/113} सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञपयति आचार्यः आगमाः अविद्यमानवत् भवन्ति इति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {85/113} आद्युदात्तस्य वा लोपार्थम् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {86/113} आद्युदात्तस्य तर्हि लोपार्थम् प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वम् उच्यते ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {87/113} प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते उदात्तनिवृत्तिस्वरः सिद्धः भवति : स्रौघ्नी माथुरी ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {88/113} अत्र हि परत्वात् लोपः प्रत्यय्स्वरम् बाधेत ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {89/113} न वा बहिरङ्गलक्षणत्वात् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {90/113} न वा एतत् प्रयोजयति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {91/113} किम् कारणम् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {92/113} बहिरङ्गलक्षणत्वात् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {93/113} बहिरङ्गलक्षणः लोपः अन्तरङ्गलक्षणः स्वरः ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {94/113} असिद्धम् बहिरङ्गम् अन्तरङ्गे ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {95/113} अवश्यम् च एषा परिभाषा आश्रयितव्या ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {96/113} अवचने हि ञिन्नित्कित्सु अतिप्रसङ्गः ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {97/113} अनाश्रीयमाणायाम् अस्याम् परिभाषायाम् क्रियमाणे अपि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वेञिन्नित्कित्सु अतिप्रसङ्गः स्यात् ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {98/113} औत्सी कंसिकी आत्रेयी इति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {99/113} अत्र हि परत्वात् लोपः ञिन्नित्कित्स्वरान् बाधेत ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {100/113} न एषः दोषः ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {101/113} ञिन्नित्कित्स्वराः प्रत्यय्स्वरापवादाः ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {102/113} न च अपवादविषये उत्सर्गः भिनिविशते ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {103/113} पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गः ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {104/113} प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {105/113} न तावत् अत्र कदा चित् प्रत्ययाद्युदात्तत्वम् भवति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {106/113} अपवादान् ञिन्नित्कित्स्वरान् प्रतीक्षते ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {107/113} कंसिक्याम् भूयान् अपहारः ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {108/113} अन्यस्य अत्र उदात्तत्वम् अन्यस्य लोपः ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {109/113} आदेः उदात्तत्वम् अन्त्यस्य लोपः ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {110/113} इदम् तर्हि आत्रेयी इति ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {111/113} अत्र हि परत्वात् लोपः कित्स्वरम् बाधेत ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {112/113} तस्मात् एषा परिभाषा आश्रयितव्या ।
(P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 {113/113} एतस्याम् च सत्याम् शक्यम् प्रत्ययसन्नियोगेन आद्युदात्तत्वम् अवक्तुम् ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {1/58} प्रत्ययाद्युदात्तत्वात् धातोः अन्तः ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {2/58} प्रत्ययाद्युदात्तत्वात् धातोः अन्तः इति एतत् भवति विप्रतिषेधेन ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {3/58} प्रत्ययाद्युदात्तत्वस्य अवकाशः यत्र अनुदात्ता प्रकृतिः ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {4/58} समत्वम् सिमत्वम् ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {5/58} धातोः अन्तः इति अस्य अवकाशः यत्र अनुदात्तः प्रत्ययः ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {6/58} पचति पठति ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {7/58} इह उभयम् प्राप्नोति ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {8/58} गोपायति धपायति ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {9/58} धातोः अन्तः इति एतत् भवति विप्रतिषेधेन। पित्स्वरात् तित्स्वरः टापि । पित्स्वरात् तित्स्वरः टापि भवति विप्रतिषेधेन ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {10/58} पित्स्वरस्य अवकाशः ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {11/58} पचति पठति ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {12/58} तित्स्वरस्य अवकाशः ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {13/58} कार्यम् हार्यम् ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {14/58} इह उभयम् प्राप्नोति ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {15/58} कार्या हार्या ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {16/58} तित्स्वरः भवति विप्रतिषेधेन ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {17/58} चित्स्वरः चापि पित्स्वरात् । चित्स्वरः चापि पित्स्वरात् भवति विप्रतिषेधेन ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {18/58} चित्स्वरस्य अवकाशः ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {19/58} चलनः चोपनः ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {20/58} पित्स्वरस्य सः एव ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {21/58} इह उभयम् प्राप्नोति ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {22/58} आम्बष्ठ्या सौवीर्या ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {23/58} चित्स्वरः भवति विप्रतिषेधेन ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {24/58} न वा आद्युतात्तस्य प्रत्ययसञ्ज्ञासन्नियोगात् । न वा अर्थः विप्रतिषेधेन ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {25/58} किम् कारणम् ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {26/58} आद्युतात्तस्य प्रत्ययसञ्ज्ञासन्नियोगात् ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {27/58} प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते सतिशिष्टत्वात् धातुस्वरः भविष्यति ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {28/58} अयम् च अपि अयुक्तः विप्रतिषेधः पित्स्वरस्य तित्स्वरस्य च ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {29/58} किम् कारणम् ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {30/58} टापि स्वरितेनैकादेशः ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {31/58} टापि स्वरितेन एकादेशः भवति ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {32/58} इदम् इह सम्प्रधार्यम् ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {33/58} स्वरितत्वम् क्रियताम् एकादेशः इति ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {34/58} किम् अत्र कर्तव्यम् ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {35/58} परत्वात् स्वरितत्वम् ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {36/58} नित्यः एकादेशः ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {37/58} कृते अपि स्वरितत्वे प्राप्नोति अकृते अपि प्राप्नोति ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {38/58} । स्वरितत्वम् अपि नित्यम् ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {39/58} कृते अपि एकादेशे प्राप्नोति अकृते अपि ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {40/58} अनित्यम् स्वरितत्वम् ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {41/58} अन्यस्य कृते एकादेशे प्राप्नोति अन्यस्य अकृते ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {42/58} शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {43/58} एकादेशः अपि अनित्यः ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {44/58} अन्यथास्वरस्य कृते स्वरितत्वे प्राप्नोति अन्यथास्वरस्य अकृते ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {45/58} स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {46/58} अन्तरङ्गः तर्हि एकादेशः ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {47/58} का अन्तरङ्गता ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {48/58} वर्णौ आश्रित्य एकादेशः पदस्य स्वरितत्वम् ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {49/58} स्वरितत्वम् अपि अन्तरङ्गम् ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {50/58} कथम् ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {51/58} वक्ष्यति एतत् ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {52/58} पदग्रहणम् परिमाणार्थम् इति ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {53/58} उभयोः अन्तरङ्गयोः परत्वात् स्वरितत्वम् ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {54/58} स्वरितत्वे कृते आन्तर्यतः स्वरिदानुदात्तयोः स्वरितः भविष्यति ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {55/58} अयम् च अपि अयुक्तः विप्रतिषेधः पित्स्वरस्य चित्स्वरस्य च ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {56/58} किम् कारणम् ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {57/58} चापि चित्करणात् ।
(P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 {58/58} चापि चित्करणसामर्थ्यात् अन्तोदात्तत्वम् भविष्यति ।
(P_3,1.5) KA_II,10.22-11.9 Ro_III,30-31 {1/17} गुपादिषु अनुबन्धकरणम् किमर्थम् ।
(P_3,1.5) KA_II,10.22-11.9 Ro_III,30-31 {2/17} गुपादिषु अनुबन्धकरणम् आत्मनेपदार्थम् । गुपादिषु अनुबन्धाः क्रियन्ते आत्मनेपदम् यथा स्यात् ।
(P_3,1.5) KA_II,10.22-11.9 Ro_III,30-31 {3/17} क्रियमाणेषु अपि अनुबन्धेषु आत्मनेपदम् न एव प्राप्नोति ।
(P_3,1.5) KA_II,10.22-11.9 Ro_III,30-31 {4/17} किम् कारणम् ।
(P_3,1.5) KA_II,10.22-11.9 Ro_III,30-31 {5/17} सना व्यवहितत्वात् ।
(P_3,1.5) KA_II,10.22-11.9 Ro_III,30-31 {6/17} पूर्ववत् सनः इति एवम् भविष्यति ।
(P_3,1.5) KA_II,10.22-11.9 Ro_III,30-31 {7/17} पूर्ववत् सनः इति उच्यते ।
(P_3,1.5) KA_II,10.22-11.9 Ro_III,30-31 {8/17} न चे एतेभ्यः प्राक् सनः आत्मनेपदम् न अपि परस्मैपदम् पश्यामः ।
(P_3,1.5) KA_II,10.22-11.9 Ro_III,30-31 {9/17} एवम् तर्हि अनुबन्धकरणसामर्थ्यात् भविष्यति ।
(P_3,1.5) KA_II,10.22-11.9 Ro_III,30-31 {10/17} अथ वा अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भविष्यति ।
(P_3,1.5) KA_II,10.22-11.9 Ro_III,30-31 {11/17} तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः विशेषकम् भवति ।
(P_3,1.5) KA_II,10.22-11.9 Ro_III,30-31 {12/17} यदि अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति जुगुप्सयति मीमांसयति इति अत्र अपि प्राप्नोति ।
(P_3,1.5) KA_II,10.22-11.9 Ro_III,30-31 {13/17} अवयवे कृतम् लिङ्गम् कस्य समुदायस्य विशेषकम् भवति ।
(P_3,1.5) KA_II,10.22-11.9 Ro_III,30-31 {14/17} यम् समुदायम् यः अवयवः न व्यभिचरति ।
(P_3,1.5) KA_II,10.22-11.9 Ro_III,30-31 {15/17} सनम् च न व्हभिचरति ।
(P_3,1.5) KA_II,10.22-11.9 Ro_III,30-31 {16/17} णिचम् पुनः व्यभिचरति ।
(P_3,1.5) KA_II,10.22-11.9 Ro_III,30-31 {17/17} तत् यथा तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः विशेषकम् भवति न गोमण्डलस्य ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {1/27} अभ्यासदीर्घत्वे अवर्णस्य दीर्घप्रसङ्गः ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {2/27} अभ्यासदीर्घत्वे अवर्णस्य दीर्घत्वम् प्राप्नोति ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {3/27} मीमांसते ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {4/27} ननु चे इत्त्वे कृते दीर्घत्वम् भविष्यति ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {5/27} कथम् पुनः उत्पत्तिसन्नियोगेन दीर्घत्वम् उच्यमानम् इत्त्वम् प्रतीक्षते ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {6/27} अथ कथम् अभ्यासम् प्रतीक्षते ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {7/27} वचनात् अभ्यासम् प्रतीक्षते ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {8/27} इत्त्वम् पुनः न प्रतीक्षते ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {9/27} न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {10/27} न वा एषः दोषः ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {11/27} किम् कारणम् ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {12/27} अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {13/27} अभ्यासविकारेषु अपवादाः उत्सर्गान् न बाधन्ते इति एवम् दीर्घत्वम् उच्यमानम् इत्त्वम् न बाधिष्यते ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {14/27} अथ वा मान्बधदान्शन्भ्यः ई च अभ्यासस्य इति वक्ष्यामि ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {15/27} एवम् अपि हलादिशेषापवादः ईकारः प्राप्नोति ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {16/27} ई च अचः इति वक्ष्यामि ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {17/27} अथ वा मान्बधदान्शन्भ्यः दीर्घः च इतः अभ्यासस्य इति वक्ष्यामि ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {18/27} सिध्यति ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {19/27} सूत्रम् तर्हि भिद्यते ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {20/27} यथान्यासम् एव अस्तु ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {21/27} ननु च उक्तम् अभ्यासदीर्घत्वे अवर्णस्य दीर्घप्रसङ्गः इति ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {22/27} परिहृतम् एतत् न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् इति ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {23/27} अथ वा न एवम् विज्ञायते दीर्घः च अभ्यासस्य इति ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {24/27} कथम् तर्हि ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {25/27} दीर्घः च आभ्यासस्य इति ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {26/27} किम् इदम् आभ्यासस्य इति ।
(P_3,1.6) KA_II,11.11-25 Ro_III,31-32 {27/27} अभ्यासविकारः आभ्यासः तस्य इति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {1/90} धातोः इति किमर्थम् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {2/90} प्रकर्तुम् ऐच्छत् प्राचिकीर्षत् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {3/90} सोपसर्गात् मा भूत् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {4/90} कर्मग्रहणात् सन्विधौ धातुग्रहणानर्थक्यम् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {5/90} कर्मग्रहणात् सन्विधौ धातुग्रहणम् अनर्थकम् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {6/90} कर्मणः समानकर्तृकात् इच्छायाम् वा सम्भवति इति एव धातोः उत्पत्तिः भविष्यति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {7/90} सोपर्सर्गम् वै कर्म ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {8/90} ततः उत्पत्तिः प्राप्नोति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {9/90} सोपसर्गम् कर्म इति चेत् कर्मविशेषकत्वात् उपसर्गस्य अनुपसर्गम् कर्म ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {10/90} सोपसर्गम् कर्म इति चेत् कर्मविशेषकः उपसर्गः ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {11/90} अनुपसर्गम् हि कर्म ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {12/90} अवश्यम् च एतत् एवम् विज्ञेयम् अनुपसर्गम् कर्म इति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {13/90} सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {14/90} यः हि मन्यते सोपसर्गम् कर्म इति क्रियमाणे अपि तस्य धातुग्रहणे सनः अविधिः स्यात् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {15/90} किम् कारणम् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {16/90} अकर्मत्वात् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {17/90} इदम् तर्हि प्रयोजनम् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {18/90} सुबन्तात् उत्पत्तिः मा भूत् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {19/90} सुबन्तात् च अप्रसङ्गः क्यजादीनाम् अपवादत्वात् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {20/90} सुबन्तात् च सनः अप्रसङ्गः ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {21/90} किम् कारणम् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {22/90} क्यजादीनाम् अपवादत्वात् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {23/90} सुबन्तात् क्यजादयः विधीयन्ते ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {24/90} ते अपवादत्वात् बाधकाः भविष्यन्ति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {25/90} अनभिधानात् वा ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {26/90} अथ वा अनभिधानात् सुबन्तात् उत्पत्तिः न भविष्यति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {27/90} न हि सुबन्तात् उत्पद्यमानेन सना इच्छाया अभिधानम् स्यात् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {28/90} अनभिधानात् ततः उत्पत्तिः न भविष्यति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {29/90} इयम् तावत् अगतिका गतिः यत् उच्यते अनभिधानात् इति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {30/90} यत् अपि उच्यते सुबन्तात् च अप्रसङ्गः क्यजादीनाम् अपवादत्वात् इति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {31/90} भवेत् कस्मात् चित् अप्रसङ्गः स्यात् आत्मेच्छायाम् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {32/90} परेच्छायाम् तु प्राप्नोति : राज्ञः पुत्रम् इच्छति इति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {33/90} एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {34/90} किम् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {35/90} समानकर्तृकात् इति उच्यते ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {36/90} न च सुबन्तस्य समानः कर्ता अस्ति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {37/90} एवम् अपि भवेत् कस्मात् चित् अप्रसङ्गः यस्य कर्ता न अस्ति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {38/90} इह तु प्राप्नोति : आसितुम् इच्छति शयितुम् इच्छति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {39/90} इच्छायाम् अर्थे सन् विधीयते इच्छार्थेषु च तुमुन् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {40/90} तत्र तुमुना उक्ततत्वात् तस्य अर्थस्य सन् न भविष्यति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {41/90} एवम् अपि इह प्राप्नोति : आसनम् इच्छति शयनम् इच्छति इति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {42/90} इह यः विशेषः उपाधिः वा उपादीयते द्योत्ये तस्मिन् तेन भवितव्यम् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {43/90} यः च इह अर्थः गम्यते आसितुम् इच्छति शयितुम् इच्छति स्वयम् ताम् क्रियाम् कर्तुम् इच्छति इति न असौ इह गम्यते आसनम् इच्छति शयनम् इच्छति इति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {44/90} अन्यस्य अपि आसनम् इच्छति इति एषः अपि अर्थः गम्यते ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {45/90} अवश्यम् च एतत् एवम् विज्ञेयम् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {46/90} यः हि मन्यते अद्योत्ये तस्मिन् तेन भवितव्यम् इति क्रियमाणे अपि तस्य धातुग्रहणे इह प्रसज्येत : सङ्गतम् इच्छति देवदत्तः यज्ञदत्तेन इति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {47/90} कर्मसमानकर्तृकग्रहणानर्थक्यम् च इच्छाभिधाने प्रत्ययविधानात् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {48/90} कर्मसमानकर्तृकग्रहणम् च अनर्थकम् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {49/90} किम् कारणम् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {50/90} इच्छाभिधाने प्रत्ययविधानात् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {51/90} इच्छायाम् अभिधेयायाम् सन् विधीयते ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {52/90} अकर्मणः हि असमानकर्तृकात् वा अनभिधानम् । इच्छायाम् अभिधेयायाम् सन् विधीयते ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {53/90} न च अकर्मणः असमानकर्तृकात् वा उत्पद्यमानेन सना इच्छाया अभिधानम् स्यात् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {54/90} अनभिधानात् ततः उत्पत्तिः न भविष्यति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {55/90} अङ्गपरिमाणार्थम् तु ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {56/90} अङ्गपरिमाणार्थम् तर्हि अन्यतरत् कर्तव्यम् कर्मग्रहणम् धातुग्रहणम् वा ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {57/90} अङ्गपरिमाणम् ज्ञास्यामि इति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {58/90} किम् पुनः अत्र ज्यायः ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {59/90} धातुग्रहणम् एव ज्यायः ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {60/90} अङ्गपरिमाणम् च एव विज्ञातम् भवति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {61/90} अपि च धातोः विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञः भवति इति सनः आर्धधातुकसञ्ज्ञा सिद्धा भवति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {62/90} यत् च अपि एतत् उक्तम् कर्मग्रहणात् सन्विधौ धातुग्रहणानर्थक्यम् सोपसर्गम् कर्म इति चेत् कर्मविशेषकत्वात् उपसर्गस्य अनुपसर्गम् कर्म सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् इति स्वपक्षः अनेन वर्णितः ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {63/90} युक्तम् इह द्रष्टव्यम् किम् न्याय्यम् कर्म इति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {64/90} एतत् च अत्र युक्तम् यत् सोपसर्गम् कर्म स्यात् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {65/90} ननु च उक्तम् सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् इति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {66/90} न एषः दोषः ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {67/90} कर्मणः इति न एषा धातुसमानाधिकरणा पञ्चमी ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {68/90} कर्मणः धातोः इति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {69/90} किम् तर्हि ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {70/90} अवयवयोगा एषा षष्ठी ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {71/90} कर्मणः यः धातुः अवयवः ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {72/90} यदि अवयवयोगा एषा षष्ठीकेवलात् उत्पत्तिः न प्राप्नोति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {73/90} चिकीर्षति जिहीर्षति इति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {74/90} एषः अपि व्यपदेशिवद्भावेन कर्मणः धातुः अवयः भवति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {75/90} कामम् तर्हि अनेन एव हेतुना क्यच् अपि कर्तव्यः ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {76/90} महान्तम् पुत्रम् इच्छति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {77/90} कर्मणः यत् सुबन्तम् अवययः इति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {78/90} न कर्तव्यः ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {79/90} असामर्थ्यात् न भविष्यति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {80/90} कथम् असामर्थ्यम् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {81/90} सापेक्षम् असमर्थम् भवति इति ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {82/90} वावचनानर्थक्यम् च तत्र नित्यत्वात् सनः ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {83/90} वावचनम् च अनर्थकम् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {84/90} किम् कारणम् ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {85/90} तत्र नित्यत्वात् सनः ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {86/90} इह हि द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {87/90} स्वभावतः च एतत् भवति वाक्यम् च प्रत्ययः च ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {88/90} तत्र स्वाभाविके वृत्तिविषये नित्ये प्रत्यये प्राप्ते वावचनेन किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {89/90} न च सञ्ज्ञायाः भावाभावौ इष्येते ।
(P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 {90/90} तस्मात् न अर्थः वावचनेन ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {1/48} तुमुनन्तात् वा तस्य च लुग्वचनम् ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {2/48} तुमुनन्तात् वा सन् वक्तव्यः तस्य च तुमुनः लुक् वक्तव्यः ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {3/48} कर्तुम् इच्छति चिकीर्षति ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {4/48} लिङुत्तमात् वा ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {5/48} लिङुत्तमात् वा सन् वक्तव्यः तस्य च लिङः लुक् वक्तव्यः ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {6/48} कुर्याम् इति इच्छति चिकीर्षति ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {7/48} आशङ्कायाम् अचेतनेषु उपसङ्ख्यानम् ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {8/48} आशङ्कायाम् अचेतनेषु उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {9/48} अश्मा लुलुठिषते ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {10/48} कूलम् पिपतिषति इति ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {11/48} किम् पुनः कारणम् न सिध्यति ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {12/48} एवम् मन्यते ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {13/48} चेतनावतः एतत् भवति इच्छा इति ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {14/48} कूलम् च अचेतनम् ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {15/48} अचेतनग्रहणेन न अर्थः ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {16/48} आशङ्कायाम् इति एव ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {17/48} इदम् अपि सिद्धम् भवति ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {18/48} श्वा मुमूर्षति ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {19/48} न वा तुल्यकारणत्वात् इच्छयाः हि प्रवृत्तितः उपलब्धिः ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {20/48} न वा कर्तव्यम् ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {21/48} किम् कारणम् ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {22/48} तुल्यकारणत्वात् ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {23/48} तुल्यम् हि कारणम् चेतनावति देवदत्ते कूले च अचेतने ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {24/48} किम् कारणम् ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {25/48} इच्छयाः हि प्रवृत्तितः उपलब्धिः ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {26/48} इच्छयाः हि प्रवृत्तितः उपलब्धिः भवति ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {27/48} यः अपि असु कटम् चिकीर्षुः भवति न असौ आघोषयति ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {28/48} कटम् करिष्यामि इति ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {29/48} किम् तर्हि ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {30/48} सन्नद्धम् रज्जुकीलक्पूलपाणिम् दृष्ट्वा ततः इच्छा गम्यते ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {31/48} कूलस्य अपि पिपतिषतः लोष्टाः शीर्यन्ते भिदा जायन्ते देशात् देशान्तरम् उपसङ्क्रामति ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {32/48} श्वानः खलु अपि मुमूर्षवः एकान्तशीलाः शूनाक्षाः च भवन्ति ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {33/48} उपमानात् वा सिद्धम् ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {34/48} उपमानात् वा सिद्धम् एतत् ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {35/48} कथम् ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {36/48} लुलुठिषते इव लुलुठिषते ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {37/48} पिपतिषति इव पिपतिषति ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {38/48} न तिङन्तेन उपमानम् अस्ति ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {39/48} एवम् तर्हि इच्छा इव इच्छा ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {40/48} सर्वस्य वा चेतनावत्त्वात् ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {41/48} अथ वा सर्वम् चेतनावत् ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {42/48} एवम् हि आह ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {43/48} कंसकाः सर्पन्ति ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {44/48} शिरीषः अधः स्वपिति ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {45/48} सुवर्चला आदित्यम् अनु पर्येति ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {46/48} आस्कन्द कपिलक इति उक्ते तृणम् आस्कन्दति ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {47/48} अयस्कान्तम् अयः सङ्क्रामति ।
(P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 {48/48} ऋषिः पठति श्र्णोत ग्रावाणः
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {1/33} इमे इषवः बहवः पठ्यन्ते ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {2/33} तत्र न ज्ञायते कस्य अयम् अर्थे सन् विधीयते इति ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {3/33} इषेः छत्वभाविनः ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {4/33} यदि एवम् कर्तुम् अन्विच्छति कर्तुम् अन्वेषणा अत्र अपि प्राप्नोति ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {5/33} एवम् तर्हि यस्य स्त्रियाम् इच्छा इति एतत् रूपम् निपात्यते ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {6/33} कस्य च एतत् निपात्यते ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {7/33} कान्तिकर्मणः ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {8/33} अथ इह ग्रामम् गन्तुम् इच्छति इति कस्य किम् कर्म ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {9/33} इषेः उभे कर्मणी ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {10/33} यदि एवम् ग्रामम् गन्तुम् इच्छति ग्रामाय गन्तुम् इच्छति इति गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {11/33} एवम् तर्हि गमेः ग्रामः कर्म इषेः गमिः कर्म ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {12/33} एवम् अपि इष्यते ग्रामः गन्तुम् इति परसाधने उत्पद्यमानेन लेन ग्रामस्य अभिधानम् न प्राप्नोति ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {13/33} एवम् तर्हि गमेः ग्रामः कर्म इषेः उभे कर्मणी ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {14/33} अथ सनन्तात् सना भवितव्यम् : चिकीर्षितुम् इच्छति जिहीर्षितुम् इच्छति इति ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {15/33} न भवितव्यम् ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {16/33} किम् कारणम् ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {17/33} अर्थगत्यर्थः शब्दप्रयोगः ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {18/33} अर्थम् सम्प्रत्याययिष्यामि इति शब्दः प्रयुज्यते ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {19/33} तत्र एकेन उक्तत्वात् तस्य अर्थस्य अपरस्य प्रयोगेण न भवितव्यम् ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {20/33} किम् कारणम् ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {21/33} उक्तार्थानाम् अप्रयोगः ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {22/33} न तर्हि इदानीम् इदम् भवति : एषितुम् इच्छति एषिषिषति इति ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {23/33} अस्ति अत्र विशेषः ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {24/33} एकस्य अत्र इषेः इषिः साधनम् वर्तमानकालः च प्रत्ययः ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {25/33} अपरस्य बाह्यम् साधनम् सर्वकालः च प्रत्ययः ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {26/33} इह अपि तर्हि एकस्य इषेः करोतिविषिष्टः इषिः साधनम् वर्तमानकालः च प्रत्ययः ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {27/33} अपरस्य बाह्यम् साधनम् सर्वकालः च प्रत्ययः ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {28/33} येन एव खलु अपि हेतुना एतत् वाक्यम् भवति चिकीर्षितुम् इच्छति जिहीर्षितुम् इच्छति इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {29/33} तस्मात् सनन्तात् सनः प्रतिषेधः वक्तव्यः ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {30/33} तम् च अपि ब्रुवता इषिसनः इति वक्तव्यम् ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {31/33} भवति हि जुगुप्सिषते मीमांसिषते इति ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {32/33} शैषिकात् मतुबर्थीयात् शैषिकः मतुबर्थिकः सरूपः प्रत्ययः न इष्टः ।
(P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 {33/33} सनन्तात् न सन् इष्यते ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {1/84} किमर्थः चकारः ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {2/84} स्वरार्थः ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {3/84} चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {4/84} न एतत् अस्ति प्रयोजनम् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {5/84} एकाच् अयम् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {6/84} तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {7/84} प्रत्ययस्वरेण एव सिद्धम् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {8/84} विशेषणार्थः तर्हि ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {9/84} क्व विशेषणार्थेन अर्थः ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {10/84} अस्य च्वौ क्यचि च इति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {11/84} क्ये च इति उच्यमाने अपि काकः श्येनायते अत्र अपि प्रसय्जेत ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {12/84} न एतत् अस्ति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {13/84} तदनुबन्धकग्रहणे अतदनुबन्धकस्य ग्रहणम् न इति एवम् एतस्य न भविष्यति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {14/84} सामान्यग्रहणाविघातार्थः तर्हि ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {15/84} क्व च सामान्यग्रहणाविघातार्थेन अर्थः ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {16/84} नः क्ये इति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {17/84} अथ आत्मन्ग्रहणम् किमर्थम् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {18/84} आत्मेच्छायाम् यथा स्यात् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {19/84} परेच्छायाम् मा भूत् इति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {20/84} राज्ञः पुत्रम् इच्छति इति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {21/84} क्रियमाणे अपि आत्मग्रहणे परेच्छायाम् प्राप्नोति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {22/84} किम् कारणम् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {23/84} आत्मनः इति इयम् कर्तरि षष्ठी ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {24/84} इच्छा इति अकारः भावे ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {25/84} सः यदि एव आत्मनः इच्छा अथ अपि परस्य आत्मेच्छा एव असौ भवति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {26/84} न आत्मग्रहणेन इच्छा अभिसम्बध्यते ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {27/84} किम् तर्हि ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {28/84} सुबन्तम् अभिसम्बध्यते ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {29/84} आत्मनः यत् सुबन्तम् इति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {30/84} यदि आत्मग्रहणम् क्रियते छन्दसि परेच्छायाम् न प्राप्नोति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {31/84} म त्वा वृकाः अघायवः विदन् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {32/84} तस्मात् न अर्थः आत्मग्रहणेन ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {33/84} इह कस्मात् न भवति : राज्ञः पुत्रम् इच्छति इति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {34/84} असामर्थ्यात् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {35/84} कथम् असामर्थ्यम् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {36/84} सापेक्षम् असमर्थम् भवति इति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {37/84} छन्दसि अपि तर्हि न प्राप्नोति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {38/84} म त्वा वृकाः अघायवः विदन् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {39/84} अस्ति अत्र विशेषः ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {40/84} अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगम् परेच्छा गम्यते ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {41/84} कथम् पुनः अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगम् परेच्छा गम्यते ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {42/84} ते च एव वृकाः एवमात्मकः हिंस्राः ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {43/84} कः च आत्मनः अघम् एषितुम् अर्हति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {44/84} अतः अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगम् परेच्छा गम्यते ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {45/84} यथा एव तर्हि छन्दसि अघशब्दात् परेच्छायाम् ख्यच् भवति एवम् भाषायाम् अपि प्राप्नोति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {46/84} अघम् इच्छति इति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {47/84} तस्मात् आत्मग्रहणम् कर्तव्यम् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {48/84} छन्दसि कथम् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {49/84} आचार्यप्रवृत्तिः ज्ञापयति भवति छन्दसि अघशब्दात् परेच्छायाम् क्यच् इति यत् अयम् अश्वाघस्यात् इति क्यचि प्रत्कृते ईत्वबाधनार्थम् आकारम् शास्ति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {50/84} अथ सुब्ग्रहणम् किमर्थम् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {51/84} सुबन्तात् उत्पत्तिः यथ स्यात् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {52/84} प्रातिपदिकात् मा भूत् इति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {53/84} न एतत् अस्ति प्रयोजनम् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {54/84} न अस्ति अत्र विशेषः सुबन्तात् उत्पत्तौ सत्याम् प्रातिपदिकात् वा अयम् अस्ति विशेषः ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {55/84} सुबन्तात् उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा भवति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {56/84} प्रातिपदिकात् उत्पत्तौ सत्याम् पदसञ्ज्ञा न प्राप्नोति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {57/84} ननु च प्रातिपदिकात् उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {58/84} कथम् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {59/84} आरभ्यते नः क्ये इति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {60/84} तत् च अवश्यम् कर्तव्यम् सुबन्तात् उत्पत्तौ सत्याम् नियमार्थम् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {61/84} तत् एव प्रातिपदिकात् उत्पत्तौ सत्याम् विध्यर्थम् भविष्यति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {62/84} इदम् तर्हि प्रयोजनम् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {63/84} सुबन्तात् उत्पत्तिः यथ स्यात् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {64/84} धातोः मा भूत् इति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {65/84} एतत् अपि न अस्ति प्रयोजनम् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {66/84} धातोः सन् विधीयते ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {67/84} सः बाधकः भविष्यति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {68/84} अनवकाशाः हि विधयः बाधकाः भवन्ति सावकाशः च सन् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {69/84} कः अवकाशः ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {70/84} परेच्छा ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {71/84} न परेच्छायाम् सना भवितव्यम् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {72/84} किम् कारणम् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {73/84} समानकर्तृकात् इति उच्यते ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {74/84} यावत् च इह आत्मग्रहणम् तावत् तत्र समानकर्तृकग्रहणम् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {75/84} इदम् तर्हि प्रयोजनम् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {76/84} सुबन्तात् उत्पत्तिः यथ स्यात् ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {77/84} वाक्यात् मात् भूत् इति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {78/84} महान्तम् पुत्रम् इच्छति इति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {79/84} न वा भवति महापुत्रीयति इति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {80/84} भवति यदा एतत् वाक्यम् भवति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {81/84} महान् पुत्रः महापुत्रः ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {82/84} महापुत्रम् इच्छति महापुत्रीयति इति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {83/84} यदा तु एतत् वाक्यम् भवति महान्तम् पुत्रम् इच्छति इति तदा न भवितव्यम् तदा च प्राप्नोति ।
(P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 {84/84} तदा मा भूत् इति ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {1/63} अथ क्रियमाणे अपि सुब्ग्रहणे कस्मात् एव अत्र न भवति ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {2/63} सुबन्तम् हि एतत् वाक्यम् ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {3/63} न एतत् सुबन्तम् ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {4/63} कथम् ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {5/63} प्रत्ययग्रहणे यस्मात् तदादेः ग्रहणम् भवति इति ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {6/63} अथ यत् अत्र सुबन्तम् तस्मात् उत्पत्तिः कस्मात् न भवति ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {7/63} समानाधिकरणानाम् सर्वत्र अवृत्तिः अयोगात् एकेन ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {8/63} समानाधिकरणानाम् सर्वत्र एव वृत्तिः न भवति ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {9/63} क्व सर्वत्र ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {10/63} समासविधौ प्रत्ययविधौ ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {11/63} समासविधौ तावत् ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {12/63} ऋद्धस्य राज्ञः पुरुषः ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {13/63} महत् कष्टम् श्रितः इति ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {14/63} प्रत्ययविधौ ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {15/63} ऋद्धस्य उपगोः अपत्यम् ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {16/63} महान्तम् पुत्रम् इच्छति ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {17/63} इति ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {18/63} किम् पुनः कारणम् समानाधिकरणानाम् सर्वत्र वृत्तिः न भवति ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {19/63} अयोगात् एकेन ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {20/63} न हि एकेन पदेन योगः भवति ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {21/63} इह तावत् ऋद्धस्य राज्ञः पुरुषः इति षष्ठ्यन्तेन सुबन्तेन सामर्थ्ये सति समासः विधीयते ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {22/63} यत् च अत्र षष्थ्यन्तम् न तस्य सुबन्तेन सामर्थ्यम् ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {23/63} यस्य च सामर्थ्यम् न तत् षष्ठ्यन्तम् ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {24/63} वाक्यम् तत् ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {25/63} ऋद्धस्य उपगोः अपत्यम् इति च ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {26/63} षष्ठीसमर्थात् अपत्येन योगे प्रत्ययः विधीयते ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {27/63} यत् च अत्र षष्ट्ःीसमर्थम् न तस्य अपतत्येन योगः यस्य च अप्तत्येन योगः न तत् षष्ठ्यन्तम् ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {28/63} वाक्यम् तत् ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {29/63} समानाधिकरणानाम् इति उच्यते ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {30/63} अथ व्यधिकरणानाम् कथम् ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {31/63} राज्ञः पुत्रम् इच्छति इति ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {32/63} एवम् तर्हि इदम् पठितव्यम् ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {33/63} सविशेषणानाम् सर्वत्र अवृत्तिः अयोगात् एकेन ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {34/63} द्वितीयानुपपत्तिः तु ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {35/63} द्वितीया तु न उपपद्यते ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {36/63} महान्तम् पुत्रम् इच्छति इति ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {37/63} किम् कारणम् ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {38/63} न पुत्रः इषिकर्म ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {39/63} यदि पुत्रः न इषिकर्म न च अवश्यम् द्वितीया एव ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {40/63} किम् तर्हि ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {41/63} सर्वाः द्वितीयादयः विभक्तयः ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {42/63} महता पुत्रेण कृतम् ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {43/63} महते पुत्राय देहि ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {44/63} महः पुत्रात् आनय ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {45/63} महतः पुत्रस्य स्वम् ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {46/63} महति पुत्रे निधेहि ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {47/63} तस्मात् न एवम् शक्यम् वक्तुम् न पुत्रः इषिकर्म इति ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {48/63} पुत्र एव इषिकर्म ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {49/63} तत्सामानाधिकरण्यात् द्वितीयादयः भविष्यन्ति ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {50/63} वृत्तिः तर्हि कस्मात् न भवति ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {51/63} सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति वक्तव्यम् ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {52/63} यदि सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति उच्यते मुण्डयति माणवकम् इति अत्र वृत्तिः न प्राप्नोति ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {53/63} अमुण्डादीनाम् इति वक्तव्यम् ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {54/63} तत् तर्हि वक्तव्यम् सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते अमुण्डादीनाम् इति ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {55/63} न वक्तव्यम् ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {56/63} वृत्तिः कस्मात् न भवति महान्तम् पुत्रम् इच्छति इति ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {57/63} अगमकत्वात् ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {58/63} इह समानार्थेन वाक्येन भवितव्यम् प्रत्ययान्तेन च ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {59/63} यः च इह अर्थः वाक्येन गम्यते महान्तम् पुत्रम् इच्छति इति न असौ जातु चित् प्रत्ययान्तेन गम्यते महान्तम् पुत्रीयति इति ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {60/63} एतस्मात् हेतोः ब्रूमः अगमकत्वात् इति ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {61/63} न ब्रूमः अपशब्दः स्यात् इति ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {62/63} यत्र च गमकत्वम् भवति तत्र वृत्तिः ।
(P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 {63/63} तत् यथा मुण्डयति माणवकम् इति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {1/72} अथ अस्य क्यजन्तस्य कानि साधनानि भवन्ति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {2/72} भावः कर्ता च ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {3/72} अथ कर्म ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {4/72} न अस्ति कर्म ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {5/72} ननु च अयम् इषिः सकर्मकः यस्य अयम् अर्थे क्यच् विधीयते ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {6/72} अभिहितम् तत् कर्म अन्तर्भूतम् धात्वर्थः सम्पन्नः ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {7/72} न च इदानीम् अन्यत् कर्म अस्ति येन सकर्मकः स्यात् ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {8/72} कथम् तर्हि अयम् सकर्मकः भवति अपुत्रम् पुत्रम् इव आचरति पुत्रीयति माणवकम् इति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {9/72} अस्ति अत्र विशेषः ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {10/72} द्वे हि अत्र कर्मणी उपमानकर्म उपमेयकर्म च ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {11/72} उपमानकर्म अन्तर्भूतम् ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {12/72} उपमेयेन कर्मणा सकर्मकः भवति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {13/72} तत् यथा ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {14/72} अपि काकः श्येनायते इति अत्र द्वौ कर्तारौ उपमानकर्ता च उपमेयकर्ता च। उपमानकर्ता अन्तर्भूतः ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {15/72} उपेमेयकर्त्रा सक्र्तृकः भवति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {16/72} अयम् तर्हि कथम् सकर्मकः भवति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {17/72} मुण्डयति माणवकम् इति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {18/72} अत्र अपि द्वे कर्मणी सामान्यकर्म विशेषकर्म च ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {19/72} सामान्यकर्म अन्तर्भूतम् ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {20/72} विशेषकर्मणा सकर्मकः भवति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {21/72} ननु च वृत्त्या एव अत्र न भवितव्यम् ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {22/72} किम् कारणम् ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {23/72} असामर्थ्यात् ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {24/72} कथम् असामर्थ्यम् ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {25/72} सापेक्षम् असमर्थम् भवति इति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {26/72} न एषः दोषः ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {27/72} न अत्र उभौ करोतियुक्तौ मुण्डः माणवकः च ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {28/72} न हि माणवकः क्रियते ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {29/72} यदा च उभौ करोतियुक्तौ भवतः न भवति तदा वृत्तिः ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {30/72} तत् यथा बलीवर्दम् करोति मुण्डम् च एनम् करोति इति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {31/72} कामम् तर्हि अनेन एव हेतुना क्यच् अपि कर्तव्यः माणवकम् मुण्डम् इच्छति इति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {32/72} न उभौ इषियुक्तौ इति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {33/72} न कर्तव्यः ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {34/72} उभौ अत्र इषियुक्तौ मुण्डः माणवकः च ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {35/72} कथम् ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {36/72} न हि असौ मौण्ड्यमात्रेण सन्तोषम् करोति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {37/72} माणवकस्थम् असौ मौण्ड्यम् इच्छति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {38/72} इह अपि तर्हि न प्राप्नोति मुण्डयति माणवकम् इति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {39/72} अत्र अपि हि उभौ करोतियुक्त मुण्डः माणवकः च ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {40/72} न हि असौ मौण्ड्यमात्रेण सन्तोषम् करोति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {41/72} माणवकस्थम् असु मौण्ड्यम् निर्वर्तयति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {42/72} एवम् तर्हि मुण्डादयः गुअणवचनाः ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {43/72} गुणवचनाः च सापेक्षाः ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {44/72} वचनात् सापेक्षाणाम् अपि वृत्तिः भविष्यति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {45/72} अथ वा धातवः एव मुण्डादयः ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {46/72} न न एव हि अर्थाः आदिश्यन्ते क्रियावचनता च गम्यते ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {47/72} अथ वा न इदम् उभयम् युगपत् भवति वाक्यम् च प्रत्ययः च ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {48/72} यदा वाक्यम् न तदा प्रत्ययः ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {49/72} यदा प्रत्ययः सामान्येन तदा वृत्तिः ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {50/72} तत्र अव्श्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {51/72} मुण्डयति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {52/72} कम् ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {53/72} माणवकम् इति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {54/72} मुण्डविशिष्टेन वा करोतिन तम् आप्तुम् इच्छति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {55/72} अथ वा उक्तम् एतत् ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {56/72} न अत्र व्यापारः अनुगन्तव्यः इति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {57/72} गमक्त्वात् इह वृत्तिः भविष्यति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {58/72} मुण्डयति माणवकम् इति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {59/72} अथ इह क्यचा भवितव्यम् ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {60/72} इष्टः पुत्रः ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {61/72} इष्यते पुत्रः इति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {62/72} के चित् तावत् आहुः न भवितव्यम् इत् ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {63/72} किम् कारणम् ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {64/72} स्वशब्देन उक्तत्वात् इति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {65/72} अपरे आहुः : भवितव्यम् इति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {66/72} किम् कारणम् ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {67/72} धात्वर्थे अयम् क्यच् विधीयते ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {68/72} सः च धात्वर्थः केन चित् एव शब्देन निर्देष्टव्यः इति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {69/72} इहभवन्तः तु आहुः न भवितव्यम् इति ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {70/72} किम् कारणम् ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {71/72} इह समानार्थेन वाक्येन भवितव्यम् प्रत्ययान्तेन च ।
(P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 {72/72} यः च इह अर्थः वाक्येन गम्यते इष्टः पुत्रः इष्यते पुत्रः इति न असौ जातु चित् प्रत्ययान्तेन गम्यते ।
(P_3,1.8.4) KA_II,19.18-23 Ro_III,55-56 {1/13} क्यचि मान्ताव्ययप्रतिषेधः ।
(P_3,1.8.4) KA_II,19.18-23 Ro_III,55-56 {2/13} क्यचि मान्ताव्ययानाम् प्रतिषेधः वक्तव्यः ।
(P_3,1.8.4) KA_II,19.18-23 Ro_III,55-56 {3/13} इह मात् भूत् ।
(P_3,1.8.4) KA_II,19.18-23 Ro_III,55-56 {4/13} इदम् इच्छति ।
(P_3,1.8.4) KA_II,19.18-23 Ro_III,55-56 {5/13} किम् इच्छति ।
(P_3,1.8.4) KA_II,19.18-23 Ro_III,55-56 {6/13} उच्चैः इच्छति ।
(P_3,1.8.4) KA_II,19.18-23 Ro_III,55-56 {7/13} नीचैः इच्छति ।
(P_3,1.8.4) KA_II,19.18-23 Ro_III,55-56 {8/13} गोसमानाक्षरनान्तात् इति एके ।
(P_3,1.8.4) KA_II,19.18-23 Ro_III,55-56 {9/13} गाम् इच्छति गव्यति ।
(P_3,1.8.4) KA_II,19.18-23 Ro_III,55-56 {10/13} समानाक्षरात् ।
(P_3,1.8.4) KA_II,19.18-23 Ro_III,55-56 {11/13} दधीयति मधति कर्त्रीयति हर्त्रीयति ।
(P_3,1.8.4) KA_II,19.18-23 Ro_III,55-56 {12/13} नान्तात् ।
(P_3,1.8.4) KA_II,19.18-23 Ro_III,55-56 {13/13} राजीयति तक्षीयति ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {1/38} किमर्थः चकारः ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {2/38} स्वरार्थः ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {3/38} चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {4/38} न एतत् अस्ति प्रयोजनम् ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {5/38} धातुस्वरेण अपि एतत् सिद्धम् ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {6/38} ककारस्य तर्हि इत्सञ्ज्ञापरित्राणार्थः आदितः चकारः कर्तव्यः ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {7/38} अतः उत्तरम् पठति ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {8/38} काम्यचः चित्करणानर्थक्यम् कस्य इदर्थाभावात् ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {9/38} काम्यचः चित्करणम् अनर्थकम् ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {10/38} ककारस्य तर्हि इत्सञ्ज्ञा कस्मात् न भवति ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {11/38} इदर्थाभावात् ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {12/38} इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {13/38} ननु च लोपः एव इत्कार्यम् ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {14/38} अकार्यम् लोपः ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {15/38} इह हि शब्दस्य कार्यार्थः वा भवति उपदेशः श्रवणार्थः वा ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {16/38} कर्यम् च इह न अस्ति ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {17/38} कार्ये असति यदि श्रवणम् अपि न स्यात् उपदेशः अनर्थकः स्यात् ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {18/38} इदम् तर्हि इत्कार्यम् ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {19/38} अग्निचित्कम्यति ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {20/38} किति इति गुणप्रतिषेधः यथा स्यात् ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {21/38} न एतत् अस्ति प्रयोजनम् ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {22/38} सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {23/38} धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञाम् लभते ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {24/38} न च अयम् धातोः विधीयते ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {25/38} इदम् तर्हि ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {26/38} उपयट्काम्यति ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {27/38} किति इति सम्प्रसारणम् यथा स्यात् ।। एतत् अपि न अस्ति प्रयोजनम् ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {28/38} यजादिभिः अत्र कितम् विशेषयिष्यामः ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {29/38} यजादीनाम् यः कित् इति ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {30/38} कः च यजादीनाम् कित् ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {31/38} यजादिभ्यः यः विहितः इति ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {32/38} अथ अपि कथम् चित् इत्कार्यम् स्यात् ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {33/38} एवम् अपि न दोषः ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {34/38} क्रियते न्यासे एव द्विचकारकः निर्देशः ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {35/38} सुपः आत्मनः क्यच् च्काम्यत् च इति ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {36/38} अथ वा छान्दसम् एतत् ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {37/38} दृष्टानुविधिः छन्दसि भवति ।
(P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 {38/38} न च अत्र सम्प्रसारणम् दृश्यते ।
(P_3,1.10) KA_II,20.17-19 Ro_III,57 {1/3} अधिकरणात् च ।
(P_3,1.10) KA_II,20.17-19 Ro_III,57 {2/3} अधिकरणात् च इति वक्तव्यम् ।
(P_3,1.10) KA_II,20.17-19 Ro_III,57 {3/3} प्रासादयति कुट्याम् कुटीयति प्रासादे इति अत्र अपि यथा स्यात् ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {1/25} सलोपसन्नियोगेन अयम् क्यङ् विधीयते ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {2/25} तेन यत्र एव सलोपः तत्र एव स्यात् ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {3/25} पयायते ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {4/25} इह न स्यात् ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {5/25} अपि काकः श्येनायते ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {6/25} न एषः दोषः ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {7/25} प्रधान्शिष्टः क्यङ् ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {8/25} अन्वाचयशिष्टः सलोपः ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {9/25} यत्र च सकारम् पश्यसि इति ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {10/25} तत् यथ ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {11/25} कः चित् उक्तः ग्रामे भिक्षाम् चर देवदत्तम् च आनय इति ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {12/25} सः ग्रामे भिक्षाम् चरति ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {13/25} यदि देवदत्तम् पश्यति तम् अपि आनयति ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {14/25} सलोपः वा ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {15/25} सलोपः वा इति वक्तव्यम् ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {16/25} पयायते पयस्यते ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {17/25} ओजोप्सरसोः नित्यम् ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {18/25} ओजोप्सरसोः नित्यम् सलोपः वक्तव्यः ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {19/25} ओजायमानम् यः अहिम् जघान ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {20/25} अप्सरायते ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {21/25} अप्रः आह सलोपः अप्सरसः एव ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {22/25} पयस्यते इति एव भवितव्यम् इति ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {23/25} कथम् ओजायमानम् यः अहिम् जघन इति ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {24/25} छान्दसः प्रयोगः ।
(P_3,1.11.1) KA_II,20.21-7 Ro_III,58 {25/25} छन्दसि च दृष्टानुविधिः विधीयते ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {1/29} आचारे गल्भक्लीबहोडेभ्यः क्विप् वा ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {2/29} आचारे गल्भक्लीबहोडेभ्यः क्विप् वा वक्तव्यः ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {3/29} अवगल्भते अवगल्भायते ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {4/29} क्लीब ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {5/29} विक्लीबते विक्लीबायते ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {6/29} क्लीब ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {7/29} होड ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {8/29} विहोडते विहोडायते ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {9/29} किम् प्रयोजनम् ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {10/29} क्रियावचनता यथा स्यात् ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {11/29} न एतत् अस्ति प्रयोजनम् ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {12/29} धातवः एव गल्भादयः ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {13/29} न च एव हि अर्थाः आदिश्यन्ते क्रियावचनता च गम्यते ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {14/29} इदम् तर्हि प्रयोजनम् ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {15/29} अवगल्भा विक्लीबा विहोडा ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {16/29} अ प्रत्ययात् इति अकारः यथा स्यात् ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {17/29} मा भूत् एवम् ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {18/29} गुरोः च हलः इति एवम् भविष्यति ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {19/29} इदम् तर्हि ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {20/29} अवगल्भाम् चक्रे ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {21/29} विक्लीबाम् चक्रे ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {22/29} विहोडाम् चक्रे ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {23/29} कास्प्रत्ययात् आम् अमन्त्रे इति आम् यथा स्यात् ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {24/29} अपरः आह : सर्वप्रातिपदिकेभ्यः आचारे क्विप् वक्तव्यः अश्वति गर्दभति इति एवमर्थम् ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {25/29} न तर्हि इदानीम् गल्भाद्यनुक्रमणम् कर्तव्यम् ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {26/29} कर्तव्यम् च ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {27/29} किम् प्रयोजनम् ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {28/29} आत्मनेपदार्थम् अनुबन्धान् आसङ्क्ष्यामि इति ।
(P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 {29/29} गल्भ क्लीब होड ।
(P_3,1.12.1) KA_II,21.20-22 Ro_III,60 {1/6} हलः लोपसन्नियोगेन अयम् क्यङ् विधीयते ।
(P_3,1.12.1) KA_II,21.20-22 Ro_III,60 {2/6} तेन यत्र एव हलः लोपः तत्र एव प्रसज्येत ।
(P_3,1.12.1) KA_II,21.20-22 Ro_III,60 {3/6} न एषः दोषः ।
(P_3,1.12.1) KA_II,21.20-22 Ro_III,60 {4/6} प्रधानशिष्टः क्यङ् ।
(P_3,1.12.1) KA_II,21.20-22 Ro_III,60 {5/6} अन्वाचयशिष्टः हलः लोपः ।
(P_3,1.12.1) KA_II,21.20-22 Ro_III,60 {6/6} यत्र च हलम् पश्यसि इति ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {1/30} भृशादिषु अभूततद्भावग्रहणम् ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {2/30} भृशादिषु अभूततद्भावग्रहणम् कर्तव्यम् ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {3/30} इह मा भूत् ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {4/30} क्व दिवा भृशाः भवन्ति इति ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {5/30} च्विप्रतिषेधानर्थक्यम् च भवत्यर्थे क्यङ्वचनात् । च्विप्रतिषेधः च अनर्थकः ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {6/30} किम् कारणम् ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {7/30} भवत्यर्थे क्यङ्वचनात् ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {8/30} भवत्यर्थे हि क्यङ् विधीयते ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {9/30} भवतियोगे च्विविधानम् । भवतिना योगे च्विः विधीयते ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {10/30} तत्र च्विना उक्तत्वात् तस्य अर्थस्य क्यङ् न भविष्यति ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {11/30} डाजन्तात् अपि तर्हि न प्राप्नोति ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {12/30} पटपटायते ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {13/30} डाच् अपि हि भवतिना योगे विधीयते ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {14/30} भवत्यर्थे क्यष् ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {15/30} डाचि वचनप्रामाण्यात् ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {16/30} डाचि वचनप्रामाण्यात् भविष्यति ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {17/30} किम् वचनप्रामाण्यम् ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {18/30} लोहितादिडाज्भ्यः क्यष् इति ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {19/30} इह किम् चित् अक्रियमाणम् चोद्यते किम् चित् क्रियमाणम् प्रत्याख्यायते ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {20/30} सः सूत्रभेदः कृतः भवति ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {21/30} यथान्यासम् एव अस्तु ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {22/30} ननु च उक्तम् इह कस्मात् न भवति क्व दिवा भृशाः भवन्ति इति ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {23/30} नञिवयुक्तम् अन्यसदृशाधिकरणे तथा हि अर्थगतिः ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {24/30} नञ्युक्तम् इवयुक्तम् व यत् किम् चित् इह दृश्यते तत्र अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {25/30} तथा हि अर्थः गम्यते ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {26/30} अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशः आनीयते ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {27/30} न असौ लोष्टम् आनीय कृती भवति ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {28/30} एवम् इह अपि अच्वेः इति च्विप्रतिषेधात् अन्यस्मिन् अच्व्यन्ते च्विसदृशे कार्यम् विज्ञास्यते ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {29/30} किम् च अतः अन्यत् अद्व्यन्तम् च्विसदृसम् ।
(P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 {30/30} अभूततद्भावः ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {1/49} इह काः चित् प्रकृतयः सोपसर्गाः पठ्यन्ते : अभिमनस् , सुमनस् , उन्मनस् , दुर्मनस् ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {2/49} तत्र विचार्यते : भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् वा स्यात् : अभिभवतौ सुभवतौ उद्भवतौ दुर्भवतौ इति ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {3/49} प्रकृत्यर्थविशेषणम् वा ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {4/49} अभिमनस्शब्दात् सुमनस्शब्दात् उन्मनस्शब्दात् दुर्मनस्शब्दात् इति ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {5/49} युक्तम् पुनः इदम् विचारयतुम् ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {6/49} ननु तेन असन्दिग्धेन प्रकृत्यर्थविशेषणम् भवितव्यम् यावता प्राक् प्रकृतेः पठ्यन्ते ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {7/49} यदि हि प्रत्ययार्थविशेषणम् स्यात् प्राक् भवतेः पठ्येरन् ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {8/49} न इमे शक्याः प्राक् भवतेः पठितुम् ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {9/49} एवम् विशिष्टे हि प्रत्ययाऋथे भृशादिमात्रात् उत्पत्तिः प्रसज्येत ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {10/49} तस्मात् न एवम् शक्यम् कर्तुम् ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {11/49} न चेत् एवम् जायते विचारणा ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {12/49} कः च अत्र विशेषः ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {13/49} भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् इति चेत् स्वरे दोषः ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {14/49} भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् इति चेत् स्वरे दोषः भवति ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {15/49} अभिमनायते ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {16/49} तिङ् अतिङः इति निघातः प्रसज्यते ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {17/49} अस्तु तर्हि प्रकृत्यर्थविशेषणम् ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {18/49} सोपसर्गात् इति चेत् अटि दोषः । सोपसर्गात् इति चेत् अटि दोषः भवति ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {19/49} स्वमनयत इति ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {20/49} अत्यल्पम् इदम् उच्यते : अटि दोषः भवति इति ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {21/49} अड्ल्यव्द्विर्वचनेषु इति वक्तव्यम् ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {22/49} अटि : उदाहृतम् ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {23/49} ल्यपि : सुमनाय्य ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {24/49} द्विर्वचने : अभिमिमनायिषते ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {25/49} न एषः दोषः ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {26/49} अवश्यम् सङ्ग्रामयतेः सोपसर्गात् उत्पत्तिः वक्तव्या असङ्ग्रामयत शूरः इति एवमर्थम् ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {27/49} तत् नियमार्थम् भविष्यति ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {28/49} सङ्ग्रामयतेः एव सोपसर्गात् न अन्यस्मात् सोपसर्गात् इति ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {29/49} यदि नियमः क्रियते स्वरः न सिध्यति ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {30/49} एवम् तर्हि भृशादिषु उपसर्गस्य पराङ्गवद्भावम् वक्ष्यामि ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {31/49} यदि पराङ्गवद्भावः उच्यते अड्ल्यव्द्विर्वचनानि न सिध्यन्ति ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {32/49} स्वरविधौ इति वक्ष्यामि ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {33/49} एवम् च कृत्वा अस्तु प्रत्ययार्थविशेषणम् ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {34/49} ननु च उक्तम् भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् इति चेत् स्वरे दोषः इति ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {35/49} स्वरे पराङ्गवद्भावेन परिहृतम् ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {36/49} अयम् तर्हि प्रत्ययार्थविशेषणे सति दोषः ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {37/49} क्यङा उक्तत्वात् तस्य अर्थस्य उपसर्गस्य प्रयोगः न प्राप्नोति ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {38/49} किम् कारणम् ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {39/49} उक्तार्थानाम् अप्रयोगः इति ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {40/49} तत् यथा ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {41/49} अपि काकः श्येनायते इति क्यङा उक्तत्वात् आचारार्थस्य आङः प्रयोगः न भवति ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {42/49} अस्ति अत्र विशेषः ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {43/49} एकेन अत्र विशिष्टे प्रत्ययार्थे प्रत्ययः उत्पद्यते इह पुनः अनेकेन ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {44/49} तत्र मनायते इति उक्ते सन्देहः स्यात् अभिभवतौ सुभवतौ दुर्भवतौ इति ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {45/49} तत्र असन्देहार्थम् उपसर्गः प्रयुज्यते ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {46/49} यत्र तर्हि एकेन ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {47/49} उत्पुच्छयते ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {48/49} अत्र अपि अनेकेन ।
(P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 {49/49} पुच्छात् उदसने पुच्छात् व्यसने पुच्छात् पर्यसने इति ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {1/51} किमर्थः ककारः ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {2/51} क्ङिति इति गुणप्रतिषेधः यथा स्यात् ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {3/51} न एतत् अस्ति प्रयोजनम् ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {4/51} सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {5/51} धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञाम् लभते ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {6/51} न च अयम् धातोः विधीयते ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {7/51} लोहितादीनि प्रातिपदिकानि ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {8/51} सामान्यग्रहणार्थः तर्हि ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {9/51} क्व सामान्यग्रहणेन अर्थः ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {10/51} नः क्ये इति ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {11/51} न अयम् नान्तात् विधीयते ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {12/51} इह तर्हि ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {13/51} यस्य हलः क्यस्य विभाषा इति ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {14/51} न अयम् हलन्तात् विधीयते ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {15/51} इह तर्हि ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {16/51} आपत्ययस्य च तद्धिते अनाति क्यच्व्योः च इति ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {17/51} न अयम् आपत्यात् विधीयते ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {18/51} इह तर्हि ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {19/51} क्यात् छन्दसि इति ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {20/51} यात् छन्दसि इति एतावत् वक्तव्यम् चरण्यूः तुरण्युः भुरण्युः इति एवमर्थम् ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {21/51} इदम् तर्हि प्रयोजनम् ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {22/51} यत् तत् अकृत्यकारे इति दीर्घत्वम् तत्र क्ङिद्ग्रहणम् अनुवर्तते ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {23/51} तत् इह अपि यथा स्यात् ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {24/51} लोहितायते ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {25/51} किम् पुनः कारणम् तत्र क्ङिद्ग्रहणम् अनुवर्तते ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {26/51} इह मा भूत् ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {27/51} उरुया धृष्णुया इति ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {28/51} यदि क्ङिद्ग्रहणम् अनुवर्तते इत्र्यम् इति पितुः रीङ्भावः न प्राप्नोति ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {29/51} रीङ्भावे क्ङिद्ग्रहणम् निवर्तिष्यते ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {30/51} यदि निवर्तते कथम् असूया वसूया च यमामहे ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {31/51} असूयतेः असूया वसूयतेः वसूया ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {32/51} अथ वा छान्दसम् एतत् ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {33/51} दृष्टानुविधिः च छन्दसि भवति इति ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {34/51} यदि छान्दसत्वम् हेतुः न अर्थः क्ङिद्ग्रहणेन अनुवर्तमानेन ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {35/51} कस्मात् न भवति उरुया धृष्णुया इति ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {36/51} छान्दसत्वात् ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {37/51} अथ वा अस्तु अत्र दीर्घत्वम् ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {38/51} छान्दसम् ह्रस्वत्वम् भविष्यति ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {39/51} तत् यथा उपगायन्तु माम् पत्नयः गर्भिणयः युवतयः इति ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {40/51} अथ किमर्थः षकारः ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {41/51} विशेषणार्थः ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {42/51} क्व विशेषणार्थेन अर्थः ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {43/51} वा क्यषः इति ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {44/51} वा यात् इति हि उच्यमाने अतः अपि प्रसज्येत ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {45/51} न एतत् असि प्रयोजनम् ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {46/51} परस्मैपदम् इति उच्यते ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {47/51} न च अतः परस्मैपदम् न अपि आत्मनेपदम् पश्यामः ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {48/51} सामान्यग्रहणाविघातार्थः तर्हि भविष्यति ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {49/51} क्व सामान्यग्रहणाविघातार्थेन अर्थः ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {50/51} क्यात् छन्दसि इति ।
(P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 {51/51} यात् छन्दसि इति एवम् वक्तव्यम् चरण्यूः तुरण्युः भुरण्युः इति एवमर्थम् ।
(P_3,1.13.2) KA_II,24.20-25 Ro_III,66 {1/8} लोहितडाज्भ्यः क्यष्वचनम् ।
(P_3,1.13.2) KA_II,24.20-25 Ro_III,66 {2/8} लोहितडाज्भ्यः क्यष् वक्तव्यः ।
(P_3,1.13.2) KA_II,24.20-25 Ro_III,66 {3/8} लोहितायति लोहितायते पटपटायति पटपटायते ।
(P_3,1.13.2) KA_II,24.20-25 Ro_III,66 {4/8} अथ अन्यानि लोहितादीनि ।
(P_3,1.13.2) KA_II,24.20-25 Ro_III,66 {5/8} भृशादिषु इतराणि ।
(P_3,1.13.2) KA_II,24.20-25 Ro_III,66 {6/8} भृशादिषु इतराणि पठितव्यानि ।
(P_3,1.13.2) KA_II,24.20-25 Ro_III,66 {7/8} किम् प्रयोजनम् ।
(P_3,1.13.2) KA_II,24.20-25 Ro_III,66 {8/8} ङितः इति आत्मनेपदम् यथा स्यात् इति ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {1/26} कष्टाय इति किम् निपात्यते ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {2/26} कष्टशब्दात् चतुर्थीसमर्थात् क्रमणे अनार्जवे क्य्ङ् निपात्यते ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {3/26} कष्टाय कर्मणे क्रामति कष्टायते ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {4/26} अत्यल्पम् इदम् उच्यते : कष्टाय इति ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {5/26} सत्त्रकक्षकष्टगहनेभ्यः कण्वचिकीर्षायाम् ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {6/26} सत्त्रकक्षकष्टगहनेभ्यः कण्वचिकीर्षायाम् इति वक्तव्यम् ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {7/26} सत्त्रायते ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {8/26} सत्त्र। ककष। कक्षायते ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {9/26} कष्ट ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {10/26} कष्टायते ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {11/26} कष्ट ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {12/26} गहन ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {13/26} गहनायते ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {14/26} अपरः आह : । सत्त्रादिभ्यः चतुर्थ्यन्तेभ्यः क्रमणे अनार्जवे क्यङ् वक्तव्यः ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {15/26} एतानि एव उदाहरणानि ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {16/26} सत्त्रादिभ्यः इति किमर्थम् ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {17/26} कुटिलाय क्रामति अनुवाकाय ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {18/26} चतुर्थ्यन्तेभ्यः इति किमर्थम् ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {19/26} अजः कष्टम् क्रामति ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {20/26} तत् तर्हि वक्तव्यम् ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {21/26} न वक्तव्यम् ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {22/26} न एतत् प्रत्ययान्तनिपातनम् ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {23/26} किम् तर्हि ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {24/26} तादर्थ्ये एषा चतुर्थी ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {25/26} कष्टाय यत् प्रातिपदिकम् ।
(P_3,1.14) KA_II,215.2-11 Ro_III,67-68 {26/26} कष्टार्थे यत् प्रातिपदिकम् इति ।
(P_3,1.15) KA_II,25.13-20 Ro_III,68 {1/16} रोमन्थे इति उच्यते ।
(P_3,1.15) KA_II,25.13-20 Ro_III,68 {2/16} कः रोमन्थः नाम ।
(P_3,1.15) KA_II,25.13-20 Ro_III,68 {3/16} उद्गीर्णस्य वा अवगीर्णस्य वा मन्थः रोमन्थः इति ।
(P_3,1.15) KA_II,25.13-20 Ro_III,68 {4/16} यदि एवम् हनुचलने इति वक्तव्यम् ।
(P_3,1.15) KA_II,25.13-20 Ro_III,68 {5/16} इह मा भूत् ।
(P_3,1.15) KA_II,25.13-20 Ro_III,68 {6/16} कीटः रोमथम् वर्तयति ।
(P_3,1.15) KA_II,25.13-20 Ro_III,68 {7/16} तत् तर्हि वक्तव्यम् ।
(P_3,1.15) KA_II,25.13-20 Ro_III,68 {8/16} न वक्तव्यम् ।
(P_3,1.15) KA_II,25.13-20 Ro_III,68 {9/16} कस्मात् न भवति ।
(P_3,1.15) KA_II,25.13-20 Ro_III,68 {10/16} कीटः रोमथम् वर्तयति इति ।
(P_3,1.15) KA_II,25.13-20 Ro_III,68 {11/16} अनभिधानात् ।
(P_3,1.15) KA_II,25.13-20 Ro_III,68 {12/16} तपसः परस्मैपदम् च ।
(P_3,1.15) KA_II,25.13-20 Ro_III,68 {13/16} तपसः परस्मैपदम् च इति वक्तव्यम् ।
(P_3,1.15) KA_II,25.13-20 Ro_III,68 {14/16} तपः चरति तपस्यति ।
(P_3,1.15) KA_II,25.13-20 Ro_III,68 {15/16} कथम् तपस्यते लोकजिगीषुः अग्नेः ।
(P_3,1.15) KA_II,25.13-20 Ro_III,68 {16/16} छान्दसत्वात् भविष्यति ।
(P_3,1.16) KA_II,25.22 Ro_III,69 {1/2} फेनात् च इति वक्तव्यम् ।
(P_3,1.16) KA_II,25.22 Ro_III,69 {2/2} फेनायते ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {1/24} अटाट्ताशीकाकोटापोटासोटाप्रुष्टाप्लुष्टाग्रहणम् कर्तव्यम् ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {2/24} अटा ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {3/24} अटायते ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {4/24} अट्टा ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {5/24} अट्टायते ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {6/24} शीका ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {7/24} शीकायते ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {8/24} कोटा ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {9/24} कोटायते ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {10/24} पोटा ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {11/24} पोटायते ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {12/24} सोटा ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {13/24} सोटायते ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {14/24} प्रुष्टा ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {15/24} प्रुष्टयते ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {16/24} प्लुष्टा ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {17/24} प्लुष्टायते ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {18/24} सुदिनदुर्दिनाभ्याम् च ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {19/24} सुदिनदुर्दिनाभ्याम् च इति वक्तव्यम् ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {20/24} सुदिनायते ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {21/24} दुर्दिनायते ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {22/24} नीहारात् च ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {23/24} नीहारात् च इति वक्तव्यम् ।
(P_3,1.17) KA_II,26.2-8 Ro_III,69 {24/24} नीहारायते ।
(P_3,1.18) KA_II,26.10-14 Ro_III,69 {1/12} कर्तृवेदनायाम् इति किमर्थम् ।
(P_3,1.18) KA_II,26.10-14 Ro_III,69 {2/12} इह मा भूत् ।
(P_3,1.18) KA_II,26.10-14 Ro_III,69 {3/12} सुखम् वेदयते प्रसाधकः देवदत्तस्य ।
(P_3,1.18) KA_II,26.10-14 Ro_III,69 {4/12} कर्तृवेदनायाम् इति उच्यमाने अपि अत्र प्राप्नोति ।
(P_3,1.18) KA_II,26.10-14 Ro_III,69 {5/12} किम् कारणम् ।
(P_3,1.18) KA_II,26.10-14 Ro_III,69 {6/12} कर्तुः इति इयम् कर्तरि षष्ठी ।
(P_3,1.18) KA_II,26.10-14 Ro_III,69 {7/12} वेदनायाम् इति च अनः भावे ।
(P_3,1.18) KA_II,26.10-14 Ro_III,69 {8/12} सः यदि एव आत्मनः वेदयते अथ अपि परस्य कर्तृवेदना एव असौ भवति ।
(P_3,1.18) KA_II,26.10-14 Ro_III,69 {9/12} न कर्तृग्रहणेन वेदना अभिसम्बध्यते ।
(P_3,1.18) KA_II,26.10-14 Ro_III,69 {10/12} किम् तर्हि ।
(P_3,1.18) KA_II,26.10-14 Ro_III,69 {11/12} सुखादीनि अभिसम्बध्यन्ते ।
(P_3,1.18) KA_II,26.10-14 Ro_III,69 {12/12} कर्तुः यानि सुखादीनि ।
(P_3,1.19.1) KA_II,16-23 Ro_III,70 {1/14} नमसः क्यचि द्वितीयानुपपत्तिः ।
(P_3,1.19.1) KA_II,16-23 Ro_III,70 {2/14} नमसः क्यचि द्वितीया न उपपद्यते ।
(P_3,1.19.1) KA_II,16-23 Ro_III,70 {3/14} नमस्यति देवान् ।
(P_3,1.19.1) KA_II,16-23 Ro_III,70 {4/14} किम् कारणम् ।
(P_3,1.19.1) KA_II,16-23 Ro_III,70 {5/14} नमःशब्देन योगे चतुर्थी विधीयते ।
(P_3,1.19.1) KA_II,16-23 Ro_III,70 {6/14} सा प्राप्नोति ।
(P_3,1.19.1) KA_II,16-23 Ro_III,70 {7/14} प्रकृत्यन्तरत्वात् सिद्धम् ।
(P_3,1.19.1) KA_II,16-23 Ro_III,70 {8/14} नमःशब्देन योगे चतुर्थी विधीयते नमस्यतिशब्दः च अयम् ।
(P_3,1.19.1) KA_II,16-23 Ro_III,70 {9/14} ननु च नमस्यतिशब्दे नमःशब्दः अस्ति ।
(P_3,1.19.1) KA_II,16-23 Ro_III,70 {10/14} तेन योगे प्राप्नोति ।
(P_3,1.19.1) KA_II,16-23 Ro_III,70 {11/14} न एषः दोषः ।
(P_3,1.19.1) KA_II,16-23 Ro_III,70 {12/14} अर्थवतः नमःसाब्दस्य ग्रहणम् ।
(P_3,1.19.1) KA_II,16-23 Ro_III,70 {13/14} न च नमस्यतिशब्दे नमःशब्दः अर्थवान् ।
(P_3,1.19.1) KA_II,16-23 Ro_III,70 {14/14} अथ वा उपपदविभक्तेः कारकविभक्तिः बलीयसी इति द्वितीया भविष्यति ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {1/43} क्यजादिषु प्रत्ययार्थनिर्देशः ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {2/43} क्यजादिषु प्रत्ययार्थनिर्देशः कर्तव्यः ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {3/43} नमसः पूजायाम् ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {4/43} वरिवसः परिचर्यायाम् ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {5/43} चित्रङः आश्चर्ये ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {6/43} भाण्डात् समाचयने ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {7/43} चीवरात् अर्जने परिधाने वा ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {8/43} पुच्छात् उदसने व्य्ससने च इति ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {9/43} किम् प्रयोजनम् ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {10/43} क्रियावचनता यथा स्यात् ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {11/43} न एतत् अस्ति प्रयोजनम् ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {12/43} आचार्यप्रवृत्तिः ज्ञापयति क्रियावचनाः क्यजादयः इति यत् अयम् सनाद्यन्ताः धातवः इति धातुसञ्ज्ञाम् शास्ति ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {13/43} धातुसञ्ज्ञावचने एतत् प्रयोजनम् : धातोः इति तव्यदादीनाम् उत्पत्तिः यथा स्यात् ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {14/43} यदि च अत्र क्रियावचनता न स्यात् धातुसञ्ज्ञावचनम् अनर्थकम् स्यात् ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {15/43} सत्याम् अपि धातुसञ्ज्ञायाम् तव्यदादयः न स्युः ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {16/43} किम् कारणम् ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {17/43} साधने ताव्यादयः विधीयन्ते साधनम् च क्रियायाः ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {18/43} क्रियाभावात् साधनाभावः ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {19/43} साधनाभावात् सत्याम् अपि धातुसञ्ज्ञायाम् तव्यदादयः न स्युः ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {20/43} पश्यति तु आचार्यः क्रियावचनाः क्यजादयः इति ततः सनाद्यन्ताः धातवः इति धातुसञ्ज्ञाम् शास्ति ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {21/43} ननु च इदम् प्रयोजनम् स्यात् ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {22/43} परसाधने उत्पत्तिम् वक्ष्यामि इति ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {23/43} न परसाधने उत्पत्त्या भवितव्यम् ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {24/43} किम् कारणम् ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {25/43} साधनम् इति सम्बन्धिशब्दः अयम् ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {26/43} सम्बन्धिशब्दाः च पुनः एवमात्मकाः यत् उत सम्बन्धिनम् आक्षिपन्ति ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {27/43} तत् यथा ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {28/43} मातरि वर्तितत्व्यम् , पितरि शुश्रूषितव्यम् इति ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {29/43} न च उच्यते स्वस्याम् मातरि स्वस्मिन् वा पितरि इति , सम्बन्धात् च एतत् गम्यते या यस्य माता यः च यस्य पिता इति ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {30/43} एवम् इह अपि सम्बन्धात् एतत् गन्तव्यम् यस्य धातोः यत् साधनम् इति ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {31/43} अथ वा धातवः एव क्यजादयः ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {32/43} न च एव हि अर्थाः आदिश्यन्ते ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {33/43} क्रियावचनता च गम्यते ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {34/43} कः खलु अपि पचादीनाम् क्रियावचनत्वे यत्नम् करोति ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {35/43} येन एव खलु अपि हेतुना पचादयः क्रियावचनाः तेन एव क्यजादयः अपि ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {36/43} एवमर्थम् आचार्यः चित्रयति ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {37/43} क्व चित् अर्थान् आदिशति क्व चित् न ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {38/43} एवम् अपि अर्थादेशनम् कर्तव्यम् ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {39/43} कथम् इमे अबुधाः बुध्येरन् इति ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {40/43} अथ वा शक्यम् आदेशनम् अकर्तुम् ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {41/43} कथम् ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {42/43} करणे इति वर्तते ।
(P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 {43/43} करणम् च करोतेः करोतिः च क्रियासामान्ये वर्तते ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {1/29} इमौ हलिकली स्तः इकारान्तौ ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {2/29} अस्ति हलशब्दः कलशब्दः च अकारान्तः ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {3/29} कयोः इदम् ग्रहणम् ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {4/29} यौ इकारान्तौ तयोः अत्वम् निपात्यते ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {5/29} किम् प्रयोजनम् ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {6/29} हलिकल्योः अत्वनिपातनम् सन्वद्भावप्रतिषेधार्थम् ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {7/29} हलिकल्योः अत्वनिपातनम् क्रियते सन्वद्भावः मा भूत् इति ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {8/29} अजहलत् अचकलत् ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {9/29} न एतत् अस्ति प्रयोजनम् ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {10/29} इकारलोपे कृते अग्लोपिनाम् न इति प्रतिषेधः भविष्यति ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {11/29} वृद्धौ कृतायाम् लोपः ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {12/29} तत् न अग्लोपि अङ्गम् भवति ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {13/29} इदम् इह सम्प्रधार्यम् ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {14/29} वृद्धिः क्रियताम् अग्लोपः इति ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {15/29} किम् अत्र कर्तव्यम् ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {16/29} परत्वात् वृद्धिः ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {17/29} नित्यः लोपः ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {18/29} कृतायाम् अपि वृद्धौ प्राप्नोति अकृतायाम् अपि प्राप्नोति ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {19/29} अनित्यः लोपः ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {20/29} अन्यस्य कृतायाम् वृद्धौ प्राप्नोति अन्यस्य अकृतायाम् ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {21/29} शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {22/29} वृद्धिः अपि अनित्या ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {23/29} अन्यस्य कृते लोपे प्राप्नोति अन्यस्य अकृते ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {24/29} शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {25/29} उभयोः अनित्ययोः परत्वात् वृद्धिः ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {26/29} वृद्धौ कृतायाम् लोपः ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {27/29} तत् न अग्लोपि अङ्गम् भवति ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {28/29} अत्वे पुनः सति वृद्धिः क्रियताम् लोपः इति यदि अपि परत्वात् वृद्धिः वृद्धौ कृतायाम् अपि अक् एव लुप्यते ।
(P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 {29/29} तस्मात् सुष्ठु उच्यते हलिकल्योः अत्वनिपातनम् सन्वद्भावप्रतिषेधार्थम् ।
(P_3,1.22.1) KA_II,28.13-18 Ro_III,74-75 {1/12} समभिहारः इति कः अयम् शब्दः ।
(P_3,1.22.1) KA_II,28.13-18 Ro_III,74-75 {2/12} समभिपूर्वात् हरतेः भावसाधनः घञ् ।
(P_3,1.22.1) KA_II,28.13-18 Ro_III,74-75 {3/12} समभिहरणम् समभिहारः ।
(P_3,1.22.1) KA_II,28.13-18 Ro_III,74-75 {4/12} तत् यथ पुष्पाभिहारः फलाभिहारः इति ।
(P_3,1.22.1) KA_II,28.13-18 Ro_III,74-75 {5/12} विषमः उपन्यासः ।
(P_3,1.22.1) KA_II,28.13-18 Ro_III,74-75 {6/12} बह्व्यः हि ताः सुमनसः ।
(P_3,1.22.1) KA_II,28.13-18 Ro_III,74-75 {7/12} तत्र युक्तः समभिहारः ।
(P_3,1.22.1) KA_II,28.13-18 Ro_III,74-75 {8/12} इह पुनः एका क्रिया ।
(P_3,1.22.1) KA_II,28.13-18 Ro_III,74-75 {9/12} यदि अपि एका सामान्यक्रिया अवयवक्रियाः तु बह्व्यः अधिश्रयणोदकासेचनतण्डुलावपनैध्कोपकर्षण्क्रियाः ।
(P_3,1.22.1) KA_II,28.13-18 Ro_III,74-75 {10/12} ताः कः चित् कार्त्स्न्येन करोति कः चित् अकार्त्स्न्येन ।
(P_3,1.22.1) KA_II,28.13-18 Ro_III,74-75 {11/12} यः कार्त्स्न्येन करोति सः उच्यते पापच्यते इति ।
(P_3,1.22.1) KA_II,28.13-18 Ro_III,74-75 {12/12} पुनः पुनः वा पचति पापच्यते इति ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {1/28} अथ धातुग्रहणम् किमर्थम् ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {2/28} इह मा भूत् प्राटति भृशम् इति ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {3/28} अतः उत्तरम् पठति ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {4/28} यङ्विधौ धातुग्रहणे उक्तम् ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {5/28} किम् उक्तम् ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {6/28} तत्र तावत् उक्तम् कर्मग्रहणात् सन्विधौ धातुग्रहणानर्थक्यम् ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {7/28} सोपसर्गम् कर्म इति चेत् कर्मविशेषकत्वात् उपसर्गस्य अनुपसर्गम् कर्म ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {8/28} सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् इति ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {9/28} एवम् इह अपि क्रियासमभिहारग्रहणात् यङ्विधौ धातुग्रहणानर्थक्यम् ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {10/28} सोपसर्गः क्रियासमभिहारः इति चेत् क्रियासमभिहारविशेषकत्वात् उपसर्गस्य अनुपसर्गः क्रियासमभिहारः ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {11/28} सोपसर्गस्य हि क्रियासमहिभारत्वे धात्वधिकारे अपि यङः अविधानम् अक्रियासमभिहारत्वात् इति ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {12/28} अथ एकाज्झलादिग्रहणम् किमर्थम् ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {13/28} इह मा भूत् : जागर्ति भृशम् ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {14/28} ईक्षते भृशम् ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {15/28} एकाज्झलादिग्रहणे च ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {16/28} एकाज्झलादिग्रहणे च उक्तम् ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {17/28} किम् उक्तम् ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {18/28} तत्र तावत् उक्तम् कर्मसमानकर्तृकग्रहणानर्थक्यम् च इच्छाभिधाने प्रत्ययविधानात् ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {19/28} अकर्मणः हि असमानकर्तृकात् वा अनभिधानम् इति ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {20/28} इह अपि एकाज्झलादिग्रहणानर्थक्यम् क्रियासमभिहारे यङ्वचनात् अनेकाचः अहलादेः हि अनभिधानम् इति ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {21/28} तत् च अवश्यम् अनभिदानम् आश्रयितव्यम् ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {22/28} क्रियमाणे अपि हि एकाज्झलादिग्रहणे यत्र एकाचः हलादेः च उत्पद्यमानेन यङा अर्थस्य अभिधानम् न भवति न भवति तत्र उत्पत्तिः ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {23/28} तत् यथा ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {24/28} भृशम् शोभते ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {25/28} भृशम् रोचते ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {26/28} यत्र च अनेकाचः अहलादेः वो उत्पद्यमानेन यङा अर्थस्य अभिधानम् भवति भवति तत्र उत्पत्तिः ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {27/28} तत् यथा ।
(P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 {28/28} अटाट्यते अरार्यते अशाश्यते सोसूच्यते सोसूत्र्यते मोमूत्र्यते ।
(P_3,1.22.3) KA_II,29.13-21 Ro_III,76-77 {1/11} ऊर्णोतेः च उपसङ्ख्यानम् ।
(P_3,1.22.3) KA_II,29.13-21 Ro_III,76-77 {2/11} ऊर्णोतेः च उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,1.22.3) KA_II,29.13-21 Ro_III,76-77 {3/11} प्रोर्णोनूयते ।
(P_3,1.22.3) KA_II,29.13-21 Ro_III,76-77 {4/11} अत्यल्पम् इदम् उच्यते : ऊर्णोतेः इति ।
(P_3,1.22.3) KA_II,29.13-21 Ro_III,76-77 {5/11} सूचिसूत्रिमूत्र्यट्यर्त्यश्यूर्णुग्रहणम् यङ्विधौ अनेकाजहलाद्यर्थम् ।
(P_3,1.22.3) KA_II,29.13-21 Ro_III,76-77 {6/11} सूचिसूत्रिमूत्र्यट्यर्त्यश्यूर्णोतीनाम् ग्रहणम् कर्तव्यम् ।
(P_3,1.22.3) KA_II,29.13-21 Ro_III,76-77 {7/11} किम् प्रयोजनम् ।
(P_3,1.22.3) KA_II,29.13-21 Ro_III,76-77 {8/11} यङ्विधौ अनेकाजहलाद्यर्थम् ।
(P_3,1.22.3) KA_II,29.13-21 Ro_III,76-77 {9/11} सोसूच्यते सोसूत्र्यते मोमूत्र्यते अटाट्यते अरार्यते अशाश्यते प्रोर्णोनूयते ।
(P_3,1.22.3) KA_II,29.13-21 Ro_III,76-77 {10/11} वाच्यः ऊर्णोर्णुवद्भावः यङ्प्रसिद्धिः प्रयोजनम् ।
(P_3,1.22.3) KA_II,29.13-21 Ro_III,76-77 {11/11} आमः च प्रतिषेधार्थम् एकाचः च इडुपग्रहात् ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {1/24} क्रियासमभिहारे यङः विप्रतिषेधेन लोड्विधानम् ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {2/24} क्रियासमभिहारे लोट् भवति यङः विप्रतिषेधेन ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {3/24} क्रियासमभिहारे यङ् भवति इति अस्य अवकाशः धातुः यः एकाच् हलादिः क्रियासमभिहारे वर्तते अधातुसम्बन्धः : लोलूयते ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {4/24} लोटः अवकाशः धातुः यः अनेकाच् अहलादिः क्रियासमभिहारे वर्तते धातुसम्बन्धः : सः भवान् जागृहि जागृहि इति एव अयम् जागर्ति ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {5/24} सः भवान् ईहस्व ईहस्व इति एव अयम् ईहते ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {6/24} धातुः यः एकाच् हलादिः क्रियासमभिहारे वर्तते धातुसम्बन्धः च तस्मात् उभयम् प्राप्नोति : सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {7/24} लोट् भवति विप्रतिषेधेन ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {8/24} न तर्हि इदानीम् इदम् भवति : सः भवान् लोलूयस्व लोलूयस्व इति एव अयम् लोलूयते ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {9/24} भवति च ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {10/24} न वा नानार्थत्वात् ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {11/24} कर्तृकर्मणोः हि लविधानम् क्रियाविशेषे स्वार्थे यङ् ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {12/24} न वा अर्थः विप्रतिषेधेन ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {13/24} किम् कारणम् ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {14/24} नानार्थत्वात् ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {15/24} का नानार्थता ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {16/24} कर्तृकर्मणोः हि लविधानम् ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {17/24} कर्तृकर्मणोः हि लोट् विधीयते ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {18/24} क्रियाविशेषे स्वार्थे यङ् ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {19/24} तत्र अन्तरङ्गत्वात् यङा भवितव्यम् ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {20/24} न तर्हि इदम् इदानीम् भवति ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {21/24} सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {22/24} भवति च ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {23/24} विभाषा यङ् ।
(P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 {24/24} यदा न यङ् तदा लोट् ।
(P_3,1.24) KA_II,30.9-14 Ro_III,78-79 {1/8} उत्तरयोः विग्रहेण विशेषासम्प्रत्ययात् नित्यग्रहणानर्थक्यम् ।
(P_3,1.24) KA_II,30.9-14 Ro_III,78-79 {2/8} उत्तरयोः योगयोः विग्रहेण विशेषासम्प्रत्ययात् नित्यग्रहणानर्थक्यम् ।
(P_3,1.24) KA_II,30.9-14 Ro_III,78-79 {3/8} न हि कुटिलम् क्रामति इति चङ्क्रम्यते इति गम्यते ।
(P_3,1.24) KA_II,30.9-14 Ro_III,78-79 {4/8} अथे एतेभ्यः क्रियासमभिहारे यङा भवितव्यम् ।
(P_3,1.24) KA_II,30.9-14 Ro_III,78-79 {5/8} क्रियासमभिहारे च न एतेभ्यः ।
(P_3,1.24) KA_II,30.9-14 Ro_III,78-79 {6/8} क्रियासमभिहारे च न एतेभ्यः यङा भवितव्यम् ।
(P_3,1.24) KA_II,30.9-14 Ro_III,78-79 {7/8} भृशम् जपति ब्राह्मणः ।
(P_3,1.24) KA_II,30.9-14 Ro_III,78-79 {8/8} भृशम् समिदः दहति इति एव।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {1/25} सत्याप इति किम् निपात्यते ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {2/25} सत्यस्य कृञि आपुक् च । सत्यस्य कृञि आपुक् च निपात्यते णिच् च ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {3/25} सत्यम् करोति सत्यापयति ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {4/25} अत्यल्पम् इदम् उच्यते ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {5/25} णिविदौ अर्थवेदसत्यानाम् अपुक् च ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {6/25} णिविदौ अर्थवेदसत्यानाम् अपुक् च इति वक्तव्यम् ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {7/25} अर्थापयति वेदापयति सत्यापयति ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {8/25} यदि आपुक् क्रियते टिलोपः प्राप्नोति ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {9/25} एवम् तर्हि पुक् करिष्यते ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {10/25} एवम् अपि टिलोपः प्राप्नोति ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {11/25} एवम् तर्हि आक् करिष्यते ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {12/25} एवम् अपि टिलोपः प्राप्नोति ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {13/25} एवम् तर्हि अक् करिष्यते ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {14/25} एवम् अपि अनाकारान्तत्वात् पुक् न प्राप्नोति ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {15/25} एवम् तर्हि अपुट् करिष्यते ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {16/25} अथ वा पुनः अस्तु आपुक् एव ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {17/25} ननु च उक्तम् ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {18/25} टिलोपः प्राप्नोति इति ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {19/25} आपुग्वचनसामर्थ्यात् न भविष्यति ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {20/25} अथ वा पुनः अस्तु पुक् एव ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {21/25} ननु च उक्तम् एवम् अपि टिलोपः प्राप्नोति इति ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {22/25} पुग्वचनसामर्थ्यात् न भविष्यति ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {23/25} अथ वा पुनः अस्तु आक् एव ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {24/25} ननु च उक्तम् एवम् अपि टिलोपः प्राप्नोति इति ।
(P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 {25/25} आग्वचनसामर्थ्यात् न भविष्यति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {1/70} कथम् इदम् विज्ञायते ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {2/70} हेतुमति अभिधेये णिच् भवति इति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {3/70} आहोस्वित् हेतुमति यः धातुः वर्तते इति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {4/70} युक्तम् पुनः इदम् विचारयितुम् ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {5/70} ननु अनेन असन्दिग्धेन प्रत्ययार्थविशेषणेन भवितव्यम् यावता हेतुमति इति उच्यते ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {6/70} यदि हि प्रकृतर्थविशेषणम् स्यात् हेतुमतः इति एवम् ब्रूयात् ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {7/70} न एतत् अस्ति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {8/70} भवन्ति इह हि विषयसप्तम्यः अपि ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {9/70} तत् यथा ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {10/70} प्रमाणे यत् प्रातिपदिकम् वर्तते स्त्रियाम् यत् प्रातिपदिकम् वर्तते इति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {11/70} एवम् इह अपि हेतुमति अभिधेये णिच् भवति हेतुमति यः धातुः वर्तते इति जायते विचारणा ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {12/70} अत उत्तरम् पठति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {13/70} हेतुमति इति कारकोपादानम् प्रत्ययार्थपरिग्रहार्थम् यथा तनूकरणे तक्षः ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {14/70} हेतुमति इति कारकम् उपादीयते ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {15/70} किम् प्रयोजनम् ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {16/70} प्रत्ययार्थपरिग्रहार्थम् ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {17/70} एवम् सति प्रत्ययार्थः सुपरिगृहीतः भवति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {18/70} यथा तनूकरणे तक्षः इति तनूकरणम् उपादीयते ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {19/70} यदि तर्हि तद्वत् प्रकृत्यर्थविशेषणम् भवति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {20/70} प्रकृत्यर्थविशेषणम् हि तत् तत्र विज्ञायते ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {21/70} तनूकरणक्रियायाम् तक्षः इति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {22/70} अस्तु प्रकृत्यर्थविशेषणम् ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {23/70} कः दोषः ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {24/70} इह हि उक्तः करोति प्रेषितः करोति इति णिच् प्राप्नोति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {25/70} प्रत्ययार्थविशेषणे पुनः सति न एषः दोषः ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {26/70} स्वशब्देन उक्तत्वात् न भविष्यति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {27/70} प्रकृत्यर्थविशेषणे अपि सति न एषः दोषः ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {28/70} यत्र न अन्तरेण शब्दम् अर्थस्य गतिः भवति तत्र शब्दः प्रयुज्यते ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {29/70} यत्र हि अन्तरेण अपि शब्दम् अर्थस्य गतिः भवति न तत्र शब्दः प्रयुज्यते ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {30/70} इह तर्हि पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति उभयोः कर्त्रोः लेन अभिधानम् प्राप्नोति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {31/70} प्रत्ययार्थविशेषणे पुनः सति न दोषः ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {32/70} प्रधानकर्तरि लादयः भवन्ति इति प्रधानकर्ता लेन अभिधीयते ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {33/70} यः च अप्रधानम् सिद्ध तत्र कर्तरि इति एव तृतीया ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {34/70} इह च गमितः ग्रामम् देवदत्तः यज्ञदत्तनेअ इति अव्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थानाम् कर्तरि इति कर्तरि क्तः प्राप्नोति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {35/70} इह च व्यतिभेदयन्ते व्यतिच्छेदयन्ते इति अव्यतिरिक्तः हिंसार्थः इति कृत्वा न गतिहिंसार्थेभ्यः इति प्रतिषेधः प्राप्नोति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {36/70} अस्तु तर्हि प्रत्ययार्थविशेषणम् ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {37/70} यदि प्रत्ययार्थविशेषणम् पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति प्रयोज्ये कर्तरि कर्मसञ्ज्ञा प्राप्नोति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {38/70} भवति हि तस्य तस्मिन् ईप्सा ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {39/70} इह च ग्रामम् गमयति ग्रामाय गमयति इति व्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {40/70} इह च एधोदकस्य उपस्कारयति इति व्यतिरिक्तः करोत्यर्थः इति कृत्वा कृञः प्रतियत्ने इति षष्ठी न प्राप्नोति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {41/70} इह च भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानाम् इति प्रयोज्ये कर्तरि षष्ठी न प्राप्नोति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {42/70} इह च अभिषावयति परिषावयति इति व्यतिरिक्तः सुनोत्यर्थः इति कृत्वा उपसर्गात् सुनोत्यादीनाम् इति षत्वम् न प्राप्नोति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {43/70} न एषः दोषः ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {44/70} यत् तावत् उच्यते पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति प्रयोज्ये कर्तरि कर्मसञ्ज्ञा प्राप्नोति इति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {45/70} गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणि इति एतत् नियमार्थम् भविष्यति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {46/70} एतेषाम् एव अण्यन्तानाम् यः कर्ता सः णौ कर्मसञ्ज्ञः भवति न अन्येषाम् इति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {47/70} यत् अपि उच्यते इह च ग्रामम् गमयति ग्रामाय गमयति इति व्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः इति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {48/70} न असौ एवम् प्रेष्यते गच्छ ग्रामम् इति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {49/70} कथम् तर्हि ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {50/70} साधनविशिष्टाम् असौ क्रियाम् प्रेष्यते ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {51/70} ग्रामम् गच्छ ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {52/70} ग्रामाय गच्छ इति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {53/70} यत् अपि उच्यते इह च एधोदकस्य उपस्कारयति इति व्यतिरिक्तः करोत्यर्थः इति कृत्वा कृञः प्रतियत्ने इति षष्ठी न प्राप्नोति इति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {54/70} न असौ एवम् प्रेष्यते उपस्कुरुष्व एधोदकस्य इति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {55/70} कथम् तर्हि ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {56/70} साधनविशिष्टाम् असौ क्रियाम् प्रेष्यते ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {57/70} एधोदकस्य उपस्कुरुष्व इति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {58/70} यत् अपि उच्यते इह च भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानाम् इति प्रयोज्ये कर्तरि षष्ठी न प्राप्नोति इति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {59/70} उक्तम् तत्र कृद्ग्रहणस्य प्रयोजनम् कर्तृभूतपूर्वमात्रे अपि षष्ठी यथा स्यात् इति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {60/70} यत् अपि उच्यते इह च अभिषावयति परिषावयति इति व्यतिरिक्तः सुनोत्यर्थः इति कृत्वा उपसर्गात् सुनोत्यादीनाम् इति षत्वम् न प्राप्नोति इति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {61/70} न असौ एवम् प्रेष्यते सुनु अभि इति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {62/70} कथम् तर्हि उपसर्गविशिष्टाम् असौ क्रियाम् प्रेष्यते ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {63/70} अभिषुनु इति ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {64/70} युक्तम् पुनः इदम् विचारयितुम् ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {65/70} ननु अनेन असन्दिग्धेन प्रत्ययार्थविशेषणेन भवितव्यम् यावता व्यक्तम् अर्थान्तरम् गम्यते पचति पाचयति इति च ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {66/70} बाढम् युक्तम् ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {67/70} इह पचेः कः प्रधानार्थः ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {68/70} या असौ तण्डुलानाम् विक्लित्तिः ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {69/70} अथ इदानीम् तदभिसन्धिपूर्वकम् प्रेषणम् अध्येषणम् वा ।
(P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 {70/70} युक्तम् यत् सर्वम् पच्यर्थः स्यात् ।
(P_3,1.26.2) KA_II,33.1-8 Ro_III,87-88 {1/16} हेतुनिर्देशः च निमित्तमात्रम् बिक्षादिषु दर्शनात् ।
(P_3,1.26.2) KA_II,33.1-8 Ro_III,87-88 {2/16} हेतुनिर्देशः च निमित्तमात्रम् द्रष्टव्यम् ।
(P_3,1.26.2) KA_II,33.1-8 Ro_III,87-88 {3/16} यावत् ब्रूयात् निमित्तम् कारणम् इति ताव्त् हेतुः इति ।
(P_3,1.26.2) KA_II,33.1-8 Ro_III,87-88 {4/16} किम् प्रयोजनम् ।
(P_3,1.26.2) KA_II,33.1-8 Ro_III,87-88 {5/16} बिक्षादिषु दर्शनात् ।
(P_3,1.26.2) KA_II,33.1-8 Ro_III,87-88 {6/16} भिक्षादिषु हि णिच् दृश्यते ।
(P_3,1.26.2) KA_II,33.1-8 Ro_III,87-88 {7/16} भिक्षाः वासयन्ति ।कारिषः अग्निः अध्यापयति इति ।
(P_3,1.26.2) KA_II,33.1-8 Ro_III,87-88 {8/16} किम् पुनः कारणम् पारिभाषिके हेतौ न सिध्यति ।
(P_3,1.26.2) KA_II,33.1-8 Ro_III,87-88 {9/16} एवम् मन्यते ।
(P_3,1.26.2) KA_II,33.1-8 Ro_III,87-88 {10/16} चेतनावतः एतत् भवति प्रेषणम् अध्येषणम् च इति ।
(P_3,1.26.2) KA_II,33.1-8 Ro_III,87-88 {11/16} भिक्षाः च अचेतनाः ।
(P_3,1.26.2) KA_II,33.1-8 Ro_III,87-88 {12/16} न एषः दोषः ।
(P_3,1.26.2) KA_II,33.1-8 Ro_III,87-88 {13/16} न अवश्यम् सः एव वासम् प्रयोजयति यः आह उष्यताम् इति ।
(P_3,1.26.2) KA_II,33.1-8 Ro_III,87-88 {14/16} तूष्णीम् आसीनः यः तत्समर्थानि आचरति सः अपि वासम् प्रयोजयति ।
(P_3,1.26.2) KA_II,33.1-8 Ro_III,87-88 {15/16} भिक्षाः च अपि प्रचुराः व्यञ्जनवत्यः लभ्यमानाः वासम् प्रयोजयन्ति ।
(P_3,1.26.2) KA_II,33.1-8 Ro_III,87-88 {16/16} तथा कारीषः अग्निः निर्वाते एकान्ते सुप्रज्वलितः अध्ययनम् प्रयोजयति ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {1/28} इह कः चित् कम् चित् आह ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {2/28} पृच्छतु मा भवान् ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {3/28} अनुयुङ्क्ताम् मा भवान् इति ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {4/28} अत्र णिच् कस्मात् न भवति ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {5/28} अकर्तृत्वात् ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {6/28} न हि असौ सम्प्रति पृच्छति ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {7/28} तूष्णीम् आस्ते ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {8/28} किम् च भोः वर्तमानकालायाः एव क्रियायाः कर्त्रा भवितव्यम् न भूतभविष्यत्कालायाः ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {9/28} भूतभविष्यत्कालायाः अपि भवितव्यम् ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {10/28} अभिसम्बन्धः तत्र क्रियते ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {11/28} इमाम् क्रियाम् अकार्षीत् ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {12/28} इमाम् क्रियाम् करिष्यति इति ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {13/28} इह पुनः न कः चित् अभिसम्बन्धः क्रियते न च असौ सम्प्रति पृच्छति ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {14/28} तूष्णीम् आस्ते ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {15/28} यदि तर्हि कर्ता न अस्ति कथम् तर्हि कर्तृप्रत्ययेन लोटा अभिधीयते ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {16/28} अथम् कथम् अस्मिन् अपृच्छति अयम् प्रच्छिः वर्तते ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {17/28} अभिसम्बन्धः तत्र क्रियते ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {18/28} इमाम् क्रियाम् कुरु इति ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {19/28} कर्त्रा अपि तर्हि अभिसम्बन्धः क्रियते ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {20/28} कथम् ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {21/28} कर्ता च अस्याः क्रियायाः भव इति ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {22/28} एवम् न च कर्ता कर्तृप्रत्ययेन च लोटा अभिधीयते ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {23/28} अथ अपि कथम् चित् कर्ता स्यात् ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {24/28} एवम् अपि न दोषः ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {25/28} लोटा उक्तत्वात् प्रेषणस्य णिच् न भविष्यति ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {26/28} विधीयन्ते हि एतेषु अर्थेषु प्रैषादिषु लोडादयः ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {27/28} यत्र च द्वितीयः प्रयोज्यः अर्थः भवति भवति तत्र णिच् ।
(P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 {28/28} तत् यथा आसय शायय इति ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {1/33} कृष्यादिषु च अनुत्पत्तिः ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {2/33} कृष्यादिषु च अनुत्पत्तिः वक्तव्या ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {3/33} एकान्ते तूष्णीम् आसीनः उच्यते पञ्चभिः हलैः कृषति इति ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {4/33} तत्र भवितव्यम् ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {5/33} पञ्चभिः हलैः कर्षयति इति ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {6/33} कृष्यादिषु च अनुत्पत्तिः नानाक्रियाणाम् कृष्यर्थत्वात् ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {7/33} कृष्यादिषु च अनुत्पत्तिः सिद्धा ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {8/33} कुतः ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {9/33} नानाक्रियाणाम् कृष्यर्थत्वात् ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {10/33} नानाक्रियाः कृषेः अर्थाः ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {11/33} न अवश्यम् कृषिः विलेखने एव वर्तते ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {12/33} किम् तर्हि। प्रतिविधाने अपि वर्तते ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {13/33} यत् असौ भक्तबीजबलीवर्दैः प्रतिविधानम् करोति सः कृष्यर्थः ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {14/33} आतः च प्रतिविधाने वर्तते ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {15/33} यदहः एव असौ न प्रतिविधत्ते तदहः तत् कर्म न प्रवर्तते ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {16/33} यज्यादिषु च अविपर्यासः ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {17/33} यज्यादिषु च अविपर्यासः वक्तव्यः ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {18/33} पुष्यमित्रः यजते ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {19/33} याजकाः याजयन्ति इति ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {20/33} तत्र भवितव्यम् ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {21/33} पुष्यमित्रः याजयते ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {22/33} याजकाः यजन्ति इति ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {23/33} यज्यादिषु च अविपर्यासः नानाक्रियाणाम् यज्यर्थत्वात् ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {24/33} यज्यादिषु च अविपर्यासः सिद्धः ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {25/33} कुतः ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {26/33} नानाक्रियाणाम् यज्यर्थत्वात् ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {27/33} नानाक्रियाः यजेः अर्थाः ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {28/33} न अवश्यम् यजिः हविष्प्रक्षेपणे एव वर्तते ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {29/33} किम् तर्हि ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {30/33} त्यागे अपि वर्तते ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {31/33} अहो यजते इति उच्यते यः सुष्ठु त्यागम् करोति ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {32/33} तम् च पुष्यमित्रः करोति ।
(P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 {33/33} याजकाः प्रयोजयन्ति ।
(P_3,1.26.5) KA_II,34.8-13 Ro_III,91-92 {1/12} तत् करोति इति उपसङ्ख्यानम् सूत्रयत्याद्यर्थम् ।
(P_3,1.26.5) KA_II,34.8-13 Ro_III,91-92 {2/12} तत् करोति इति उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,1.26.5) KA_II,34.8-13 Ro_III,91-92 {3/12} किम् प्रयोजनम् ।
(P_3,1.26.5) KA_II,34.8-13 Ro_III,91-92 {4/12} सूत्रयत्याद्यर्थम् ।
(P_3,1.26.5) KA_II,34.8-13 Ro_III,91-92 {5/12} सूत्रम् करोति ।
(P_3,1.26.5) KA_II,34.8-13 Ro_III,91-92 {6/12} सूत्रयति ।
(P_3,1.26.5) KA_II,34.8-13 Ro_III,91-92 {7/12} इह व्याकरणस्य सूत्रम् करोति ।
(P_3,1.26.5) KA_II,34.8-13 Ro_III,91-92 {8/12} व्याकरणम् सूत्रयति इति ।
(P_3,1.26.5) KA_II,34.8-13 Ro_III,91-92 {9/12} वाक्ये षष्ठी उत्पन्ने च प्रत्यये द्वितीया ।
(P_3,1.26.5) KA_II,34.8-13 Ro_III,91-92 {10/12} केन एतत् एवम् भवति ।
(P_3,1.26.5) KA_II,34.8-13 Ro_III,91-92 {11/12} यः असौ सूत्रव्याकरणयोः अभिसम्बन्धः सः उत्पन्ने प्रत्यये निवर्तते ।
(P_3,1.26.5) KA_II,34.8-13 Ro_III,91-92 {12/12} अस्ति च करोतेः व्याकरणेन सामर्थ्यम् इति कृत्वा द्वितीया भविष्यति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {1/80} आख्यानात् कृतः तत् आचष्टे इति कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् । आख्यानात् कृदन्तात् तत् आचष्टे इति एतस्मिन् अर्थे कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति वक्तव्यम् ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {2/80} कंसवधम् आचष्टे कंसम् घातयति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {3/80} बलिबन्धम् आचष्टे बलिम् बन्धयति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {4/80} आख्यानात् च प्रतिषेधः ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {5/80} आख्यानशब्दात् च प्रतिषेधः वक्तव्यः ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {6/80} आख्यानम् आचष्टे ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {7/80} किम् पुनः यानि एतानि सञ्ज्ञाभूतानि आख्यानानि ततः उत्पत्त्या भवितव्यम् आहोस्वित् क्रियान्वाख्यानमात्रात् ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {8/80} किम् च अतः ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {9/80} यदि सञ्ज्ञाभूतेभ्यः इह न प्राप्नोति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {10/80} राजागमनम् आचष्टे ऋअजानम् आगमयति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {11/80} अथ क्रियान्वाख्यानमात्रात् न दोषः भवति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {12/80} यथा न दोषः तथा अस्तु ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {13/80} दृश्यर्थानाम् च प्रवृत्तौ ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {14/80} दृश्यर्थानाम् च प्रवृत्तौ कृदन्तात् णिच् वक्तयः तत् आचष्टे इति एतस्मिन् अर्थे कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {15/80} मृगरमणम् आचष्टे मृगान् रमयति इति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {16/80} दृश्यर्थानाम् इति किमर्थम् ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {17/80} यदा हि ग्रामे मृगरमणम् आचष्टे मृगरमणम् आचष्टे इति एव तदा भवति इति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {18/80} आङ्लोपः च कालात्यन्तसंयोगे मर्यादायाम् ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {19/80} कालात्यन्तसंयोगे मर्यादयाम् कृदन्तात् णिच् वक्तयः तत् आचष्टे इति एतस्मिन् अर्थे आङ्लोपः च कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {20/80} आरात्रिम्विवासम् आचष्टे रात्रिम् विवासयति इति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {21/80} चित्रीकरणे प्रापि ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {22/80} चित्रीकरणे प्राप्यर्थे कृदन्तात् णिच् वक्तयः कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {23/80} उज्जयिन्याः प्रस्थितः माहिष्मत्याम् सुर्योद्गमनम् सम्भावयते सूर्यम् उद्गमयति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {24/80} नक्षत्रयोगे ज्ञि ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {25/80} नक्षत्रयोगे जानात्यर्थे कृदन्तात् णिच् वक्तयः कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {26/80} पुष्ययोगम् जानाति पुष्येण योजयति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {27/80} मघाभिः योजयति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {28/80} तत् तर्हि बहु वक्तव्यम् ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {29/80} न वा सामान्यकृतत्वात् हेतुतः हि अविशिष्टम् ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {30/80} न वा वक्तव्यम् ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {31/80} किम् कारणम् ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {32/80} सामान्यकृतत्वात् ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {33/80} सामान्येन एव अत्र णिच् भविष्यति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {34/80} हेतुमति इति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {35/80} किम् कारणम् ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {36/80} हेतुतः हि अविशिष्टम् ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {37/80} हेतुतः हि अविशिष्टम् भवति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {38/80} तुल्या हि हेतुता देवदत्ते च आदित्ये च ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {39/80} न सिध्यति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {40/80} स्वतन्त्रप्रयोजकः हेतुसञ्ज्ञः भवति इति उच्यते ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {41/80} न च असौ आदित्यम् प्रयोजयति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {42/80} स्वतन्त्रप्रयोजकत्वात् अप्रयोजकः इति चेत् मुक्तसंशयेन तुल्यम् ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {43/80} यम् भवान् स्वत्रन्त्रप्रयोजकम् मुक्तसंशयम् न्याय्यम् मन्यते पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति तेन एतत् तुल्यम् ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {44/80} कथम् ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {45/80} प्रवृत्तिः हि उभयत्र अनपेक्ष्य ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {46/80} प्रवृत्तिः हि उभयत्र अनपेक्ष्य एव किम् चित् भवति देवदत्ते च आदित्ये च ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {47/80} न इह कः चित् परः अनुग्रहीतव्यः इति प्रवर्तते ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {48/80} सर्वे इमे स्वभूत्यर्थम् प्रवर्तन्ते ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {49/80} ये तावत् एते गुरुशुश्रूषवः ते अपि स्वभूत्यर्थम् एव प्रवर्तन्ते पारलौकिकम् च नः भविष्यति इह च नः प्रीतः गुरुः अध्यापयिष्यति इति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {50/80} तथा यत् एतत् दासकर्मकरम् नाम एते अपि स्वभूत्यर्थम् एव प्रवर्तन्तेभक्तम् चेलम् च लप्स्यामहे परिभाषाः च न नः भविष्यन्ति इति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {51/80} तथा ये एते शिल्पिनः नामे ते अपि स्वभूत्यर्थम् एव प्रवर्तन्ते वेतनम् च लप्स्यामहे मित्राणि च नः भविष्यन्ति इति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {52/80} एवम् एतेषु सर्वेषु स्वभूत्यर्थम् प्रवर्तमानेषु कुर्वतः प्रयोजकः इति चेत् तुल्यम् ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {53/80} यदि कः चित् कुर्वतः प्रयोजकः नाम भवति तेन एतत् तुल्यम् ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {54/80} यदि तर्हि सर्वे इमे स्वभूत्यर्थम् प्रवर्तन्तेकः प्रयोज्यार्थः ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {55/80} यत् अभिप्रायेषु सज्जन्ते ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {56/80} ईदृशौ वध्रौ कुरु ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {57/80} ईदृशौ पटुकौ कुरु ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {58/80} आदित्यः च अस्य अभिप्राये सज्जते ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {59/80} एषः तस्य अभिप्रायः ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {60/80} उज्जयिन्याः प्रस्थितः माहिष्मत्याम् सुर्योद्गमनम् सम्भावयेय इति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {61/80} तम् च अस्य अभिप्रायम् आदित्यः निर्वर्तयति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {62/80} भवेत् इह वर्तमानकालता युक्ता ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {63/80} उज्जयिन्याः प्रस्थितः माहिष्मत्याम् सुर्योद्गमनम् सम्भावयते सूर्यम् उद्गमयति इति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {64/80} तत्रस्थस्य हि तस्य आदित्यः उदेति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {65/80} इह तु कथम् वर्तमानकालताम् कंसम् घातयति बलिम् बन्धयति इति चिरहते कंसे चिरबद्धे च बलौ ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {66/80} अत्र अपि युक्ता ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {67/80} कथम् ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {68/80} ये तावत् एते शोभिकाः नाम एते प्रत्यक्षम् कंसम् घातयन्ति प्रत्यक्षम् च बलिम् बन्धयन्ति इति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {69/80} चित्रेषु कथम् ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {70/80} चित्रेषु अपि उद्गूर्णाः निपतिताः च प्रहाराः दृश्यन्ते कंसकर्षण्यः च ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {71/80} ग्रन्थिकेषु कथम् यत्र शब्दगडुमात्रम् लक्ष्यते ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {72/80} ते अपि हि तेषाम् उत्पत्तिप्रभृति आ विनाशात् ऋद्धीः व्याचक्षाणाः सतः बुद्धिविषयान् प्रकाशयन्ति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {73/80} आतः च सतः व्यामिश्राः हि दृश्यन्ते ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {74/80} के चित् कंसभक्ताः भवन्ति के चित् वासुदेवभक्ताः ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {75/80} वर्णान्यत्वम् खलु अपि पुष्यन्ति ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {76/80} के चित् रक्तमुखाः भवन्ति के चित् कालमुखाः ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {77/80} त्रैकाल्यम् खलु अपि लोके लक्ष्यते ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {78/80} गच्छ हन्यते कंसः ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {79/80} गच्छ घानिष्यते कंसः ।
(P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 {80/80} किम् गतेन हतः कंसः इति ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {1/59} किमर्थः ककारः ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {2/59} क्ङिति इति गुणप्रतिषेधः यथा स्यात् ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {3/59} न एतत् अस्ति प्रयोजनम् ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {4/59} सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {5/59} धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञाम् लभते ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {6/59} न च अयम् धातोः विधीयते ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {7/59} कण्ड्वादीनि हि प्रातिपदिकानि ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {8/59} कण्ड्वादिभ्यः वावचनम् ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {9/59} कण्ड्वादिभ्यः वा इति वक्तव्यम् ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {10/59} अवचने हि नित्यप्रत्ययत्वम् ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {11/59} अक्रियमाणे हि वावचने नित्यः प्रत्ययविधिः प्रसज्येत ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {12/59} तत्र कः दोषः ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {13/59} तत्र धातुविधितुक्प्रतिषेधः ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {14/59} तत्र धातुविधेः तुकः च प्रतिषेधः वक्तव्यः स्यात् ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {15/59} कण्ड्वौ कण्ड्वः ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {16/59} अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इति उवङदेशः प्रसज्येत ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {17/59} इह च कण्ड्वा कण्ड्वे न ऊङ्धात्वोः इति प्रतिषेधः प्रसज्येत ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {18/59} तुक् च प्रतिषेध्यः ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {19/59} वल्गुः मन्तुः इति ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {20/59} ह्रस्वस्य पिति कृति तुक् प्राप्नोति ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {21/59} ह्रस्वयलोपौ च वक्तव्यौ ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {22/59} ह्रस्वयलोपौ च वक्तव्यौ स्याताम् ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {23/59} वल्गुः मन्तुः इति ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {24/59} किमर्थम् इदम् न ह्रस्वः एव अयम् ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {25/59} अन्तरङ्गत्वात् अकृद्यकारे इति दीर्घत्वम् प्राप्नोति ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {26/59} यलोपः ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {27/59} यलोपः च वक्तव्यः ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {28/59} कण्डूः वल्गुः मन्तुः इति ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {29/59} किमर्थम् इदम् न वलि इति एव सिद्धम् ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {30/59} वलि इति उच्यते ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {31/59} न च अत्र वलिम् पश्यामः ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {32/59} ननु चल् क्विप् वलादिः ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {33/59} क्विब्लोपे कृते वलाद्यभावात् न प्राप्नोति ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {34/59} इदम् इह सम्प्रधार्यम् ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {35/59} क्विब्लोपः क्रियताम् वलि लोपः इति ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {36/59} किम् अत्र कर्तव्यम् ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {37/59} परत्वात् क्विब्लोपः ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {38/59} नित्यः खलु अपि क्विब्लोपः ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {39/59} कृते अपि यलोपे प्राप्नोति अकृते अपि प्राप्नोति ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {40/59} नित्यत्वात् परत्वात् च क्विलोपे कृते वलाद्यभावात् न प्राप्नोति ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {41/59} एवम् तर्हि प्रत्ययलक्षणेन भविष्यति ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {42/59} वर्णाश्रये न अस्ति प्रत्ययलक्षणम् ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {43/59} अथ क्रियमाणे अपि वावचने यदा यगन्तात् क्विप् तदा एते दोषाः कस्मात् न भवन्ति ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {44/59} न एतेभ्यः तदा क्विप् द्रक्ष्यते ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {45/59} किम् कारणम् ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {46/59} अन्येभ्यः अपि दृश्यते इति उच्यते ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {47/59} न च एतेभ्यः तदा क्विप् दृश्यते ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {48/59} यथा एव तर्हि क्रियमाणे वावचने अन्येभ्यः अपि दृश्यते इति एवम् अत्र क्विप् न भवति एवम् अक्रियमाणे अपि न भविष्यति ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {49/59} अवश्यम् एतेभ्यः तदा क्विप् एषितव्यः ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {50/59} किम् प्रयोजनम् ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {51/59} एतानि रूपाणि यथा स्युः इति ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {52/59} तत् तर्हि वावचनम् कर्तव्यम् ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {53/59} न कर्तव्यम् ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {54/59} उभयम् कण्ड्वादीनि धातवः च प्रातिपदिकानि च ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {55/59} आतः च उभयम् ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {56/59} कण्डूयति इति क्रियाम् कुर्वाणे प्रयुज्यते अस्ति मे कण्डूः इति वेदनामात्रस्य सान्निध्ये ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {57/59} अपरः आह : धातुप्रकरणात् धातुः कस्य आसञ्जनात् अपि ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {58/59} आह च अयम् इमम् दीर्घम् ।
(P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 {59/59} मन्ये धातुः विभाषितः ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {1/84} किमर्थः अयम् णकारः ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {2/84} वृद्ध्यर्थः ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {3/84} ञ्णिति इति वृद्धिः यथा स्यात् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {4/84} क्रियमाणे अपि वै णकारे वृद्धिः न प्राप्नोति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {5/84} किम् कारणम् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {6/84} क्ङिति च इति प्रतिषेधात् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {7/84} णित्करणसामर्थ्यात् भविष्यति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {8/84} अतः उत्तरम् पठति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {9/84} णिङि णित्करणस्य सावकाशत्वात् वृद्धिप्रतिषेधप्रसङ्गः ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {10/84} णिङि णित्करणम् सावकाशम् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {11/84} कः अवकाशः ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {12/84} सामान्यग्रहणार्थः णकारः ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {13/84} क्व सामान्यग्रहणार्थेन अर्थः ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {14/84} णेः अनिटि इति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {15/84} णिङि णित्करणस्य सावकाशत्वात् वृद्धिप्रतिषेधः प्राप्नोति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {16/84} ङित्करणम् अपि तर्हि सावकाशम् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {17/84} कः अवकाशः ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {18/84} सामान्यग्रहणाविघातार्थः ङकारः ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {19/84} क्व सामान्यग्रहणाविघातार्थेन अर्थः ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {20/84} अत्र एव ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {21/84} शक्यः अत्र सामान्यग्रहणाविघातार्थः अन्यः अनुबन्धः आसङ्क्तुम् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {22/84} तत्र ङकारानुरोधात् वृद्धिप्रतिषेधः प्राप्नोति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {23/84} अवशयम् अत्र आत्मनेपदार्थः ङकारः अनुबन्धः आसङ्क्तव्यः ङितः इति आत्मनेपदम् यथा स्यात् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {24/84} एवम् उभयोः सावकशयोः प्रतिषेधबलीयस्त्वात् प्रतिषेधः प्राप्नोति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {25/84} एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न कमेः वृद्धिप्रतिषेधः भवति इति यत् अयम् न कम्यमिचमाम् इति मित्सञ्ज्ञाया प्रतिषेधम् शास्ति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {26/84} मित्प्रतिषेधस्य च अर्थवत्त्वात् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {27/84} मित्प्रतिषेधस्य च अर्थवत्त्वात् प्रतिषेधः प्राप्नोति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {28/84} अर्थवान् मित्प्रतिषेधः ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {29/84} कः अर्थः ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {30/84} णिङन्तस्य णिचि या वृद्धिः तस्याः ह्रस्वत्वम् मा भूत् इति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {31/84} ननु एतस्याः अपि क्ङिति च इति प्रतिषेधेन भवितव्यम् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {32/84} न भवितव्यम् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {33/84} उक्तम् एतत् क्ङिति प्रतिषेधे तन्निमित्तग्रहणम् इति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {34/84} एवम् तर्हि न णिङन्तस्य णिचि या वृद्धिः तस्याः ह्रस्वत्वम् प्राप्नोति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {35/84} किम् कारणम् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {36/84} णिङा व्यवहितत्वात् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {37/84} लोपे कृते न अस्ति व्यवधानम् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {38/84} स्थानिवद्भावात् व्यवधानम् एव ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {39/84} णिङि एव तर्हि मा भूत् इति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {40/84} णिङि च न प्राप्नोति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {41/84} किम् कारणम् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {42/84} असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {43/84} न एव वा पुनः णिङन्तस्य णिचि वृद्धिः प्राप्नोति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {44/84} किम् कारणम् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {45/84} णिङा व्यवहितत्वात् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {46/84} लोपे कृते न अस्ति व्यवधानम् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {47/84} स्थानिवद्भावात् व्यवधानम् एव ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {48/84} इदम् तर्हि प्रयोजनम् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {49/84} यत् तत् चिण्णमुलोः दीर्घः अन्यतरस्याम् इति दीर्घत्वम् तत् कमेः णिङि मा भूत् इति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {50/84} किम् पुनः कारणम् तत्र दीर्घः अन्यतरस्याम् इति उच्यते ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {51/84} न ह्रस्वः अन्यतरस्याम् इति एव उच्येत ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {52/84} यथाप्राप्तम् च अपि कमेः ह्रस्वत्वम् एव ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {53/84} तत्र अयम् अपि अर्थः ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {54/84} ह्रस्वग्रहणम् न कर्तव्यम् भवति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {55/84} प्रकृतम् अनुवर्तते ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {56/84} क्व प्रकृतम् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {57/84} मिताम् ह्रस्वः इति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {58/84} का रूपसिद्धिः : अशमि अशामि शमम् शमम् शामम् शामम् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {59/84} वृद्ध्या सिद्धम् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {60/84} न सिध्यति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {61/84} न सिध्यति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {62/84} न उदात्तोपदेशस्य मान्तस्य अनाचमेः इति वृद्धिप्रतिषेधः प्राप्नोति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {63/84} चिण्कृतोः सः प्रतिषेधः न णिचि ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {64/84} इदम् तर्हि ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {65/84} अजनि अजानि जनम् जनम् जानम् जानम् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {66/84} जनिवध्योः च इति वृद्धिप्रतिषेधः प्राप्नोति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {67/84} सः अपि चिण्कृतोः एव ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {68/84} णिज्व्यवहितेषु तर्हि यङ्लोपे च उपसङ्ख्यानम् कर्तव्यम् स्यात् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {69/84} शमयन्तम् प्रयोजितवान् अशमि अशामि शमम् शमम् शामम् शामम् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {70/84} शंशमयतेः अशंसमि अशंशामि शंशमम् शंशमम् शंशामम् शंशामम् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {71/84} किम् पुनः कारणम् न सिध्यति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {72/84} चिण्णमुल्परे णौ मिताम् अङ्गानाम् ह्रस्वः भवति इति उच्यते ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {73/84} यः च अत्र णिः चिण्णमुल्परः न तस्मिन् मित् अङ्गम् यस्मिन् च मित् अङ्गम् न असौ णिः णमुल्परः ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {74/84} णिलोपे कृते चिण्णमुल्परः ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {75/84} स्थानिवद्भावात् न चिण्णमुल्परः ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {76/84} अथ दीर्घः अन्यतरस्याम् इति उच्यमाने यावता स्थानिवद्भावः कथम् एव एतत् सिध्यति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {77/84} एतत् इदानीम् दीर्घग्रहणस्य प्रयोजनम् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {78/84} दीर्घविधिम् प्रति अजादेशः न स्थानिवत् इति स्थानिवद्भावप्रतिषेधः सिद्धः भवति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {79/84} यदा खलु अपि आयादयः आर्धधातुके वा भवन्ति तदा णिचि णिङ् न भवति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {80/84} तदर्थम् च मित्प्रतिषेधः स्यात् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {81/84} तस्मात् प्रतिषेधः प्राप्नोति ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {82/84} उक्तम् वा ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {83/84} किम् उक्तम् ।
(P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 {84/84} तद्धितकाम्योः इक्प्रकरणात् इति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {1/68} कथम् इदम् विज्ञायते ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {2/68} आयादिभ्यः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् निवृत्तिः भवति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {3/68} आहोस्वित् आयादिप्रकृतेः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् उत्पत्तिः भवति इति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {4/68} किम् गतम् एतत् इयता सूत्रेणा आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {5/68} गतम् इति आह ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {6/68} कथम् ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {7/68} यदा तावत् आयादिभ्यः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् निवृत्तिः भवति इति तदा अविशेषेण सर्वम् आयादिप्रकरणम् अनुक्रम्य आयादयः आर्धधातुके वा इति उच्यते ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {8/68} यदा अपि आयादिप्रकृतेः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् उत्पत्तिः भवति इति तदा एकम् वाक्यम् तत् च इदम् च ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {9/68} गुपूधूपविच्छिपणिपनिभ्यः आयः आर्धधातुके वा ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {10/68} ऋतेः ईयङ् आर्धधातुके वा ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {11/68} कमेः णिङ् आर्धधातुके वा इति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {12/68} कः च अत्र विशेषः ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {13/68} आयादिभ्यः यत् आर्धधातुकम् आयादिप्रकृतेः यत् आर्धधातुकम् इति च उभयथा अनिष्टप्रसङ्गः । आयादिभ्यः यत् आर्धधातुकम् आयादिप्रकृतेः यत् आर्धधातुकम् इति च उभयथा अनिष्टम् प्राप्नोति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {14/68} यदि विज्ञायते आयादिभ्यः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् निवृत्तिः भवति इति गुप्तिः जुगोप इति च इष्टम् न सिध्यति इदम् च अनिष्टम् प्राप्नोति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {15/68} गोपाम् चकार गोपा इति च ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {16/68} इदम् तावत् इष्टम् सिद्धम् भवति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {17/68} गोपायाम् चकार गोपाय इति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {18/68} अथ विज्ञायते आयादिप्रकृतेः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् उत्पत्तिः भवति इति गुप्तिः जुगोप इति च इष्टम् सिद्धम् भवति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {19/68} इदम् च अनिष्टम् न प्राप्नोति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {20/68} गोपायाम् चकार गोपाय इति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {21/68} इदम् तु इष्टम् न सिध्यति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {22/68} गोपयाम् चकार गोपाय इति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {23/68} इदम् तावत् इष्टम् सिध्यति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {24/68} गोपयाम् चकार इति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {25/68} कथम् ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {26/68} अस्तु अत्र आयादिप्रकृतेः यत् आर्धधातुकम् लिट् ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {27/68} तस्मिन् अवस्थिते वा आयादयः ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {28/68} आम् मध्ये पतिष्यति यथा विकरणाः तद्वत् ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {29/68} इदम् तर्हि इष्टम् न सिध्यति गोपाया इति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {30/68} सिद्धम् तु सार्वधातुके नित्यवचनात् अनाश्रित्य वाविधानम् ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {31/68} सिद्धम् एतत् ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {32/68} कथम्। अविशेषेण आयादीनाम् वाविधानम् उक्त्वा सार्वधातुके नित्यम् इति वक्ष्यामि ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {33/68} स्यादिबलीयस्त्वम् तु विप्रतिषेधेन तुल्यनिमित्तत्वात् ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {34/68} स्यादिभिः तु आयादीनाम् बाधनम् प्राप्नोति विप्रतिषेधेन ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {35/68} किम् कारणम् ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {36/68} तुल्यनिमित्तत्वात् ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {37/68} तुल्यम् निमित्तम् स्यादीनाम् आयादीनाम् च ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {38/68} स्यादीनाम् अवकाशः करिष्यति हरिष्यति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {39/68} आयादीनाम् अवकाशः गोपायति धूपायति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {40/68} इह उभयम् प्राप्नोति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {41/68} गोपायिष्यति धूपायिष्यति इति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {42/68} परत्वात् स्यादयः प्राप्नुवन्ति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {43/68} न वा आयादिविधानस्य अनवकाशत्वात् ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {44/68} न वा एषः दोषः ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {45/68} किम् कारणम् ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {46/68} आयादिविधानस्य अनवकाशत्वात् ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {47/68} अनवकाशाः आयादयः उच्यन्ते च ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {48/68} ते वचनात् भविष्यन्ति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {49/68} ननु च इदानीम् एव अवकाशः प्रकॢप्तः गोपायति धूपायति इति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {50/68} अत्र अपि शप् स्यादिः भवति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {51/68} यदि अपि अत्र अपि भवति न तु अत्र अस्ति विशेषः सति वा शपि असति वा ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {52/68} अन्यत् इदानीम् एतत् उच्यते न अस्ति विशेषः इति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {53/68} यत् तु तत् उक्तम् आयादीनाम् स्यादिभिः अव्याप्तः अवकाशः इत् स न अस्ति अवकाशः ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {54/68} अवश्यम् खलु अपि अत्र शप् स्यादिः एषितव्यः ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {55/68} किम् कारणम् ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {56/68} गोपायन्ती धूपायन्ती इति : शप्श्यनोः नित्यम् इति नुम् यथा स्यात् इति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {57/68} यदि तर्हि अनवकाशाः आयादयः आयादिभिः स्यादीनाम् बाधनम् प्राप्नोति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {58/68} यथा पुनः अयम् सूत्रेभेदेन परिहारः यदि पुनः शपि नित्यम् इति उच्येत ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {59/68} सिध्यति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {60/68} सूत्रम् तर्हि भिद्यते ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {61/68} यथान्यासम् एव अस्तु ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {62/68} ननु च उक्तम् आयादिभ्यः यत् आर्धधातुकम् आयादिप्रकृतेः यत् आर्धधातुकम् इति च उभयथा अनिष्टप्रसङ्गः इति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {63/68} न एषः दोषः ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {64/68} आर्धधातुके इति न एषा परसप्तमी ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {65/68} का तर्हि ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {66/68} विषयसप्तमी ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {67/68} आर्धधातुकविषये इति ।
(P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 {68/68} तत्र आर्धधातुकविषये आयादिप्रकृतेः आयादिषु कृतेषु यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {1/34} अन्तग्रहणम् किमर्थम् न सनादयः धातवः इति एव उच्येत ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {2/34} केन इदानीम् तदन्तानाम् भविष्यति ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {3/34} तदन्तविधिना ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {4/34} अतः उत्तरम् पठति ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {5/34} सनादिषु अन्तग्रहणे उक्तम् ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {6/34} किम् उक्तम् ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {7/34} पदसञ्ज्ञायाम् अन्तग्रहणम् अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् इति ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {8/34} इदम् च अपि प्रत्ययग्रहणम् ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {9/34} अयम् च अपि सञ्ज्ञाविधिः ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {10/34} किमर्थम् पुनः इदम् उच्यते न भूवादयः धातवः इति एव सिद्धम् ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {11/34} न सिध्यति ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {12/34} पाठेन धातुसञ्ज्ञा क्रियते न च इमे तत्र पठ्यन्ते ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {13/34} कथम् तर्हि अन्येषाम् अपठ्यमानानाम् धातुसञ्ज्ञा भवति : अस्तेः भूः ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {14/34} ब्रुवः वचिः ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {15/34} चक्षिङः ख्याञ् इति ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {16/34} यदि अपि एते तत्र न पठ्यन्ते प्रकृतयः तु एषाम् तत्र पठ्यन्ते ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {17/34} तत्र स्थानिवद्भावात् सिद्धम् ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {18/34} इमे अपि तर्हि यदि अपि तत्र न पठ्यन्ते येषाम् तु अर्थाः आदिश्यन्ते ते तत्र पठ्यन्ते ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {19/34} तत्र स्थानिवद्भावात् सिद्धम् ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {20/34} न सिध्यति ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {21/34} आदेशः स्थानिवत् भवति इति उच्यते ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {22/34} न च इमे आदेशाः ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {23/34} इमे अपि आदेशाः ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {24/34} कथम् ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {25/34} आदिश्यते यः सः आदेशः ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {26/34} इमे च अपि आदिश्यन्ते ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {27/34} एवम् अपि षष्ठीनिर्दिष्टस्य आदेशाः स्थानिवत् भवन्ति इति उच्यते ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {28/34} न चे इमे षष्ठीनिर्दिष्टस्य आदेशाः ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {29/34} षष्ठीग्रहणम् निवर्तिष्यते ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {30/34} यदि निवर्तते अपवादे उत्सर्गकृतम् प्राप्नोति ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {31/34} कर्मणि अण् आतः अनुपसर्गे कः इति के अपि अण्कृतम् प्राप्नोति ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {32/34} न एषः दोषः ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {33/34} आचार्यप्रवृत्तिः ज्ञापयति न अपवादे उत्सर्गकृतम् भवति इति यत् अयम् श्यनादीन् कान् चित् शितः करोति ।
(P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 {34/34} श्नम् श्ना श्नुः इति।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {1/50} इमे विकरणाः पठ्यन्ते ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {2/50} तत्र न ज्ञायते कः उत्सर्गः कः अपवादः इति ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {3/50} तत्र वक्त्यम् : अयम् उत्सर्गः अयम् अपवादः इति ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {4/50} इमे ब्रूमः ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {5/50} यक् उत्सर्गः ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {6/50} अपवादः शब्दादिः स्यादयः च ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {7/50} यदि एवम् अपवादविप्रतिषेधात् शबादिबाधनम् ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {8/50} अपवाद्विप्रतिषेधात् शबादिभिः स्यादीनाम् बाधनम् प्राप्नोति ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {9/50} शबादीनाम् अवकाशः पचति यजति ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {10/50} स्यादीनाम् अवकाशः पक्ष्यते यक्ष्यते ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {11/50} इह उभयम् प्राप्नोति ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {12/50} पक्ष्यति यक्ष्यति ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {13/50} परत्वात् शबादयः प्राप्नुवन्ति ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {14/50} अपवादः नाम अनेकलक्षणप्रसङ्गः ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {15/50} अपवादः नाम भवति यत्र अनेकलक्षणप्रसङ्गः ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {16/50} तत्र भावकर्मणोः यक् विधीयते कर्तरि शप् ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {17/50} कः प्रसङ्गः यत् भावकर्मणोः यकम् कर्तरि शबादयः बाधेरन् ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {18/50} एवम् तर्हि यक्शपौ उत्सर्गौ ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {19/50} अपवादाः श्यनादय स्यादयः च ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {20/50} अपवादविप्रतिषेधात् श्यनादिबाधनम् ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {21/50} अपवाद्विप्रतिषेधात् श्यनादिभिः स्यादीनाम् बाधनम् प्राप्नोति ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {22/50} श्यनादीनाम् अवकाशः दीव्यति सीव्यति ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {23/50} स्यादीनाम् अवकाशः पक्ष्यति यक्ष्यति ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {24/50} इह उभयम् प्राप्नोति ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {25/50} देविष्यति सेविष्यति ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {26/50} परत्वात् श्यनादयः प्राप्नुवन्ति ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {27/50} न एषः दोषः ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {28/50} शबादेशाः श्यनादयः करिष्यन्ते ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {29/50} शप् च स्यादिभिः बाध्यते ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {30/50} तत्र दिवादिभ्यः स्यादिविषये शप् एव न अस्ति कुतः श्यनादयः ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {31/50} तत् तर्हि शपः ग्रहणम् कर्तव्यम् ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {32/50} न कर्तव्यम् ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {33/50} प्रकृतम् अनुवर्तते ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {34/50} क्व प्रकृतम् ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {35/50} कर्तरि शप् इति ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {36/50} तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {37/50} दिवादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {38/50} प्रत्ययविधिः अयम् ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {39/50} न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {40/50} न अयम् प्रत्ययविधिः ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {41/50} विहितः प्रत्ययः ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {42/50} प्रकृतः च अनुवर्तते ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {43/50} अथ वा अनुवृत्तिः करिष्यते ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {44/50} सार्वधातुके यक् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {45/50} कर्तरि शप् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {46/50} दिवादिभ्यः श्यन् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {47/50} अथ वा अन्तरङ्गाः स्यादयः ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {48/50} का अन्तरङ्गता ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {49/50} लावस्थायाम् एव स्यादयः ।
(P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 {50/50} सार्वधातुके श्यनादयः ।
(P_3,1.34.1) KA_II,43.119-44.9 Ro_III,111-112 {1/13} सि ढ़् उत्सर्गः छन्दसि ।
(P_3,1.34.1) KA_II,43.119-44.9 Ro_III,111-112 {2/13} सिप् उत्सर्गः छन्दसि कर्तव्यः ।
(P_3,1.34.1) KA_II,43.119-44.9 Ro_III,111-112 {3/13} सनाद्यन्ते नेषत्वाद्यर्थः ।
(P_3,1.34.1) KA_II,43.119-44.9 Ro_III,111-112 {4/13} सनाद्यन्ते च कर्तव्यः ।
(P_3,1.34.1) KA_II,43.119-44.9 Ro_III,111-112 {5/13} किम् प्रजोजनम् ।
(P_3,1.34.1) KA_II,43.119-44.9 Ro_III,111-112 {6/13} नेषत्वाद्यर्थः ।
(P_3,1.34.1) KA_II,43.119-44.9 Ro_III,111-112 {7/13} इन्द्रः नः तेन नेषतु ।
(P_3,1.34.1) KA_II,43.119-44.9 Ro_III,111-112 {8/13} गा वः नेष्टात् ।
(P_3,1.34.1) KA_II,43.119-44.9 Ro_III,111-112 {9/13} प्रकृत्यन्तरत्वात् सिद्धम् ।
(P_3,1.34.1) KA_II,43.119-44.9 Ro_III,111-112 {10/13} प्रकृत्यन्तरत्वात् सिद्धम् एतत् ।
(P_3,1.34.1) KA_II,43.119-44.9 Ro_III,111-112 {11/13} प्र्कृत्यन्तरम् नेषतिः ।
(P_3,1.34.1) KA_II,43.119-44.9 Ro_III,111-112 {12/13} नेषतु नेष्टात् इति दर्शनात् ।
(P_3,1.34.1) KA_II,43.119-44.9 Ro_III,111-112 {13/13} नेषतु नेष्टात् इति दृश्यते ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {1/29} अथ किमर्थः पकारः ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {2/29} स्वरार्थः ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {3/29} अनुदात्तौ सुप्पितौ इति एषः स्वरः यथा स्यात् ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {4/29} पित्करणानर्थक्यम् च अनच्कत्वात् ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {5/29} पित्करणम् च अनर्थकम् ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {6/29} किम् कारणम् ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {7/29} अनच्कत्वात् ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {8/29} अनच्कः अयम् ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {9/29} तत्र न अर्थः स्वरार्थेन पकारेण अनुबन्धेन ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {10/29} इटि कृते साच्कः भविष्यति ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {11/29} इटः अनुदात्तार्थम् इति चेत् आगमानुदात्तत्वात् सिद्धम् । आगमानुदात्तत्वेन इटः अनुदात्तत्वम् भविष्यति ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {12/29} एवम् तर्हि सप् अयम् कर्तव्यः ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {13/29} किम् प्रयोजनम् ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {14/29} यत् एव यासिषीष्ठाः ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {15/29} एकाज्लक्षणः इट्प्रतिषेधः मा भूत् इति ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {16/29} क्व अयम् अकारः श्रूयते ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {17/29} न क्व चित् श्रूयते ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {18/29} लोपः अस्य भविष्यति अतः लोपः आर्धधातुके इति ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {19/29} यदि न क्व चित् श्रूयते न अर्थः स्वरार्थेन पकारेण अनुबन्धेन ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {20/29} एवम् अपि कर्तव्यः एव ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {21/29} किम् प्रयोजनम् ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {22/29} अनुदात्तस्य लोपः यथा स्यात् ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {23/29} उदात्तस्य मा भूत् इति ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {24/29} किम् च स्यात् ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {25/29} उदात्तनिवृत्तिस्वरः प्रसज्येत ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {26/29} सि ढ़् बहुलम् छन्दसि णित् ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {27/29} सिप् बहुलम् छन्दसि णित् वक्तव्यः ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {28/29} सविता धर्मम् दाविषत् ।
(P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 {29/29} प्र णः आयूंषि तारिषत् ।
(P_3,1.35) KA_II,44.11-18 Ro_III,114-115 {1/21} कास्ग्रहणे चकासः उपसङ्ख्यानम् ।
(P_3,1.35) KA_II,44.11-18 Ro_III,114-115 {2/21} कास्ग्रहणे चकासः उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,1.35) KA_II,44.11-18 Ro_III,114-115 {3/21} चकासाम् चकार ।
(P_3,1.35) KA_II,44.11-18 Ro_III,114-115 {4/21} न कर्तव्यम् ।
(P_3,1.35) KA_II,44.11-18 Ro_III,114-115 {5/21} चकास्प्रतययात् इति वक्ष्यामि ।
(P_3,1.35) KA_II,44.11-18 Ro_III,114-115 {6/21} चकास्ग्रहणे कासः उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,1.35) KA_II,44.11-18 Ro_III,114-115 {7/21} कासाम् चक्रे ।
(P_3,1.35) KA_II,44.11-18 Ro_III,114-115 {8/21} सूत्रम् च भिद्यते ।
(P_3,1.35) KA_II,44.11-18 Ro_III,114-115 {9/21} यथान्यासम् एव अस्तु ।
(P_3,1.35) KA_II,44.11-18 Ro_III,114-115 {10/21} ननु च उक्तम् कास्ग्रहणे चकासः उपसङ्ख्यानम् इति ।
(P_3,1.35) KA_II,44.11-18 Ro_III,114-115 {11/21} न एषः दोषः ।
(P_3,1.35) KA_II,44.11-18 Ro_III,114-115 {12/21} चकास्शब्दे कास्शब्दः अस्ति ।
(P_3,1.35) KA_II,44.11-18 Ro_III,114-115 {13/21} तत्र कास्प्रत्ययात् इति एव सिद्धम् ।
(P_3,1.35) KA_II,44.11-18 Ro_III,114-115 {14/21} न सिध्यति ।
(P_3,1.35) KA_II,44.11-18 Ro_III,114-115 {15/21} किम् कारणम् ।
(P_3,1.35) KA_II,44.11-18 Ro_III,114-115 {16/21} अर्थवतः कास्शब्दस्य ग्रहणम् ।
(P_3,1.35) KA_II,44.11-18 Ro_III,114-115 {17/21} न च चकास्शब्दे कास्शब्दः अर्थवान् ।
(P_3,1.35) KA_II,44.11-18 Ro_III,114-115 {18/21} एवम् तर्हि कासि अनेकाचः इति वक्तव्यम् ।
(P_3,1.35) KA_II,44.11-18 Ro_III,114-115 {19/21} किम् प्रयोजनम् ।
(P_3,1.35) KA_II,44.11-18 Ro_III,114-115 {20/21} चुलुम्पाद्यर्थम् ।
(P_3,1.35) KA_II,44.11-18 Ro_III,114-115 {21/21} चुलुम्पाम् चकार दरिद्राम् चकार ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {1/64} गुरुमतः आम्विधाने लिण्निमित्तात् प्रतिषेधः ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {2/64} गुरुमतः आम्विधाने लिण्निमित्तात् प्रतिषेधः वक्तव्यः ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {3/64} इयेष उवोष ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {4/64} गुणे कृते इजादेः च गुरुमतः अनृच्छः इति आम् प्राप्नोति ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {5/64} गुरुमद्वचनम् इदानीम् किमर्थम् स्यात् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {6/64} गुरुमद्वचनम् किमर्थम् इति चेत् णलि उत्तमे यजादिप्रतिषेधाऋथम् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {7/64} गुरुमद्वचनम् किमर्थम् इति चेत् णलि उत्तमे यजादीनाम् मा भूत् इति ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {8/64} इयज अहम् उवप अहम् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {9/64} उपदेशवचनात् सिद्धम् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {10/64} उपदेशे गुरुमतः इति वक्तव्यम् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {11/64} यदि उपदेशग्रहणम् क्रियते उच्छेः आम् वक्तव्यः ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {12/64} व्युच्छाम् चकार इति ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {13/64} ऋच्छिप्रतिषेधः ज्ञापकः उच्छेः आम्भावस्य ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {14/64} यत् अयम् अनृच्छः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः तुग्निमित्ता यस्य गुरुमत्ता भवति तस्मात् आम् इति ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {15/64} स तर्हि ज्ञापकार्थः ऋच्छिप्रतिषेधः वक्तव्यः ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {16/64} ननु च अवश्यम् प्राप्त्यर्थः अपि वक्तव्यः ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {17/64} न अर्थः प्राप्त्यर्थेन ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {18/64} ऋच्छत्यॄताम् इति ऋच्छेः लिटि गुणवचनम् ज्ञापकम् न ऋच्छेः लिटि आम् भवति इति ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {19/64} न एतत् अस्ति ज्ञापकम् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {20/64} अर्त्यर्थम् एतत् स्यात् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {21/64} कथम् पुनः ऋच्छेः लिटि गुणः उच्यमानः अर्त्यर्थः शक्यः विज्ञातुम् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {22/64} सामर्थ्यात् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {23/64} ऋच्छिः लिटि न अस्ति इति कृत्वा प्रकृत्यर्थम् विज्ञायते ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {24/64} तत् यथा ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {25/64} तिष्ठतेः इत् जिघ्रतेः वा इति चङि तिष्ठतिजिघ्रती न स्तः इति कृत्वा प्रकृत्यर्थम् विज्ञायते ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {26/64} किम् पुनः अर्तेः गुणवचने प्रयोजनम् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {27/64} आरतुः आरुः एतत् रूपम् यथा स्यात् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {28/64} किम् पुनः कारणम् न सिध्यति ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {29/64} द्विर्वचने कृते सवर्णदीर्घत्वे च यदि तावत् धातुग्रहणेन ग्रहणम् ॠकारान्तानाम् लिटि गुणः भवति इति गुणे कृते रपरते अरतुः अरुः इति एतत् रूपम् प्रसज्येत ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {30/64} अथ अभ्यासग्रहणेन ग्रहणम् उः अत्त्वम् रपरत्वम् हलादिशेषः अतः आदेः इति दीर्घत्वम् आतः लोपः इटि च इति आकारलोपः अतुः उः इति वचनम् एव श्रूयेत ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {31/64} गुण पुनः सति गुणे कृते रपरत्वे च द्विर्वचनम् अतः आदेः इति दीर्घत्वम् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {32/64} ततः सिद्धम् भवति यथा आटतुः आटुः इति ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {33/64} किम् पुनः सवर्णदीर्घत्वम् तावत् भवति न पुनः उः अत्त्वम् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {34/64} परत्वात् उः अत्त्वेन भवितव्यम् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {35/64} अन्तरङ्गत्वात् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {36/64} अन्तरङ्गम् सवर्णदीर्घत्वम् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {37/64} बहिरङ्गम् उः अत्त्वम् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {38/64} का अन्तरङ्गता ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {39/64} वर्णौ आश्रित्य सवर्णदीर्घत्वम् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {40/64} अङ्गस्य उः अत्त्वम् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {41/64} उः अत्त्वम् अपि अन्तरङ्गम् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {42/64} कथम् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {43/64} वक्ष्यति एतत् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {44/64} प्राक् अभ्यासविकारेभ्यः अङ्गाधिकारः इति ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {45/64} उभयोः अन्तरङ्गयोः परत्वात् उः अत्त्वम् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {46/64} उः अत्त्वे कृते रपरत्वम् हलादिशेषः अतः आदेः इति दीर्घत्वम् परस्य रूपस्य यणादेशः ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {47/64} सिद्धम् भवति आरतुः आरुः इति ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {48/64} अथ अपि कथम् चित् अर्तेः लिटि गुणेन अर्थः स्यात् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {49/64} एवम् अपि न दोषः ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {50/64} ऋच्छत्यॄताम् इति ऋकारः अपि निर्दिश्यते ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {51/64} कथम् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {52/64} अयम् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {53/64} ऋच्छति ऋ ऋताम् ऋच्छत्यॄताम् इति ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {54/64} इह अपि तर्हि प्राप्नोति ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {55/64} चक्रतुः चक्रुः इति ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {56/64} संयोगादिग्रहणम् नियमार्थम् भविष्यति ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {57/64} संयोगादेः एव अकेवलस्य न अन्यस्य अकेवलस्य इति ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {58/64} तत् एतत् अन्तरेण अर्तेः लिटि गुणवचनम् रूपम् सिद्धम् अन्तरेण च ऋच्छिग्रहणम् अर्तेः लिटि गुणः सिद्धः ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {59/64} सः एषः अनन्यार्थः ऋच्छिप्रतिषेधः वक्तव्यः उच्छेः वा आम् वक्तव्यः ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {60/64} उभयम् न वक्तव्यम् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {61/64} उपदेशग्रहणम् न करिष्यते ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {62/64} कस्मात् न भवति इयेष उवोष ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {63/64} उक्तम् वा ।किम् उक्तम् ।
(P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 {64/64} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।
(P_3,1.36.2) KA_II,46.10-15 Ro_III,119-120 {1/11} ऊर्णोतेः च उपसङ्ख्यानम् ।
(P_3,1.36.2) KA_II,46.10-15 Ro_III,119-120 {2/11} ऊर्णोतेः च उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,1.36.2) KA_II,46.10-15 Ro_III,119-120 {3/11} प्रोर्णुनाव ।
(P_3,1.36.2) KA_II,46.10-15 Ro_III,119-120 {4/11} न वक्तव्यम् ।
(P_3,1.36.2) KA_II,46.10-15 Ro_III,119-120 {5/11} वाच्यः ऊर्णोः णुवद्भावः ।
(P_3,1.36.2) KA_II,46.10-15 Ro_III,119-120 {6/11} यङ्प्रसिद्धिः प्रयोजनम् ।
(P_3,1.36.2) KA_II,46.10-15 Ro_III,119-120 {7/11} आमः च प्रतिषेधार्थम् ।
(P_3,1.36.2) KA_II,46.10-15 Ro_III,119-120 {8/11} एकाचः च इडुपग्रहात् । अथ वा उकारः अपि अत्र निर्दिश्यते ।
(P_3,1.36.2) KA_II,46.10-15 Ro_III,119-120 {9/11} कथम् ।
(P_3,1.36.2) KA_II,46.10-15 Ro_III,119-120 {10/11} अविभक्तिकः निर्देशः ।
(P_3,1.36.2) KA_II,46.10-15 Ro_III,119-120 {11/11} अनृच्छ उ अनृच्छो दयायासः च इति ।
(P_3,1.38) KA_II,46.17-21 Ro_III,120 {1/11} विदेः आम् कित् ।
(P_3,1.38) KA_II,46.17-21 Ro_III,120 {2/11} विदेः आम् कित् वक्तव्यः ।
(P_3,1.38) KA_II,46.17-21 Ro_III,120 {3/11} विदाम् चकार ।
(P_3,1.38) KA_II,46.17-21 Ro_III,120 {4/11} न वक्तव्यः ।
(P_3,1.38) KA_II,46.17-21 Ro_III,120 {5/11} विदिः अकारान्तः ।
(P_3,1.38) KA_II,46.17-21 Ro_III,120 {6/11} यदि अकारान्तः वेत्ति इति गुणः न सिध्यति ।
(P_3,1.38) KA_II,46.17-21 Ro_III,120 {7/11} लिट्सन्नियोगेन ।
(P_3,1.38) KA_II,46.17-21 Ro_III,120 {8/11} एवम् अपि विवेद इति न सिध्यति ।
(P_3,1.38) KA_II,46.17-21 Ro_III,120 {9/11} एवम् तर्हि आम्सन्नियोगेन ।
(P_3,1.38) KA_II,46.17-21 Ro_III,120 {10/11} भारद्वाजीयाः पठन्ति ।
(P_3,1.38) KA_II,46.17-21 Ro_III,120 {11/11} विदेः आम् कित् निपातनात् वा अगुणत्वम् इति ।
(P_3,1.39) KA_II,46.23-47.2 Ro_III,120-121 {1/3} श्लुवदतिदेशे किम् प्रयोजनम् ।
(P_3,1.39) KA_II,46.23-47.2 Ro_III,120-121 {2/3} श्लुवदतिदेशे प्रयोजनम् द्वित्वेत्त्वे ।
(P_3,1.39) KA_II,46.23-47.2 Ro_III,120-121 {3/3} बिभराम् चकार ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {1/76} किमर्थम् इदम् उच्यते ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {2/76} अनुप्रयोगः यथा स्यात् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {3/76} न एतत् अस्ति प्रयोजनम् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {4/76} आमन्तम् अव्यक्तपदार्थकम् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {5/76} तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {6/76} अतः उत्तरम् पठति ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {7/76} कृञः अनुप्रयोगवचनम् अस्तिभूप्रतिषेधार्थम् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {8/76} कृञः अनुप्रयोगवचनम् क्रियते अस्तिभूप्रतिषेधार्थम् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {9/76} अस्तिभुवोः अनुप्रयोगः मा भूत् इति ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {10/76} आत्मनेपदविध्यर्थम् च ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {11/76} आत्मनेपदविध्यर्थम् च कृञः अनुप्रयोगवचनम् क्रियते ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {12/76} आत्मनेपदम् यथा स्यात् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {13/76} उच्यमाने अपि एतस्मिन् अवश्यम् आत्मनेपदार्थः यत्नः कर्तव्यः ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {14/76} अस्तिभूप्रतिषेधार्थेन च अपि न अर्थः ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {15/76} इष्टः सर्वानुप्रयोगः ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {16/76} सर्वेषाम् एव कृभ्वस्तीनाम् अनुप्रयोगः इष्यते ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {17/76} किम् इष्यते एव आहोस्वित् प्राप्नोति अपि ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {18/76} इष्यते च प्राप्नोति च ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {19/76} कथम् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {20/76} कृञ् इति न एतत् धातुग्रहणम् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {21/76} किम् तर्हि ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {22/76} प्रत्याहारग्रहणम् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {23/76} क्व सन्निविष्टानाम् प्रत्याहारः ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {24/76} कृभ्वस्तियोगे इति अतः प्रभृति आ कृञः ञकारात् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {25/76} सर्वानुप्रयोगः इति चेत् अशिष्यम् अर्थाभावात् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {26/76} सर्वानुप्रयोगः इति चेत् अशिष्यम् कृञः अनुप्रयोगवचनम् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {27/76} किम् कारणम् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {28/76} अर्थाभावात् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {29/76} आमन्तम् अव्यक्तपदार्थकम् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {30/76} तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {31/76} इदम् तर्हि प्रयोजनम् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {32/76} कृभ्वस्तीनाम् एव अनुप्रयोगः यथा स्यात् पचादीनाम् मा भूत् इति ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {33/76} एतत् अपि न अस्ति प्रयोजनम् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {34/76} अर्थाभावात् च अन्यस्य ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {35/76} अर्थाभावात् च अन्यस्य सिद्धम् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {36/76} कृभ्वस्तयः क्रियासामान्यवाचिनः ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {37/76} क्रियाविशेषवाचिनः पचादयः ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {38/76} न च सामान्यवाचिनोः एव विशेषवाचिनोः एव व प्रयोगः भवति ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {39/76} तत्र विशेषवाचिनः उत्पत्तिः ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {40/76} सामान्यवाचिनः अनुप्रयोक्ष्यन्ते ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {41/76} लिट्परार्थम् वा ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {42/76} लिट्परार्थम् तर्हि कृञः अनुप्रयोगवचनम् क्रियते ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {43/76} लिट्परस्य एव अनुप्रयोगः यथा स्यात् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {44/76} अन्यपरस्य मा भूत् इति ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {45/76} किम्परस्य पुनः प्राप्नोति ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {46/76} लट्परस्य ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {47/76} न लट्परस्य अनुप्रयोगेण भूतकालः विशेषितः स्यात् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {48/76} निष्ठापरस्य तर्हि ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {49/76} ननिष्ठापरस्य अनुप्रयोगेण पुरुषोपग्रहौ विशेइषितौ स्याताम् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {50/76} लुङ्परस्य तर्हि ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {51/76} न लुङ्परस्य अनुप्रयोगेण अनद्यतनः भूतकालः विशेषितः स्यात् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {52/76} लङ्परस्य तर्हि ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {53/76} न लङ्परस्य अनुप्रयोगेण अनद्यतनः परोक्षः कालः विशेषितः स्यात् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {54/76} अयम् तर्हि भूते परोक्षे अनद्यतने लङ् विधीयते ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {55/76} हशश्वतोः लङ् च इति ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {56/76} तत्परस्य मा भूत् इति ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {57/76} अतत् अपि न अस्ति प्रयोजनम् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {58/76} एकस्याः आकृतेः चरितः प्रयोगः द्वितीयस्याः तृतीयस्याः च न भवति ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {59/76} तत् यथा गोषु स्वामि अश्वेषु च इति ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {60/76} न च भवति गोषु च अश्वानाम् च स्वामी इति ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {61/76} अर्थसमाप्तेः वा अनुप्रयोगः न स्यात् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {62/76} अर्थसमाप्तेः तर्हि अनुप्रयोगः न स्यात् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {63/76} आमन्तेन परिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः न स्यात् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {64/76} एतत् अपि न अस्ति प्रयोजनम् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {65/76} इदानीम् एव उक्तम् आमन्तम् अव्यक्तपदार्थकम् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {66/76} तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति इति ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {67/76} विपर्यासनिवृत्त्यर्थम् वा ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {68/76} विपर्यासनिवृत्त्यर्थम् तर्हि कृञः अनुप्रयोगवचनम् क्रियते ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {69/76} ईहाम् चक्रे ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {70/76} चक्रे ईहाम् इति मा भूत् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {71/76} व्यवहित्निवृत्त्यर्थम् च ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {72/76} व्यवहित्निवृत्त्यर्थम् च कृञः अनुप्रयोगवचनम् क्रियते ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {73/76} अन्व् एव च अनुप्रयोगः यथा स्यात् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {74/76} ईहाम् चक्रे ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {75/76} व्यवहितस्य मा भूत् ।
(P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 {76/76} ईहाम् देवदत्तः चक्रे इति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {1/85} क्व अयम् च्लिः श्रूयते ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {2/85} न क्व चित् श्रूयते ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {3/85} सिजादयः आदेशाः उच्यन्ते ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {4/85} यद् न क्व चित् श्रूयते किमर्थः तर्हि च्लुः उत्सर्गः क्रियते ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {5/85} न सिच् उत्सर्गः एव कर्तव्यः ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {6/85} तस्य क्सादयः अपवादाः भविष्यन्ति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {7/85} अत उत्तरम् पठति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {8/85} च्ल्युत्सर्गः सामान्यग्रहणार्थः ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {9/85} च्लिः उत्सर्गः क्रियते सामान्यग्रहणार्थः ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {10/85} क्व सामान्यग्रहणार्थेन अर्थः ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {11/85} मन्त्र घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यः लेः इति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {12/85} तत्र अवरतः त्रयाणाम् ग्रहणम् कर्तव्यम् स्यात् ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {13/85} चङङोः सिचः च ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {14/85} क्सविधाने च अनिड्वचने च्लिसम्प्रत्ययार्थः । क्सविधाने च अनिड्वचने च्लिसम्प्रत्ययार्थः च्लिः उत्सर्गः क्रियते ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {15/85} च्लेः अनिटः क्सः सिद्धः भवति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {16/85} घसॢभावे च ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {17/85} घसॢभावे च च्लव् एव कृते लृदितः इति अङ् सिद्धः भवति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {18/85} अथ चित्करणम् किमर्थम् ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {19/85} च्लेः चित्करणम् विशेषणाऋथम् ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {20/85} च्लेः चित्करणम् क्रियते विशेषणार्थम् ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {21/85} क्व विशेषणार्थेन अर्थः ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {22/85} च्लेः सिच् इति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {23/85} लेः सिच् इति उच्यमाने लिङ्लिटोः अपि प्रसज्येत ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {24/85} न एतत् अस्ति प्रयोजनम् ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {25/85} लुङि इति उच्यते ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {26/85} न च लुङि लिङ्लिटौ भवतः ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {27/85} अथ इदित्करणम् किमर्थम् ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {28/85} इदित्करणम् सामान्यग्रहणार्थम् । इदित्करणम् क्रियते च सामान्यग्रहणार्थम् ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {29/85} क्व सामान्यग्रहणार्थेन अर्थः ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {30/85} मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यः लेः इति आमः इति च ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {31/85} इकारे च इदानीम् सामान्यग्रहणार्थे क्रियमाणे अवश्यम् सामान्यग्रहणाविघातार्थः चकारः कर्तव्यः ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {32/85} क्व सामान्यग्रहणाविघातार्थेन अर्थः चकारेण ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {33/85} अत्र एव ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {34/85} यत् तावत् उच्यते च्ल्युत्सर्गः सामान्यग्रहणार्थः इति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {35/85} क्रियमाणे अपि वै च्ल्युत्सर्गे तानि एव त्रीणि ग्रहणानि भवन्ति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {36/85} च्लु लुङि च्लेः सिच् लेः इति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {37/85} यत् एतत् लेः इति तत् परार्थम् भविष्यति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {38/85} कथम् ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {39/85} यत् एतत् गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु इति अत्र सिचः ग्रहणम् एतत् लेः इति वक्ष्यामि ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {40/85} यदि लेः इति उच्यते धेटः चातुःशब्द्यम् प्राप्नोति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {41/85} अदधत् अधात् अधासीत् ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {42/85} अदधात् इति अपि प्राप्नोति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {43/85} न चङः लुकि द्विर्वचनेन भवितव्यम् ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {44/85} किम् कारणम् ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {45/85} चङि इति उच्यते ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {46/85} न च अत्र चङम् पश्यामः ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {47/85} प्रत्ययलक्षणेन ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {48/85} न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {49/85} बहुवचने तर्हि चातुःशब्द्यम् प्राप्नोति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {50/85} अदधन् अधुः अधासिषुः ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {51/85} अधान् इति अपि प्राप्नोति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {52/85} न एषः दोषः ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {53/85} आतः इति जुस्भावः भविष्यति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {54/85} न सिध्यति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {55/85} सिज्ग्रहणम् तत्र अनुवर्तते ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {56/85} सिज्ग्रहणम् निवर्तिष्यते ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {57/85} यदि निवर्तते अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {58/85} एवम् तर्हि लुक् सिजपवादः विज्ञास्यते ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {59/85} यदि लुक् सिजपवादः विज्ञायते मा हि दाताम् मा हि धाताम् इति अत्र आदिः सिचः अन्यतरस्याम् इति एषः स्वरः न प्राप्नोति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {60/85} तस्मात् न एतत् शक्यम् वक्तुम् लुक् सिजपवादः इति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {61/85} न चेत् उच्यते अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {62/85} तस्मात् आतः इति अत्र सिज्ग्रहणम् अनुवर्त्यम् ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {63/85} तस्मिन् च अनुवर्तमाने धेटः चातुःशब्द्यम् प्राप्नोति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {64/85} तस्मात् गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु इति अत्र सिचः ग्रहणम् कर्तव्यम् ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {65/85} तस्मिन् च क्रियमाणे तानि एव त्रीणि ग्रहणानि भवन्ति च्लि लुङि च्लेः सिच् लेः इति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {66/85} यत् अपि उच्यते क्सविधाने च अनिड्वचने च्लिसम्प्रत्ययार्थः इति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {67/85} धातुम् एव अत्र अनिट्वेन विशेषयिष्यामः ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {68/85} धातोः अनिटः इति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {69/85} कथम् पुनः धातुः नाम अनिट् स्यात् ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {70/85} धातुः एव अनिट् ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {71/85} कथम् ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {72/85} अनिमित्तम् वा इटः अनिटः न वा तस्मात् इट् अस्ति सः अयम् अनिट् इति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {73/85} अथ धातौ विशेष्यमाणे क्व यः अनिट् इति विशेषयिष्यसि ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {74/85} किम् च अतः ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {75/85} यदि विज्ञायते निष्ठायाम् अनिटः इति भूयिष्ठेभ्यः प्राप्नोति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {76/85} भूयिष्ठाः हि शलन्ताः इगुपधाः निष्ठायाम् अनिटः ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {77/85} अथ विज्ञायते लिटि यः अनिट् इति न कुतः चित् प्राप्नोति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {78/85} सर्वे हिस् शलन्ताः इगुपधाः लिटि सेटः ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {79/85} किम् पुनः कारणम् धातौ विशेष्यमाणे एतयोः विशेषयोः विशेषयिष्यते ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {80/85} न पुनः अत्र सामान्येन इटः विधिप्रतिषेधौ ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {81/85} क्व सामन्येन ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {82/85} वलादौ आर्धधातुके ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {83/85} यत् अपि उच्यते घसॢभावे च इति ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {84/85} आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु ।
(P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 {85/85} तत्र आर्धधातुकसामान्ये घसॢभावे कृते लृदितः इति अङ् भविष्यति ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {1/56} किमर्थः चकारः ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {2/56} विशेषणार्थः ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {3/56} क्व विशेषणार्थेन अर्थः ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {4/56} सिचि वृद्धिः परस्मैपदेषु इति ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {5/56} सौ वृद्धिः इति उच्यमाने अग्निः वायुः इति अत्र अपि प्रसज्येत ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {6/56} न एतत् अस्ति प्रयोजनम् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {7/56} परस्मैपदेषु इति उच्यते ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {8/56} न च अत्र परस्मैपदम् पश्यामः ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {9/56} स्वरार्थः तर्हि ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {10/56} चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {11/56} एतत् अपि न अस्ति प्रयोजनम् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {12/56} अनच्कः अयम् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {13/56} तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {14/56} इटि कृते साच्कः भविष्यति ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {15/56} तत्र प्रत्ययाद्युदात्तत्वेन इटः उदात्तत्वम् भविष्यति ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {16/56} न सिध्यति ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {17/56} आगमाः अनुदात्ताः भवन्ति इति अनुदात्तत्वम् प्राप्नोति ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {18/56} अतः उत्तरम् पठति ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {19/56} सिचः चित्करणानर्थक्यम् स्थानिवत्वात् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {20/56} सिचः चित्करणम् नर्थयम् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {21/56} किम् कारणम् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {22/56} स्थानिवत्वात् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {23/56} स्थानिवद्भावात् चित् भविष्यति ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {24/56} अर्थवत् तु चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {25/56} अर्थवत् तु चित्करणम् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {26/56} कः अर्थः ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {27/56} चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् भविष्यति ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {28/56} न अप्राप्ते प्रत्ययस्वरे आगमानुदात्तत्वम् आरभ्यते ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {29/56} तत् यथा एव प्रत्ययस्वरम् बाधते एवम् स्थानिवद्भावात् अपि या प्राप्तिः ताम् अपि बाधेत ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {30/56} तस्मात् चित्करणम् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {31/56} तस्मात् चकारः कर्तव्यः ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {32/56} अथ इदित्करणम् किमर्थम् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {33/56} इदित्करणम् नकारलोपाभावार्थम् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {34/56} इदित्करणम् क्रियते नकारलोपः मा भूत् इति ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {35/56} अमंस्त अमंस्थाः ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {36/56} अनिदिताम् हलः उपधायाः क्ङिति इति ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {37/56} न वा हन्तेः सिचः कित्करणम् नकारलोपाभावस्य ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {38/56} न वा एतत् प्रयोजनम् अस्ति ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {39/56} किम् कारणम् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {40/56} यत् अयम् हनः सिच् इति हन्तेः सिचः कित्त्वम् शास्ति तत् ज्ञापयति आचार्यः न सिजन्तस्य नकार्लोपः भवति इति ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {41/56} न एतत् अस्ति ज्ञापकम् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {42/56} अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {43/56} किम् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {44/56} सिचि एव नलोपः यथा स्यात् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {45/56} परस्मिन् निमित्ते मा भूत् इति ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {46/56} कः पुनः अत्र विशेषः सिचि वा नलोपे सति परस्मिन् वा निमित्ते ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {47/56} अयम् अस्ति विशेषः ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {48/56} सिचि नलोपे सति नलोपस्य असिद्धत्वात् अकारलोपः न भवति ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {49/56} परस्मिन् पुनः निमित्ते नलोपे सति अकारलोपः प्राप्नोति ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {50/56} समानाश्रयम् असिद्धम् व्याश्रयम् च इदम् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {51/56} ननु च परस्मिन् अपि निमित्ते नलोपे सति अकारलोपः न भविष्यति ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {52/56} कथम् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {53/56} असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति टत् एतत् हन्तेः सिचः कित्करणम् ज्ञापकम् एव न सिजन्तस्य नलोपः भवति इति ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {54/56} इदित्त्वात् वा स्थानिवत्त्वात् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {55/56} अथ अपि अनेन इदिता अर्थः स्यात् ।
(P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 {56/56} अयम् आदेशः स्थानिवद्भावात् इदित् भविष्यति।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {1/54} स्पृशमृशकृषतृपदृपः सिच् वा ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {2/54} स्पृश्मृशकृषतृपदृपः सिच् वा इति वक्तव्यम् ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {3/54} स्पृश ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {4/54} अस्पृक्षत् अस्प्राक्षीत् ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {5/54} स्पृश ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {6/54} मृश ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {7/54} अमृक्षत् अम्राक्षीत् ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {8/54} मृश ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {9/54} कृष ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {10/54} अकृक्षत् अक्राक्षीत् ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {11/54} कृष ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {12/54} तृप ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {13/54} अतृपत् अत्राप्सीत् ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {14/54} तृप ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {15/54} दृप ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {16/54} अदृपत् अद्रप्सीत् ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {17/54} किम् प्रयोजनम् ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {18/54} सिच् यथा स्यात ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {19/54} अथ क्सः सिद्धः ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {20/54} सिद्धः शलः इगुपधात् अनिटः इति ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {21/54} सिच् अपि सिद्धः ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {22/54} कथम् ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {23/54} च्लेः चित्करणम् प्रत्याख्यायते ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {24/54} तत्र च्लौ एव झल्लक्षणे अमागमे कृते विहतनिमित्तत्वात् क्सः न भविष्यति ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {25/54} यदि एवम् अन्त्यसय सिजादयः प्राप्नुवन्ति ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {26/54} सिद्धम् तु सिचः यादित्वात् ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {27/54} सिद्धम् एतत् ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {28/54} कथम् ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {29/54} यादिः सिच् करिष्यते ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {30/54} सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {31/54} किम् न श्रूयते यकारः ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {32/54} लुप्तनिर्दिष्टः यकारः ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {33/54} चङङोः कथम् ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {34/54} चङङोः प्रश्लिष्टनिर्देशात् सिद्धम् ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {35/54} चङङोः अपि प्रश्लिष्टनिर्देशः अयम् : च अङ् चङ् अ अङ् अङ् ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {36/54} सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {37/54} चिणः कथम् ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {38/54} चिणः अनित्त्वात् सिद्धम् ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {39/54} चिणः अनित्त्वात् सिद्धम् ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {40/54} किम् इदम् अनित्त्वात् ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {41/54} अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः स्यात् ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {42/54} असत्यायाम् प्रत्ययसञ्ज्ञयाम् इत्सञ्ज्ञा न। असत्याम् इत्सञ्ज्ञायाम् लोपः न ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {43/54} असति लोपे अनेकाल् ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {44/54} यदा अनेकाल् तदा सर्वादेशः ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {45/54} यदा सर्वादेशः तदा प्रययः ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {46/54} यदा प्रत्ययः तदा इत्सञ्ज्ञा ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {47/54} यदा इत्सञ्ज्ञा तदा लोपः ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {48/54} एवम् च तत्र वार्त्तिककारस्य निर्णयः सप्रयोजनम् चित्करणम् इति ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {49/54} अपि च त्रैशब्द्यम् न प्रकल्पते ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {50/54} अस्पृक्षत् अस्प्राक्षीत् अस्पार्क्षीत् इति न सिध्यति ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {51/54} सिचि पुनः सति विभाषा सिच् ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {52/54} सिचि अपि झल्लक्षणः अमागमः विभाषा ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {53/54} यस्य खलु अपि अमा निमित्तम् न विहन्यते सः स्यात् एव ।
(P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 {54/54} तस्मात् सुष्ठु उच्यते स्पृश्मृशकृषतृपदृपः सिच् वा इति
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {1/35} क्सविधाने इगुपधाभावः च्लेः गुणनिमित्तत्वात् ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {2/35} क्सविधाने इगुपधाभावः ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {3/35} किम् कारणम् ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {4/35} च्लेः गुणनिमित्तत्वात् ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {5/35} च्लिः गुणनिमित्तम् ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {6/35} तत्र च्लौ एव गुणे कृते इगुपधात् इति क्सः न प्राप्नोति ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {7/35} न वा क्सस्य अनवकाशत्वात् अपवादः गुणस्य ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {8/35} न वा एषः दोषः ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {9/35} किम् कारणम् ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {10/35} क्सस्य अनवकाशत्वात् ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {11/35} अनवकाशः क्सः गुणम् बाधिष्यते ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {12/35} अनिड्वचनम् अविशेषणम् च्लेः नित्यादिष्टत्वात् ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {13/35} अनिड्वचनम् अविशेषणम् ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {14/35} किम् कारणम् ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {15/35} च्लेः नित्यादिष्टत्वात् ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {16/35} नित्यादिष्टः च्लिः न क्व चित् श्रूयते ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {17/35} तत्र च्लेः अनिटः इति क्सः न प्राप्नोति ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {18/35} न वा क्सस्य सिजपवादत्वात् तस्य च अनिडाश्रयत्वात् अनिटि प्रसिद्धे क्सविद्धिः ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {19/35} न वा एषः दोषः ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {20/35} किम् कारणम् ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {21/35} क्सस्य सिजपवादत्वात् ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {22/35} सिजपवादः क्सः ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {23/35} सः च अनिडाश्रयः ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {24/35} न च अपवादविषये उपसर्गः अभिनिविशते ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {25/35} पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {26/35} प्रकल्प्य वा अपवादविषयम् उत्सर्गः अभिनिविशते ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {27/35} तत् न तावत् अत्र कदा चित् सिच् भवति ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {28/35} अपवादम् क्सम् प्रतीक्षते ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {29/35} क्सस्य सिजपवादत्वात् तस्य च अनिडाश्रयत्वात् अनिट्त्वम् प्रसिद्धम् ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {30/35} अनिटि प्रसिद्धे क्सविद्धिः ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {31/35} अनिटि प्रसिद्धे क्सः भविष्यति ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {32/35} सिच् इदानीम् क्व भविष्यति ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {33/35} शेषे सिज्विधानम् ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {34/35} शेषे सिज्विधानम् भविष्यति ।
(P_3,1.45) KA_II,53.7-25 Ro_III,135-136 {35/35} अकोषीत् अमोषीत् इति ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {1/52} किमर्थम् इदम् उच्यते ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {2/52} नियमार्थम् ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {3/52} श्लिषः आलिङ्गने एव क्सः यथा स्यात् ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {4/52} इह मा भूत् : उपाश्लिषत् जतु च काष्ठम् च ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {5/52} समाश्लिषत् ब्राह्मणकुलम् इति ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {6/52} अतः उत्तरम् पठति ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {7/52} श्लिषः आलिङ्गने नियमानुपपत्तिः विधेयभावात् ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {8/52} श्लिषः आलिङ्गने नियमस्य अनुपपत्तिः ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {9/52} किम् कारणम् ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {10/52} विधेयभावात् ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {11/52} कैमर्थक्यात् नियमः भवति ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {12/52} विधेयम् न अस्ति इति कृत्वा ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {13/52} इह च अस्ति विधेयम् ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {14/52} किम् ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {15/52} पुषादिपाठात् अङ् प्राप्तः ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {16/52} तद्बाधनार्थः क्सः विधेयः ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {17/52} तत्र अपूर्वः विधिः अस्तु नियमः वा इति अपूर्वः एव विधिः स्यात् न नियमः ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {18/52} किम् च स्यात् यदि अयम् नियमः न स्यात् ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {19/52} आत्मनेपदेषु आलिङ्गने च क्सः प्रसज्येत ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {20/52} यथा एव च क्सः अङम् बाधते एवम् चिणम् अपि बाधेत ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {21/52} उपाश्लेषि कन्या देवदत्तेन इति ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {22/52} सिद्धम् तु श्लिषः आलिङ्गने अचिण्विषये ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {23/52} सिद्धम् एतत् ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {24/52} कथम् ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {25/52} श्लिषः आलिङ्गने अचिण्विषये क्सः भवति इति वक्तव्यम् ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {26/52} अङ्विधाने च श्लिषः अनालिङ्गने ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {27/52} अङ्विधाने च श्लिषः अनालिङ्गने इति वक्तव्यम् ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {28/52} सिध्यति ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {29/52} सूत्रम् तर्हि भिद्यते ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {30/52} यथान्यासम् एव अस्तु ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {31/52} ननु च उक्तम् श्लिषः आलिङ्गने नियमानुपपत्तिः विधेयभावात् इति ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {32/52} न एषः दोषः ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {33/52} योगविभागात् सिद्धम् ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {34/52} योगविभागः करिष्यते ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {35/52} श्लिषः ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {36/52} श्लिषः क्सः भवति ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {37/52} किमर्थम् इदम् ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {38/52} पुषादिपाठात् अङ् प्राप्नोति ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {39/52} तद्बाधनार्थम् ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {40/52} ततः आलिङ्गने ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {41/52} आलिङ्गने च श्लिषः क्सः भवति ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {42/52} इदम् इदानीम् किमर्थम् ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {43/52} नियमार्थम् ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {44/52} श्लिषः आलिङ्गने एव ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {45/52} क्व मा भूत् ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {46/52} उपाश्लिषत् जतु च काष्ठम् च ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {47/52} समाश्लिषत् ब्राह्मणकुलम् इति ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {48/52} यत् अपि उच्यते यथा एव च क्सः अङम् बाधते एवम् चिणम् अपि बाधेत इति ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {49/52} पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते न उत्तरान् इति एवम् क्सः अङम् बाधिष्यते ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {50/52} चिणम् न बाधिष्यते ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {51/52} अथ वा तत्र वक्ष्यति : चिण्ग्रहणस्य प्रयोजनम् चिण् एव यथा स्यात् ।
(P_3,1.46) KA_II,54.2-24 Ro_III,136-138 {52/52} यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {1/24} णिश्रिद्रुस्रुषु कमेः उपसङ्ख्यानम् । णिश्रिद्रुस्रुषु कमेः उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {2/24} नाकम् इष्टमुखम् यान्ति सुयुक्तैः वडवारथैः ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {3/24} अथ पत्काषीणः यान्ति ये अचीकमतभाषिणः ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {4/24} कर्मकर्तरि च ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {5/24} कर्मकर्तरि च उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {6/24} कारयति कटम् देवदत्तः ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {7/24} अचीकरत कटः स्वयम् एव ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {8/24} उच्छ्रययति कटम् देवदत्तः ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {9/24} औदशिश्रियत कटः स्वयम् एव ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {10/24} न वा कर्मणि अविधानात् कर्तृत्वात् च कर्मकर्तुः सिद्धम् ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {11/24} न वा कर्तव्यम् ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {12/24} किम् कारणम् ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {13/24} कर्मणि अविधानात् ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {14/24} न हि कः चित् कर्मणि विधीयते यः चङम् बाधेत ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {15/24} कर्तृत्वात् च कर्मकर्तुः सिद्धम् ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {16/24} अस्ति च कर्मकर्तरि कर्तृत्वम् इति कृत्वा चङ् भविष्यति ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {17/24} ननु च अयम् कर्मणि विधीयते ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {18/24} चिण् भावकर्मणोः इति ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {19/24} प्रतिषिध्येते तत्र यक्चिणौ ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {20/24} यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् इति ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {21/24} यः तर्हि अहेतुमण्णिच् ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {22/24} उदपुपुच्छत गौः स्वयम् एव ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {23/24} अत्र अपि यथा भारद्वाजीयाः पठन्ति तथा भवितव्यम् प्रतिषेधेन ।
(P_3,1.48) KA_II,55.2-16 Ro_III,138-139 {24/24} यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञाम् आत्मनेपदाकर्मकाणाम् उपसङ्ख्यानम् इति ।
(P_3,1.52) KA_II,55.18-24 Ro_III,140 {1/11} अस्यतिग्रहणम् किमर्थम् ।
(P_3,1.52) KA_II,55.18-24 Ro_III,140 {2/11} अस्यतिग्रहणम् आत्मनेपदार्थम् ।
(P_3,1.52) KA_II,55.18-24 Ro_III,140 {3/11} अस्यतिग्रहणम् आत्मनेपदार्थम् द्रष्टव्यम् ।
(P_3,1.52) KA_II,55.18-24 Ro_III,140 {4/11} किम् उच्यते आत्मनेपदार्थम् इति ।
(P_3,1.52) KA_II,55.18-24 Ro_III,140 {5/11} न पुनः परस्मैपदार्थम् अपि स्यात् ।
(P_3,1.52) KA_II,55.18-24 Ro_III,140 {6/11} पुषादित्वात् ।
(P_3,1.52) KA_II,55.18-24 Ro_III,140 {7/11} पुषादिपाठात् परस्मैपदेषु अङ् भविष्यति ।
(P_3,1.52) KA_II,55.18-24 Ro_III,140 {8/11} कर्मकर्तरि च ।
(P_3,1.52) KA_II,55.18-24 Ro_III,140 {9/11} कर्मकर्तरि च उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,1.52) KA_II,55.18-24 Ro_III,140 {10/11} पर्यास्थेताम् कुण्डले स्वयम् एव ।
(P_3,1.52) KA_II,55.18-24 Ro_III,140 {11/11} अत्र अपि न वा कर्मणि अविधानात् कर्तृत्वात् च कर्मकर्तुः सिद्धम् इति एव ।
(P_3,1.58) KA_II,56.2-6 Ro_III,140 {1/9} इदम् लुचिग्रहणम् ग्लुञ्चिग्रहणम् च क्रियते ।
(P_3,1.58) KA_II,56.2-6 Ro_III,140 {2/9} अन्यतरत् शक्यम् अकर्तुम् ।
(P_3,1.58) KA_II,56.2-6 Ro_III,140 {3/9} कथम् ।
(P_3,1.58) KA_II,56.2-6 Ro_III,140 {4/9} यदि तावत् ग्लुचिग्रहणम् क्रियते ग्लुञ्चिग्रहणम् न करिष्यते ।
(P_3,1.58) KA_II,56.2-6 Ro_III,140 {5/9} तेन एव सिद्धम् न्यग्लुचत् न्यग्लोचीत् ।
(P_3,1.58) KA_II,56.2-6 Ro_III,140 {6/9} इदम् इदानीम् ग्लुञ्चेः रूपम् न्यग्लुञ्चीत् ।
(P_3,1.58) KA_II,56.2-6 Ro_III,140 {7/9} अथ ग्लुञ्चिग्रहणम् क्रियते ग्लुचेः ग्रहणम् न करिष्यते ।
(P_3,1.58) KA_II,56.2-6 Ro_III,140 {8/9} तेन एव सिद्धम् न्यग्लुचत् न्यग्लुञ्चीत् ।
(P_3,1.58) KA_II,56.2-6 Ro_III,140 {9/9} इदम् इदानीम् ग्लुचेः रूपम् न्यग्लोचीत् ।
(P_3,1.60) KA_II,56.8-9 Ro_III,141 {1/5} अयम् तशब्दः अस्ति एव आत्मनेपदम् अस्ति परस्मैपदम् अस्ति एकवचनम् अस्ति बहुवचनम् ।
(P_3,1.60) KA_II,56.8-9 Ro_III,141 {2/5} कस्य इदम् ग्रहणम् ।
(P_3,1.60) KA_II,56.8-9 Ro_III,141 {3/5} यः पदेः अस्ति ।
(P_3,1.60) KA_II,56.8-9 Ro_III,141 {4/5} कः च पदेः अस्ति ।
(P_3,1.60) KA_II,56.8-9 Ro_III,141 {5/5} पदिः अयम् आत्मनेपदी ।
(P_3,1.66) KA_II,56.11-13 Ro_III,141 {1/8} चिण् इति वर्तमाने पुनः चिण्ग्रहणम् किमर्थम् ।
(P_3,1.66) KA_II,56.11-13 Ro_III,141 {2/8} न इति एवम् तत् अभूत् ।
(P_3,1.66) KA_II,56.11-13 Ro_III,141 {3/8} विध्यर्थम् इदम् ।
(P_3,1.66) KA_II,56.11-13 Ro_III,141 {4/8} अथ वा वा इति एवम् तत् अभूत् ।
(P_3,1.66) KA_II,56.11-13 Ro_III,141 {5/8} नित्यार्थम् इदम् ।
(P_3,1.66) KA_II,56.11-13 Ro_III,141 {6/8} अथ वा चिण् इति वर्तमाने पुनः चिण्ग्रहणस्य एतत् प्रयोजनम् ।
(P_3,1.66) KA_II,56.11-13 Ro_III,141 {7/8} चिण् एव यथा स्यात् ।
(P_3,1.66) KA_II,56.11-13 Ro_III,141 {8/8} यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {1/45} इह पश्यामः कर्मणि द्विवचनबहुवचनानि उदाह्रियन्ते ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {2/45} पच्येते* ओदनौ , पच्यन्ते ओदनाः इति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {3/45} भावे पुनः एकवचनम् एव : आस्यते भवता , आस्यते भवद्भ्याम् , आस्यते भवद्भिः इति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {4/45} केन एतत् एवम् भवति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {5/45} कर्म अनेकम् ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {6/45} तस्य अनेकत्वात् द्विवचनबहुवचनानि भवन्ति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {7/45} भावः पुनः एकः एव ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {8/45} कथम् तर्हि इह द्विवचनबहुवचनानि भवन्ति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {9/45} पाकौ पाकाः इति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {10/45} आश्रयभेदात् ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {11/45} यत् असौ द्रव्यम् श्रितः भवति भावः तस्य भेदात् द्विवचनबहुवचनानि भवन्ति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {12/45} इह अपि तर्हि यावन्तः ताम् क्रियाम् कुर्वन्ति सर्वे ते तस्याः आश्रया भवन्ति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {13/45} तद्भेदात् द्विवचनबहुवचनानि प्राप्नुवन्ति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {14/45} एवम् तर्हि इदम् तावत् अयम् प्रष्टव्यः ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {15/45} किम् अभिसमीक्ष्य एतत् प्रयुज्यते ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {16/45} पाकौ पाकाः इति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {17/45} यदि तावत् पाकविशेषान् अभिसमीक्ष्य यः च ओदनस्य पाकः यः च गुडस्य यः च तिलानाम् बहवः ते शब्दाः सरूपाः च ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {18/45} तत्र युक्तम् बहुवचनम् एकशेषः च ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {19/45} तिङभिहिते च अपि तदा भावे बहुवचनम् श्रूयते ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {20/45} तत् यथा : उष्टृआसिका आस्यन्ते ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {21/45} हतशायिकाः शय्यन्ते इति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {22/45} अथ कालविशेषान् अभिसमीक्ष्य यः च अद्यतनः पाकः यः ह्यस्तनः यः श्वस्तनः ते अपि बहवः शब्दाः सरूपाः च ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {23/45} तत्र युक्तम् बहुवचनम् एकशेषः च ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {24/45} तिङभिहिते च अपि तदा भावे असारूप्यात् एकशेषः न भवति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {25/45} आसि आस्यते , आसिष्यते ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {26/45} अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {27/45} कृदभिहितः भावः द्रव्यवत् भवति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {28/45} किम् इदम् द्रव्यवत् इति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {29/45} द्रव्यम् क्रियया समवायम् गच्छति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {30/45} कम् समवायम् ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {31/45} द्रव्यम् क्रियाभिनिर्वृत्तौ साधनत्वम् उपैति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {32/45} तद्वत् च अस्य भावस्य कृदभिहितस्य भवति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {33/45} पाकः वर्तते इति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {34/45} क्रियावत् न भवति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {35/45} किम् इदम् क्रियावत् इति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {36/45} क्रिया क्रियया समवायम् न गच्छति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {37/45} पचति पठति इति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {38/45} तद्वच् च अस्य कृतभिहितस्य न भवति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {39/45} पाकः वर्तते इति ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {40/45} अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {41/45} तिङभिहितेन भावेन कालपुरुषोपग्रहाः अभिव्यज्यन्ते ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {42/45} कृदभिहितेन पुनः न व्यज्यन्ते ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {43/45} अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {44/45} तिङभिहितः भावः कर्त्रा सम्प्रयुज्यते। कृदभिहितः पुनः न सम्प्रयुज्यते ।
(P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 {45/45} यावता किम् चित् सामान्यम् कः चित् विशेषः युक्तम् यत् अयम् अपि विशेषः स्यात् लिङ्गकृतः सङ्ख्याकृतः च इति ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {1/53} इदम् विचार्यते ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {2/53} भावकर्मकर्तारः सार्वधातुकार्थाः वा स्युः विकरणार्थाः वा इति ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {3/53} कथम् च सार्वधातुकार्थः स्युः कथम् वा विकरणार्थाः ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {4/53} भावकर्मवाचिनि सार्वधातुके यक् भवति कर्तृवाचिनि शर्वधातुके शप् भवति इति सार्वधातुकार्थाः ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {5/53} भावकर्मणोः यग् भवति सार्वधातुके कर्तरि शप् भवति सार्वधातुके इति विकरणार्थाः ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {6/53} कः च अत्र विशेषः ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {7/53} भावकर्मकर्तारः सार्वधातुकार्थाः चेत् एकद्विबहुषु नियमानुपपत्तिः अतदर्थत्वात् ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {8/53} भावकर्मकर्तारः सार्वधातुकार्थाः चेत् एकद्विबहुषु नियमस्य अनुपपत्तिः ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {9/53} किम् कारणम् ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {10/53} अतदर्थत्वात् ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {11/53} न हि तदानीम् एकत्वादयः एव विभक्त्यर्थाः ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {12/53} किम् तर्हि भावकर्मकर्तारः अपि ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {13/53} सन्तु तर्हि विकरणार्थाः ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {14/53} विकरणार्थाः इति चेत् कृता अभिहिते विकरणाभावः ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {15/53} विकरणार्थाः इति चेत् कृता अभिहिते विकरणः न प्राप्नोति ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {16/53} धारयः पारयः इति ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {17/53} किम् उच्यते कृता अभिहिते ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {18/53} न लेन अपि अभिधानम् भवति ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {19/53} अशक्यम् लेन अभिधानम् आश्रयितुम् ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {20/53} पक्षान्तरम् इदम् आस्थितम् भावकर्मकर्तारः सार्वधातुकार्थाः वा स्युः विकरणार्थाः वा इति ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {21/53} यदि च लेन अपि अभिधानम् स्यात् न इदम् पक्षान्तरम् स्यात् ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {22/53} कथम् अशक्यम् यदा भवान् एव आह लः कर्मणि च भावे च अकर्मकेभ्यः इति ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {23/53} एवम् वक्ष्यामि ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {24/53} लः कर्मणः भावात् च अकर्मकेभ्यः ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {25/53} यस्मिन् तर्हि ले विकरणाः न श्रूयन्ते कः तत्र भावकर्मकर्तॄन् अभिधास्यति ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {26/53} क्व च न श्रूयन्ते ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {27/53} ये एते लुग्विकरणाः श्लुविकरणाः च ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {28/53} अत्र अपि उक्ते कर्तृत्वे लुक् भविष्यति ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {29/53} यस्मिन् तर्हि ले विकरणाः न एव उत्पद्यन्ते कः तत्र भावकर्मकर्तॄन् अभिधास्यति ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {30/53} क्व च न एव उत्पद्यन्ते ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {31/53} लिङ्लिटोः ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {32/53} तस्मात् न एतत् शक्यम् वक्तुम् ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {33/53} न लेन अभिधानम् भवति इति ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {34/53} भवति चेत् अभिहिते विकरणाभावः एव ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {35/53} एवम् तर्हि इदम् स्यात् ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {36/53} यदा भावकर्मणोः लः तदा कर्तरि विकरणाः ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {37/53} यदा कर्तरि लः तदा भावकर्मणोः विकरणाः ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {38/53} इदम् अस्य यदि एव स्वाभाविकम् अथ अपि वाचनिकम् : प्रकृतिप्रत्ययौ प्रत्ययार्थम् सह ब्रूतः इति ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {39/53} न च अस्ति सम्भवः यत् एकस्याः प्रकृतेः द्वयोः नानार्थयोः युगपत् अनुसहायीभावः स्यात् ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {40/53} एवम् च कृत्वा एकपक्षीभूतम् इदम् भवति : सार्वधातुकार्थाः एव इति ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {41/53} ननु च उक्तम् भावकर्मकर्तारः सार्वधातुकार्थाः चेत् एकद्विबहुषु नियमानुपपत्तिः अतदर्थत्वात् इति ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {42/53} न एषः दोषः ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {43/53} सुपाम् कर्मादयः अपि अर्थाः सङ्ख्या च एव तथा तिङाम् । सुपाम् सङ्ख्या च एव अर्थः कर्मादयः च ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {44/53} तथा तिङाम् ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {45/53} प्रसिद्धः नियमः तत्र ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {46/53} प्रसिद्धः तत्र नियमः ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {47/53} नियमः प्रकृतेषु वा ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {48/53} अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {49/53} के च प्रकृताः ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {50/53} एकत्वादयः ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {51/53} एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {52/53} द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु ।
(P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 {53/53} बहुषु एव बहुवचनम् न द्वयोः न एकस्मिन् इति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {1/87} भावकर्मणोः यग्विधाने कर्मकर्तरि उपसङ्ख्यानम् । भावकर्मणोः यग्विधाने कर्मकर्तरि उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {2/87} पच्यते स्वयम् एव ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {3/87} पठ्यते स्वयम् एव ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {4/87} किम् पुनः कारणम् न सिध्यति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {5/87} विप्रतिषेधात् हि शपः बलीयस्त्वम् । विप्रतिषेधात् हि शपः बलीयस्त्वम् प्राप्नोति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {6/87} शपः अवकाशः ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {7/87} पचति पठति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {8/87} यकः अवकाशः ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {9/87} पच्यते ओदनः देवदत्तेन ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {10/87} पठ्यते विद्या देवदत्तेन ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {11/87} इह उभयम् प्राप्नोति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {12/87} पच्यते स्वयम् एव ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {13/87} पठ्यते स्वयम् एव ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {14/87} परत्वात् शप् प्राप्नोति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {15/87} योगविभागात् सिद्धम् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {16/87} योगविभागः करिष्यते ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {17/87} चिण् भावकर्मणोः ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {18/87} सार्वधातुके यक् भावकर्मणोः ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {19/87} ततः कर्तरि ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {20/87} कर्तरि च यक् भवति भावकर्मणोः ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {21/87} यथा एव तर्हि कर्मणि कर्तरि यक् भवति एवम् भावे कर्तरि प्राप्नोति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {22/87} एति जीवन्तम् आनन्दः ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {23/87} न अस्य किम् चित् रुजति रोगः इति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {24/87} द्वितीयः योगविभागः करिष्यते ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {25/87} चिण् भावे ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {26/87} ततः कर्मणि ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {27/87} कर्मणि च चिण् भवति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {28/87} ततः सार्वधातुके यक् भवति भावे च कर्मणि च ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {29/87} ततः कर्तरि ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {30/87} कर्तरि च यक् भवति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {31/87} कर्मणि इति अनुवर्तते ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {32/87} भावे इति निवृत्तम् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {33/87} ततः शप् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {34/87} शप् च भवति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {35/87} कर्तरि इति एव ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {36/87} कर्मणि इति अपि निवृत्तम् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {37/87} एवम् अपि उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {38/87} विप्रतिषेधात् हि श्यनः बलीयस्त्वम् प्राप्नोति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {39/87} श्यनः अवकाशः ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {40/87} दीव्यति सीव्यति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {41/87} यकः अवकाशः ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {42/87} पच्यते ओदनः देवदत्तेन ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {43/87} पठ्यते विद्या देवदत्तेन ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {44/87} इह उभयम् प्राप्नोति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {45/87} दीव्यते स्वयम् एव ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {46/87} सीव्यते स्वयम् एव ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {47/87} परत्वात् श्यन् प्राप्नोति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {48/87} ननु च एतत् अपि योगविभागात् एव सिद्धम् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {49/87} न सिध्यति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {50/87} अनन्तरा या प्रप्तिः सा योगविभागेन शक्या बाधितुम् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {51/87} कुतः एतत् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {52/87} अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {53/87} परा प्राप्तिः अप्रतिषिद्धा ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {54/87} तया प्राप्नोति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {55/87} ननु च इयम् प्राप्तिः पराम् प्राप्तिम् बाधेत ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {56/87} न उत्सहते प्रतिषिद्धा सती बाधितुम् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {57/87} एवम् तर्हि शबादेशाः श्यनादयः करिष्यन्ते ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {58/87} शप् च स्यादिभिः बाध्यते ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {59/87} तत्र दिवादिभ्यः यग्विषये शप् एव न अस्ति कुतः श्यनादयः ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {60/87} तत् तर्हि शपः ग्रहणम् कर्तव्यम् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {61/87} न कर्तव्यम् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {62/87} प्रकृतम् अनुवर्तते ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {63/87} क्व प्रकृतम् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {64/87} कर्तरि शप् इति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {65/87} तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {66/87} दिवादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {67/87} प्रत्ययविधिः अयम् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {68/87} न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {69/87} न अयम् प्रत्ययविधिः ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {70/87} विहितः प्रत्ययः ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {71/87} प्रकृतः च अनुवर्तते ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {72/87} अथ वा भावकर्मणोः इति अनुवृत्त्या एव सिद्धे सति अनिवृत्तिः यकः भावाय ।इह सार्वधातुके यक् इति अन्तरेण भावकर्मणोः इति अनुवृत्तिम् सिद्धम् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {73/87} सः अयम् एवम् सिद्धे सति यत् भावकर्मणोः इति अनुवर्तयति तस्य एतत् प्रयोजनम् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {74/87} कर्मकर्तरि अपि यथा स्यात् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {75/87} कर्तरि इति च योगविभागः श्यनः पूर्वविप्रतिषेधावचनाय ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {76/87} कर्तरि इति योगविभागः कर्तव्यः श्यनः पूर्वविप्रतिषेधम् मा वोचम् इति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {77/87} अथ वा कर्मवद्भाववचनसामर्थ्यात् यक् भविष्यति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {78/87} अस्ति अन्यत् कर्मवद्भाववचने प्रयोजनम् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {79/87} किम् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {80/87} आत्मनेपदम् यथा स्यात् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {81/87} वचनात् आत्मनेपदम् भविष्यति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {82/87} चिण् तर्हि यथा स्यात् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {83/87} चिण् अपि वचनात् भविष्यति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {84/87} चिण्वद्भावः तर्हि यथा स्यात् ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {85/87} न एकम् प्रयोजनम् योगारम्भम् प्रयोजयति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {86/87} तत्र कर्मवद्भाववचनसामर्थ्यात् यक् भविष्यति ।
(P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 {87/87} अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति कर्मकर्तरि यक् इति यत् अयम् न दुहस्न्नुनमाम् यक्चिणौ इति यक्चिणोः प्रतिषेधम् शास्ति ।
(P_3,1.71) KA_II,60.13-15 Ro_III,153 {1/6} अनुपसर्गात् इति किमर्थम् ।
(P_3,1.71) KA_II,60.13-15 Ro_III,153 {2/6} आयस्यति प्रयस्यति ।
(P_3,1.71) KA_II,60.13-15 Ro_III,153 {3/6} अनुपसर्गात् इति शक्यम् अकर्तुम् ।
(P_3,1.71) KA_II,60.13-15 Ro_III,153 {4/6} कथम् आयस्यति प्रयस्यति ।
(P_3,1.71) KA_II,60.13-15 Ro_III,153 {5/6} संयसः च इति एतत् नियमार्थम् भविष्यति ।
(P_3,1.71) KA_II,60.13-15 Ro_III,153 {6/6} सम्पूर्वात् यसः न अन्यपूर्वात् इति ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {1/64} किमर्थः शकारः ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {2/64} सार्वधातुकाऋथः ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {3/64} शित् सार्वधातुकम् इति सार्वधातुकसञ्ज्ञा ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {4/64} सार्वधातुकम् अपित् इति ङित्त्वम् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {5/64} ङिति इति गुणप्रतिषेधः यथा स्यात् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {6/64} भिनत्ति छिनत्ति इति ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {7/64} न एतत् अस्ति प्रयोजनम् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {8/64} सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते यस्मात् च प्रत्ययविधिः तदादि प्रत्यये अङ्गसञ्ज्ञम् भवति ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {9/64} यस्मात् च अत्र प्रत्ययविधिः न तत् प्रत्यये परतः ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {10/64} यत् च प्रत्यये परतः न तस्मात् प्रत्ययविधिः ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {11/64} इदम् तर्हि प्रयोजनम् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {12/64} आर्धधातुकसञ्ज्ञा मा भूत् इति ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {13/64} किम् च स्यात् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {14/64} वलादिलक्षणः इट् प्रसज्येत ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {15/64} एतत् अपि न अस्ति प्रयोजनम् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {16/64} वलादेः आर्धधातुकस्य अङ्गस्य इट् उच्यते ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {17/64} यस्मात् च प्रत्ययविधिः तदादि प्रत्यये अङ्गसञ्ज्ञम् भवति ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {18/64} यस्मात् च अत्र प्रत्ययविधिः न तत् प्रत्यये परतः ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {19/64} यत् च प्रत्यये परतः न तस्मात् प्रत्ययविधिः ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {20/64} अतः उत्तरम् पठति ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {21/64} श्नमि शित्करणम् प्वादिह्रस्वार्थम् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {22/64} श्नमि शित्करणम् क्रियते प्वादीनाम् शिति ह्रस्वत्वम् यथा स्यात् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {23/64} पृणसि मृणसि इति ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {24/64} न वा धात्वन्यत्वात् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {25/64} न वा कर्तव्यम् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {26/64} किम् कारणम् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {27/64} धात्वन्यत्वात् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {28/64} धात्वन्तरम् पृणिमृणी ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {29/64} यत्र भूम्याम् वृणसे ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {30/64} न एषः श्नम् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {31/64} श्नः एतत् ह्रस्वत्वम् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {32/64} यदि श्नः ह्रस्वत्वम् स्वरः न सिध्यति ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {33/64} वृणसे ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {34/64} अदुपदेशात् लसार्वधातुकम् अनुदात्तम् भवति इति एषः स्वरः न प्राप्नोति ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {35/64} तस्मात् श्नम् एषः ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {36/64} यदि श्नम् स्नसोः अल्लोपः इति लोपः प्राप्नोति ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {37/64} उपधायाः इति वर्तते ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {38/64} अनुपधात्वात् न भविष्यति ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {39/64} न सः शख्यः उपधायाः इति विज्ञातुम् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {40/64} इह हि दोषः स्यात् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {41/64} अङ्क्तः अञ्जन्ति ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {42/64} तस्मात् श्नः एव ह्रस्वत्वम् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {43/64} स्वरः कथम् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {44/64} बहुलम् पित् सार्वधातुकम् छन्दसि । सार्वधातुकस्य भलुलम् छन्दसि पित्त्वम् वक्तव्यम् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {45/64} पितः च अपित्त्वम् दृश्यते अपितः च पित्त्वम् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {46/64} पितः तावत् अपित्त्वम् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {47/64} मातरम् प्रमिणीमि जनित्रीम् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {48/64} अपितः पित्त्वम् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {49/64} शृणोत ग्रावाणः ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {50/64} तत् तर्हि ह्रस्वत्वम् वक्तव्यम् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {51/64} अवश्यम् छन्दसि ह्रस्वत्वम् वक्तव्यम् उपगायन्तु माम् पत्नयः गर्भिणयः युवतयः इति एवमर्थम् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {52/64} विशेषणाऋथः तर्हि ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {53/64} क्व विशेषणाऋथेन अर्थः ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {54/64} श्नात् नलोपः इति ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {55/64} नात् नलोपः इति उच्यमाने यज्ञानाम् यत्नानाम् इति अत्र अपि प्रसज्येत ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {56/64} दीर्घत्वे कृते न भविष्यति ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {57/64} इदम् इह सम्प्रधार्यम् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {58/64} दीर्घत्वम् क्रियताम् नलोपः इति ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {59/64} किम् अत्र कर्तव्यम् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {60/64} परत्वात् न लोपः स्यात् ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {61/64} तस्मात् शकारः कर्तव्यः ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {62/64} अथ क्रियमाणे अपि शकारे इह कस्मात् न भवति ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {63/64} विश्नानाम् प्रश्नानाम् इति ।
(P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 {64/64} लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।
(P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 {1/21} अथ किमर्थम् करोतेः पृथग्ग्रहणम् क्रियते न तनादिभ्यः इति एव उच्यते ।
(P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 {2/21} अन्यानि तनोत्यादिकार्याणि मा भूवन् इति ।
(P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 {3/21} कानि ।
(P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 {4/21} अनुनासिकलोपादीनि ।
(P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 {5/21} दैवरक्ताः किंसुकाः ।
(P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 {6/21} अनुनासिकाभावात् एव अनुनासिकलोपः न भविष्यति ।
(P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 {7/21} इदम् तर्हि तनादिकार्यम् मा भूत् तनादिभ्यः तथासोः इति ।
(P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 {8/21} ननु च भवति एव अत्र ह्रस्वात् अङ्गात् इति ।
(P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 {9/21} तेन एव यथा स्यात् ।
(P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 {10/21} अनेन मा भूत् इति ।
(P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 {11/21} कः च अत्र विशेषः तेन वा सति अनेन वा ।
(P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 {12/21} तेन सति सिज्लोपस्य असिद्धत्वात् चिण्वद्भावः सिद्धः भवति ।
(P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 {13/21} अनेन पुनः सति चिण्वद्भावः न स्यात् ।
(P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 {14/21} अनेन अपि सति चिण्वद्भावः सिद्धः ।
(P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 {15/21} कथम् ।
(P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 {16/21} विभाषा लुक् ।
(P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 {17/21} यदा न लुक् तदा तेन लोपः ।
(P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 {18/21} तत्र सिज्लोपस्य असिद्धत्वात् चिण्वद्भावः सिद्धः भवति ।
(P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 {19/21} तनादित्वात् कृञः सिद्धम् सिज्लोपे च न दुष्यति ।
(P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 {20/21} चिण्वद्भावे अत्र दोषः स्यात् ।
(P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 {21/21} सः अपि प्रोक्तः विभाषया ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {1/27} क्व अयम् अकारः श्रूयते ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {2/27} न क्व चित् श्रूयते ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {3/27} लोपः अस्य भवति अतः लोपः आर्धधातुके इति ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {4/27} यदि न क्व चित् श्रूयते किमर्थम् अत्वम् उच्यते न लोपः एव उच्यते ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {5/27} न एवम् शक्यम् ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {6/27} लोपे हि सति गुणः प्रसज्येत ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {7/27} ननु च लोपे अपि सति न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {8/27} आर्धधातुकनिमित्ते लोपे सः प्रतिषेधः ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {9/27} न च एषः आर्धधातुकनिमित्तः लोपः ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {10/27} अपि च प्रत्याख्यायते सः योगः ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {11/27} तस्मिन् प्रत्याख्याते गुणः स्यात् एव ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {12/27} तस्मात् अत्वम् वक्तव्यम् ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {13/27} अथ किमर्थम् नुमनुषक्तयोः ग्रहणम् क्रियते न धिविकृव्योः इति एव उच्यते ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {14/27} धिविकृव्योः इति उच्यमाने अत्वे कृते अनिष्टे देशे नुम् प्रसज्येत ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {15/27} इदम् इह सम्प्रधार्यम् ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {16/27} अत्वम् क्रियताम् नुम् इति ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {17/27} किम् अत्र कर्तव्यम् ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {18/27} परत्वात् नुमागमः ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {19/27} अन्तरङ्गम् अत्वम् ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {20/27} का अन्तरङ्गता ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {21/27} प्रत्ययोत्पत्तिसन्नियोगेन अत्वम् उच्यते ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {22/27} उत्पन्नेप्रत्यये प्रकृतिप्रत्ययौ आश्रित्य अङ्गस्य नुमागमः ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {23/27} नुम् अपि अन्तरङ्गः ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {24/27} कथम् ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {25/27} वक्ष्यति एतत् नुम्विधौ उपदेशिवद्वचनम् प्रत्ययविध्यर्थम् इति ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {26/27} उभयोः अन्तरङ्गयोः परत्वात् नुमागमः ।
(P_3,1.80) KA_II,62.10-22 Ro_III,156-157 {27/27} तस्मात् धिविकृव्योः इति वक्तव्यम् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {1/58} किमर्थः शकारः ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {2/58} शित् सार्वधातुकम् इति सार्वधातुकसञ्ज्ञा सार्वधातुकम् अपित् इति ङित्त्वम् ङिति इति प्रतिषेधः यथा स्यात् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {3/58} कुषाण पुषाण इति ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {4/58} अतः उत्तरम् पठति ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {5/58} श्नाविकारस्य शित्करणानर्थक्यम् स्थानिवत्वात् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {6/58} श्नाविकारस्य शित्करणम् अनर्थकम् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {7/58} किम् कारणम् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {8/58} स्थानिवत्वात् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {9/58} शितः अयम् आदेशः स्थानिवद्भावात् शित् भविष्यति ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {10/58} अर्थवत् तु ज्ञापकम् सार्वधातुकादेशे अनुबन्धास्थानिवत्त्वस्य ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {11/58} अर्थवत् तु श्नाविकारस्य शित्करणम् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {12/58} कः अर्थः ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {13/58} ज्ञापकार्थम् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {14/58} किम् ज्ञाप्यम् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {15/58} एतत् ज्ञापयति आचार्यः सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {16/58} किम् एतस्य ज्ञपने प्रयोजनम् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {17/58} प्रयोजनम् हितातङोः अपित्त्वम् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {18/58} हेः पित्त्वम् न प्रतिषेध्यम् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {19/58} पितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {20/58} सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् पित् भविष्यति ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {21/58} तातङि च ङकारः न उच्चार्यः भवति ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {22/58} पितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {23/58} सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् पित् भविष्यति ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {24/58} तबादिषु च अङित्त्वम् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {25/58} तबादिषु च अङित्त्वम् प्रयोजनम् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {26/58} शृणोत ग्रावाणः ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {27/58} ङितः इमे आदेशाः स्थानिवद्भावात् ङितः स्युः ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {28/58} सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न इमे ङितः भवन्ति ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {29/58} तस्य दोषः मिपः आदेशे पिदभावः ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {30/58} तस्य एतस्य लक्षणस्य दोषः मिपः आदेशे पितः अभावः ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {31/58} अचिनवम् असुनवम् अकरवम् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {32/58} पितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {33/58} सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् पित् स्यात् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {34/58} अत्यल्पम् इदम् उच्यते ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {35/58} तिप्सिब्मिपाम् आदेशाः इति वक्तव्यम् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {36/58} वेद वेत्थ ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {37/58} विदेः वसोः शित्त्वम् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {38/58} विदेः उत्तरस्य वसोः शित्त्वम् वक्तव्यम् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {39/58} शितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {40/58} सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् शित् स्यात् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {41/58} कित्करणात् वा सिद्धम् । अथ वा अवश्यम् अत्र सामान्यग्रहणाविघातार्थः ककारः अनुबन्धः कर्तव्यः ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {42/58} क्व सामान्यग्रहणाविघातार्थेन अर्थः ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {43/58} वसोः सम्प्रसारणम् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {44/58} तेन एव यत्नेन गुणः न भविष्यति ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {45/58} अस्य ज्ञापकस्य सन्ति दोषाः सन्ति प्रयोजनानि ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {46/58} समाः दोषाः भूयांसः वा ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {47/58} तस्मात् न अर्थः अनेन ज्ञापकेन ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {48/58} कथम् यानि प्रयोजनानि ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {49/58} तानि क्रियन्ते न्यासे एव ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {50/58} एवम् अपि भवेत् पित्करणसामर्थ्यात् पित्कृतम् स्यात् ङित्करणसामर्थ्यात् ङित्कृतम् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {51/58} यत् तु खलु पिति ङित्कृतम् प्राप्नोति ङिति च पित्कृतम् केन तत् न स्यात् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {52/58} तस्मात् वक्तव्यम् पित् न ङिद्वत् भवति ङित् च न पिद्वत् भवति इति ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {53/58} न वक्तव्यम् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {54/58} एवम् वक्ष्यामि ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {55/58} सार्वधातुकम् ङित् भवति पित् न ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {56/58} एवम् तावत् पितः ङित्त्वम् प्रतिषिद्धम् ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {57/58} ततः असंयोगात् लिट् कित् भवति इति ङित् च पित् न भवति ।
(P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 {58/58} एवम् ङितः पित्त्वम् प्रतिषिद्धम् ।
(P_3,1.84) KA_II,64.13-15 Ro_III,160 {1/6} शायच् छन्दसि सर्वत्र ।
(P_3,1.84) KA_II,64.13-15 Ro_III,160 {2/6} शायच् छन्दसि सर्वत्र इति वक्तव्यम् ।
(P_3,1.84) KA_II,64.13-15 Ro_III,160 {3/6} क्व सर्वत्र ।
(P_3,1.84) KA_II,64.13-15 Ro_III,160 {4/6} हौ च अहौ च ।
(P_3,1.84) KA_II,64.13-15 Ro_III,160 {5/6} किम् प्रयोजनम् ।
(P_3,1.84) KA_II,64.13-15 Ro_III,160 {6/6} महीअस्कभायत् यः अस्कभायत् उद्गृभायत उन्मथायत इत्यर्थम् ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {1/43} योगविभागः कर्तव्यः ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {2/43} व्यत्ययः भवति स्यादीनाम् इति ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {3/43} आण्डा शुष्णस्य भॄदति ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {4/43} भिनत्ति इति प्राप्ते ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {5/43} सः च न मरति ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {6/43} मिर्यते इति प्राप्ते ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {7/43} ततः बहुलम्। बहुलम् छन्दसि विषये सर्वे विधयः भवन्ति इति ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {8/43} सुपाम् व्यत्ययः ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {9/43} तिङाम् व्यत्ययः ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {10/43} वर्णव्यत्ययः ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {11/43} लिङ्गव्यत्ययः ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {12/43} कालव्यत्ययः ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {13/43} पुरुषव्यत्ययः ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {14/43} आत्मनेपदव्यत्ययः ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {15/43} परस्मैपदव्यत्ययः ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {16/43} सुपाम् व्यत्ययः ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {17/43} युक्ता माता आसीत् धुरि दक्षिणायाः ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {18/43} दक्षिणायाम् इति प्राप्ते ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {19/43} तिङाम् व्यत्ययः ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {20/43} चषालम् ये अश्वयूपाय तक्षति ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {21/43} तक्षन्ति इति प्राप्ते ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {22/43} वर्णव्यत्ययः ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {23/43} त्रिष्टुभौजः शुभितम् उग्रवीरम् ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {24/43} सुहितम् इति प्राप्ते ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {25/43} लिङ्गव्यत्ययः ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {26/43} मधोः गृह्णाति ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {27/43} मधोः तृप्ताः इव आसते ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {28/43} मधुनः इति प्राप्ते ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {29/43} कालव्यत्ययः ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {30/43} श्वः अग्नीन् आधास्यमानेन ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {31/43} श्वः सोमेन यक्ष्यमाणेन ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {32/43} आधाता यष्टा इति एवम् प्राप्ते ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {33/43} पुरुषव्यत्ययः ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {34/43} अधा सः वीरैः दशभिः वियूयाः ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {35/43} वियूयात् इति प्राप्ते ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {36/43} आत्मनेपदव्यत्ययः ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {37/43} ब्रह्म्नचारिणम् इच्छते ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {38/43} इच्छति इति प्राप्ते ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {39/43} परस्मैपदव्यत्ययः ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {40/43} प्रतीपम् अन्यः ऊर्मिः युध्यति ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {41/43} युध्यते इति प्राप्ते ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {42/43} सुप्तिङुपग्रहलिङ्गनराणाम् काल्हलच्स्वरकर्तृयङाम् च व्यत्ययम् इच्छति शास्त्रकृत् एषाम् ।
(P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 {43/43} सः अपि च सिध्यति बाहुलकेन ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {1/27} अयम् आशिषि अङ् विधीयते ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {2/27} तस्य किम् प्रयोजनम् ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {3/27} आशिषि अङः प्रयोजनम् स्थागागमिवचिविदयः ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {4/27} स्था ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {5/27} उप स्थेषम् वृषभम् ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {6/27} स्था ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {7/27} गा ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {8/27} अञ्जसा सत्यम् उप गेषम् ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {9/27} गा ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {10/27} गमि ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {11/27} यज्ञेन प्रतिष्ठाम् गमेयम् ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {12/27} गमि ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {13/27} वचि ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {14/27} मन्त्रम् वोचेम अग्नये ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {15/27} वचि ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {16/27} विदि ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {17/27} विदेयम् एनाम् मनसि प्रविष्टाम् ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {18/27} शकिरुहोः च इति वक्तव्यम् ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {19/27} शकेम त्वा समिधम् ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {20/27} अस्रवन्तीम् आ रुहेम स्वस्तये ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {21/27} दृशोः अक् पितरम् च दृशेयम् मातरम् च ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {22/27} दृशोः अक् वक्तव्यः पितरम् च दृशेयम् मातरम् च इति एवमर्थम् ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {23/27} इह उपस्थेयाम इति आट् अपि वक्तव्यः ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {24/27} न हि अङा एव सिध्यति ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {25/27} न वक्तव्यः ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {26/27} सार्वधातुकत्वात् सलोपः आर्धधातुकत्वात् एत्वम् ।
(P_3,1.86) KA_II,65.8-20 Ro_III,161-162 {27/27} द्तत्र उभयलिङ्गत्वात् सिद्धम् ।
(P_3,1.87.1) KA_II,66.2-8 Ro_III,162-164 {1/15} वत्करणम् किमर्थम् ।
(P_3,1.87.1) KA_II,66.2-8 Ro_III,162-164 {2/15} स्वाश्रयम् अपि यथा स्यात् ।
(P_3,1.87.1) KA_II,66.2-8 Ro_III,162-164 {3/15} भिद्यते कुशूलेन इति ।
(P_3,1.87.1) KA_II,66.2-8 Ro_III,162-164 {4/15} अकर्मकाणाम् भावे लः भवति इति लः यथा स्यात् ।
(P_3,1.87.1) KA_II,66.2-8 Ro_III,162-164 {5/15} कर्मणा इति किमर्थम् ।
(P_3,1.87.1) KA_II,66.2-8 Ro_III,162-164 {6/15} करणाधिकरणाभ्याम् तुल्यक्रियः कर्ता यः सः कर्मवत् मा भूत् ।
(P_3,1.87.1) KA_II,66.2-8 Ro_III,162-164 {7/15} साधु असिः छिनत्ति ।
(P_3,1.87.1) KA_II,66.2-8 Ro_III,162-164 {8/15} साधु स्थाली पचति ।
(P_3,1.87.1) KA_II,66.2-8 Ro_III,162-164 {9/15} तुल्यक्रियः इति किमर्थम् ।
(P_3,1.87.1) KA_II,66.2-8 Ro_III,162-164 {10/15} पचति ओदनम् देवदत्तः ।
(P_3,1.87.1) KA_II,66.2-8 Ro_III,162-164 {11/15} तुल्यक्रियः इति उच्यमाने अपि अत्र प्राप्नोति ।
(P_3,1.87.1) KA_II,66.2-8 Ro_III,162-164 {12/15} अत्र अपि हि कर्मणा तुल्यक्रियः कर्ता ।
(P_3,1.87.1) KA_II,66.2-8 Ro_III,162-164 {13/15} न तुल्यक्रियग्रहणेन समानक्रियत्वम् अभिसम्बध्यते ।
(P_3,1.87.1) KA_II,66.2-8 Ro_III,162-164 {14/15} किम् तर्हि ।
(P_3,1.87.1) KA_II,66.2-8 Ro_III,162-164 {15/15} यस्मिन् कर्मणि कर्तृभूते अपि तद्वत् क्रिय लक्ष्यते यथा कर्मणि सः कर्मणा तुल्यक्रियः कर्ता कर्मवत् भवति इति ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {1/31} कर्मवत् अकर्मकस्य कर्ता ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {2/31} अकर्मकस्य कर्ता कर्मवत् भवति इति वक्तव्यम् ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {3/31} किम् प्रयोजनम् ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {4/31} सकर्मकस्य कर्ता कर्मवत् मा भूत् इति ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {5/31} भिद्यमानः कुशूलः पात्राणि भिनत्ति ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {6/31} तथा कर्म दृष्टः चेत् समानधातौ ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {7/31} कर्म दृष्टः चेत् समानधातौ इति वक्तव्यम् ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {8/31} इह मा भूत् ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {9/31} पचति ओदनम् देवदत्तः ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {10/31} राध्यति ओधनः स्वयम् एव ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {11/31} तथा कर्मस्थभावकानम् कर्मस्थक्रियाणाम् च ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {12/31} कर्मस्थभावकानम् कर्मस्थक्रियाणाम् वा कर्ता कर्मवत् भवति इति वक्तव्यम् ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {13/31} कर्तृस्थभावकानाम् कर्तृस्थक्रियाणाम् वा कर्ता कर्मवत् मा भूत् इति ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {14/31} यत् तावत् उच्यते अकर्मकस्य कर्ता कर्मवत् भवति इति वक्तव्यम् इति ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {15/31} न वक्तव्यम् ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {16/31} वक्ष्यति एतत् ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {17/31} सकर्मकाणाम् प्रतिषेधः अन्योन्यम् आश्लिष्यतः इति ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {18/31} यत् अपि उच्यते कर्म दृष्टः चेत् समानधातौ इति वक्तव्यम् इति ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {19/31} न वक्तव्यम् ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {20/31} धातोः इति वर्तते ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {21/31} धातोः कर्मणः कतुर्ः अयम् कर्मवद्भावः अतिदिश्यते ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {22/31} तत्र सम्बन्धात् एतत् गन्तव्यम् यस्य धातोः यत् कर्म तस्य चेत् कर्ता स्यात् इति ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {23/31} तत् यथा धातोः कर्मणि अण् भवति इति ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {24/31} तत्र सम्बन्धात् एतत् गम्यते यस्य धातोः यत् कर्म इति ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {25/31} इह मा भूत् ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {26/31} आहर कुम्भम् करोति कटम् इति ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {27/31} यत् अपि उच्यते कर्मस्थभावकानम् कर्मस्थक्रियाणाम् वा कर्ता कर्मवत् भवति इति वक्तव्यम् ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {28/31} कर्तृस्थभावकानाम् कर्तृस्थक्रियाणाम् वा कर्ता कर्मवत् मा भूत् इति ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {29/31} न वक्तव्यम् ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {30/31} कर्मस्थया क्रियया अयम् कर्तारम् उपमिमीते ।
(P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 {31/31} न च कर्तृस्थभावकानाम् कर्तृस्थक्रियाणाम् वा कर्मणि क्रियायाः प्रवृत्तिः अस्ति ।
(P_3,1.87.3) KA_II,67.3-9 Ro_III,167 {1/14} किम् पुनः कर्मकर्तरि कर्माश्रयम् एव भवति आहोस्वित् कर्त्राश्रयम् अपि ।
(P_3,1.87.3) KA_II,67.3-9 Ro_III,167 {2/14} किम् च अतः ।
(P_3,1.87.3) KA_II,67.3-9 Ro_III,167 {3/14} यदि कर्माश्रयम् एव चङ्शप्कृद्विधयः न सिध्यन्ति ।
(P_3,1.87.3) KA_II,67.3-9 Ro_III,167 {4/14} चङ् ।
(P_3,1.87.3) KA_II,67.3-9 Ro_III,167 {5/14} अचीकरत कटः स्वयम् एव ।
(P_3,1.87.3) KA_II,67.3-9 Ro_III,167 {6/14} शप् ।
(P_3,1.87.3) KA_II,67.3-9 Ro_III,167 {7/14} नमते दण्डः स्वयम् एव ।
(P_3,1.87.3) KA_II,67.3-9 Ro_III,167 {8/14} कृद्विधिः ।
(P_3,1.87.3) KA_II,67.3-9 Ro_III,167 {9/14} भिदुरम् काष्ठम् स्वयम् एव ।
(P_3,1.87.3) KA_II,67.3-9 Ro_III,167 {10/14} अथ कर्त्राश्रयम् अपि सिद्धम् एतत् भवति ।
(P_3,1.87.3) KA_II,67.3-9 Ro_III,167 {11/14} किम् तर्हि इति ।
(P_3,1.87.3) KA_II,67.3-9 Ro_III,167 {12/14} आत्मनेपदशबादिविधिप्रतिषेधः ।
(P_3,1.87.3) KA_II,67.3-9 Ro_III,167 {13/14} आत्मनेपदम् विधेयम् शबादीनाम् च प्रतिषेधः वक्तव्यः ।
(P_3,1.87.3) KA_II,67.3-9 Ro_III,167 {14/14} उभयम् क्रियते न्यासे एव ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {1/68} किमर्थम् पुनः इदम् उच्यते ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {2/68} कर्मकर्तरि कर्तृत्वम् स्वातन्त्र्यस्य विवक्षितत्वात् । कर्मकर्तरि कर्तृत्वम् अस्ति ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {3/68} कुतः ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {4/68} स्वातन्त्र्यस्य विवक्षितत्वात् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {5/68} स्वातन्त्र्येण एव अत्र कर्ता विवक्षितः ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {6/68} किम् पुनः सतः स्वातन्त्र्यस्य विवक्षा आहोस्वित् विवक्षामात्रम् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {7/68} सतः इति आह ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {8/68} कथम् ज्ञायते ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {9/68} भिद्यते कुशूलेन इति ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {10/68} न च अन्यः कर्ता दृश्यते क्रिया च उपलभ्यते ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {11/68} किम् च भोः विग्रहवता एव क्रियायाः कर्त्रा भवितव्यम् न पुनः वातातपकालाः अपि कर्तारः स्युः ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {12/68} भवेत् सिद्धम् यदि वातातपकालानाम् अन्यतमः कर्ता स्यात् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {13/68} यः तु खलु निवाते निरभिवर्षे अचिरकालकृतः कुशूलः भिद्यते तस्य न अन्यः कर्ता भवति अन्यत् अतः कुशूलात् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {14/68} यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र अन्यः कर्ता न अस्ति इह तु कथम् न स्यात् लूयते केदारः स्वयम् एव इति यत्र असु देवदत्तः दात्रहस्तः समन्ततः विपरिपतन् दृश्यते ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {15/68} अत्र अपि या असौ सुकरता नाम तस्याः न अन्यत् कर्ता भवति अन्यत् अतः केदारात् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {16/68} अस्ति प्रयोजनम् एतत् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {17/68} किम् तर्हि इति ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {18/68} तत्र लान्तस्य कर्मवदनुदेशः ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {19/68} तत्र लान्तस्य कर्मवदनुदेशः कर्तव्यः ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {20/68} लान्तस्य कर्ता कर्मवत् भवति इति वक्तव्यम् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {21/68} इतरथा हि कृत्यक्तखलर्थेषु प्रतिषेधः ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {22/68} अक्रियमाणे हि लग्रहणे कृत्यक्तखलर्थेषु प्रतिषेधः वक्तव्यः स्यात् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {23/68} कृत्य ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {24/68} भेत्तव्यः कुशूलः इति कर्म ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {25/68} सः यदा स्वातन्त्र्येण विवक्षितः तदा अस्य कर्मवद्भावः स्यात् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {26/68} तस्य प्रतिषेधः वक्तव्यः ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {27/68} तस्मिन् प्रतिषिद्धि अकर्मकाणाम् भावे कृत्या भवन्ति इति भावे यथा स्यात् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {28/68} भेत्तव्यम् कुशूलेन इति ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {29/68} क्त ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {30/68} भिन्नः कुशूलः इति कर्म ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {31/68} सः यदा स्वातन्त्र्येण विवक्षितः तदा अस्य कर्मवद्भावः स्यात् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {32/68} तस्य प्रतिषेधः वक्तव्यः ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {33/68} तस्मिन् प्रतिषिद्धि अकर्मकाणाम् भावे क्तः भवति इति भावे क्तः यथा स्यात् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {34/68} भिन्नम् कुशूलेन ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {35/68} खलर्थः ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {36/68} ईषद्भेद्यः कुशूलः इति कर्म ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {37/68} सः यदा स्वातन्त्र्येण विवक्षितः तदा अस्य कर्मवद्भावः स्यात् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {38/68} तस्य प्रतिषेधः वक्तव्यः ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {39/68} तस्मिन् प्रतिषिद्धे अकर्मकाणाम् भावे खल् भवति इति भावे यथा स्यात् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {40/68} ईषद्भेद्यम् कुशूलेन इति ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {41/68} तत् तर्हि लग्रहणम् कर्तव्यम् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {42/68} न कर्तव्यम् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {43/68} क्रियते न्यासे एव ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {44/68} लिङि आशिषि अङ् इति द्विलकारकः निर्देशः ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {45/68} सिद्धम् तु प्राकृतकर्मत्वात् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {46/68} सिद्धम् एतत् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {47/68} कथम् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {48/68} प्राकृतकर्मत्वात् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {49/68} प्राकृतम् एव एतत् कर्म यथा कटम् करोति शकटम् करोति ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {50/68} कथम् पुनः ज्ञायते प्राकृतम् एव एतत् कर्म इति ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {51/68} आत्मसंयोगे अकर्मकर्तुः कर्मदर्शनात् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {52/68} आत्मसंयोगे अकर्मकर्तुः कर्म दृश्यते ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {53/68} क्व ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {54/68} हन्ति आत्मानम् ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {55/68} हन्यत आत्मना इति ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {56/68} विषमः उपन्यासः ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {57/68} हन्ति आत्मानम् इति कर्म दृश्यते ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {58/68} कर्ता न दृश्यते ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {59/68} आत्मना हन्यते इति कर्ता दृश्यते ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {60/68} कर्म न दृश्यते ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {61/68} पदलोपः च ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {62/68} पदलोपः च द्रष्टव्यः ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {63/68} हन्ति आत्मानम् आत्मना ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {64/68} आत्मना हन्यते आत्मा इति ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {65/68} कः पुनः आत्मानम् हन्ति कः वा आत्मना हन्यते ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {66/68} द्वौ आत्मानौ अन्तरात्मा शरीरात्मा च ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {67/68} अन्तरात्मा तत् कर्म करोति येन शरीरात्मा सुखदुःके अनुभवति ।
(P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 {68/68} शरीरात्मा तत् कर्म करोति येन अन्तरात्मा सुखदुःके अनुभवति ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {1/74} सकर्मकाणाम् प्रतिषेधः अन्योन्यम् आश्लिष्यतः इति ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {2/74} सकर्मकाणाम् प्रतिषेधः वक्तव्यः ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {3/74} किम् प्रयोजनम् ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {4/74} अन्योन्यम् आश्लिष्यतः ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {5/74} अन्योन्यम् संस्पृशतः ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {6/74} अन्योन्यम् गृह्णीतः इति ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {7/74} तपेः वा सकर्मकस्य वचनम् नियमार्थम् ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {8/74} तपेः वा सकर्मकस्य वचनम् नियमार्थम् भविष्यति ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {9/74} तपेः एव सकर्मकस्य न अन्यस्य सकर्मकस्य इति ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {10/74} तस्य तर्हि अन्यकर्मकस्य अपि प्राप्नोति ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {11/74} उत्तपति सुवर्णम् सुवर्णकारः ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {12/74} उत्तप्यमानम् सुवर्णम् सुवर्णकारम् उत्तपति ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {13/74} तस्य च तपःकर्मकस्य एव ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {14/74} तस्य च तपःकर्मकस्य एव कर्ता कर्मवत् भवति न अन्यकर्मकस्य इति ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {15/74} किम् इदम् तपः इति ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {16/74} तपेः अयम् औणादिकः अस्कारः भावसाधनः ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {17/74} कः प्रकृत्यर्थः कः प्रत्ययार्थः ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {18/74} सः एव सन्तपः ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {19/74} कथम् पुनः सः एव नाम प्रकृत्यर्थः स्यात् सः एव प्रत्ययार्थः ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {20/74} सामान्यतपेः अवयवतपिः कर्म भवति ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {21/74} तत् यथा ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {22/74} सः एतान् पोषान् अपुष्यत् गोपोषम् अश्वपोषम् रैपोषम् इति ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {23/74} सामान्यपुषेः अवयविपुषिः कर्म भवति ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {24/74} एवम् इह अपि सामान्यतपेः अवयवतपिः कर्म भवति ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {25/74} दुहिपच्योः बहुलम् सकर्मकयोः ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {26/74} दुहिपच्योः सकर्मकयोः कर्ता बहुलम् कर्मवत् भवति इति वक्तव्यम् ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {27/74} दुग्धे गौः पयः ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {28/74} तस्मात् उदुम्बरः सः लोहितम् फलम् पच्यते ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {29/74} बहुलवचनम् किमर्थम् ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {30/74} परस्मैपदार्थम् ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {31/74} यदि एवम् न अर्थः बहुलवचनेन ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {32/74} न हि परस्मैपदम् इष्यते ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {33/74} सृजियुज्योः श्यन् तु ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {34/74} सृजियुज्योः सकर्मकयोः कर्ता बहुलम् कर्मवत् भवति इति वक्तव्यम् ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {35/74} श्यन् तु भवति ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {36/74} सृजेः श्रद्धोपपन्ने कर्तरि कर्मवद्भावः वाच्यः चिणात्मनेपदार्थः ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {37/74} सृज्यते मालाम् ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {38/74} असर्जि मालाम् ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {39/74} यजेः तु न्याय्ये कर्मकर्तरि यकः अभावाय ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {40/74} युज्यते ब्रह्मचारी योगम् ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {41/74} करणेन तुल्यक्रियः कर्ता बहुलम् ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {42/74} करणेन तुल्यक्रियः कर्ता बहुलम् कर्मवत् भवति इति वक्तव्यम् ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {43/74} परिवारयन्ति कण्टकैः वृक्षम् ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {44/74} परिवारयन्ते कण्टकाः वृक्षम् इति ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {45/74} स्रवत्यादीनाम् प्रतिषेधः ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {46/74} स्रवत्यादीनाम् प्रतिषेधः वक्तव्यः ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {47/74} स्रवति कुण्डिका उदकम् ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {48/74} स्रवति कुण्डिकायाः उदकम् ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {49/74} स्रवन्ति वलीकानि उदकम् ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {50/74} स्रवति वलीकेभ्यः उदकम् इति ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {51/74} सः तर्हि प्रतिषेधः वक्तव्यः ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {52/74} न वक्तव्यः ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {53/74} तुल्यक्रियः इति उच्यते ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {54/74} क्रियान्तरम् च अत्र गम्यते ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {55/74} इह तावत् स्रवति कुण्डिका उदकम् इति ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {56/74} विसृजति इति गम्यते ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {57/74} स्रवति कुण्डिकायाः उदकम् इति ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {58/74} निष्क्रामति इति गम्यते ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {59/74} स्रवन्ति वलीकानि उदकम् इति ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {60/74} विसृजन्ति इति गम्यते ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {61/74} स्रवति वलीकेभ्यः उदकम् इति ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {62/74} पतति इति गम्यते ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {63/74} भूषाकर्मकिरतिसनाम् च अन्यत्र आत्मनेपदात् ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {64/74} भूषाकर्मकिरतिसनाम् च प्रतिषेधः वक्तव्यः अन्यत्र आत्मनेपदात् ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {65/74} भूषयते कन्या स्वयम् एव ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {66/74} अबुभूषत कन्या स्वयम् एव ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {67/74} मण्डयते कन्या स्वयम् एव ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {68/74} अममण्डत कन्या स्वयम् एव ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {69/74} किरति ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {70/74} अवकिरते हस्ती स्वयम् एव ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {71/74} अवाकीर्ष्ट हस्ती स्वयम् एव ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {72/74} सन् ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {73/74} चिकीर्षते कटः स्वयम् एव ।
(P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 {74/74} अचिकीर्षिष्ट कटः स्वयम् एव ।
(P_3,1.89) KA_II,70.9-15 Ro_III,176-177 {1/15} यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् ।
(P_3,1.89) KA_II,70.9-15 Ro_III,176-177 {2/15} यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,1.89) KA_II,70.9-15 Ro_III,176-177 {3/15} णि ।
(P_3,1.89) KA_II,70.9-15 Ro_III,176-177 {4/15} कारयते कटः स्वयम् एव ।
(P_3,1.89) KA_II,70.9-15 Ro_III,176-177 {5/15} अचीकरत कटः स्वयम् एव ।
(P_3,1.89) KA_II,70.9-15 Ro_III,176-177 {6/15} णि ।
(P_3,1.89) KA_II,70.9-15 Ro_III,176-177 {7/15} श्रि ।
(P_3,1.89) KA_II,70.9-15 Ro_III,176-177 {8/15} उच्छ्रयते दण्डः स्वयम् एव ।
(P_3,1.89) KA_II,70.9-15 Ro_III,176-177 {9/15} उदशिश्रियत दण्डः स्वयम् एव ।
(P_3,1.89) KA_II,70.9-15 Ro_III,176-177 {10/15} श्रि ।
(P_3,1.89) KA_II,70.9-15 Ro_III,176-177 {11/15} ब्रूञ् ।
(P_3,1.89) KA_II,70.9-15 Ro_III,176-177 {12/15} ब्रूते कथा स्वयम् एव ।
(P_3,1.89) KA_II,70.9-15 Ro_III,176-177 {13/15} अवोचत कथा स्वयम् एव ।
(P_3,1.89) KA_II,70.9-15 Ro_III,176-177 {14/15} भारद्वाजीयाः पठन्ति ।
(P_3,1.89) KA_II,70.9-15 Ro_III,176-177 {15/15} यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञात्मनेपदाकर्मकाणाम् उपसङ्ख्यानम् इति ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {1/57} कुषिरजोः श्यन्विधाने सार्वधातुकवचनम् ।कुषिरजोः श्यन्विधाने सार्वधातुकग्रहणम् कर्तव्यम् ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {2/57} अवचने हि लिङ्लिटोः प्रतिषेधः ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {3/57} अक्रियमाणे हि सार्वधातुकग्रहणे लिङ्लिटोः प्रतिषेधः वक्तव्यः स्यात् ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {4/57} चुकुषे पादः स्वयम् एव ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {5/57} ररञ्जे वस्त्रम् स्वयम् एव ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {6/57} कोषिषीष्ट पादः स्वयम् एव ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {7/57} रङ्क्षीष्ट वस्त्रम् स्वयम् एव ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {8/57} क्रियमाणे अपि सार्वधातुकग्रहणे इह प्राप्नोति ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {9/57} कति इह कुष्णाणाः पादाः ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {10/57} श्यना च स्यादीनाम् बाधनम् प्राप्नोति ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {11/57} कोषिष्यते पादः स्वयम् एव ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {12/57} रङ्क्ष्यते वस्त्रम् स्वयम् एव ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {13/57} अकोषि पादः स्वयम् एव ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {14/57} अरञ्जि वस्त्रम् स्वयम् एव ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {15/57} यत् तावत् उच्यते सार्वधातुकग्रहणम् कर्तव्यम् इति ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {16/57} प्रकृतम् अनुवर्तते ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {17/57} क्व प्रकृतम् ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {18/57} सार्वधातुके यक् इति ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {19/57} यदि तत् अनुवर्तते पूर्वस्मिन् योगे किम् समुच्चयः ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {20/57} ले च सार्वधातुके च इति ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {21/57} आहोस्वित् लग्रहणम् सार्वधातुकविशेषणम् ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {22/57} किम् च अतः ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {23/57} यदि समुच्चयः कति इह भिन्दानाः कुशूलाः इति अत्र अपि प्राप्नोति ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {24/57} अथ लग्रहणम् सार्वधातुकविशेषणम् लिङ्लिटोः न सिध्यति ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {25/57} बिभिदे कुशूलः स्वयम् एव ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {26/57} भित्सीष्ट कुशूलः स्वयम् एव इति ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {27/57} अस्तु लग्रहणम् सार्वधातुकविशेषणम् ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {28/57} ननु च उक्तम् लिङ्लिटोः न सिध्यति इति ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {29/57} लिङ्लिड्ग्रहणम् अपि प्रकृतम् अनुवर्तते ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {30/57} क्व प्रकृतम् ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {31/57} कास् प्रत्ययात् आम् अमन्त्रे लिटि लिङि आशिषि आङ् इति ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {32/57} एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् कति इह कुष्णाणाः पादाः इति प्राप्नोति ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {33/57} अत्र अपि लविशिष्टम् सार्वधातुकग्रहणम् अनुवर्तते ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {34/57} यत् अपि उच्यते श्यना च स्यादीनाम् बाधनम् प्राप्नोति ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {35/57} यक्प्रतिषेधसम्बन्धेन श्यनं वक्ष्यामि ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {36/57} न दुहस्नुनमाम् यक्चिणौ ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {37/57} ततः कुषिरजोः प्राचाम् यक्चिणौ न भवतः ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {38/57} ततः श्यन् परस्मैपदम् च इति ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {39/57} यथा एव तर्हि यकः विषये श्यन् भवति एवम् चिणः अपि विषये प्राप्नोति ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {40/57} अकोषि पादः स्वयम् एव ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {41/57} अरञ्जि वस्त्रम् स्वयम् एव इति ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {42/57} एवम् तर्हि द्वितीयः योगविभागः करिष्यते ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {43/57} न दुहस्नुनमाम् चिण् भवति ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {44/57} ततः यक् ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {45/57} यक् च न भवति दुहस्नुनमाम् ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {46/57} ततः कुषिरजोः प्राचाम् यक् न भवति ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {47/57} ततः श्यन् परस्मैपदम् च ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {48/57} अथ वा अनुवृत्तिः करिष्यते ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {49/57} स्यतासी लृलुटोः ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {50/57} च्लि लुङि ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {51/57} च्लेः सिच् भवति ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {52/57} कर्तरि शप् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {53/57} कुषिरजोः प्राचाम् श्यन् परस्मैपदम् च स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति इति ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {54/57} अथ वा अन्तरङ्गाः स्यादयः ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {55/57} का अन्तरङ्गता ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {56/57} लकारावस्थायाम् एव स्यादयः ।
(P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 {57/57} सार्वधातुके श्यन् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {1/95} आ कुतः अयम् धात्वधिकारः ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {2/95} किम् प्राक् लादेशात् आहोस्वित् आ तृतीयाध्यायपरिसमाप्तेः ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {3/95} धातुवधिकारः प्राक् लादेशात् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {4/95} प्राक् लादेशात् धात्वधिकारः ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {5/95} लादेशे हि व्यवहितत्वात् अप्रसिद्धिः ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {6/95} अनुवर्तमाने हि लादेशे धात्वधिकारे व्यवहितव्ता अप्रसिद्धिः स्यात् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {7/95} किम् च स्यात् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {8/95} आद्ये योगे न व्यवाये तिङः स्युः । आद्ये योगे विकरणैः व्यवहितत्वात् तिङः न स्युः ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {9/95} पचति पठति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {10/95} इदम् इह सम्प्रधार्यम् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {11/95} विकरणाः क्रियन्ताम् आडेशाः इति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {12/95} किम् अत्र कर्तव्यम् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {13/95} परत्वात् आदेशाः ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {14/95} नित्याः विकरणाः ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {15/95} कृतेषु आदेशेषु प्राप्नुवन्ति अकृतेषु अपि प्राप्नुवन्ति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {16/95} नित्यत्वात् विकरणेषु कृतेषु विकरणैः व्यवहितत्वात् आदेशाः न प्राप्नुवन्ति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {17/95} अनवकाशः तर्हि आदेशाः ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {18/95} सावकाशाः आदेशाः ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {19/95} कः अवकाशः ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {20/95} ये एते लुग्विकरणाः श्लुविकरणाः च लिङ्लिटौ च ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {21/95} न स्यात् एत्वम् टेः टिताम् यत् विधत्ते ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {22/95} यत् च टित्सञ्ज्ञानाम् एत्वम् विधत्ते तत् च विकरणैः व्यवहितत्वात् न स्यात् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {23/95} एशः शित्त्वम् । एकारः च शित् कर्तव्यः ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {24/95} किम् प्रयोजनम् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {25/95} शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {26/95} अक्रियमाणे हि शकारे तस्मात् इति उत्तरस्य आदेः इति तकारस्य एत्वे कृते द्वयोः एकारयोः श्रवणम् प्रसज्येत ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {27/95} निवृत्ते पुनः लादेशे धात्वधिकारे अलः अन्त्यस्य विधयः भवन्ति इति एकारस्य एकार्वचनने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण अपि शकारम् सर्वादेशः भविष्यति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {28/95} यत् च लोटः विधत्ते ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {29/95} तत् च विकरणैः व्यवहितत्वात् न स्यात् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {30/95} किम् पुनः तत् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {31/95} लोटः लङ्वत् एः उः सेः हि अपित् च वा छन्दसि इति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {32/95} यत् च अपि उक्तम् लङ्लिङोः तत् च न स्यात् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {33/95} किम् पुनः तत् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {34/95} नित्यम् ङितः इतः च तस्थस्थमिपाम् ताम्तम्तामः लिङः सीयुट् यासुट् परस्मैपदेषु उदात्तः ङित् च इति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {35/95} तस्मात् प्राक् लादेशात् धात्वधिकारः ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {36/95} यदि प्राक् लादेशात् धात्वधिकारः अकारः शित् कर्तव्यः ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {37/95} किम् प्रयोजनम् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {38/95} शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {39/95} अनुवर्तमाने पुनः लादेशे धात्वधिकारे तस्मात् इति उत्तरस्य आदेः इति थकारस्य अत्वे कृते द्वयोः अकारयोः पररूपेण सिद्धम् रूपम् स्यात् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {40/95} पेच यूयम् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {41/95} चक्र यूयम् इति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {42/95} ननु च निवृत्ते अपि लादेशे धात्वधिकारे अलः अन्त्यस्य विधयः भवन्ति इति अकारस्य अकार्वचनने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण अपि शकारम् सर्वादेशः भविष्यति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {43/95} अस्ति अन्यत् अकारस्य अकारवचने प्रयोजनम् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {44/95} किम् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {45/95} वक्ष्यति एतत् तत् अकारस्य अकारवचनम् समसङ्ख्यार्थम् इति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {46/95} आर्धधातुकसञ्ज्ञायाम् धातुग्रहणम् कर्तव्यम् धातोः परस्य आर्धधातुकसञ्ज्ञा यथा स्यात् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {47/95} इह मा भूत् : वृक्ष्त्वम् वृक्षता इति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {48/95} तस्मात् लादेशे धात्वधिकारः अनुवर्त्यः ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {49/95} ननु च उक्तम् आद्ये योगे न व्यवाये तिङः स्युः इति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {50/95} न एषः दोषः ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {51/95} आनुपूर्व्यात् सिद्धम् एतत् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {52/95} न अत्र अकृतेषु आदेशेषु विकरणाः प्राप्नुवन्ति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {53/95} किम् कारणम् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {54/95} सार्वधातुके विकरणाः उच्यन्ते ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {55/95} न च अकृतेषु आदेशेषु सार्वधातुकत्वम् भवति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {56/95} ये तर्हि न एतस्मिन् विशेषे विधीयन्ते ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {57/95} के पुनः ते ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {58/95} स्यादयः ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {59/95} तत्र अपि विहितविशेषणम् धातुग्रहणम् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {60/95} धातोः विहितस्य लस्य इति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {61/95} यदि एवम् विन्दति इति णलादयः प्राप्नुवन्ति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {62/95} धातुना अत्र विहितम् विशेषयिष्यामः विदिना च आनतर्यम् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {63/95} धातोः विहितस्य लस्य विदेः अनन्तरस्य इति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {64/95} इह तर्हि अजक्षिष्यन् अजागैर्ष्यन् इति अभ्यस्तात् झेः जुस् भवति इति जुस्भावः प्राप्नोति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {65/95} अत्र अपि धातुना विहितम् विशेषयिष्यामः अभ्यस्तेन आनन्तर्यम् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {66/95} धातोः विहितस्य अभस्तात् अनन्तरस्य इति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {67/95} आतः इति अत्र कथम् विशेषयिष्यसि ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {68/95} यदि तावत् धातुग्रहणम् विहितविशेषणम् आकारग्रहणम् आनन्तर्यविशेषणम् अलुनन् इति अत्र अपि प्राप्नोति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {69/95} अथ आकारग्रहणम् विहितविशेषणम् धातुग्रहणम् आनन्तर्यविशेषणम् अपिबन् इति अत्र अपि प्राप्नोति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {70/95} अस्तु तर्हि धातुग्रहणम् विहितविशेषणम् आकारग्रहणम् आनन्तर्यविशेषणम् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {71/95} ननु च उक्तम् अलुनन् इति अत्र अपि प्राप्नोति इति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {72/95} न एषः दोषः ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {73/95} लोपे कृते न भविष्यति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {74/95} न अत्र लोपः प्राप्नोति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {75/95} किम् कारणम् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {76/95} ईत्वेन बाध्यते ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {77/95} न अत्र ईत्वम् प्राप्नोति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {78/95} किम् कारणम् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {79/95} अन्तिभावेन बाध्यते ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {80/95} न अत्र अन्तिभावः प्राप्नोति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {81/95} किम् कारणम् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {82/95} जुस्भावेन बाध्यते ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {83/95} न अत्र जुस्भावः प्राप्नोति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {84/95} किम् कारणम् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {85/95} लोपेन बाध्यते ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {86/95} लोपः ईत्वेन ईत्वम् अन्तिभावेन अन्तिभावः जुस्भावेन जुस्भावः लोपेन इति चक्रकम् अव्यवस्था प्रसज्येत ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {87/95} न अस्ति चक्रकप्रसङ्गः ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {88/95} न हि अव्यवस्थाकारिणा शास्त्रेण भवितव्यम् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {89/95} शास्त्रेण नाम व्यवस्थाकारिणा भवितव्यम् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {90/95} न च अत्र हलादिना मुहूर्तम् अपि शक्यम् अवस्थातुम् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {91/95} तावति एव अन्तिभावेन भवितव्यम् ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {92/95} अन्तिभावे कृते लोपः ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {93/95} लोपेन व्यवस्था भविष्यति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {94/95} यत् अपि उच्यते एशः शित्त्वम् इति ।
(P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 {95/95} क्रियते न्यासे एव ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {1/41} कानि पुनः अस्य योगस्य प्रयोजनानि ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {2/41} प्रयोजनम् प्रातिपदिकप्रतिषेधः ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {3/41} प्रातिपदिकप्रतिषेधः प्रयोजनम् ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {4/41} धातोः तव्यादयः यथा स्युः ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {5/41} प्रातिपदिकात् मा भूवन् इति ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {6/41} न एतत् अस्ति प्रयोजनम् ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {7/41} साधने ताव्यादयः विधीयन्ते साधनम् च क्रियायाः ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {8/41} क्रियाभावात् साधनाभावः ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {9/41} साधनाभावात् असति अपि धात्वधिकारे प्रातिपदिकात् तव्यादयः न भविष्यन्ति ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {10/41} स्वपादिषु ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {11/41} स्वपादिषु तर्हि प्रयोजनम् ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {12/41} स्वपिति ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {13/41} सुपति इति मा भूत् ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {14/41} अङ्गसञ्ज्ञा च ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {15/41} अङ्गसञ्ज्ञा च प्रयोजनम् ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {16/41} यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् इति धातोः अङ्गसञ्ज्ञा सिद्धा भवति ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {17/41} कृत्सञ्ज्ञा च ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {18/41} कृत्सञ्ज्ञा च प्रयोजनम् ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {19/41} धातुविहितस्य प्रत्ययस्य कृत्सञ्ज्ञा सिद्धा भवति ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {20/41} उपपदसञ्ज्ञा च। उपपदसञ्ज्ञा च प्रयोजनम् ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {21/41} तत्र एतस्मिन् धात्वधिकारे सप्तमीनिर्दिष्टम् उपपदस्ञ्ज्ञम् भवति इति उपपदसञ्ज्ञा सिद्धा भवति ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {22/41} कृदुपपदसञ्ज्ञे तावन् न प्रयोजनम् ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {23/41} अधिकारात् अपि एते सिद्धे ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {24/41} स्वपादिषु तर्हि अङ्गसञ्ज्ञा च प्रयोजनम् ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {25/41} धातुग्रहणम् अनर्थकम् यङ्विधौ धात्वधिकारात् ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {26/41} धातुग्रहणम् अनर्थकम् ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {27/41} किम् कारणम् ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {28/41} यङ्विधौ धात्वधिकारात् ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {29/41} यङ्विधौ धातुग्रहणम् प्रकृतम् अनुवर्तते ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {30/41} तत् च अवश्यम् अनुवर्त्यम् ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {31/41} अनधिकारे हि अङ्गसञ्ज्ञाभावः ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {32/41} अनधिकारे हि सति अङ्गसञ्ज्ञायाः अभावः स्यात् ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {33/41} करिष्यति हरिष्यति इति ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {34/41} यद् तत् अनुवर्तते चूर्णचुरादिभ्यः णिच् भवति धातोः च इति धातुमात्रात् णिच् प्राप्नोति ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {35/41} हेतुमद्वचनम् तु ज्ञापकम् अन्यत्राभावस्य ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {36/41} यत् अयम् हेतुमति च इति आह तत् ज्ञापयति आचार्यः न धातुमात्रात् णिच् भवति इति ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {37/41} इह तर्हि कण्ड्वादिभ्यः यक् भवति धातोः च इति धातुमात्रात् यक् प्राप्नोति ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {38/41} कण्ड्वादिषु च व्यपदेशिवद्वचनात् ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {39/41} यत् अयम् कण्ड्वादिभ्यः यक् भवति इति आह तत् ज्ञापयति आचार्यः न धातुमात्रात् यक् भवति इति ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {40/41} अथ वा कण्ड्वादिभ्यः धातुग्रहणेन अभिसम्भन्त्स्यामः ।
(P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 {41/41} कण्ड्वादिभ्यः धातुभ्यः इति ।
(P_3,1.92.1) KA_II,75.11-18 Ro_III,185-186 {1/11} स्थग्रहणम् किमर्थम् ।
(P_3,1.92.1) KA_II,75.11-18 Ro_III,185-186 {2/11} तत्र उपपदम् सप्तमी इति इयति उच्यमाने यत्र एव सप्तमी श्रूयते तत्र एव स्यात् : स्तम्बेरमः कर्णेजपः ।
(P_3,1.92.1) KA_II,75.11-18 Ro_III,185-186 {3/11} यत्र वा एतेन शब्देन निर्देशः क्रियते ।
(P_3,1.92.1) KA_II,75.11-18 Ro_III,185-186 {4/11} सप्तम्याम् जनेः डः इति ।
(P_3,1.92.1) KA_II,75.11-18 Ro_III,185-186 {5/11} इह न स्यात् ।
(P_3,1.92.1) KA_II,75.11-18 Ro_III,185-186 {6/11} कुम्भकारः नगरकारः ।
(P_3,1.92.1) KA_II,75.11-18 Ro_III,185-186 {7/11} स्थग्रहणे पुनः क्रियमाणे यत्र च सप्तमी श्रूयते य च न श्रूयते यत्र च एतेन शब्देन निर्देशः क्रियते यत्र च अन्येन सप्तमीस्थमात्रे सिद्धम् भवति ।
(P_3,1.92.1) KA_II,75.11-18 Ro_III,185-186 {8/11} अथ तत्रग्रहणम् किमर्थम् ।
(P_3,1.92.1) KA_II,75.11-18 Ro_III,185-186 {9/11} तत्रग्रहणम् विषयार्थम् ।
(P_3,1.92.1) KA_II,75.11-18 Ro_III,185-186 {10/11} विषयः प्रतिनिर्दिश्यते ।
(P_3,1.92.1) KA_II,75.11-18 Ro_III,185-186 {11/11} तत्र एतस्मिन् धात्वधिकारे यत् सप्तमीनिर्दिष्टम् तत् उपपदसञ्ज्ञम् भवति इति उपपदसञ्ज्ञा सिद्धा भवति ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {1/55} उपपदसञ्ज्ञायाम् समर्थवचनम् । उपपदसञ्ज्ञायाम् समर्थग्रहणम् कर्तव्यम् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {2/55} समर्थम् उपपदम् प्रत्ययस्य इति वक्तव्यम् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {3/55} इह मा भूत् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {4/55} आहर कुम्भम् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {5/55} करोति कटम् इति ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {6/55} क्रियमाणे च अपि समर्थग्रहणे महान्तम् कुम्भम् करोति इति अत्र अपि प्राप्नोति ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {7/55} न वा भवितव्यम् महाकुम्भकारः इति ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {8/55} भवैतव्यम् यदा एतत् वाक्यम् भवति ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {9/55} महान् कुम्भः महाकुम्भः महाकुम्भम् करोति इति महाकुम्भकारः ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {10/55} यदा तु एतत् वाक्यम् भवति महान्तम् कुम्भम् करोति इति तदा न भवितव्यम् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {11/55} तदा च प्राप्नोति ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {12/55} तदा मा भूत् इति ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {13/55} यत् तावत् उच्यते समर्थग्रहणम् कर्तव्यम् इति ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {14/55} न कर्तव्यम् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {15/55} धातोः इति वर्तते ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {16/55} धातोः कर्मणि अण् भवति ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {17/55} तत्र सम्बन्धात् एतत् गन्तव्यम् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {18/55} यस्य धातोः यत् कर्म इति ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {19/55} यत् अपि उच्यते क्रियमाणे च अपि समर्थग्रहणे महान्तम् कुम्भम् करोति इति अत्र अपि प्राप्नोति इति ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {20/55} उपपदम् इति महतीइहम् सञ्ज्ञा क्रियते ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {21/55} सञ्ज्ञा च नाम यतः न लघीयः ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {22/55} कुतः एतत् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {23/55} लघ्वर्थम् हि सञ्ज्ञाकरणम् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {24/55} तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत : उपोच्चारि पदम् उपपदम् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {25/55} यत् च अत्र उपोच्चारि न तत् पदम् यत् च पदम् न तत् उपोच्चारि ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {26/55} यावता च इदानीम् पदगन्धः अस्ति पदविधिः अयम् भवति ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {27/55} पदविधिः च समर्थानाम् भवति ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {28/55} तत्र असामार्थ्यान् न भविष्यति ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {29/55} अथ च्व्यन्ते उपपदे किम् अणा भवितव्यम् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {30/55} अकुम्भम् कुम्भम् करोति कुम्भीकरोति मृदम् इति ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {31/55} न भवितव्यम् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {32/55} किम् कारणम् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {33/55} प्रकृतिविवक्षायाम् च्विः विधीयते ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {34/55} तत् सापेक्षम् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {35/55} सापेक्षम् च असमर्थम् भवति ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {36/55} न तर्हि इदानीम् इदम् भवति : इच्छामि अहम् काशकटीकारम् इति ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {37/55} इष्टम् एव एतत् गोनर्दीयस्य ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {38/55} निमित्तोपादनम् च ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {39/55} निमित्तोपादनम् च कर्तव्यम् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {40/55} निमित्तम् उपपदम् प्रत्ययस्य इति वक्तव्यम् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {41/55} अनुपादाने हि अनुपपदे प्रत्ययप्रसङ्गः ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {42/55} अक्रियमाणे हि निमित्तोपादाने अनुपपदे अपि प्रसज्येत ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {43/55} निर्देशः इदानीम् किमर्थः स्यात् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {44/55} निर्देशः सञ्ज्ञाकरणार्थः ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {45/55} यदा उपपदे प्रत्ययः तदा उपपदसञ्ज्ञाम् वक्ष्यामि इति ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {46/55} तत् तर्हि निमित्तोपादनम् कर्तव्यम् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {47/55} न कर्तव्यम् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {48/55} तत्रवचनम् उपपदसन्नियोगार्थम् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {49/55} तत्रवचनम् क्रियते ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {50/55} तत् उपपदसन्नियोगार्थम् भविष्यति ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {51/55} कर्मणि अण् विधीयते तत्र चेत् प्रत्ययः भवति इति ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {52/55} ननु च अन्यत् तत्रग्रहणस्य प्रयोजनम् उक्तम् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {53/55} किम् ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {54/55} तत्रग्रहणम् विषयार्थम् इति ।
(P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 {55/55} अधिकारात् अपि एतत् सिद्धम् ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {1/33} अतिङ् इति किमर्थम् ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {2/33} पचति करोति ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {3/33} अतिङ् इति शक्यम् अकर्तुम् ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {4/33} कस्मात् न भवति पचति करोति इति ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {5/33} धातोः परस्य कृत्सञ्ज्ञा ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {6/33} प्राक् च लादेशात् धात्वधिकारः ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {7/33} एवम् अपि स्थानिवद्भावात् कृत्सञ्ज्ञ प्राप्नोति ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {8/33} यथा अतिङ् इति उच्यमाने यावता स्थानिवद्भावः कथम् एव एतत् सिध्यति ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {9/33} प्रतिषेधवचनसामर्थ्यात् ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {10/33} अथ वा तिङ्भाविनः लकारस्य कृत्सञ्ज्ञाप्रतिषेधः ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {11/33} किम् च स्यात् यति अत्र कृत्सञ्ज्ञा स्यात् ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {12/33} कृत्प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा स्यात् ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {13/33} प्रातिपदिकात् इति स्वाद्युत्पत्तिः प्रसज्येत ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {14/33} न एषः दोषः ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {15/33} एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {16/33} ते च अत्र तिङोक्ताः एकत्वादयः इति कृत्वा उक्तार्थत्वात् न भविष्यन्ति ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {17/33} टाबादयः तर्हि तिङन्तात् मा भूवन् इति ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {18/33} स्त्रियाम् टाबादयः विधीयन्ते ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {19/33} न च तिङन्तस्य स्त्रीत्वेन योगः अस्ति ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {20/33} अणादयः तर्हि तिङन्तात् मा भूवन् इति ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {21/33} अपत्यादिषु अर्थेषु अणादयः विधीयन्ते ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {22/33} न च तिङन्तस्य अपत्यादिभिः योगः अस्ति ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {23/33} अथ अपि कथम् चित् योगः स्यात् ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {24/33} एवम् अपि न दोषः ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {25/33} आचार्यप्रवृत्तिः ज्ञापयति न तिङन्तात् अणादयः भवन्ति इति यत् अयम् क्व चित् तद्धितविधौ तिङ्ग्रहणम् करोति ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {26/33} अतिशायने तमबिष्ठनौ तिङः च इति ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {27/33} इह तर्हि पचति पठति इति ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {28/33} ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {29/33} धातोः इति वर्तते ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {30/33} एवम् अपि चिकीर्षति इति अत्र प्राप्नोति ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {31/33} अत्र अपि शपा व्यवधानम् ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {32/33} एकादेशे कृते न अस्ति व्यवधानम् ।
(P_3,1.93) KA_II,77.2-17 Ro_III,190-192 {33/33} एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव इति ।
(P_3,1.94.1) KA_II,78.2-7 Ro_III,192-193 {1/8} कथम् इदम् विज्ञायते ।
(P_3,1.94.1) KA_II,78.2-7 Ro_III,192-193 {2/8} स्त्रियाम् अभिधेयायाम् वा अस्रूपः न भवति इति आहोस्वित् स्त्रीप्रत्ययेषु इति ।
(P_3,1.94.1) KA_II,78.2-7 Ro_III,192-193 {3/8} किम् च अतः ।
(P_3,1.94.1) KA_II,78.2-7 Ro_III,192-193 {4/8} यदि स्त्रियाम् अभिधेयायाम् इति लव्या लवितव्या अत्र वा असरूपः न प्राप्नोति ।
(P_3,1.94.1) KA_II,78.2-7 Ro_III,192-193 {5/8} अथ विज्ञायते स्त्रीप्रत्ययेषु इति व्यावक्रोशी वयतिक्रुष्टिः इति न सिध्यति ।
(P_3,1.94.1) KA_II,78.2-7 Ro_III,192-193 {6/8} एवम् तर्हि न एवम् विज्ञायते स्त्रियाम् अभिधेयायाम् न अपि स्त्रीप्रत्ययेषु इति ।
(P_3,1.94.1) KA_II,78.2-7 Ro_III,192-193 {7/8} कथम् तर्हि स्त्रीग्रहणम् स्वरयिष्यते ।
(P_3,1.94.1) KA_II,78.2-7 Ro_III,192-193 {8/8} तत्र स्वरितेन अधिकारगतिः भवति इति स्त्रियाम् इति अधिकृत्य ये प्रतयाः विहिताः तेषाम् प्रतिषेधः विज्ञास्यते ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {1/117} किमर्थम् पुनः इदम् उच्यते ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {2/117} असरूपस्य वावचनम् उत्सर्गस्य बाधकविषये अनिवृत्त्यर्थम् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {3/117} असरूपस्य वावचनम् क्रियते उत्सर्गस्य बाधकविषये अनिवृत्तिः यथा स्यात् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {4/117} तव्यत्तव्यानीयरः उत्सर्गाः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {5/117} तेषाम् अजन्तात् यत् अपवादः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {6/117} चेयम् , चेतव्यम् इति अपि यथा स्यात् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {7/117} न एतत् अस्ति प्रयोजनम् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {8/117} अजन्तात् यत् विधीयते ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {9/117} हलन्तात् ण्यत् विधीयते ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {10/117} एतावन्तः च धातवः यत् उत अजन्ताः हलन्ताः च ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {11/117} उच्यन्ते च तव्यादयः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {12/117} ते वचनात् भविष्यन्ति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {13/117} एवम् तर्हि ण्वुल्तृचौ उत्सर्गौ ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {14/117} तयोः पचादिभ्यः अच् अपवादः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {15/117} पचति इति पचः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {16/117} पक्ता पाचकः इति अपि यथा स्यात् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {17/117} एतत् अपि न अस्ति प्रयोजनम् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {18/117} वक्ष्यति एतत् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {19/117} अच् अपि सर्वधातुभ्यः वक्तव्यः इति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {20/117} एवम् तर्हि ण्वुल्तृजचः उत्सर्गाः तेषाम् इगुपधात् कः अपवादः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {21/117} विक्षिपः विलिखः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {22/117} विक्षेप्ता विक्षेपकः इति अपि यथा स्यात् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {23/117} अस्ति प्रयोजनम् एतत् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {24/117} किम् तर्हि इति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {25/117} तत्र उत्पत्तिवाप्रसङ्गः यथा तद्धिते ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {26/117} तत्र उत्पत्तिः विभाषा प्राप्नोति यथा तद्धिते ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {27/117} अस्तु ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {28/117} यदा विक्षिपः विलिखः इति एतत् न तदा विक्षेप्ता विक्षेपकः इति एतत् भविष्यति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {29/117} यदि एतत् लभ्येत कृतम् स्यात् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {30/117} तत् तु न लभ्यम् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {31/117} किम् कारणम् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {32/117} यथा तद्धिते इति उच्यते ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {33/117} तद्दितेषु च सर्वम् एव उत्सर्गापवादम् विभाषा ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {34/117} उत्पद्यते वा न वा ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {35/117} सिद्धम् तु असरूपस्य बाधकस्य वावचनात् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {36/117} सिद्धम् एतत् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {37/117} कथम् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {38/117} असरूपस्य बाधकस्य वावचनात् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {39/117} असरूपः बाधकः वा बाधकः भवति इति वक्तव्यम् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {40/117} सिध्यति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {41/117} सूत्रम् तर्हि भिद्यते ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {42/117} यथान्यासम् एव अस्तु ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {43/117} ननु च उक्तम् तत्र उत्पत्तिवाप्रसङ्गः यथा तद्धिते इति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {44/117} न एषः दोषः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {45/117} अस्ति कारणम् येन तद्धिते विभाषा उत्पत्तिः भवति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {46/117} किम् कारणम् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {47/117} प्रकृतिः तत्र प्रकृत्यर्थे वर्तते ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {48/117} अन्येन शब्देन प्रत्ययार्थः अभिधीयते ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {49/117} इह पुनः न केवला प्रकृतिः प्रकृत्यर्थे वर्तते न च अन्यः शब्दः अस्ति यः तम् अर्थम् अभिदधीत इति कृत्वा अनुत्पत्तिः न भविष्यति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {50/117} अथ वा समयः कृतः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {51/117} न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्ययः इति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {52/117} एतस्मात् समयात् अनुत्पत्तिः न भविष्यति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {53/117} ननु च यः एव तस्य समयस्य कर्ता सः एव इदम् अपि आह ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {54/117} यदि असौ तत्र प्रमाणम् इह अपि प्रमाणम् भवितुम् अर्हति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {55/117} प्रमाणम् असौ तत्र च इह च ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {56/117} सामर्थ्यम् तु इह द्रष्टव्यम् प्रयोगे ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {57/117} न च अनुत्पत्तौ सामर्थ्यम् अस्ति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {58/117} तेन अनुत्पत्तिः न भविष्यति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {59/117} कथम् तर्हि तद्धितेषु अनुत्पत्तौ सामर्थ्यम् भवति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {60/117} अन्येन प्रत्ययेन सामर्थ्यम् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {61/117} केन ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {62/117} षष्ठ्या ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {63/117} अथ वा रूपवत्ताम् आश्रित्य वाविधिः उच्यते ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {64/117} न च अनुत्पत्तिः रूपवती ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {65/117} तेन अनुत्पत्तिः न भविष्यति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {66/117} एवम् अपि कुतः एतत् अपवादः विभाषा भविष्यति न पुनः उत्सर्गः इति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {67/117} न च एव अस्ति विशेषः यत् अपवादः विभाषा स्यात् उत्सर्गः वा ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {68/117} अपि च सापेक्षः अयम् निर्देशः क्रियते वा असरूपः इति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {69/117} न च उत्सर्गवेलायाम् किम् चित् अपेक्ष्यम् अस्ति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {70/117} अपवादवेलायाम् पुनः उत्सर्गः अपेक्ष्यते ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {71/117} तेन यः रूपवान् अन्यपूर्वकः बाधकः प्राप्नोति सः वा बाधकः भविष्यति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {72/117} कः पुनः असौ ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {73/117} अपवादः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {74/117} यदि यः रूपवान् अन्यपूर्वकः बाधकः प्राप्नोति सः वा बाधकः भवति इति उच्यते क्विबादिषु समावेशः न प्राप्नोति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {75/117} ग्रामणीः ग्रामणायः इति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {76/117} न हि एते रूपवन्तः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {77/117} एते अपि रूपवन्तः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {78/117} कस्याम् अवस्थायाम् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {79/117} उपदेशावस्थायाम् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {80/117} यदि एवम् अनुबन्धभिन्नेषु विभाषाप्रसङ्गः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {81/117} अनुबन्धभिन्नेषु विभाषा प्राप्नोति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {82/117} कर्मणि अण् आतः अनुपसर्गे कः इति कविषये अण् अपि प्राप्नोति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {83/117} सिद्धम् अनुबन्धस्य अनेकान्तत्वात् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {84/117} सिद्धम् एतत् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {85/117} कथम् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {86/117} अनुबन्धस्य अनेकान्तत्वात् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {87/117} अनेकान्ताः अनुबन्धाः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {88/117} अथ वा प्रयोगे असरूपाणाम् वाविधिः न्याय्यः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {89/117} प्रयोगे चेत् लादेशेषु प्रतिषेधः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {90/117} प्रयोगे चेत् लादेशेषु प्रतिषेधः वक्तव्यः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {91/117} ह्यः अपचत् इति अत्र लुङ् अपि प्राप्नोति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {92/117} श्वः पक्ता इति अत्र लृट् अपि प्राप्नोति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {93/117} न एषः दोषः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {94/117} आचार्यप्रवृत्तिः ज्ञापयति न लादेशेषु वा असरूपः भवति इति यत् अयम् हशश्वतोः लङ् च इति आह ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {95/117} अथ वा प्रयोगे असरूपाणाम् वाविधौ न सर्वम् इष्टम् सङ्गृहीतम् इति कृत्वा द्वितीयः प्रयोगः उपास्यते ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {96/117} कः असौ ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {97/117} उपदेशः नाम ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {98/117} उपदेशे च एते सरूपाः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {99/117} ननु च उक्तम् अनुबन्धभिन्नेषु विभाषाप्रसङ्गः इति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {100/117} परिहृतम् एतत् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {101/117} कथम् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {102/117} सिद्धम् अनुबन्धस्य अनेकान्तत्वात् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {103/117} अथ एकान्ते दोषः एव ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {104/117} एकान्ते च न दोषः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {105/117} आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् असारूप्यम् भवति इति यत् अयम् ददादिदधात्योः विभाषा शम् शास्ति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {106/117} अथ वा असरूपः बाधकः वा बाधकः भवति इति उच्यते ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {107/117} अपवादः नाम अनुबन्धभिन्नः वा भवति रूपान्यत्वेन वा ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {108/117} तेन अनेन अवश्यम् किम् चित् त्याज्यम् किम् चित् तु सङ्ग्रहीतव्यम् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {109/117} तत् यत् अनुबन्धकृतम् असारूप्यम् तत् न आश्रयिष्यामः यत् तु रूपान्यत्वेन असारूप्यम् तत् आश्रयिष्यामः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {110/117} अथ वा असरूपः बाधकः वा बाधकः भवति इति उच्यते सर्वः च असरूपः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {111/117} तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यः असरूपः इति ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {112/117} कः च साधीयः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {113/117} यः प्रयोगे च प्राक् च प्रयोगात् ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {114/117} अथ वा असरूपः बाधकः वा बाधकः भवति इति उच्यते ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {115/117} न च एवम् कः चित् अपि सरूपः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {116/117} ते एवम् विज्ञास्यामः : क्वत् चित् ये असरूपाः ।
(P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 {117/117} अनुबन्धभिन्नाः च प्रयोगे सरूपाः ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {1/25} अथ कथम् इदम् विज्ञायते अस्त्रियाम् इति ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {2/25} किम् स्त्रियाम् न भवति आहोस्वित् प्राक् स्त्रियाः भवति इति ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {3/25} कः च अत्र विशेषः ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {4/25} स्त्रियाम् प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषाप्रसङ्गः ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {5/25} स्त्रियाम् प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषा प्राप्नोति ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {6/25} क्त ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {7/25} हसितम् छात्रस्य्स् शोभनम् ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {8/25} घञ् अपि प्राप्नोति ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {9/25} ल्युट् ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {10/25} हसनम् छात्रस्य्स् शोभनम् ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {11/25} घञ् अपि प्राप्नोति ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {12/25} तुमुन् ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {13/25} इच्छति भोक्तुम् ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {14/25} लिङ्लोटौ अपि प्राप्नुतः ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {15/25} खलर्थः ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {16/25} ईषत्पानः सोमः भवता ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {17/25} खल् अपि प्राप्नोति ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {18/25} एवम् तर्हि स्त्रियाः प्राक् इति वक्ष्यामि ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {19/25} स्त्रियाः प्राक् इति चेत् क्त्वायाम् वावचनम् । स्त्रियाः प्राक् इति चेत् क्त्वायाम् वावचनम् कर्तव्यम् ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {20/25} आसित्वा भुङ्क्ते ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {21/25} आस्यते भोक्तुम् इति अपि यथा स्यात् ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {22/25} कालादिषु तुमुनि ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {23/25} कालादिषु तुमुनि वावचनम् कर्तव्यम् ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {24/25} कालः भोक्तुम् ।
(P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 {25/25} कालः भोजनस्य इति अपि यथा स्यात्
(P_3,1.94.4) KA_II,81.1-6 Ro_III,200 {1/11} अर्हे तृज्विधानम् ।
(P_3,1.94.4) KA_II,81.1-6 Ro_III,200 {2/11} अर्हे तृच् विधेयः ।
(P_3,1.94.4) KA_II,81.1-6 Ro_III,200 {3/11} इमे अर्हे कृत्याः विधीयन्ते ।
(P_3,1.94.4) KA_II,81.1-6 Ro_III,200 {4/11} ते विशेषविहिताः सामान्यविहितम् तृचम् बाधेरन् ।
(P_3,1.94.4) KA_II,81.1-6 Ro_III,200 {5/11} न एषः दोषः ।
(P_3,1.94.4) KA_II,81.1-6 Ro_III,200 {6/11} भावकर्मणोः कृत्याः विधीयन्ते कर्तरि तृच् ।
(P_3,1.94.4) KA_II,81.1-6 Ro_III,200 {7/11} कः प्रसङ्गः यत् भावकर्मणोः कृत्याः कर्तरि तृचम् बाधेरन् ।
(P_3,1.94.4) KA_II,81.1-6 Ro_III,200 {8/11} एवम् तर्हि अर्हे कृत्यतृज्विधानम् ।
(P_3,1.94.4) KA_II,81.1-6 Ro_III,200 {9/11} अर्हे कृत्यतृचः विधेयाः ।
(P_3,1.94.4) KA_II,81.1-6 Ro_III,200 {10/11} अयम् अर्हे लिङ् विधीयते ।
(P_3,1.94.4) KA_II,81.1-6 Ro_III,200 {11/11} सः विशेषविहितः सामान्यविहितान् कृत्यतृचः बाधेत ।
(P_3,1.95) KA_II,81.8-14 Ro_III,200 {1/8} कृत्यसञ्ज्ञायाम् प्राङ्ण्वुल्वचनम् ।
(P_3,1.95) KA_II,81.8-14 Ro_III,200 {2/8} कृत्यसञ्ज्ञायाम् प्राक् ण्वुलः इति वक्तव्यम् ।
(P_3,1.95) KA_II,81.8-14 Ro_III,200 {3/8} किम् प्रयोजनम् ।
(P_3,1.95) KA_II,81.8-14 Ro_III,200 {4/8} ण्वुलः कृत्यसञ्ज्ञा मा भूत् ।
(P_3,1.95) KA_II,81.8-14 Ro_III,200 {5/8} अर्हे कृत्यत्र्ज्वचनम् तु ज्ञापकम् प्राङ्ण्वुलवनानर्थ्यस्य ।
(P_3,1.95) KA_II,81.8-14 Ro_III,200 {6/8} यत् अयम् अर्हे कृत्यतृचः च इति तृज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः प्राक् ण्वुलः कृत्यसञ्ज्ञा भवति इति ।
(P_3,1.95) KA_II,81.8-14 Ro_III,200 {7/8} एवम् अपि ण्वुलः कृत्यसञ्ज्ञा प्राप्नोति ।
(P_3,1.95) KA_II,81.8-14 Ro_III,200 {8/8} योगापेक्षम् ज्ञापकम् ।
(P_3,1.96) KA_II,81.16-22 Ro_III,201 {1/12} केलिमरः उपसङ्ख्यानम् ।
(P_3,1.96) KA_II,81.16-22 Ro_III,201 {2/12} केलिमरः उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,1.96) KA_II,81.16-22 Ro_III,201 {3/12} पचेलिमाः माषाः ।
(P_3,1.96) KA_II,81.16-22 Ro_III,201 {4/12} पक्तव्याः ।
(P_3,1.96) KA_II,81.16-22 Ro_III,201 {5/12} भिदेलिमाः सरलाः ।
(P_3,1.96) KA_II,81.16-22 Ro_III,201 {6/12} भेत्तव्याः ।
(P_3,1.96) KA_II,81.16-22 Ro_III,201 {7/12} वसेः तव्यत् कर्तरि णित् च ।
(P_3,1.96) KA_II,81.16-22 Ro_III,201 {8/12} वसेः तव्यत् कर्तरि वक्तव्यः ।
(P_3,1.96) KA_II,81.16-22 Ro_III,201 {9/12} णित् च असौ भवति इति वक्तव्यम् ।
(P_3,1.96) KA_II,81.16-22 Ro_III,201 {10/12} वसति इति वास्तव्यः ।
(P_3,1.96) KA_II,81.16-22 Ro_III,201 {11/12} तद्धितः वा । तद्धितः वा पुनः एषः भविष्यति ।
(P_3,1.96) KA_II,81.16-22 Ro_III,201 {12/12} वास्तुनि भवः वास्तव्यः ।
(P_3,1.97.1) KA_II,82.2-10 Ro_III,202-203 {1/20} अज्ग्रहणम् किमर्थम् ।
(P_3,1.97.1) KA_II,82.2-10 Ro_III,202-203 {2/20} अजन्तात् यथा स्यात् ।
(P_3,1.97.1) KA_II,82.2-10 Ro_III,202-203 {3/20} हलन्तात् मा भूत् इति ।
(P_3,1.97.1) KA_II,82.2-10 Ro_III,202-203 {4/20} न एतत् अस्ति प्रयोजनम् ।
(P_3,1.97.1) KA_II,82.2-10 Ro_III,202-203 {5/20} हलन्तात् ण्यत् विधीयते ।
(P_3,1.97.1) KA_II,82.2-10 Ro_III,202-203 {6/20} सः बाधकः भविष्यति ।
(P_3,1.97.1) KA_II,82.2-10 Ro_III,202-203 {7/20} यथा एव तर्हि ण्यत् यतम् बाधते एवम् तव्यादीन् अपि बाधेत ।
(P_3,1.97.1) KA_II,82.2-10 Ro_III,202-203 {8/20} अज्ग्रहणे पुनः क्रियमाणे अजन्तात् यत् विधीयते हलन्तात् ण्यत् ।
(P_3,1.97.1) KA_II,82.2-10 Ro_III,202-203 {9/20} एतावन्तः च धातवः यत् उत अजन्ताः हलन्ताः च ।
(P_3,1.97.1) KA_II,82.2-10 Ro_III,202-203 {10/20} उच्यन्ते च तव्यादयः ।
(P_3,1.97.1) KA_II,82.2-10 Ro_III,202-203 {11/20} ते वचनात् भविष्यन्ति ।
(P_3,1.97.1) KA_II,82.2-10 Ro_III,202-203 {12/20} न एतत् अस्ति प्रयोजनम् ।
(P_3,1.97.1) KA_II,82.2-10 Ro_III,202-203 {13/20} वासरूपेण तव्यादयः भविष्यन्ति ।
(P_3,1.97.1) KA_II,82.2-10 Ro_III,202-203 {14/20} इदम् तर्हि प्रयोजनम् ।
(P_3,1.97.1) KA_II,82.2-10 Ro_III,202-203 {15/20} अजन्तभूतपूर्वमात्रात् अपि यथा स्यात् ।
(P_3,1.97.1) KA_II,82.2-10 Ro_III,202-203 {16/20} लव्यम् पव्यम् ।
(P_3,1.97.1) KA_II,82.2-10 Ro_III,202-203 {17/20} आर्धधातुकसामान्ये गुणे कृते यि प्रत्ययसामान्ये च वान्तादेशे कृते हलन्तात् इति ण्यत् प्राप्नोति ।
(P_3,1.97.1) KA_II,82.2-10 Ro_III,202-203 {18/20} तथा दित्स्यम् धित्स्यम् ।
(P_3,1.97.1) KA_II,82.2-10 Ro_III,202-203 {19/20} आर्धधातुकसामान्ये अकारलोपे कृते हलन्तात् इति ण्यत् प्राप्नोति ।
(P_3,1.97.1) KA_II,82.2-10 Ro_III,202-203 {20/20} अज्ग्रहणसामर्थ्यात् यत् एव भवति ।
(P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 {1/21} यति जातेः उपसङ्ख्यानम् ।
(P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 {2/21} यति जातेः उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 {3/21} जन्यम् वत्सेन ।
(P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 {4/21} अत्यल्पम् इदम् उच्यते ।
(P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 {5/21} तकिशसिचतियतिजनीनाम् उपसङ्ख्यानम् इति वक्तव्यम् ।
(P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 {6/21} तकि तक्यम् : शसि शस्यम् ।
(P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 {7/21} यति यत्यम् : जनि : जन्यम् ।
(P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 {8/21} हनः वा वध च ।
(P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 {9/21} हनः वा यत् वक्तव्यः वध इति अयम् च आदेशः वक्तव्यः ।
(P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 {10/21} वध्यः घात्यः ।
(P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 {11/21} तद्धितः वा ।
(P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 {12/21} तद्धितः वा पुनः एषः भविष्यति ।
(P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 {13/21} वधम् अर्हति वध्यः ।
(P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 {14/21} यदि तद्धितः समासः न प्राप्नोति : असिवध्यः , मुसलवध्यः इति ।
(P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 {15/21} यदि पुनः सति साधनम् कृता इति वा पादहारकाद्यर्थम् इति समासः सिद्धः भवति ।
(P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 {16/21} यदि पुनः असिवधशब्दात् उत्पत्तिः स्यात् ।
(P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 {17/21} असिवधम् अर्हति इति ।
(P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 {18/21} न एवम् शक्यम् ।
(P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 {19/21} स्वरे हि दोषः स्यात् ।
(P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 {20/21} असिवध्यः एवम् स्वरः प्रसज्येत ।
(P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 {21/21} असिवध्यः इति च इष्यते ।
(P_3,1.100) KA_II,83.2-4 Ro_III,203 {1/5} अनुपसर्गात् चरेः आङि च अगुरौ ।
(P_3,1.100) KA_II,83.2-4 Ro_III,203 {2/5} अनुपसर्गात् चरेः इति अत्र आङि च अगुरौ इति वक्तव्यम् ।
(P_3,1.100) KA_II,83.2-4 Ro_III,203 {3/5} आचर्यः देशः ।
(P_3,1.100) KA_II,83.2-4 Ro_III,203 {4/5} अगुरौ इति किमर्थम् ।
(P_3,1.100) KA_II,83.2-4 Ro_III,203 {5/5} आचार्यः उपनयमानः ।
(P_3,1.103) KA_II,83.6-7 Ro_III,203 {1/3} स्वामिनि अन्तोदात्तत्वम् च ।
(P_3,1.103) KA_II,83.6-7 Ro_III,203 {2/3} स्वामिनि अन्तोदात्तत्वम् च वक्तव्यम् ।
(P_3,1.103) KA_II,83.6-7 Ro_III,203 {3/3} आर्यः स्वामी ।
(P_3,1.105) KA_II,83.9-16 Ro_III,204-205 {1/19} सङ्गतम् इति किम् प्रत्युदाह्रियते ।
(P_3,1.105) KA_II,83.9-16 Ro_III,204-205 {2/19} अजरः कम्बलः ।
(P_3,1.105) KA_II,83.9-16 Ro_III,204-205 {3/19} अजरिता कम्बलः इति ।
(P_3,1.105) KA_II,83.9-16 Ro_III,204-205 {4/19} किम् पुनः कारणम् कर्तृसाधनः प्रत्युदाह्रियते ।
(P_3,1.105) KA_II,83.9-16 Ro_III,204-205 {5/19} न भावसाधनः प्रत्युदाहार्यः ।
(P_3,1.105) KA_II,83.9-16 Ro_III,204-205 {6/19} एवम् तर्हि अजर्यम् कर्तरि ।
(P_3,1.105) KA_II,83.9-16 Ro_III,204-205 {7/19} अजर्यम् कर्तरि इति वक्तव्यम् ।
(P_3,1.105) KA_II,83.9-16 Ro_III,204-205 {8/19} तत् तर्हि वक्तव्यम् ।
(P_3,1.105) KA_II,83.9-16 Ro_III,204-205 {9/19} न वक्तव्यम् ।
(P_3,1.105) KA_II,83.9-16 Ro_III,204-205 {10/19} गत्यर्थानाम् क्तः कर्तरि विधीयते ।
(P_3,1.105) KA_II,83.9-16 Ro_III,204-205 {11/19} तेन योगात् अजर्यम् कर्तरि भविष्यति ।
(P_3,1.105) KA_II,83.9-16 Ro_III,204-205 {12/19} गत्यर्थानाम् वै क्तः कर्मणि अपि विधीयते ।
(P_3,1.105) KA_II,83.9-16 Ro_III,204-205 {13/19} तेन योगात् अजर्यम् कर्मणि अपि प्राप्नोति ।
(P_3,1.105) KA_II,83.9-16 Ro_III,204-205 {14/19} जीर्यतिः अकर्मकः ।
(P_3,1.105) KA_II,83.9-16 Ro_III,204-205 {15/19} भावे तर्हि प्राप्नोति ।
(P_3,1.105) KA_II,83.9-16 Ro_III,204-205 {16/19} सङ्गतग्रहणम् इदानीम् किमर्थम् स्यात् ।
(P_3,1.105) KA_II,83.9-16 Ro_III,204-205 {17/19} कर्तृविशेषणम् सङ्गतग्रहणम् ।
(P_3,1.105) KA_II,83.9-16 Ro_III,204-205 {18/19} सङ्गतम् चेत् कर्तृ भवति इति ।
(P_3,1.105) KA_II,83.9-16 Ro_III,204-205 {19/19} तत् यथा हृषेः लोमसु इति लोमानि चेत् कर्तॄणि भवन्ति ।
(P_3,1.106) KA_II,83.18-84.2 {1/10} वदः सुपि अनुपसर्गग्रहणम् ।
(P_3,1.106) KA_II,83.18-84.2 {2/10} वदः सुपि अनुपसर्गग्रहणम् कर्तव्यम् ।
(P_3,1.106) KA_II,83.18-84.2 {3/10} इह मा भूत् ।
(P_3,1.106) KA_II,83.18-84.2 {4/10} प्रवाद्यम् अपवाद्यम् इति ।
(P_3,1.106) KA_II,83.18-84.2 {5/10} तत् तर्हि वक्तव्यम् ।
(P_3,1.106) KA_II,83.18-84.2 {6/10} न वक्तव्यम् ।
(P_3,1.106) KA_II,83.18-84.2 {7/10} अनुपसर्गे इति वर्तते ।
(P_3,1.106) KA_II,83.18-84.2 {8/10} एवम् तर्हि अन्वाचष्टे अनुपसर्गे इति वर्तते ।
(P_3,1.106) KA_II,83.18-84.2 {9/10} न एतत् अन्वाख्येयम् अधिकाराः अनुवर्तन्ते इति ।
(P_3,1.106) KA_II,83.18-84.2 {10/10} एषः एव न्यायः यत् उत अधिकाराः अनुवर्तेरन् इति ।
(P_3,1.107) KA_II,84.4-8 Ro_III,205-206 {1/13} भावग्रहणम् किमर्थम् ।
(P_3,1.107) KA_II,84.4-8 Ro_III,205-206 {2/13} कर्मणि मा भूत् इति ।
(P_3,1.107) KA_II,84.4-8 Ro_III,205-206 {3/13} न एतत् अस्ति प्रयोजनम् ।
(P_3,1.107) KA_II,84.4-8 Ro_III,205-206 {4/13} भवतिः अयम् अकर्मः ।
(P_3,1.107) KA_II,84.4-8 Ro_III,205-206 {5/13} अकर्मकाः अपि वै धातवः सोपसर्गाः सकर्मकाः भवन्ति ।
(P_3,1.107) KA_II,84.4-8 Ro_III,205-206 {6/13} तेन अनुभव्यम् आमन्त्रणम् इति अत्र अपि प्राप्नोति ।
(P_3,1.107) KA_II,84.4-8 Ro_III,205-206 {7/13} एतत् अपि न अस्ति प्रयोजनम् ।
(P_3,1.107) KA_II,84.4-8 Ro_III,205-206 {8/13} अनुपसर्गे इति वर्तते ।
(P_3,1.107) KA_II,84.4-8 Ro_III,205-206 {9/13} उत्तरार्थम् तर्हि भावग्रहणम् कर्तव्यम् ।
(P_3,1.107) KA_II,84.4-8 Ro_III,205-206 {10/13} हनः त च भावे यथा स्यात् ।
(P_3,1.107) KA_II,84.4-8 Ro_III,205-206 {11/13} श्वहत्या वर्तते ।
(P_3,1.107) KA_II,84.4-8 Ro_III,205-206 {12/13} क्व मा भूत् ।
(P_3,1.107) KA_II,84.4-8 Ro_III,205-206 {13/13} श्वघात्यः वृषालः इति
(P_3,1.108) KA_II,84.10-13 Ro_III,206 {1/8} हनः तः चित् स्त्रियाम् छन्दसि ।
(P_3,1.108) KA_II,84.10-13 Ro_III,206 {2/8} हनः तः च इति अत्र चित् स्त्रियाम् छन्दसि वक्तव्यः ।
(P_3,1.108) KA_II,84.10-13 Ro_III,206 {3/8} ताम् भ्रूणहत्याम् निगृह्य अनुचरणम् ।
(P_3,1.108) KA_II,84.10-13 Ro_III,206 {4/8} अस्यै त्वाम् भ्रूणहत्यायै चतुर्थम् प्रतिगृहाण ।
(P_3,1.108) KA_II,84.10-13 Ro_III,206 {5/8} स्त्रियाम् इति किमर्थम् ।
(P_3,1.108) KA_II,84.10-13 Ro_III,206 {6/8} आघ्नते दस्युहत्याय ।
(P_3,1.108) KA_II,84.10-13 Ro_III,206 {7/8} छन्दसि इति किमर्थम् ।
(P_3,1.108) KA_II,84.10-13 Ro_III,206 {8/8} दस्युहत्या श्वहत्या वर्तते ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {1/25} क्यप् इति वर्तमाने पुनः क्यब्ग्रहणम् किमर्थम् ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {2/25} क्यप् एव यथा स्यात् ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {3/25} अन्यत् यत् प्राप्नोति तत् मा भूत् इति ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {4/25} किम् च अन्यत् प्राप्नोति ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {5/25} ण्यत् ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {6/25} ओः आवश्यके ण्यतः स्तोतेः क्यप् पूर्वविप्रतिषिद्धम् इति वक्ष्यति ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {7/25} सः पूर्वविप्रतिषेधः न पठितव्यः भवति ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {8/25} अथ वा हनः तः चित् स्त्रियाम् छन्दसि चोदितः ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {9/25} सः न वक्तव्यः भवति ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {10/25} क्यब्विधौ वृञ्ग्रहणम् । क्यब्विधौ वृञ्ग्रहणम् कर्तव्यम् ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {11/25} इह मा भूत् ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {12/25} वार्याः ऋत्विजः इति ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {13/25} अञ्जेः च उपसङ्ख्यानम् सञ्ज्ञायाम् ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {14/25} सञ्ज्ञायाम् अञ्जेः च उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {15/25} आज्यम् ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {16/25} यदि क्यप् वृद्धिः न प्राप्नोति ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {17/25} तस्मात् ण्यत् एषः ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {18/25} यदि ण्यत् उपधालोपः न प्राप्नोति ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {19/25} तस्मात् क्यप् एषः ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {20/25} ननु च उक्तम् वृद्धिः न प्राप्नोति इति ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {21/25} आङ्पूर्वस्य एषः प्रयोगः भविष्यति ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {22/25} यदि एवम् अवग्रहः प्राप्नोति ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {23/25} न लक्षणेन पदकाराः अनुवर्त्याः ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {24/25} पद्कारैः नाम लक्षणम् अनुवर्त्यम् ।
(P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 {25/25} यथालक्षणम् पदम् कर्तव्यम् ।
(P_3,1.111) KA_II,85.7-10 Ro_III,207-208 {1/9} दीर्घोच्चारणम् किमर्थम् न इ च खनः इति एव उच्येत ।
(P_3,1.111) KA_II,85.7-10 Ro_III,207-208 {2/9} का रूपसिद्धिः : खेयम् ।
(P_3,1.111) KA_II,85.7-10 Ro_III,207-208 {3/9} आद्गुणेन सिद्धम् ।
(P_3,1.111) KA_II,85.7-10 Ro_III,207-208 {4/9} न सिध्यति ।
(P_3,1.111) KA_II,85.7-10 Ro_III,207-208 {5/9} षत्वतुकोः असिद्धः एकादेशः इति एकादेशस्य असिद्धत्वात् तुक् प्रसज्येत ।
(P_3,1.111) KA_II,85.7-10 Ro_III,207-208 {6/9} न एतत् अस्ति ।
(P_3,1.111) KA_II,85.7-10 Ro_III,207-208 {7/9} पदान्तपदाद्योः एकादेशः असिद्धः ।
(P_3,1.111) KA_II,85.7-10 Ro_III,207-208 {8/9} न च एषः पदान्तपदाद्योः एकादेशः ।
(P_3,1.111) KA_II,85.7-10 Ro_III,207-208 {9/9} तस्मात् इ च खनः इति एव वक्तव्यम् ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {1/40} असञ्ज्ञायाम् इति किमर्थम् ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {2/40} भार्या ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {3/40} भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः अन्येन विहितत्वात् ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {4/40} भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {5/40} अनर्थकः प्रतिषेधः अप्रतिषेधः ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {6/40} किम् कारणम् ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {7/40} अन्येन विहितत्वात् ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {8/40} अन्येन लक्षणेन स्त्रियाम् क्यप् विधीयते ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {9/40} सञ्ज्ञायाम् समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः इति ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {10/40} प्रतिषेधः इदानीम् किमर्थः स्यात् ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {11/40} प्रतिषेधः किमर्थः इति चेत् अस्त्रीसञ्ज्ञाप्रतिषेधार्थः ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {12/40} प्रतिषेधः किमर्थः इति चेत् अस्त्रीसञ्ज्ञा अस्ति तदर्थः प्रतिषेधः स्यात् ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {13/40} भार्याः नाम क्षत्रियाः ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {14/40} सिद्धम् तु स्त्रियाम् सञ्ज्ञाप्रतिषेधात् ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {15/40} सिद्धम् एतत् ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {16/40} कथम् ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {17/40} स्त्रियाम् सञ्ज्ञाप्रतिषेधः वक्तव्यः ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {18/40} सञ्ज्ञायाम् समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ततः न स्त्रियाम् भृञः इति ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {19/40} सिध्यति ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {20/40} सूत्रम् तर्हि भिद्यते ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {21/40} यथान्यासम् एव अस्तु ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {22/40} ननु च उक्तम् भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः अन्येन विहितत्वात् इति ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {23/40} न एषः दोषः ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {24/40} भावे इति तत्र अनुवर्तते ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {25/40} कर्मसाधनः च अयम् ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {26/40} अथ वा ये एते सञ्ज्ञायाम् विधीयन्ते तेषु न एवम् विज्ञायते सञ्ज्ञायाम् अभिधेयायाम् इति ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {27/40} किम् तर्हि ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {28/40} प्रत्ययान्तेन चेत् सञ्ज्ञा गम्यते इति ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {29/40} अपरः आह : सञ्ज्ञायाम् पुंसि दृष्टत्वात् न ते भार्या प्रसिध्यति ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {30/40} सञ्ज्ञायाम् पुंसि दृष्टत्वात् तव भार्याशब्दः न सिध्यति ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {31/40} स्त्रियाम् भावाधिकारः अस्ति तेन भार्या प्रसिध्यति ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {32/40} भावे इति तत्र वर्तते ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {33/40} कर्मसाधनः च अयम् ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {34/40} अथ वा बहुलम् कृत्याः सञ्ज्ञायाम् इति तत् स्मृतम् ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {35/40} अथ वा कृत्यल्युटः बहुलम् इति एवम् अत्र अपि ण्यत् भविष्यति ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {36/40} यथा यत्यम् जन्यम् यथा भित्तिः तथा एव सा ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {37/40} समः च बहुलम् ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {38/40} समः च बहुलम् उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {39/40} सम्भृत्याः एव सम्भाराः ।
(P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 {40/40} सम्भार्याः एव सम्भाराः ।
(P_3,1.114) KA_II,86.16-25 Ro_III,210 {1/16} सूर्यरुच्याव्यथ्याः कर्तरि ।
(P_3,1.114) KA_II,86.16-25 Ro_III,210 {2/16} सूर्य रुचि अव्यथ्य इति कर्तरि निपात्यन्ते ।
(P_3,1.114) KA_II,86.16-25 Ro_III,210 {3/16} किम् निपात्यते ।
(P_3,1.114) KA_II,86.16-25 Ro_III,210 {4/16} सूर्यः ।
(P_3,1.114) KA_II,86.16-25 Ro_III,210 {5/16} सूसर्तिभ्याम् सर्तेः उत्वम् सुवतेः वा रुडागमः । सरणात् वा सुवति वा कर्मणि इति सूर्यः ।
(P_3,1.114) KA_II,86.16-25 Ro_III,210 {6/16} रुच्य ।
(P_3,1.114) KA_II,86.16-25 Ro_III,210 {7/16} रोचते असौ रुच्यः ।
(P_3,1.114) KA_II,86.16-25 Ro_III,210 {8/16} न व्यथथे अव्यथ्यः ।
(P_3,1.114) KA_II,86.16-25 Ro_III,210 {9/16} कुप्यम् सञ्ज्ञायाम् ।
(P_3,1.114) KA_II,86.16-25 Ro_III,210 {10/16} कुप्यम् सञ्ज्ञायाम् इति वक्तव्यम् ।
(P_3,1.114) KA_II,86.16-25 Ro_III,210 {11/16} गोप्यम् अन्यत् ।
(P_3,1.114) KA_II,86.16-25 Ro_III,210 {12/16} कृष्टपच्यस्य अन्तोदात्तत्वम् च कर्मकर्तरि च ।
(P_3,1.114) KA_II,86.16-25 Ro_III,210 {13/16} कृष्टपच्यस्य अन्तोदात्तत्वम् च कर्मकर्तरि च इति वक्तव्यम् ।
(P_3,1.114) KA_II,86.16-25 Ro_III,210 {14/16} कृष्टे पच्यन्ते स्वयम् एव ।
(P_3,1.114) KA_II,86.16-25 Ro_III,210 {15/16} कृष्टपच्याः च मे अकृष्टपच्याः च मे ।
(P_3,1.114) KA_II,86.16-25 Ro_III,210 {16/16} यः हि कृष्टे पक्तव्यः क्ष्टपाक्यः स भवति ।
(P_3,1.118) KA_II,87.2-4 Ro_III,211 {1/6} प्रत्यपिभ्याम् ग्रहेः छन्दसि ।
(P_3,1.118) KA_II,87.2-4 Ro_III,211 {2/6} प्रत्यपिभ्याम् ग्रहेः छन्दसि इति वक्तव्यम् ।
(P_3,1.118) KA_II,87.2-4 Ro_III,211 {3/6} मत्तस्य न प्रतिगृह्यम् ।
(P_3,1.118) KA_II,87.2-4 Ro_III,211 {4/6} अनृतम् हि मत्तः भवति ।
(P_3,1.118) KA_II,87.2-4 Ro_III,211 {5/6} तस्मात् न अपिगृह्यम् ।
(P_3,1.118) KA_II,87.2-4 Ro_III,211 {6/6} प्रतिग्राह्यम् अपिग्राह्यम् इति एव अन्यत्र ।
(P_3,1.122) KA_II,87.6-11 Ro_III,211-212 {1/9} कस्य अयम् अनुबन्धः ।
(P_3,1.122) KA_II,87.6-11 Ro_III,211-212 {2/9} प्रधानस्य ।
(P_3,1.122) KA_II,87.6-11 Ro_III,211-212 {3/9} यदि प्रधानस्य अमावस्या एवम् स्वरः प्रसज्येत ।
(P_3,1.122) KA_II,87.6-11 Ro_III,211-212 {4/9} अमावस्या इति च इष्यते ।
(P_3,1.122) KA_II,87.6-11 Ro_III,211-212 {5/9} तथा अमावास्याग्रहणेन अमावस्याग्रहणम् न प्राप्नोति ।
(P_3,1.122) KA_II,87.6-11 Ro_III,211-212 {6/9} एवम् तर्हि निपातनस्य ।
(P_3,1.122) KA_II,87.6-11 Ro_III,211-212 {7/9} यदि तर्हि निपातनानि अपि एवञ्जातीयकानि भवन्ति श्रोत्रियन् छन्दः अधीते इति व्यपवर्गाभावात् ञ्निति इति आद्युदात्तत्वम् न प्राप्नोति ।
(P_3,1.122) KA_II,87.6-11 Ro_III,211-212 {8/9} एवम् तर्हि अमावसोः अहम् ण्यतोः निपातयामि अवृद्धिताम् ।
(P_3,1.122) KA_II,87.6-11 Ro_III,211-212 {9/9} तथा एकवृत्तिता तयोः स्वरः च मे प्रसिध्यति ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {1/24} निष्टर्क्य इति किम् निपात्यते ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {2/24} निष्टर्क्ये कृतेः आद्यन्तविपर्ययः छन्दसि कृताद्यर्थः ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {3/24} यथा कृतेः तर्कुः कसेः सिकताः हिंसेः सिंहः ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {4/24} अपरः आह : निष्टर्क्ये व्यत्ययम् विद्यात् निसः षत्वम् निपातनात् ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {5/24} ण्यत् आयादेशः इति एतौ उपचाय्ये निपातितौ । निष्टर्क्यम् चिन्वीत पशुकामः ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {6/24} ण्यत् एकस्मात् चतुर्भ्यः क्य ढ़् चतुर्भ्यः यतः विधिः ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {7/24} ण्यत् एकस्मात् यशब्दः च द्वौ क्यपौ ण्यद्विधिः चतुः । ण्यत् एकस्मात् ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {8/24} निष्टर्क्यः ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {9/24} चतुर्भ्यः क्यप् ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {10/24} देवहूयः प्रणीयः उन्नीयः उच्छिष्यः ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {11/24} चतुर्भ्यः च यतः विधिः ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {12/24} मर्यः स्तर्या ध्वर्यः खन्यः ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {13/24} ण्यत् एकस्मात् ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {14/24} खान्यः ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {15/24} यशब्दः च ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {16/24} देवयज्या ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {17/24} द्वौ क्यपौ ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {18/24} आपृच्छ्यः प्रतिषीव्यः ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {19/24} ण्यद्विधिः चतुः ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {20/24} ब्रह्मवाद्यः भाव्यः स्ताव्यः उपचाय्यपृडम् ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {21/24} उपपूर्वात् चिनोतेः आयादेशः निपात्यते ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {22/24} न हि ण्यता एव सिध्यति ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {23/24} हिरण्ये इति वक्तव्यम् ।
(P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 {24/24} उपचेयपृडम् एव अन्यत्र ।
(P_3,1.124) KA_II,88.6-11 Ro_III,213 {1/8} पाणौ सृजेः ण्यद्विधिः ।
(P_3,1.124) KA_II,88.6-11 Ro_III,213 {2/8} पाणौ सृजेः ण्यत् विधेयः ।
(P_3,1.124) KA_II,88.6-11 Ro_III,213 {3/8} पाणिसर्ग्या रज्जुः ।
(P_3,1.124) KA_II,88.6-11 Ro_III,213 {4/8} समवपूर्वात् च ।
(P_3,1.124) KA_II,88.6-11 Ro_III,213 {5/8} समवपूर्वात् च इति वक्तव्यम् ।
(P_3,1.124) KA_II,88.6-11 Ro_III,213 {6/8} समवसर्ग्यः ।
(P_3,1.124) KA_II,88.6-11 Ro_III,213 {7/8} लपिदमिभ्याम् च । लपिदमिभ्याम् च इति वक्तव्यम् ।
(P_3,1.124) KA_II,88.6-11 Ro_III,213 {8/8} अपलप्यम् अवदाम्यम् ।
(P_3,1.125.1) KA_II,88.16-20 Ro_III,214 {1/12} कथम् इदम् विज्ञायते ।
(P_3,1.125.1) KA_II,88.16-20 Ro_III,214 {2/12} आवश्यके उपपदे आहोस्वित् ध्योत्ये इति ।
(P_3,1.125.1) KA_II,88.16-20 Ro_III,214 {3/12} कः च अत्र विशेषः ।
(P_3,1.125.1) KA_II,88.16-20 Ro_III,214 {4/12} आवश्यके उपपदे इति चेत् द्योत्ये उपसङ्ख्यानम् ।
(P_3,1.125.1) KA_II,88.16-20 Ro_III,214 {5/12} आवश्यके उपपदे इति चेत् द्योत्ये उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,1.125.1) KA_II,88.16-20 Ro_III,214 {6/12} लाव्यम् पाव्यम् ।
(P_3,1.125.1) KA_II,88.16-20 Ro_III,214 {7/12} अस्तु तर्हि द्योत्ये ।
(P_3,1.125.1) KA_II,88.16-20 Ro_III,214 {8/12} द्योत्ये इति चेत् स्वरसमासानुपपत्तिः ।
(P_3,1.125.1) KA_II,88.16-20 Ro_III,214 {9/12} द्योत्ये इति चेत् स्वरसमासानुपपत्तिः ।
(P_3,1.125.1) KA_II,88.16-20 Ro_III,214 {10/12} आवश्यलाव्यम् आवश्यपाव्यम् ।
(P_3,1.125.1) KA_II,88.16-20 Ro_III,214 {11/12} न एषः दोषः ।
(P_3,1.125.1) KA_II,88.16-20 Ro_III,214 {12/12} मयूरव्यंसकादित्वात् समासः विश्पष्टादिवत् स्वरः भविष्यति ।
(P_3,1.125.2) KA_II,88.21-89.4 Ro_III,214 {1/12} ओः आवश्यके ण्यतः स्तौतेः क्य ढ़् पूर्वविप्रतिषिद्धम् । ओः आवश्यके ण्यतः स्तौतेः क्यप् भवति पूर्वविप्रतिष्धेन ।
(P_3,1.125.2) KA_II,88.21-89.4 Ro_III,214 {2/12} ओः आवश्यके ण्यत् भवति इति अस्य अवकाशः ।
(P_3,1.125.2) KA_II,88.21-89.4 Ro_III,214 {3/12} अवश्यलाव्यम् अवश्यपाव्यम् ।
(P_3,1.125.2) KA_II,88.21-89.4 Ro_III,214 {4/12} क्यपः अवकाशः ।
(P_3,1.125.2) KA_II,88.21-89.4 Ro_III,214 {5/12} स्तुत्यः ।
(P_3,1.125.2) KA_II,88.21-89.4 Ro_III,214 {6/12} इह उभयम् प्राप्नोति ।
(P_3,1.125.2) KA_II,88.21-89.4 Ro_III,214 {7/12} अवश्यस्तुत्यः ।
(P_3,1.125.2) KA_II,88.21-89.4 Ro_III,214 {8/12} क्यप् भवति पूर्वविप्रतिष्धेन ।
(P_3,1.125.2) KA_II,88.21-89.4 Ro_III,214 {9/12} सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।
(P_3,1.125.2) KA_II,88.21-89.4 Ro_III,214 {10/12} न वक्तव्यः ।
(P_3,1.125.2) KA_II,88.21-89.4 Ro_III,214 {11/12} उक्तम् तत्र क्यप् इति वर्तमाने पुनः क्यब्ग्रहणस्य प्रयोजनम् क्यप् एव यथा स्यात् ।
(P_3,1.125.2) KA_II,88.21-89.4 Ro_III,214 {12/12} अन्यत् यत् प्राप्नोति तत् मा भूत् इति ।
(P_3,1.127) KA_II,89.6-8 Ro_III,215 {1/5} दक्षिणाग्नौ इति वक्तव्यम् ।
(P_3,1.127) KA_II,89.6-8 Ro_III,215 {2/5} आनेयः अन्यः ।
(P_3,1.127) KA_II,89.6-8 Ro_III,215 {3/5} आनाय्यः अनित्यः इति चेत् दक्षिणाग्नौ कृतम् भवेत् ।
(P_3,1.127) KA_II,89.6-8 Ro_III,215 {4/5} एकयोनौ तु तम् विद्यात् ।
(P_3,1.127) KA_II,89.6-8 Ro_III,215 {5/5} आनेयः हि अन्यथा भवेत् ।
(P_3,1.129) KA_II,89.11-13 Ro_III,215 {1/3} पाय्यनिकाय्ययोः किम् निपात्यते ।
(P_3,1.129) KA_II,89.11-13 Ro_III,215 {2/3} पाय्यनिकाय्ययोः आदिपत्वकत्वनिपातनम् । पाय्यनिकाय्ययोः आदिपत्वम् आदिकत्वम् च निपात्यते ।
(P_3,1.129) KA_II,89.11-13 Ro_III,215 {3/3} मेयम् निचेयम् इति एव अन्यत्र ।
(P_3,1.130) KA_II,89.15-16 Ro_III,215 {1/3} कुण्डपाय्ये यद्विधिः ।
(P_3,1.130) KA_II,89.15-16 Ro_III,215 {2/3} कुण्डपाय्ये यत् विधेयः ।
(P_3,1.130) KA_II,89.15-16 Ro_III,215 {3/3} कुण्डपाय्यः क्रतुः ।
(P_3,1.131) KA_II,89.18-90.9 Ro_III,215-216 {1/18} समूह्यः इति अनर्थकम् वचनम् सामान्येन कृतत्वात् ।
(P_3,1.131) KA_II,89.18-90.9 Ro_III,215-216 {2/18} समूह्यः इति वचनम् अनर्थकम् ।
(P_3,1.131) KA_II,89.18-90.9 Ro_III,215-216 {3/18} किम् कारणम् ।
(P_3,1.131) KA_II,89.18-90.9 Ro_III,215-216 {4/18} सामान्येन कृतत्वात् ।
(P_3,1.131) KA_II,89.18-90.9 Ro_III,215-216 {5/18} सामान्येन एव ण्यत् भविष्यति : ऋहलोः ण्यत् इति ।
(P_3,1.131) KA_II,89.18-90.9 Ro_III,215-216 {6/18} वह्यर्थम् तर्हि निपातनम् कर्तव्यम् ।
(P_3,1.131) KA_II,89.18-90.9 Ro_III,215-216 {7/18} वहेः ण्यत् यथा स्यात् ।
(P_3,1.131) KA_II,89.18-90.9 Ro_III,215-216 {8/18} वह्यर्थम् इति चेत् ऊहेः तदर्थत्वात् सिद्धम् ।
(P_3,1.131) KA_II,89.18-90.9 Ro_III,215-216 {9/18} ऊहिः अपि वह्यर्थे वर्तते ।
(P_3,1.131) KA_II,89.18-90.9 Ro_III,215-216 {10/18} कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते ।
(P_3,1.131) KA_II,89.18-90.9 Ro_III,215-216 {11/18} कथम् ऊहिः वह्यर्थे वर्तते ।
(P_3,1.131) KA_II,89.18-90.9 Ro_III,215-216 {12/18} बह्वर्थाः अपि धातवः भवन्ति इति ।
(P_3,1.131) KA_II,89.18-90.9 Ro_III,215-216 {13/18} अस्ति पुनः क्व चित् अन्यत्र अपि ऊहिः वह्यर्थे वर्तते ।
(P_3,1.131) KA_II,89.18-90.9 Ro_III,215-216 {14/18} अस्ति इति आह ।
(P_3,1.131) KA_II,89.18-90.9 Ro_III,215-216 {15/18} ऊहिविग्रहात् च ब्राह्मणे सिद्धम् । ऊहिविग्रहात् च ब्राह्मणे सिद्धम् एतत् ।
(P_3,1.131) KA_II,89.18-90.9 Ro_III,215-216 {16/18} समूह्यम् चिन्वीत पशुकामः ।
(P_3,1.131) KA_II,89.18-90.9 Ro_III,215-216 {17/18} पशवः वै पुरीषम् ।
(P_3,1.131) KA_II,89.18-90.9 Ro_III,215-216 {18/18} पशून् एव अस्मै तत् समूहति ।
(P_3,1.132) KA_II,90.11-12 Ro_III,216 {1/3} अग्निचित्या भावे अन्तोदात्तः ।
(P_3,1.132) KA_II,90.11-12 Ro_III,216 {2/3} अग्निचित्या इति भावे अन्तोदात्तः ।
(P_3,1.132) KA_II,90.11-12 Ro_III,216 {3/3} अग्निचयनम् एव अग्निचित्या ।
(P_3,1.133.1) KA_II,90.14-22 Ro_III,216-217 {1/18} किमर्थः चकारः ।
(P_3,1.133.1) KA_II,90.14-22 Ro_III,216-217 {2/18} स्वरार्थः ।
(P_3,1.133.1) KA_II,90.14-22 Ro_III,216-217 {3/18} चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।
(P_3,1.133.1) KA_II,90.14-22 Ro_III,216-217 {4/18} न एतत् अस्ति प्रयोजनम् ।
(P_3,1.133.1) KA_II,90.14-22 Ro_III,216-217 {5/18} एकाच् अयम् ।
(P_3,1.133.1) KA_II,90.14-22 Ro_III,216-217 {6/18} तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन ।
(P_3,1.133.1) KA_II,90.14-22 Ro_III,216-217 {7/18} प्रत्ययस्वरेण एव सिद्धम् ।
(P_3,1.133.1) KA_II,90.14-22 Ro_III,216-217 {8/18} विशेषणार्थः तर्हि ।
(P_3,1.133.1) KA_II,90.14-22 Ro_III,216-217 {9/18} क्व विशेषणार्थेन अर्थः : अप्तृन्तृच् इति ।
(P_3,1.133.1) KA_II,90.14-22 Ro_III,216-217 {10/18} तृ इति उच्यमाने मातरौ मातरः पितरौ पितरः अत्र अपि प्रसज्येत ।
(P_3,1.133.1) KA_II,90.14-22 Ro_III,216-217 {11/18} स्वसृनप्तृग्रहणम् नियमाऋथम् भविष्यति ।
(P_3,1.133.1) KA_II,90.14-22 Ro_III,216-217 {12/18} एतयोः एव योनिसम्बन्धयोः न अन्येषाम् योनिसम्बन्धानाम् इति ।
(P_3,1.133.1) KA_II,90.14-22 Ro_III,216-217 {13/18} सामान्यग्रहणाविघातार्थः तर्हि ।
(P_3,1.133.1) KA_II,90.14-22 Ro_III,216-217 {14/18} क्व सामान्यग्रहणाविघातार्थेन अर्थः ।
(P_3,1.133.1) KA_II,90.14-22 Ro_III,216-217 {15/18} अत्र एव ।
(P_3,1.133.1) KA_II,90.14-22 Ro_III,216-217 {16/18} यत् एतत् तृन्तृचोः ग्रहणम् एतत् तृ इति वक्ष्यामि ।
(P_3,1.133.1) KA_II,90.14-22 Ro_III,216-217 {17/18} यदि तृ इचि उच्यते मातरौ मातरः पितरौ पितरः अत्र अपि प्रसज्येत ।
(P_3,1.133.1) KA_II,90.14-22 Ro_III,216-217 {18/18} स्वसृनप्तृग्रहणम् नियमाऋथम् भविष्यति : एतयोः एव योनिसम्बन्धयोः न अन्येषाम् योनिसम्बन्धानाम् इति ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {1/22} ण्वुलि सकर्मकग्रहणम् ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {2/22} ण्वुलि सकर्मकग्रहणम् कर्तव्यम् ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {3/22} इह मा भूत् ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {4/22} आसिता शयिता इति ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {5/22} न वा धातुमात्रात् दर्शनात् ण्वुलः । न वा वक्तव्यम् ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {6/22} किम् कारणम् ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {7/22} धातुमात्रात् ण्वुल् दृश्यते ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {8/22} इमे अस्य आसकाः इमे ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {9/22} अस्य शायकाः ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {10/22} उत्थिताः आसका वैश्रवणस्य इति ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {11/22} तृजादिषु वर्तमानकालोपादानम् अध्यायकवेदाध्यायकार्थम् ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {12/22} तृजादिषु वर्तमानकालोपादानम् कर्तव्यम् ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {13/22} किम् कारणम् ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {14/22} अध्यायकवेदाध्यायकार्थम् ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {15/22} अध्यायकः वेदाध्यायः ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {16/22} अधीतवति अध्येष्यमाणे वा मा भूत् ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {17/22} न वा कालमात्रे दर्शनात् अन्येषाम् ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {18/22} न वा वक्तव्यम् ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {19/22} किम् कारणम् ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {20/22} कालमात्रे दर्शनात् अन्येषाम् ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {21/22} कालमात्रे हि अन्ये प्रत्ययाः दृश्यन्ते ।
(P_3,1.133.2) KA_II,91.1-11 Ro_III,217 {22/22} चर्चापारः शमनीपारः ।
(P_3,1.134) KA_II,91.13-18 Ro_III,217-218 {1/12} अच् अपि सर्वधातुभ्यः ।
(P_3,1.134) KA_II,91.13-18 Ro_III,217-218 {2/12} अच् अपि सर्वधातुभ्यः वक्तव्यः ।
(P_3,1.134) KA_II,91.13-18 Ro_III,217-218 {3/12} इह अपि यथा स्यात् ।
(P_3,1.134) KA_II,91.13-18 Ro_III,217-218 {4/12} भवः शर्वः ।
(P_3,1.134) KA_II,91.13-18 Ro_III,217-218 {5/12} न तर्हि इदानीम् इदम् पचाद्यनुक्रमणम् कर्तव्यम् ।
(P_3,1.134) KA_II,91.13-18 Ro_III,217-218 {6/12} कर्तव्यम् च ।
(P_3,1.134) KA_II,91.13-18 Ro_III,217-218 {7/12} किम् प्रयोजनम् ।
(P_3,1.134) KA_II,91.13-18 Ro_III,217-218 {8/12} पचाद्यनुक्रमणम् अनुबन्धासञ्जार्थम् अपवादबाधनार्थम् च ।
(P_3,1.134) KA_II,91.13-18 Ro_III,217-218 {9/12} अनुबन्धासञ्जनार्थम् तावत् ।
(P_3,1.134) KA_II,91.13-18 Ro_III,217-218 {10/12} नदट् नदी चोरट् चोरी ।
(P_3,1.134) KA_II,91.13-18 Ro_III,217-218 {11/12} अपवादबाधनार्थम् ।
(P_3,1.134) KA_II,91.13-18 Ro_III,217-218 {12/12} जारभरा श्वपचा इति ।
(P_3,1.135) KA_II,91.20-92.3 Ro_III,218 {1/11} इगुपधेभ्यः उपसर्गे कविधिः मेषाद्यर्थः ।इगुपधेभ्यः उपसर्गे कः विधेयः ।
(P_3,1.135) KA_II,91.20-92.3 Ro_III,218 {2/11} किम् प्रयोजनम् ।
(P_3,1.135) KA_II,91.20-92.3 Ro_III,218 {3/11} मेषाद्यर्थः ।
(P_3,1.135) KA_II,91.20-92.3 Ro_III,218 {4/11} मेषः देवः सेवः ।
(P_3,1.135) KA_II,91.20-92.3 Ro_III,218 {5/11} न वा बुधादीनाम् दर्शनात् अनुपसर्गे अपि ।
(P_3,1.135) KA_II,91.20-92.3 Ro_III,218 {6/11} न वा वक्तव्यः ।
(P_3,1.135) KA_II,91.20-92.3 Ro_III,218 {7/11} किम् कारणम् ।
(P_3,1.135) KA_II,91.20-92.3 Ro_III,218 {8/11} बुधादीनाम् अनुपसर्गे अपि कः दृश्यते ।
(P_3,1.135) KA_II,91.20-92.3 Ro_III,218 {9/11} बुधः भिदः युधः सिवः इति ।
(P_3,1.135) KA_II,91.20-92.3 Ro_III,218 {10/11} कथम् मेषः देवः सेवः इति ।
(P_3,1.135) KA_II,91.20-92.3 Ro_III,218 {11/11} पचाचिषु पाठः करिष्यते ।
(P_3,1.137) KA_II,92.5-8 Ro_III,218 {1/7} जिघ्रः सञ्ज्ञायाम् प्रतिषेधः ।
(P_3,1.137) KA_II,92.5-8 Ro_III,218 {2/7} जिघ्रः सञ्ज्ञायाम् प्रतिषेधः वक्तव्यः ।
(P_3,1.137) KA_II,92.5-8 Ro_III,218 {3/7} व्याजिघ्रति इति व्याघ्रः ।
(P_3,1.137) KA_II,92.5-8 Ro_III,218 {4/7} इह के चित् शस्य एव प्रतिषेधम् आहुः के चित् जिघ्रभावस्य ।
(P_3,1.137) KA_II,92.5-8 Ro_III,218 {5/7} किम् पुनः अत्र न्याय्यम् ।
(P_3,1.137) KA_II,92.5-8 Ro_III,218 {6/7} शस्य एव प्रतिषेधः न्याय्यः ।
(P_3,1.137) KA_II,92.5-8 Ro_III,218 {7/7} जिघ्रभावे हि प्रतिषिद्धे केन शे आकारलोपः स्यात् ।
(P_3,1.138) KA_II,92.11-15 Ro_III,218-219 {1/9} अनुपसर्गात् नौ लिम्पेः ।
(P_3,1.138) KA_II,92.11-15 Ro_III,218-219 {2/9} अनुपसर्गात् नौ लिम्पेः इति वक्तव्यम् ।
(P_3,1.138) KA_II,92.11-15 Ro_III,218-219 {3/9} निलिम्पाः नाम देवाः ।
(P_3,1.138) KA_II,92.11-15 Ro_III,218-219 {4/9} गवि च विन्देः सञ्ज्ञायाम् ।
(P_3,1.138) KA_II,92.11-15 Ro_III,218-219 {5/9} गवि च उपपदे विन्देः सञ्ज्ञायाम् उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,1.138) KA_II,92.11-15 Ro_III,218-219 {6/9} गोविन्दः इति ।
(P_3,1.138) KA_II,92.11-15 Ro_III,218-219 {7/9} अत्यल्पम् इदम् उच्यते : गवि इति ।
(P_3,1.138) KA_II,92.11-15 Ro_III,218-219 {8/9} गवादिषु इति वक्तव्यम् ।
(P_3,1.138) KA_II,92.11-15 Ro_III,218-219 {9/9} गोविन्दः अरविन्दः ।
(P_3,1.140) KA_II,92.17-18 Ro_III,219 {1/2} तनोतेः णः उपसङ्ख्यानम् । तनोतेः णः उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,1.140) KA_II,92.17-18 Ro_III,219 {2/2} अवतनोति इति अवतानः ।
(P_3,1.145) KA_II,92.20 Ro_III,219 {1/3} नृतिखनिरञ्जिभ्यः इति वक्तव्यम् ।
(P_3,1.145) KA_II,92.20 Ro_III,219 {2/3} इह मा भूत् ।
(P_3,1.145) KA_II,92.20 Ro_III,219 {3/3} ह्वायकः इति ।
(P_3,1.149) KA_II,93.2-4 Ro_III,219 {1/4} प्रुसृल्वः साधुकारिणि वुन्विधानम् ।
(P_3,1.149) KA_II,93.2-4 Ro_III,219 {2/4} प्रुसृल्वः साधुकारिणि वुन् विधेयः ।
(P_3,1.149) KA_II,93.2-4 Ro_III,219 {3/4} सकृत् अपि यः सुष्ठु करोति तत्र यथा स्यात् ।
(P_3,1.149) KA_II,93.2-4 Ro_III,219 {4/4} बहुशः यः दुष्ठु करोति तत्र मा भूत् ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {1/25} कर्मणि निर्वर्त्यमाणविक्रियमाणे इति वक्तत्व्यम् ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {2/25} इह मा भूत् ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {3/25} आदित्यम् पश्यति ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {4/25} हिववन्तम् श्र्णोति ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {5/25} ग्रामम् गच्छति इति ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {6/25} कर्मणि निर्वर्त्यमाणविक्रियमाणे चेत् वेदाध्यायादीनाम् उपसङ्ख्यानम् ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {7/25} कर्मणि निर्वर्त्यमाणविक्रियमाणे चेत् वेदाध्यायादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {8/25} वेदाध्यायः चर्चापारः शमनीपारः ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {9/25} यत्र च नियुक्तः । यत्र च नियुक्तः तत्र उपसङ्ख्यानम् कर्तत्व्यम् ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {10/25} छत्रधारः द्वारपालः ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {11/25} हृग्रहिनीवहिभ्यः च ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {12/25} हृग्रहिनीवहिभ्यः च इति वक्तव्यम् ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {13/25} हृ ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {14/25} भारहारः ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {15/25} ग्रहि ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {16/25} कमण्डलुग्राहः ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {17/25} नी। उष्ट्रप्रणायः ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {18/25} वहि ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {19/25} भारवाहः ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {20/25} अपरिगणनम् वा ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {21/25} न वा अर्थः परिगणनेन ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {22/25} कस्मात् न भवति : आदित्यम् पश्यति , हिमवन्तम् श्र्णोति ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {23/25} ग्रामम् गच्छति इति ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {24/25} अनभिधानात् ।
(P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 {25/25} अनभिधानात् एव न भविष्यति ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {1/51} अकारात् अनुपपदात् कर्मोपपदः विप्रतिषेधेन ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {2/51} अकारात् अनुपपदात् कर्मोपपदः भवति विप्रतिषेधेन ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {3/51} अनुपपदस्य अवकाशः पचति इति पचः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {4/51} कर्मोपपदस्य अवकाशः कुम्भकारः नगरकारः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {5/51} ओदनपाचे उभयम् प्राप्नोति ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {6/51} कर्मोपदः भवति विप्रतिषेधेन ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {7/51} अनुपपदस्य अवकाशः विक्षिपः विलिखः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {8/51} कर्मोपपदस्य सः एव ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {9/51} काष्ठभेदे उभयम् प्राप्नोति ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {10/51} कर्मोपदः भवति विप्रतिषेधेन ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {11/51} अनुपपदस्य अवकाशः जानाति इति ज्ञः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {12/51} कर्मोपपदस्य सः एव ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {13/51} अर्थज्ञे उभयम् प्राप्नोति ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {14/51} कर्मोपदः भवति विप्रतिषेधेन ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {15/51} न एषः युक्तः विप्रतिषेधः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {16/51} अनुपपदः तृतीयः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {17/51} ण्वुल्तृजचः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {18/51} तेषाम् णः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {19/51} णस्य कः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {20/51} सः यथा एव कः णम् बाधते एवम् कर्मोपपदम् अपि बाधेत ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {21/51} कर्मोपपदः अपि तृतीयः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {22/51} ण्वुल्तृजचः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {23/51} तेषाम् अण् ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {24/51} अणः कः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {25/51} उभयोः तृतीययोः युक्तः विप्रतिषेधः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {26/51} अनुपपदस्य अवकाशः लिम्पति इति लिम्पः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {27/51} कर्मोपपदस्य सः एव ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {28/51} कुड्यलेपे उभयम् प्राप्नोति ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {29/51} कर्मोपदः भवति विप्रतिषेधेन ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {30/51} न एषः युक्तः विप्रतिषेधः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {31/51} अनुपपदः तृतीयः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {32/51} ण्वुल्तृजचः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {33/51} तेषाम् कः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {34/51} कस्य कः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {35/51} सः यथा एव शः कम् बाधते एवम् कर्मोपपदम् अपि बाधेत ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {36/51} का तर्हि गतिः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {37/51} मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् शः कम् बाधिष्यते ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {38/51} कर्मोपपदम् न बाधिष्यते ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {39/51} अनुपपदस्य अवकाशः सुग्लः सुम्लः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {40/51} कर्मोपपदस्य सः एव ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {41/51} वडवासन्दाये उभयम् प्राप्नोति ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {42/51} कर्मोपदः भवति विप्रतिषेधेन ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {43/51} न एषः युक्तः विप्रतिषेधः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {44/51} अनुपपदः तृतीयः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {45/51} ण्वुल्तृजचः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {46/51} तेषाम् णः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {47/51} णस्य कः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {48/51} सः यथा एव कः णम् बाधते एवम् कर्मोपपदम् अपि बाधेत ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {49/51} का तर्हि गतिः ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {50/51} पुरस्ताद् अपवादाः अनन्तराञ्विधीन् बाधन्ते इति एवम् अयम् कः णम् बाधिष्यते ।
(P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 {51/51} कर्मोपपदम् न बाधिष्यते ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {1/36} शीलिकामिभक्ष्याचरिभ्यः णः पूर्वपदप्रकृतिस्वरत्वम् च ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {2/36} शीलिकामिभक्ष्याचरिभ्यः णः वक्तव्यः पूर्वपदप्रकृतिस्वरत्वम् च वक्तव्यम् ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {3/36} शीलि ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {4/36} मांसशीलः मांसशीला ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {5/36} शीलि ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {6/36} कामि ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {7/36} मांसकामः मांसकामा ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {8/36} कामि ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {9/36} भक्षि ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {10/36} मांसभक्षः मांसभक्षा ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {11/36} भक्षि आचरि ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {12/36} कल्याणाचारः कल्याणाचारा ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {13/36} ईक्षिक्षमिभ्याम् च । ईक्षिक्षमिभ्याम् च इति वक्तव्यम् ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {14/36} सुखप्रतीक्षः सुखप्रतीक्षा ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {15/36} कल्याणक्षमः कल्याणक्षमा ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {16/36} किमर्थम् इदम् उच्यते ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {17/36} पूर्वपदप्रकृत्स्वरत्वम् च वक्ष्यामि ईकारः च मा भूत् इति ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {18/36} न एतत् अस्ति प्रयोजनम् ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {19/36} इह यः मांसम् भक्षयति मांसम् तस्य भक्षः भवति ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {20/36} यः असौ भक्षयतेः अच् तदन्तेन बहुव्रीहिः ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {21/36} एवम् तर्हि सिद्धे सति यत् कर्मोपपदम् णम् शास्ति तत् ज्ञापयति आचार्यः समाने अर्थे केवलम् विग्रहभेदात् यत्र कर्मोपपदः च प्राप्नोति बहुव्रीहिः च कर्मोपपदः तत्र भवति इति ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {22/36} किम् एतस्य ज्ञापने प्रयोजनम् ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {23/36} काण्डलावः ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {24/36} काण्डानि लावः अस्य इति बहुव्रीहिः न भवति ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {25/36} भवति तु बहुर्वीहिः अपि ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {26/36} मांसे कामः अस्य मांसकामः मांसकामकः इति वा ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {27/36} न तु अम्भोभिगमा ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {28/36} न तु इदम् भवति अम्भः अभिगमः अस्याः इति ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {29/36} किम् तर्हि ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {30/36} अम्भोभिगामी इति एव भवति ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {31/36} काण्डलावे अपि च विग्रहाभावात् न ज्ञापकस्य प्रयोजनम् भवति इति ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {32/36} न एषः अस्ति विग्रहः काण्डानि लावः अस्य इति ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {33/36} आन्नादाय इति च कृताम् व्यत्ययः छन्दसि ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {34/36} आन्नादाय इति च कृताम् व्यत्ययः छन्दसि द्रष्टव्यः ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {35/36} अन्नादाय अन्नपतये ।
(P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 {36/36} ये आहुतिम् अन्नादीम् कृत्वा ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {1/91} कविधौ सर्वत्र प्रसारणिभ्यः डः ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {2/91} कविधौ सर्वत्र प्रसारणिभ्यः डः वक्तव्यः ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {3/91} ब्रह्मज्यः ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {4/91} किम् उच्यते सर्वत्र इति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {5/91} अन्यत्र अपि न अवश्यम् इह एव ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {6/91} ह्व अन्यत्र ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {7/91} आह्वः प्रह्वः इति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {8/91} के हि सम्प्रसारणप्रसङ्गः ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {9/91} के हि सति सम्प्रसारणम् प्रसज्येत ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {10/91} सम्प्रसारणे कृते सम्प्रसारणपूर्वत्वे च उवङादेशे आहुवः इति एतत् रूपम् स्यात् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {11/91} सः तर्हि वक्तव्यः ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {12/91} न वक्तव्यः ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {13/91} अस्तु अत्र सम्प्रसारणम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {14/91} सम्प्रसारणे कृते आकारलोपः ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {15/91} तस्य स्थानिवद्भावात् उवङादेशः न भविष्यति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {16/91} पूर्वत्वे कृते प्राप्नोति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {17/91} एवम् तर्हि इदम् इह सम्प्रधार्यम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {18/91} आकारलोपः क्रियताम् पूर्वत्वम् इति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {19/91} किम् अत्र कर्तव्यम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {20/91} परत्वात् आकारलोपः ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {21/91} न सिध्यति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {22/91} अन्तरङ्गत्वात् पूर्वत्वम् प्राप्नोति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {23/91} एवम् तर्हि वार्णात् आङ्गम् बलीयः भवति इति आकारलोपः भविष्यति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {24/91} एवम् तर्हि इदम् इह सम्प्रधार्यम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {25/91} आकारलोपः क्रियताम् सम्प्रसारणम् इति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {26/91} किम् अत्र कर्तव्यम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {27/91} परत्वात् आकारलोपः ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {28/91} नित्यम् सम्प्रसारणम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {29/91} कृते अपि आकारलोपे प्राप्नोति अकृते अपि प्राप्नोति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {30/91} आकारलोपः अपि नित्यः ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {31/91} कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {32/91} अनित्यः आकारलोपः ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {33/91} न हि कृते सम्प्रसारणे प्राप्नोति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {34/91} अन्तरङ्गम् हि पूर्वत्वम् भाधते ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {35/91} यस्य लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {36/91} न च सम्प्रसारणम् एव आकारलोपस्य निमित्तम् हन्ति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {37/91} अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {38/91} उभयोः नित्ययोः परत्वात् आकारलोपः ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {39/91} आकारलोपे कृते सम्प्रसारणम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {40/91} सम्प्रसारणे कृते यणादेशे सिद्धम् रूपम् आह्वः प्रह्वः इति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {41/91} एवम् अपि न सिध्यति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {42/91} यः अनादिष्टाद् अचः पूर्वः तस्य विधिम् प्रति स्थानिवद्भावः ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {43/91} आदिष्टात् च एषः अचः पूर्वः भवति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {44/91} एवम् तर्हि आकारलोपस्य असिद्धत्वात् उवङादेशः न भविष्यति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {45/91} इह अपि तर्हि आकारलोपस्य असिद्धत्वात् उवङादेशः न स्यात् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {46/91} जुहुवतुः झुहुवुः इति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {47/91} अस्ति अत्र विशेषः ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {48/91} अकृते अत्र आत्त्वे पूर्वत्वम् भवति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {49/91} इदम् इह सम्प्रधार्यम् आत्त्वम् क्रियताम् पूर्वत्वम् इति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {50/91} किम् अत्र कर्तव्यम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {51/91} परत्वात् पूर्वत्वम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {52/91} न सिध्यति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {53/91} अन्तरङ्गत्वात् आत्त्वम् प्राप्नोति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {54/91} एवम् तर्हि इदम् इह सम्प्रधार्यम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {55/91} आत्त्वम् क्रियताम् सम्प्रसारणम् इति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {56/91} किम् अत्र कर्तव्यम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {57/91} परत्वात् आत्त्वम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {58/91} नित्यम् सम्प्रसारणम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {59/91} कृते अपि आत्त्वे प्राप्नोति अकृते अपि ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {60/91} आत्त्वम् अपि नित्यम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {61/91} कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {62/91} अनित्यम् आत्त्वम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {63/91} न हि सम्प्रसारणे कृते प्राप्नोति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {64/91} परत्वात् पूर्वत्वेन एव भवितव्यम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {65/91} यस्य लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {66/91} न च सम्प्रसारणम् एव आत्त्वस्य निमित्तम् विहन्ति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {67/91} अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {68/91} उभयोः नित्ययोः परत्वात् आत्त्त्वे कृते सम्प्रसारणम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {69/91} एवम् तर्हि पूर्वत्वे योगविभागः करिष्यते ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {70/91} सम्प्रसारणात् परः पूर्वः भवति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {71/91} तत एङः ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {72/91} एङः च सम्प्रसारणात् पूर्वः भवति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {73/91} किमर्थम् इदम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {74/91} अकृते आत्त्वे पूर्वत्वम् यथा स्यात् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {75/91} ततः पदान्तात् अति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {76/91} एङः इति एव ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {77/91} इह अपि तर्हि अकृते आत्त्वे पूर्वत्वम् स्यात् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {78/91} आह्वः प्रह्वः इति ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {79/91} अस्ति अत्र विशेषः ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {80/91} आकारान्तलक्षणः कविधिः ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {81/91} तेन अनेन अवश्यम् आत्त्वम् प्रतीक्ष्यम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {82/91} लिट् पुनः अविशेषेण धातुमात्रात् विधीयते ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {83/91} नित्यम् प्रसारणम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {84/91} ह्वः यण् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {85/91} वार्णात् आङ्गम् न पूर्वत्वम् ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {86/91} यः अनादिष्टात् अचः पूर्वः तत्कार्ये स्थानिवत्त्वम् हि प्रोवाच भगवान् कात्यः ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {87/91} तेन असिद्धिः यणः ते ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {88/91} आतः कः ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {89/91} लिट् न ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {90/91} एङः पूर्वः ।
(P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {91/91} सिद्धः आह्वः तथा सति ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {1/25} सुपि स्थः भावे च ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {2/25} सुपि स्थः इति अत्र भावे च इति वक्तव्यम् ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {3/25} इह अपि यथा स्यात् ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {4/25} आखूत्थः वर्तते ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {5/25} श्येनोत्थः शलभोत्थः ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {6/25} तत् तर्हि वक्तव्यम् ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {7/25} न वक्तव्यम् ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {8/25} योगविभागात् सिद्धम् ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {9/25} योगविभागः करिष्यते ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {10/25} आतः अनुपसर्गे कः भवति ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {11/25} ततः सुपि ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {12/25} सुपि च अतः कः भवति ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {13/25} कच्छेन पिबति कच्छपः ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {14/25} कटाहेन पिबति कटाहः ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {15/25} द्वाभ्याम् पिबति द्विपः ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {16/25} ततः स्थः ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {17/25} स्थः च कः भवति सुपि इति ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {18/25} किमर्थम् इदम् ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {19/25} भावे यथा स्यात् ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {20/25} कुतः नु खल्वु एतत् भावे भविष्यति न पुनः कर्मादिषु कारकेषु इति ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {21/25} योगविभागात् अयम् कर्तुः अपकृष्यते ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {22/25} न च अन्यस्मिन् अर्थे आदिश्यते ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {23/25} अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति स्वार्थे भविष्यन्ति ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {24/25} तत् यथा गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् ।
(P_3,2.4) KA_II,98.2-12 Ro_III,229 {25/25} सः असौ स्वार्थे भवन् भावे भविष्यति ।
(P_3,2.5) KA_II,98.14-20 Ro_III,230 {1/12} तुन्दशोकयोः परिमृजापनुदोः आलस्यसुखाहरणयोः ।
(P_3,2.5) KA_II,98.14-20 Ro_III,230 {2/12} तुन्दशोकयोः परिमृजापनुदोः इति अत्र आलस्यसुखाहरणयोः इति वक्तव्यम् ।
(P_3,2.5) KA_II,98.14-20 Ro_III,230 {3/12} तुन्दपरिमृजः अलसः ।
(P_3,2.5) KA_II,98.14-20 Ro_III,230 {4/12} शोकापनुदः पुत्रः जातः ।
(P_3,2.5) KA_II,98.14-20 Ro_III,230 {5/12} यः हि तुन्दम् परिमार्ष्टि तुन्दपरिमार्जः सः भवति ।
(P_3,2.5) KA_II,98.14-20 Ro_III,230 {6/12} यः च शोकम् अपनुदति शोकापनोदः सः भवति ।
(P_3,2.5) KA_II,98.14-20 Ro_III,230 {7/12} कप्रकरणे मूलिअविभुजादिभ्यः उपसङ्ख्यानम् ।
(P_3,2.5) KA_II,98.14-20 Ro_III,230 {8/12} कप्रकरणे मूलिअविभुजादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,2.5) KA_II,98.14-20 Ro_III,230 {9/12} मूलविभुजः रथः ।
(P_3,2.5) KA_II,98.14-20 Ro_III,230 {10/12} नखमुचानि धनूंषि ।
(P_3,2.5) KA_II,98.14-20 Ro_III,230 {11/12} काकगुहाः तिलाः ।
(P_3,2.5) KA_II,98.14-20 Ro_III,230 {12/12} सरसीरुहम् कुमुदम् ।
(P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {1/12} सुरासीध्वोः पिबतेः ।
(P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {2/12} सुरासीध्वोः पिबतेः इति वक्तव्यम् ।
(P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {3/12} इह मा भूत् ।
(P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {4/12} क्षीरपा ब्राह्मणी इति ।
(P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {5/12} पिबतेः इति किमर्थम् ।
(P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {6/12} या हि सुराम् पाति सुरापा सा भवति ।
(P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {7/12} बहुलम् तणि ।
(P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {8/12} बहुलम् तणि इति वक्तव्यम् ।
(P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {9/12} किम् इदम् तणि इति ।
(P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {10/12} सञ्ज्ञाछन्दसोः ग्रहणम् ।
(P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {11/12} या ब्राह्मणी सुरापी भवति न एनाम् देवाः पतिलोकम् नयन्ति ।
(P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {12/12} या ब्राह्मणी सुरापा भवति न एनाम् देवाः पतिलोकम् नयन्ति ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {1/30} अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुःषु घ्रहेः उपसङ्ख्यानम् ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {2/30} अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुःषु घ्रहेः उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {3/30} शक्तिग्रहः ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {4/30} शक्ति ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {5/30} लाङ्गल ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {6/30} लाङ्गलग्रहः ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {7/30} लाङ्गल ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {8/30} आङ्कुश ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {9/30} आङ्कुशग्रहः ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {10/30} आङ्कुश ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {11/30} यष्टि ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {12/30} यष्टिग्रहः ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {13/30} यष्टि ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {14/30} तोमर ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {15/30} तोमरग्रहः ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {16/30} तोमर ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {17/30} घट ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {18/30} घटग्रहः ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {19/30} घट ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {20/30} घटी ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {21/30} घटीग्रहः ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {22/30} घटी ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {23/30} धनुस् ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {24/30} धनुर्ग्रहः ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {25/30} धनुस् ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {26/30} सूत्रे च धार्यर्थे ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {27/30} सूत्रे च धार्यर्थे ग्रहेः उपसङ्ख्यानम् ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {28/30} सूत्रग्रहः ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {29/30} धार्यर्थे इति किमर्थम् ।
(P_3,2.9) KA_II,99.10-18 Ro_III,231 {30/30} यः हि सूत्रम् गृह्णाति सूत्रग्राहण् सः भवति ।
(P_3,2.13) KA_II,99.20-22 Ro_III,231 {1/5} स्तम्बकर्णयोः हस्तिसूचकयोः ।
(P_3,2.13) KA_II,99.20-22 Ro_III,231 {2/5} स्तम्बकर्णयोः इति अत्र हस्तिसूचकयोः इति वक्तव्यम् ।
(P_3,2.13) KA_II,99.20-22 Ro_III,231 {3/5} स्तम्बेरमः हस्ती ।
(P_3,2.13) KA_II,99.20-22 Ro_III,231 {4/5} कर्णेजपः सूचकः ।
(P_3,2.13) KA_II,99.20-22 Ro_III,231 {5/5} सम्बे रन्ता कर्णे जपिता इति एव अन्यत्र ।
(P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {1/15} धातुग्रहणम् किमर्थम् ।
(P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {2/15} शमि सञ्ज्ञयाम् धातुग्रहणम् कृञः हेत्वादिषु टप्रतिषेधार्थम् ।
(P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {3/15} शमि सञ्ज्ञयाम् धातुग्रहणम् क्रियते कृञः हेत्वादिषु टः मा भूत् इति ।
(P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {4/15} शमि सञ्ज्ञयाम् अच् भवति इति अस्य अवकाशः शम्वदः शम्भवः ।
(P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {5/15} टस्य अवकाशः श्राद्धकरः पिण्डकरः ।
(P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {6/15} शङ्करा नाम परिव्राजिका ।
(P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {7/15} शङ्करा शकुनिका तच्छिला च ।
(P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {8/15} तस्याम् उभयम् प्राप्नोति ।
(P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {9/15} परत्वात् टः स्यात् ।
(P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {10/15} धातुग्रहणसामर्थ्यात् अच् एव भवति ।
(P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {11/15} कुणरवाडवः तु आह ।
(P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {12/15} न एषा शङ्करा ।
(P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {13/15} शङ्गरा एषा ।
(P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {14/15} गृणातिः शब्दकर्मा ।
(P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {15/15} तस्य एषः प्रयोगः ।
(P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {1/14} अधिकरणे शेतेः पार्श्वादिषु उपसङ्ख्यानम् । अधिकरणे शेतेः पार्श्वादिषु उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {2/14} पार्श्वशयः पृष्ठशयः उदरशयः ।
(P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {3/14} दिग्धसहपूर्वात् च ।
(P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {4/14} दिद्घसहपूर्वात् च इति वक्तव्यम् ।
(P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {5/14} दिग्धसहशयः ।
(P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {6/14} उत्तानादिषु कर्तृषु ।
(P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {7/14} उत्तानादिषु कर्तृषु इति वक्तव्यम् ।
(P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {8/14} उत्तानशयः अवमूर्धशयः ।
(P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {9/14} गिरौ डः छन्दसि ।
(P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {10/14} गिरौ उपपदे डः छन्दसि वक्तव्यः ।
(P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {11/14} गिरौ शेते गिरिशः ।
(P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {12/14} तद्धितः वा ।
(P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {13/14} तद्धितः वा पुनः एषः भवति ।
(P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {14/14} गिरौ शेते गिरिशः इति ।
(P_3,2.16) KA_II,101.2-6 Ro_III,233 {1/8} इह कस्मात् न भवति ।
(P_3,2.16) KA_II,101.2-6 Ro_III,233 {2/8} कुरून् चरति ।
(P_3,2.16) KA_II,101.2-6 Ro_III,233 {3/8} पञ्चालान् चरति इति ।
(P_3,2.16) KA_II,101.2-6 Ro_III,233 {4/8} अधिकरणे इति वर्तते ।
(P_3,2.16) KA_II,101.2-6 Ro_III,233 {5/8} ननु च कर्मणि इति अपि वर्तते ।
(P_3,2.16) KA_II,101.2-6 Ro_III,233 {6/8} तत्र कुतः एतत् ।
(P_3,2.16) KA_II,101.2-6 Ro_III,233 {7/8} अधिकरणे भविष्यति न पुनः कर्मणि इति ।
(P_3,2.16) KA_II,101.2-6 Ro_III,233 {8/8} चरेः भिक्षाग्रहणम् ज्ञपकम् कर्मणि अप्रसङ्गः । यत् अयम् भिक्षासेनादायेषु च इति चरेः भिक्षाग्रहणम् करोति तत् ज्ञापयति आचार्यः न भवति कर्मणि इति ।
(P_3,2.21) KA_II,101.9-11 Ro_III,234 {1/12} किंयत्तद्बहुषु कृञः अज्विधानम् ।
(P_3,2.21) KA_II,101.9-11 Ro_III,234 {2/12} किंयत्तद्बहुषु कृञः अज्विधानम् कर्तव्यम् ।
(P_3,2.21) KA_II,101.9-11 Ro_III,234 {3/12} किङ्करा ।
(P_3,2.21) KA_II,101.9-11 Ro_III,234 {4/12} किम् ।
(P_3,2.21) KA_II,101.9-11 Ro_III,234 {5/12} यत् ।
(P_3,2.21) KA_II,101.9-11 Ro_III,234 {6/12} यत्करा ।
(P_3,2.21) KA_II,101.9-11 Ro_III,234 {7/12} यत् ।
(P_3,2.21) KA_II,101.9-11 Ro_III,234 {8/12} तत् ।
(P_3,2.21) KA_II,101.9-11 Ro_III,234 {9/12} तत्करा ।
(P_3,2.21) KA_II,101.9-11 Ro_III,234 {10/12} तत् ।
(P_3,2.21) KA_II,101.9-11 Ro_III,234 {11/12} बहु ।
(P_3,2.21) KA_II,101.9-11 Ro_III,234 {12/12} बहुकरा ।
(P_3,2.24) KA_II,101.13-14 Ro_III,234 {1/4} स्तम्बशकृतोः व्रीहिवत्सयोः ।
(P_3,2.24) KA_II,101.13-14 Ro_III,234 {2/4} व्रीहिवत्सयोः इति वक्तव्यम् ।
(P_3,2.24) KA_II,101.13-14 Ro_III,234 {3/4} स्तम्बकरिः व्रीहिः ।
(P_3,2.24) KA_II,101.13-14 Ro_III,234 {4/4} शकृत्करिः वत्सः ।
(P_3,2.26) KA_II,101.16-102.3 Ro_III,234-235 {1/7} आत्मम्भरिः इति किम् निपात्यते ।
(P_3,2.26) KA_II,101.16-102.3 Ro_III,234-235 {2/7} आत्मनः मुम् भृञः च इन्प्रत्ययः ।
(P_3,2.26) KA_II,101.16-102.3 Ro_III,234-235 {3/7} अत्यल्पम् इदम् उच्यते ।
(P_3,2.26) KA_II,101.16-102.3 Ro_III,234-235 {4/7} भृञः कुक्ष्यात्मनोः मुम् च ।
(P_3,2.26) KA_II,101.16-102.3 Ro_III,234-235 {5/7} भृञः कुक्ष्यात्मनोः मुम् च इति वक्तव्यम् ।
(P_3,2.26) KA_II,101.16-102.3 Ro_III,234-235 {6/7} कुक्षिम्भरः ।
(P_3,2.26) KA_II,101.16-102.3 Ro_III,234-235 {7/7} आत्मम्भरिः चरति यूथम् असेवमानः ।
(P_3,2.28) KA_II,102.5-8 Ro_III,235 {1/11} खश्प्रकरणे वातसुनीतिलशर्धेषु अजधेट्तुदजहातिभ्यः । खश्प्रकरणे वातसुनीतिलशर्धेषु अजधेट्तुदजहातिभ्यः इति वक्तव्यम् ।
(P_3,2.28) KA_II,102.5-8 Ro_III,235 {2/11} वातमजाः मृगाः ।
(P_3,2.28) KA_II,102.5-8 Ro_III,235 {3/11} वात ।
(P_3,2.28) KA_II,102.5-8 Ro_III,235 {4/11} शुनी ।
(P_3,2.28) KA_II,102.5-8 Ro_III,235 {5/11} शुनीन्धयः ।
(P_3,2.28) KA_II,102.5-8 Ro_III,235 {6/11} शुनी ।
(P_3,2.28) KA_II,102.5-8 Ro_III,235 {7/11} तिल ।
(P_3,2.28) KA_II,102.5-8 Ro_III,235 {8/11} तिलन्द्तुदः ।
(P_3,2.28) KA_II,102.5-8 Ro_III,235 {9/11} तिल ।
(P_3,2.28) KA_II,102.5-8 Ro_III,235 {10/11} शर्ध ।
(P_3,2.28) KA_II,102.5-8 Ro_III,235 {11/11} शर्धञ्जहाः माषाः ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {1/22} स्तने धेटः ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {2/22} स्तने धेटः इति वक्तव्यम् ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {3/22} स्तनन्धयः ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {4/22} ततः मुष्टौ ध्मः च ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {5/22} मुष्टौ ध्मः च धेटः च इति वक्तव्यम् ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {6/22} मुष्टिन्धमः मुष्टिधयः ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {7/22} अतयल्पम् इदम् उच्यते ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {8/22} नासिकानाडीमुष्टिघटीखारीषु इति वक्तव्यम् ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {9/22} नासिकन्धमः नासिकन्धयः ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {10/22} नासिक ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {11/22} नाडी ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {12/22} नाडिन्धमः नाडिन्धयः ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {13/22} नाडी ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {14/22} मुष्टि ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {15/22} मुष्टिन्धमः मुष्टिधयः ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {16/22} मुष्टि ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {17/22} घटी ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {18/22} घटिन्धमः घटिन्धयः ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {19/22} घटी ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {20/22} खारी ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {21/22} खारिन्धमः खारिन्धयः ।
(P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {22/22} खारी ।
(P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {1/14} खच्प्रकरणे गमेः सुपि उपसङ्ख्यानम् ।
(P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {2/14} खच्प्रकरणे गमेः सुपि उपसङ्ख्यानम् ।
(P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {3/14} मितङ्गमः ।
(P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {4/14} मितङ्गमा हस्तिनी ।
(P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {5/14} विहायसः विह च ।
(P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {6/14} विहायसः विह इति अयम् आदेशः वक्तव्यः ।
(P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {7/14} खच् च ।
(P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {8/14} विहङ्गमः ।
(P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {9/14} खच् च डित् वा ।
(P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {10/14} खच् च डित् वा वक्तव्यः ।
(P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {11/14} विहङ्गः ।
(P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {12/14} डे च ।
(P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {13/14} डे च विहायसः विह इति अयम् आदेशः वक्तव्यः ।
(P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {14/14} विहगः ।
(P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {1/18} डप्रकरणे सर्वत्रपन्नयोः उपसङ्ख्यानम् ।
(P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {2/18} डप्रकरणे सर्वत्रपन्नयोः उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {3/18} सर्वत्रगः पन्नगः ।
(P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {4/18} उरसः लोपः च ।
(P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {5/18} उरसः लोपः च वक्तव्यः ।
(P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {6/18} उरगः ।
(P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {7/18} सुदुरोः अधिकरणे ।
(P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {8/18} सुदुरोः अधिकरणे डः वक्तव्यः ।
(P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {9/18} सुगः दुर्गः ।
(P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {10/18} निसः देशे ।
(P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {11/18} निसः देशे डः वक्तव्यः ।
(P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {12/18} निर्गः ।
(P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {13/18} अपर आह ।
(P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {14/18} डप्रकरणे अन्येषु अपि दृश्यते ।
(P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {15/18} डप्रकरणे अन्येषु अपि दृश्यते इति वक्तव्यम् ।
(P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {16/18} ततः स्त्र्यगारगः ।
(P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {17/18} अश्नुते यावत् अन्नाय ग्रामगः ।
(P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {18/18} ध्वंसते गुरुतल्पगः ।
(P_3,2.49) KA_II,103.17-104.3 Ro_III,237 {1/9} दारौ आहनः अण् अन्त्यस्य च टः सञ्ज्ञायाम् ।
(P_3,2.49) KA_II,103.17-104.3 Ro_III,237 {2/9} दारौ उपपदे आङ्पूर्वात् हन्तेः अण् वक्तव्यः अन्त्यस्य च टः वक्तव्यः ।
(P_3,2.49) KA_II,103.17-104.3 Ro_III,237 {3/9} दार्वाघाटः ते वनस्पतीनाम् ।
(P_3,2.49) KA_II,103.17-104.3 Ro_III,237 {4/9} चारौ वा ।
(P_3,2.49) KA_II,103.17-104.3 Ro_III,237 {5/9} चारौ उपपदे आङ्पूर्वात् हन्तेः अण् वक्तव्यः अन्त्यस्य च टः वा वक्तव्यः ।
(P_3,2.49) KA_II,103.17-104.3 Ro_III,237 {6/9} चार्वाघाटः चार्वाघातः ।
(P_3,2.49) KA_II,103.17-104.3 Ro_III,237 {7/9} कर्मणि समि च ।
(P_3,2.49) KA_II,103.17-104.3 Ro_III,237 {8/9} कर्मणि उपपदे सपूर्वात् हन्तेः अण् वक्तव्यः अन्त्यस्य च टः वा वक्तव्यः ।
(P_3,2.49) KA_II,103.17-104.3 Ro_III,237 {9/9} वर्णसङ्घाटः वर्णसङ्घातः पदसङ्घाटः पदसङ्घातः ।
(P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {1/16} कथम् इदम् विज्ञायते ।
(P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {2/16} लक्षणे कर्तरि इति आहोस्वित् लक्षणवति कर्तरि इति ।
(P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {3/16} किम् च अतः ।
(P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {4/16} यदि विज्ञायते लक्षणे कर्तरि इति सिद्धम् जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति ।
(P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {5/16} जायाघ्नः तिलकालकः पतिघ्नी पाणिरेखा इति ।
(P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {6/16} जायाघ्नः ब्राह्मणः पतिघ्नी व्र्षली इति न सिध्यति ।
(P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {7/16} अथ विज्ञायते लक्षणवति कर्तरि इति सिद्धम् जायाघ्नः ब्राह्मणः पतिघ्नी व्र्षली इति ।
(P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {8/16} जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति न सिध्यति ।
(P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {9/16} अस्तु लक्षणे कर्तरि इति ।
(P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {10/16} कथम् जायाघ्नः , ब्राह्मणः पतिघ्नी व्र्षली इति ।
(P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {11/16} अकारः मत्वर्थीयः ।
(P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {12/16} जायाघ्नः अस्मिन् अस्ति इति सः अयम् जायाघ्नः ।
(P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {13/16} पतिघ्नीवृषली इति न सिध्यति ।
(P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {14/16} अस्तु तर्हि लक्षणवति कर्तरि इति ।
(P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {15/16} कथम् जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति ।
(P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {16/16} अमनुष्यकर्तृके इति एवम् भविष्यति ।
(P_3,2.53) KA_II,104.14-17 Ro_III,238 {1/7} अप्रणिकर्तृके इति वक्तव्यम् ।
(P_3,2.53) KA_II,104.14-17 Ro_III,238 {2/7} इह मा भूत् ।
(P_3,2.53) KA_II,104.14-17 Ro_III,238 {3/7} नगरघातः हस्ती ।
(P_3,2.53) KA_II,104.14-17 Ro_III,238 {4/7} यदि अप्रणिकर्तृके इति उच्यते शशघ्नी शकुनिः इति न सिध्यति ।
(P_3,2.53) KA_II,104.14-17 Ro_III,238 {5/7} अस्तु तर्हि अमनुष्यकर्तृके इति एव ।
(P_3,2.53) KA_II,104.14-17 Ro_III,238 {6/7} कथम् नगरघातः हस्ती ।
(P_3,2.53) KA_II,104.14-17 Ro_III,238 {7/7} कृत्यल्युटः बहुलम् इति एवम् अत्र अण् भविष्यति ।
(P_3,2.55) KA_II,104.19-20 Ro_III,238 {1/3} राजघे उपसङ्ख्यानम् ।
(P_3,2.55) KA_II,104.19-20 Ro_III,238 {2/3} राजघे उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,2.55) KA_II,104.19-20 Ro_III,238 {3/3} राजघः ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {1/38} ख्युनि च्विप्रतिषेधानर्थक्यम् ल्युट्ख्य्नोः अविशेषात् ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {2/38} ख्युनि च्विप्रतिषेधः अनर्थकः ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {3/38} किम् कारणम् ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {4/38} ल्युट्ख्य्नोः अविशेषात् ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {5/38} ख्युना मुक्ते ल्युटा भवितव्यम् ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {6/38} न च अस्ति विशेषः च्व्यन्ते उपपदे ल्युटः ख्युनः वा ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {7/38} तत् एव रूपम् सः एव स्वरः ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {8/38} अयम् अस्ति विशेषः ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {9/38} ल्युटि सति ईकारेण भवितव्यम् ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {10/38} ख्युनि सति न भवितव्यम् ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {11/38} ख्युनि अपि सति भवतव्यम् ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {12/38} एवम् हि सौनागाः पठन्ति ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {13/38} नञ्स्नञीक्ख्युंस्तरुणतलुनानाम् उपसङ्ख्यानम् इति ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {14/38} अयम् तर्हि विशेषः ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {15/38} ख्युनि सति नित्यसमासेन भवितव्यम् ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {16/38} उपपदसमासः हि नित्यसमासः इति ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {17/38} ल्युटि सति न भवितव्यम् ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {18/38} ल्युटि अपि भवितव्यम् ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {19/38} गतिसमासः अपि हि नित्यसमासः ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {20/38} च्य्वन्तम् च गतिसञ्ज्ञम् भवति ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {21/38} मुमर्थम् तर्हि प्रतिषेधः वक्तव्यः ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {22/38} ख्युनि सति मुमा भवितव्यम् ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {23/38} ल्युति सति न भवितव्यम् ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {24/38} मुमर्थम् इति चेत् न अव्ययत्वात् ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {25/38} मुमर्थम् इति चेत् तत् न ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {26/38} किम् कारणम् ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {27/38} अव्ययत्वात् ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {28/38} अनव्ययस्य मुम् उच्यते ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {29/38} च्व्यन्तम् च अव्ययसञ्ज्ञम् ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {30/38} उत्तरार्थम् तु ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {31/38} उत्तरार्थम् तर्हि प्रतिषेधः वक्तव्यः ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {32/38} कर्तरि भुवः खिष्णुच्खुकञौ अच्वौ इति एव ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {33/38} आढ्यीभविता ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {34/38} अथ इदानीम् अनेन मुक्ते ताच्छीलिलः इष्णुच् विधीयते ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {35/38} सः अत्र कस्मात् न भवति ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {36/38} रूढिशब्दप्रकाराः तच्छीलिकाः ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {37/38} न च रूड्ःिशब्दाः गतिभिः विशेष्यन्ते ।
(P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {38/38} न हि भवति प्रदेवदत्तः इति ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {1/26} किमर्थम् खिष्णुच् इकारादिः क्रियते न क्स्नुः इति एव उच्येत ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {2/26} तत्र अयम् अपि अर्थः ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {3/26} स्वरार्थः चकारः न कर्तव्यः भवति ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {4/26} केन इदानीम् इकारादित्वम् क्रियते ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {5/26} इष्णुचः इकारादित्वम् उदात्तत्वात् कृतम् भुवः ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {6/26} भवतेः उदात्तत्वात् इकारादित्वम् भविष्यति ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {7/26} इदम् तर्हि प्रयोजनम् ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {8/26} खित् अयम् क्रियते ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {9/26} तत्र चर्त्वे कृते स्यात् ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {10/26} कित् वा खित् वा इति ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {11/26} सन्देहमात्रम् एतत् भवति ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {12/26} सर्वसन्देहेषु च इदम् उपतिष्ठते ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {13/26} व्याख्यानतः विशेषप्रतिपत्तिः ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {14/26} न हि सन्देहात् अलक्षणम् इति ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {15/26} खित् इति व्याख्यास्यामः ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {16/26} नञः तु स्वरसिद्ध्यर्थम् इकारादित्वम् इष्णुचः ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {17/26} इदम् तर्हि प्रयोजनम् ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {18/26} कृत्योकेष्णुच्चार्वादयः च इति एषः स्वरः यथा स्यात् ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {19/26} एतत् अपि न अस्ति प्रयोजनम् ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {20/26} अयम् अपि इटि कृते षत्वे च इष्णुच् भविष्यति ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {21/26} न सिध्यति ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {22/26} लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {23/26} अथ वा असिद्धम् खलु अपि षत्वम् ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {24/26} षत्वस्य असिद्धत्वात् इस्नुच् एव भवति ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {25/26} इष्णुचः इकारादित्वम् उदात्तत्वात् कृतम् भुवः ।
(P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {26/26} नञः तु स्वरसिद्ध्यर्थम् इकारादित्वम् इष्णुचः ।
(P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {1/19} किमर्थः नकारः ।
(P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {2/19} ञ्निति इति आद्युदात्तत्वम् यथा स्यात् ।
(P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {3/19} न एतत् अस्ति प्रयोजनम् ।
(P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {4/19} एकाचः अयम् विधीयते ।
(P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {5/19} तत्र न अर्थः स्वरार्थेन नकारेण अनुबन्धेन ।
(P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {6/19} धातुस्वरेण एव सिद्धम् ।
(P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {7/19} यः तर्हि अनेकाच् ।
(P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {8/19} दधृक् इति ।
(P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {9/19} वक्ष्यति एतत् धृषेः द्विर्वचनम् अन्तोदात्तत्वम् च निपात्यते इति ।
(P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {10/19} विशेषणार्थः तर्हि ।
(P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {11/19} क्व विशेषनार्थेन अर्थः ।
(P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {12/19} क्विन्प्रत्ययस्य कुः इति ।
(P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {13/19} क्विप्रत्ययस्य कुः इति उच्यमाने सन्देहः स्यात् ।
(P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {14/19} क्विः वा एषः प्रत्ययः क्विप् वा इति ।
(P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {15/19} सन्देहमात्रम् एतत् भवति ।
(P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {16/19} सर्वसन्देहेषु च इदम् उपतिष्ठते ।
(P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {17/19} व्याख्यानतः विशेषप्रतिपत्तिः ।
(P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {18/19} न हि सन्देहात् अलक्षणम् इति ।
(P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {19/19} क्क्विप्रत्ययस्य इति व्याख्यास्यामः ।
(P_3,2.59) KA_II,106.21-23 Ro_III,242 {1/3} दधृक् इति किम् निपात्यते ।
(P_3,2.59) KA_II,106.21-23 Ro_III,242 {2/3} धृषेः द्विर्वचनम् अन्तोदात्तत्वम् च ।
(P_3,2.59) KA_II,106.21-23 Ro_III,242 {3/3} धृषेः द्विर्वचनम् अन्तोदात्तत्वम् च निपात्यते ।
(P_3,2.60.1) KA_II,107.2-5 Ro_III,242 {1/9} किमर्थः ञकारः ।
(P_3,2.60.1) KA_II,107.2-5 Ro_III,242 {2/9} स्वरार्थः ।
(P_3,2.60.1) KA_II,107.2-5 Ro_III,242 {3/9} ञ्निति इति आद्युदात्तत्वम् यथा स्यात् ।
(P_3,2.60.1) KA_II,107.2-5 Ro_III,242 {4/9} न एतत् अस्ति प्रयोजनम् ।
(P_3,2.60.1) KA_II,107.2-5 Ro_III,242 {5/9} नकारेण अपि एषः स्वरः सिद्धः ।
(P_3,2.60.1) KA_II,107.2-5 Ro_III,242 {6/9} विशेषणार्थः तर्हि भविष्यति ।
(P_3,2.60.1) KA_II,107.2-5 Ro_III,242 {7/9} क्व विशेषणार्थेन अर्थः ।
(P_3,2.60.1) KA_II,107.2-5 Ro_III,242 {8/9} कञ्क्वरप् इति ।
(P_3,2.60.1) KA_II,107.2-5 Ro_III,242 {9/9} कन्क्वरप् इति उच्यामाने याचितिका अत्र अपि प्रसज्येत ।।
(P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {1/18} दृशेः समानान्ययोः च उपसङ्ख्यानम् ।
(P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {2/18} दृशेः समानान्ययोः च उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {3/18} सदृक् सदृशः अन्यादृक् अन्यादृशः ।
(P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {4/18} कृदर्थानुपपत्तिः तु ।
(P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {5/18} कृदर्थः तु न उपपद्यते ।
(P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {6/18} दृशेः कर्तरि प्राप्नोति ।
(P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {7/18} इवार्थे तु तद्धितः ।
(P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {8/18} इवार्थे अयम् तद्धितः द्रष्टव्यः ।
(P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {9/18} सः इव अयम् तादृक् ।
(P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {10/18} अन्य इव अयम् अन्यादृक् ।
(P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {11/18} अथ वा युक्तः एव अत्र कृदर्थः ।
(P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {12/18} कर्मकर्ता अयम् ।
(P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {13/18} तम् इव इमम् पश्यन्ति जनाः ।
(P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {14/18} सः अयम् सः इव दृश्यमानः तम् इव आत्मानम् पश्यति ।
(P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {15/18} तादृक् ।
(P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {16/18} अन्यम् इव इमम् पश्यन्ति जनाः ।
(P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {17/18} सः अयम् अन्यः इव दृश्यमानः अन्यम् इव आत्मानम् पश्यति ।
(P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {18/18} अन्यादृक् इति ।
(P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {1/14} सदादिषु सुब्ग्रहणम् ।
(P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {2/14} सदादिषु सुब्ग्रहणम् कर्तव्यम् ।
(P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {3/14} होता वेदिषत् ।
(P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {4/14} अतिथिः चुरोणसत् ।
(P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {5/14} न तर्हि इदानीम् उपसर्गे अपि इति वक्तव्यम् ।
(P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {6/14} वक्तव्यम् च ।
(P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {7/14} किम् प्रयोजनम् ।
(P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {8/14} ज्ञापकार्थम् ।
(P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {9/14} किम् ज्ञाप्यम् ।
(P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {10/14} एतत् ज्ञापयति आचार्यः ।
(P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {11/14} अन्यत्र सुब्ग्रहणे उपसर्गग्रहणम् न भवति इति ।
(P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {12/14} किम् एतस्य ज्ञापने प्रयोजनम् ।
(P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {13/14} वदः सुपि अनुपसर्गग्रहणम् चोदितम् ।
(P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {14/14} तत् न वक्तव्यम् भवति ।
(P_3,2.68-69) KA_II,108.2-6 Ro_III,244 {1/9} किमर्थम् इदम् उच्यते न अदः अनन्ने इति एव सिद्धम् ।
(P_3,2.68-69) KA_II,108.2-6 Ro_III,244 {2/9} न सिध्यति ।
(P_3,2.68-69) KA_II,108.2-6 Ro_III,244 {3/9} छन्दसि इति एतत् अनुवर्तते ।
(P_3,2.68-69) KA_II,108.2-6 Ro_III,244 {4/9} भाषार्थः अयम् आरम्भः ।
(P_3,2.68-69) KA_II,108.2-6 Ro_III,244 {5/9} पूर्वस्मिन् एव योगे छन्दोग्रहणम् निवृत्तम् ।
(P_3,2.68-69) KA_II,108.2-6 Ro_III,244 {6/9} तत् च अवश्यम् निवर्त्यम् अमात् इति एवमर्थम् ।
(P_3,2.68-69) KA_II,108.2-6 Ro_III,244 {7/9} अतः उत्तरम् पठति ।
(P_3,2.68-69) KA_II,108.2-6 Ro_III,244 {8/9} अदः अनन्ने क्रव्येग्रहणम् वासरूपनिवृत्त्यर्थम् ।
(P_3,2.68-69) KA_II,108.2-6 Ro_III,244 {9/9} अदः अनन्ने क्रव्येग्रहणम् क्रियते वासरूपः मा भूत् ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {1/28} श्वेतवहादीनां डस् ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {2/28} श्वेतवहादीनां डस् वक्तव्यः ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {3/28} श्वेतवाः इन्द्रः ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {4/28} पदस्य च ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {5/28} पदस्य च इति वक्तव्यम् ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {6/28} इह मा भूत् ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {7/28} श्वेतवाहौ श्वेतवाहः ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {8/28} किम् प्रयोजनम् ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {9/28} र्वर्थम् ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {10/28} रुः यथा स्यात् ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {11/28} क्रियते र्वर्थम् निपातनम् ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {12/28} अवयाः श्वेतवाः पुरोडाः च इति ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {13/28} आतः च र्वर्थम् ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {14/28} उक्थशस्शब्दस्य सामान्येन रुः सिद्धः ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {15/28} न तस्य निपातनम् क्रियते ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {16/28} तत् न वक्तव्यम् ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {17/28} अवश्यम् तत् वक्तव्यम् दीर्घार्थम् ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {18/28} न एतत् अस्ति प्रयोजनम् ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {19/28} सिद्धम् अत्र दीर्घत्वम् अत्वसन्तस्य च अधातोः इति ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {20/28} यत्र तेन न सिध्यति तदर्थम् ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {21/28} क्व च तेन न सिध्यति ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {22/28} सम्बुद्धौ ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {23/28} हे श्वेतवाः इति ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {24/28} न तर्हि इदानीम् डस् वक्तव्यः ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {25/28} वक्तव्यः च ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {26/28} किम् प्रयोजनम् ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {27/28} उत्तराऋथम् ।
(P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {28/28} श्वेतवोभ्याम् श्वेतवोभिः ।
(P_3,2.77) KA_II,108.20-109.3 Ro_III,246 {1/7} किमर्थम् स्थः कक्विपौ उच्येते न क्विप् सिद्धः अन्येभ्यः अपि दृश्यते इति कः च आतः अनुपसर्गे कः इति ।
(P_3,2.77) KA_II,108.20-109.3 Ro_III,246 {2/7} न सिध्यति ।
(P_3,2.77) KA_II,108.20-109.3 Ro_III,246 {3/7} विशेष्विहितः कः सामान्यविहितम् क्विपम् बाधते। वासरूपेण क्विप् अपि भविष्यति ।
(P_3,2.77) KA_II,108.20-109.3 Ro_III,246 {4/7} इदम् तर्हि शंस्थः शंस्थाः ।
(P_3,2.77) KA_II,108.20-109.3 Ro_III,246 {5/7} उक्तम् एतत् ।
(P_3,2.77) KA_II,108.20-109.3 Ro_III,246 {6/7} शमि सञ्ज्ञायाम् धातुग्रहणम् कृञः हेत्वादिषु टप्रतिषेधार्थम् इति ।
(P_3,2.77) KA_II,108.20-109.3 Ro_III,246 {7/7} सः यथा एव अच् टम् बाधते एवम् कक्विपौ अपि बाधेत ।
(P_3,2.78) KA_II,109.5-10 Ro_III,247 {1/10} सुपि इति वर्तमाने पुनः सुब्ग्रहणम् किमर्थम् ।
(P_3,2.78) KA_II,109.5-10 Ro_III,247 {2/10} अनुपसर्गे इति एवम् तत् अभूत् ।
(P_3,2.78) KA_II,109.5-10 Ro_III,247 {3/10} इदम् सुब्मात्रे यथा स्यात् ।
(P_3,2.78) KA_II,109.5-10 Ro_III,247 {4/10} प्रत्यासारिण्यः उदासारिण्यः ।
(P_3,2.78) KA_II,109.5-10 Ro_III,247 {5/10} णिन्विधौ साधुकारिणि उपसङ्ख्यानम् ।
(P_3,2.78) KA_II,109.5-10 Ro_III,247 {6/10} णिन्विधौ साधुकारिणि उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,2.78) KA_II,109.5-10 Ro_III,247 {7/10} साधुकारी साधुदायी ।
(P_3,2.78) KA_II,109.5-10 Ro_III,247 {8/10} ब्रह्मणि वदः ।
(P_3,2.78) KA_II,109.5-10 Ro_III,247 {9/10} ब्रह्मणि वदः उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,2.78) KA_II,109.5-10 Ro_III,247 {10/10} ब्रह्मवादिनः वदन्ति ।
(P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {1/19} किम् उदाहरणम् ।
(P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {2/19} अश्राद्धभोजी ।
(P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {3/19} किम् यः अश्राद्धम् भुङ्क्ते सः अश्राद्धभोजी ।
(P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {4/19} किम् च अतः ।
(P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {5/19} यदा असौ अश्राद्धम् न भुङ्क्ते तदा अस्य व्रतलोपः स्यात् ।
(P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {6/19} तत् यथा : स्थायी यदा न तिष्थति तदा अस्य व्रतलोपः भवति ।
(P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {7/19} एवम् तर्हि णिन्यन्तेन समासः भविष्यति : न श्राद्धभोजी अश्राद्धभोजी ।
(P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {8/19} न एवम् शक्यम् ।
(P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {9/19} स्वरे हि दोषः स्यात् ।
(P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {10/19} अश्राद्धभोजी इति एवम् स्वरः प्रसज्येत ।
(P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {11/19} अश्राद्धभोजी इति च इष्यते ।
(P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {12/19} एवम् तर्हि नञः एव अयम् भुजिप्रतिषेधवाचिनः श्राद्धशब्देन असमर्थसमासः : न भोजी श्राद्धस्य इति ।
(P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {13/19} सः तर्हि असमर्थसमासः वक्तव्यः ।
(P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {14/19} यदि अपि वक्तव्यः अथ वा एतर्हि बहूनि प्रयोजनानि ।
(P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {15/19} कानि ।
(P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {16/19} असूर्यम्पश्यानि मुखानि ।
(P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {17/19} अपूर्वगेयाः श्लोकाः ।
(P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {18/19} अश्राद्धभोजी ब्राह्मणः ।
(P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {19/19} सुट् अनपुंसकस्य इति ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {1/33} आत्मग्रहणम् किमर्थम् ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {2/33} परमाने मा भूत् ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {3/33} क्रियमाणे अपि आत्मग्रहणे परमाने प्राप्नोति ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {4/33} किम् कारणम् ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {5/33} आत्मनः इति इयम् कर्तरि षष्ठी मानः इति अकारः भावे ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {6/33} सः यदि एव आत्मानम् मन्यते अथ अपि परम् आत्मनः एव असौ मानः भवति ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {7/33} न एषः दोषः ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {8/33} आत्मनः इति कर्मणि षष्ठी ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {9/33} कथम् ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {10/33} कर्तृकर्मणोः कृति इति ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {11/33} ननु च कर्तरि अपि वै एतेन एव विधीयते ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {12/33} तत्र कुतः एतत् कर्मणि भविष्यति न पुनः कर्तरि इति ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {13/33} एवम् तर्हि कर्मकर्तरि च ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {14/33} कर्मकर्तरि च इति वक्तव्यम् ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {15/33} तत् तर्हि वक्तव्यम् ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {16/33} न वक्तव्यम् ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {17/33} आत्मनः इति कर्मणि षष्ठी ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {18/33} कथम् ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {19/33} कर्तृकर्मणोः कृति इति ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {20/33} ननु च उक्तम् कर्तरि अपि वै एतेन एव विधीयते ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {21/33} तत्र कुतः एतत् कर्मणि भविष्यति न पुनः कर्तरि इति ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {22/33} आत्मग्रहणसामर्थ्यात् कर्मणि विज्ञास्यते ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {23/33} एवम् अपि कर्मकर्तृग्रहणम् कर्तव्यम् कर्मापदिष्टः यक् यथा स्यात् श्यन् मा भूत् इति ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {24/33} कः च अत्र विशेषः यकः वा श्यनः वा ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {25/33} यकि सति अन्तोदात्तत्वेन भवितयम् श्यनि सति आद्युदात्तत्वेन ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {26/33} श्यनि अपि सति अन्तोदात्तत्वेन एव भवितव्यम् ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {27/33} कथम् ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {28/33} खशः स्वरः श्यनः स्वरम् बाधिष्यते ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {29/33} सति शिष्टत्वात् श्यनः स्वरः प्राप्नोति ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {30/33} आचार्यप्रवृत्तिः ज्ञापयति सति शिष्टः अपि विकरणस्वरः सार्वधातुकस्वरम् न बाधते इति यत् अयम् तासेः परस्य लसार्वधातुकस्य अनुदात्तत्वम् शास्ति ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {31/33} लसार्वधातुके एतत् ज्ञापकम् स्यात् ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {32/33} न इति आह ।
(P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {33/33} अविशेषेण ज्ञापकम् ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {1/55} भूते इति उच्यते ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {2/55} कस्मिन् भूते ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {3/55} काले ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {4/55} न वै कालाधिकारः अस्ति ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {5/55} एवम् तर्हि धातोः इति वर्तते ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {6/55} धातौ भूते ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {7/55} धातुः वै शब्दः ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {8/55} न च शब्दस्य भूतभविष्यद्वर्तमानतायाम् सम्भवः अस्ति ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {9/55} शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {10/55} कः पुनः धात्वर्थः ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {11/55} क्रिया ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {12/55} क्रियायाम् भूतायाम् ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {13/55} यदि एवम् निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {14/55} निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {15/55} का इतरेतराश्रयता ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {16/55} भूतकालेन शब्देन निर्देशः क्रियते ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {17/55} निर्देशोत्तरकालम् च भूतकालता ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {18/55} तत् एतत् इतरेतराश्रयम् भवति ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {19/55} इतरेतराश्रयाणि च न प्रकल्पन्ते ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {20/55} अव्ययनिर्देशात् सिद्धम् ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {21/55} अव्ययवता शब्देन निर्देशः करिष्यते ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {22/55} अवर्तमाने अभविष्यति इति ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {23/55} सः तर्हि अव्ययवता शब्देन निर्देशः कर्तव्यः ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {24/55} न कर्तव्यः ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {25/55} अव्ययम् एषः भूतेशब्दः न भवतेः निष्ठा ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {26/55} कथम् अव्ययत्वम् ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {27/55} विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {28/55} निपातम् अव्ययम् इति अवययसञ्ज्ञा ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {29/55} अथ अपि भवतेः निष्ठा एवम् अपि अवययम् एव ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {30/55} कथम् न व्येति इति अव्ययम् ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {31/55} क्व पुनः न व्येति ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {32/55} एतौ कालविशेषौ वर्तमानभविष्यन्तौ ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {33/55} स्वभावतः भूते एव वर्तते ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {34/55} यदि तत्रि न व्येति इति अव्ययम् ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {35/55} न वा तद्विधानस्य अन्यत्र अभावात् ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {36/55} न वा भूताधिकारेण अर्थः ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {37/55} किम् कारणम् ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {38/55} तद्विधानस्य अन्यत्र अभावात् ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {39/55} ये अपि एते इतः उत्तरम् प्रत्ययाः शिष्यन्ते एते अपि एतौ कालविशेषौ न वियन्ति वर्तमानभविष्यन्तौ ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {40/55} स्वभावतः एव ते भूते एव वर्तन्ते ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {41/55} अतः उत्तरम् पठति ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {42/55} भूताधिकारस्य प्रयोजनम् कुमारघाती शीर्षघाती आखुहा बिडालः सुत्वानः सुनवन्तः सुषुपुषः अनेहाः अग्निम् आदधानस्य ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {43/55} कुमारघाती शीर्षघाती इति भविष्यद्वर्तमानार्थः भूतनिवृत्त्यर्थः ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {44/55} आखुहा बिडालः इति भविष्यद्वर्तमानार्थः ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {45/55} इतरथा हि ब्रह्मादिषु नियमः त्रिषु कालेषु निवर्तकः स्यात् ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {46/55} सुत्वानः सुन्वन्तः ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {47/55} यज्ञसंयोगे ङ्वनिपः त्रिषु कालेषु शता अपवादः मा भूत् ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {48/55} सुषुपुषः ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {49/55} नजिङ् सर्वकालपवादः मा भूत् ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {50/55} अनेहाः इति वर्तमानकालः एव ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {51/55} अन्यत्र अनाहन्ता ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {52/55} आदधानस्य ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {53/55} कानचः चानश् ताच्छीलादिषु सर्वकालापवादः मा भूत् ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {54/55} अग्निम् आदधानस्य ।
(P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {55/55} आदधानस्य इति एव अन्यत्र ।
(P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {1/13} किमर्थम् ब्रह्मादिषु हन्तेः क्विप् विधीयते ।
(P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {2/13} न क्विप् च अन्येभ्यः अपि दृश्यते इति एव सिद्धम् ।
(P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {3/13} ब्रह्मादिषु हन्तेः क्विब्वचनम् नियमार्थम् । नियमार्थः अयम् आरम्भः ।
(P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {4/13} ब्रह्मादिषु एव हन्तेः क्विप् यथा स्यात् ।
(P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {5/13} किम् अविशेषेण ।
(P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {6/13} न इति आह ।उपपदविशेषे एतस्मिन् च विशेषे ।
(P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {7/13} अथ ब्रह्मादिषु हन्तेः णिनिना भवितव्यम् ।
(P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {8/13} न भवितव्यम् ।
(P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {9/13} किम् कारणम् ।
(P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {10/13} उभयतः नियमात् ।
(P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {11/13} उभयतः नियमः अयम् ।
(P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {12/13} ब्रह्मादिषु एव हन्तेः क्विप् भवति ।
(P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {13/13} क्विप् एव च ब्रह्मादिषु इति ।
(P_3,2.93) KA_II,112.17-18 Ro_III,255 {1/4} कर्मणि कुत्सिते ।
(P_3,2.93) KA_II,112.17-18 Ro_III,255 {2/4} कर्मणि कुत्सिते इति वक्तव्यम् ।
(P_3,2.93) KA_II,112.17-18 Ro_III,255 {3/4} इह मा भूत् ।
(P_3,2.93) KA_II,112.17-18 Ro_III,255 {4/4} धान्यविक्रायः ।
(P_3,2.101) KA_II,112.20-21 Ro_III,256 {1/2} अन्येभ्यः अपि दृश्यते इति वक्तव्यम् , इह अपि यथा स्यात् ।
(P_3,2.101) KA_II,112.20-21 Ro_III,256 {2/2} आखा उत्खा परिखा ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {1/38} निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {2/38} निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {3/38} का इतरेतराश्रयता ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {4/38} सतोः क्तक्तवत्वोः सञ्ज्ञया भवितव्यम् सञ्ज्ञया च क्तक्तवतू भाव्येते ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {5/38} तत् एतत् इतरेतराश्रयम् भवति ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {6/38} इतरेतराश्रयाणि च न प्रकल्पन्ते ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {7/38} द्विः वा क्तक्तव्तुग्रहणम् ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {8/38} द्विः वा क्तक्तव्तुग्रहणम् कर्तव्यम् ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {9/38} क्तक्तव्तू भूते ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {10/38} क्तक्तवतू निष्ठा इति ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {11/38} यदि पुनः इह एव निष्ठासञ्ज्ञा अपि उच्येत : क्तक्तव्तू भूते ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {12/38} ततः निष्ठा ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {13/38} निष्ठासञ्ज्ञौ च क्तक्तव्तू भवतः इति ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {14/38} किम् कृतम् भवति ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {15/38} द्विः वा क्तक्तव्तुग्रहणम् न कर्तव्यम् भवति ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {16/38} एवम् अपि तौ इति वक्तव्यम् स्यात् ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {17/38} वक्ष्यति हि एतत् ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {18/38} तौ सत् इति वचनम् असंसर्गार्थम् इति ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {19/38} असंसक्तयोः भूतेन कालेन निष्ठासञ्ज्ञा यथा स्यात् ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {20/38} ञिमिदा मिन्नः ञिक्ष्विदा क्ष्विन्नः ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {21/38} यदि पुनः अदृष्टश्रुतौ एव क्तक्तवतू गृहीत्वा निष्ठासञ्ज्ञा उच्येत ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {22/38} न एवम् शक्यम् ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {23/38} दृष्टश्रुतयोः न स्यात् ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {24/38} ञिमिदा मिन्नः ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {25/38} तस्मात् न एवम् शक्यम् ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {26/38} न चेत् एवम् द्विः वा क्तक्तव्तुग्रहणम् कर्तव्यम् इतरेतराश्रयम् वा भवति ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {27/38} न एषः दोषः ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {28/38} इतरेतराश्रयमात्रम् एतत् भवति ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {29/38} सर्वाणि च इतरेतराश्रयाणि एकत्वेन परिहृतानि सिद्धम् तु नित्यशब्दत्वात् इति ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {30/38} न इदम् तुल्यम् अन्यैः इतरेतराश्रयैः ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {31/38} न हि सञ्ज्ञा नित्या ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {32/38} एवम् तर्हि भाविनी सञ्ज्ञा विज्ञास्यते ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {33/38} तत् यथा : कः चित् कम् चित् तन्तुवायम् आह : अस्य सूत्रस्य शाटकम् वय इति ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {34/38} सः पश्यति ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {35/38} यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {36/38} शाटकः वातव्यः इति विप्रतिषिद्धम्। भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {37/38} सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति ।
(P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {38/38} एवम् इह अपि तौ भूते काले भवतः ययोः अभिनिर्वृतयोः निष्ठा इति एषा सञ्ज्ञा भविष्यति ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {1/28} आदिकर्मणि निष्ठा ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {2/28} आदिकर्मणि निष्ठा वक्तव्या ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {3/28} प्रकृतः कटम् देवदत्तः ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {4/28} किम् पुनः कारणम् न सिध्यति ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {5/28} यत् वा भवन्त्यर्थे ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {6/28} यत् वा भवन्त्यर्थे भाष्यते ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {7/28} प्रकृतः कटम् देवदत्तः ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {8/28} प्रकरोति कटम् देवदत्तः इति ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {9/28} न्याय्या तु आद्यपवर्गात् ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {10/28} न्याय्या तु एषा भूतकालता ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {11/28} कुतः ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {12/28} आद्यपवर्गात् ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {13/28} आदिः अत्र अपवृक्तः ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {14/28} एषः च नाम न्याय्यः भूतकालः यत्र किम् चित् अपवृक्तम् दृश्यते ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {15/28} वा च अद्यतन्याम् ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {16/28} वा च अद्यतन्याम् भाष्यते ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {17/28} प्रकृतः कटम् देवदत्तः ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {18/28} प्राकार्षीत् कटम् देवदत्तः इति ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {19/28} किम् शक्यन्ते एते शब्दाः प्रयोक्तुम् इति अतः न्याय्या एषा भूतकालता ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {20/28} न अवश्यम् प्रयोगात् एव ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {21/28} क्रिया नाम इयम् अत्यन्तापरिदृष्टा अनुमानगम्या अशक्या पिण्डीभूता निदर्शयितुम् यथा गर्भः निर्लुठितः ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {22/28} सा असौ येन येन शब्देन अभिसम्बध्यते तावति तावति परिसम्पाप्यते ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {23/28} तत् यथा ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {24/28} कः चित् पाटलिपुत्रम् जिगमिषुः एकम् अहः गत्वा आह इदम् अद्य गतम् इति ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {25/28} न च तावता अस्य व्रजिक्रिया परिसमाप्ता भवति ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {26/28} यत् तु गतम् तत् अभिसमीक्ष्य एतत् प्रयुज्यते इदम् अद्य गतम् इति ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {27/28} एवम् इह अपि यत् कृतम् तत् अभिसमीक्ष्य एतत् प्रयुज्यते प्रकृतः कटम् देवदत्तः इति ।
(P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {28/28} यदा हि वेणिकान्तः कटः अभिसमीक्षितः भवति प्रकरोति कटम् इति एव तदा भवति ।
(P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {1/14} किमर्थम् कानच्क्वसोः वावचनम् क्रियते ।
(P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {2/14} कानच्क्वसोः वावचनम् छन्दसि तिङः दर्शनात् ।
(P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {3/14} कानच्क्वसोः वावचनम् क्रियते छन्दसि तिङः दर्शनात् ।
(P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {4/14} छन्दसि तिङ् अपि दृश्यते ।
(P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {5/14} अहम् सूरम् उभयतः ददर्श ।
(P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {6/14} अहम् द्यावापृथिवी आततान ।
(P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {7/14} न वा अनेन विहितस्य आदेशवचनात् ।
(P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {8/14} न वा एतत् प्रयोजनम् अस्ति ।
(P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {9/14} किम् कारणम् ।
(P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {10/14} अनेन विहितस्य आदेशवचनात् ।
(P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {11/14} अस्तु अनेन विहितस्य आदेशः ।
(P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {12/14} केन इदानीम् छन्दसि विहितस्य लिटः श्रवणम् भविष्यति ।
(P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {13/14} छन्दसि लुङ्लङ्लिटः इति अनेन ।
(P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {14/14} तत् एतत् वावचनम् तिष्ठतु तावत् सान्न्यासिकम् ।
(P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {1/14} अथ कित्करणम् किमर्थम् न असंयोगात् लिट् कित् इति एव सिद्धम् ।
(P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {2/14} कित्कररणम् संयोगार्थम् ।
(P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {3/14} कित्कररणम् क्रियते संयोगार्थम् ।
(P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {4/14} संयोगान्ताः प्रयोजयन्ति ।
(P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {5/14} वृत्रस्य यत् बद्बधानस्य रोदसी ।
(P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {6/14} त्वम् अर्णवान् बद्बधानां अरम्णाः ।
(P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {7/14} अञ्जेः आजिवान् इति ।
(P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {8/14} छान्दसौ कानच्क्वसू ।
(P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {9/14} लिट् च छन्दसि सार्वधातुकम् अपि भवति ।
(P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {10/14} तत्र सार्वधातुकम् अपित् ङित् भवति इति ङित्त्वात् लुपधालोपः भविष्यति । ॠकारान्तगुणप्रतिषेधार्थम् वा ।
(P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {11/14} ॠकारान्तगुणप्रतिषेधार्थम् तर्हि कित्करणम् कर्तव्यम् ।
(P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {12/14} अयम् लिटि ॠकारान्तानाम् प्रतिषेधविषये गुणः आरभ्यते ।
(P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {13/14} सः यथा एव इह प्रतिषेधम् बाधित्वा गुणः भवति तेरतुः तेरुः एवम् इह अपि स्यात् तितीर्वान् तिरिराणः ।
(P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {14/14} पुनः कित्करणा प्रतिषिध्यते ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {1/36} भाषायाम् सदादिभ्यः वा लिट् ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {2/36} भाषायाम् सदादिभ्यः वा लिट् वक्तव्यः ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {3/36} किम् प्रयोजनम् ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {4/36} तद्विषये लुङः अनिवृत्त्यर्थम् ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {5/36} तस्य लिटः विषये लुङः अनिवृत्तिः यथा स्यात् ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {6/36} उपसेदिवान् कौत्सः पाणिनिम् ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {7/36} उपासदत् ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {8/36} अनद्यतनपरोक्षयोः च ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {9/36} अनद्यतनपरोक्षयोः च वा लिट् वक्तव्यः ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {10/36} उपसेदिवान् कौत्सः पाणिनिम् ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {11/36} उपासीदत् ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {12/36} उपससाद ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {13/36} अपवादविप्रतिषेधात् हि तयोः भावः ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {14/36} अपवादविप्रतिषेधात् हि तौ स्याताम् ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {15/36} कौ ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {16/36} लङ्लिटौ ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {17/36} तस्य क्वसुः अपरोक्षे नित्यम् ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {18/36} तस्य लिटः भाषायाम् क्वसुः अपरोक्षे नित्यम् इति वक्तव्यम् ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {19/36} अपरोक्षग्रहणेन न अर्थः ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {20/36} तस्य क्वसुः नित्यम् इति एव ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {21/36} केन इदानीम् लिटः परोक्षे श्रवणम् भविष्यति ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {22/36} परोक्षे लिट् इति अनेन ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {23/36} तत् तर्हि वक्तव्यम् ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {24/36} न वक्तव्यम् ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {25/36} अनुवृत्तिः करिष्यते ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {26/36} भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {27/36} ततः लुङ् ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {28/36} लुङ् भवति भूते काले ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {29/36} भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {30/36} ततः अनद्यतने लङ् ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {31/36} अनद्यतने भूते काले लङ् भवति ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {32/36} भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {33/36} परोक्षे लिट् भवति ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {34/36} भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {35/36} तत्र अयम् अपि अर्थः ।
(P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {36/36} तस्य क्वसुः अपरोक्षे नित्यम् इति एतत् न वक्तव्यम् भवति ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {1/60} किम् उपेयिवान् इति निपातनम् क्रियते ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {2/60} उपेयुषि निपातनम् इडर्थम् ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {3/60} उपेयुषि निपातनम् क्रियते इडर्थम् ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {4/60} इट् यथा स्यात् ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {5/60} न एतत् अस्ति प्रयोजनम् ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {6/60} सिद्धः अत्र इट् वस्वेकाकाद्घसाम् इति ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {7/60} द्विर्वचने कृते अनेकाच्त्वात् न प्राप्नोति ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {8/60} इदम् इह सम्प्रधार्यम् ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {9/60} द्विर्वचनम् क्रियताम् इट् इति ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {10/60} किम् अत्र कर्तव्यम् ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {11/60} परत्वात् इडागमः ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {12/60} नित्यम् द्विर्वचनम् ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {13/60} कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {14/60} इट् अपि नित्यः ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {15/60} कृते अपि द्विर्वचने एकादेशे च प्राप्नोति अकृते अपि प्राप्नोति ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {16/60} न अत्र एकादेशः प्राप्नोति ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {17/60} किम् कारणम् ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {18/60} दीर्घः इणः किति इति दीर्घत्वेन बाधते ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {19/60} तत् एतत् उपेयुषि निपातनम् इडर्थम् क्रियते ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {20/60} उपेयुषि निपातनम् इडर्थम् इति चेत् अजादौ अतिप्रसङ्गः । उपेयुषि निपातनम् इडर्थम् इति चेत् अजादौ अतिप्रसङ्गः भवति ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {21/60} उपेयुषा उपेयुषे उपेयुषः उपेयुषि इति ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {22/60} एकादिष्टस्य ईय्भावार्थम् तु ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {23/60} एकादिष्टस्य ईय्भावार्थम् तु निपातनम् क्रियते ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {24/60} एकादिष्टस्य ईय् इति एतत् रूपम् निपात्यते ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {25/60} ननु च उक्तम् न अत्र एकादेशः प्राप्नोति ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {26/60} किम् कारणम् ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {27/60} दीर्घः इणः किति इति दीर्घत्वेन बाधते इति ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {28/60} तत् हि न सुष्ठु उच्यते ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {29/60} न हि दीर्घत्वम् एकादेशम् बाधते ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {30/60} कः तर्हि बाधते ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {31/60} यणादेशः ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {32/60} सः च क्व बाधते ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {33/60} यत्र अस्य निमित्तम् अस्ति ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {34/60} यत्र हि निमित्तम् न अस्ति निष्प्रतिद्वन्द्वः तत्र एकादेशः ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {35/60} व्यञ्जने यणादेशार्थम् वा ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {36/60} अथ वा व्यञ्जने एव यणादेशः निपात्यते ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {37/60} यणादेशे कृते एकाचः इति इट् सिद्धः भवति ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {38/60} अपरः आह : न उपेयिवान् निपात्यः ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {39/60} द्विर्वचनाद् इट् भविष्यति परत्वात् ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {40/60} द्विर्वचनम् क्रियताम् इट् इति इट् भविष्यति विप्रतिषेधेन ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {41/60} इह अपि तर्हि द्विर्वचनात् इट् स्यात् बिभिद्वान् चिच्छिद्वान् ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {42/60} अन्येषाम् एकाचाम् द्विर्वचनम् नित्यम् इति आहुः । अन्येषाम् एकाचाम् नित्यम् द्विर्वचनम् ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {43/60} कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {44/60} अस्य पुनः इट् च नित्यः द्विव्रचनम् च । अस्य पुनः इट् च एव नित्यः द्विव्रचनम् च ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {45/60} द्विर्वचने च कृते एकाच् भवति ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {46/60} कथम् ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {47/60} एकादेशे कृते ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {48/60} तस्मात् इट् बाधते द्वित्वम् ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {49/60} तस्मात् इट् द्विर्वचनम् बाधते ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {50/60} अनूचानः कर्तरि ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {51/60} अनूचानः कर्तरीति वक्तव्यम् ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {52/60} अनूक्तवान् अनूचानः ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {53/60} अनूक्तम् इति एव अन्यत्र ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {54/60} न उपेयिवान् निपात्यः ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {55/60} द्विर्वचनाद् इट् भविष्यति परत्वात् ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {56/60} अन्येषाम् एकाचाम् द्विर्वचनम् नित्यम् इति आहुः ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {57/60} अस्य पुनः इट् च नित्यः द्विव्रचनम् च ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {58/60} न विहन्यते हि अस्य ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {59/60} द्विर्वचने च एकाच्त्वात् ।
(P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {60/60} तस्मात् इट् बाधते द्वित्वम् ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {1/35} लुङ्लृटोः अपवादप्रसङ्गः भूतभविष्यतोः अविशेषवचनात् ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {2/35} लुङ्लृटोः अपवादः प्राप्नोति ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {3/35} अगाम घोषान् ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {4/35} अपाम पयः ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {5/35} अशयिष्महि पूतीकतृणेषु ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {6/35} गमिष्यामः घोषान् ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {7/35} पास्यामः पयः ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {8/35} शयिष्यामहे पूतीकतृणेषु ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {9/35} किम् कारणम् ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {10/35} भूतभविष्यतोः अविशेषवचनात् ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {11/35} भूतभविष्यतोः अविशेषेण विधीयेते लुङ्लृटौ ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {12/35} तयोः विशेषविहितौ लन्लुटौ अपवादौ प्राप्नुतः ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {13/35} न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {14/35} न वा एषः दोषः ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {15/35} किम् कारणम् ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {16/35} अपवादस्य निमित्ताभावात् ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {17/35} न अत्र अपवादस्य निमित्तम् अस्ति ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {18/35} किम् कारणम् ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {19/35} अनद्यतने हि तयोः विधानम् ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {20/35} अनद्यतने हि तौ विधीयेते लङ्लुटौ ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {21/35} न च अत्र अनद्यतनः कालः विवक्षितः ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {22/35} किम् तर्हि ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {23/35} भूतकालसामान्यम् भविष्यत्कालसामान्यम् च ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {24/35} यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् गमिष्यामः घोषान् पास्यामः पयः शयिष्यामहे पूतीकतृणेषु इति यत्र एतत् न ज्ञायते किम् कदा इति ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {25/35} इह तु कथम् अगाम घोषान् अपाम पयः अशयिष्महि पूतीकतृणेषु यत्र एतत् निर्ज्ञातम् भवति अमुष्मिन् अहनि गतम् इति ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {26/35} अत्र अपि न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् इति एव ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {27/35} कथम् पुनः सतः नाम अविवक्षा स्यात् ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {28/35} सतः अपि अविवक्षा भवति ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {29/35} तत् यथा ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {30/35} अलोमिका एडका ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {31/35} अनुदरा कन्या ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {32/35} असतः च विवक्षा भवति ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {33/35} तत् यथा ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {34/35} समुद्रः कुण्डिका ।
(P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {35/35} विन्ध्यः वर्धितकम् इति ।
(P_3,2.110.2) KA_II,118.15-20 Ro_III,268 {1/10} वसेः लुङ् रात्रिशेषे ।
(P_3,2.110.2) KA_II,118.15-20 Ro_III,268 {2/10} वसेः लुङ् रात्रिशेषे वक्तव्यः ।
(P_3,2.110.2) KA_II,118.15-20 Ro_III,268 {3/10} न्याय्ये प्रत्युत्थाने प्रत्युत्थितम् कः चित् कम् चित् पृच्छति ।
(P_3,2.110.2) KA_II,118.15-20 Ro_III,268 {4/10} क्व भवान् उषितः इति ।
(P_3,2.110.2) KA_II,118.15-20 Ro_III,268 {5/10} सः आह ।
(P_3,2.110.2) KA_II,118.15-20 Ro_III,268 {6/10} अमुत्र अवात्सम् इति ।
(P_3,2.110.2) KA_II,118.15-20 Ro_III,268 {7/10} अमुत्र अवसम् इति प्राप्नोति ।
(P_3,2.110.2) KA_II,118.15-20 Ro_III,268 {8/10} जागरणसन्ततौ ।
(P_3,2.110.2) KA_II,118.15-20 Ro_III,268 {9/10} जागरणसन्ततौ इति वक्तव्यम् ।
(P_3,2.110.2) KA_II,118.15-20 Ro_III,268 {10/10} यः हि मुहूर्तमात्रम् अपि स्वपिति तत्र अमुत्र अवसम् इति एव भवितव्यम् ।
(P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {1/21} अनद्यतने इति बहुव्रीहिनिर्देशः अद्य ह्यः अभुक्ष्महि इति ।
(P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {2/21} अनद्यतने इति बहुव्रीहिनिर्देशः कर्तव्यः ।
(P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {3/21} अविद्यमानाद्यतने अनद्यतने इति ।
(P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {4/21} किम् प्रयोजनम् ।
(P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {5/21} अद्य ह्यः अभुक्ष्महि इति ।
(P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {6/21} अद्य च ह्यः च अभुक्ष्महि इति व्यामिश्रे लुङ् एव यथा स्यात् ।
(P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {7/21} यदि एवम् अद्यतने अपि लङ् प्राप्नोति ।
(P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {8/21} न हि अद्यतने अद्यतनः विद्यते ।
(P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {9/21} अद्यतने अपि अद्यतनः विद्यते ।
(P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {10/21} कथम् ।
(P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {11/21} व्यपदेशिवद्भावेन ।
(P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {12/21} परोक्षे च लोकविज्ञाते प्रयोक्तुः दर्शनविषये ।
(P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {13/21} परोक्षे च लोकविज्ञाते प्रयोक्तुः दर्शनविषये लङ् वक्तव्यः ।
(P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {14/21} अरुणत् यवनः साकेतम् ।
(P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {15/21} अरुणत् यवनः मधमिकाम् ।
(P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {16/21} परोक्षे इति किमर्थम् ।
(P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {17/21} उदगात् आदित्यः ।
(P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {18/21} लोकविज्ञते इति किमर्थम् ।
(P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {19/21} चकार कटम् देवदत्तः ।
(P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {20/21} प्रयोक्तुः दर्शनविषये इति किमर्थम् ।
(P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {21/21} जघान कंसम् किल वासुदेवः ।
(P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {1/14} किम् उदाहरणम् ।
(P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {2/14} तत्र सक्तून् पास्यामः ।
(P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {3/14} अभिजानासि देवदत्त तत्र सक्तून् अपिबाम ।
(P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {4/14} भवेत् पूर्वम् परम् आकाङ्क्षति इति साकाङ्क्षम् स्यात् ।
(P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {5/14} परम् तु कथम् साकाङ्क्षम् ।
(P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {6/14} परम् अपि साकाङ्क्षम् ।
(P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {7/14} कथम् अस्ति अस्मिन् आकाङ्क्षा इति अतः साकाङ्क्षम् ।
(P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {8/14} विभाषा साकाङ्क्षे सर्वत्र ।
(P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {9/14} विभाषा साकाङ्क्षे सर्वत्र इति वक्तव्यम् ।
(P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {10/14} क्व सर्वत्र ।
(P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {11/14} यदि च अयदि च ।
(P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {12/14} यदि तावत् ।
(P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {13/14} अभिजानासि देवदत्त यत् कश्मीरान् गमिष्यामः यत् कश्मीरान् अगच्छाम यत् तत्र ओदनम् भोक्ष्यामहे यत् तत्र ओदनम् अभुञ्ज्महि ।
(P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {14/14} अभिजानासि देवदत्त कश्मीरान् गमिष्यामः कश्मीरान् अगच्छाम तत्र ओदनम् भोक्ष्यामहे तत्र ओदनम् अभुञ्ज्महि ।
(P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {1/11} परोक्षे इति उच्यते ।
(P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {2/11} किम् परोक्षम् नाम ।
(P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {3/11} परम् अक्ष्णः परोक्षम् ।
(P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {4/11} अक्षि पुनः किम् ।
(P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {5/11} अश्नोतेः अयम् औणादिकः करणसाधनः सि प्रत्ययः ।
(P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {6/11} अनुते अनेन इति अक्षि ।
(P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {7/11} यदि एवम् पराक्षम् इति प्राप्नोति ।
(P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {8/11} न एषः दोषः ।
(P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {9/11} परोभावः परस्य अक्षे परोक्षे लिटि दृश्यताम् । परशब्दस्य अक्षशब्दे उत्तरपदे परोभावः वक्तव्यः ।
(P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {10/11} उत्वम् वा आदेः परात् अक्ष्णः ।अथ वा परशब्दात् उत्तरस्य अक्षिशब्दस्य उत्वम् वक्तव्यम् ।
(P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {11/11} सिद्धम् वा अस्मात् निपातनात् ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {1/41} कस्मिन् पुनः परोक्षे ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {2/41} काले ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {3/41} न वै कालाधिकारः अस्ति ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {4/41} एवम् तर्हि धातोः इति वर्तते ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {5/41} धातौ परोक्षे ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {6/41} धातुः वै शब्दः ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {7/41} न च शब्दस्य प्रत्यक्षपरोक्षतायाम् सम्भवः अस्ति ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {8/41} शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {9/41} परोक्षे धातौ परोक्षे धात्वर्थे इति ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {10/41} कः पुनः धात्वर्थः ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {11/41} क्रिया ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {12/41} क्रियायाम् परोक्षायाम् ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {13/41} यदि एवम् ह्यः अपचत् इति अत्र अपि लिट् प्राप्नोति ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {14/41} किम् कारणम् ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {15/41} क्रिया नाम इयम् अत्यन्तापरिदृष्टा अनुमानगम्या अशक्या पिण्डीभूता निदर्शयितुम् यथा गर्भः निर्लुठितः ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {16/41} एवम् तर्हि साधनेषु परोक्षेषु ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {17/41} साधनेषु च भवतः कः सम्प्रत्ययः ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {18/41} यदि सावद् गुणसमुदायः साधनम् साधनम् अपि अनुमानगम्यम् ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {19/41} अथ अन्यत् गुणेभ्यः साधनम् भवति प्र्तयक्षपरोक्षतायाम् सम्भवः ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {20/41} अथ यदा अनेन रथ्यायाम् तण्डुलोदकम् दृष्टम् कथम् तत्र भवितव्यम् ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {21/41} यदि तावत् साधनेषु परोक्षेषु पपाच इति भवितव्यम् ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {22/41} भवन्ति हि तस्य साधनानि परोक्षाणि ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {23/41} अथ ये एते क्रियाकृताः विशेषाः चीत्काराः फूत्काराः च तेषु परोक्षेषु एवम् अपि पपाच इति भवितव्यम् ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {24/41} कथञ्जातीयकम् पुनः परोक्षम् नाम ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {25/41} के चित् तावत् आहुः ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {26/41} वर्षशतवृत्तम् परोक्षम् इति ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {27/41} अपरे आहुः ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {28/41} कटान्तरितम् परोक्षम् इति ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {29/41} अपरे आहूः ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {30/41} द्व्यहवृत्तम् त्र्यह्वृत्तम् च इति ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {31/41} सर्वथा उत्तमः न सिध्यति ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {32/41} सुप्तमत्तोयोः इति वक्तव्यम् ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {33/41} सुप्तः अहम् किल विललाप ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {34/41} मत्तः अहम् किल विललाप ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {35/41} सुप्तः नु अहम् किल विललाप ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {36/41} मत्तः नु अहम् किल विललाप ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {37/41} अथ वा भवति वै कः चित् जागरत् अपि वर्तमानकालम् न उपलभते ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {38/41} तत् यथा वैयाकरणानाम् शाकटायनः रथमार्गे आसीनः शकटसाऋथम् यान्तम् न उपलभते ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {39/41} किम् पुनः कारणम् जागरत् अपि वर्तमानकालम् न उपलभते ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {40/41} मनसा संयुक्तानि इन्द्रियाणि उपलब्धौ कारणानि भवन्ति ।
(P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {41/41} मनसः असान्निध्यात् ।
(P_3,2.115.3) KA_II,120.24-29 Ro_III,274 {1/9} परोक्षे लिट् अत्यन्ताअपह्नवे च ।
(P_3,2.115.3) KA_II,120.24-29 Ro_III,274 {2/9} परोक्षे लिट् इति अत्र अत्यन्ताअपह्नवे च इति वक्तव्यम् ।
(P_3,2.115.3) KA_II,120.24-29 Ro_III,274 {3/9} नो खण्डिकान् जगाम नो कलिङ्गान् जगाम ।
(P_3,2.115.3) KA_II,120.24-29 Ro_III,274 {4/9} न कारिसोमम् प्रपौ ।
(P_3,2.115.3) KA_II,120.24-29 Ro_III,274 {5/9} न दार्वजस्य प्रतिजग्राह ।
(P_3,2.115.3) KA_II,120.24-29 Ro_III,274 {6/9} कः मे मनुष्यः प्रहरेत् वधाय ।
(P_3,2.115.3) KA_II,120.24-29 Ro_III,274 {7/9} परोभावः परस्य अक्षे परोक्षे लिटि दृश्यताम् ।
(P_3,2.115.3) KA_II,120.24-29 Ro_III,274 {8/9} उत्वम् वा आदेः परात् अक्ष्णः ।
(P_3,2.115.3) KA_II,120.24-29 Ro_III,274 {9/9} सिद्धम् वा अस्मात् निपातनात् ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {1/23} स्म पुरा भूतमात्रे न स्म पुरा अद्यतने ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {2/23} स्म पुरा भूतमात्रे न स्म पुरा अद्यतने इति वक्तव्यम् ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {3/23} किम् अयम् स्मादिविधिः पुरान्तः अविशेषेण भूतमात्रे भवति ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {4/23} तत्र वक्तव्यम् स्मलक्षणः पुरालक्षणः च अद्यतने न भवतः इति ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {5/23} आहोस्वित् स्मलक्षणः पुरालक्षणः च अविशेषेण भूतमात्रे भवतः इति ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {6/23} तत्र स्माद्यर्थम् न स्म पुरा अद्यतने इति वक्तव्यम् ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {7/23} किम् च अतः ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {8/23} स्मादिविधिः पुरान्तः यदि अविशेषेण किम् कृतम् भवति न स्म पुरा अद्यतने इति ब्रुवता कात्यायनेन इह ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {9/23} स्मादिविधिः पुरान्तः यदि अविशेषेण भवति किम् वार्त्तिककारः प्रतिषेधेन करोति न स्म पुरा अद्यतने इति ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {10/23} अनुवृत्तिः अनद्यतनस्य लात् स्मे इति तत्र न अस्ति नञ्कार्यम् । लट् स्मे इति अत्र अनद्यतने इति एतत् अनुवर्तिष्यते ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {11/23} अपरोक्षानद्यतनः ननौ च नन्वोः च निवृत्तौ न पुरा अद्यतने इति भवेत् एतत् वाच्यम् । तत्र एतावत् वक्तव्यम् स्यात् न पुरा अद्यतने इति ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {12/23} तत्र च अपि लङ्ग्रहणम् । तत्र च अपि लङ्ग्रहणम् ज्ञपकम् न पुरालक्षणः अद्यतने भवति इति ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {13/23} अथ बुद्धिः अविशेषाद् स्म पुरा हेतू ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {14/23} अथ बुद्धिः अविशेषेण स्म पुरा हेतू इति ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {15/23} तत्र च अपि श्र्णु भूयः ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {16/23} अपरोक्षे चे इति एषः प्राक् पुरिसंशब्दनात् अविनिवृत्तः सर्वत्र अनद्यतनः ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {17/23} तथा सति नञा किम् इह कार्यम् ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {18/23} स्मादौ अपरोक्षे च इति अकार्यम् इति शक्यम् एतत् अपि विद्धि ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {19/23} शक्यम् हि निवर्तयितुम् परोक्षे इति लात् स्मे इति अत्र ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {20/23} स्यात् एषा तव बुद्धिः ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {21/23} स्मलक्षणे अपि एवम् एव सिद्धम् इति ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {22/23} लट् स्मे इति भवेत् न अर्थः ।
(P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {23/23} तस्मात् कार्यम् परार्थम् तु । एवम् तर्हि ज्ञापयति आचार्यः स्मलक्षणः पुरालक्षणः च अनद्यतने भवतः इति ।
(P_3,2.120) KA_II,122.5-10 Ro_III,278 {1/10} ननौ पृष्टप्रतिवचने इति अशिष्यम् क्रियासमाप्तेः विवक्षितत्वात् ।
(P_3,2.120) KA_II,122.5-10 Ro_III,278 {2/10} ननौ पृष्टप्रतिवचने इति अशिष्यः लट् ।
(P_3,2.120) KA_II,122.5-10 Ro_III,278 {3/10} किम् कारणम् ।
(P_3,2.120) KA_II,122.5-10 Ro_III,278 {4/10} क्रियासमाप्तेः विवक्षितत्वात् ।
(P_3,2.120) KA_II,122.5-10 Ro_III,278 {5/10} क्रियायाः अत्र असमाप्तिः विवक्षिता ।
(P_3,2.120) KA_II,122.5-10 Ro_III,278 {6/10} एषः नाम न्याय्यः वर्तमानः कालः यत्र क्रियायाः असमाप्तिः भवत् ।
(P_3,2.120) KA_II,122.5-10 Ro_III,278 {7/10} तत्र वर्तमाने लट् इति एव सिद्धम् ।
(P_3,2.120) KA_II,122.5-10 Ro_III,278 {8/10} यदि वर्तमाने लट् इति एव लट् भवति शतृशानचौ अपि प्राप्नुतः ।
(P_3,2.120) KA_II,122.5-10 Ro_III,278 {9/10} इष्येते शतृशानचौ : ननु माम् कुर्वन्तम् पश्य ।
(P_3,2.120) KA_II,122.5-10 Ro_III,278 {10/10} ननु माम् कुर्वाणम् पश्य इति ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {1/30} हशश्वद्भ्याम् पुरा ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {2/30} हशश्वल्लक्षणात् पुरालक्षणः भवति विप्रतिषेधेन ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {3/30} हशश्वल्लक्षणस्य अवकाशः ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {4/30} इति ह अकरोत् ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {5/30} इह ह चकार ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {6/30} शश्वत् अकरोत् ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {7/30} शश्वत् चकार ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {8/30} पुरालक्षणस्य अवकाशः ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {9/30} रथेन अयम् पुरा याति ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {10/30} रथेन अयम् पुरा अयासीत् ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {11/30} इह उभयम् प्राप्नोति ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {12/30} रथेन ह शश्वत् पुरा याति ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {13/30} रथेन ह शश्वत् पुरा अयासीत् ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {14/30} पुरालक्षणः भवति विप्रतिषेधेन ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {15/30} स्मः सर्वेभ्यः विप्रतिषेधेन ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {16/30} स्मलक्षणः सर्वेभ्यः भवति विप्रतिषेधेन ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {17/30} हशश्वल्लक्षणात् पुरालक्षणात् च ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {18/30} हशश्वल्लक्षणस्य अवकाशः ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {19/30} इति ह अकरोत् ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {20/30} इह ह चकार ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {21/30} शश्वत् अकरोत् ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {22/30} शश्वत् चकार ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {23/30} पुरालक्षणस्य अवकाशः ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {24/30} रथेन अयम् पुरा याति ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {25/30} रथेन अयम् पुरा अयासीत् ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {26/30} स्मलक्षणस्य अवकाशः ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {27/30} धर्मेण स्म कुरवः युध्यन्ते ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {28/30} इह सर्वम् प्राप्नोति ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {29/30} न ह स्म वै पुरा शश्वत् अपरशुवृक्णम् दहति ।
(P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {30/30} स्मलक्षणः लट् भवति विप्रतिषेधेन ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {1/60} प्रवृत्तस्य अविरामे शिष्या भवन्ती अवर्तमानत्वात् ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {2/60} प्रवृत्तस्य अविरामे शिष्या भवन्ती ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {3/60} इह अधीमहे ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {4/60} इह वसामः ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {5/60} इह पुष्यमित्रम् याजयामः ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {6/60} किम् पुनः कारणम् न सिध्यति ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {7/60} अवर्तमानत्वात् ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {8/60} नित्यप्रवृत्ते च कालाविभागात् ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {9/60} नित्यप्रवृत्ते च शासितव्या भवन्ती ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {10/60} तिष्ठन्ति पर्वताः ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {11/60} स्रवन्ति नद्यः इति ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {12/60} किम् पुनः कारणम् न सिध्यति ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {13/60} कालाविभागात् ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {14/60} इह भूतभविष्यत्प्रतिद्वन्द्वः वर्तमानः कालः ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {15/60} न च अत्र भूतभविष्यन्तौ कालौ स्तः ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {16/60} न्याय्या तु आरम्भानपवर्गात् ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {17/60} न्याय्या तु एषा वर्तमानकालता ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {18/60} कुतः ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {19/60} आरम्भानपवर्गात् ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {20/60} आरम्भः अत्र अनपवृक्तः ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {21/60} एषः नाम् न्याय्यः वर्तमानः कालः यत्र आरम्भः अनपवृक्तः ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {22/60} अस्ति च मुक्तसंशये विरामः ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {23/60} यम् खलु अपि भवान् मुक्तसंशयम् वर्तमानम् कालम् न्याय्यम् मन्यते भुङ्क्ते देवदत्तः इति तेन एतत् तुल्यम् ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {24/60} सः अपि हि अवश्यम् भुञ्जानः हसति वा जल्पति वा पानीयम् वा पिबति ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {25/60} यदि अत्र युक्ता वर्तमानकालता दृश्यते इह अपि युक्ता दृश्यताम् ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {26/60} सन्ति च कालविभागाः ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {27/60} सन्ति खलु अपि कालविभागाः ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {28/60} तिष्ठन्ति पर्वताः ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {29/60} स्थास्यन्ति पर्वताः ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {30/60} तस्थुः पर्वताः ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {31/60} किम् शक्यन्ते एते शब्दाः प्रयोक्तुम् इति अतः सन्ति कालविभागाः ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {32/60} न अवश्यम् प्रयोगात् एव ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {33/60} इह भूतभविष्यद्वर्तमानानाम् राज्ञाम् याः क्रियाः ताः तिष्ठतेः अधिकरणम् ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {34/60} इह तावत् तिष्ठन्ति पर्वताः इति ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {35/60} सम्प्रति ये राजानः तेषाम् याः क्रियाः तासु वर्तमानासु ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {36/60} स्थास्यन्ति पर्वताः इति ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {37/60} इतः उत्तरम् ये राजानः भविष्यन्ति तेषाम् याः क्रियाः तासु भविष्यन्तीषु ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {38/60} तस्थुः पर्वताः इति ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {39/60} ये राजानः बभूवुः तेषाम् याः क्रियाः तासु व्भूतासु ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {40/60} अपरः आह : न अस्ति वर्तमानः कालः इति ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {41/60} अपि च अत्र श्लोकान् उदाहरन्ति : न वर्तते चक्रम् ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {42/60} इषुः न पात्यते ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {43/60} न स्यन्दन्ते सरितः सागराय ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {44/60} कूटस्थः अयम् लोकः न विचेष्टा अस्ति ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {45/60} यः हि एवम् पश्यति सः अपि अनन्धः ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {46/60} मीमांसकः मन्यमानः युवा मेधाविसम्मतः काकम् स्म इह अनुपृच्छति : किम् ते पतितलक्षणम् ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {47/60} अनागते न पतसि अतिक्रान्ते च काक न ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {48/60} यदि सम्प्रति पतसि सर्वः लोकः पतति अयम् ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {49/60} हिमवान् अपि गच्छति ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {50/60} अनागतम् अतिक्रान्तम् वर्तमानम् इति त्रयम् ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {51/60} सर्वत्र गतिः न अस्ति ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {52/60} गच्छति इति किम् उच्यते ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {53/60} क्रियाप्रवृत्तौ यः हेतुः तदर्थम् यत् विचेष्टितम् तत् समीक्ष्य प्रयुञ्जीत गच्छति इति अविचारयन् ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {54/60} अप्रः आह ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {55/60} अस्ति वर्तमानः कालः इति ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {56/60} आदित्यगतिवत् न उपलभ्यते ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {57/60} अपि च अत्र श्लोकम् उदाहरन्ति ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {58/60} बिसस्य वालाः इव दह्यमानाः न लक्ष्यते विकृतिः सन्निपाते ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {59/60} अस्ति इति ताम् वेदयन्ते त्रिभभावाः ।
(P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {60/60} सूक्ष्मः हि भावः अनुमितेन गम्यः ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {1/27} लस्य अप्रथमासमानाधिकरणेन अयोगात् अदेशानुपपत्तिः यथा अन्यत्र ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {2/27} लस्य अप्रथमासमानाधिकरणेन अयोगात् अदेशयोः नुपपत्तिः यथा अन्यत्र ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {3/27} तत् यथा अन्यत्र अपि लस्य अप्रथमासमानाधिकरणेन योगः न भवति ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {4/27} क्व अन्यत्र ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {5/27} लङि ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {6/27} अपचत् ओदनम् देवदत्तः इति ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {7/27} योगः इति चेत् अन्यत्र अपि योगः स्यात् ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {8/27} अथ मतम् एतत् भवति योगः इति अन्यत्र अपि योगः स्यात् ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {9/27} क्व अन्यत्र ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {10/27} लङि ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {11/27} अपचत् ओदनम् देवदत्तः इति ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {12/27} न क्व चित् योगः इति कृत्वा अतः सर्वत्र योगेन भवितव्यम् क्व चित् अयोगः इति कृत्वा सर्वत्र अयोगेन ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {13/27} तत् यथा ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {14/27} समानम् ईहमानानाम् च अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {15/27} न च इदानीम् कः चित् अर्थवान् इति अतः सर्वैः अर्थवद्भिः शक्यम् भवितुम् कः चित् अनर्थकः इति सर्वैः अनर्थकैः ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {16/27} तत्र किम् अस्माभिः शक्यम् कर्तुम् ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {17/27} यत् लोटः अप्रथमासमानाधिकरणेन योगः भवति लङः न स्वाभाविकम् एतत् ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {18/27} अथ वा आदेशे सामानाधिकरण्यम् दृष्ट्वा अनुमानात् गन्तव्यम् प्रकृतेः अपि सामानाधिकरण्यम् भवति इति ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {19/27} तत् यथा धूमम् दृष्ट्वा अग्निः अत्र इति गम्यते त्रिविष्टब्धकम् दृष्ट्वा परिव्राजकः इति ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {20/27} विषमः उपन्यासः ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {21/27} प्रत्यक्षः तेन अग्निधूमयोः अभिसम्बन्धः कृतः भवति त्रिविष्टब्धकपरिव्राजकयोः च ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {22/27} सः तद्विदेशस्थम् अपि दृष्ट्वा जानाति अग्निः अत्र परिव्राजकः अत्र इति ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {23/27} भवति वै प्रत्यक्षात् अपि अनुमानबलीयस्त्वम् ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {24/27} तत् यथा अलातचक्रम् प्रत्यक्षम् दृश्यते अनुमानात् च गम्यते न एतत् अस्ति इति ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {25/27} कस्य चित् खलु अपि सकृत् कृतः अभिसम्बन्धः अत्यन्ताय कृतः भवति ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {26/27} तत् यथा वृक्षपर्णयोः अयम् वृक्षः इदम् पर्णम् इति ।
(P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {27/27} सः तद्विदेशस्थम् अपि दृष्ट्वा जानाति वृक्षस्य इदम् पर्णम् इति ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {1/80} किम् पुनः अयम् पर्युदासः : यत् अन्यत् प्रथमासमानाधिकरणात् इति , आहोस्वित् प्रसज्यप्रतिषेधः : प्रथमासमानाधिकरणे न इति ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {2/80} कः च अत्र विशेषः ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {3/80} लटः शतृशानचौ अप्रथमासमानाधिकरणे इति चेत् प्रत्ययोत्तरपदयोः उपसङ्ख्यानम् ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {4/80} लटः शतृशानचौ अप्रथमासमानाधिकरणे इति चेत् प्रत्ययोत्तरपदयोः उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {5/80} कौर्वतः पाचतः कुर्वद्भक्तिः पचद्भक्तिः कुर्वाणभक्तिः पचमानभक्तिः ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {6/80} अस्तु तर्हि प्रसज्यप्रतिषेधः ।प्रथमासमानाधिकरणे न इति ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {7/80} प्रसज्यप्रतिषेधेउत्तरपदे आदेशानुपपत्तिः ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {8/80} प्रसज्यप्रतिषेधेउत्तरपदे आदेशयोः अनुपपत्तिः ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {9/80} कुर्वती च असौ भक्तिः च कुर्वद्भक्तिः पचभक्तिः कुर्वाणभक्तिः पचमानभक्तिः इति ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {10/80} ये च अपि एते समानाधिकरणवृत्तयः तद्धिताः तत्र च शतृशानचौ न प्राप्नुतः ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {11/80} कुर्वत्तरः पचत्तरः कुर्वाणतरः पचमानतरः कुर्वद्रूपः पचद्रूपः कुर्वाणरूपः पचमानरूपः कुर्वत्कल्पः पचत्कल्पः कुर्वाणकल्पः पचमानकल्पः इति ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {12/80} सिद्धम् तु प्रत्ययोत्तरपदयोः च इति वचनात् ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {13/80} सिद्धम् एतत् ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {14/80} कथम् ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {15/80} प्रत्ययोत्तरपदयोः च शतृशानचौ भवतः इति वक्तव्यम् ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {16/80} तत्र प्रत्ययस्य आदेशनिमित्तत्वात् अप्रसिद्धिः ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {17/80} तत्र प्रत्ययस्य आदेशनिमित्तत्वात् अप्रसिद्धिः ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {18/80} आदेशनिमित्तः प्रत्ययः प्रत्ययनिमित्तः च आदेशः ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {19/80} तत् एतत् इतरेतराश्रयम् भवति ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {20/80} इतरेतराश्रयाणि च न प्रक्ल्पन्ते ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {21/80} उत्तरपदस्य च सुबन्तनिमित्तत्वात् शतृशानचोः अप्रसिद्धिः ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {22/80} उत्तरपदस्य च सुबन्तनिमित्तत्वात् शतृशानचोः अप्रसिद्धिः ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {23/80} उत्तरपदनिमित्तः सुप् सुबन्तनिमित्तम् च उत्तरपदम् ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {24/80} तत् एतत् इतरेतराश्रयम् भवति ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {25/80} इतरेतराश्रयाणि च न प्रक्ल्पन्ते ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {26/80} न वा लकारस्य कृत्त्वात् प्रातिपदिकत्वम् तदाश्रयम् प्रत्ययविधानम् ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {27/80} न वा एषः दोषः ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {28/80} किम् कारणम् ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {29/80} लकारस्य कृत्त्वात् प्रातिपदिकत्वम् ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {30/80} लकारः कृत् कृत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {31/80} तदाश्रयम् प्रत्ययविधानम् ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {32/80} प्रातिपदिकाश्रया स्वाद्युत्पत्तिः भविष्यति ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {33/80} तिङादेशात् सुबुत्पत्तिः । तिङादेशः क्रियताम् सुबुत्पत्तिः इति परत्वात् सुबुत्पत्तिः भविष्यति ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {34/80} तस्मात् उत्तरपदप्रसिद्धिः ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {35/80} तस्मात् उत्तरपदम् प्रसिद्धम् ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {36/80} उत्तरपदे प्रसिद्धे उत्तरपदे इति शतृशानचौ भविष्यतः ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {37/80} इह अपि तर्हि तिङादेशात् सुबुत्पत्तिः स्यात् पचति पठति इति ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {38/80} अस्ति अत्र विशेषः ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {39/80} नित्यः अत्र तिङादेशः ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {40/80} उत्पन्ने अपि सुपि प्राप्नोति अनुत्पन्ने अपि प्राप्नोति ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {41/80} नित्यत्वात् तिङादेशे कृते सुबुत्पत्तिः न भविष्यति ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {42/80} इह अपि तर्हि नित्यत्वात् तिङादेशः स्यात् कुर्वद्भक्तिः पचद्भक्तिः पचमानभक्तिः इति ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {43/80} अस्ति अत्र विशेषः ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {44/80} शतृशानचौ तिङपवादौ तौ च निमित्तवन्तौ ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {45/80} न च अपवादविषये उत्सर्गः अभिनिविशते ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {46/80} पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गः ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {47/80} प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {48/80} न तावत् अत्र कदा चित् तिङ् भवति ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {49/80} अपवादौ शतृशानचौ प्रतीक्षते ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {50/80} तत् एतत् क्व सिद्धम् भवति ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {51/80} यत्र सामान्यात् उत्पत्तिः ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {52/80} यत्र हि विशेषात् अतः इञ् इति इतरेतराश्रयम् एव तत्र भवति ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {53/80} वीक्षमाणस्य अपत्यम् वैक्षमाणिः इति ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {54/80} इह च शतृशानचौ प्राप्नुतः ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {55/80} पचतितराम् जल्पतितराम् पचतिरूपम् जल्पतिरूपम् पचतिकल्पम् जल्पतिकल्पम् पचति पठति इति ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {56/80} तत् एतत् कथम् कृत्वा सिद्धम् भवति ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {57/80} शतृशानचौ यदि लटः वा ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {58/80} यदि शतृशानचौ यदि लटः वा भवतः व्यवस्थितविभाषा च ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {59/80} तेन इह च भविष्यतः कौर्वतः पाचतः कुर्वद्भक्तिः पचद्भक्तिः पचमानभक्तिः कुर्वत्तरः पचत्तरः पचमानतरः कुर्वद्रूपः पचद्रूपः पचमानरूपः कुर्वत्कल्पः पचत्कल्पः पचमानकल्पः पचन् पठन् इति च लटः शतृशानचौ ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {60/80} इह च न भविष्यतः पचतितराम् जल्पतितराम् पचतिरूपम् जल्पतिरूपम् पचतिकल्पम् जल्पतिकल्पम् पचति पठति इति च लटः शतृशानचौ ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {61/80} तत् तर्हि वावचनम् कर्तव्यम् ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {62/80} न कर्तव्यम् ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {63/80} प्रकृतम् अनुवर्तते ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {64/80} क्व प्रकृतम् ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {65/80} नन्वोः विभाषा इति ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {66/80} यदि तत् अनुवर्तते वर्तमाने लट इति लट् अपि विभाषा प्राप्नोति ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {67/80} सम्बन्धम् अनुवर्तिष्यते ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {68/80} नन्वोः विभाषा ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {69/80} पुरि लुङ् च अस्मे विभाषा ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {70/80} वर्तमाने लट् पुरि लुङ् च अस्मे विभाषा ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {71/80} लटः शतृशानचौ विभाषा ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {72/80} पुरि लुङ् च अस्मे इति निवृत्तम् ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {73/80} न तर्हि इदानीम् अप्रथमासमानाधिकरणे इति वक्तव्यम् ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {74/80} वक्तव्यम् च ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {75/80} किम् प्रयोजनम् ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {76/80} नित्याऋथम् ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {77/80} अप्रथमासमानाधिकरणे नित्यौ यथा स्याताम् ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {78/80} क्व तर्हि इदानीम् विभाषा ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {79/80} प्रथमासमानाधिकरणे ।
(P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {80/80} पचन् पचति पचमानः पचते इति ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {1/49} लक्षणहेत्वोः क्रियायाः गुणे उपसङ्ख्यानम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {2/49} लक्षणहेत्वोः क्रियायाः गुणे उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {3/49} तिष्ठन् मूत्रयति ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {4/49} गच्छन् भक्षयति ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {5/49} कर्तुः च लक्षणयोः पर्यायेण अचयोगे ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {6/49} कर्तुः च लक्षणयोः पर्यायेण अचयोगे उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {7/49} यः अधीयानः आस्ते सः देवदत्त्तः ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {8/49} यः आसीनः अधीते सः देवदत्तः ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {9/49} अचयोगे इति किमर्थम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {10/49} यः आस्ते च अधीते च सः चैत्रः ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {11/49} तत्त्वान्वाख्याने च ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {12/49} तत्त्वान्वाख्याने च उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {13/49} शयाना वर्धते दूर्वा ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {14/49} आसीनम् वर्धते बिसम् इति ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {15/49} सदादयः च बहुलम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {16/49} सदादयः च बहुलम् इति वक्तव्यम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {17/49} सन् ब्राह्मणः अस्ति ब्राह्मणः ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {18/49} विद्यते ब्राह्मणः विद्यमानः ब्राह्मणः इति ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {19/49} इङ्जुहोत्योः वावचनम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {20/49} इङ्जुहोत्योः वा इति वक्तव्यम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {21/49} अधीते अधीयानः ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {22/49} जुहोति जुह्वत् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {23/49} माङि आक्रोशे । माङि आक्रोशे इति वक्तव्यम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {24/49} मा पचन् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {25/49} मा पचमानः ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {26/49} तत् तर्हि वक्तव्यम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {27/49} न वक्तव्यम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {28/49} लक्षणहेत्वोः क्रियायाः इति एव सिद्धम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {29/49} इह तावत् तिष्ठन् मूत्रयति इति ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {30/49} तिष्ठतिक्रिया मूत्रयतिक्रियायाः लक्षणम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {31/49} गच्छन् भक्षयति इति ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {32/49} गच्छतिक्रिया भक्षयतिक्रियायाः लक्षणम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {33/49} यः अधीयानः आस्ते सः देवदत्त्तः इति ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {34/49} अध्ययनक्रिया आसनक्रियायाः लक्षणम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {35/49} यः आसीनः अधीते सः देवदत्तः इति ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {36/49} आसिक्रिया अध्ययनक्रियायाः लक्षणम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {37/49} इदम् तर्हि प्रयोजनम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {38/49} अचयोगे इति वक्ष्यामि इति ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {39/49} इह मा भूत् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {40/49} यः आस्ते च अधीते च सः चैत्रः इति ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {41/49} एतत् अपि न अस्ति प्रयोजनम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {42/49} न एतत् क्रियायाः लक्षणम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {43/49} किम् तर्हि ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {44/49} कर्तृलक्षणम् एतत् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {45/49} शयाना वर्धते दूर्वा इति ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {46/49} शेतिक्रिया वृद्धिक्रियायाः लक्षणम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {47/49} आसीनम् वर्धते बिसम् इति ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {48/49} आसिक्रिया वृद्धिक्रियायाः लक्षणम् ।
(P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {49/49} सदादयः च बहुलम् इङ्जुहोत्योः वा माङि आक्रोशे इति वक्तव्यम् एव।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {1/50} तौग्रहणम् किमर्थम् ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {2/50} शतृशानचौ प्रतिनिर्दिश्येते ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {3/50} न एतत् अस्ति प्रयोजनम् ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {4/50} प्रकृतौ शतृशानचौ अनुवर्तिष्येते ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {5/50} क्व प्रकृतौ ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {6/50} लटः शतृसानचौ अप्रथमासमानाधिकरणे इति ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {7/50} अतः उत्तरम् पठति ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {8/50} तौ सत् इति वचनम् असंसर्गार्थम् टौ ग्रहणम् क्रियते असंसर्गार्थम् ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {9/50} असंसक्तयोः एतैः विशेषैः शतृशानचोः सञ्ज्ञा यथा स्यात् ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {10/50} ननु च एते विशेषाः निवर्तेरन् ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {11/50} यदि अपि एते विशेषाः निवर्तन्ते अयम् तु खलु वर्तमानः कालः अवश्यम् उत्तरार्थः अनुवर्त्यः ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {12/50} तस्मिन् अनुवर्तमाने वर्तमानकालविहितयोः एव शतृशानचोः सत्स्ञ्ज्ञा स्यात् ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {13/50} भूतभविष्यकालविहितयोः न स्यात् ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {14/50} किम् पुनः भूतभविष्यकालविहितयोः सत्स्ञ्ज्ञावचने प्रयोजनम् ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {15/50} पूरणगुणसुहितसत् इति ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {16/50} ब्राह्मणस्य पक्ष्यन् ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {17/50} ब्राह्मणस्य पक्ष्यमाणः ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {18/50} अथ क्रियमाणे अपि तौग्रहणे कथम् एव असंसक्तयोः एतैः विशेषैः सञ्ज्ञा लभ्या ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {19/50} लभ्या इति आह ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {20/50} कथम् ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {21/50} तौ इति शब्दतः सत् इति योगे क्रियमाणे तौ ग्रहणम् योगाङ्गम् जायते ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {22/50} सति च योगाङ्गे योगविभागः करिष्यते ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {23/50} तौ ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {24/50} तौ एतौ शतृशानचौ धातुमात्रात् परस्य प्रत्ययस्य भवतः ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {25/50} ततः सत् ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {26/50} सत्स्ञ्ज्ञौ भवतौ शतृशानचौ ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {27/50} इह अपि तर्हि प्राप्नुतः ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {28/50} कारकः हारकः इति ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {29/50} अवधारणम् लृटि विधानम् ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {30/50} लृतः सत् वा इति एतत् नियमार्थम् भविष्यति ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {31/50} लृटः एव धातुमात्रात् परस्य न अन्यस्य इति ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {32/50} कैमर्थ्यक्यात् नियमः भवति ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {33/50} विधेयम् न अस्ति इति कृत्वा ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {34/50} इह च अस्ति विधेयम् ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {35/50} किम् ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {36/50} नित्यौ शतृशानचौ प्राप्तौ ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {37/50} तौ विभाषा विधेयौ ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {38/50} तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {39/50} योगविभागतः च विहितम् सत् ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {40/50} एवम् तर्हि योगविभागः करिष्यते ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {41/50} लृटः सत् ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {42/50} लृटः सत्सञ्ज्ञौ भवतः ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {43/50} किमर्थम् इदम् ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {44/50} नियमार्थम् ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {45/50} लृटः एव धातुमात्रात् परस्य न अन्यस्य इति ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {46/50} ततः वा ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {47/50} वा च लृटः शतृशानचौ सत्सञ्ज्ञौ भवतः ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {48/50} तत्र अयम् अपि अर्थः ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {49/50} सद्विधिः नित्यम् अप्रथमासमानाधिकरणे इति वक्ष्यति ।
(P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {50/50} तत् न वक्तव्यम् भवति ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {1/37} अथ यौ एतौ उत्तरौ शतानौ किम् एतौ लादेशौ आहोस्वित् अलादेशौ ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {2/37} कः च अत्र विशेषः ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {3/37} उत्तरयोः लादेशे वावचनम् ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {4/37} उत्तरयोः लादेशे वा इति वक्तव्यम् ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {5/37} पवमानः यजमानः ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {6/37} पवते यजते इति अपि यथा स्यात् ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {7/37} साधनाभिधानम् ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {8/37} साधनाभिधानम् च प्राप्नोति ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {9/37} लः कर्मणि च भावे च अकर्मकेभ्यः इति भावकर्मणोः अपि प्राप्नुतः ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {10/37} स्वरः ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {11/37} स्वरः च साध्यः ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {12/37} कति इह पवमानाः ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {13/37} अदुपदेशात् लसार्वधातुकम् अनुदात्तम् भवति इति एषः स्वरः प्राप्नोति ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {14/37} उपग्रहप्रतिषेधः च ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {15/37} उपग्रहस्य च प्रतिषेधः वक्तव्यः ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {16/37} कति इह निघ्नानाः ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {17/37} तङानौ आत्मनेपदम् इति आत्मनेपदसञ्ज्ञा प्राप्नोति ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {18/37} स्ताम् तर्हि अलादेशौ ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {19/37} अलादेशे षष्ठीप्रतिषेधः ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {20/37} अलादेशे षष्ठीप्रतिषेधः वक्तव्यः ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {21/37} सोमम् पवमानः ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {22/37} नडम् आघ्नानः ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {23/37} अधीयन् पारायणम् ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {24/37} लप्रयोगे न इति प्रतिषेधः न प्राप्नोति ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {25/37} मा भूत् एवम् ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {26/37} तृन् इति एव भविष्यति ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {27/37} कथम् ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {28/37} तृन् इति न इदम् प्रत्ययग्रहणम् ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {29/37} किम् तर्हि ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {30/37} प्रत्याहारग्रहणम् ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {31/37} क्व सन्निविष्टाणाम् प्रत्याहारः ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {32/37} लटः शतृ इति अतः आरभ्य आ तृनः नकारात् ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {33/37} यदि प्रत्याहारग्रहणम् चौरस्य द्विषन् वृषलस्य द्विषन् अत्र अपि प्राप्नोति ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {34/37} द्विषः शतुः वावचनम् ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {35/37} द्विषः शतुः वा इति वक्तव्यम् ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {36/37} तत् च अवश्यम् वक्तव्यम् प्रत्ययग्रहणे सति प्रतिषेधार्थम् ।
(P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {37/37} तत् एव प्रत्याहारग्रहणे सति विध्यर्थम् भविष्यति।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {1/30} तृन्विधौ ऋत्विक्षु च अनुपसर्गस्य ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {2/30} तृन्विधौ ऋत्विक्षु च अनुपसर्गस्य इति वक्तव्यम् ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {3/30} होता पोता ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {4/30} अनुपसर्गस्य इति किमर्थम् ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {5/30} प्रशास्ता प्रतिहर्ता ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {6/30} नयतेः षुक् च ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {7/30} नयतेः षुक् वक्तव्यः ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {8/30} तृन् च प्रत्ययः वक्तव्यञ्। नेष्टा ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {9/30} न वा धात्वन्यत्वात् । न वा वक्तव्यम् ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {10/30} किम् कारणम् ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {11/30} धात्वन्यत्वात् ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {12/30} धात्वन्तरम् नेषतिः ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {13/30} कथम् ज्ञायते ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {14/30} नेषतु नेष्टात् इति दर्शनात् ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {15/30} नेषतु नेष्टात् इति प्रयोगः दृश्यते ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {16/30} इन्द्रः नः तेन नेषतु ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {17/30} गाः वः नेष्टात् ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {18/30} त्विषेः देवतायाम् अकारः च उपधायाः अनिट्वम् च ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {19/30} त्विषेः देवतायाम् तृन् वक्तव्यः अकारः च उपधायाः अनिट्वम् च इति ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {20/30} त्वष्टा ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {21/30} किम् पुनः इदम् त्विषेः एव अनिट्वम् ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {22/30} न इति आह ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {23/30} यत् च अनुक्रान्तम् यत् च अनुक्रंस्यते सर्वस्य एषः शेषः अनिट्वम् इति ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {24/30} क्षदेः च युक्ते ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {25/30} क्षदेः च युक्ते तृन् वक्तव्यः ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {26/30} क्षत्ता ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {27/30} छन्दसि तृच् च ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {28/30} छन्दसि तृच् च तृन् च वक्तव्यः ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {29/30} क्षत्तृभ्यः सङ्ग्रहीतृभ्यः ।
(P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {30/30} क्षत्तृभ्यः सङ्ग्रहीतृभ्यः ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {1/52} स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {2/52} स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः वक्तव्यः ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {3/52} स्थास्नुः इति ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {4/52} घुमास्थागापाजहातिसाम् हलि इति ईत्त्वम् प्राप्नोति ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {5/52} एवम् तर्हि न कित् करिष्यते ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {6/52} अकिति गुणप्रतिषेधः ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {7/52} यदि अकित् गुणप्रतिषेधः वक्तव्यः ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {8/52} जिष्णुः इति ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {9/52} भुवः इट्प्रतिषेधः च ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {10/52} भुवः इट्प्रतिषेधः च वक्तव्यः ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {11/52} किम् च अन्यत् ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {12/52} गुणप्रतिषेधः च ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {13/52} भूष्णुः इति ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {14/52} अस्तु तर्हि कित्। ननु च उक्तम् स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः वक्तव्यः इति ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {15/52} न एषः दोषः ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {16/52} स्थादंशिभ्याम् स्नुः छन्दसि ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {17/52} स्थादंशिभ्याम् स्नुः छन्दसि वक्तव्यः ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {18/52} स्थास्नु जङ्गमम् ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {19/52} दङ्क्ष्णवः पशवः इति ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {20/52} सः इदानीम् स्थः अविशेषेण विधास्यते ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {21/52} सूत्रम् तर्हि भिद्यते ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {22/52} यथान्यासम् अस्तु। ननु च उक्तम् स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः वक्तव्यः इति ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {23/52} एवम् तर्हि गित् करिष्यते ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {24/52} स्थोः गित्त्वात् न स्थः ईकारः ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {25/52} स्थोः गित्त्वात् स्थः ईकारः न भविष्यति ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {26/52} किम् कारणम् ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {27/52} क्ङितोः ईत्त्वशासनात् ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {28/52} क्ङितोः ईत्त्वम् शिष्यते ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {29/52} इह तर्हि जिष्णुः इति गुणः प्राप्नोति ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {30/52} गुणाभावः त्रिषु स्मार्यः ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {31/52} गुणाभावः त्रिषु स्मर्तव्यः ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {32/52} गिति किति ङिति इति ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {33/52} तत् गकारग्रहणम् कर्तव्यम् ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {34/52} न कर्तव्यम् ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {35/52} क्रियते न्यासे एव ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {36/52} ककारे गकारः चर्त्वभूतः निर्दिश्यते ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {37/52} क्क्ङिति च इति ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {38/52} इह तर्हि भूष्णुः इति श्र्युकः किति इति इट्प्रतिषेधः न प्राप्नोति ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {39/52} श्र्युको अनिट्त्वम् गकोः इतोः ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {40/52} श्र्युकः अनिट्त्वम् गकारककारयोः इति वक्तव्यम् ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {41/52} तत् गकारग्रहणम् कर्तव्यम् ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {42/52} न कर्तव्यम् ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {43/52} क्रियते न्यासः एव ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {44/52} ककारे गकारः चर्त्वभूतः निर्दिश्यते ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {45/52} श्र्युकः क्किति इति ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {46/52} यदि एवम् चर्त्वस्य असिद्धत्वात् हशि इति उत्त्वम् प्राप्नोति ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {47/52} सौत्रः निर्देशः ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {48/52} अथ वा असंहितया निर्देशः करिष्यते ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {49/52} श्र्युकः क्किति इति ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {50/52} स्थोः गित्त्वात् न स्थः ईकारः क्ङितोः ईत्त्वशासनात् ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {51/52} गुणाभावः त्रिषु स्मार्यः ।
(P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {52/52} श्र्युको अनिट्त्वम् गकोः इतोः ।
(P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {1/13} घिनण् अयम् वक्तव्यः ।
(P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {2/13} घिनुणि हि सति शमिनौ शमिनः तमिनौ तमिनः उगिदचाम् सर्वनामस्थाने अधातोः इति नुम् प्रसज्येत ।
(P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {3/13} न एषः दोषः ।
(P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {4/13} झल्ग्रहणम् तत्र चोदयिष्यति ।
(P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {5/13} इह तर्हि : शमिनितरा शमिनीतरा तमिनितरा तमिनीतरा : उगितः घादिषु नद्याः अन्यतरस्याम् ह्रस्वः भवति इति अन्यरतस्याम् ह्रस्वत्वम् प्रसज्येत ।
(P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {6/13} इष्यते एव ह्रस्वत्वम् ।
(P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {7/13} घिनुण् अकर्मकाणाम् ।
(P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {8/13} घिनुण् अकर्मकाणाम् इति वक्तव्यम् ।
(P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {9/13} इह मा भूत् ।
(P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {10/13} सम्पृणक्ति शाकम् इति ।
(P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {11/13} उक्तम् वा ।
(P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {12/13} किम् उक्तम् ।
(P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {13/13} अनभिधानात् इति ।
(P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {1/19} किमर्थम् निन्दादिभ्यः वुञ् विधीयते न ण्वुला एव सिद्धम् ।
(P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {2/19} न हि अस्ति विशेषः निन्दादिभ्यः ण्वुलः वा वुञः वा ।
(P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {3/19} तत् एव रूपम् सः एव स्वरः ।
(P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {4/19} वुञ्म् अनेकाचः ।
(P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {5/19} वुञ्म् अनेकाचः प्रयोजयन्ति ।
(P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {6/19} असूयकः ।
(P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {7/19} अथ ये अत्र एकाचः पठ्यन्ते तेषाम् ग्रहणम् किमर्थम् न तेषाम् ण्वुला एव सिद्धम् ।
(P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {8/19} न सिध्यति ।
(P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {9/19} अयम् तच्छीलादिषु तृन् विधीयते ।
(P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {10/19} सः विशेषविहितः सामान्यविहितम् ण्वुलम् बाधेत ।
(P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {11/19} वासरूपन्यायेन ण्वुल् अपि भविष्यति ।
(P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {12/19} अतः उत्तरम् पठति ।
(P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {13/19} निन्दादिभ्यः वुञ्वचनम् अन्येभ्यः ण्वुलः प्रतिषेधार्थम् ।
(P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {14/19} निन्दादिभ्यः वुञ्वचनम् क्रियते ज्ञापकार्थम् ।
(P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {15/19} किम् ज्ञाप्यम् ।
(P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {16/19} एतत् ज्ञापयति आचार्यः तच्छीलादिषु वासरूपन्यायेन अन्येभ्यः ण्वुल् न भवति इति ।
(P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {17/19} तृजादिप्रतिषेधाऋथम् वा ।
(P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {18/19} अथ वा एतत् ज्ञापयति आचार्यः ।
(P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {19/19} तच्छीलादिषु सर्वे एव तृजासयः वासरूपेण न भवन्ति इति ।
(P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {1/18} पदिग्रहणम् अनर्थकम् अनुदात्तेतः च हलादेः इति सिद्धत्वात् ।
(P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {2/18} पदिग्रहणम् अनर्थकम् ।
(P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {3/18} किम् कारणम् ।
(P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {4/18} अनुदात्तेतः च हलादेः इति एव अत्र युच् सिद्धः ।
(P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {5/18} न सिध्यति ।
(P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {6/18} अयम् पदेः उकञ् विधीयते लषपदपद्स्थाभूवृषहनकमगमशॄभ्यः उकञ् इति ।
(P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {7/18} सः विशेषविहितः सामान्यविहितम् युचम् बाधेत ।
(P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {8/18} वासरूपन्यायेन युच् अपि भविष्यति ।
(P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {9/18} असरूपनिवृत्त्यर्थम् तु ।
(P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {10/18} असरूपनिवृत्त्यर्थम् तर्हि पदिग्रहणम् क्रियते ।
(P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {11/18} एतत् ज्ञापयति आचार्यः ताच्छीलिकेषु ताच्छिलिकाः वासरूपेण न भवन्ति इति ।
(P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {12/18} यदि एतत् ज्ञाप्यते दूददीपदीक्षः च इति दीपग्रहणम् अनर्थकम् ।
(P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {13/18} अयम् दीपेः रः विधीयते ।
(P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {14/18} नमिकम्पिस्म्यजसहिंसदीपः रः इति ।
(P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {15/18} सः विशेषविहितः सामान्यविहितम् युचम् बाधिष्यते ।
(P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {16/18} एवम् तर्हि सिद्धे सति यत् दीपग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति युचः रेण समावेशः इति ।
(P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {17/18} किम् एतस्य ज्ञापने प्रयोजनम् ।
(P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {18/18} कम्रा कन्या कमना कन्या इति एतत् सिद्धम् भवति ।
(P_3,2.158) KA_II,134.11-16 Ro_III,303-304 {1/10} किमर्थम् आलुच् उच्यते न लुश् एव उच्येत ।
(P_3,2.158) KA_II,134.11-16 Ro_III,303-304 {2/10} का रूपसिद्धिः : स्पृहयालुः गृहयालुः ।
(P_3,2.158) KA_II,134.11-16 Ro_III,303-304 {3/10} शपि कृते अतः दीर्घः यञि इति दीर्घत्वम् भविष्यति ।
(P_3,2.158) KA_II,134.11-16 Ro_III,303-304 {4/10} एवम् तर्हि सिद्धे सति यत् आलुचम् शास्ति तत् ज्ञापयति आचार्यः अन्येभ्यः अपि अयम् भवति इति ।
(P_3,2.158) KA_II,134.11-16 Ro_III,303-304 {5/10} किम् एतस्य ज्ञापने प्रयोजनम् ।
(P_3,2.158) KA_II,134.11-16 Ro_III,303-304 {6/10} आलुचि शीङ्ग्रहणम् चोदयिष्यति ।
(P_3,2.158) KA_II,134.11-16 Ro_III,303-304 {7/10} तत् न कर्तव्यम् भवति ।
(P_3,2.158) KA_II,134.11-16 Ro_III,303-304 {8/10} आलुचि शीङ्ग्रहणम् ।
(P_3,2.158) KA_II,134.11-16 Ro_III,303-304 {9/10} आलुचि शीङ्ग्रहणम् कर्तव्यम् ।
(P_3,2.158) KA_II,134.11-16 Ro_III,303-304 {10/10} शयालुः ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {1/35} किमर्थम् किकिनोः कित्त्वम् उच्यते न असंयोगात् लिट् कित् इति एव सिद्धम् ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {2/35} किकिनोः कित्त्वम् ॠकारगुणप्रतिषेधाऋथम् ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {3/35} किकिनोः कित्त्वम् क्रियते ॠकारगुणप्रतिषेधाऋथम् ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {4/35} अयम् ॠकारारान्तानाम् लिटि गुणः प्रतिषेधविषये आरभ्यते ऋच्छत्यॄत्राम् इति ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {5/35} सः यथा इह भवति आतस्तरतुः अतस्तरुः इति एवम् इह अपि प्रसज्येत मित्रावरुणौ ततुरिः दूरे हि अध्वा जगुरिः इति ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {6/35} सः पुनः कित्त्वे बाध्यते ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {7/35} उत्सर्गः छन्दसि सदादिभ्यः दर्शनात् ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {8/35} उत्सर्गः छन्दसि किकिनौ वक्तव्यौ ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {9/35} किम् प्रयोजनम् ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {10/35} सदादिभ्यः दर्शनात् ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {11/35} सदादिभ्यः हि किकिनौ दृश्येते ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {12/35} सदिमनिरमिनमिविचीनाम् सेदिः मेनिः रेमिः ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {13/35} नेमिः चक्रम् इव अभवत् ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {14/35} विविचिम् रत्नधातमम् ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {15/35} भाषायाम् धाञ्कृसृजनिनिमिभ्यः । भाषायाम् धाञ्कृसृजनिनिमिभ्यः किकिनौ वक्तव्यौ ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {16/35} धाञ् ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {17/35} दधिः ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {18/35} धाञ् ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {19/35} कृ ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {20/35} चक्रिः ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {21/35} कृ ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {22/35} सृ ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {23/35} सस्रिः ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {24/35} सृ ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {25/35} जनि ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {26/35} जज्ञिः ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {27/35} जनि ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {28/35} नमि ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {29/35} नेमिः ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {30/35} सासहिवावहिचाचलिपापतीनाम् निपातनम् ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {31/35} सासहिवावहिचाचलिपापतीनाम् निपातनम् कर्तव्यम् ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {32/35} वृषा सहमानम् सासहिः ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {33/35} वावहिः चाचलिः पापतिः ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {34/35} अपरः आह : सहिवहिचलिपतिभ्यः यङन्तेभ्यः किकिनौ वक्तव्यौ ।
(P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {35/35} एतानि एव उदाहरणानि ।
(P_3,2.174) KA_II,135.14 Ro_III,305 {1/2} भियः क्रुकन् अपि वक्तव्यः ।
(P_3,2.174) KA_II,135.14 Ro_III,305 {2/2} भीरुकः ।
(P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {1/20} किमर्थम् इदम् उच्यते न क्विप् अन्येभ्यः अपि दृश्यते इति एव सिद्धम् ।
(P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {2/20} क्विब्विधिः अनुपपदार्थः ।
(P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {3/20} अनुपपदार्थः अयम् आरम्भः ।
(P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {4/20} पचेः पक् ।
(P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {5/20} भिदेः भित् ।
(P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {6/20} छिदेः छित् ।
(P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {7/20} अथ यः अत्र सोपसर्गः तस्य ग्रहणम् किमर्थम् न तेन एव सिद्धम् ।
(P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {8/20} न सिध्यति ।
(P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {9/20} इह के चित् आ क्वेः इति सूत्रम् पठन्ति के चित् प्राक् क्वेः इति ।
(P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {10/20} तत्र ये आ क्वेः इति पठन्ति तैः क्विप् अपि आक्षिप्तः भवति ।
(P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {11/20} तत्र तच्छीलादिषु अर्थेषु किव्प् यथा स्यात् ।
(P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {12/20} न एतत् अस्ति प्रयोजनम् ।
(P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {13/20} यः एव असौ अविशेषविहितः सः तच्छीलादिषु भविष्यति अन्यत्र च ।
(P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {14/20} न सिध्यति ।
(P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {15/20} अयम् तच्छीलादिषु तृन् विधीयते ।
(P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {16/20} सः विशेषविहितः सामान्यविहितम् ण्वुलम् बाधेत ।
(P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {17/20} वासरूपन्यायेन ण्वुल् अपि भविष्यति ।
(P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {18/20} न सिध्यति ।
(P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {19/20} इदानीम् एव हि उक्तम् तच्छीलादिषु वर्थेषु वासरूपेण तृजादयः न भवन्ति इति ।
(P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {20/20} क्विप् च अपि तृजादिः ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {1/49} वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणाम् दीर्घः च ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {2/49} वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणाम् दीर्घत्वम् च वक्तव्यम् क्विप् च ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {3/49} वचि ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {4/49} वाक् ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {5/49} वचि ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {6/49} प्रच्छि ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {7/49} शब्दप्राट् प्रच्छि ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {8/49} आयतस्तु ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {9/49} आयतस्तूः ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {10/49} आयतस्तु ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {11/49} कटप्रु ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {12/49} कटप्रूः ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {13/49} कटप्रु ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {14/49} जु ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {15/49} जूः ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {16/49} जु ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {17/49} श्रि ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {18/49} श्रीः ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {19/49} अपरः आह : वचिप्रच्छ्योः असम्प्रसारणम् च इति वक्तव्यम् ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {20/49} तत् तर्हि वक्तव्यम् ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {21/49} न वक्तव्यम् ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {22/49} दीर्घवचनसामर्थ्यात् सम्प्रसारणम् न भविष्यति ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {23/49} इदम् इह सम्प्रधार्यम् ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {24/49} दीर्घत्वम् क्रियताम् सम्प्रसारणम् इति ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {25/49} किम् अत्र कर्तव्यम् ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {26/49} परत्वात् सम्प्रसारणम् ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {27/49} अन्तरङ्गम् दीर्घत्वम् ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {28/49} का अन्तरङ्गता ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {29/49} प्रत्ययोत्पत्तिसन्नियोगेन दीर्घत्वम् उच्यते उत्पन्ने प्रत्यये सम्प्रसारणम् ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {30/49} तत्र अन्तरङ्गत्वात् दीर्घत्वे कृते सम्प्रसारणम् ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {31/49} प्रसारणपरपूर्वत्वे कृते कार्यकृतत्वात् पुनः दीर्घत्वम् न स्यात् ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {32/49} तस्मात् सुष्ठु उच्यते दीर्घवचनसामर्थ्यात् सम्प्रसारणम् न भविष्यति इति ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {33/49} द्युतिगमिजुहोतीनाम् द्वे च ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {34/49} द्युतिगमिजुहोतीनाम् द्वे च इति वक्तव्यम् ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {35/49} दिद्युत्। द्युति ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {36/49} गमि ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {37/49} जगत् ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {38/49} गमि ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {39/49} जुहोति ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {40/49} जुहोतेः दीर्घः च ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {41/49} जुहूः ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {42/49} दृणातेः ह्रस्वः च द्वे च क्विप् च इति वक्तव्यम् ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {43/49} ददृत् ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {44/49} जुहूः जुहोतेः ह्वयतेः वा ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {45/49} ददृत् दृणातेः दीर्यतेः वा ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {46/49} जूः ज्वरतेः जीर्यतेः वा ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {47/49} धायतेः सम्प्रसारणम् च ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {48/49} धायतेः सम्प्रसारणम् च क्विप् च वक्तव्यः ।
(P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {49/49} धीः ध्यायतेः वा दधातेः वा ।
(P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {1/11} डुप्रकरणे मितद्र्वादिभ्यः उपसङ्ख्यानम् धातुविधितुक्प्रतिषेधार्थम् ।
(P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {2/11} डुप्रकरणे मितद्र्वादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {3/11} किम् प्रयोजनम् ।
(P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {4/11} धातुविधितुक्प्रतिषेधार्थम् ।
(P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {5/11} धातुविधेः तुकः च प्रतिषेधः यथा स्यात् ।
(P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {6/11} मित्रद्रुः मितद्रू मितद्रवः ।
(P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {7/11} अचि श्नुधातुभ्रुवाम् इति उवङादेशः मा भूत् ।
(P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {8/11} इह च मितद्र्वा मितद्र्वे न ऊङ्धात्वोः इति प्रतिषेधः मा भूत् ।
(P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {9/11} तुग्विधिः ।
(P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {10/11} मितद्रुः ।
(P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {11/11} ह्रस्वस्य पिति कृति तुक् भवति इति तुक् मा भूत् ।
(P_3,2.188) KA_II,137.4-8 Ro_III,308 {1/3} शीलितः रक्षितः क्षान्तः आक्रुष्टः जुष्टः इति अपि रुष्टः च रुषितः च उभौ अभिव्याहृतः इति अपि हृष्टतुष्टौ तथा कान्तः तथा उभौ संयोतोद्यतौ ।
(P_3,2.188) KA_II,137.4-8 Ro_III,308 {2/3} कष्टम् भविष्यति इति आहुः ।
(P_3,2.188) KA_II,137.4-8 Ro_III,308 {3/3} अमृताः पूर्ववत् स्मृताः । न म्रियन्ते अमृताः ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {1/40} भविष्यति इति अनद्यतने उपसङ्ख्यानम् ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {2/40} भविष्यति इति अनद्यतने उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {3/40} श्वः ग्रामम् गमी ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {4/40} किम् पुनः कारणम् न सिध्यति ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {5/40} लृटा अयम् निर्देशः कृइयते ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {6/40} लृट् च अनद्यतने लुटा बाध्यते ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {7/40} तेन लृटः एव विषये एते प्रत्ययाः स्युः ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {8/40} लुटः विषये न स्युः ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {9/40} इतरेतराश्रयम् च ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {10/40} इतरेतराश्रयम् च भवति ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {11/40} का इतरेतराश्रयता ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {12/40} भविष्यत्कालेन शब्देन निर्देशः क्रियते ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {13/40} निर्देशोत्तरकालम् च भ्भविष्यत्कालता ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {14/40} तत् एतत् इतरेतराश्रयम् भवति ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {15/40} इतरेतराश्रयाणि च न प्रकल्पन्ते ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {16/40} उक्तम् वा ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {17/40} किम् उक्तम् ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {18/40} एकम् तावत् उक्तम् न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् इति ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {19/40} अपरम् अपि उक्तम् अव्ययनिर्देशात् सिद्धम् इति। अव्ययवता शब्देन निर्देशः करिष्यते ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {20/40} अवर्तमाने अभूते इति ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {21/40} सः तर्हि अव्ययवता शब्देन निर्देशः कर्तव्यः ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {22/40} न कर्तव्यः ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {23/40} अव्ययम् एषः भविष्यतिशब्दः न एषा भवतेः लृट् ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {24/40} कथम् अव्ययत्वम् ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {25/40} विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {26/40} निपातम् अव्ययम् इति अवययसञ्ज्ञा ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {27/40} अथ अपि भवतेः लृट् एवम् अपि अवययम् एव ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {28/40} कथम् न व्येति इति अव्ययम् ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {29/40} क्व पुनः न व्येति ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {30/40} एतौ कालविशेषौ भूतवर्तमानौ ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {31/40} स्वभावतः भविष्यति एव वर्तते ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {32/40} यदि तत्रि न व्येति इति अव्ययम् ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {33/40} न वा तद्विधानस्य अन्यत्र अभावात् ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {34/40} न वा भविष्यदाधिकारेण अर्थः ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {35/40} किम् कारणम् ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {36/40} तद्विधानस्य अन्यत्र अभावात् ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {37/40} ये अपि एते इतः उत्तरम् प्रत्ययाः शिष्यन्ते एते अपि एतौ कालविशेषौ न वियन्ति भूतवर्तमानौ ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {38/40} स्वभावतः एव ते भविष्यति एव वर्तन्ते ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {39/40} अतः उत्तरम् पठति ।
(P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {40/40} भविष्यदधिकारस्य प्रयोजनम् यावत् पचति पुरा पचति इति अनपशब्दत्वाय ।
(P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {1/14} यावत्पुरादिषु लड्विधिः लुटः पूर्वविप्रतिषिद्धम् । यावत्पुरादिषु लड्विधिः भवति लुटः पूर्वविप्रतिषेधेन ।
(P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {2/14} यावत्पुरानिपातयोः लट् भवति इति अस्य अवकाशः ।
(P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {3/14} यावत् भुङ्क्ते ।
(P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {4/14} पुरा भुङ्क्ते ।
(P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {5/14} लुटः अवकाशः ।
(P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {6/14} श्वः कर्ता ।
(P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {7/14} श्वः अध्येता ।
(P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {8/14} इह उभयम् प्राप्नोति ।
(P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {9/14} यावत् श्वः भुङ्क्ते ।
(P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {10/14} पुरा श्वः भुङ्क्ते ।
(P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {11/14} लट् भवति विप्रतिषेधेन ।
(P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {12/14} सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।
(P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {13/14} न वक्तव्यः ।
(P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {14/14} अनद्यतने लुट् इति अत्र यावत्पुरानिपातयोः लट् इति अनुवर्तिष्यते ।
(P_3,3.7) KA_II,140.6-8 Ro_III,314 {1/4} किमर्थम् इदम् उच्यते न लिप्स्यमानसिद्धिः अपि लिप्सा एव तत्र किंवृत्ते लिप्सायाम् इति एव सिद्धम् ।
(P_3,3.7) KA_II,140.6-8 Ro_III,314 {2/4} अकिंवृत्तार्थः अयम् आरम्भः ।
(P_3,3.7) KA_II,140.6-8 Ro_III,314 {3/4} यः भवताम् ओदनम् ददाति सः स्वर्गम् लोकम् गच्छति ।
(P_3,3.7) KA_II,140.6-8 Ro_III,314 {4/4} यः भवताम् ओदनम् दास्यति सः स्वर्गम् लोकम् गमिष्यति ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {1/45} किमर्थम् क्रियायाम् उपपदे क्रियार्थायाम् ण्वुल् विधीयते न अविशेषेण विहितः ण्वुल् सः क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यति ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {2/45} ण्वुलि सकर्मकग्रहणम् चोदितम् ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {3/45} अकरमकार्थः अयम् आरम्भः ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {4/45} आसकः व्रजति ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {5/45} शायकः व्रजति ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {6/45} प्रत्याख्यातम् तत् न वा धातुमात्रात् दर्शनात् ण्वुलः इति ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {7/45} एवम् तर्हि तृजादिषु वर्तमानकालोपादानम् चोदितम् ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {8/45} अवर्तमानकालार्थः अयम् आरम्भः ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {9/45} तत् अपि प्रत्याख्यातम् न वा कालमात्रे दर्शनात् अन्येषाम् इति ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {10/45} इदम् तर्हि प्रयोजनम्। अकेनोः भविष्यदाधम्र्ण्ययोः इति अत्र षष्ठ्याः प्रतिषेधः उक्तः ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {11/45} सः यथा स्यात् ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {12/45} एतत् अपि न अस्ति प्रयोजनम् ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {13/45} यः एव असौ अविशेषविहितः सः यदा भविष्यति भविष्यति तदा अस्य प्रतिषेधः भविष्यति ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {14/45} एवम् तर्हि भविष्यदधिकारविहितस्य प्रतिषेधः यथा स्यात् ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {15/45} इह मा भूत् : अङ्ग यजताम् ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {16/45} लप्स्यन्ते अस्य याजकाः ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {17/45} ये एनम् याजययिष्यन्ति इति ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {18/45} न एषः भविष्यत्कालः ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {19/45} कः तर्हि ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {20/45} भूतकालः ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {21/45} कथम् तर्हि भविष्यत्कालता गम्यते ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {22/45} धातुसम्बन्धे प्रत्ययाः इति ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {23/45} यः तर्हि न धातुसम्बन्धः ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {24/45} इमे अस्य याजकाः ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {25/45} इमे अस्य लावकाः इति ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {26/45} एषः अपि भूतकालः ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {27/45} कथम् तर्हि भविष्यत्कालता गम्यते ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {28/45} सम्बन्धात् ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {29/45} सः च तावत् तैः अयाजितः भवति ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {30/45} तस्य च तावत् तैः यवाः अलूनाः भवन्ति ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {31/45} उच्यते च ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {32/45} इदम् तर्हि प्रयोजनम् ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {33/45} अयम् क्रियायाम् उपप्दे क्रियार्थायाम् तुमुन् विधीयते ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {34/45} सः विशेषविहितः सामान्यविहितम् ण्वुलम् बाधेत ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {35/45} एतत् अपि न अस्ति प्रयोजनम् ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {36/45} भावे तुमुन् विधीयते कर्तरि ण्वुल् ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {37/45} तत्र कः प्रसङ्गः यत् भावे विहितः तुमुन् कर्तरि विहितम् ण्वुलम् बाधेत ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {38/45} लृट् तर्हि बाधेत ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {39/45} वासरूपेण भविष्यति ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {40/45} अतः उत्तरम् पठति ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {41/45} ण्वुलः क्रियार्थोपपदस्य पुनर्विधानम् तृजादिप्रतिषेधार्थम् ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {42/45} ण्वुलः क्रियार्थोपपदस्य पुनर्विधानम् क्रियते ज्ञापकार्थम् ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {43/45} किम् ज्ञाप्यम् ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {44/45} एतत् ज्ञापयति आचार्यः क्रियायाम् उपपदे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति ।
(P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {45/45} ण्वुल् अपि तृजादिः ।
(P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {1/17} किमर्थम् इदम् उच्यते न अविशेषेण भावे प्रत्ययाः ये विहिताः ते क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यन्ति ।
(P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {2/17} भाववचनानाम् यथाविहितानाम् प्रतिपदविध्यर्थम् ।
(P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {3/17} भाववचनानाम् यथाविहितानाम् प्रतिपदविध्यर्थः अयम् आरम्भः ।
(P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {4/17} इदानीम् एव हि उक्तम् क्रियायाम् उपप्दे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति ।
(P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {5/17} भाववचनाः च अपि तृजादयः ।
(P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {6/17} अस्ति प्रयोजनम् एतत् ।
(P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {7/17} किम् तर्हि इति ।
(P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {8/17} यथाविहिताः इति तु वक्तव्यम् ।
(P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {9/17} किम् प्रयोजनम् ।
(P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {10/17} इह याभ्यः प्रकृतिभ्यः येन विशेषेण भावे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण क्रियायाम् उपप्दे क्रियार्थायाम् यथा स्युः ।
(P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {11/17} व्यतिकरः मा भूत् इति ।
(P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {12/17} तत् तर्हि वक्तव्यम् ।
(P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {13/17} न वक्तव्यम् ।
(P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {14/17} इह भावे प्रत्ययाः भवन्ति इति इयट सिद्धम् ।
(P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {15/17} सः अयम् एवम् सिद्धे सति यत् वचनग्रहणम् करोति तस्य एतत् प्रयोजनम् वाचकाः यथा स्युः इति ।
(P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {16/17} यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण भावे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण क्रियायाम् उपप्दे क्रियार्थायाम् भवन्ति ततः अमी वाचकाः कृताः स्युः ।
(P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {17/17} अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमीवाचकाः कृताः स्युः ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {1/29} किमर्थम् इदम् उच्यते न अविशेषेण कर्मणि अण् विहितः सः क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यति ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {2/29} अणः पुनर्वचनम् अपवादविषये अनिवृत्त्यर्थम् ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {3/29} अणः पुनर्वचनम् क्रियते अपवादविषये अनिवृत्तिः यथा स्यात् ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {4/29} गोदायः व्रजति ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {5/29} कम्बलदायः व्रजति इति ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {6/29} किम् उच्यते अपवादविषये अनिवृत्तिः यथा स्यात् इति न पुनः उत्सर्गविषये प्रतिपदविध्यर्थम् स्यात् ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {7/29} इदानीम् एव हि उक्तम् क्रियायाम् उपप्दे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {8/29} अण् च अपि तृजादिः ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {9/29} एवम् तर्हि उभयम् अनेन क्रियते ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {10/29} अपवादविषये चानिवृत्तिः उत्सर्गविषये प्रतिपदविधानम् ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {11/29} कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {12/29} लभ्यम् इति आह ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {13/29} कथम् ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {14/29} कर्मग्रहणसामर्थ्यात् ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {15/29} कथम् पुनः अन्तरेण कर्मग्रहणम् कर्मणि अण् लभ्यः ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {16/29} वचनग्रहणम् प्रकृतम् अनुवर्तते ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {17/29} अस्ति प्रयोजनम् एतत् ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {18/29} किम् तर्हि इति ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {19/29} अपर्यायेण इति तु वक्तव्यम् ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {20/29} कदा चित् हि कर्मणि स्यात् कदा चित् क्रियायाम् उपपदे क्रियार्थायाम् इति ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {21/29} तत् तर्हि वक्तव्यम् ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {22/29} न वक्तव्यम् ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {23/29} चेन सन्नियोगः करिष्यते ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {24/29} अण् कर्मणि च ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {25/29} किम् च अन्यत् ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {26/29} क्रियायाम् उपपदे क्रियार्थायाम् इति ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {27/29} एवम् अपि प्रत्येकम् उपपदसञ्ज्ञा न प्राप्नोति ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {28/29} चेन एव सन्नियोगः करिष्यते ।
(P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {29/29} प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति प्रत्येकम् उपपदसञ्ज्ञ भविष्यति ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {1/33} शेषवचनम् किमर्थम् ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {2/33} लृटि शेषवचनम् क्रियायाम् प्रतिपदविध्यर्थम् । लृटि शेषवचनम् क्रियते क्रियायाम् प्रतिपदविध्यर्थम् ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {3/33} प्रतिपदविधिः यथा स्यात् ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {4/33} अविशेषेण विधाने लृटः अभावः प्रतिषिद्धत्वात् ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {5/33} अविशेषेण विधाने लृटः अभावः स्यात् ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {6/33} करिष्यामि इति व्रजति ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {7/33} हरिष्यामि इति व्रजति इति ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {8/33} किम् कारणम् ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {9/33} प्रतिषिद्धत्वात् ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {10/33} इदानीम् एव हि उक्तम् क्रियायाम् उपपदे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {11/33} लृट् च अपि तृजादिः ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {12/33} अस्ति प्रयोजनम् एतत् ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {13/33} किम् तर्हि इति ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {14/33} साधीयः तु खलु शेषग्रहणेन क्रियार्थोपपदात् लृट् निर्भज्यते ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {15/33} किम् कारणम् ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {16/33} अक्रियार्थोपपदत्वात् ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {17/33} शेषे इति उच्यते ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {18/33} शेषः च कः ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {19/33} यत् अन्यत् क्रियायाः क्रियार्थायाः ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {20/33} एवम् तर्हि लृटि शेषवचनम् क्रियायाम् प्रतिपदविध्यर्थम् ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {21/33} लृटि शेषवचनम् क्रियते क्रियायाम् प्रतिपदविधिः यथा स्यात् ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {22/33} लृट् शेषे च ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {23/33} करिष्यति हरिष्यति इति ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {24/33} क्व च ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {25/33} क्रियायाम् उपपदे क्रियार्थायाम् इति ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {26/33} सः तर्हि चकारः कर्तव्यः ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {27/33} न कर्तव्यः ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {28/33} इह लृट् भवति इति इयता सिद्धम् ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {29/33} सः अयम् एवम् सिद्धे सति यत् शेषग्रहणम् करोति तस्य एतत् प्रयोजनम् योगाङ्गम् यथा उपजायेत ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {30/33} सति च योगाङ्गे योगविभागः करिष्यते ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {31/33} लृट् भवति क्रियायाम् उपपदे क्रियार्थायाम् इति ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {32/33} ततः शेषे ।
(P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {33/33} शेषे च लृट् भवति इति ।
(P_3,3.14) KA_II,143.7-10 Ro_III,320 {1/8} सद्विधिः नित्यम् अप्रथमासमानाधिकरणे ।
(P_3,3.14) KA_II,143.7-10 Ro_III,320 {2/8} सद्विधिः अप्रथमासमानाधिकरणे नित्यम् इति वक्तव्यम् ।
(P_3,3.14) KA_II,143.7-10 Ro_III,320 {3/8} पक्ष्यन्तम् पश्य ।
(P_3,3.14) KA_II,143.7-10 Ro_III,320 {4/8} पक्ष्यमाणम् पश्य ।
(P_3,3.14) KA_II,143.7-10 Ro_III,320 {5/8} क्व तर्हि इदानीम् विभाषा ।
(P_3,3.14) KA_II,143.7-10 Ro_III,320 {6/8} प्रथमासमानाधिकरणे ।
(P_3,3.14) KA_II,143.7-10 Ro_III,320 {7/8} पाक्ष्यन् पक्ष्यति ।
(P_3,3.14) KA_II,143.7-10 Ro_III,320 {8/8} पक्ष्यमाणः पक्ष्यते ।
(P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {1/11} योगविभागः कर्तव्यः ।
(P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {2/11} अनद्यतने लृटः सत्स्ञ्ज्ञौ भवतः ।
(P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {3/11} श्वः अग्नीन् आध्यास्यमानेन ।
(P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {4/11} श्वः सोमेन यक्ष्यमाणेन ।
(P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {5/11} ततः लुट् ।
(P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {6/11} लुट् भवति अनद्यतने ।
(P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {7/11} श्वः कर्ता ।
(P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {8/11} श्वः अध्येता ।
(P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {9/11} केन विहितस्य अनद्यतने लृटः सत्सञ्ज्ञौ उच्येते ।
(P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {10/11} एतत् एव ज्ञापयति भवति अनद्यतने लृट् इति यत् अयम् अनद्यतने लृटः सत्स्ञ्ज्ञौ शास्ति ।
(P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {11/11} एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् भविष्यति इति अनद्यतने उपसङ्ख्यानम् ।
(P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {1/11} परिदेवने श्वस्तनीभविष्यन्त्यर्थे ।
(P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {2/11} परिदेवने श्वस्तनीभविष्यन्त्याः अर्थे इति वक्तव्यम् ।
(P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {3/11} इयम् नु कदा गन्ता या एवम् पादौ निदधाति ।
(P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {4/11} अयम् नु कदा अध्येता यः एवम् अनभियुक्तः इति ।
(P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {5/11} कालप्रकर्षात् तु उपमानम् ।
(P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {6/11} कालप्रकर्षात् तु उपमानम् ।
(P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {7/11} गन्ता इव इयम् गन्ता ।
(P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {8/11} न इयम् गमिष्यति ।
(P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {9/11} अध्येता इव अयम् अध्येता ।
(P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {10/11} न वै तिङन्तेन उपमानम् अस्ति ।
(P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {11/11} एवम् तर्हि अनद्यतने इव अनद्यतने इति ।
(P_3,3.16) KA_II,144.2-3 Ro_III,321 {1/4} स्पृशः उपतापे ।
(P_3,3.16) KA_II,144.2-3 Ro_III,321 {2/4} स्पृशः उपतापे इति वक्तव्यम् ।
(P_3,3.16) KA_II,144.2-3 Ro_III,321 {3/4} इह मा भूत् ।
(P_3,3.16) KA_II,144.2-3 Ro_III,321 {4/4} कम्बलस्पर्शः इति
(P_3,3.17) KA_II,144.5-6 Ro_III,321 {1/5} वाधिमत्स्यबलेषु इति वक्तव्यम् ।
(P_3,3.17) KA_II,144.5-6 Ro_III,321 {2/5} अतीसारः व्याधिः ।
(P_3,3.17) KA_II,144.5-6 Ro_III,321 {3/5} विसारः मत्स्यः ।
(P_3,3.17) KA_II,144.5-6 Ro_III,321 {4/5} बले ।
(P_3,3.17) KA_II,144.5-6 Ro_III,321 {5/5} शालसारः खदिरसारः ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {1/35} भावे सर्वलिङ्गनिर्देशः ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {2/35} भावे सर्वलिङ्गनिर्देशः कर्तव्यः ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {3/35} भूतौ भवने भावे इति ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {4/35} किम् प्रयोजनम् ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {5/35} सर्वलिङ्गे भाङे एते प्रत्ययाः यथा स्युः इति ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {6/35} किम् पुनः कारणम् न सिध्यति ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {7/35} पुंलिङ्गेन अयम् निर्देशः क्रियते एकवचनेन च ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {8/35} तेन् पुंलिङ्गे एव एकवचने च एते प्र्रत्ययाः स्युः ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {9/35} स्त्रीनपुंसकयोः द्विवचनबहुवच्नयोः च न स्युः ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {10/35} न अत्र निर्देशः तन्त्रम् ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {11/35} कथम् पुनः तेन एव च नाम निर्देशः क्रियते तत् च अतन्त्रम् स्यात् ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {12/35} तत्कारी च भवान् तद्द्वेषी च ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {13/35} नान्तरीयकत्वात् अत्र पुंलिङ्गेन निर्देशः क्रियते एकवचनेन च ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {14/35} अवश्यम् कया चित् विभक्त्या केन चित् च लिङ्गेन निर्देशः कर्तव्यः ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {15/35} तत् यथा कः चित् अन्नार्थी शालिकलापम् सतुषम् सपलालम् आहरति नान्तरीयकत्वात् ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {16/35} सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {17/35} तथा कः चित् मांसार्थी मत्स्यान् सशकलान् सकण्टकान् आहरति नान्तरीयकत्वात् ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {18/35} सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {19/35} एवम् इह अपि नान्तरीयकत्वात् पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {20/35} न हि अत्र निर्देशः तन्त्रम् ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {21/35} कया चित् विभक्त्या केन चित् च लिङ्गेन निर्देशः कर्तव्यः ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {22/35} अथ वा कृभ्वस्तयः क्रियासामान्यवाचिनः क्रियाविशेषवाचिनः पचादयः ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {23/35} यत् च अत्र पचतेः भवतिः भवति न तत् भवतेः पचतिः भवति ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {24/35} यत् च भवतेः पचतिः भवति न तत् पचतेः भवतिः भवति ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {25/35} किम् च पचतेः भवतिः भवति ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {26/35} सामान्यम् ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {27/35} किम् च भवतेः पचतिः भवति ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {28/35} विशेषः ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {29/35} तत् यथा उपाध्यायस्य शिष्यः मातुलस्य भागिनेयम् गत्वा आह ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {30/35} उपाध्यायम् भवान् अभिवादयताम् इति ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {31/35} सः गत्वा मातुलम् अभिवादयते ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {32/35} तथा मातुलस्य भागिनेयः उपाध्यायस्य शिष्यम् गत्वा आह ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {33/35} मातुलम् भवान् अभिवादयताम् इति ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {34/35} सः गत्वा उपाध्यायम् अभिवादयते ।
(P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {35/35} एवम् इह अपि पचतेः भवतौ यत् तत् निर्दिश्यते ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {1/60} कारकग्रहणम् किमर्थम् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {2/60} कारकग्रहणम् अनादेशे स्वार्थविज्ञानात् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {3/60} कारकग्रहणम् अनादेशे स्वार्थविज्ञानात् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {4/60} अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {5/60} तत् यथा ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {6/60} गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {7/60} एवम् इमे अपि प्रत्ययाः स्वार्थे स्युः ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {8/60} स्वार्थे मा भूवन् कारके यथा स्युः इति एवमर्थम् इदम् उच्यते ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {9/60} न एतत् अस्ति प्रयोजनम् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {10/60} विहितः प्रत्ययः स्वार्थे भावे घञ् इति ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {11/60} तेन अत्रिप्रसक्तम् इति कृत्वा नियमार्थः अयम् विज्ञायेत ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {12/60} अकर्तरि सञ्ज्ञायाम् एव इति ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {13/60} अस्ति च इदानीम् कः चित् सञ्ज्ञाभूतः भावः यदर्थः विधिः स्यात् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {14/60} अस्ति इति आह : आवाहः , विवाहः इति ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {15/60} कैमर्थक्यात् नियमः भवति ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {16/60} विधेयम् न अस्ति इति कृत्वा ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {17/60} इह च अस्ति विधेयम् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {18/60} अकर्तरि च कारके सञ्ज्ञायाम् घञ् विधेयः ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {19/60} तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {20/60} तत् एव तर्हि प्रयोजनम् स्वार्थे मा भूवन् इति ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {21/60} ननु च उक्तम् विहितः प्रत्ययः स्वार्थे भावे घञ् इति इति ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {22/60} अन्यः सः भावः बाह्यः प्रकृत्यर्थात् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {23/60} अनेन इदानीम् आभ्यन्तरे भावे स्यात् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {24/60} कः पुनः एतयोः भावयोः विशेषः ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {25/60} उक्तः भावभेदः भाष्ये ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {26/60} एतत् अपि न अस्ति प्रयोजनम् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {27/60} नञिवयुक्तम् अन्यसदृशाधिकरणे ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {28/60} तथा हि अर्थगतिः ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {29/60} नञ्युक्तम् इवयुक्तम् च अस्न्यस्मिन् तत्सदृशे कार्यम् विज्ञयते ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {30/60} तथा हि अर्थः गम्यते ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {31/60} तत् यथा ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {32/60} अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् पुरुषम् आनयति ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {33/60} न असौ लोष्टम् आनीय कृती भवति ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {34/60} एवम् इह अपि अकर्तरि इति कर्तृप्रतिषेधात् अन्यस्मिन् अकर्तरि कर्तृसदृशे कार्यम् विज्ञस्यते ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {35/60} किम् च अन्यत् अकर्तृ कर्तृसदृशम् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {36/60} कारकम् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {37/60} उत्तरार्थम् तर्हि कारकग्रहणम् कर्तव्यम् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {38/60} परिमाणाख्यायाम् सर्वेभ्यः कारके यथा स्यात् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {39/60} इह मा भूत् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {40/60} एका तिलोच्छ्रितिः ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {41/60} देवे सृती इति ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {42/60} घञनुक्रमणम् अजब्विषये अवचने हि स्त्रीप्रत्ययानाम् अपि अवादविज्ञानम् इति वक्ष्यति ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {43/60} तत् न वक्तव्यम् भवति ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {44/60} एतत् अपि न अस्ति प्रयोजनम् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {45/60} अत्र अपि अकर्तरि इति एव अनुवर्तिष्यते ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {46/60} सञ्ज्ञाग्रहणानर्थक्यम् च सर्वत्र घञः दर्शनात् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {47/60} सञ्ज्ञाग्रहणम् च अनर्थकम् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {48/60} किम् कारणम् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {49/60} सर्वत्र घञः दर्शनात् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {50/60} असञ्ज्ञायाम् अपि हि घञ् दृश्यते ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {51/60} कः भवता दायः दत्तः ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {52/60} कः भवता लाभः लब्धः इति ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {53/60} यदि सञ्ज्ञाग्रहणम् न क्रियते अतिप्रसङ्गः भवति ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {54/60} कृतः कटः इति अत्र कारः कट इति प्राप्नोति ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {55/60} अतिप्रसङ्गः इति चेत् अभिधानलक्षणत्वात् प्रत्ययस्य सिद्धम् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {56/60} अतिप्रसङ्गः इति चेत् तत् न ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {57/60} किम् कारणम् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {58/60} अभिधानलक्षणत्वात् प्रत्ययस्य सिद्धम् ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {59/60} अभिधानलक्षणाः कृत्तद्धितसमादाः ।
(P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {60/60} अनभिधानात् न भविष्यन्ति ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {1/53} सर्वग्रहणम् किमर्थम् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {2/53} सर्वेभ्यः धातुभ्यः घञ् यथा स्यात् अजपोः अपि विषये ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {3/53} एकः तण्डुलनिश्चायः ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {4/53} द्वौ शूर्पनिष्पावौ ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {5/53} सर्वग्रहणम् अनर्थकम् परिमाणाख्यायम् इति सिद्धत्वात् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {6/53} सर्वग्रहणम् अनर्थकम् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {7/53} किम् कारणम् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {8/53} परिमाणाख्यायम् इति सिद्धत्वात् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {9/53} परिमाणाख्यायम् इति एव घञ् सिद्धः अजपोः अपि विषये ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {10/53} न अर्थः सर्वग्रहणेन ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {11/53} अस्ति अन्यत् एतस्य वचने प्रयोजनम् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {12/53} किम् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {13/53} एकः पाकः द्वौ पाकौ त्रयः पाकाः इति ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {14/53} पूर्वेण अपि एतत् सिद्धम् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {15/53} न सिध्यति ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {16/53} सञ्ज्ञायाम् इति पूर्वः योगः ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {17/53} न च एषा सञ्ज्ञा ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {18/53} प्रत्याख्यायते सञ्ज्ञाग्रहणम् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {19/53} अथ अपि क्रियते एवम् अपि न दोषः ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {20/53} अजौ अपि सञ्ज्ञायाम् एव ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {21/53} यथाजातीयकः उत्सर्गः तथाजातीयकेन अपवादेन भवितव्यम् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {22/53} उत्तरार्थम् तर्हि ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {23/53} इङः च सर्वेभ्यः अपि यथा स्यात् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {24/53} ननु च अयम् इङ् एकः एव वण्टरण्डाकल्पः ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {25/53} सर्वेषु साधनेषु यथा स्यात् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {26/53} उपेत्य अधीयते तस्मात् अध्यायः ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {27/53} अधीयते तस्मिन् अध्यायः ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {28/53} अध्यायन्यायायोद्यावसंहारावायाः च इति एतत् निपातनम् न कर्तव्यम् भवति ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {29/53} एतत् अपि न अस्ति प्रयोजनम् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {30/53} क्रियते न्यासे एव ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {31/53} उत्तराऋथम् एव तर्हि वक्तव्यम् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {32/53} कर्मव्यतिहारे णच् स्त्रियाम् इति सर्वेभ्यः यथा स्यात् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {33/53} एतत् अपि न अस्ति प्रयोजनम् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {34/53} वक्ष्यति एतत् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {35/53} कर्मव्यतिहारे स्त्रीग्रहणम् व्यतिपाकार्थम् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {36/53} पृथक् ग्रहणम् बाधकबाधनार्थम् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {37/53} व्यावचोरीव्यावचर्च्यर्थम् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {38/53} तत्र व्यतीक्षादिषु दोषः ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {39/53} सिद्धम् तु प्रकृते स्त्रीग्रहणे णज्ग्रहणम् णिज्ग्रहणम् च इति ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {40/53} उत्तरार्थम् तर्हि अभिविधौ भावे इनुण् सर्वेभ्यः यथा स्यात् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {41/53} सांराविणम् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {42/53} एतत् अपि न अस्ति प्रयोजनम् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {43/53} वक्ष्यति एतत् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {44/53} अभिविधौ भावग्रहणम् नपुंसके क्तादिनिवृत्त्यर्थम् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {45/53} पृथक् ग्रहणम् बाधकबाधार्थम् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {46/53} न तु ल्युट् इति ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {47/53} इदम् तर्हि प्रयोजनम् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {48/53} प्रकृत्याश्रयः यः अपवादः तस्य बाधनम् यथा स्यात् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {49/53} अर्थाश्रयः यः अपवादः तस्य बाधनम् मा भूत् ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {50/53} एका तिलोच्छ्रितिः द्वे सृती इति ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {51/53} घञनुक्रमणम् अजब्विषये ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {52/53} अवचने हि स्त्रीप्रत्ययानाम् अपि अपवादविज्ञानम् इति चोदयिष्यति ।
(P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {53/53} तत् न वक्तव्यम् भवति ।
(P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {1/12} घञनुक्रमणम् अजब्विषये ।
(P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {2/12} घञनुक्रमणम् अजब्विषये इति वक्तव्यम् ।
(P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {3/12} अवचने हि स्त्रीप्रत्ययानाम् अपि अपवादविज्ञानम् ।
(P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {4/12} अनुच्यमाने हि एतस्मिन् स्त्रीप्रत्ययानाम् अपि अपवादः अयम् विज्ञयेत ।
(P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {5/12} एका तिलोच्छ्रितिः द्वे सृती इति । दारजारौ कर्तरि णिलुक् च ।
(P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {6/12} दारजारौ कर्तरि वक्तव्यौ णिलुक् च वक्तव्यः ।
(P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {7/12} दारयन्ति इति दाराः ।
(P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {8/12} जरयन्ति इति जाराः ।
(P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {9/12} करणे वा ।
(P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {10/12} करणे वा वक्तव्यौ ।
(P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {11/12} दीर्यते तैः दाराः ।
(P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {12/12} जीर्यन्ति तैः जाराः ।
(P_3,3.21) KA_II,147.18-23 Ro_III,330 {1/8} इङः च इति अपादाने स्त्रियाम् उपसङ्ख्यानम् तदन्तात् च वा ङीष् ।
(P_3,3.21) KA_II,147.18-23 Ro_III,330 {2/8} इङः च इति अत्र अपादाने स्त्रियाम् उपसङ्ख्यानम् कर्तव्यम् तदन्तात् च वा ङीष् वक्तव्यः ।
(P_3,3.21) KA_II,147.18-23 Ro_III,330 {3/8} उपेत्य अधीयते तस्याः उअपाध्यायी उपाध्याया ।
(P_3,3.21) KA_II,147.18-23 Ro_III,330 {4/8} शॄ वायुवर्णनिवृतेषु ।
(P_3,3.21) KA_II,147.18-23 Ro_III,330 {5/8} शॄ इति एतस्मात् वायुवर्णनिवृतेषु घञ् वक्तव्यः ।
(P_3,3.21) KA_II,147.18-23 Ro_III,330 {6/8} शारः वायुः ।
(P_3,3.21) KA_II,147.18-23 Ro_III,330 {7/8} शारः वर्णः ।
(P_3,3.21) KA_II,147.18-23 Ro_III,330 {8/8} गौः इव अकृतनीशारः प्रायेण शिशिरे कृशः ।
(P_3,3.36) KA_II,148.2-9 Ro_III,331 {1/11} समि मुष्टौ इति अनर्थकम् वचनम् परिमाणाख्यायाम् इति सिद्धत्वात् ।
(P_3,3.36) KA_II,148.2-9 Ro_III,331 {2/11} समि मुष्टौ इति एतत् वचनम् अनर्थकम् ।
(P_3,3.36) KA_II,148.2-9 Ro_III,331 {3/11} किम् कारणम् ।
(P_3,3.36) KA_II,148.2-9 Ro_III,331 {4/11} परिमाणाख्यायाम् इति सिद्धत्वात् ।
(P_3,3.36) KA_II,148.2-9 Ro_III,331 {5/11} परिमाणाख्यायाम् इति एव सिद्धम् ।
(P_3,3.36) KA_II,148.2-9 Ro_III,331 {6/11} अपरिमाणार्थम् तु ।
(P_3,3.36) KA_II,148.2-9 Ro_III,331 {7/11} अपरिमाणार्थम् तु अयम् आरम्भः ।
(P_3,3.36) KA_II,148.2-9 Ro_III,331 {8/11} मल्लस्य सङ्ग्राहः मुष्टिकस्य सङ्गाहः इति ।
(P_3,3.36) KA_II,148.2-9 Ro_III,331 {9/11} उद्ग्राभिनिग्राभौ च छन्दसि स्रुगुद्यमननिपातनयोः ।
(P_3,3.36) KA_II,148.2-9 Ro_III,331 {10/11} उद्ग्राभः निब्राभः इति इमौ शब्दौ छन्दसि वक्तव्यौ स्रुगुद्यमननिपातनयोः ।
(P_3,3.36) KA_II,148.2-9 Ro_III,331 {11/11} उद्ग्राभम् च निग्राभम् च ब्रह्म देवाः अवीवृधन् ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {1/22} स्त्रीग्रहणम् किमर्थम् ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {2/22} कर्मव्यतिहारे स्त्रीग्रहणम् व्यतिपाकार्थम् । कर्मव्यतिहारे स्त्रीग्रहणम् क्रियते व्यतिपाकार्थम् ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {3/22} इह मा भूत् ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {4/22} व्यतिपाकः वर्तते इति ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {5/22} अथ किमर्थम् पृथक् ग्रहणम् ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {6/22} पृथक् ग्रहणम् बाधकबाधनार्थम् ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {7/22} पृथक् ग्रहणम् क्रियते बाधकबाधनार्थम् ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {8/22} ये तस्य बाधकाः तद्बाधनार्थम् ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {9/22} किम् प्रयोजनम् ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {10/22} व्यावचोरीव्यावचर्च्यर्थम् । व्यावचोरी वर्तते ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {11/22} व्यावचर्ची वर्तते ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {12/22} तत्र व्यतीक्षादिषु दोषः ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {13/22} तत्र व्यतीक्षादिषु दोषः भवति ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {14/22} व्यतीक्षा वर्तते ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {15/22} व्यतीहा वर्तते ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {16/22} सिद्धम् तु प्रकृते स्त्रीग्रहणे णज्ग्रहणम् णिज्ग्रहणम् च ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {17/22} सिद्धम् एतत् ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {18/22} कथम् ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {19/22} प्रकृते एव स्त्रीग्रहणे अयम् योगः कर्तव्यः ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {20/22} स्त्रियाम् क्तिन् ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {21/22} ततः कर्मव्यतिहारे णच् ।
(P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {22/22} ततः णिचः ।
(P_3,3.44) KA_II,149.5-12 Ro_III,332-333 {1/9} भावग्रहणम् किमर्थम् ।
(P_3,3.44) KA_II,149.5-12 Ro_III,332-333 {2/9} अभिविधौ भावग्रहणम् नपुंसके क्तादिनिवृत्त्यर्थम् ।
(P_3,3.44) KA_II,149.5-12 Ro_III,332-333 {3/9} अभिविधौ भावग्रहणम् क्रियते नपुंसके क्तादिनिवृत्त्यर्थम् ।
(P_3,3.44) KA_II,149.5-12 Ro_III,332-333 {4/9} नपुंसकलिङ्गे क्तादयः मा भूवन् इति ।
(P_3,3.44) KA_II,149.5-12 Ro_III,332-333 {5/9} अथ किमर्थम् पृथक् ग्रहणम् ।
(P_3,3.44) KA_II,149.5-12 Ro_III,332-333 {6/9} पृथक् ग्रहणम् बाधकबाधार्थम् ।
(P_3,3.44) KA_II,149.5-12 Ro_III,332-333 {7/9} पृथक् ग्रहणम् क्रियते बाधकबाधार्थम् : ये तस्य बाधकाः तद्बाधनार्थम् ।
(P_3,3.44) KA_II,149.5-12 Ro_III,332-333 {8/9} न तु ल्युटः । ल्युटः तु बाधनम् न इष्यते ।
(P_3,3.44) KA_II,149.5-12 Ro_III,332-333 {9/9} सङ्कूटनम् इति एव भवति ।
(P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {1/15} अज्विधौ भयस्य उपसङ्ख्यानम् ।
(P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {2/15} अज्विधौ भयस्य उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {3/15} भयम् ।
(P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {4/15} अत्यल्पम् इदम् उच्यते : भयस्य इति ।
(P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {5/15} भयादीनाम् इति वक्तव्यम् इह अपि यथा स्यात् : भयम् वर्षम् ।
(P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {6/15} किम् प्रयोजनम् ।
(P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {7/15} नपुंसके क्तादिनिवृत्त्यर्थम् ।
(P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {8/15} नपुंसकलिङ्गे क्तादयः मा भूवन् इति ।
(P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {9/15} कल्पादिभ्यः च प्रतिषेधः ।
(P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {10/15} कल्पादिभ्यः च प्रतिषेधः वक्तव्यः ।
(P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {11/15} कल्पः अर्थः मन्त्रः ।
(P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {12/15} जवसवौ छन्दसि ।
(P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {13/15} जवसवौ छन्दसि वक्तव्यौ ।
(P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {14/15} ऊर्वोः अस्तु मे जवः ।
(P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {15/15} अयम् मे पञ्चौदनः सवः ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {1/25} किमर्थम् निष्पूर्वात् चिनोतेः अप् विधीयते न अचा एव सिद्धम् ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {2/25} न हि अस्ति विशेषः निष्पूर्वात् चिनोतेः अपः वा अचः वा ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {3/25} तत् एव रूपम् सः एव स्वरः ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {4/25} न सिध्यति ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {5/25} हस्तादाने चेः घञ् प्राप्तः ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {6/25} तद्बाधनार्थम् ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {7/25} अतः उत्तरम् पठति ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {8/25} अब्विधौ निश्चिग्रहणम् अनर्थकम् स्तेयस्य घञ्विधौ प्रतिषेधात् ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {9/25} अब्विधौ निश्चिग्रहणम् अनर्थकम् ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {10/25} किम् कारणम् ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {11/25} स्तेयस्य घञ्विधौ प्रतिषेधात् ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {12/25} स्तेयस्य घञ्विधौ प्रतिषेधः उच्यते ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {13/25} निष्पूर्वः चिनोतिः स्तेये वर्तते ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {14/25} अस्तेयार्थम् तर्हि इदम् वक्तव्यम् ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {15/25} निष्पूर्वात् चिनोतेः अस्तेये यथा स्यात् ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {16/25} अस्तेयार्थम् इति चेत् न अनिष्टत्वात् ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {17/25} अस्तेयार्थम् इति चेत् तत् न ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {18/25} किम् कारणम् ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {19/25} अनिष्टत्वात् ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {20/25} न निष्पूर्वात् चिनोतेः अस्तेये अप् इष्यते ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {21/25} किम् तर्हि घञ् एव इष्यते ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {22/25} एवम् तर्हि सिद्धे सति यत् निष्पूर्वात् चिनोतेः अपम् शास्ति तत् ज्ञापयति आचार्यः यत् तत् अन्तः थाथघञ्क्ताजबितृकाणाम् इति तत् निष्पूर्वात् चिनोतेः न भवति इति ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {23/25} किम् एतस्य ज्ञापने प्रयोजनम् ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {24/25} निश्चयः ।
(P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {25/25} एषः स्वरः सिद्धः भवति ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {1/26} वशिरण्योः च उपसङ्ख्यानम् ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {2/26} वशिरण्योः च उपसङ्ख्यानम् ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {3/26} सः वशम् सैन्धवम् ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {4/26} धनञ्जयः रणे रणे ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {5/26} घञर्थे कविधानम् स्थास्नापाव्यधिहनियुध्यर्थम् ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {6/26} घञर्थे कः विधेयः ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {7/26} किम् प्रयोजनम् ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {8/26} स्थास्नापाव्यधिहनियुध्यर्थम् ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {9/26} स्था ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {10/26} प्रतिष्ठन्ते अस्मिन् धान्यानि इति प्रस्थः ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {11/26} प्रस्थे हिमवतः श्र्ङ्गे ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {12/26} स्था ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {13/26} स्ना ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {14/26} प्रस्नान्ति तस्मिन् इति प्रस्नः ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {15/26} स्ना ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {16/26} पा ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {17/26} प्रपिबन्ति अस्याम् इति प्रपा ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {18/26} पा ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {19/26} व्यधि ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {20/26} आविध्यन्ति तेन आविधम् ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {21/26} व्यधि ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {22/26} हनि ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {23/26} विघ्नन्ति तस्मिन् मनांसि विघ्नः ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {24/26} हनि ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {25/26} युधि ।
(P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {26/26} आयुध्यन्ते तेन आयुधम् ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {1/29} कस्मात् अयम् कः विधीयते ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {2/29} हन्तेः इति आह ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {3/29} तत् हन्तिग्रहणम् कर्तव्यम् ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {4/29} न कर्तव्यम् ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {5/29} प्रकृतम् अनुवर्तते ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {6/29} क्व प्रकृतम् ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {7/29} हनः च वधः ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {8/29} तत् वै अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {9/29} न एतानि निपातनानि ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {10/29} हन्तेः एते आदेशाः ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {11/29} यदि आदेशाः घनस्वरः न सिध्यति ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {12/29} घनः ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {13/29} सन्तु तर्हि निपातनानि ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {14/29} ननु च उक्तम् तत् वै अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् इति ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {15/29} सम्बन्धम् अनुवर्तिष्यते ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {16/29} अथ वा पुनः सन्तु आदेशाः ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {17/29} ननु च उक्तम् स्वरः न सिध्यति इति ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {18/29} न एषः दोषः ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {19/29} अकारान्तः आदेशः ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {20/29} अथ यदा इषीकया स्तम्बः हन्यते कथम् तत्र भवितव्यम् ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {21/29} के चिद् तावत् आहुः ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {22/29} स्तम्बघ्ना इति भवितव्यम् ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {23/29} अपरे आहुः : स्तम्बहेतिः इति भवितव्यम् ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {24/29} ऊतियूतिजूतिसातिहेतिकीर्तयः च इति निपातनम् इति ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {25/29} अपरे आहुः ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {26/29} स्तम्बहननीइति भवितव्यम् इति ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {27/29} वक्ष्यति एतत् ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {28/29} अजब्भ्याम् स्त्रीईखलनाः ।
(P_3,3.83) KA_II,151.2-11 Ro_III,336 {29/29} स्त्रियाः खलनौ विप्रतिषेधेन इति ।
(P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {1/14} यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः ।
(P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {2/14} यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः वक्तव्यः ।
(P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {3/14} प्रश्नः इति ।
(P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {4/14} एवन् तर्हि आङित् करिष्यते ।
(P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {5/14} अङिति गुणप्रतिषेधः ।
(P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {6/14} यदि अङित् गुणप्रतिषेधः वक्तव्यः ।
(P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {7/14} विश्नः इति ।
(P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {8/14} सूत्रम् च भिद्यते ।
(P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {9/14} यथान्यासम् एव अस्तु ।
(P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {10/14} ननु च उक्तम् यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः इति ।
(P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {11/14} न एषः दोषः ।
(P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {12/14} निपातनात् एतत् सिद्धम् ।
(P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {13/14} किम् निपातनम् ।
(P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {14/14} प्रश्ने च आसन्नकाले इति ।
(P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {1/12} स्त्रियाम् क्तिन् आबादिभ्यः च ।
(P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {2/12} स्त्रियाम् क्तिन् इति अत्र आबादिभ्यः च इति वक्तव्यम् ।
(P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {3/12} आप्तिः राद्धिः दीप्तिः ।
(P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {4/12} निष्ठायाम् वा सेटः अकारवचनात् सिद्धम् ।
(P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {5/12} अथ वा निष्ठायाम् सेटः अकारः भवति इति वक्तव्यम् ।
(P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {6/12} यदि निष्ठायाम् सेटः अकारः भवति इति उच्यते स्रंसा ध्वंसा इति न सिध्यति ।
(P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {7/12} स्रस्तिः ध्वस्तिः इति प्राप्नोति ।
(P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {8/12} किम् पुनः इदम् परिगणनम् त्रयः एव आबादयः आहोस्वित् उदाहरणमात्रम् ।
(P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {9/12} किम् च अतः ।
(P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {10/12} यदि परिगणनम् भेदः भवति ।
(P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {11/12} अथ उदाहरणमात्रम् न अस्ति भेदः ।
(P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {12/12} स्रस्ति ध्वस्तिः इति एव भवितव्यम् ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {1/26} स्थादिभ्यः सर्वापवादप्रसङ्गः ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {2/26} स्थादिभ्यः सर्वापवादः क्तिन् प्राप्नोति ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {3/26} सः यथा एव अङम् बाधते एवम् ण्वुलिञौ अपि बाधेत ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {4/26} काम् त्वम् स्थायिकाम् अस्थाः ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {5/26} काम् स्थायिम् ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {6/26} सिद्धम् तु अङ्विधाने स्थादिप्रतिषेधात् ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {7/26} सिद्धम् एतत् ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {8/26} कथम् ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {9/26} अङ्विधाने एव स्थादिप्रतिषेधः वक्तव्यः ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {10/26} प्रतिषिद्धे तस्मिन् क्तिन् एव भविष्यति ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {11/26} सिध्यति ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {12/26} सूत्रम् तर्हि भिद्यते ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {13/26} यथान्यासम् एव अस्तु ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {14/26} ननु च उक्तम् स्थादिभ्यः सर्वापवादप्रसङ्गः इति ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {15/26} न एषः दोषः ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {16/26} पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् अयम् स्त्रियाम् क्तिन् अङम् बाधिष्यते ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {17/26} ण्वुलिञौ न बाधिष्यते ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {18/26} श्रुतिजिषिस्तुभ्यः करणे ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {19/26} श्रुतिजिषिस्तुभ्यः करणे क्तिन् वक्तव्यः ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {20/26} श्रूयते अनया श्रुतिः ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {21/26} इज्यते अनया इष्टिः ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {22/26} इष्यते अनया इष्टिः ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {23/26} स्तूयते अनया स्तुतिः ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {24/26} ग्लाज्याहाभ्यः निः ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {25/26} ग्लाज्याहाभ्यः निः वक्तव्यः ।
(P_3,3.95) KA_II,152.8-20 Ro_III,338 {26/26} ग्लानिः ज्यानिः हानिः ।
(P_3,3.98) KA_II,152.22-23 Ro_III,339 {1/3} क्यब्विधिः अधिकरणे च ।
(P_3,3.98) KA_II,152.22-23 Ro_III,339 {2/3} क्यब्विधिः अधिकरणे च इति वक्तव्यम् ।
(P_3,3.98) KA_II,152.22-23 Ro_III,339 {3/3} समजन्ति तस्याम् समज्या ।
(P_3,3.100) KA_II,153.2-3 Ro_III,339 {1/3} कृञः श च इति वावचनम् क्तिनर्थम् ।
(P_3,3.100) KA_II,153.2-3 Ro_III,339 {2/3} कृञः श च इति वावचनम् कर्तव्यम् क्तिन् अपि यथा स्यात् ।
(P_3,3.100) KA_II,153.2-3 Ro_III,339 {3/3} कृतिः ।
(P_3,3.102) KA_II,153.5-7 Ro_III,339 {1/6} किम् निपात्यते ।
(P_3,3.102) KA_II,153.5-7 Ro_III,339 {2/6} इषेः शे यगभावः ।
(P_3,3.102) KA_II,153.5-7 Ro_III,339 {3/6} अत्यल्पम् इदम् उच्यते इच्छा इति ।
(P_3,3.102) KA_II,153.5-7 Ro_III,339 {4/6} इच्छापरिचर्यापरिसर्यामृगयाटाट्यानाम् निपातनम् कर्तव्यम् ।
(P_3,3.102) KA_II,153.5-7 Ro_III,339 {5/6} जागर्तेः अकारः वा ।
(P_3,3.102) KA_II,153.5-7 Ro_III,339 {6/6} जागर्य जागरा ।
(P_3,3.104) KA_II,153.9-18 Ro_III,340 {1/14} भिदा विदारणे ।
(P_3,3.104) KA_II,153.9-18 Ro_III,340 {2/14} भिदा विदारणे इति वक्तव्यम् ।
(P_3,3.104) KA_II,153.9-18 Ro_III,340 {3/14} भित्तिः अन्या ।
(P_3,3.104) KA_II,153.9-18 Ro_III,340 {4/14} छिधा द्वैधीकरणे ।
(P_3,3.104) KA_II,153.9-18 Ro_III,340 {5/14} छिधा द्वैधीकरणे इति वक्तव्यम् ।
(P_3,3.104) KA_II,153.9-18 Ro_III,340 {6/14} छित्तिः अन्या ।
(P_3,3.104) KA_II,153.9-18 Ro_III,340 {7/14} आरा शस्त्र्याम् ।
(P_3,3.104) KA_II,153.9-18 Ro_III,340 {8/14} आरा शस्त्र्याम् इति वक्तव्यम् ।
(P_3,3.104) KA_II,153.9-18 Ro_III,340 {9/14} आर्तिः अन्या ।
(P_3,3.104) KA_II,153.9-18 Ro_III,340 {10/14} धारा प्रपाते ।
(P_3,3.104) KA_II,153.9-18 Ro_III,340 {11/14} धारा प्रपाते इति वक्तव्यम् ।
(P_3,3.104) KA_II,153.9-18 Ro_III,340 {12/14} धृतिः अन्या ।
(P_3,3.104) KA_II,153.9-18 Ro_III,340 {13/14} गुहा गिर्योषध्योः । गुहा गिर्योषध्योः इति वक्तव्यम् ।
(P_3,3.104) KA_II,153.9-18 Ro_III,340 {14/14} गूढिः अन्या
(P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {1/19} किमर्थः चकारः ।
(P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {2/19} स्वरार्थः ।
(P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {3/19} चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।
(P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {4/19} न एतत् अस्ति प्रयोजनम् ।
(P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {5/19} उदात्तः इति वर्तते भूवीराः उदात्तः इति ।
(P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {6/19} यदि उदात्तः इति वर्तते वजयजोः भावे क्यप् किमर्थः पकारः ।
(P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {7/19} तुगर्थः ।
(P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {8/19} ह्रस्वस्य पिति कृति तुक् इति ।
(P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {9/19} उदात्तः इति वर्तते ।
(P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {10/19} एवम् अपि कुतः एतत् तदन्तस्य उदात्तत्वम् भविष्यति न पुनः आदेः इति ।
(P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {11/19} उदात्तः इति अनुवर्तनसामर्थ्यात् यस्य अप्राप्तः स्वरः तस्य भवति ।
(P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {12/19} कस्य च अप्राप्तः ।
(P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {13/19} अन्त्यस्य ।
(P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {14/19} सामान्यग्रहणाविघातार्थः तर्हि ।
(P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {15/19} क्व सामान्यग्रहणाविघातार्थेन अर्थः ।
(P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {16/19} युवोः अनाकौ इति ।
(P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {17/19} एतत् अपि न अस्ति प्रयोजनम् ।
(P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {18/19} वक्ष्यति एतत् ।
(P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {19/19} सिद्धम् तु युवोः अनुनासिकवचनात् इति ।
(P_3,3.107.2) KA_II,154.8-13 Ro_III,341 {1/10} युच्प्रकरणे घट्टिवन्दिविधिभ्यः च उपसङ्ख्यानम् ।
(P_3,3.107.2) KA_II,154.8-13 Ro_III,341 {2/10} युच्प्रकरणे घट्टिवन्दिविधिभ्यः च उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,3.107.2) KA_II,154.8-13 Ro_III,341 {3/10} घट्टना वन्दना वेदना ।
(P_3,3.107.2) KA_II,154.8-13 Ro_III,341 {4/10} इषेः अनिच्छार्थस्य ।
(P_3,3.107.2) KA_II,154.8-13 Ro_III,341 {5/10} इषेः अनिच्छार्थस्य इति वक्तव्यम् ।
(P_3,3.107.2) KA_II,154.8-13 Ro_III,341 {6/10} अन्विष्यते अन्वेषणा ।
(P_3,3.107.2) KA_II,154.8-13 Ro_III,341 {7/10} परेः वा ।
(P_3,3.107.2) KA_II,154.8-13 Ro_III,341 {8/10} परेः वा इति वक्तव्यम् ।
(P_3,3.107.2) KA_II,154.8-13 Ro_III,341 {9/10} अन्याम् परीष्टिम् चर ।
(P_3,3.107.2) KA_II,154.8-13 Ro_III,341 {10/10} अन्याम् पर्येषणाम् चर ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {1/30} धात्वर्तनिर्देशे ण्वुल् ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {2/30} धात्वर्तनिर्देशे ण्वुल् वक्तव्यः ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {3/30} का नाम आसिका अन्येषु ईहमानेषु ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {4/30} का नाम् शायिका अन्येषु अधीयानेषु ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {5/30} इक्श्तिपौ धातुनिर्देशे ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {6/30} इक्श्तिपौ इति एतौ प्रत्ययौ धातुनिर्देशे वक्तव्यौ ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {7/30} पचेः ब्रूहि ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {8/30} पचतेः ब्रूहि ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {9/30} वर्णात् कारः ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {10/30} वर्णात् कारप्रत्ययः वक्तव्यः ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {11/30} अकारः इकारः ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {12/30} रात् इफः ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {13/30} रात् इफः वक्तव्यः ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {14/30} रेफः ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {15/30} मत्वर्थात् छः ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {16/30} मत्वर्थात् छः वक्तव्यः ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {17/30} मत्वर्थीयः ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {18/30} इण् अजादिभ्यः ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {19/30} इण् अजादिभ्यः वक्तव्यः ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {20/30} आजिः आतिः आदिः ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {21/30} इञ् वपादिभ्यः ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {22/30} इञ् वपादिभ्यः वक्तव्यः ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {23/30} वापिः वासिः वादिः ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {24/30} इक् कृष्यादिभ्यः ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {25/30} इक् कृष्यादिभ्यः वक्तव्यः ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {26/30} कृषिः किरिः गिरिः ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {27/30} सम्पदादिभ्यः क्विप् ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {28/30} सम्पदादिभ्यः क्विप् वक्तव्यः ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {29/30} सम्पत् विपत् प्रतिपत् आपत् परिषत् ।
(P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {30/30}
(P_3,3.113) KA_II,155.12-13 Ro_III,343 {1/5} कृतः बहुलम् इति वक्तव्यम् पादहारकाद्यर्थम् ।
(P_3,3.113) KA_II,155.12-13 Ro_III,343 {2/5} पादाभ्याम् ह्रियते पादहारकः ।
(P_3,3.113) KA_II,155.12-13 Ro_III,343 {3/5} गले चोप्यते गलेचोपकः ।
(P_3,3.113) KA_II,155.12-13 Ro_III,343 {4/5} श्वः अग्नीन् आधास्यमानेन ।
(P_3,3.113) KA_II,155.12-13 Ro_III,343 {5/5} श्वः सोमेन यक्ष्यमाणेन ।
(P_3,3.119) KA_II,155.15-17 Ro_III,343 {1/4} गोचरादीनाम् अग्रहणम् प्रायवचनात् यथा कषः निकषः इति ।
(P_3,3.119) KA_II,155.15-17 Ro_III,343 {2/4} गोचरादीनाम् ग्रहणम् शक्यम् अकर्तुम् ।
(P_3,3.119) KA_II,155.15-17 Ro_III,343 {3/4} घञ् कस्मात् न भवति ।
(P_3,3.119) KA_II,155.15-17 Ro_III,343 {4/4} प्रायवचनात् यथा कषः निकषः इति प्रायवचनात् घञ् न भवति ।
(P_3,3.121) KA_II,155.19-21 Ro_III,344 {1/5} घञ्विधौ अवहाराधारावायानाम् उपसङ्ख्यानम् ।
(P_3,3.121) KA_II,155.19-21 Ro_III,344 {2/5} घञ्विधौ अवहाराधारावायानाम् उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,3.121) KA_II,155.19-21 Ro_III,344 {3/5} अवह्रियन्ते अस्मिन् अवहारः ।
(P_3,3.121) KA_II,155.19-21 Ro_III,344 {4/5} आध्रियन्ते अस्मिन् आधारः ।
(P_3,3.121) KA_II,155.19-21 Ro_III,344 {5/5} एत्य एतस्मिन् वयन्ति आवायः ।
(P_3,3.123) KA_II,156.2-7 Ro_III,344 {1/8} किमर्थम् इदम् उच्यते न हलः च इति एव सिद्धम् ।
(P_3,3.123) KA_II,156.2-7 Ro_III,344 {2/8} अनुदके इत् वक्ष्यामि इति ।
(P_3,3.123) KA_II,156.2-7 Ro_III,344 {3/8} इह मा भूत् ।
(P_3,3.123) KA_II,156.2-7 Ro_III,344 {4/8} उदकोदञ्चनः ।
(P_3,3.123) KA_II,156.2-7 Ro_III,344 {5/8} उदङ्कः अनुदकग्रहणानर्थक्यम् च प्रायवचनात् यथा गोदोहनः प्रसाधनः इति ।
(P_3,3.123) KA_II,156.2-7 Ro_III,344 {6/8} उदङ्कः अनुदकग्रहणम् च अनर्थकम् ।
(P_3,3.123) KA_II,156.2-7 Ro_III,344 {7/8} घञ् कस्मात् न भवति ।
(P_3,3.123) KA_II,156.2-7 Ro_III,344 {8/8} प्रायवचनात् यथा गोदोहनः प्रसाधनः इति ।
(P_3,3.125) KA_II,156.9-10 Ro_III,344 {1/8} डः वक्तव्यः ।
(P_3,3.125) KA_II,156.9-10 Ro_III,344 {2/8} आखः ।
(P_3,3.125) KA_II,156.9-10 Ro_III,344 {3/8} डरः वक्तव्यः ।
(P_3,3.125) KA_II,156.9-10 Ro_III,344 {4/8} आखरः ।
(P_3,3.125) KA_II,156.9-10 Ro_III,344 {5/8} इकः वक्तव्यः ।
(P_3,3.125) KA_II,156.9-10 Ro_III,344 {6/8} आखनिकः ।
(P_3,3.125) KA_II,156.9-10 Ro_III,344 {7/8} इकवकः वक्तव्यः ।
(P_3,3.125) KA_II,156.9-10 Ro_III,344 {8/8} आखनिकवकः ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {1/26} अजब्भ्याम् स्त्रीखलनाः ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {2/26} अजब्भ्याम् स्त्रीखलनाः भवन्ति विप्रतिषेधेन ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {3/26} अजपोः अवकाशः चयः लवः ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {4/26} स्त्रीप्रत्ययानाम् अवकाशः कृतिः हृतिः ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {5/26} इह उभयम् प्राप्नोति ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {6/26} चितिः स्तुतिः ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {7/26} खलः अवकाशः ईषद्भेदः सुभेदः ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {8/26} अजपोः सः एव ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {9/26} इह उभयम् प्राप्नोति ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {10/26} ईषच्चयः सुचयः ईषल्लवः सुलवः ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {11/26} अनस्य अवकाशः इध्मप्रव्रश्चनः ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {12/26} अजपोः सः एव ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {13/26} इह उभयम् प्राप्नोति ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {14/26} पलाशचयनः अविलवनः ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {15/26} स्त्रीखलनाः भवन्ति विप्रतिषेधेन ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {16/26} स्त्रियाः खलनौ विप्रतिषेधेन ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {17/26} स्त्रियाः खलनौ भवतः विप्रतिषेधेन ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {18/26} स्त्रीप्रत्ययानाम् अवकाशः कृतिः हृतिः ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {19/26} खलः अवकाशः ईषद्भेदः सुभेदः ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {20/26} इह उभयम् प्राप्नोति ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {21/26} ईषद्भेदा सुभेदा ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {22/26} अनस्य अवकाशः इध्मप्रव्रश्चनः ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {23/26} स्त्रीप्रत्ययानाम् सः एव ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {24/26} इह उभयम् प्राप्नोति ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {25/26} सक्तुधानी तिलपीडनी ।
(P_3,3.126) KA_II,156.12-22 Ro_III,345 {26/26} खलनौ भवतः विप्रतिषेधेन ।
(P_3,3.127) KA_157.2-7 Ro_III,345-346 {1/7} खल् कर्तृकरणयोः च्व्यर्थयोः ।
(P_3,3.127) KA_157.2-7 Ro_III,345-346 {2/7} खल् कर्तृकरणयोः च्व्यर्थयोः इति वक्तव्यम् ।
(P_3,3.127) KA_157.2-7 Ro_III,345-346 {3/7} अनाढ्येन भवता ईषदाढ्येन शक्यम् भवितुम् ईषदाढ्यम्भवम् भवता ।
(P_3,3.127) KA_157.2-7 Ro_III,345-346 {4/7} दुराढ्यम्भवम् स्वाढ्यम्भवम् ।
(P_3,3.127) KA_157.2-7 Ro_III,345-346 {5/7} कर्तृकर्मग्रहणम् च उपपदसञ्ज्ञार्थम् । कर्तृकर्मग्रहणम् च उपपदसञ्ज्ञार्थम् द्रष्टव्यम् ।
(P_3,3.127) KA_157.2-7 Ro_III,345-346 {6/7} द्वेष्यम् विजानीयात् : अभिधेययोः इति ।
(P_3,3.127) KA_157.2-7 Ro_III,345-346 {7/7} तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : कर्तृकर्मग्रहणम् च उपपदसञ्ज्ञार्थम् इति
(P_3,3.130) KA_II,157.9-12 Ro_III,346 {1/5} भाषायाम् शासियुधिदृशिधृषिभ्यः युच् ।
(P_3,3.130) KA_II,157.9-12 Ro_III,346 {2/5} भाषायाम् शासियुधिदृशिधृषिभ्यः युच् वक्तव्यः ।
(P_3,3.130) KA_II,157.9-12 Ro_III,346 {3/5} दुःशासनः दुर्योधनः दुर्दर्शनः दुर्धर्षणः ।
(P_3,3.130) KA_II,157.9-12 Ro_III,346 {4/5} मृषेः च इति वक्तव्यम् ।
(P_3,3.130) KA_II,157.9-12 Ro_III,346 {5/5} दुर्मर्षणः ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {1/26} वत्करणम् किमर्थम् ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {2/26} वर्तमानसामीप्ये वर्त्मानाः वा इति इयति उच्यमाने वर्तमाने ये प्रत्ययाः विहिताः वर्तमानसामीप्ये धातुमात्रात् स्युः ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {3/26} वत्करणे पुनः क्रियमाणे न दोषः भवति ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {4/26} यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण वर्तमाने प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण वर्तमानसामीप्ये भवन्ति ततः अमीवर्तमानवत् कृताः स्युः ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {5/26} अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमीवर्तमानवत् कृताः स्युः ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {6/26} इह वर्तमानसामीप्ये वर्तमानवत् वा इति उक्त्वा लोट् एव उदाह्रियते ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {7/26} यदि पुनः वा लट् भवति इति एव उच्येत ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {8/26} अतः उत्तरम् पठति ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {9/26} वर्तमानसामीप्ये वर्तमानवद्वचनम् शत्राद्यर्थम् ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {10/26} वर्तमानसामीप्ये वर्तमानवद्वचनम् क्रियते शत्राद्यर्थम् ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {11/26} शत्राद्यर्थः अयम् आरम्भः ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {12/26} एषः अस्मि पचन् ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {13/26} एषः अस्मि पचमानः इति ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {14/26} न एतत् अस्ति प्रयोजनम् ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {15/26} लडादेशौ शतृशानचौ ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {16/26} तत्र वा लट् भवति इति एव सिद्धम् ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {17/26} यौ तर्हि अलडादेशौ ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {18/26} एषः अस्मि पवमानः ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {19/26} एषः अस्मि यजमानः ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {20/26} यौ च अपि लडादेशौ तौ अपि प्रयोजयतः ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {21/26} वर्तमानविहितस्य लटः शतृशानचौ उच्येते ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {22/26} अविशेषेण विहितः च अयम् योगः ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {23/26} शत्राद्यर्थम् इति खलु अपि उच्यते ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {24/26} बहवः च शत्रादयः ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {25/26} एषः अस्मि अलङ्करिष्णुः ।
(P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {26/26} एषः अस्मि प्रजनिष्णुः ।
(P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {1/14} आशंसा नाम भविष्यत्काला ।
(P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {2/14} आशंसायाम् भूतवदतिदेशे लङ्लिटोः प्रतिषेधः ।
(P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {3/14} आशंसायाम् भूतवदतिदेशे लङ्लिटोः प्रतिषेधः वक्तव्यः ।
(P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {4/14} न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् ।
(P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {5/14} न वा वक्तव्यः ।
(P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {6/14} किम् कारणम् ।
(P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {7/14} अपवादस्य निमित्ताभावात् ।
(P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {8/14} न अत्र अपवादस्य निमित्तम् अस्ति ।
(P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {9/14} कथम् ।
(P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {10/14} अनद्यतने हि तयोः विधानम् ।
(P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {11/14} अनद्यतने हि तौ विधीयेते लङ्लिटौ ।
(P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {12/14} न च अत्र अनद्यतनः कालः विवक्षितः ।
(P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {13/14} कः तर्हि ।
(P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {14/14} भूतकालसामान्यम्
(P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {1/21} आशंसासम्भावनयोः अविशेषात् तद्विधानस्य अप्राप्तिः । आशंसा सम्भावनम् इति अविशिष्टौ एतौ अर्थौ ।
(P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {2/21} आशंसासम्भावनयोः अविशेषात् तद्विधानस्य अप्राप्तिः ।
(P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {3/21} आशंसायाम् ये विधीयन्ते ते सम्भावने अपि प्राप्नुवन्ति ।
(P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {4/21} ये च सम्भावने विधीयन्ते ते आशंसायाम् अपि प्राप्नुवन्ति ।
(P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {5/21} किम् तर्हि उच्यते अप्राप्तिः इति ।
(P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {6/21} न साधीयः प्राप्तिः भवति ।
(P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {7/21} इष्टा व्यवस्था न प्रकल्पेत ।
(P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {8/21} न सर्वे सर्वत्र इष्यन्ते ।
(P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {9/21} न वा सम्भावनावयवत्वात् आशंसायाः ।
(P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {10/21} न वा एषः दोषः ।
(P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {11/21} किम् कारणम् ।
(P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {12/21} सम्भावनावयवत्वात् आशंसायाः ।
(P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {13/21} सम्भावनावयवात्मिका आशंसा ।
(P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {14/21} आशंसा नाम प्रधारितः अर्थः अभिनीतः च अनभिनीतः च ।
(P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {15/21} सम्भावनम् नाम प्रधारितः अर्थः अभिनीतः एव। अर्थासन्देहः वा अलमर्थत्वात् सम्भावनस्य ।
(P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {16/21} अथ वा अर्थासन्देहः एव पुनः अस्य ।
(P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {17/21} किम् कारणम् ।
(P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {18/21} अलमर्थत्वात् सम्भावनस्य ।
(P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {19/21} सम्भावने आलमर्थ्यम् गम्यते आसंशायाम् पुनः अनालमर्थ्यम् ।
(P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {20/21} आचार्यप्रवृत्तिः ज्ञापयति सम्भावने अपि अनालमर्थ्यम् गम्यते इति यत् अयम् सम्भावने अलम् इति आह ।
(P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {21/21} तस्मात् सुष्ठु उच्यते न वा सम्भावनावयवत्वात् आशंसायाः इति ।
(P_3,3.133.1) KA_II,159.16-201.2 Ro_III,350 {1/9} क्षिप्रवचने लृअः आशंसावचने लिङ् विप्रतिषेधेन ।
(P_3,3.133.1) KA_II,159.16-201.2 Ro_III,350 {2/9} क्षिप्रवचने लृअः आशंसावचने लिङ् भवति विप्रतिषेधेन ।
(P_3,3.133.1) KA_II,159.16-201.2 Ro_III,350 {3/9} क्षिप्रवचने लृट् भवति इति अस्य अवकाशः ।
(P_3,3.133.1) KA_II,159.16-201.2 Ro_III,350 {4/9} उपाध्यायः चेत् आगतः क्षिप्रम् अध्येष्यामहे ।
(P_3,3.133.1) KA_II,159.16-201.2 Ro_III,350 {5/9} आशंसावचबे लिङ् भवति इति अस्य अवकाशः ।
(P_3,3.133.1) KA_II,159.16-201.2 Ro_III,350 {6/9} उपाध्यायः चेत् आगतः आशंसे युक्तः अधीयीय ।
(P_3,3.133.1) KA_II,159.16-201.2 Ro_III,350 {7/9} इह उभयम् प्राप्नोति ।
(P_3,3.133.1) KA_II,159.16-201.2 Ro_III,350 {8/9} उपाध्यायः चेत् आगतः आशंसे क्षिप्रम् अधीयीय ।
(P_3,3.133.1) KA_II,159.16-201.2 Ro_III,350 {9/9} लिङ् भवति विप्रतिषेधेन ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {1/28} अनिष्पन्ने निष्पन्नशब्दः शिष्यः अनिष्पन्नत्वात् ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {2/28} अनिष्पन्ने निष्पन्नशब्दः शिष्यः शासितव्यः ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {3/28} किम् कारणम् ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {4/28} अनिष्पन्नत्वात् ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {5/28} देवः चेत् वृष्टः निष्पन्नाः शालयः ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {6/28} तत्र भवितव्यम् सम्पत्स्यन्ते शालयः इति ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {7/28} सिद्धम् तु भविष्यत्प्रतिषेधात् ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {8/28} सिद्धम् एतत् ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {9/28} कथम् ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {10/28} भविष्यत्प्रतिषेधात् ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {11/28} यत् लोकः भविष्यद्वाचिनः शब्दस्य प्रयोगम् न मृष्यति ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {12/28} कः चित् आह ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {13/28} देवः चेत् वृष्टः सम्पत्स्यन्ते शालयः इति ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {14/28} सः उच्यते ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {15/28} मा एवम् वोचः ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {16/28} सम्पन्नाः शालयः इति एवम् ब्रूहि ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {17/28} हेतुभूतकालसम्प्रेक्षितत्वात् वा ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {18/28} हेतुभूतकालसम्प्रेक्षितत्वात् वा पुनः सिद्धम् एतत् ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {19/28} हेतुभूतकालम् वर्षम् वर्षाकाला च क्रिया ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {20/28} यदि तर्हि निष्पन्नः अर्थः किम् निष्पन्नकार्याणि न क्रियन्ते ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {21/28} कानि ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {22/28} भोजनादीनि ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {23/28} अन्यत् इदानीम् एतत् उच्यते किम् निष्पन्नकार्याणि न क्रियन्ते इति ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {24/28} यत् तु तत् निष्पन्नः अर्थः न निष्पन्नः इति ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {25/28} सः निष्पन्नः अर्थः ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {26/28} अवश्यम् खलु अपि कोष्ठगतेषु अपि शालिषु अवहननादीनि प्रतीक्ष्याणि ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {27/28} एवम् इह अपि निष्पन्नः अर्थः ।
(P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {28/28} अवश्यम् तु जननादीनि प्रतीक्ष्याणि ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {1/34} अस्त्यर्थानाम् भवन्त्यर्थे सर्वाः विभक्तयः । अस्त्यर्थानाम् भवन्त्यर्थे सर्वाः विभक्तयः ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {2/34} कूपः अस्ति ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {3/34} कूपः भविष्यति ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {4/34} कूपः भविता ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {5/34} कूपः अभूत् ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {6/34} कूपः आसीत् ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {7/34} कूपः बभूव इति ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {8/34} कथम् पुनः ज्ञायते भवन्त्याः एषः अर्थः इति ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {9/34} कर्तुः विद्यमानत्वात् ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {10/34} कर्ता अत्र विद्यते ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {11/34} कथम् पुनः ज्ञायते कर्ता अत्र विद्यते इति ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {12/34} कूपः अनेन कदा चित् दृष्टः ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {13/34} न च अस्य कम् चिद् अपि अपायम् पश्यति ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {14/34} सः तु तत्र बुद्ध्या नित्याम् सत्ताम् अध्यवस्यति ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {15/34} कूपः अस्ति इति ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {16/34} सिद्धम् तु यथास्वम् कालसमुच्चारणात् ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {17/34} सिद्धम् एतत् ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {18/34} कथम् ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {19/34} यथास्वम् एताः विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्ते इति ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {20/34} कथम् पुनः ज्ञायते यथास्वम् एताः विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्ते इति ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {21/34} अवात्वात् ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {22/34} यत् न वा भाष्यन्ते ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {23/34} असिद्धविपर्यासः च । असिद्धः च विपर्यासः ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {24/34} न हि कः चित् कूपः अस्ति इति प्रयोक्तव्ये कूपः अभूत् इति प्रयुङ्क्ते ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {25/34} किम् पुनः कारणम् ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {26/34} न वा भाष्यन्ते असिद्धः च विपर्यासः ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {27/34} इह किम् चित् इन्द्रियकर्म किम् चित् बुद्धिकर्म ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {28/34} इन्द्रियकर्म समासादनम् बुद्धिकर्मव्यवसायः ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {29/34} एवम् हि कः चित् पाटलिपुत्रम् जिगमिषुः आह ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {30/34} यः अयम् अध्वा गन्तव्यः आ पाटलिपुत्रात् एतस्मिन् कूपः भविष्यति ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {31/34} समासाद्य अतिक्रम्य उषित्वा कूपः आसीत् इति ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {32/34} समासाद्य अतिक्रम्य उषित्वा विस्मृत्य कूपः बभूव इति ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {33/34} तत् यदा इन्द्रियकर्म तदा एताः विभक्तयः ।
(P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {34/34} यदा हि बुद्धिकर्म तदा वर्तमाना भविष्यति ।
(P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {1/12} किमर्थम् इमौ द्वौ प्रतिषेधौ उच्येते न अद्यतनवत् इति एव उच्येत ।
(P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {2/12} न अनद्यतनवत्प्रतिषेधे लङ्लुटोः प्रतिषेधः ।
(P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {3/12} न अनद्यतनवत्प्रतिषेधे लङ्लुटोः प्रतिषेधः द्रष्टव्यः ।
(P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {4/12} अद्यतनवद्वचने हि विधानम् ।
(P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {5/12} अद्यतनवद्वचने हि सति विधिः इयम् विज्ञायेत ।
(P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {6/12} तत्र कः दोषः ।
(P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {7/12} तत्र लड्विधिप्रसङ्गः ।
(P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {8/12} तत्र लड्विधिः प्रसज्येत ।
(P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {9/12} लुङ्लृटोः च अयथाकालम् । लुङ्लृटोः च अयथाकालम् प्रयोगः प्रसज्येत ।
(P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {10/12} लुङः अपि विषये लृट् स्यात् लृटः च विषये लुङ् स्यात् ।
(P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {11/12} अद्य पुनः अयम् द्वौ प्रतिषेधौ उक्त्वा तूष्णीम् आस्ते ।
(P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {12/12} यथाप्राप्तेम् एव अद्यतने भविष्यति इति ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {1/28} किमर्थम् इदम् उच्यते न न अनद्यतनवत् इति एव सिद्धम् ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {2/28} भविष्यति मर्यादावचने अवरस्मिन् इति अक्रियाप्रबन्धार्थम् ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {3/28} अक्रियाप्रबन्धार्थः अयम् आरम्भः ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {4/28} किम् उच्यते अक्रियाप्रबन्धः ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {5/28} न पुनः क्रियाप्रबन्धार्थः अपि स्यात् ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {6/28} क्रियाप्रबन्धार्थम् इति चेत् वचनानर्थक्यम् ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {7/28} क्रियाप्रबन्धार्थम् इति चेत् वचनम् अनर्थकम् ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {8/28} सिद्धम् क्रियाप्रबन्धे पूर्वेण एव ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {9/28} इदम् तर्हि प्रयोजनम् ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {10/28} अनहोरात्राणाम् इति वक्ष्यामि इति ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {11/28} इह मा भूत् ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {12/28} यः अयम् त्रिंशद्रात्रः आगामी तस्य यः अवरः पञ्चदशरात्रः इति ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {13/28} अहोरात्रप्रतिषेधार्थम् इति चेत् न अनिष्टत्वात् ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {14/28} अहोरात्रप्रतिषेधार्थम् इति चेत् तत् न अनिष्टत्वात् ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {15/28} किम् कारणम् ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {16/28} अनिष्टत्वात् ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {17/28} अत्र अपि न अनद्यतनवत् इति एव इष्यते ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {18/28} इदम् तर्हि प्रयोजनम् : भविष्यति इति वक्ष्यामि इति ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {19/28} इह म भूत् ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {20/28} यः अयम् अध्वा गतः आ पाटलिपुत्रात् तस्य यत् अवरम् साकेतात् इति ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {21/28} न अनिष्टत्वात् ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {22/28} अत्र अपि न अनद्यतनवत् इति एव इष्यते ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {23/28} इदम् तर्हि प्रयोजनम् मर्यादावचने इति वक्ष्यामि इति ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {24/28} इह मा भूत् ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {25/28} यः अयम् अध्वा अपरिमाणः गन्तव्यः तस्य यत् अवरम् साकेतात् इति ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {26/28} अत्र अपि न अनद्यतनवत् इति एव इष्यते ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {27/28} तस्मात् सुष्ठु उच्यते भविष्यति मर्यादावचने अवरस्मिन् इति अक्रियाप्रबन्धार्थम् ।
(P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {28/28} क्रियाप्रबन्धार्थम् इति चेत् वचनानर्थक्यम् इति ।
(P_3,3.137) KA_II,162.15-21 Ro_III,356 {1/8} अनहोरात्राणाम् इति तद्विभागे प्रतिषेधः ।
(P_3,3.137) KA_II,162.15-21 Ro_III,356 {2/8} अनहोरात्राणाम् इति तद्विभागे प्रतिषेधः वक्तव्यः ।
(P_3,3.137) KA_II,162.15-21 Ro_III,356 {3/8} यः अयम् त्रिंशद्रात्रः आगामीतस्य यः अवरः अर्धमासः ।
(P_3,3.137) KA_II,162.15-21 Ro_III,356 {4/8} तैः च विभागे ।
(P_3,3.137) KA_II,162.15-21 Ro_III,356 {5/8} तैः च विभागे इति वक्तव्यम् : यः अयम् मासः आगामीतस्य यः अवरः पञ्चदशरात्रः इति ।
(P_3,3.137) KA_II,162.15-21 Ro_III,356 {6/8} द्वेष्यम् विजानीयात् : अहोरात्राणाम् एव अहोरात्रैः विभागे प्रतिषेधः इति ।
(P_3,3.137) KA_II,162.15-21 Ro_III,356 {7/8} तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : अनहोरात्राणाम् इति तद्विभागे प्रतिषेधः ।
(P_3,3.137) KA_II,162.15-21 Ro_III,356 {8/8} तैः च विभागे इति ।
(P_3,3.138) KA_II,162.23 Ro_III,356) {1/4} कस्मिन् परस्मिन् ।
(P_3,3.138) KA_II,162.23 Ro_III,356) {2/4} कालविभागे ।
(P_3,3.138) KA_II,162.23 Ro_III,356) {3/4} कुतः एतत् ।
(P_3,3.138) KA_II,162.23 Ro_III,356) {4/4} योगविभागकरणसामर्थ्यात् ।
(P_3,3.139) KA_II,163.2-5 Ro_III,357 {1/6} साधनातिपत्तौ इति अपि वक्तव्यम् इह अपि यथा स्यात् ।
(P_3,3.139) KA_II,163.2-5 Ro_III,357 {2/6} अभोक्ष्यत भवान् मांसेन यदि मत्समीपे आसिष्यत इति ।
(P_3,3.139) KA_II,163.2-5 Ro_III,357 {3/6} तत् तर्हि वक्तव्यम् ।
(P_3,3.139) KA_II,163.2-5 Ro_III,357 {4/6} न वक्तव्यम् ।
(P_3,3.139) KA_II,163.2-5 Ro_III,357 {5/6} न अन्तरेण साधनम् क्रियायाः प्रवृत्तिः अस्ति इति साधनातिपत्तिः चेत् क्रियातिपत्तिः अपि भवति ।
(P_3,3.139) KA_II,163.2-5 Ro_III,357 {6/6} तत्र क्रियातिपत्तौ इति एव सिद्धम् ।
(P_3,3.140) KA_II,163.7-8 Ro_III,357 {1/4} भूते लृङ् उताप्यादिषु ।
(P_3,3.140) KA_II,163.7-8 Ro_III,357 {2/4} भूते लृङ् उताप्यादिषु द्रष्टव्यः ।
(P_3,3.140) KA_II,163.7-8 Ro_III,357 {3/4} उत अध्याइष्यत ।
(P_3,3.140) KA_II,163.7-8 Ro_III,357 {4/4} अपि अध्यैष्यत ।
(P_3,3.141) KA_II,163.10-13 Ro_III,357-358 {1/4} विभाषा गर्हाप्रभृतौ प्राक् उतापिभ्याम् ।
(P_3,3.141) KA_II,163.10-13 Ro_III,357-358 {2/4} विभाषा गर्हाप्रभृतौ प्राक् उतापिभ्याम् इति वक्तव्यम् ।
(P_3,3.141) KA_II,163.10-13 Ro_III,357-358 {3/4} वा आ उताप्योः इति हि उच्यमाने सन्देहः स्यात् : प्राक् वा उतापिभ्याम् सह वा इति ।
(P_3,3.141) KA_II,163.10-13 Ro_III,357-358 {4/4} तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे विभाषा गर्हाप्रभृतौ प्राक् उतापिभ्याम् इति ।
(P_3,3.142) KA_II,163.15-20 Ro_III,358 {1/10} गर्हायाम् लड्विधानानर्थक्यम् क्रियासमाप्तिविवक्षितत्वात् ।
(P_3,3.142) KA_II,163.15-20 Ro_III,358 {2/10} गर्हायाम् लड्विधिः नर्थकः ।
(P_3,3.142) KA_II,163.15-20 Ro_III,358 {3/10} किम् कारणम् ।
(P_3,3.142) KA_II,163.15-20 Ro_III,358 {4/10} क्रियासमाप्तिविवक्षितत्वात् ।
(P_3,3.142) KA_II,163.15-20 Ro_III,358 {5/10} क्रियायाः अत्र असमाप्तिः गम्यते ।
(P_3,3.142) KA_II,163.15-20 Ro_III,358 {6/10} एषः च नाम न्याय्यः वर्तमानः कालः यत्र क्रिया अपरिसमाप्ता भवति ।
(P_3,3.142) KA_II,163.15-20 Ro_III,358 {7/10} तत्र वर्तमाने लट् इति एव सिद्धम् ।
(P_3,3.142) KA_II,163.15-20 Ro_III,358 {8/10} यदि वर्तमाने लट् इति एवम् अत्र लट् भवति शतृशानचौ प्राप्नुतः ।
(P_3,3.142) KA_II,163.15-20 Ro_III,358 {9/10} इष्येते च शतृशानचौ : अपि माम् याजयन्तम् पश्य ।
(P_3,3.142) KA_II,163.15-20 Ro_III,358 {10/10} अपि माम् याजयमानम् पश्य ।
(P_3,3.145) KA_II,164.2-8 Ro_III,358-359 {1/10} किंवृत्तस्य अनधिकारात् उत्तरत्र अकिंवृत्तग्रहणानर्थक्यम् ।
(P_3,3.145) KA_II,164.2-8 Ro_III,358-359 {2/10} किंवृत्तस्य अनधिकारात् उत्तरत्र अकिंवृत्तग्रहणम् अनर्थकम् ।
(P_3,3.145) KA_II,164.2-8 Ro_III,358-359 {3/10} निवृत्तम् किंवृत्ते इति ।
(P_3,3.145) KA_II,164.2-8 Ro_III,358-359 {4/10} तस्मिन् निवृत्ते अविशेषेण किंवृत्ते अकिंवृत्ते च भविष्यति ।
(P_3,3.145) KA_II,164.2-8 Ro_III,358-359 {5/10} इदम् तर्हि प्रयोजनम् उपपदसञ्ज्ञाम् वक्ष्यामि इति ।
(P_3,3.145) KA_II,164.2-8 Ro_III,358-359 {6/10} उपपदसञ्ज्ञावचने किम् प्रयोजनम् ।
(P_3,3.145) KA_II,164.2-8 Ro_III,358-359 {7/10} उपपदम् अतिङ् इति समासः यथा स्यात् ।
(P_3,3.145) KA_II,164.2-8 Ro_III,358-359 {8/10} अतिङ् इति प्रतिषेधः प्राप्नोति ।
(P_3,3.145) KA_II,164.2-8 Ro_III,358-359 {9/10} यदा तर्हि लृटः सत्सञ्ज्ञौ तदा उपपदसञ्ज्ञा भविष्यति ।
(P_3,3.145) KA_II,164.2-8 Ro_III,358-359 {10/10} भविष्यदधिकारविहितस्य लृटः सत्स्ञ्ज्ञौ उच्येते अविशेषविहितः च अयम् ।
(P_3,3.147) KA_II,164.10-12 Ro_III,359 {1/4} जातुयदोः लिङ्विधाने यदायद्योः उपसङ्ख्यानम् ।
(P_3,3.147) KA_II,164.10-12 Ro_III,359 {2/4} जातुयदोः लिङ्विधाने यदायद्योः उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,3.147) KA_II,164.10-12 Ro_III,359 {3/4} यदा भवद्विधः क्षत्रियम् याजयेत् ।
(P_3,3.147) KA_II,164.10-12 Ro_III,359 {4/4} यदि भवद्विधः क्षत्रियम् याजयेत् ।
(P_3,3.151) KA_II,164.14-16 Ro_III,359-360 {1/7} चित्रीकरणे यदिप्रतिषेधानर्थक्यम् अर्थान्यत्वात् ।
(P_3,3.151) KA_II,164.14-16 Ro_III,359-360 {2/7} चित्रीकरणे यदिप्रतिषेधः अनर्थकः ।
(P_3,3.151) KA_II,164.14-16 Ro_III,359-360 {3/7} किम् कारणम् ।
(P_3,3.151) KA_II,164.14-16 Ro_III,359-360 {4/7} अर्थान्यत्वात् ।
(P_3,3.151) KA_II,164.14-16 Ro_III,359-360 {5/7} न हि यदौ उपपदे चित्रीकरणम् गम्यते ।
(P_3,3.151) KA_II,164.14-16 Ro_III,359-360 {6/7} किम् तर्हि ।
(P_3,3.151) KA_II,164.14-16 Ro_III,359-360 {7/7} सम्भावनम् ।
(P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {1/13} हेतुहेतुमतोः लिङ् वा ।
(P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {2/13} हेतुहेतुमतोः लिङ् वा इति वक्तव्यम् ।
(P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {3/13} अनेन चेत् यायात् न शकटम् पर्याभवेत् ।
(P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {4/13} अनेन चेत् यास्यति न शकटम् पर्याभविष्यति ।
(P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {5/13} भविष्यदधिकारे ।
(P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {6/13} भविष्यदधिकारे इति वक्तव्यम् ।
(P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {7/13} इह मा भूत् ।
(P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {8/13} वर्षति इति धावति ।
(P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {9/13} हन्ति इति पलयते ।
(P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {10/13} अथ इदानीम् शतृशानचौ अत्र कस्मात् न भवतः ।
(P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {11/13} देवत्रातः गलः ग्राहः इतियोगे च सद्विधिः ।
(P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {12/13} मिथः ते न विभाष्यन्ते ।
(P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {13/13} गवाक्षः संशितव्रतः ।
(P_3,3.157) KA_II,165.7-8 Ro_III,361 {1/4} कामप्रवेदनम् चेत् ।
(P_3,3.157) KA_II,165.7-8 Ro_III,361 {2/4} कामप्रवेदनम् चेत् गम्यते इति वक्तव्यम् ।
(P_3,3.157) KA_II,165.7-8 Ro_III,361 {3/4} इह मा भूत् ।
(P_3,3.157) KA_II,165.7-8 Ro_III,361 {4/4} इच्छन् कटम् करोति ।
(P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {1/12} विध्यधीष्टयोः कः विशेषः ।
(P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {2/12} विधिः नाम प्रेषणम् ।
(P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {3/12} अधीष्टम् नाम् सत्कार्पूर्विका व्यापारणा ।
(P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {4/12} अथ निमन्त्रणामन्त्रणयोः कः विशेषः ।
(P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {5/12} सन्निहितेन निमन्त्रणम् भवति असन्निहितेन च आमन्त्रणम् ।
(P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {6/12} न एषः अस्ति विशेषः ।
(P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {7/12} असन्निहितेन अपि निमन्त्रणम् भवति सन्निहितेन च आमन्त्रणम् ।
(P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {8/12} एवम् तर्हि यत् नियोगतः कर्तव्यम् तत् निमन्त्रणम् ।
(P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {9/12} किम् पुनः तत् ।
(P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {10/12} हव्यम् कव्यम् वा ।
(P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {11/12} ब्राह्मणेन सिद्धम् भुज्यताम् इति उक्ते अधर्मः प्रत्याख्यातुः ।
(P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {12/12} आमन्त्रणे कामचारः ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {1/51} कथम् पुनः इदम् विज्ञायते ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {2/51} निमन्त्रणादीईनाम् अर्थे इति आहोस्वित् निमन्त्रणादिषु गम्यमानेषु इति ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {3/51} कः च अत्र विशेषः ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {4/51} निमन्त्रणादीईनाम् अर्थे इति चेत् आमन्त्रयै निमन्त्रयै भवन्तम् इति प्रत्ययानुपपत्तिः प्रकृत्या अभिहितत्वात् ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {5/51} निमन्त्रणादीईनाम् अर्थे इति चेत् आमन्त्रयै निमन्त्रयै भवन्तम् इति प्रत्ययानुपपत्तिः ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {6/51} किम् कारणम् ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {7/51} प्रकृत्या अभिहितत्वात् ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {8/51} प्रकृत्या अभिहितः सः अर्थः इति कृत्वा प्रत्ययः न प्राप्नोति ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {9/51} द्विवचनबहुवनाप्रसिद्धिः च एकार्थत्वात् ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {10/51} द्विवचनबहुवनयोः च अ प्रसिद्धिः ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {11/51} किम् कारणम् ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {12/51} एकार्थत्वात् ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {13/51} एकः अयम् अर्थः निमन्त्रणम् नाम ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {14/51} तस्य एकत्वात् एकवचनम् एव प्राप्नोति ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {15/51} अस्तु तर्हि निमन्त्रणादिषु गम्यमानेषु ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {16/51} इह अपि तर्हि प्राप्नोति ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {17/51} देवदत्तः भवन्तम् आमन्त्रयते ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {18/51} देवदत्तः भवन्तम् निमन्त्रयते इति ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {19/51} सिद्धम् तु द्वितीयाकाङ्क्षस्य प्रकृते प्रत्ययार्थे प्रत्ययविधानात् ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {20/51} सिद्धम् एतत् ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {21/51} कथम् ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {22/51} द्वितीयाकाङ्क्षस्य धातोः प्रकृते प्रत्ययार्थे प्रत्ययः भवति इति वक्तव्यम् ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {23/51} के च प्रकृताः अर्थाः ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {24/51} भावकर्मकर्तारः ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {25/51} भवेत् सिद्धम् प्राप्नोतु भवान् आमन्त्रणम् अनुभवतु भवान् अमन्त्रणम् इति यत्र द्वितीयः आकाङ्क्यते ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {26/51} इदम् तु न सिध्यति आमन्त्रयै निमन्त्रयै इति ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {27/51} अत्र अपि द्वितीयः आकाङ्क्यते ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {28/51} कः ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {29/51} निमन्त्रिः एव ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {30/51} आमन्त्रयै आमन्त्रणम् ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {31/51} निमन्त्रयै निमन्त्रणम् ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {32/51} कथम् पुनः निम्नत्रिः निमन्त्रणम् आकाङ्क्षेत् ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {33/51} दृष्टः च भावेन भावयोगः ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {34/51} तत् यथा इषिः इषिणा युज्यते स्त्रीत्वम् च स्त्रीत्वेन ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {35/51} यावता अत्र द्वितीयः आकाङ्क्ष्यते अस्ति तर्हि निमन्त्रणादीनाम् अर्थे इति ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {36/51} ननु च उक्तम् निमन्त्रणादीईनाम् अर्थे इति चेत् आमन्त्रयै निमन्त्रयै भवन्तम् इति प्रत्ययानुपपत्तिः प्रकृत्या अभिहितत्वात् इति ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {37/51} न एषः दोषः ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {38/51} यः असौ द्वितीयः आकाङ्क्ष्यते सः एव मम प्रत्ययार्थः भविष्यति ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {39/51} अयम् तर्हि दोषः द्विवचनबहुवनाप्रसिद्धिः च एकार्थत्वात् इति ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {40/51} न एषः दोषः ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {41/51} सुपाम् कर्मादयः अपि अर्थाः सङ्ख्या च एव तथा तिङाम् । सुपाम् सङ्ख्या च एव अर्थः कर्मादयः च ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {42/51} तथा तिङाम् ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {43/51} प्रसिद्धः नियमः तत्र ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {44/51} प्रसिद्धः तत्र नियमः ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {45/51} नियमः प्रकृतेषु वा ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {46/51} अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {47/51} के च प्रकृताः ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {48/51} एकत्वादयः ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {49/51} एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {50/51} द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु ।
(P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {51/51} बहुषु एव बहुवचनम् न एकस्मिन् न द्वयोः इति ।
(P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {1/18} किमर्थम् प्रैषादिषु अर्थेषु कृत्याः विधीयन्ते न अविशेषेण विहिताः कृत्याः ते प्रैषादिषु भविष्यन्ति अन्यत्र च ।
(P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {2/18} प्रैषादिषु कृत्यानाम् विधानम् नियमार्थम् ।
(P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {3/18} नियमार्थः अयम् आरम्भः ।
(P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {4/18} प्रैषादिषु एव कृत्याः यथा स्युः इति ।
(P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {5/18} प्रैषादिषु कृत्यानाम् वचनम् नियमार्थम् इति चेत् तत् अनिष्टम् । प्रैषादिषु कृत्यानाम् वचनम् नियमार्थम् इति चेत् तत् अनिष्टम् प्राप्नोति ।
(P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {6/18} न हि प्रैषादिषु एव कृत्याः इष्यन्ते ।
(P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {7/18} किम् तर्हि ।
(P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {8/18} अविशेषेण इष्यन्ते ।
(P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {9/18} बुसोपेन्ध्यम् तृणोपेन्ध्यम् घन्घात्यम् ।
(P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {10/18} विध्यर्थम् तु स्त्रियाः प्राक् इति वचनात् ।
(P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {11/18} विध्यर्थम् तु प्रैषादिषु कृत्यानाम् वचनम् ।
(P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {12/18} अयम् प्रैषादिषु लोट् विधीयते ।
(P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {13/18} सः विशेषविहितः सामान्यविहितान् कृत्यान् बाधेत ।
(P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {14/18} वासरूपेण कृत्याः अपि भविष्यन्ति ।
(P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {15/18} न स्युः ।
(P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {16/18} किम् कारणम् ।
(P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {17/18} स्त्रियाः प्राक् इति वचनात् ।
(P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {18/18} प्राक् स्त्रियाः वा असरूपः ।
(P_3,3.167) KA_II,167.9-12 Ro_III,366 {1/10} प्रथमान्तेषु इति वक्तव्यम् ।
(P_3,3.167) KA_II,167.9-12 Ro_III,366 {2/10} किम् प्रयोजनम् ।
(P_3,3.167) KA_II,167.9-12 Ro_III,366 {3/10} इह मा भूत् ।
(P_3,3.167) KA_II,167.9-12 Ro_III,366 {4/10} काले भुङ्क्ते ।
(P_3,3.167) KA_II,167.9-12 Ro_III,366 {5/10} तत् तर्हि वक्तव्यम् ।
(P_3,3.167) KA_II,167.9-12 Ro_III,366 {6/10} न वक्तव्यम् ।
(P_3,3.167) KA_II,167.9-12 Ro_III,366 {7/10} प्रैषादिषु इति वर्तते ।
(P_3,3.167) KA_II,167.9-12 Ro_III,366 {8/10} तत् च अवश्यम् प्रैषादिग्रहणम् अनुवर्त्यम् ।
(P_3,3.167) KA_II,167.9-12 Ro_III,366 {9/10} प्रथमान्तेषु इति हि उच्यमाने इह अपि प्रसज्येत ।
(P_3,3.167) KA_II,167.9-12 Ro_III,366 {10/10} कालः पचति भूतानि कालः संहरति प्रजाः ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {1/80} हिस्वोः परस्मैपदात्मनेपदग्रहणम् लादेशप्रतिषेधार्थम् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {2/80} हिस्वोः परस्मैपदात्मनेपदग्रहणम् कर्तव्यम् हिः परस्मैपदानाम् यथा स्यात् स्वः आत्मनेपदानाम् इति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {3/80} किम् प्रयोजनम् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {4/80} लादेशप्रतिषेधार्थम् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {5/80} लादेशौ हिस्वौ मा भूताम् इति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {6/80} किम् च स्यात् यदि लादेशौ हिस्वौ स्याताम् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {7/80} तिङन्तम् पदम् इति पदसञ्ज्ञा न स्यात् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {8/80} मात् भूत् एवम् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {9/80} सुबन्तम् पदम् इति पदसञ्ज्ञा भविष्यति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {10/80} कथम् स्वाद्युत्पत्तिः ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {11/80} लकारस्य कृत्त्वात् प्रातिपदिकत्वम् तदाश्रयम् प्रत्ययविधानम् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {12/80} लकारः कृत् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {13/80} तस्य कृत्त्वात् कृत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {14/80} प्रातिपदिकाश्रया स्वाद्युत्पत्तिः अपि भविष्यति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {15/80} यदि स्वाद्युत्पत्तिः सुपाम् श्रवणम् प्राप्नोति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {16/80} अव्ययात् इति सुब्लुक् भविष्यति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {17/80} कथम् अव्ययत्वम् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {18/80} विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {19/80} निपातम् अव्ययम् इति अव्ययसञ्ज्ञा ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {20/80} इह तर्हि सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति तिङ् अतिङः इति निघातः न प्राप्नोति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {21/80} समसङ्ख्यार्थम् च ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {22/80} समसङ्ख्यार्थम् च हिस्वोः परस्मैपदात्मनेपदग्रहणम् कर्तव्यम् हिः परस्मैपदानाम् यथा स्यात् स्वः आत्मनेपदानाम् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {23/80} व्यतिकरः मा भूत् इति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {24/80} न वा तध्वमोः आदेशवचनम् ज्ञापकम् पदादेशस्य ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {25/80} न वा हिस्वोः परस्मैपदात्मनेपदग्रहणम् कर्तव्यम् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {26/80} किम् कारणम् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {27/80} तध्वमोः आदेशवचनम् ज्ञापकम् पदादेशस्य ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {28/80} यत् अयम् वा च तध्वमोः इति आह तत् ज्ञापयति आचार्यः पदादेशौ हिस्वौ इति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {29/80} तत्र पदादेशे पित्त्वाटोः प्रतिषेधः ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {30/80} तत्र पदादेशे पित्त्वस्य आटः च प्रतिषेधः वक्तव्यः ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {31/80} पित्त्वस्य तावत् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {32/80} सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {33/80} आटः खलु अपि ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {34/80} सः अहम् लुनीहि लुनीहि इति एवम् लुनानि ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {35/80} पित्त्वस्य तावत् न वक्तव्यः ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {36/80} पित्प्रतिषेधे योगविभागः करिष्यते ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {37/80} इह सेः हि भवति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {38/80} ततः अपित् च ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {39/80} अपित् च भवति यावान् हिः नाम ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {40/80} आटः च अपि न वक्तव्यः ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {41/80} आटि कृते साट्कस्य आदेशः भविष्यति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {42/80} इदम् इह सम्प्रधार्यम् : आट् क्रियताम् आदेशः इति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {43/80} किम् अत्र कर्तव्यम् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {44/80} परत्वात् आडागमः ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {45/80} नित्यः आदेशः ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {46/80} कृते अपि आटि प्राप्नोति अकृते अपि प्राप्नोति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {47/80} आट् अपि नित्यः ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {48/80} कृते अपि आदेशे प्राप्नोति अकृते अपि प्राप्नोति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {49/80} अनित्यः आट् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {50/80} अन्यस्य कृते अपि आदेशे प्राप्नोति अन्यस्य अकृते अपि प्राप्नोति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {51/80} शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {52/80} आदेशः अपि अनित्यः ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {53/80} अन्यस्य कृते आटि प्राप्नोति अन्यस्य अकृते ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {54/80} शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {55/80} उभयोः अनित्ययोः परत्वात् आडागमः ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {56/80} आटि कृते साट्कस्य आदेशः भविष्यति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {57/80} इदम् तर्हि सः अहम् भुङ्क्ष्व भुङ्क्ष्व इति एवम् भुनजै इति श्नसोः अल्लोपः इति अकारलोपः न प्राप्नोति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {58/80} समसङ्ख्यार्थत्वम् च अपि अपरिहृतम् एव। सिद्धम् तु लोड्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्विर्वचनात् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {59/80} सिद्धम् एतत् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {60/80} कथम् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {61/80} लोड्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्वे भवतः इति वक्तव्यम् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {62/80} केन विहितस्य क्रियासमभिहारे लोड्मध्यमपुरुषैकवचनस्य द्विर्वचनम् उच्यते ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {63/80} एतत् एव ज्ञापयति आचार्यः भवति क्रियासमभिहारे लोट् इति यत् अयम् क्रियासमभिहारे लोड्मध्यमपुरुषैकवचनस्य द्विर्वचनम् शास्ति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {64/80} कुतः नु खलु एतत् ज्ञापकात् अत्र लोट् भविष्यति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {65/80} न पुनः यः एव असौ अविशेषविहितः सः यदा क्रियासमभिहारे भवति तदा अस्य द्विर्वचनम् भवति इति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {66/80} लोड्मध्यमपुरुषैकवचने एव खलु अपि सिद्धम् स्यात् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {67/80} इमौ च अन्यौ हिस्वौ सर्वेषाम् पुरुषाणाम् सर्वेषाम् वचनानाम् इष्येते ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {68/80} सूत्रम् च भिद्यते ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {69/80} यथान्यासम् एव अस्तु ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {70/80} ननु च उक्तम् हिस्वोः परस्मैपदात्मनेपदग्रहणम् लादेशप्रतिषेधार्थम् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {71/80} समसङ्ख्यार्थम् च इति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {72/80} न एषः दोषः ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {73/80} योगविभागात् सिद्धम् ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {74/80} योगविभागः करिष्यते ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {75/80} क्रियासमभिहारे लोट् भवति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {76/80} ततः लोटः हिस्वौ भवतः ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {77/80} लोट् इति एव अनुवर्तते ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {78/80} लोटः यौ हिस्वौ इति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {79/80} कथम् वा च तध्वमोः इति ।
(P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {80/80} वा च तध्वम्भाविनः लोटः इति एवम् एतत् विज्ञायते ।
(P_3,4.4) KA_II,170.16-19 Ro_III,373 {1/10} किमर्थम् इदम् उच्यते ।
(P_3,4.4) KA_II,170.16-19 Ro_III,373 {2/10} अनुप्रयोगः यथा स्यात् ।
(P_3,4.4) KA_II,170.16-19 Ro_III,373 {3/10} न एतत् अस्ति प्रयोजनम् ।
(P_3,4.4) KA_II,170.16-19 Ro_III,373 {4/10} हिस्वान्तम् अव्यक्तपदार्थकम् ।
(P_3,4.4) KA_II,170.16-19 Ro_III,373 {5/10} तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति ।
(P_3,4.4) KA_II,170.16-19 Ro_III,373 {6/10} इदम् तर्हि प्रयोजनम् ।
(P_3,4.4) KA_II,170.16-19 Ro_III,373 {7/10} यथाविधि इति वक्ष्यामि इति ।
(P_3,4.4) KA_II,170.16-19 Ro_III,373 {8/10} एतत् अपि न अस्ति प्रयोजनम् ।
(P_3,4.4) KA_II,170.16-19 Ro_III,373 {9/10} समुच्चये सामान्यवचनस्य इति वक्ष्यति ।
(P_3,4.4) KA_II,170.16-19 Ro_III,373 {10/10} तत्र अन्तरेण वचनम् यथाविधि अनुप्रयोगः भविष्यति ।
(P_3,4.5) KA_II,170.21-24 Ro_III,373-374 {1/9} किमर्थम् इदम् उच्यते ।
(P_3,4.5) KA_II,170.21-24 Ro_III,373-374 {2/9} अनुप्रयोगः यथा स्यात् ।
(P_3,4.5) KA_II,170.21-24 Ro_III,373-374 {3/9} न एतत् अस्ति प्रयोजनम् ।
(P_3,4.5) KA_II,170.21-24 Ro_III,373-374 {4/9} हिस्वान्तम् अव्यक्तपदार्थकम् ।
(P_3,4.5) KA_II,170.21-24 Ro_III,373-374 {5/9} तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति ।
(P_3,4.5) KA_II,170.21-24 Ro_III,373-374 {6/9} इदम् तर्हि प्रयोजनम् ।
(P_3,4.5) KA_II,170.21-24 Ro_III,373-374 {7/9} सामान्यवचनस्य इति वक्ष्यामि इति ।
(P_3,4.5) KA_II,170.21-24 Ro_III,373-374 {8/9} एतत् अपि न अस्ति प्रयोजनम् ।
(P_3,4.5) KA_II,170.21-24 Ro_III,373-374 {9/9} सामान्यवचनस्य अनुप्रयोगः अस्तु विशेषवचनस्य इति सामान्यवचनस्य अनुप्रयोगः भविष्यति लघुत्वात् ।
(P_3,4.8) KA_II,171.2-6 Ro_III,374 {1/10} उपसंवादाशङ्कयोः वचनानर्थक्यम् लिङर्थत्वात् ।
(P_3,4.8) KA_II,171.2-6 Ro_III,374 {2/10} उपसंवादाशङ्कयोः वचनम् नर्थकम् ।
(P_3,4.8) KA_II,171.2-6 Ro_III,374 {3/10} किम् कारणम् ।
(P_3,4.8) KA_II,171.2-6 Ro_III,374 {4/10} लिङर्थत्वात् ।
(P_3,4.8) KA_II,171.2-6 Ro_III,374 {5/10} लिङर्थे लेट् इति एव सिद्धम् ।
(P_3,4.8) KA_II,171.2-6 Ro_III,374 {6/10} कः पुनः लिङर्थः ।
(P_3,4.8) KA_II,171.2-6 Ro_III,374 {7/10} के चित् तावत् आहुः ।
(P_3,4.8) KA_II,171.2-6 Ro_III,374 {8/10} हेतुहेतुमतोः लिङ् इति ।
(P_3,4.8) KA_II,171.2-6 Ro_III,374 {9/10} अपरे आहुः : वक्तव्यः एव एतस्मिन् विशेषे लिङ् ।
(P_3,4.8) KA_II,171.2-6 Ro_III,374 {10/10} प्रयुज्यते हि लोके यदि मे भवान् इदम् कुर्यात् अहम् अपि ते इदम् दद्याम् ।
(P_3,4.9) KA_II,171.9-17 Ro_III,375 {1/16} तुमर्थे इति उच्यते ।
(P_3,4.9) KA_II,171.9-17 Ro_III,375 {2/16} कः तुमर्थः ।
(P_3,4.9) KA_II,171.9-17 Ro_III,375 {3/16} कर्ता ।
(P_3,4.9) KA_II,171.9-17 Ro_III,375 {4/16} यदि एवम् न अर्थः तुमर्थग्रहणेन ।
(P_3,4.9) KA_II,171.9-17 Ro_III,375 {5/16} येन एव खलु अपि हेतुना कर्तरि तुमुन् भवति तेन एव हेतुना सयादयः अपि भविष्यन्ति ।
(P_3,4.9) KA_II,171.9-17 Ro_III,375 {6/16} एवम् तर्हि सिद्धे सति यत् तुमर्थग्रहणम् करोति तत् ज्ञापयति आचार्यः अस्ति अन्यः कर्तुः तुमुनः अर्थः इति ।
(P_3,4.9) KA_II,171.9-17 Ro_III,375 {7/16} कः पुनः असौ ।
(P_3,4.9) KA_II,171.9-17 Ro_III,375 {8/16} भावः ।
(P_3,4.9) KA_II,171.9-17 Ro_III,375 {9/16} कुतः नु खलु एतत् भावे तुमुन् भविष्यति ।
(P_3,4.9) KA_II,171.9-17 Ro_III,375 {10/16} न पुनः कर्मादिषु कारकेषु इति ।
(P_3,4.9) KA_II,171.9-17 Ro_III,375 {11/16} ज्ञापकात् अयम् कर्तुः अपकृष्यते ।
(P_3,4.9) KA_II,171.9-17 Ro_III,375 {12/16} न च अन्यस्मिन् अर्थे आदिश्यते ।
(P_3,4.9) KA_II,171.9-17 Ro_III,375 {13/16} अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति स्वार्थे भविष्यति तत् यथा गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति ।
(P_3,4.9) KA_II,171.9-17 Ro_III,375 {14/16} सः असौ स्वार्थे भवन् भावे भविष्यति ।
(P_3,4.9) KA_II,171.9-17 Ro_III,375 {15/16} किम् एतस्य ज्ञापने प्रयोजनम् ।
(P_3,4.9) KA_II,171.9-17 Ro_III,375 {16/16} अव्ययकृतः भावे भवन्ति इति एतत् न वक्तव्यम् भवति ।
(P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {1/12} किमर्थम् मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् क्रियते न उदीचाम् मेङः इति एव उच्येत ।
(P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {2/12} तत्र अयम् अपि अर्थः ।
(P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {3/12} उदीचाम् मेङः इति व्यतिहारग्रहणम् न कर्तव्यम् भवति ।
(P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {4/12} किम् कारणम् ।
(P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {5/12} तद्विषयः हि सः ।
(P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {6/12} वय्तिहारविषयः एव मयतिः ।
(P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {7/12} एवम् तर्हि सिद्धे सति यत् मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् करोति तत् ज्ञापयति आचार्यः न अनुबन्धकृतम् अनेजन्तत्वम् भवति इति ।किम् एतस्य ज्ञापने प्रयोजनम् ।
(P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {8/12} तत्र असरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशः अनाकारान्तत्वात् इति उक्तम् ।
(P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {9/12} तत् न वक्तव्यम् भवति ।
(P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {10/12} किमर्थम् पुनः इदम् उच्यते न समानकर्तृकयोः पूर्वकाले इति एव सिद्धम् ।
(P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {11/12} अपूर्वकालार्थः अयम् आरम्भः ।
(P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {12/12} पूर्वम् हि असौ याचते पश्चात् अपमयते ।
(P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {1/17} इह कस्मात् न भवति : पूर्वम् भुङ्क्ते पश्चात् व्रजति ।
(P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {2/17} स्वशब्देन उक्तत्वात् न भवति ।
(P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {3/17} न तर्हि इदानीम् इदम् भवति : पूर्वम् भुक्त्वा ततः व्रजति इति ।
(P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {4/17} न एतत् क्रियापौर्वकाल्यम् ।
(P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {5/17} किम् तर्हि ।
(P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {6/17} कर्तृपौर्वकाल्यम् ।
(P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {7/17} पूर्वम् हि असौ भुक्त्वा अन्येभ्यः भोक्तृभ्यः ततः पश्चात् व्रजति अन्येभ्यः व्रजितृभ्यः ।
(P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {8/17} इह कस्मात् न भवति : आस्यते भोक्तुम् इति ।
(P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {9/17} कुतः कस्मात् न भवति ।
(P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {10/17} किम् आसेः आहोस्वित् भुजेः ।
(P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {11/17} भुजेः कस्मात् न भवति ।
(P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {12/17} अपूर्वकालत्वात् ।
(P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {13/17} आसेः तर्हि कस्मात् न भवति ।
(P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {14/17} यस्मात् अत्र लट् भवति ।
(P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {15/17} एतत् अत्र प्रष्टव्यम् ।
(P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {16/17} लट् अत्र कथम् भवति इति ।
(P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {17/17} लट् च अत्र वासरूपेण भविष्यति ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {1/40} समानकर्तृकयोः इति बहुषु अप्राप्तिः ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {2/40} समानकर्तृकयोः इति बहुषु क्त्वा न प्राप्नोति ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {3/40} स्नात्वा भुक्त्वा पीत्वा व्रजति इति ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {4/40} किम् पुन कारणम् न सिध्यति ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {5/40} द्विवचननिर्देशात् ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {6/40} द्विवचनेन अयम् निर्देशः क्रियते ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {7/40} तेन द्वयोः एव पौर्वकाल्ये स्यात् ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {8/40} बहूनाम् न स्यात् ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {9/40} सिद्धम् तु क्रियाप्रधनत्वात् ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {10/40} सिद्धम् एतत् ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {11/40} कथम् ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {12/40} क्रियाप्रधनत्वात् ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {13/40} क्रियाप्रधानः अयम् निर्देशः ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {14/40} न अत्र निर्देशः तन्त्रम् ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {15/40} कथम् पुनः तेन एव नाम निर्देशः क्रियते तत् च अतन्त्रम् स्यात् ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {16/40} तत्कारी च भवान् तद्द्वेषी च ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {17/40} नान्तरीयकत्वात् अत्र द्विवचनेन निर्देशः क्रियते ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {18/40} अवश्यम् कया चित् विभक्त्या केन चित् वचनेन निर्देशः कर्तव्यः ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {19/40} तत् यथा कः चित् अन्नार्थी शालिकलापम् सतुषम् सपलालम् आहरति नान्तरीयकत्वात् ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {20/40} सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {21/40} तथा कः चित् मांसार्थी मत्स्यान् सशकलान् सकण्टकान् आहरति नान्तरीयकत्वात् ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {22/40} सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {23/40} एवम् इह अपि नान्तरीयकत्वात् द्विवचनेन निर्देशः क्रियते ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {24/40} न हि अत्र निर्देशः तन्त्रम् ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {25/40} एवम् अपि लोकविज्ञानात् न सिध्यति । तत् यथा ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {26/40} लोके ब्राह्मणानाम् पूर्वम् आनीयताम् इति उक्ते सर्वपूर्वः आनीयते ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {27/40} एवम् इह अपि सर्वपूर्वायाः क्रियायाः प्राप्नोति ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {28/40} अनन्त्यवचनात् तु सिद्धम् ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {29/40} समानकर्तृकयोः अनन्त्यस्य इति वक्तव्यम् ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {30/40} सिध्यति ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {31/40} सूत्रम् तर्हि भिद्यते ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {32/40} यथान्यासम् एव अस्तु ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {33/40} ननु च उक्तम् समानकर्तृकयोः इति बहुषु अप्राप्तिः इति ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {34/40} परिहृतम् एतत् सिद्धम् तु क्रियाप्रधनत्वात् इति ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {35/40} ननु च उक्तम् एवम् अपि लोकविज्ञानात् न सिध्यति इति ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {36/40} न एषः दोषः सर्वेषाम् अत्र व्रजिक्रियाम् प्रति पौर्वकाल्यम् ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {37/40} स्नात्वा व्रजति भुक्त्वा व्रजति पीत्वा व्रजति इति ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {38/40} एवम् च कृत्वा प्रयोगः अनियतः भवति ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {39/40} स्नात्वा भुक्त्व पीत्वा व्रजति ।
(P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {40/40} पीत्वा स्नात्वा भुत्वा व्रजति इति ।
(P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {1/11} व्यादाय स्वपिति इति उपसङ्ख्यानम् अपूर्वकालत्वात् ।
(P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {2/11} व्यादाय स्वपिति इति उपसङ्ख्यानम् कर्तव्यम् ।
(P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {3/11} किम् पुनः कारणम् न सिध्यति ।
(P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {4/11} अपूर्वकालत्वात् ।
(P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {5/11} पूर्वम् हि असौ स्वपिति पश्चात् व्याददाति ।
(P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {6/11} न वा स्वप्नस्य अवकालत्वात् ।
(P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {7/11} न वा कर्तव्यम् ।
(P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {8/11} किम् कारणम् ।
(P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {9/11} स्वप्नस्य अवकालत्वात् ।
(P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {10/11} अवरकालः स्वप्नः ।
(P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {11/11} अवश्यम् असौ व्यादाय मुहुर्तम् अपि स्वपिति ।
(P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {1/13} किम् इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते ।
(P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {2/13} कथम् च प्राप्ते कथम् वा अप्राप्ते ।
(P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {3/13} आभीक्ष्ण्ये इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते ।
(P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {4/13} किम् च अतः ।
(P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {5/13} यदि प्राप्ते आभीक्ष्ण्ये अनिष्टा विभाषा प्राप्नोति अन्यत्र च इष्टा न सिध्यति ।
(P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {6/13} अथ अप्राप्ते ।
(P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {7/13} अग्रादिषु अप्राप्तविधेः समासप्रतिषेधः ।
(P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {8/13} अग्रादिषु अप्राप्तविधेः समासप्रतिषेधः वक्तव्यः ।
(P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {9/13} सः तर्हि वक्तव्यः ।
(P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {10/13} न वक्तव्यः ।
(P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {11/13} उक्तम् एतत् अमा एव अव्ययेन इति अत्र एवकारकरणस्य प्रजोजनम् ।
(P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {12/13} अमा एव अव्ययेन यत् तुल्यविधानम् उपपदम् तत्र समासः यथा स्यात् ।
(P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {13/13} अमा च अन्येन च यत् तुल्यविधानम् उपपदम् तत्र मा भूत् इति ।
(P_3,4.26.1) KA_II,174.2-8 Ro_III,381 {1/10} किमर्थम् स्वादुमि मकारान्तत्वम् निपात्यते न खमुञ् प्रकृतः सः अनुवर्तिष्यते ।
(P_3,4.26.1) KA_II,174.2-8 Ro_III,381 {2/10} स्वादुमि मान्तनिपातनम् ईकाराभावार्थम् ।
(P_3,4.26.1) KA_II,174.2-8 Ro_III,381 {3/10} स्वादुमि मान्तनिपातनम् क्रियते ईकाराभावार्थम् ।
(P_3,4.26.1) KA_II,174.2-8 Ro_III,381 {4/10} ईकारः मा भूत् इति ।
(P_3,4.26.1) KA_II,174.2-8 Ro_III,381 {5/10} स्वाद्वीम् कृत्वा यवागूम् भुङ्क्ते ।
(P_3,4.26.1) KA_II,174.2-8 Ro_III,381 {6/10} स्वादुङ्कारम् यवागूम् भुङ्क्ते ।
(P_3,4.26.1) KA_II,174.2-8 Ro_III,381 {7/10} च्व्यन्तस्य च मकारान्तार्थम् ।
(P_3,4.26.1) KA_II,174.2-8 Ro_III,381 {8/10} च्व्यन्तस्य च मकारान्तत्वम् निपात्यते ।
(P_3,4.26.1) KA_II,174.2-8 Ro_III,381 {9/10} अस्वादु स्वादु कृत्वा भुङ्क्ते ।
(P_3,4.26.1) KA_II,174.2-8 Ro_III,381 {10/10} स्वादुङ्कारम् भुङ्क्ते ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {1/71} आ च तुमुनः समानाधिकरणे ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {2/71} आ च तुमुनः प्रत्ययाः समानाधिकरणे वक्तव्याः ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {3/71} केन ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {4/71} अनुप्रयोगेण ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {5/71} किम् प्रयोजनम् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {6/71} स्वादुङ्कारम् यवागूः भुज्यते देवदत्तेन इति देवदत्ते तृतीया यथा स्यात् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {7/71} किम् च कारणम् न स्यात् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {8/71} णमुला अभिहितः कर्ता इति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {9/71} ननु च भुजिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {10/71} यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया यवाग्वाम् द्वितीया प्राप्नोति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {11/71} किम् कारणम् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {12/71} णमुला अनभिहितम् कर्म इति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {13/71} यदि पुनः अयम् कर्मणि विज्ञायेत ण एवम् शक्यम् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {14/71} इह हि स्वादुङ्कारम् यवागूम् भुङ्क्ते देवदत्तः इति यवाग्वाम् द्वितीया न स्यात् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {15/71} किम् कारणम् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {16/71} णमुला अभिहितम् कर्म इति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {17/71} ननु च भुजिप्रत्ययेन अनभिहितम् कर्म इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {18/71} यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया देवदत्ते तृतीया प्राप्नोति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {19/71} किम् कारणम् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {20/71} णमुला अनभिहितः कर्ता इति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {21/71} अथ अनेन क्त्वायाम् अर्थः : पक्त्वा ओदनः भुज्यते देवदत्तेन इति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {22/71} बाढम् अर्थः ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {23/71} देवदत्ते तृतीया यथा स्यात् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {24/71} किम् च कारणम् न स्यात् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {25/71} क्त्वया अभिहितः कर्ता इति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {26/71} ननु च भुजिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {27/71} यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ओदने द्वितीया प्राप्नोति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {28/71} किम् कारणम् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {29/71} क्त्वया अनभिहितम् कर्म इति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {30/71} यदि पुनः अयम् कर्मणि विज्ञायेत ण एवम् शक्यम् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {31/71} इह हि पक्त्वा ओदनम् भुङ्क्ते देवदत्तः इति ओदने द्वितीया न स्यात् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {32/71} किम् कारणम् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {33/71} क्त्वया अभिहितम् कर्म इति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {34/71} ननु च भुजिप्रत्ययेन अनभिहितम् कर्म इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {35/71} यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया देवदत्ते तृतीया प्राप्नोति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {36/71} किम् कारणम् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {37/71} क्त्वया अनभिहितः कर्ता इति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {38/71} अथ अनेन तुमुनि अर्थः ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {39/71} भोक्तुम् ओदनः पच्यते देवदत्तेन ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {40/71} बाढम् अर्थः ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {41/71} देवदत्ते तृतीया यथा स्यात् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {42/71} किम् च कारणम् न स्यात् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {43/71} तुमुना अभिहितः कर्ता इति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {44/71} ननु च पचिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {45/71} यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ओदने द्वितीया प्राप्नोति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {46/71} किम् कारणम् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {47/71} तुमुना अनभिहितम् कर्म इति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {48/71} यदि पुनः अयम् कर्मणि विज्ञायेत ण एवम् शक्यम् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {49/71} इह हि भोक्तुम् ओदनम् पचति देवदत्तः इति ओदने द्वितीया न स्यात् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {50/71} किम् कारणम् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {51/71} तुमुना अभिहितम् कर्म इति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {52/71} ननु च पचिप्रत्ययेन अनभिहितम् कर्म इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {53/71} यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया देवदत्ते तृतीया प्राप्नोति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {54/71} किम् कारणम् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {55/71} तुमुना अनभिहितः कर्ता इति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {56/71} अथ अनेन इह अर्थः पक्त्वा ओदनम् ग्रामः गम्यते देवदत्तेन ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {57/71} बाढम् अर्थः ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {58/71} देवदत्ते तृतीया यथा स्यात् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {59/71} किम् च कारणम् न स्यात् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {60/71} क्त्वया अभिहितः कर्ता इति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {61/71} ननु च गमिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {62/71} यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया यत् उक्तम् ओदने द्वितीया प्राप्नोति इति सः दोषः न जायते ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {63/71} तत् तर्हि वक्तव्यम् आ च तुमुनः समानाधिकरणे इति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {64/71} न वक्तव्यम् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {65/71} अव्ययकृतः भावे भवन्ति इति भावे भविष्यन्ति ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {66/71} किम् वक्तव्यम् एतत् ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {67/71} न हि ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {68/71} कथम् अनुच्यमानम् गंस्यते ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {69/71} तुमर्थे इति वर्तते ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {70/71} तुमर्थः च कः ।
(P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {71/71} भावः ।
(P_3,4.32) KA_II,175.24-26 Ro_III,385 {1/7} ऊलोपश्चास्यान्यतरस्याङ्ग्रहणम् शक्यम् अकर्तुम् ।
(P_3,4.32) KA_II,175.24-26 Ro_III,385 {2/7} कथम् गोष्पदम् वृष्टः देवः इति ।
(P_3,4.32) KA_II,175.24-26 Ro_III,385 {3/7} प्रातिः पूरणकर्मा ।
(P_3,4.32) KA_II,175.24-26 Ro_III,385 {4/7} तस्मात् एषः कः ।
(P_3,4.32) KA_II,175.24-26 Ro_III,385 {5/7} यदि कः विभतीनाम् श्रवणम् प्राप्नोति ।
(P_3,4.32) KA_II,175.24-26 Ro_III,385 {6/7} श्रूयन्ते एव अत्र विभक्तयः ।
(P_3,4.32) KA_II,175.24-26 Ro_III,385 {7/7} तत् यथा एकेन गोष्पदप्रेण ।
(P_3,4.37) KA_II,176.2-14 Ro_III,386 {1/20} हनः करणे अनर्थकम् वचनम् हिंसार्थेभ्यः णमुल्विधानात् ।
(P_3,4.37) KA_II,176.2-14 Ro_III,386 {2/20} हनः करणे अनर्थकम् वचनम् ।
(P_3,4.37) KA_II,176.2-14 Ro_III,386 {3/20} किम् कारणम् ।
(P_3,4.37) KA_II,176.2-14 Ro_III,386 {4/20} हिंसार्थेभ्यः णमुल्विधानात् ।
(P_3,4.37) KA_II,176.2-14 Ro_III,386 {5/20} हिंसार्थेभ्यः णमुल्विधीयते ।
(P_3,4.37) KA_II,176.2-14 Ro_III,386 {6/20} तेन एव सिद्धम् ।
(P_3,4.37) KA_II,176.2-14 Ro_III,386 {7/20} अर्थवत् तु अहिंसार्थस्य विधानात् ।
(P_3,4.37) KA_II,176.2-14 Ro_III,386 {8/20} अर्थवत् तु हन्तेः णमुल्वचनम् ।
(P_3,4.37) KA_II,176.2-14 Ro_III,386 {9/20} कः अर्थः ।
(P_3,4.37) KA_II,176.2-14 Ro_III,386 {10/20} अहिंसार्थस्य विधानात् ।
(P_3,4.37) KA_II,176.2-14 Ro_III,386 {11/20} अहिंसार्थानाम् णमुल् यथा स्यात् ।
(P_3,4.37) KA_II,176.2-14 Ro_III,386 {12/20} अस्ति पुनः अयम् क्व चित् हन्तिः अहिंसार्थः यदर्थः विधिः स्यात् ।
(P_3,4.37) KA_II,176.2-14 Ro_III,386 {13/20} अस्ति इति आह ।
(P_3,4.37) KA_II,176.2-14 Ro_III,386 {14/20} पाण्युपघातम् वेदिम् हन्ति ।
(P_3,4.37) KA_II,176.2-14 Ro_III,386 {15/20} नित्यसमासार्थम् च ।
(P_3,4.37) KA_II,176.2-14 Ro_III,386 {16/20} नित्यसमासार्थम् च हिंसार्थात् अपि हन्तेः अनेन विधिः एषितव्यः ।
(P_3,4.37) KA_II,176.2-14 Ro_III,386 {17/20} कथम् पुनः इच्छता अपि हिंसार्थात् हन्तेः अनेन विधिः लभ्यः ।
(P_3,4.37) KA_II,176.2-14 Ro_III,386 {18/20} अनेन अस्तु तेन वा इति तेन स्यात् विप्रतिषेधेन ।
(P_3,4.37) KA_II,176.2-14 Ro_III,386 {19/20} हन्तेः पूर्वविप्रतिषेधः वार्त्तिकेन एव ज्ञापितः ।
(P_3,4.37) KA_II,176.2-14 Ro_III,386 {20/20} यत् अयम् नित्यसमासार्थम् च इति आह तत् ज्ञापयति आचार्यः हिंसार्थात् अपि हन्तेः अनेन विधिः भवति इति ।
(P_3,4.41) KA_II,176.16-18 Ro_III,387 {1/7} इह कस्मात् न भवति ।
(P_3,4.41) KA_II,176.16-18 Ro_III,387 {2/7} ग्रामे बद्धः इति ।
(P_3,4.41) KA_II,176.16-18 Ro_III,387 {3/7} एवम् वक्ष्यामि ।
(P_3,4.41) KA_II,176.16-18 Ro_III,387 {4/7} अधिकरणे बन्धः सञ्ज्ञायाम् ।
(P_3,4.41) KA_II,176.16-18 Ro_III,387 {5/7} ततः कर्त्रोः जीवपुरुषयोः नशिवहोः इति ।
(P_3,4.41) KA_II,176.16-18 Ro_III,387 {6/7} कथम् अट्टालिकाबन्धम् बद्धः चण्डालिकाबनधम् बद्धः ।
(P_3,4.41) KA_II,176.16-18 Ro_III,387 {7/7} उपमाने कर्मणि च इति एवम् भविष्यति ।
(P_3,4.60) KA_II,176.20 Ro_III,387 {1/3} अयुक्तः अयम् निर्देशः ।
(P_3,4.60) KA_II,176.20 Ro_III,387 {2/3} तिरश्चि इति भवितव्यम् ।
(P_3,4.60) KA_II,176.20 Ro_III,387 {3/3} सौत्रः अयम् निर्देशः ।
(P_3,4.62) KA_II,176.22-177.3 Ro_III,387-388 {1/6} अर्थग्रहणम् किमर्थम् ।
(P_3,4.62) KA_II,176.22-177.3 Ro_III,387-388 {2/6} नाधाप्रत्यये इति इयति उच्यमाने इह एव स्यात् द्विधाकृत्य ।
(P_3,4.62) KA_II,176.22-177.3 Ro_III,387-388 {3/6} इह न स्यात् द्वैधङ्कृत्य ।
(P_3,4.62) KA_II,176.22-177.3 Ro_III,387-388 {4/6} अर्थग्रहणे पुनः क्रियमाणे न दोषः भवति ।
(P_3,4.62) KA_II,176.22-177.3 Ro_III,387-388 {5/6} नाधाप्रत्यये सिद्धम् भवति यः च अन्यः तेन समानार्थः ।
(P_3,4.62) KA_II,176.22-177.3 Ro_III,387-388 {6/6} अथ प्रत्ययग्रहणम् किमर्थम् इह मा भूत् हिरुक् कृत्वा पृथक् कृत्वा
(P_3,4.64) KA_II,177.5 Ro_III,388 {1/3} अयुक्तः अयम् निर्देशः ।
(P_3,4.64) KA_II,177.5 Ro_III,388 {2/3} अनूचि इति भवितव्यम् ।
(P_3,4.64) KA_II,177.5 Ro_III,388 {3/3} सौत्रः अयम् निर्देशः ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {1/86} किमर्थम् इदम् उच्यते ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {2/86} कर्तरि कृद्वचनम् अनादेशे स्वाऋथविज्ञानात् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {3/86} कर्तरि कृतः भवन्ति इति उच्यते अनादेशे स्वाऋथविज्ञानात् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {4/86} अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {5/86} तत् यथा ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {6/86} गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {7/86} एवम् इमे अपि प्रत्ययाः स्वार्थे स्युः ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {8/86} स्वार्थे मा भूवन् कर्तरि यथा स्युः इति एवमर्थम् इदम् उच्यते ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {9/86} न एतत् अस्ति प्रयोजनम् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {10/86} यम् इच्छति स्वार्थे आह तम् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {11/86} भावे घञ् भवति इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {12/86} कर्मणि तर्हि मा भूवन् इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {13/86} कर्मणि अपि यम् इच्छति आह तम् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {14/86} धः कर्मणि ष्ट्रन् इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {15/86} करणाधिकरणयोः तर्हि मा भूवन् इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {16/86} करणाधिकरणयोः अपि यम् इच्छति आह तम् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {17/86} ल्युट् करणाधिकरणयोः भवति इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {18/86} सम्प्रदानापादानयोः तर्हि मा भूवन् इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {19/86} सम्प्रदानापादानयोः अपि यम् इच्छति आह तम् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {20/86} दाशगोघ्नौ सम्प्रदाने भीमादयः अपादाने इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {21/86} यः इदानीम् अन्यः प्रत्ययः शेषः सः अन्तरेण वचनम् कर्तरि एव भविष्यति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {22/86} तत् एव तर्हि प्रयोजनम् स्वार्थे मा भूवन् इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {23/86} ननु च उक्तम् यम् इच्छति स्वार्थे आह तम् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {24/86} भावे घञ् भवति इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {25/86} अन्यः सः भावः बाह्यः प्रकृत्यर्थात् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {26/86} अनेन इदानीम् आभ्यन्तरे भावे स्युः ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {27/86} तत्र मा भूवन् इति कर्तृग्रहणम् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {28/86} कः पुनः अनयोः भावयोः विशेषः ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {29/86} उक्तः भावभेदः भाष्ये ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {30/86} अस्ति प्रयोजनम् एतत् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {31/86} किम् तर्हि इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {32/86} तत्र ख्युनादिप्रतिषेधः नानावाक्यत्वात् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {33/86} तत्र ख्युनादीनाम् प्रतिषेधः वक्तव्यः ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {34/86} ख्युनादयः कर्तरि मा भूवन् इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {35/86} ननु च करणे खुनादयः विधीयन्ते ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {36/86} ते कर्तरि न भविष्यन्ति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {37/86} तेन च करणे स्युः अनेन च कर्तरि ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {38/86} ननु च अपवादत्वात् ख्युनादय्ः बाधकाः स्युः ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {39/86} न स्युः ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {40/86} किम् कारणम् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {41/86} नानावाक्यत्वात् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {42/86} नानावाक्यम् तत् च इदम् च ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {43/86} समानवाक्ये अपवादैः उत्सर्गाह्ः बाध्यन्ते ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {44/86} नानावाक्यत्वात् बाधनम् न प्राप्नोति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {45/86} तद्वत् च कृत्येषु एवकारकरणम् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {46/86} एवम् च कृत्वा कृत्येषु एवकारः क्रियते ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {47/86} तयोः एव कृत्यक्तखलर्थाः इति भावे च अकर्मकेभ्यः इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {48/86} किम् प्रयोजनम् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {49/86} तत् च भव्याद्यर्थम् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {50/86} भव्यादिषु समावेशः सिद्धः भवति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {51/86} गेयः माणवकः साम्नाम् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {52/86} गेयानि माणवकेन सामानि इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {53/86} ऋषिदेवतयोः तु कृद्भिः समावेशवचनम् ज्ञापकम् असमावेशस्य ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {54/86} यत् अयम् कर्तरि च ऋषिदेवतयोः इति सिद्धे सति समावेशे समावेशार्थम् चकारम् शास्ति तत् ज्ञापयति आचार्यः न भवति समावेशः इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {55/86} किमर्थम् तर्हि कृत्येषु एवकारः क्रियते ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {56/86} एवकारकरणम् च चार्थे ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {57/86} एवकारकरणम् च चार्थे द्रष्टव्यम् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {58/86} तयोः भावकर्मणोः कृत्या भवन्ति भव्यादीनाम् कर्तरि च इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {59/86} किम् प्रयोजनम् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {60/86} तत् च भव्याद्यर्थम् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {61/86} भव्यादिषु समावेशः सिद्धः भवति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {62/86} गेयः माणवकः साम्नाम् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {63/86} गेयानि माणवकेन सामानि इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {64/86} यत् तावत् उच्यते ऋषिदेवतयोः तु कृद्भिः समावेशवचनम् ज्ञापकम् असमावेशस्य इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {65/86} न एतत् ज्ञापकसाध्यम् अपवादैः उत्सर्गाः अपवादैः बाध्यन्ते इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {66/86} एषः एव न्यायः यत् उत अपवादैः उत्सर्गाः बाध्येरन् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {67/86} ननु च उक्तम् नानावाक्यत्वात् बाधनम् न प्राप्नोति इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {68/86} न विदेशस्थम् इति कृत्वा नानावाक्यम् भवति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {69/86} विदेशस्थम् अपि सत् एकवाक्यम् भवति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {70/86} तत् यथा द्वितीये अध्याये लुक् उच्यते ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {71/86} तस्य चतुर्थषष्ठयोः अलुक् उच्यते अपवादः ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {72/86} यत् अपि उच्यते एवकारकरणम् च चार्थे इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {73/86} कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {74/86} कथम् एवकारः चार्थे वर्तते ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {75/86} सः एषः एवकारः स्वार्थे वर्तते ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {76/86} किम् प्रयोजनम् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {77/86} ज्ञापकार्थम् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {78/86} एतत् ज्ञापयति अचार्यः इतः उत्तरम् समावेशः भवति इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {79/86} किम् एतस्य ज्ञपने प्रयोजनम् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {80/86} तत् च भव्याद्यर्थम् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {81/86} भव्यादिषु समावेशः सिद्धः भवति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {82/86} गेयः माणवकः साम्नाम् ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {83/86} गेयानि माणवकेन सामानि इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {84/86} यदि एतत् ज्ञप्यते इह अपि समावेशः प्राप्नोति दाशगोघ्नौ सम्प्रदाने भीमादयः अपादाने इति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {85/86} अत्र अपि सिद्धम् भवति ।
(P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {86/86} यत् अयम् आदिकर्मणि क्तः कर्तरि च इति सिद्धे समावेशे समावेशम् शास्ति तत् ज्ञपयति आचार्यः प्राक् अमुतः समावेशः भवति इति ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {1/27} किम् पुनः अयम् प्रत्ययनियमः : धातोः परः अकारः अकशब्दः वा नियोगतः कर्तारम् ब्रुवन् कृत्सञ्ज्ञः च भवति प्रत्ययसञ्ज्ञः च इति ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {2/27} आहोस्वित् सञ्ज्ञानियमः : धातोः परः अकारः अकशब्दः वा स्वभावतः कर्तारम् ब्रुवन् कृत्सञ्ज्ञः च भवति प्रत्ययसञ्ज्ञः च इति ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {3/27} कः च अत्र विशेषः ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {4/27} तत्र प्रत्ययनियमे अनिष्टप्रसङ्गः ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {5/27} तत्र प्रत्ययनियमे सति अनिष्टम् प्राप्नोति ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {6/27} काष्ठभित् अब्राह्मणः , बलभित् अब्राह्मणः ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {7/27} एषः अपि नियोगतः कर्तारम् ब्रुवन् कृत्सञ्ज्ञः च स्यात् प्रत्ययसञ्ज्ञः च ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {8/27} सञ्ज्ञानियमे सिद्धम् ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {9/27} सञ्ज्ञानियमे सति सिद्धम् भवति ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {10/27} यदि सञ्ज्ञानियमः विभक्तादिषु दोषः ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {11/27} विभक्ताः भ्रातरः पीताः गावः इति न सिध्यति ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {12/27} प्रत्ययनियमे पुनः सति परिगणिताभ्यः प्रकृतिभ्यः परः क्तः नियोगतः कर्तारम् आह ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {13/27} न च इमाः तत्र परिगण्यन्ते प्रकृतयः ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {14/27} विभक्तादिषु च अप्राप्तिः प्रकृतेः प्रत्ययपरवचनात् ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {15/27} विभक्तादिषु च प्रत्ययनियमस्य अप्राप्तिः ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {16/27} किम् कारणम् ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {17/27} प्रकृतेः प्रत्ययपरवचनात् ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {18/27} परिगणिताभ्यः प्रकृतिभ्यः परः क्तः स्वभावतः कर्तारम् आह ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {19/27} न च इमाः तत्र परिगण्यन्ते ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {20/27} न तर्हि इदानीम् अयम् साधुः भवति ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {21/27} भवति साधुः न तु कर्तरि ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {22/27} कथम् तर्हि इदानीम् अत्र कर्तृत्वम् गम्यते ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {23/27} अकारः मत्वर्थीयः : विभक्तम् एषाम् अस्ति विभक्ताः ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {24/27} पीतम् एषाम् अस्ति पिताः इति ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {25/27} अथ वा उत्तरपदलोपः अत्र द्रष्टव्यः ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {26/27} विभक्तधनाः विभक्ताः ।
(P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {27/27} पीतोदकाः पिताः इति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {1/70} किमर्थम् इदम् उच्यते ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {2/70} लः एषु साधनेषु यथा स्यात् कर्तरि च कर्मणि च भावे च अकर्मकेभ्यः इति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {3/70} न एतत् अस्ति प्रयोजनम् ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {4/70} भावकर्मणोः आत्मनेपदम् विधीयते शेषात् कर्तरि परस्मैपदम् ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {5/70} एतावान् च लः यत् उत परस्मैपदम् आत्मनेपदम् च ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {6/70} सः च अयम् एवम् विहितः ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {7/70} अतः उत्तरम् पठति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {8/70} लग्रहणम् सकर्मकनिवृत्त्यर्थम् ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {9/70} लग्रहणम् क्रियते सकर्मकनिवृत्त्यर्थम् ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {10/70} सकर्मकाणाम् भावे लः मा भूते इति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {11/70} यदि पुनः तत्र एव अकर्मकग्रहणम् क्रियेत ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {12/70} तत्र अकर्मकग्रहणम् कर्तव्यम् ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {13/70} ननु च इह अपि क्रियते भावे च अकर्मकेभ्यः इति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {14/70} परार्थम् एतत् भविष्यति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {15/70} तयोः एव कृत्यक्तखलर्थाः भावे च अकर्मकेभ्यः ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {16/70} यावत् इह लग्रहणम् तावत् तत्र अकर्मकग्रहणम् ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {17/70} इह वा लग्रहणम् क्रियेत तत्र वा अकर्मकग्रहणम् ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {18/70} कः नु अत्र विशेषः ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {19/70} अयम् अस्ति विशेषः ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {20/70} इह लग्रहणे क्रियमाणे आनः कर्तरि सिद्धः भवति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {21/70} तत्र पुनः अकर्मकग्रहणे क्रियमाणे आनः कर्तरि न प्राप्नोति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {22/70} तत्र अपि अकर्मकग्रहणे क्रियमाणे आनः कर्तरि सिद्धः भवति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {23/70} कथम् ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {24/70} भावकर्मणोः इति अतः अन्यत् यत् आत्मनेपदानुक्रमणम् सर्वम् तत् कर्त्रर्थम् ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {25/70} विप्रतिषेधात् वा आनः कर्तरि ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {26/70} विप्रतिषेधात् वा आनः कर्तरि भविष्यति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {27/70} तत्र भावकर्मणोः इति एतत् अस्तु कर्तरि कृत् इति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {28/70} कर्तरि कृत् इति एतत् भविष्यति विप्रतिषेधेन ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {29/70} सर्वप्रसङ्गः तु ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {30/70} सर्वेभ्यः तु धातुभ्यः आनः कर्तरि प्राप्नोति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {31/70} परस्मैपदिभ्यः अपि ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {32/70} न एषः दोषः ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {33/70} अनुदात्तङितः इति एषः योगः नियमार्थः भविष्यति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {34/70} यदि एषः योगः नियमार्थः विधिः न प्रकल्पते ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {35/70} आस्ते शेते इति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {36/70} अथ विध्यर्थः आनस्य नियमः न प्राप्नोति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {37/70} आसीनः शयानः ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {38/70} तथा नेः विशः इति एवमादि अनुक्रमणम् यदि नियमाऋथः विधिः न प्रकल्पते ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {39/70} अथ विध्यर्थः आनस्य नियमः न प्राप्नोति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {40/70} अस्तु तर्हि नियमार्थम् ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {41/70} ननु च उक्तम् विधिः न प्रकल्पते इति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {42/70} विधिः च प्रकॢप्तः ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {43/70} कथम् ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {44/70} भावकर्मणोः इति अत्र अनुदात्तङितः इति एतत् अनुवर्तिष्यते ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {45/70} यदि अनुवर्तते एवम् अपि अनुदात्तङितः एव भावकर्मणोः आत्मनेपदम् प्राप्नोति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {46/70} एवम् तर्हि योगविभागः करिष्यते ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {47/70} अनुदात्तङितः आत्मनेपदम् भवति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {48/70} ततः भावकर्मणोः ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {49/70} ततः कर्तरि ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {50/70} कर्तरि च आत्मनेपदम् भवति अनुदात्तङितः इति एव ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {51/70} भावकर्मणोः इति निवृत्तम् ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {52/70} ततः कर्मव्यतिहारे ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {53/70} कर्तरि इति एव अनुवर्तते ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {54/70} अनुदात्तङितः इति अपि निवृत्तम् ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {55/70} यत् अपि उच्यते नेः विशः इति एवमादि अनुक्रमणम् यदि नियमार्थम् विधिः न प्रकल्पते ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {56/70} अथ विध्यर्थः आनस्य नियमः न प्राप्नोति इति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {57/70} अस्तु विध्यर्थम् ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {58/70} ननु च उक्तम् आनस्य नियमः न प्राप्नोति इति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {59/70} न एषः दोषः ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {60/70} यथा एव अत्र अप्राप्ताः तङः भवन्ति एवम् आनः अपि भविष्यति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {61/70} सर्वत्र अप्रसङ्गः तु ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {62/70} सर्वेषु तु साधनेषु आनः न प्राप्नोति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {63/70} विप्रतिषेधात् वा आनः कर्तरि इति भावकर्मणोः न स्यात् ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {64/70} कर्तरि एव स्यात् ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {65/70} इह पुनः लग्रहणे क्रियमाणे कर्तरि कृत् इति एतत् अस्तु लः कर्मणि च भावे च अकर्मकेभ्यः इति लः कर्मणि च भावे च अकर्मकेभ्यः इति एतत् भविष्यत् विप्रतिषेधेन ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {66/70} सर्वप्रसङ्गः तु ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {67/70} लादेशः सर्वेषु साधनेषु प्राप्नोति ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {68/70} शतृक्वसूच भावकर्मणोः अपि प्राप्नुतः ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {69/70} न एषः दोषः ।
(P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {70/70} शेषात् परस्मैपदम् कर्तरि इति एवम् तौ कर्तारम् ह्रियेते ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {1/31} लादेशे सर्वप्रसङ्गः अविशेषात् ऌआदेशे सर्वप्रसङ्गः ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {2/31} सर्वस्य लकारस्य आदेशः प्राप्नोति ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {3/31} अस्य अपि प्राप्नोति : लुनाति लभते ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {4/31} किम् कारणम् ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {5/31} अविशेषात् ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {6/31} न हि कः चित् विशेषः उपादीयते : एवञ्जातीयकस्य लकारस्य आदेशः भवति इति ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {7/31} अनुपादीयमाने विशेषे सर्वप्रसङ्गः ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {8/31} अर्थवद्ग्रहणात् सिद्धम् ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {9/31} अर्थवतः लकारस्य ग्रहणम् न च एषः अर्तह्वत् ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {10/31} अर्थवद्ग्रहणात् सिद्धम् इति चेत् न वर्णग्रहणेषु । अर्थवद्ग्रहणात् सिद्धम् इति चेत् तत् न ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {11/31} किम् कारणम् ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {12/31} वर्णग्रहणम् इदम् ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {13/31} न च एतत् वर्णग्रहणेषु भवति अर्थवद्ग्रहणे न अनर्थकस्य इति ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {14/31} तस्मात् विशिष्तग्रहणम् ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {15/31} तस्मात् विशिष्तस्य लकारस्य ग्रहणम् कर्तव्यम् ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {16/31} न कर्तव्यम् ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {17/31} धातोः इति वर्तते ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {18/31} एवम् अपि शाला माला मल्लः इति अत्र प्राप्नोति ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {19/31} उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {20/31} एवम् अपि नन्दनः अत्र प्राप्नोति ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {21/31} इत्सञ्ज्ञा अत्र बाधिका भविष्यति ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {22/31} इह अपि तर्हि बाधेत ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {23/31} पचति पठति इति ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {24/31} इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {25/31} इदम् अस्ति इत्कार्यम् लिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति एषः स्वरः यथा स्यात् ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {26/31} लिति इति उच्यते ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {27/31} न च अत्र लितम् पश्यामः ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {28/31} अथ अपि कथम् चित् वचनात् वा अनुवर्तनात् वा इत्सञ्ज्ञ्कानाम् आदेशः स्यात् एवम् अपि न दोषः ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {29/31} आचार्यप्रवृत्तिः ज्ञापयति न लादेशे लित्कार्यम् भवति इति यत् अयम् णलम् लितम् करोति ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {30/31} अथ अपि उणादयः व्युत्पाद्यन्ते एवम् अपि नो दोषः ।
(P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {31/31} क्रियते विशिष्टग्रहणम् लस्य इति ।
(P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {1/12} लादेशः वर्णविधेः पूर्वविप्रतिषिद्धम् । लादेशः वर्णविधेः भवति पूर्वविप्रतिषेधेन ।
(P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {2/12} लादेशस्य अवकाशः पचतु पठतु ।
(P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {3/12} वर्णविधेः अवकाशः दध्यत्र मध्वत्र ।
(P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {4/12} इह उभयम् प्राप्नोति ।
(P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {5/12} पचतु अत्र ।
(P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {6/12} पठतु अत्र ।
(P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {7/12} लादेशः भवति पूर्वविप्रतिषेधेन ।
(P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {8/12} सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।
(P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {9/12} न वक्तव्यः ।
(P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {10/12} उक्तम् वा ।
(P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {11/12} किम् उक्तम् ।
(P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {12/12} लादेशः वर्णविधेः इति ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {1/40} टितः एत्वे आत्मनेपदेषु आनप्रतिषेधः ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {2/40} टितः एत्वे आत्मनेपदेषु आनप्रतिषेधः वक्तव्यः ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {3/40} पचमानः यजमानः ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {4/40} टितः इति एत्वम् प्राप्नोति ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {5/40} उक्तम् वा ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {6/40} किम् उक्तम् ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {7/40} ज्ञापकम् वा सानुबन्धकस्य आदेशवचने इत्कार्याभावस्य इति ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {8/40} न एतत् अस्ति उक्तम् ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {9/40} एवम् किल तत् उक्तम् स्यात् यदि एवम् विज्ञायेत ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {10/40} टित् आत्मनेपदम् टिदात्मनेपदम् ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {11/40} टिदात्मनेपदानाम् इति ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {12/40} तत् च न ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {13/40} टितः लकारस्य यानि आत्मनेपदानि इति एवम् एतत् विज्ञायते ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {14/40} अवश्यम् च एतत् एवम् विज्ञेयम् ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {15/40} टित् आत्मनेपदम् टिदात्मनेपदम् ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {16/40} टिदात्मनेपदानाम् इति विज्ञायमाने अकुर्वि अत्र अपि प्रसज्येत ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {17/40} न एषः टित् ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {18/40} कः तर्हि ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {19/40} ठित् ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {20/40} सः च अवश्यम् ठित् कर्तव्यः आदिः मा भूत् इति ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {21/40} कथम् इटः अत् इति ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {22/40} इठः अत् इति वक्ष्यामि इति ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {23/40} तत् च अवश्यम् वक्तव्यम् पर्यवपाद्यस्य मा भूत् ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {24/40} लविषीष्ट ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {25/40} इह तर्हि इषम् ऊर्जम् अहम् इतः आदि आतः लोपः इटि च इति आकारलोपः न प्राप्नोति ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {26/40} तस्मात् टित् एषः ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {27/40} आदिः तर्हि कस्मात् न भवति ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {28/40} सप्तदश आदेशाः स्थानेयोगत्वम् प्रयोजयन्ति ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {29/40} तान् एकः न उत्सहते विहन्तुम् इति कृत्वा आदिः न भविष्यति ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {30/40} पर्यवपाद्यस्य कस्मात् न भवति ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {31/40} लविषीष्ट इति ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {32/40} असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {33/40} इदम् तर्हि उक्तम् प्राकृतानाम् आत्मनेपदानाम् एत्वम् भवति इति ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {34/40} के च प्रकृताः ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {35/40} तादयः ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {36/40} आने मुक् ज्ञापकम् तु एत्वे टित्तङाम् ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {37/40} इशिसीरिचः डारौरःसु ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {38/40} टित् अटितः ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {39/40} प्रकृते तत् ।
(P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {40/40} गुणे कथम् ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {1/50} णलः शित्करणम् सर्वादेशार्थम् ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {2/50} णल् शित् कर्तव्यः ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {3/50} किम् प्रयोजनम् ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {4/50} सर्वादेशार्थम् ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {5/50} शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {6/50} अक्रियमाणे हि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {7/50} उक्तम् वा ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {8/50} किम् उक्तम् ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {9/50} अनित्त्वात् सिद्धम् इति ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {10/50} णकारः क्रियते ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {11/50} तस्य अनित्त्वात् सिद्धम् ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {12/50} कः एषः परिहारः न्याय्यः ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {13/50} शकारम् असि चोदितः ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {14/50} णकारम् करिष्यामि शकारम् न करिष्यामि इति ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {15/50} णकारः अत्र क्रियेत शकारः वा कः नु अत्र विशेषः ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {16/50} अवश्यम् अत्र णकारः वृद्ध्यर्थः कर्तव्यः णिति इति वृद्धिः यथा स्यात् ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {17/50} न अर्थः वृद्ध्यर्थेन णकारेण ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {18/50} णित्त्वे योगविभागः करिष्यते ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {19/50} इदम् अस्ति गोतः णित् ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {20/50} ततः अल् ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {21/50} अल् च णित् भवति ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {22/50} ततः उत्तमः वा इति ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {23/50} एवम् तर्हि लकारः क्रियते ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {24/50} तस्य अनित्त्वात् सिद्धम् ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {25/50} कः एषः परिहारः न्याय्यः ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {26/50} शकारम् असि चोदितः ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {27/50} लकारम् करिष्यामि शकारम् न करिष्यामि इति ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {28/50} लकारः अत्र क्रियेत शकारः वा कः नु अत्र विशेषः ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {29/50} अवश्यम् एव अत्र स्वरार्थः लकारः कर्तव्यः लिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति एषः स्वरः यथा स्यात् ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {30/50} न एतत् अस्ति प्रयोजनम् ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {31/50} धातुस्वरे कृते द्विर्वचनम् ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {32/50} तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः भविष्यति ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {33/50} कथम् पुनः अयम् अन्तोदात्तः स्यात् यदा एकाच् ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {34/50} व्यपदेशिवद्भावेन ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {35/50} यथा एव तर्हि व्यपदेशिवद्भावेन अन्तोदात्तः एवम् आद्युदात्तः अपि ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {36/50} तत्र आन्तर्यतः आद्युदात्तस्य आद्युदात्तः आदेशः प्रसज्येत ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {37/50} सत्यम् एतत् ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {38/50} न तु इदम् लक्षणम् अस्ति धातोः आदिः उदात्तः भवति इति ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {39/50} इदम् पुनः अस्ति धातोः अन्तः उदात्तः भवति इति ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {40/50} सः असौ लक्षणेन अन्तोदात्तः ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {41/50} तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः भविष्यति ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {42/50} एतत् अपि आदेशे न अस्ति आदेशस्य अन्तः उदात्तः भवति इति ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {43/50} प्रकृतितः अनेन स्वरः लभ्यः ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {44/50} प्रकृतिः च अस्य यथा एव अन्तोदात्ता एवम् आद्युदात्ता अपि ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {45/50} द्विःप्रयोगे च अपि द्विर्वचने उभयोः अन्तोदात्तत्वम् प्रसज्येत ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {46/50} अनुदात्तम् पदम् एकवर्जम् इति न अस्ति यौगपद्येन सम्भवः ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {47/50} पर्यायः प्रसज्येत ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {48/50} तस्मात् स्वरार्थः लकारः कर्तव्यः ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {49/50} लकारः क्रियते ।
(P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {50/50} तस्य अनित्त्वात् सिद्धम् ।
(P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {1/18} अकारस्य शित्करणम् सर्वादेशार्थम् ।
(P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {2/18} अकारः शित्कर्तव्यः ।
(P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {3/18} किम् प्रयोजनम् ।
(P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {4/18} सर्वादेशार्थम् ।
(P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {5/18} शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।
(P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {6/18} अक्रियमाणे हि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत ।
(P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {7/18} ननु च अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण शकारम् सर्वादेशः भविष्यति ।
(P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {8/18} अस्ति अन्यत् अकारस्य अकारवचने प्रयोजनम् ।
(P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {9/18} किम् ।
(P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {10/18} अकारवचनम् समसङ्ख्यार्थम् ।
(P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {11/18} सङ्ख्यातानुदेशः यथा स्यात् ।
(P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {12/18} तस्मात् शित्करणम् ।
(P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {13/18} तस्मात् शकारः कर्तव्यः ।
(P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {14/18} न कर्तव्यः ।
(P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {15/18} क्रियते न्यासे एव ।
(P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {16/18} प्रश्लिष्टनिर्देशः अयम् ।
(P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {17/18} अ* अ* अ ।
(P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {18/18} सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।
(P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {1/21} लङ्वदतिदेशे जुस्भावप्रतिषेधः ।
(P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {2/21} लङ्वदतिदेशे जुस्भावस्य प्रतिषेधः वक्तव्यः ।
(P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {3/21} यान्तु वान्तु ।
(P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {4/21} लङः शाकटायनस्य एव इति जुस्भावः प्राप्नोति ।
(P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {5/21} उत्ववचनात् सिद्धम् ।
(P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {6/21} उत्वम् अत्र बाधकम् भविष्यति ।
(P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {7/21} अनवकाशाः हि विधयः बाधकाः भवन्ति ।
(P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {8/21} सावकाशम् च उत्वम् ।
(P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {9/21} कः अवकाशः ।
(P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {10/21} पचतु पठतु ।
(P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {11/21} अत्र अपि इकारलोपः प्राप्नोति ।
(P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {12/21} तत् यथा एव उत्वम् इकारलोपम् बाधते एवम् जुस्भावम् अपि बाधते ।
(P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {13/21} न बाधते ।
(P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {14/21} किम् कारणम् ।
(P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {15/21} येन न अप्राप्ते तस्य बाधनम् भवति ।
(P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {16/21} न च अप्राप्ते इकारलोपे उत्वम् आरभ्यते ।
(P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {17/21} जुस्भावे पुनः प्राप्ते च अप्राप्ते च ।
(P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {18/21} अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् उत्वम् इकारलोपम् बाधते जुभावम् न बाधते ।
(P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {19/21} एवम् तर्हि वक्ष्यति तत्र लङ्ग्रहणस्य प्रयोजनम् ।
(P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {20/21} लङ् एव यः लङ् तत्र यथा स्यात् ।
(P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {21/21} लङ्वद्भावेन यः लङ् तत्र मा भूत् इति ।
(P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {1/11} हिन्योः उत्वप्रतिषेधः ।
(P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {2/11} हिन्योः उकारस्य प्रतिषेधः वक्तव्यः ।
(P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {3/11} लुनीहि लुनानि ।
(P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {4/11} एः उः इति उत्वम् प्राप्नोति ।
(P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {5/11} न वा उच्चारणसामर्थ्यात् ।
(P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {6/11} न वा वक्तव्यः ।
(P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {7/11} किम् कारणम् ।
(P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {8/11} उच्चारणसामर्थ्यात् अत्र उत्वम् न भविष्यति ।
(P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {9/11} अलघीयः च एव हि इकारोच्चारणम् उकारोच्चारणात् ।
(P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {10/11} इकारम् च उच्चारयति उकारम् च न उच्चारयति ।
(P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {11/11} तस्य एतत् प्रयोजनम् उत्वम् मा भूत् इति ।
(P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {1/11} एतः ऐत्वे आद्गुणप्रतिषेधः ।
(P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {2/11} एतः ऐत्वे आद्गुणस्य प्रतिषेधः वक्तव्यः ।
(P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {3/11} पचाव इदम् (पचावेदम्) ।
(P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {4/11} पचाम इदम् (पचामेदम्) ।
(P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {5/11} आद्गुणे कृते एत ऐत् इति ऐत्वम् प्राप्नोति ।
(P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {6/11} न वा बहिरङ्गलक्षणत्वात् ।
(P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {7/11} न वा वक्तव्यः ।
(P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {8/11} किम् कारणम् ।
(P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {9/11} बहिरङ्गलक्षणत्वात् ।
(P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {10/11} बहिरङ्गलक्षणः आद्गुणः अन्तरङ्गलक्षणम् ऐत्वम् ।
(P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {11/11} असिद्धम् बहिरङ्गम् अन्तरङ्गे ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {1/26} यासुडादेः सीयुट्प्रतिषेधः ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {2/26} यासुडादेः सीयुटः प्रतिषेधः वक्तव्यः ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {3/26} चिनुयुः सुनुयुः ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {4/26} लिङः सीयुट् इति सीयुट् प्राप्नोति ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {5/26} न वा वाक्यापकर्षात् ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {6/26} न वा वक्तव्यः ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {7/26} किम् कारणम् ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {8/26} वाक्यापकर्षात् ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {9/26} वाक्यापकर्षात् यासुट् सीयुटम् बाधिष्यते ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {10/26} सुट्तिथोः तु अपकर्षविज्ञानम् ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {11/26} सुटः तिथोः तु अपकर्षः विज्ञायेत ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {12/26} कृषीष्ट कृषीष्ठाः ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {13/26} अनादेः च सुड्वचनम् ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {14/26} अनादेः च सुट् वक्तव्यः ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {15/26} कृषीयास्ताम् कृषीयास्थाम् ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {16/26} तकारथकारादेः लिङः इति सुट् न प्राप्नोति ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {17/26} न वा तिथोः प्रधानभावात् तद्विशेषणम् लिङ्ग्रहणम् ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {18/26} न वा वक्तव्यम् ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {19/26} किम् कारणम् ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {20/26} तिथोः प्रधानभावात् ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {21/26} तिथौ एव तत्र प्रधानम् ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {22/26} तद्विशेषणम् लिङ्ग्रहणम् ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {23/26} न एवम् विज्ञायते ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {24/26} तकारथकारयोः लिङः इति ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {25/26} कथम् तर्हि ।
(P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {26/26} तकारथकारयोः सुट् भवति तौ चेत् लिङः इति ।
(P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {1/13} किमर्थम् यासुटः ङित्त्वम् उच्यते ।
(P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {2/13} यासुटः ङिद्वचनम् पिदर्थम् ।
(P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {3/13} पिति वचनानि प्रयोजयन्ति ।
(P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {4/13} अथ किमर्थम् उदात्तवचनम् क्रियते ।
(P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {5/13} उदात्तवचनम् च ।
(P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {6/13} किम् ।
(P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {7/13} पिदर्थम् एव ।
(P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {8/13} आगमानुदात्तार्थम् वा ।
(P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {9/13} अथ वा एतत् ज्ञापयति आचार्यः आगमाः अनुदात्ताः भवन्ति इति ।
(P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {10/13} असति अन्यस्मिन् प्रयोजने ज्ञापकम् भवति ।
(P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {11/13} उक्तम् च एतत् यासुटः ङिद्वचनम् पिदर्थम् उदात्तवचनम् च इति ।
(P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {12/13} शक्यम् अनेन वक्तुम् यासुट् परस्मैपदेषु भवति अपित् च लिङ् भवति इति ।
(P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {13/13} सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञापयति आचार्यः आगमाः अनुदात्ताः भवन्ति ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {1/47} किम् इदम् जुसि आकारग्रहणम् नियमार्थम् आहोस्वित् प्रापकम् ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {2/47} कथम् च नियमार्थम् स्यात् कथम् वा प्रापकम् ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {3/47} यदि सिज्ग्रहणम् अनुवर्तते ततः नियमार्थम् ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {4/47} अथ निवृत्तम् ततः प्रापकम् ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {5/47} कः च अत्र विशेषः ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {6/47} जुसि आकारग्रहणम् नियमार्थम् इति चेत् सिज्लुग्ग्रहणम् ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {7/47} जुसि आकारग्रहणम् नियमार्थम् इति चेत् सिज्लुग्ग्रहणम् कर्तव्यम् ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {8/47} आतः सिज्लुगन्तात् इति वक्तव्यम् ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {9/47} इह मा भूत् ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {10/47} अकार्षुः अहार्षुः ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {11/47} अस्तु तर्हि प्रापकम् ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {12/47} प्रापकम् इति चेत् प्रत्ययलक्षणप्रतिषेधः । प्रापकम् इति चेत् प्रत्ययलक्षणप्रतिषेधः वक्तव्यः ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {13/47} अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {14/47} एवकारकरणम् च ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {15/47} एवकारकरणम् च कर्तव्यम् ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {16/47} लङः शाकटायनस्य एव इति ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {17/47} नियमाऋथः पुनः सति न अर्थः एवकारेण ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {18/47} ननु च प्रापके अपि सति सिद्धि विधिः आरभ्यमाणः अन्तरेण एवकारम् नियमार्थः भविष्यति ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {19/47} इष्टतः अवधारणार्थः तर्हि एवकारः कर्तव्यः ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {20/47} यथा एवम् विज्ञायेत लङः शाकटायनस्य एव ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {21/47} मा एवम् विज्ञायि लङः एव शाकटायनस्य इति ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {22/47} किम् च स्यात् ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {23/47} लुङः शाकटायनस्य न स्यात् ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {24/47} अदुः अपुः अधुः अस्थुः ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {25/47} लङ्ग्रहणम् च ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {26/47} लङ्ग्रहणम् च कर्तव्यम् ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {27/47} लङः शाकटायनस्य एव इति ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {28/47} नियमार्थे पुनः सति न अर्थः लङ्ग्रहणेन ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {29/47} आतः ङितः इति वर्तते ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {30/47} न च अन्यः आकारात् अनन्तरः ङित् अस्ति अन्यत् अतः लङः ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {31/47} अस्तु तर्हि नियमार्थः ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {32/47} ननु च उक्तम् जुसि आकारग्रहणम् नियमार्थम् इति चेत् सिज्लुग्ग्रहणम् इति ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {33/47} न एषः दोषः ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {34/47} तुल्यजातीयस्य नियमः ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {35/47} कः च तुल्यजातीयः ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {36/47} यः द्वाभ्याम् अनन्तरः आतः च सिचः च ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {37/47} अथ तत् एवकारकरणम् न एव कर्तव्यम् ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {38/47} कर्तव्यम् च ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {39/47} किम् प्रयोजनम् ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {40/47} उत्तरार्थम् ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {41/47} लिट् च लिङ् आशिषि आर्धधातुकम् एव यथा स्यात् ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {42/47} इतरथा हि वचनात् आर्धधातुकसञ्ज्ञा स्यात् तिङ्ग्रहणेन च ग्रहणात् सार्वधातुकसञ्ज्ञा ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {43/47} अथ तत् लङ्ग्रहणम् न एव कर्तव्यम् ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {44/47} कर्तव्यम् च ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {45/47} किम् प्रयोजनम् ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {46/47} लङ् एव यः लङ् तत्र यथा स्यात् ।
(P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {47/47} लङ्वद्भावेन यः लङ् तत्र मा भूत् इति ।
(P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {1/21} आर्धधातुकसञ्ज्ञायाम् धातुग्रहणम् ।
(P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {2/21} आर्धधातुकसञ्ज्ञायाम् धातुग्रहणम् कर्तव्यम् ।
(P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {3/21} धातोः परस्य आर्धधातुकसञ्ज्ञा यथा स्यात् ।
(P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {4/21} इह मा भूत् ।
(P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {5/21} वृक्षत्वम् वृक्षता इति ।
(P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {6/21} क्रियमाणे च अपि धातुग्रहणे स्वादिप्रतिषेधः ।
(P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {7/21} स्वादीनाम् प्रतिषेधः वक्तव्यः ।
(P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {8/21} इह मा भूत् ।
(P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {9/21} लूभ्याम् लूभिः इति ।
(P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {10/21} अनुक्रान्तापेक्षम् शेषग्रहणम् ।एवम् अपि अग्निकाम्प्यति वायुकाम्यति इति प्राप्नोति ।
(P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {11/21} तस्मात् धातुग्रहणम् कर्तव्यम् ।
(P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {12/21} न कर्तव्यम् ।
(P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {13/21} आ तृतीयाध्यायपरिसमाप्तेः धात्वधिकारः प्रकृतः अनुवर्तते ।
(P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {14/21} क्व प्रकृतः ।
(P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {15/21} धातोः एकाचः हलादेः इति ।
(P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {16/21} एवम् अपि श्रीकाम्यति भूकाम्यति इति प्राप्नोति ।
(P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {17/21} तद्विधानात् सिद्धम् ।
(P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {18/21} विहितविशेषणम् धातुग्रहणम् ।
(P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {19/21} धातोः यः विहितः इति ।
(P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {20/21} धातोः एषः विहितः ।
(P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {21/21} सङ्कीर्त्य धातोः इति एवम् यः विहितः इति।