विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०६१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०६० विष्णुधर्मोत्तरपुराणम्
अध्यायः ०६१
वेदव्यासः
अध्यायः ०६२ →

राम उवाच ।।
तस्य मायाशरीरस्य विष्णोरमिततेजसः ।।
प्राप्नुवन्ति कथं स्थानं नित्यमक्षय्यमव्ययम् ।। १ ।।
शङ्कर उवाच ।।
अखण्डकारिणो राम विष्णोरमिततेजसः ।।
प्राप्नुवन्ति परं स्थानं नित्यमक्षय्यमव्ययम् ।। २ ।।
राम उवाच ।।
अखण्डकारी भगवन्कथं भवति शङ्कर ।।
एतन्मे संशयं ब्रूहि देवदेव वृषध्वज ।। ३ ।।
शङ्कर उवाच ।।
पञ्चकालविधानज्ञस्तत्कर्मकरणे रतः ।।
अखण्डकारी भवति राम दानवनाशन ।। ४ ।।
राम उवाच ।।
भगवन्पञ्च के कालाः कथं तेषां तथा विधिः ।।
एतन्मे देवदेवेश कौतूहलमपानुद ।। ५ ।।
शङ्कर उवाच ।।
रामाभिगमनं पूर्वमुपादानमतः परम् ।।
इज्यास्वाध्यायकालौ च योगकालस्तथैव च ।।६।।
तेषां प्रत्येकशो वक्ष्ये विधिं ते भृगुनन्दन ।।
तन्निबोध महाभाग प्रयतेनान्तरात्मना ।। ७ ।।
राम कल्ये समुत्थाय दन्तधावनपूर्वकम् ।।
स्नानं कृत्वा यथाशास्त्रं स्वाचान्तः सुसमाहितः ।। ८ ।।
यश्चेह भगवन्मन्त्रं पठन्देवगृहं विशेत् ।।
प्रविन्द्याद्राम जानुभ्यां पाणिभ्यां शिरसा तथा ।। ९ ।।
ॐकारं सनमस्कारं प्रयुज्य सुसमाहितः ।।
योगकालं तु सन्दध्यादुपादध्यादनन्तरम्।।1.61.१०।।
रामाभिगमकालं तु तत्र मन्त्रं तथार्पयेत्।।
भगवतो बलेनेति वीर्येणैतेन तेजसा।।११।।
सुप्रकीर्तिततोयेन वेदिं प्रक्षालयेद्बुधः ।।
सौवर्णीं राजतीं ताम्रीं मृन्मयीमायसीं तथा।।१२।।
शिलां चन्दनजां वापि देवदारुभवामथा।
शिंशपाक्षोटसरलकदम्बार्जुनजामथा। ।।१३।।
साल्वाश्वकर्णजां राम त्वायामेन तथैव च ।।
वामप्रवाणां प्रक्षाल्य पूर्णकुम्भान्नवांस्ततः।।१४।।
कल्पनीयास्तु कलशाश्चत्वारो भृगुनन्दन।।
सौवर्णा राजतास्ताम्रा अथवापि ह रीतिजाः।।१५।।
पाद्यमाचमनीयं च त्वर्घ्यं स्नानीयमेव च ।।
पाद्यात्पाद्यं तु दातव्यं स्नानीयात्स्नानमेव च।।१६।।
तथाप्याचमनीयाख्याद्देयमाचमनं भवेत् ।।
दानं प्रणयनं प्रीतिर्विसर्गं विस्तरं तथा ।।१७।।
तर्पणं चार्हणं चैव त्वर्घ्यादेतानि कारयेत् ।।
द्वादशाक्षरकं मन्त्रं ततो जप्त्वा समाहितः ।। १८ ।।
ततः पवित्रमन्त्रेण वेदिमभ्युक्षयेद्द्विज ।।
आत्मानं च तथा भोगान्कुर्यान्मार्गत्रयं ततः।।१९।।
विद्या ज्ञानं ततः कर्म ब्रह्मचक्रं तथैव च ।।
मार्गत्रयञ्च कर्तव्यं नामार्घ्यकलशान्सदा ।। 1.61.२० ।।
पाणिमार्गं कूर्चमार्गं मधुमार्गं तथैव च ।।
उशीरमूलजं कूर्चं जीव न्नोपालसम्भवम् ।।२१।।
जीवश्च मरणं चापि कर्तव्यं भृगुनन्दन ।।
प्रतिस्नानं ततः कार्यं समानानां क्रमाद्भवेत्।।२२।।
तथैव पादपीठानां प्रभावेन महाभुजः ॥
आसनान्यथ कार्याणि रत्नचित्राणि भार्गव ॥ २३ ॥
सौवर्णान्यथ रौप्याणि ताम्रशैलमयानि च ॥
ततस्त्वावाहनं कार्यं ततोऽभि गमनं ततः ॥२४॥
नमस्कारस्ततः कार्यः प्रणीतेन ततः पुनः ॥
ब्रह्मश्वक्रामनौ मन्त्रं प्रभवेनापि येन च॥२९॥
ततो जप्त्वा महाभाग प्रणवेन निवेदयेत् ॥
आसनैरर्चयेद्देवं ततः प्रयतमानसः ॥ २६ ।॥
अर्घ्याभिरद्भिश्च ततो भोगैः सर्वैरनन्तरम् ॥
पाद्यप्रतिग्रहेणाथ पाद्याभिश्चाप्यनन्तरम् ॥ ॥ २७॥
पादुकाभिस्ततो राम देवदेवं समर्चयेत् ॥
ततस्त्वाचमनीयार्थं देवदेवप्रतिग्रहम् ॥ २८ ॥
देवमाचमनीयञ्च पादपीठांस्तथैव च ॥
दन्तकाष्ठं ततो दद्याज्जिह्वानिर्लेखनं ततः ॥ २९ ॥
गण्डूषणं ततो दद्यान्मुखप्रक्षालनं तथा ॥
भूयस्त्वाचमनं देयं तर्पणं चाप्यन्न्तरम् ॥ 1.61.३०॥
पुष्पं दीपमलङ्कारं धूपप्रकरमेव च ।
निवेद्य विधिवत्सर्वं ततः पश्चान्निवेदयेत् ॥ ३१ ॥
सेव्यानि राम बीजानि त्वर्हणीयं ततः पुनः ॥
मधुपर्कं ततो दद्याद्दधि सर्पिस्तथा मधु ॥ ३२ ।॥
दध्यलाभे पयः कार्यं मध्वलाभे तथा गुडम् ॥
घृतप्रतिनिधिर्नास्ति तत्र यत्नात्समर्चयेत् ॥ ३३ ॥
एकांगो वा समस्तो वा मधुपर्को विधीयते ॥
व्यंगं वर्ज्यं प्रयत्नेन नित्यमेव विजानता ॥ ३४ ॥
दर्पणं तु ततो दद्यात्ततो निर्भर्त्सनं बुधः ॥
ततस्त्वाचमनीयं च विधिवत्सुसमाहितः ॥३९॥
हस्तनिष्पुंसनार्थाय ततो दद्यात्तु गंधकम् ॥
ततः पशुं बुधः कुर्य्याद्यथावन्माधुपार्किकम् ॥३६॥
माधुपार्किकमश्वत्थपत्रं वा विनिवेदयेत् ॥
घृतावद्यं ततो दद्यात्ताम्बूलञ्चाप्यनन्तरम् ॥ ३७ ॥
मात्राञ्च दक्षिणार्थाय ब्राह्मणाय निवेदयेत् ॥
मंगलानि यथाशक्त्या ततो देवे निवेदयेत् ॥३८॥
ततोऽभिगमकालन्तु संदद्यात्पुरुषोत्तमे॥
उपादानमथो दद्यात्कुर्याच्चैव विसर्जनम् ॥ ३९ ॥
ततोऽग्निशरणं गत्वा वह्निं संतर्पदेद्बुधः ॥
ब्राह्मणानां यथाशक्ति दानं दद्यादनन्तरम् ॥ 1.61.४०॥
एतन्मया ते कथितं समग्रं यथानुपूर्व्याभिगमस्य कालम् ॥ गच्छेदुपादानकृतप्रयत्नस्ततो यथावद्भृगुवंशचन्द्र ॥ ४१ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतास्वभिगमकालो नामैकषष्टितमोऽध्यायः ॥ ६१ ॥।