विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायाः २३६-२४०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः २३१-२३५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः २३६-२४०
वेदव्यासः
अध्यायाः २४१-२४५ →

1.236
।। नाडायन उवाच ।।
प्रभावमपरं तस्य शृणु देवस्य शूलिनः।।
यथा विमोक्षितस्तेन श्वेतो मृत्युवशं गतः ।। १ ।।
श्वेतो नाम महातेजा ऋषिः परमधार्म्मिकः ।।
पूजयामास सततं लिङ्गं त्रिपुरघातिनः ।। २ ।।
तस्य पूजाप्रसक्तस्य कदाचित्पृथिवीपते ।।
आजगाम तमुद्देशं कालः परमदारुणः ।। ३ ।।
रक्तवृत्तत्रिनयनः सर्पवृश्चिकरोमवान् ।।
दंष्ट्राकरालो विकटः चूर्णिताञ्जनसप्रभः ।। ४ ।।
रक्तवासा महाकायः सर्पाभरणभूषितः ।।
पाशहस्तस्तथाभ्येत्य श्वेते पाशमथासृजत् ।। ५ ।।
कण्ठार्पितेन पाशेन श्वेतः कालमथाब्रवीत् ।।
क्षणमात्रं प्रतीक्षस्व मम त्रिभुवनान्तक ।। ६ ।।
निवर्त्तयाम्यहं यावत्पूजनं मन्मथद्विषः ।।
तमब्रवीत्तदा कालः प्रहसन्वसुधाधिप ।। ७ ।।
न श्रुतं तु त्वया मन्ये वृद्धानां श्वेत जल्पितम् ।।
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिके ।। ८ ।।
न हि प्रतीक्षते मृत्युः कृतं वा स्यान्न वा कृतम् ।।
गर्भे वाप्यथ बाल्ये वा यौवने वार्धकेपि वा ।। ९ ।।
आयुष्ये कर्मणि क्षीणे लोकोऽयं नीयते मया ।।
नौषधानि न मंत्राश्च न होमो न पुनर्जपः ।। 1.236.१० ।।
त्रायन्ति मृत्युनोपेत्ं जरया वापि मानवम् ।।
बहूनीन्द्रसहस्राणि पितामहशतानि च ।। ११ ।।
मया नीतानि कर्त्तव्यो नात्र मन्युस्त्वयानघ ।।
विधत्से पूजनं यस्य महादेवस्य शूलिनः ।। १२ ।।
देहन्यासं स बहुधा मया वै श्वेत कारितः ।।
स्वयं प्रभुर्न चैवाहं कर्मायत्ता मतिर्मम ।। १३ ।।
कर्मणां हि तथा नाशं नास्ति भूतस्य कस्यचित् ।।
कर्ममार्गानुसारेण धात्राहं संप्रचोदितः ।। १४ ।।
नयामि सर्वमाक्रम्य त्रैलोक्यं सचराचरम् ।।
एवमुक्तस्तु कालेन नीयमानस्त्रिलोचनम् ।। १५ ।।
जगाम सर्वभावेन शरणं भक्तवत्सलम् ।।
श्वेते तु शरणं प्राप्ते लिङ्गस्य त्रिपुरान्तकः ।। १६ ।।
भूतभव्यभविष्यद्भिः प्रादुर्भावैस्तु शार्ङ्गिणः ।।
आत्मनः कवचं कृत्त्वा कृतरक्षो महेश्वरः ।। १७ ।।
भित्त्वा लिङ्गं समुत्तस्थौ क्रोधविस्फारितेक्षणः ।।
तृतीयलोचनज्वालाप्रकाशितजगत्त्रयः ।।१८।।
दृष्टमात्रस्तदा तस्य कालो जज्वाल तेजसा ।।
स शान्तो भस्मभूतश्च सर्वभूतविधिर्ग्रहः ।। १९ ।।
श्वेतस्य दत्त्वा सामीप्यं गणेशत्वं तथैव च ।।
कृत्वा विधिग्रहं कालं तत्रैवान्तरधीयत ।। 1.236.२० ।।
ततः प्रभृति राजेन्द्र कालः स कलयन्प्रजाम्।।
न कैश्चिद्दृश्यते लोके विदेहत्वाज्जगत्त्रये ।।२१ ।।
।। शैलूष उवाच ।। ।।
वैष्णवं कवचं ब्रह्मन्सर्वबाधानिवारणम् ।।
त्वत्तोहं श्रोतुमिच्छामि तत्र मे संशयो महान् ।। २२ ।।
।। नाडायन उवाच ।।
अदृश्यमेतत्परमं पवित्रं पूर्वेरितं कल्मषनाशनं च ।।
दुःखापहं ते कवचं ब्रवीमि रक्षा कृता येन महेश्वरेण ।। २३ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथम खण्डे मार्कण्डेयवज्रसंवादे कालदारणो नाम षटत्रिंशदुत्तरद्विशततमोऽध्यायः ।। २३६ ।।
1.237
।। महेश्वर उवाच ।। ।।
प्रणम्याजरमीशानमजं नित्यमनामयम् ।।
देवं सर्वेश्वरं विष्णुं सर्वव्यापिनमव्ययम् ।। १ ।।
बध्नाम्यहं प्रतिसरं नमस्कृत्य जनार्द्दनम् ।।
अमोघमप्रतिहतं सर्वदुःष्टनिवारणम् ।। २ ।।
विष्णुर्ममाग्रतः पातु कृष्णो रक्षतु पृष्ठतः ।।
हरिर्मे रक्षतु शिरो हृदयं च जनार्द्दनः ।। ३ ।।
मनो मम हृषीकेशो जिह्वां रक्षतु केशवः।।
पातु नेत्रे वासुदेवः श्रोत्रे संकर्षणस्तथा ।। ४ ।।
प्रद्युम्नः पातु मे घ्राणमनिरुद्धो मुखं मम ।।
वनमाली गलं पातु श्रीवक्षो रक्षतात्पुरः ।।
पार्श्वं तु पातु मे चक्रं वामं दैत्यविदारणम् ।। ५ ।।
दक्षिणं तु गदा देवी सर्वासुरनिवारिणी ।।
उदरं मुसली पातु पृष्ठं पातु च लाङ्गली ।। ६ ।।
ऊरू रक्षतु शार्ङ्गी मे जङ्घे रक्षतु चर्मकी ।।
पाणी रक्षतु शंखी च पादौ मे चरणावुभौ ।।
सर्वकार्यार्थसिद्ध्यर्थं पातु मां गरुडध्वजः ।।७।।
वराहो रक्षतु जले विषमेषु च वामनः ।।
अटव्यां नरसिंहस्तु सर्वतः पातु केशवः ।। ८ ।।
हिरण्यगर्भो भगवान्हिरण्यं मे प्रयच्छतु ।।
सांख्याचार्यस्तु कपिलो धातुसाम्यं करोतु मे ।। ९ ।।
श्वेतद्वीपनिवासी च श्वेतद्वीपं नयत्वजः ।।
सर्वाञ्शत्रून्सूदयतु मधुकैटभसूदनः ।। 1.237.१० ।।
विकर्षतु सदा विष्णुः किल्बिषं मम विग्रहात् ।।
हंसो मत्स्यस्तथा कूर्मः पातु मां सर्वतो दिशम् ।। ११ ।।
त्रिविक्रमस्तु मे देवः सर्वान्पाशान्निकृन्ततु ।।
नरनारायणो देवो बुद्धिं पालयतां मम ।। १२ ।।
शेषो शेषामलज्ञानः करोत्वज्ञाननाशनम् ।।
वडवामुखो नाशयतु कल्मषं यन्मया कृतम् ।। १३ ।।
विद्यां ददातु परमामश्वमूर्द्धा मम प्रभुः ।।
दत्तात्रेयः पालयतु सपुत्रपशुबान्धवम् ।। १४ ।।
सर्वान्रोगान्नाशयतु रामः परशुना मम ।।
रक्षोघ्नो मे दाशरथिः पातु नित्यं महाभुजः ।। १५ ।।
रिपून्हलेन मे हन्याद्रामो यादवनन्दनः ।।
प्रलम्बकेशिचाणूरपूतनाकंसनाशनः ।। १६ ।।
कृष्णो यो बालभावेन स मे कामान्प्रयच्छतु ।।
अन्धकारं तमो घोरं पुरुषं कृष्णपिङ्गलम् ।। १७ ।।
पश्यामि भयसंतप्तः पाशहस्तमिवान्तकम्।।
ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः ।। १८ ।।
योगीशमतिरूपस्थं शुभशीतांशुनिर्मलम् ।।
धन्योऽहं विजयी नित्यं यस्य मे भगवान्हरिः ।। १९ ।।
स्मृत्वा नारायणं देवं सर्वोपद्रवनाशनम् ।।
वैष्णवं कवचं बद्ध्वा विचरामि महीतले ।। 1.237.२० ।।
अप्रधृष्योस्मि भूतानां सर्वं विष्णुमयो ह्यहम् ।।
स्मरणाद्देवदेवस्य विष्णोरमिततेजसः ।। २१ ।।
सिद्धिर्भवतु मे नित्यं तथा मंत्र उदाहृतः ।।
यो मां पश्यति चक्षुर्भ्यां यं च पश्यामि चक्षुषा ।। २२ ।।
सर्वासां समदृष्टीनां विष्णुर्बध्नातु चक्षुषा ।।
वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये अराः ।। २३ ।।
ते च च्छिन्दन्तु मे पापं मा मे हिंसन्तु हिंसकाः ।।
राक्षसेषु पिशाचेषु कान्तारेष्वटवीषु च ।। २४ ।।
विवादे राजमार्गेषु द्यूतेषु कलहेषु च ।।
नदीसन्तरणे घोरे संप्राप्ते प्राणसंशये ।। २५ ।।
अग्निचौरनिपाते च सर्वग्रहनिवारणे ।।
विद्युत्सर्पविषोद्योगे खातोदे रिपुसङ्कटे ।।२६।।
तथ्यमेतज्जपेन्नित्यं शारीरे भय आगते।।
अयं भगवतो मन्त्रो मंत्राणां परमो महान् ।।२७।।
विख्यातं कवचं गुह्यं सर्वपापप्रणाशनम् ।।
स्वमायाकृतनिर्माणं कल्पांतगृहलोपकृत् ।।
अनाद्यं तज्जगद्बीजं पद्मनाभ नमोस्तु ते ।। २८ ।।
ॐकालाय स्वाहा ।।
ॐकालपुरुषाय स्वाहा ।।
ॐप्रचण्डाय स्वाहा ।।
ॐप्रचण्डपुरुषाय स्वाहा ।।
ॐसर्वाय स्वाहा ।।
ॐसर्वसर्वाय स्वाहा ।।
ॐनमो भुवनेशाय त्रिलोकधाम्ने इतिटिपिरिटि स्वाहा ।।
ॐउत्तमेनअघे तु मे वायु तु मे ये सत्त्वाः पापानुचारास्तेषां दैत्यदानव यक्षराक्षसभूतप्रेतपिशाच कूष्माण्डापस्मारोन्मादनज्वराणां एकाहिक द्वितीयक तार्तीयक चातुर्थिक मौहूर्त्तिक दिनज्वर रात्रिज्वर सततज्वर सन्ध्याज्वर सर्वज्वरादीनामुत्सादन लूताकीटककंटककटपूतनाभुजगस्थावरविषविषमविषादीनामिदं शरीरं ममाप्रधृष्यं भवतु ॐ सुकारे प्रकरोत्कटकविकटद्रंष्ट्रपूर्वतो रक्ष ।।
ॐ हैं हैं हैं हैं दिनकरसहस्रकान्तसमोग्रतेजः पश्चिमतो रक्षरक्ष ।।
ॐ निरिनिरिप्रदीप्तज्वलन ज्वालाकालमहाकपिलजटिल उत्तरत्तो रक्ष ।।
ॐ चिलिचिलि मिलिमिलि चेकडि गौरिगांधारि विषोहनि विषं मां मोहयतु स्वाहा ।।
दक्षिणतो रक्ष माममुकस्य सर्वभूतभयोपद्रवेभ्यः स्वाहा ।।
जयति विजयदानं जायतां रिपुपुरहासनुनवध्यते भयहृदयभयदोभयेभयं दिशतु ममायमुदारमच्युतः।।
यदुदरमखिलं विशन्ति रश्मयः ।।
आद्यन्तवन्तः कवयः पुराणाः सूक्ष्मा बृहन्तो ह्यनुशासितारः ।।
सर्वज्वरान्घ्नन्तु ममानिरुद्धप्रद्युम्नसंकर्षणवासुदेवाः।।२९।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० शैलूषं प्रति नाडायनवाक्ये विष्णुकवचं नाम सप्तत्रिंशदुत्तरद्विशततमोऽध्यायः।।२३७।।
1.238
।। वज्र उवाच ।।
श्रुत्वा कालाङ्गदहनं ब्राह्मणेन समीरितम् ।।
किं पप्रच्छ तदा ब्रह्मञ्शैलूषो मृत्युचोदितः।।१।।
मार्कण्डेय उवाच।।
श्रुत्वा कालाङ्गदहनं ब्राह्मणेन समीरितम् ।।
रावणस्यैव चरितं भूयः पप्रच्छ तं तदा ।। २ ।।
शैलूष उवाच ।। चरितस्यावशेषं यद्दशग्रीवस्य रक्षसः ।।
तदहं श्रोतुमिच्छामि तत्र मे संशयो महान्।।३।।
नाडायन उवाच ।।
ततोऽस्य नगरं भूयः परिचक्राम रावणः ।।
स ददर्श तदा तत्र प्रासादं सर्वकाञ्चनम्।।४।।
मुक्ताजालपरिक्षिप्तं तथा विद्रुमतारणम् ।।
गारुडेन च रक्तेन समन्तात्कृतवेदिकम् ।। ५ ।।
वैडूर्यरुचिरस्तम्भं पद्मरागप्रभोज्ज्वलम् ।।
इन्द्रनीलप्रभाच्छन्नं निर्यूहशतशोभितम् ।। ६ ।।
महाभुवनसंबाधं महोद्यानविभूषितम् ।।
सुखारोहणसोपानं दीर्घिकाशतसंकुलम् ।। ७ ।।
सर्वर्तु कुसुमैर्वृक्षैः समन्तादुपशोभितम् ।।
सर्वासनयुतं रम्यं महेन्द्रभवनाधिकम ।। ८ ।।
तन्तु दृष्ट्वा गृहं राजन्प्रहस्तं वाक्यमब्रवीत् ।।
प्रहस्त शीघ्रं जानीहि कस्येदं भवनोत्तमम् ।। ९ ।।
एवमुक्तः प्रहस्तस्तु प्रविवेश गृहोत्तमम् ।।
संप्राप्तायां च कक्षायां भिन्नाञ्जनचयोपमम् ।।1.238.१० ।।
सर्वाभरणसंवीतं सर्वलक्षणलक्षितम् ।।
गृहीत्वा लोहमुसलं द्वारदेशे व्यवस्थितम् ।। ११ ।।
ददर्श पुरुषं भीमं ज्वालामण्डलदुर्दृशम् ।।
तं तु दृष्ट्वा तथाभूतं स विवेश दशाननः ।। १२ ।।
समाप्तायां च कक्षायां स ददर्श तमेव हि ।।
तमुवाच महातेजा निशाचरगणेश्वरः ।। १३ ।।
युद्धार्थ्यहमनुप्राप्तो युद्धातिथ्यं प्रयच्छ मे ।।
अथ वा तस्य शंस त्वं गृहे योस्मिन्व्यवस्थितः ।। १४ ।।
ततो राक्षसराजस्य पुरुषो वाक्यमब्रवीत् ।।
तिष्ठत्यस्मिन्गृहे राजा दानवानां बलिर्बली ।। १५ ।।
तेन चेद्योत्स्यसे वीर प्रविशेदं गृहोत्तमम् ।।
योद्धुं नार्हसि तेन त्वं स महात्मा महाबलः ।। १६ ।।
ब्रह्मण्यश्च शरण्यश्च शूरः सत्यपराक्रमः ।।
वीरो बहुगुणोपेतो बलवान्दृढविक्रमः ।।
बालार्क इव तेजस्वी समरेष्वनिवर्त्तकः ।। १७ ।।
प्रियंवदः संविभागी गूढ साक्ष्याय तत्परः ।।
एवमुक्तो दशग्रीवः प्रविवेश गृहोत्तमम् ।। १८ ।।
अथ संदर्शनादेव बलिना सुमहात्मना ।।
शीघ्रमुत्सङ्गमारोप्य पृष्टस्त्वागमनं ततः ।। १९ ।।
तस्योवाच महातेजा रावणो राक्षसाधिपः ।।
श्रुतं मया महाभाग बद्धस्त्वं किल विष्णुना ।। 1.238.२० ।।
सोऽहं मोचयितुं शक्तो बन्धनात्त्वां न संशयः ।।
एवमुक्तस्ततो हासं बलिर्मुक्त्वेदमब्रवीत् ।। २१ ।।
एते मे कुण्डले दिव्ये महारत्नोपशोभिते ।।
अनयोरेकमानीय चात्रोपविश मा चिरम् ।। २२ ।।
अत्रोपविष्टस्य च ते व्याख्यास्ये विष्णुविक्रमम् ।।
एवमुक्तो दशग्रीवः कुण्डलानयने ततः।।२३।।
चकार परमं यत्नं न शशाक च शत्रुहा ।।
यदा चालयितुं स्थानान्न शशाक स कुण्डलम् ।। २४ ।।
प्रस्विन्नसर्वगात्रस्तु संदष्टदशनच्छदः ।।
भ्रकुटीसंकटमुखः परं विस्मयमागतः ।। २५ ।।
उत्सङ्गे तदवस्थे तु बलिः कृत्वेदमब्रवीत् ।।
हिरण्यकशिपुर्नामाभवन्मे प्रपितामहः ।। २६ ।।
यदा बभूव तस्येमे कुण्डले वै बभूवतुः ।।
एताभ्यां कुण्डलाभ्यां तु सोऽभूत्पूर्व विभूषितः ।। २७ ।।
ऊर्वोरारोप्य नखरैः करैस्तेन विदारितः ।।
कथमद्य महाभागं तं त्वं जेतुं व्यवस्यसि ।। २८ ।।
स एव पुरुषः श्यामो द्वारि तिष्ठति नित्यशः ।।
एतेन दानवेन्द्राश्च तथान्ये बलदर्पिताः ।। २९।।
वशं नीता बलवता पूर्वपूर्वतराश्च ये ।।
बद्धश्चाहमनेनैव कालोऽयं दुरतिक्रमः ।।1.238.३० ।।
क एनं पुरुषं लोके वञ्चयिष्यति राक्षस ।।
लोकत्रयस्य सर्वस्य कर्ता हर्ता तथैव च ।। ३१ ।।
संहरत्येष भूतानि स्थावराणि चराणि च ।।
पुनश्च सृजते सर्वमनाद्यन्तो महेश्वरः ।। ३२ ।।
इष्टं चैव हुतं चैव तपस्तप्तं तथैव च ।।
सर्वस्येव हि लोकेशो धाता गोप्ता न संशयः ।। ३३ ।।
सर्वदेवमयश्चैव सर्वभूतमयस्तथा ।।
सर्वलोकमयश्चैव सर्वज्ञानमयस्तथा ।। ३४ ।।
सर्वरूपी महारूपी महाबालो महाभुजः ।।
स्मृत्वा स्तुत्वा तथेष्ट्वा च सर्वमस्मादवाप्नुयात् ।। ३५ ।।
एतच्छ्रुत्वा च वचनं रावणो निर्ययौ तदा ।।
न च तं पुरुषं तत्र ददर्श रजनीचरः ।। ३६ ।।
समेत्य रक्षोधिपतिः सहायश्चचार भूयः पृथिवीसमग्राम्।।
न चाप्यसौ कञ्चिदपश्यतान्यं लोकेषु धीरं त्रिदशारिमुख्यः ।। ३७ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये बलिरावणसमागमो नामाष्टत्रिंशदुत्तरद्विशततमोऽध्यायः ।। २३८ ।।
1.239
।। नाडायन उवाच ।। ।।
स कदाचिन्महीं सर्वां विचरन्धनदानुजः ।।
पश्चिमे सागरद्वीपे ददर्श पुरुषं शुभम् ।। १ ।।
जांबूनदसमप्रख्यं ज्वलितानलसुप्रभम् ।।
विश्वरूपधरं देवं वरदं कामरूपिणम् ।। २ ।।
धर्मस्तस्य तपश्चैव जगतः सिद्धिहेतुके ।।
ऊरू चाश्रित्य तस्थाते मन्मथः शिश्नमाश्रितः ।। ३ ।।
विश्वेदेवाः कटीभागे मरुतो बस्तिशीर्षके ।।
पादयोश्च धरादेवी पिशाचाश्च नखाश्रिताः ।। ४ ।।
मध्येष्टौ वसवस्तस्य समुद्राः कुक्षिमाश्रिताः ।।
पार्श्वेषु च दिशः सर्वाः सर्वस न्धिषु मारुतः ।। ५ ।।
पितरश्चाश्रिताः पृष्ठे हृदये च पितामहः ।।
गोदानानि पवित्राणि भूमिदानानि यानि च ।। ६ ।।
सुवर्णस्य च दानानि यकृल्लोमान्तराणि च ।।
अस्थिभागेषु शैलाश्च शिरासु सरितस्तथा ।। ७ ।।
मणिवक्षोऽभवत्तस्य शरीरे द्यौरव स्थिता ।।
कृकाटिकायां सन्ध्याश्च तलवाहाश्च ये घनाः ।। ८ ।।
बाहू धाता विधाता च भगः पूषा तथा करौ ।।
नागा घोरविषाः सर्वे करजेषु व्यवस्थियताः ।। ९ ।।
अग्निरास्यमभूत्तस्य स्कन्धौ रुद्रैरधिष्ठितौ ।।
दन्ता मासर्तवश्चैव दंष्ट्रास्तस्य तु वत्सरः ।। 1.239.१०।।
नासायां चाप्यमावस्या तच्छि द्रेषु च वासराः ।।
ग्रीवा तस्याभवद्वेदी वाणी चाथ सरस्वती ।। ११ ।।
नासत्यौ श्रवणौ चोभौ नेत्रे शशिदिवाकरौ ।।
वेदाङ्गानि च यज्ञाश्च तारा रूपाणि यानि च ।। १२ ।।
एतानि नररूपस्य तस्य देहाश्रितानि वै ।।
तेनातिकायेन तदा राक्षसः पाणिपीडितः ।।१३।।
मुमूर्च्छ सचिवाश्चास्या पलायन्त दिशो दश ।।
ऋग्वेदप्रतिमः श्रेष्ठः पद्ममालाविभूषितः ।। १४ ।।
क्रमेण च विवेशाथ पातालं गिरिसन्निभः ।।
उत्थाय च दशग्रीवश्चाहूय सचिवत्रयम्।।१५।।
क्व गतः सहसा ब्रूत प्रहस्तशुकसारणाः।।
एवमुक्ते राक्षसेन्द्रे राक्षसास्तमथाब्रुवन्।।१६।।
प्रविष्टः स नरोत्रैव देवदानवदर्पहा।।
तलेन तेनैव ततः प्रविवेश निशाचरः।। १७ ।।
एक एव महातेजा वरदानात्स्वयंभुवः ।।
प्रविश्य ददृशे तत्र सर्वाभरणभूषितान् ।। १८ ।।
नित्यो त्सवाच्छांतभयान्निष्कलान्पावकप्रभान् ।।
चतुर्भुजान्महारूपाञ्छ्रीवत्सकृतलाच्छनान् ।। १९ ।।
एकरूपधरान्यर्वान्रक्तमाल्यानुलेपनान् ।।
रागद्वेषविनिर्मुक्तान्सर्वशक्तीञ्जगत्प्रभून् ।। 1.239.२० ।।
नृत्येन गीतवाद्येन सेवमानाञ्जनार्दनम् ।।
मानुष्यं पूजनं कृत्वा देवदेवस्य चक्रिणः ।। २१ ।।
समीपं समनुप्राप्तास्तस्यैव परमेष्ठिनः ।।
दृष्टाः कोट्यः सहस्राणां दृष्ट्वा च रजनीचरः ।। २२ ।।
ऊर्ध्वरोमास्ततस्तस्माद्देशाद्देशमपासरत ।।
जगाम ददृशेऽप्यत्राप्यनौपम्यगुणं गृहम् ।। २३ ।।
ददर्श च तदा तत्र पुरुषं शयने स्थितम् ।।
पाण्डुरेण महार्घेण शयनासनवाससा ।। २४ ।।
शेते स पुरुषव्याघ्रः पावकेनावगुण्ठितः ।।
दिव्यगन्धानुऽलिप्तांगो दिव्याभरणभूषितः ।।२५।।
दिव्याम्बरधरा साध्वी त्रैलोक्यस्यैकभूषणम् ।।
बालव्यजन हस्ता वै रूपेणाप्रतिमा भुवि ।। २६ ।।
पादावुत्संग आरोप्य तस्य देवस्य चक्रिणः ।।
जिघृक्षुः सहसा साध्वीं राक्षसेभ्योऽपतद्बलात् ।। २७ ।।
अवगुण्ठनमात्रं वै दृष्टं तेन महात्मनः ।।
जहासोच्चैस्तदा देवो दृष्ट्वा तं राक्षसेश्वरम् ।। २८ ।।
तेजसा स तु दैवस्य रावणो लोकरावणः ।।
कृन्तमूलो यथा शाखी निपपात महीतले ।। २९ ।।
पतितं राक्षसेन्द्रं तं देवो वचनमब्रवीत् ।।
उत्तिष्ठ मरणं नास्ति साम्प्रतं ते निशाचर ।। 1.239.३० ।।
प्रजा पतिवरो रक्षो येन जीवसि साम्प्रतम् ।।
तमब्रवीत्तदा राजा राक्षसानां तु विह्वलः ।। ३१ ।।
को भवाच्छयने शेते युगान्तानलसन्निभः ।।
एवमुक्तः स तेनाथ प्रत्युवाच निशाचरम् ।। ३२ ।।
कि ते मया दशग्रीव वध्योसि न चिरान्मम ।।
एवमेव च मृत्युस्ते भविष्यति दशानन ।। ३३ ।।
यां जिघृक्षसि मोहात्त्वं भूयश्चैनां हरिष्यसि ।।
मानुष्यमहमासाद्य त्वां वधिष्यामि रावण ।। ३४ ।।
अस्याः कृते विशालाक्ष्याः साम्प्रतं गच्छ राक्षस ।।
श्रुत्वैतद्वचनं देवाद्रावणो वाक्यमब्रवीत् ।। ३५ ।।
नास्ति धन्यतरो लोके मया लोकत्रये विना ।।
त्वद्धस्तान्मरणं यस्य भविष्यति जगत्प्रभो ।। ।। ३६ ।।
यशस्यं श्लाघनीयं च त्वद्धस्तान्मरणं मम ।।
अथास्य गात्रे संपश्यद्रावणो भीमविक्रमः ।। ३७ ।।
त्रैलोक्यं सकलं राजन्विश्वरूपधरस्य तु ।।
दृष्ट्वैतद्रावणो राजन्विस्मयोत्फुल्ललोचनः ।। ३८ ।।
बहुमेने तथात्मानं निर्जगाम तथैव च ।।
देवदेवाभ्यनुज्ञातः स जगाम तदा गृहम् ।।३९।।
तस्य देवो वधार्थाय चतुर्मूर्त्तिर्जनार्दनः ।।
मानुष्यमागतं राजंस्तेन मा विग्रहं कृथाः ।। 1.239.४० ।।
रामो जनार्दनः साक्षात्सीता लक्ष्मीस्तथैव च ।।
तथा भरतशत्रुघ्नौ लक्ष्मणोऽपि महायशाः ।। ४१ ।।
विष्णोर्भागास्त्वया ज्ञेया विष्णुतुल्यपराक्रमाः ।।
शत्रुघ्नेन महत्कर्म लवणस्य वधे कृतम् ।।
तस्मादभ्यधिकं मन्ये भरतं धर्मवत्सलम् ।। ४२ ।।
न देवसङ्घैर्मनुजैर्न यक्षैर्न राक्षसैर्नागवरैर्न दैत्यैः ।।
रणे विजेतुं रघवस्तु शक्या येषां स नाथो हरिरप्रमेयः ।। ४३ ।। ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये रावणस्य महापुरुषदर्शनं नामैकोनचत्वारिंशदुत्तरद्विशततमोऽध्यायः ।। २३९ ।।
1.240
।। शैलूष उवाच ।। ।।
लवणस्य वधं ब्रह्मञ्श्रोतुमिच्छामि तत्त्वतः ।।
शत्रुघ्नेन कथं युद्धे लवणो विनिपातितः ।।१।।
।। नाडायन उवाच ।। ।।
अयोध्यायामयोध्यायां राजन्दाशरथौ स्थिते ।।
अनतीते कदाचित्तु वसन्ते रतिवर्धने।।२।।
नात्युष्णशीते ससुखे सर्वप्राणिमनोहरे ।।
उत्फुल्लशाखिसंलीनचारुस्वनशिलीमुखे ।। ३ ।।
कोकिलारावबहुले सप्रवालवनस्पतौ ।।
सुखार्ककिरणे काले विभूषितधरातले ।। ४ ।।
पत्रचूताग्रशाखास्थपरपुष्टनिनादिते ।।
गन्तुकामाः प्रवसिताः पन्था भूयो निवर्तिताः ।। ५ ।।
मञ्जर्यः सहकाराणां यत्र लग्ना शिलीमुखाः ।।
कामनामाङ्किता बाणाः कामस्येव शरीरिणाम् ।। ६ ।।
कामिन्यः कामिनां कामं यत्र त्यजयतो दृढम् ।।
समीरणेन दाक्षिण्यं सर्वत्र प्रकटीकृतम् ।। ७ ।।
मृदुप्रवातसंनुन्नप्रसूनयवशालिनी ।।
क्ष्वेडपङ्क्तिः सुरुरुचे वहमानेव निम्नगा ।। ८ ।।
आलिङ्गितास्तु मधुना समन्ताद्वनराजयः ।।
फुल्लैः पलाशैः प्रकटं रागं बभ्रुस्तदा स्वयम् ।। ९ ।।
समीरणेन मृदुना पुष्पपत्रार्चिता मही ।।
रात्रौ व्यभ्रस्य नभसः श्रियमूहे सशाद्वला ।। 1.240.१० ।।
वञ्चितैर्नवजातानां वत्सानां मृदुभाषिणाम् ।।
गोष्ठेषु शोभा महती यस्मिन्गंधर्वसत्तम ।। ११ ।।
हम्भारवविराविण्यः स्त्वरमाणपदक्रमाः ।।
यस्मिन्वत्सोत्सुका गावः प्रविशन्ति दिनक्षये ।।१२।।
स्तनं पिबद्भिर्मातॄणां वत्सैरुत्क्षिप्तपुच्छकैः ।।
मुहुर्मुदं परां यत्र मातृलीढैस्तु गोपिनः ।।१३।।
यत्र पुष्पोच्चयं चक्रुः कामिनीपाणिपल्लवाः ।।
पल्लवानां तु सादृश्याद्विज्ञाता नैव कामिभिः ।।१४।।
ऋतुकोकिलसंगीतौ द्विरेफध्वनिवल्लकीम् ।।
श्रुत्वैव ननृतुर्यत्र मृदुवातहता लताः ।।१५।।
तस्मिन्व्यतीते तु मधौ नरेन्द्र संतापयामास जगत्समग्रम् ।।
निदाघकालो लवणोपमस्तु संरुद्धमार्गोऽतिबृहत्पलाशः ।। १६ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येष्वयोध्यावसन्त वर्णनं नाम चत्वारिंशदुत्तरद्विशततमोऽध्यायः ।।२४०।।