विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायाः २३१-२३५

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायाः २२६-२३० विष्णुधर्मोत्तरपुराणम्
अध्यायाः २३१-२३५
वेदव्यासः
अध्यायाः २३६-२४० →

1.231
।। शेष उवाच ।। ।।
नृणां ग्रहगृहीतानां लक्षणं कथयाशु मे ।।
प्रतिषेधं च धर्मज्ञ तत्र मे संशयो महान् ।। ।। १ ।।
।। नाडायन उवाच ।। ।।
देवर्षिपितृभूतानां सततं चावमाननात् ।।
गुरुवृद्धद्विजाचार्यसिद्धतापसमर्दनात् ।। २ ।।
बलिमंगलहोमादि नियमाचारवर्जनात् ।।
व्रताध्ययनधर्मादिध्यानयोगव्यतिक्रमात् ।। ३ ।।
गुडामिषतिलक्षौद्रमेध्यैरुच्छेषितस्य वा ।।
श्मशानायतनाभ्यासविण्मूत्रोत्सर्जनादपि ।। ४ ।।
रात्रौ चतुष्पथारण्यशून्यवेश्मनिवेशनात् ।।
भोजनाद्भिन्नभाण्डेषु तथा मंत्रच्छलादपि ।। ५ ।।
श्मशानचैत्यवृक्षादि मैथुनादिनिषेवणात् ।।
अवमानादभीघातान्मङ्गलानामदर्शनात् ।। ६ ।।
ईर्ष्यया बन्धुशापाच्च रथ्यावस्कन्धसेवनात ।।
ऐश्वर्यनाशाच्छोकाच्च दर्पोत्सेकातिहर्षणात् ।। ७ ।।
निर्लज्जनास्तिकानां हि त्रासितानां विशेषतः ।।
गुरुभिः सम्परित्यागात्कार्त्तघ्न्यात्साधुनिन्दनात् ।। ८ ।।
दुःखात्प्रजननात्स्त्रीणां मिथ्या चैव प्रभाषणात् ।।
तुषकेशकपालास्थिकार्पासादिष्वधिष्ठितात् ।। ९ ।।
प्राणिनां सुखदुःखेषु तथा मृतकसूतके ।।
अत्यर्थनक्तस्नानेषु ग्रहा गृह्णन्ति मानवान् ।। 1.231.१० ।।
बलैश्वर्यविसंयोगाद्देहमाविशति ग्रहः ।।
जीवः कुक्षिं यथा दृश्यः प्रविशन्नेव दृश्यते ।। ११ ।।
वनस्पतीन्वा ऋतवो विज्ञेयाश्च तथा ग्रहाः ।।
कारणैर्नवभिदेहं ग्रहो गृह्णाति देहिनाम् ।।१२।।
रौद्रस्वभावाद्धिंसार्थी रत्यर्थी बलिकामुकः ।।
वित्रासार्थी बलोद्रेकाद्रौद्रात्प्राग्दैहिकाद्भयात् ।। १३ ।।
प्रयुक्तोन्येन मन्त्रैश्च ग्रहो गृह्णाति मानवान् ।।
कारणानि तवोक्तानि यद्यप्येतानि पार्थिव ।। १४ ।।
तथापि त्रय एवात्र विज्ञेयानि विपश्चिता ।।
तेषामन्तर्भवन्त्येते यस्मात्पार्थिवसत्तम ।। १५ ।।
बलिकामस्तु रत्यर्थी हिंसार्थी च तथा ग्रहः ।।
असाध्यं बलिकामं तु कृच्छ्रसाध्यं रतिग्रहम् ।। १६ ।।
हन्तुकाममसाध्यन्तु विना मन्त्रबलं महत् ।।
सांत्वपूर्वं ग्रहो विष्टो मधुरं यः प्रजायते ।। १७ ।।
ततश्चान्तरमासाद्य विचित्रं याचते बलिम् ।।
पानमाल्यानुलेपांश्च वैद्यं दृष्ट्वा नमस्यति ।। १८ ।।
बलिकामस्य लिङ्गानि प्रोक्तान्येतानि वै मया ।।
रमते नृत्यति शुचिस्तथा हसति गायति ।। १९ ।।
गंधमाल्याम्बरस्नानधूपोद्वर्त्तनसेवकः ।।
कथा विचित्राः कुरुते मधुरं सम्प्रभाषते ।। 1.231.२० ।।
अलंकृतं चाविशति वर्जयत्यनलंकृतम् ।।
रतिकामस्य रूपाणि ज्ञेयान्येतानि बुद्धिना ।। २१ ।।
यश्चाविष्टो विद्रवति सिंहव्याघ्रतरक्षुपम् ।।
युद्धमारभते कर्त्तुं गजादिभिरभीतवत् ।। २२ ।।
भृशं ताडयति स्वाङ्गं पतत्यग्नौ पतङ्गवत् ।।
राजद्वेषाणि कुरुते विजने रमतेऽधिकम् ।। २३ ।।
करोति मरणोपायान्हन्तुं कामार्दितो नरः ।।
लोमहर्षोङ्गमांद्यं च छायावैकृत्यमेव च ।। २४ ।।
अमानुषोत्साहबलं विहाराहारचेष्टितम् ।।
द्वौ वा त्रयो वा नेत्रेऽस्य संपश्यन्ते कुमारकाः ।। २५ ।।
निमीलिताक्षितात्यर्थं रक्तादिवमनं तथा ।।
सामान्यमेतदुद्दिष्टं गृहीतस्य तु लक्षणम् ।। २६ ।।
मुक्तस्य लक्षणं चातः प्रवक्ष्यामि निबोधत ।।
भूमौ विनिपतत्याशु तथा संज्ञां प्रपद्यते ।। २७ ।।
परामृशति केशांश्च वासांस्याभरणानि च ।।
शुभाशुभं चात्मकार्यं पृच्छति स्म सुहृज्जनम् ।। २८ ।।
अतः परं प्रवक्ष्यामि देवादिग्रहलक्षणम् ।।
चिकित्सितेन संयुक्तं तन्निबोध जनाधिप ।। २९ ।।
नदीकूलाद्रिशिखररुचिः प्रासादमेव च ।।
शुचिशील समाचारो ज्ञेयो देवग्रहार्द्दितः ।। 1.231.३० ।।
देवानां पूजनं तस्य पुष्पधूपफलाक्षतैः ।।
गन्धदीपप्रदानैश्च वह्निसन्तर्पणैस्तथा ।। ३१ ।।
गोरसैश्च स शाल्यन्नैर्ब्राह्मणैः स्वस्तिवाचनैः ।।
कर्त्तव्यं विदुषा नित्यं ततः संपद्यते सुखी ।। ३२ ।।
उच्छिष्टान्भैरवान्रावान्विरसं कुरुतेऽधिकम् ।।
तस्मिंस्तथोत्सवान्यक्षान्व्रतानध्ययनानि च ।। ३३ ।।
बहुशो वटुचाश्नाति वस्त्रं पाटयति स्वकम् ।।
असुरग्रहदुष्टस्य रूपमेतद्विनिर्द्दिशेत् ।। ३४ ।।
दैत्यसंपूजनं तस्य कार्यं मांससुरासवैः ।।
रक्तैः पुष्पैर्धूपदीपैस्तथा बीजसमुद्भवैः ।। ३५ ।।
गन्धर्ववाद्यनिर्घोषं श्रुत्वा हृष्टः प्रनृत्यति ।।
तीर्थोद्याननदीतीरगन्धमाल्यादिसेवनात् ।। ३६ ।।
यथाकामं विचरति गन्धर्वोन्मादितो नरः ।।
गन्धैर्माल्यैश्च विविधैर्गीतवाद्यैस्तथैव च ।। ३७ ।।
गन्धर्वपूजनं कार्यं तेन संपद्यते सुखी ।।
निद्रालुरलसो दुष्टो दर्वीवत्कुरुते करौ ।। ३८ ।।
गर्भवासगुहासेवी नरोन्मत्तं विदुर्बुधाः ।।
नागानां पूजनं तस्य कार्यं कुल्माषपर्पटैः ।। ३९ ।।
पायसोल्लोपिकापूपैः पद्मोत्पलबिसैस्तथा ।।
अमत्सरी मृदुर्वीरः प्रियवाग्बहुभोजनः ।। 1.231.४० ।।
पृथुविह्वलताम्राक्षः तथा वै गोरसप्रियः ।।
भूतोन्मादसमाविष्टो लिङ्गैरेतैर्विनिर्दिशेत् ।। ४१ ।।
कुसुमैर्बहुवर्णैश्च गोरसैर्विविधैस्तथा ।।
भूतपूजा तु कर्त्तव्या तेन सम्पद्यते सुखी ।। ४२ ।।
शून्यागारश्मशानाद्रिचतुष्पथनिषेवकः ।।
रात्रौ चरति योच्छिष्टः पिशाचोन्मादितो नरः ।। ४३ ।।
पिशाचयजनं तस्य कर्त्तव्यं पललामिषैः ।।
कण्टकीसम्भवैः पुष्पैः कृष्णवर्णैस्तथैव च ।। ४४ ।।
अव्यक्तभाषी रक्ताक्षो हास्ये चोच्चस्वरस्तथा ।।
रौद्रं निरीक्षतेऽत्यर्थं यक्षेनोन्मादितो नरः ।।४५।।
कुल्माषघृतपिण्याकपललोल्लोपिकागुडैः ।।
यक्षाणां पूजनं तस्य कर्तव्यं दोषशान्तये ।। ४६ ।।
उद्विग्नचेताः शीतश्च नातिशोकपरायणः ।।
राक्षसेन गृहीतश्च भवत्योष्ठविलेहकः ।। ४७ ।।
पक्वामिषेण मांसेन रुधिरेण तथैव च ।।
राक्षसानां बलिः कार्यस्तस्य दोषप्रशान्तये ।। ४८ ।।
भस्मपांशुरजोध्वस्तो मलिनो मलिनाम्बरः ।।
प्रेतगृहीतो भवति विकृतो ध्वस्तमस्तकः ।। ४९ ।।
ओदनं मधुपानीयं सर्पिः क्षीरसमन्वितम् ।। 1.231.५० ।।
प्रेतानां तत्र दातव्यं तेन संपद्यते सुखी ।।
शुचिः शुचिसमाचारः सन्ध्याचारी तिलप्रियः ।। ५१ ।।
पितृग्रहगृहीतस्य रूपमेतद्विनिर्दिशेत ।।
तिलगोरसपुष्पान्नमधुमूलफलैः शुभैः ।। ५२ ।।
दीपैर्दानैस्तथा नित्यं प्रणिपातेन चाज्ञया ।।
पितॄणां पूजनं तस्य कर्त्तव्यं दोषशान्तये ।। ५३ ।।
अधीते जपते चैव शुचिस्तिष्ठति चाप्यथ ।।
योगासक्तस्तथार्षेण गृहीतो मानवो भवेत् ।। ५४ ।।
हविर्गोरसपुष्पाद्यैस्तथाऽध्ययनसंस्तवैः ।।
ऋषीणां पूजनं कार्यं तस्य दोषप्रशान्नये ।। ५५ ।।
कर्मप्रसक्तो भवति न निद्रां भजते दिवा ।।
पौरुषेण गृहीतस्य लक्षणं समुदाहृतम ।। ५६ ।।
ब्राह्मणान्भोजयेत्तत्र मिष्टमन्नं सुसंस्कृतम् ।।
गन्धमाल्योज्वलान्राजंस्तस्य दोषप्रशान्तये ।। ५७ ।।
स्कन्दग्रहगृहीतानां बालानां शृणु लक्षणम ।।
रोदिति स्तनति ध्याति भूमौ स्वपिति चासकृत् ।। ५८ ।।
असम्बद्धप्रलापी वा ज्ञेयः स्कन्दग्रहार्द्दितः ।।
रक्तैः पुष्पैः फलैर्मूलैः बालक्रीडनकैस्तथा ।। ५९ ।।
घण्टा च कुक्कुटैः पूजा बलिना विविधेन च ।।
पताकाभिश्च कर्त्तव्या कुमारस्य महात्मनः ।। 1.231.६० ।।
अतः परं लोकहितं तवाद्य सर्वग्रहघ्नान्निपुणान्प्रयोगान् ।।
वक्ष्यामि येषां हि निषेवणेन ग्रहैर्विमुच्यन्ति नरा नरेन्द्रान् ।। ६१ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायन वाक्ये ग्रहलिङ्गानि नामैकत्रिंशदुत्तरद्विशततमोऽध्यायः ।। २३१ ।।
1.232
।। नाडायन उवाच ।।
अभ्यङ्गोत्सादनं स्नानं धूपो रक्षाबलिर्घृतम ।।
नेत्राञ्जनं प्रधवनं नवग्रहहराः क्रियाः ।। १ ।।
सर्पगन्धा वचा कुष्ठमुस्ताक्षेपणचन्दनैः ।।
सक्षीरमूत्रैर्विपचेत्तैलं सर्वग्रहापहम् ।। २ ।।
बिल्वमध्यं ब्रह्मदत्त गवाक्षीबृहतीफलम् ।।
उत्सादनमिदं श्रेष्ठं श्लक्ष्णपिष्टं जलेन तु ।। ३ ।।
उशीरकुष्ठमञ्जिष्ठादेवदारुमनःशिलाः ।।
श्रीवेष्टकस्तथा कौन्ती हरितालैलवालुके ।। ४ ।।
एतच्चूर्णीकृतं सर्वं पञ्चगव्यांशमिश्रितम् ।।
सर्वग्रहप्रशमनं स्नानमायुष्यमुत्तमम् ।।५।।
सर्षपाश्च खुरं कुष्टं घृतं भल्लातकं वचा।।
पूतीकमजमोदा च धूपः सर्वग्रहापहः ।।६।।
शस्त्रं वा रोचनं शस्तं सुवर्णं मणिमौक्तिकम् ।।
विषं सवत्सां धेनुं च मत्तं छागं तथैव च ।। ७ ।।
पूर्णकुम्भं च मंत्राश्च वीणा चन्दनमेव च ।।
मयूरपक्षान्रजतं समार्गणगुणं धनुः ।। ८ ।।
भल्लातकानि सर्पिश्च रक्षार्थं धारयेद्गृहे ।।
पुष्पैर्धूपैस्तथा गन्धैर्भक्ष्यैर्नानाविधैस्तथा ।। ९ ।।
पूर्णकुम्भैः सकुल्माषैर्गोरसैश्चन्दनेन च ।।
धूपैरन्नप्रकारैश्च बलिः कार्यो विजानता ।। 1.232.१० ।।
कायस्थां ज टिलां वीरां वयस्थां नकुलीद्वयम् ।।
जयां च विजयां चैव मानां पर्पटकम्बरीम् ।। ११ ।।
मर्कटीं सूकरीं छत्रामतिच्छत्रां पलङ्कषाम् ।।
रामां पूतनकां केशीं मारटां कटुकां वचाम् ।।१२।।
चौरकां विष्णुदत्तां च वृष्टिकाण्डीं च चूर्णयेत् ।।
पुराणमेभिर्विपचेद्घृतं तोये चतुर्गुणे ।। १३ ।।
महापैशाचकं नाम सर्वग्रहनिवारणम् ।।
रसाञ्जनं त्रिकटुकं मञ्जिष्ठा समनःशिला ।। १४ ।।
समानि च्छागमूत्रेण पिष्ट्वा वर्तिन्तु कारयेत् ।।
छाया शुष्कं तु तं कुर्यादञ्जनं ग्रहनाशनम् ।। १५ ।।
श्वेतज्योतिष्मतीं व्योषं वस्त्रसूत्रेण वेष्टितम् ।।
छायाशुष्के पुनः पिष्टं ज्ञेयं प्रशमनं हितम् ।। ।। १६ ।।
संपूजनं देवगुरुद्विजानां भक्तिः परा चक्रगदाधरस्य ।।
येषां न तेषां प्रभवन्ति दीपा ग्रहोद्भवा भूमिपतिप्रधान ।। १७ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ग्रहबाधाप्रतिषेधो नाम द्वात्रिंशदुत्तरद्विशततमोऽध्यायः ।। २३२ ।।
1.233
।। शैलूष उवाच ।। ।।
स्कन्दस्य शरणं प्राप्तान्ग्रहाञ्श्रुत्वा शतक्रतुः ।।
यश्चकार महाभाग तन्ममाचक्ष्व पृच्छतः ।। १ ।।
।। नाडायन उवाच ।।
स्कन्दस्य शरणं प्राप्ताञ्श्रुत्वा शतमखो ययौ ।।
देवदेवगणैः सार्द्धं स्कन्दो यत्र व्यवस्थितः ।। २ ।।
स्कन्दं देवेश्वरो दृष्ट्वा दीप्ततेजःसमद्युतिम् ।।
तुष्टाव राजशार्दूल प्रयतः सुसमाहितः ।। ३ ।।
।। शक्र उवाच ।। ।।
देवदेवं नमस्यामि कुमारं वरमच्युतम् ।।
कार्तिकेयं दुराराध्यं वह्नितेजः समुद्भवम् ।। ४ ।।
उमाशङ्करजं भीमं गङ्गया जठरे धृतम् ।।
शक्तिहस्तं विशालाक्षं षण्मुखं दीप्ततेजसम् ।। ५ ।।
भक्तानुकम्पिनं दांतं ब्रह्मण्यं वरदं प्रभुम् ।।
काकपक्षधरं शांतं शिखण्डकविभूषितम् ।। ६ ।।
रक्ताम्बरं महाबाहुं मयूरवरगामिनम् ।।
घण्टाप्रियं गणाध्यक्षं महाबलपराक्रमम् ।। ।। ७ ।।
देवसेनापतिं देवं सर्वलोकहितेप्सया ।।
षष्ठ्यान्तु शुक्लपक्षस्य ये च त्वां भौमवासरे ।।८।।
कृत्तिकास्वर्चयिष्यन्ति यथालाभं पृथक्पृथक् ।।
न तेषां दुर्ल्लभं किञ्चिद्भविष्यति सुरोत्तम ।। ९ ।।
द्वियोगे द्विगुणं तेषां फलं स्कन्द भविष्यति ।।
त्रियोगे पूजनं कृत्वा भवतः सुरसत्तम ।। 1.233.१० ।।
अक्षयं फलमाप्स्यन्ति नात्र कार्या विचारणा ।।
वैशाखमासादारभ्य पञ्चम्यां य उपोषितः ।। ११ ।।
भवन्तं पूजयेत्षष्ठ्यां संवत्सरमतन्द्रितः ।।
पुत्रार्थी लभते पुत्रान्धनकामो धनानि च ।। १२ ।।
मृतश्च प्राप्नुयात्स्वर्गं त्वयि तुष्टे हरात्मज ।।
स्तोत्रेण च मदीयेन ये स्तोष्यन्ति तव प्रभो ।। ।। १३ ।।
लोकद्वयेऽपि ते कामान्प्राप्स्यन्ति मनसेप्सितान् ।।
।। स्कन्द उवाच ।। ।।
पिता मे दैवतं शक्र महादेवः प्रतापवान् ।। १४ ।।
तस्याज्ञया करिष्यामि यन्मां वक्ष्यति वासव ।।
।। नाडायन उवाच ।। ।।
ततः प्रादुरभूत्तत्र देवदेवस्त्रिलोचनः ।। १५ ।।
अभ्यषिञ्चत्कुमारं च ब्रह्मणा सहितः प्रभुः ।।
सेनापत्येन देवानां सोऽभिषिक्तस्तदा प्रभो ।। १६ ।।
जघान महिषं नाम दानवं देवकण्टकम् ।।
महिषेन समान्वीर्ये जघानायुतशोऽपरान् ।। १७ ।।
बहुत्वाद्दानवान्वीरः स्कन्दः परबलार्द्दनः ।।
यदा हन्तुं न शक्नोति तदा देवस्त्रिलोचनः ।। १८ ।।
जघान मनसा तत्र ततः शूलवरायुधः ।।
जघान दानवानन्याञ्शतशोऽथ सहस्रशः ।। १९ ।।
भक्ताऽनुकम्पी भगवांस्त्रिनेत्रो देवारिसंघान्विनिपात्य संघे ।।
कृत्वा त्रिलोकीं च तदा प्रहृष्टां जगाम कैलासगिरिं महात्मा ।। 1.233.२० ।। ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमकाण्डे मार्कण्डेयवज्रसंवादे महिषवधो नाम त्रयस्त्रिंशदुत्तरद्विशततमोऽध्यायः ।। २३३ ।।
1.234
।। नाडायन उवाच ।। ।।
तस्यैव देवदवस्य प्रभावमपरं शृणु ।।
यष्टुकामैः सुरैः पूर्वं यज्ञे भागो न कल्पितः ।। १ ।।
यदा राजंस्त्रिनेत्रस्य तदा क्रुद्धेन शंभुना ।।
यज्ञवाटं ततो गत्वा देवा वित्रासिता बलात् ।। २ ।।
पुरोडाशं भक्षयित्वा पूष्णो दन्तानशातयत ।।
भगस्य नयनं वामं बभञ्ज परवीरहा ।। ३ ।।
क्रुद्धं दृष्ट्वा महादेवं मृगरूपधरस्तदा ।।
प्राद्रवत्सहसा यज्ञो नरनारायणाश्रमम् ।। ४ ।।
तमन्वयो महातेजा बाणचापधरो हरः ।।
यज्ञानुसारिणं प्राप्तं हरं बाणधनुर्धरम् ।। ५ ।।
नारायणस्तु तं चक्रे विह्वलं कण्ठपीडनात् ।।
विह्वले तु महादेवे यज्ञो दिवमथाश्रितः ।। ६ ।।
हरोऽपि लब्धसंज्ञस्तमन्वयौ दिवि सत्त्वरः ।।
न शशाक मृगं वेद्धुं यदा धर्मश्च तेजसा ।। ७ ।।
ततस्तं बोधयामास ब्रह्मा शुभचतुर्मुखः ।।
भगस्य पूर्णं च तदा प्रसादमकरोत्पुनः ।। ८ ।।
यज्ञस्य चाभयं दत्त्वा क्रीडयान्वेति तं पुनः ।।
तारामृगश्च गगने महादेवानुगः सदा ।। ९ ।।
दृश्यते स महाभाग रात्रौ गगनभूषणः ।।1.234.१०।।
क्रुद्धेन रुद्रेण सुरा निरस्ताः स्वस्थाः प्रसन्नेन कृताश्च भूयः ।।
तस्मात्प्रसन्नास्तु भवाय लोके क्रुद्धश्च लोकान्तकरः प्रदिष्टः ।। ११ ।।
इति श्रीविप्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे यजविध्वंसनो नाम चतुस्त्रिंशदुत्तरद्विशततमोऽध्याय ।।२३४।।
1.235
।। नाडायन उवाच ।।
तस्यैव देवदेवस्य प्रभावमपरं शृणु ।।
तेन विध्वंसितो यज्ञो यदा दक्षस्य धीमतः ।। १ ।।
दक्षस्य यजमानस्य गङ्गाद्वारे पुरा प्रभो ।।
अनाह्वाने च शर्वस्य देवीप्रकुपिताऽभवत ।। २ ।।
देव्याः प्रकोपाच्च तथा क्रुद्धः शूलधरस्तदा ।।
वीरभद्रेति विख्यातं क्रोधजं सृष्टवान्गणम् ।। ३ ।।
भद्रकाली स्वकाद्देहात्सृष्टवत्यथ पार्वती ।।
गणैरनुगतो राजन्वीरभद्रो महायशाः ।। ४ ।।
भद्रकालीं तथा गत्वा दक्षयज्ञमशातयत् ।।
विध्वस्यमानं यज्ञन्तु पार्वत्या सहितः शिवः ।। ५ ।।
दृष्टवांस्तत्र राजेन्द्र भद्रकर्णेश्वरः स्थितः ।।
विध्वस्यमाने यज्ञे तु दक्षो वचनमब्रवीत् ।। ६ ।।
वीरभद्रं महाभागं भद्रकालीं तथैव च ।।
कौ भवन्ताविह प्राप्तौ मम यज्ञोपघातकौ ।। ७ ।।
वीरभद्र उवाच ।।
क्रुद्धेन शङ्करेणावां भागस्यापरिकल्पनात् ।।
यज्ञविध्वंसनार्थाय प्रेषितौ ते परन्तपौ ।। ८ ।।
भद्रकर्णेश्वरं शर्वं गच्छ शीघ्रं प्रसादय ।।
नाडायन उवाच ।।
वीरभद्रवचः श्रुत्वा गत्वा तुष्टाव शङ्करम् ।। ९ ।।
अश्वमेधसहस्राग्र्यं फलं लेभे त्रिलोचनात् ।।
त्रिलोचनस्तदा तुष्टो वीरभद्रमभाषत ।। 1.235.१० ।।
यत्रस्थेन त्वया यज्ञो दक्षस्याद्य विनाशितः ।।
तत्र स्थाने तु सततं सान्निध्यं त्वं करिष्यसि ।। ११ ।।
पूजां च विपुलां तत्र प्रास्प्यसे मत्प्रसादजाम् ।।
ये च त्वां पूजयिष्यन्ति वीरभद्र गणेश्वर ।। १२ ।।
ते नाकपृष्ठं यास्यन्ति नात्र कार्या विचारणा ।।
दक्षेण च समाहूता भद्रकर्णेश्वरे त्वया ।। १३ ।।
सरस्वती महाभागा प्रविष्टा जाह्नवीजलम् ।।
सङ्गमे च तयोः स्नात्वा पूजां मम करिष्यति ।। १४ ।।
यः पुमान्स गणेशत्वं मम प्राप्स्यत्यसंशयम्।।
गङ्गाद्वारं कुशावर्तं बिल्वकं नीलपर्वतम् ।।१५।।
तथा कनखलं तीर्थं सर्वपापप्रमोचनम् ।।
भविष्यति महाभाग तथैव च मनोहरम् ।। १६ ।।
प्रजापतेर्यज्ञभुवं समासाद्य यतस्ततः ।।
मोक्ष्यते पातकं सर्वं त्रिदिवं च गमिष्यति ।। १७ ।।
भूमिष्ठमुद्धृतात्पुण्यं तस्मात्प्रस्रवणोदकम्।।
तस्मादपि तथा पुण्यं सारसं परिकीर्तितम् ।।
सारसान्नैर्झरं पुण्यं नादेयमपि नैर्झरात् ।। १८।।
तस्मादपि च गाङ्गेयं तदिहापि विशेषतः ।।
सर्वत्र दुर्लभा गङ्गा त्रिषु स्थानेषु दुर्लभा।।।१९।।
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे।।
गङ्गाद्वारे कुशावर्त्ते बिल्वके नीलपर्वते ।।1.235.२०।।
स्नात्वा कनखले तीर्थे न पुनर्जन्मभाग्भवेत् ।।
तीर्थपञ्चकमेतद्धि यत्रैव गणनायकः ।। २१ ।।
तत्र सन्निहितो ब्रह्मा तत्राहं तत्र केशवः ।।
तत्र देवगणाः सर्वे ऋषयश्च तपोधनाः ।। २२ ।।
तत्समीपे च ते स्थानं त्विदं दत्तं मया तव ।।
तत्र त्वं सततं वत्स लोकात्पूजामवाप्स्यसि ।। २३ ।।
एवमुक्त्वा महातेजा वीरभद्रं महेश्वरः ।।
उवाच वचनं देवो भद्रकालीं महेश्वरः ।।२४ ।।
महेश्वर उवाच ।।
नमोस्तु ते महाभागे वरदे कामरूपिणि ।।
अष्टादशभुजे स्वस्ति शूलमुद्गरधारिणि ।। २९ ।।
पीतकौशेयवसने शशाङ्कसदृशानने ।।
नीलोत्पलदलश्यामे गजकुम्भोपमस्तनि ।। २६ ।।
वरदे चारुसर्वाङ्गि सर्वाभरणभूषिते।।
कमण्डलुधरे देवि देवारिबलनाशिनि।।२७।।
अदितिश्च दितिश्चैव वनिता सिद्धिरेव च।।
रात्रिर्निद्रा प्रभा कान्तिर्बुद्धिर्लक्ष्मीः सरस्वती।।२८।।
धृतिः कीर्तिः स्वधा स्वाहा त्वमेव वरवर्णिनी ।।
त्वां जनाः पूजयिष्यन्ति सर्वकामप्रदां शुभाम्।।२९।।
नवम्यां शुक्लपक्षस्य लोकात्पूजामवाप्स्यसि ।।
नवम्यां पूजयिष्यन्ति ये त्वा सम्यगुपोषिताः।।1.235.३०।।
तेषां त्वं काम्यदा सौम्ये भविष्यसि न संशयः ।।
कन्दरेषु च शैलानां वनानां गहनेषु च ।। ३१ ।।
रंस्यसे त्वं विशालाक्षि तदा पूजामवाप्स्यसि ।।
ये च त्वां मत्प्रभावज्ञाः पूजयिष्यन्ति मानवाः ।।३२।।
न तेषां दुर्लभं किञ्चिदिहलोके परत्र च ।।
ये चेदं मत्कृतं स्तोत्रमभिदास्यन्ति भक्तितः।।३३।।
ते सर्वे भयनिर्मुक्ता भविष्यन्ति न संशयः ।।
नाडायन उवाच।।
एतावदुक्त्वा वचनं तत्रैवान्तरधीयत।।३४।।
दक्षोपि च वरं लब्ध्वा मुदं लेभे त्रिलोचनात्।।३५।।
एवं प्रभावो वरदः स देवो भक्तानुकम्पी जगतो निवासः ।।
कस्यास्य वक्तुं नृपवर्य तस्य गुणान्प्रवक्तुं सकला हि शक्तिः ।। ३६ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये दक्षयज्ञविध्वंसनो नाम पञ्चत्रिंशदुत्तरद्विशततमोऽध्यायः ।। २३५ ।।