विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः २६६-२७०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः २६१-२६५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः २६६-२७०
वेदव्यासः
अध्यायाः २७१-२७५ →

3.266
।। हंस उवाच ।। ।।
तपसो हि परं नास्ति तपसा विदन्ते महत् ।।
प्रजापतीनां या शक्तिः प्रजाः कर्तुं द्विजोत्तमाः ।। १ ।।
तपसा संप्रदाने न ऋषीणां ज्ञानमेव च ।।
बहवो दिवि मोदन्ते प्रसादात्तपसो जनाः ।। २ ।।
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ।।
आयुःप्रकर्षं भोगांस्तु तपसा विन्दते महत् ।। ३ ।।
ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम् ।।
तपसा प्राप्यते सर्वं यत्किञ्चिन्मनसेप्सितम् ।। ४ ।।
रसायनानि मन्त्राश्च विद्यास्त्वौषधयस्तथा ।।
नातप्ततपसः सिद्धिं प्रयान्ति द्विजपुङ्गवाः ।। ५ ।।
यत्कार्यं किञ्चिदास्थाय पुरुषस्तप्यते तपः ।।
सर्वं तस्मादवाप्नोति परत्रेह च मानवः ।। ६ ।।
ब्रह्महा च सुरापश्च स्तेनश्च गुरुतल्पगः ।।
तपसा मुच्यते जन्तुः सर्वतश्चापि मुच्यते ।। ७ ।।
तपसैव सुतप्तेन मोक्षमाप्नोति मानवः ।।
शक्रवैवस्वताऽम्भोपधनाधिपहुताशनैः ।। ८ ।।
स्थानं महत्तरं प्राप्तं तथा रुद्रार्करात्रिपैः ।।
न चास्ति तत्सुखं लोके यद्विना तपसा भवेत् ।। ९ ।।
तपसैव सुखं सर्वमिति धर्मविदो विदुः ।।
अष्टाशीतिसहस्राणां मुनीनामूर्ध्वरेतसाम् ।। 3.266.१० ।।
तपसा दिवि मोदन्ते त्रिदशैः सहिता द्विजाः ।।
पुरुषस्तु समारम्भान्निष्फलान्वीक्ष्य चात्मनः ।। ११ ।।
तपः कुर्यात्प्रयत्नेन न ह्यनुप्तं प्ररोहति ।।
कीटाः पतङ्गाः पशवो वयांसि च तथा द्विजाः ।। १२ ।।
स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ।।
यद्दुस्तरं यद्दुरापं यद्दुर्गं यच्च दुष्करम् ।। १३ ।।
सर्वं तत्तपसा साध्यं तपो हि दुरतिक्रमः ।।
यस्मिन्कर्मण्यपि कृते मनसः स्यादलाघवम् ।। १४ ।।
तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत्।।
यत्किञ्चिदेनः कुर्वन्ति मनोवाक्कर्मभिर्जनाः।।१५।।
तत्सर्वं विनुदन्त्याशु तपसैव तपोधनाः।।
तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः।। १६ ।।
सत्याच्च प्रतिगृह्णन्ति कामान्संवर्धयन्ति च ।।
ब्रह्मा प्रजेश्वरो देवो महादेवस्तथा द्विजाः ।। १७ ।।
नित्यमेव तपस्यन्ति तपः परम दुस्तरम् ।।
यस्येदं भुवनं सर्वं यश्च सर्वमयोऽच्युतः ।। १८ ।।
यश्च धाता जयत्यस्मिन्स विष्णुः परमेश्वरः ।।
नित्यमेव महाभागास्तपश्चरति दुश्चरम् ।।१९ ।।
भगवान्वासुदेवस्तु तपः परमिहोच्यते ।।
अष्टौ देवगणांल्लोके प्राप्नोति तपसा नरः ।। 3.266.२० ।।
त्रैलोक्यकरणस्यापि शक्तश्च तपसा भवेत् ।।
दिव्यानाञ्च तथास्त्राणां शक्तो भवति धारणात् ।। २१ ।।
लोके सुराणां भुवि वा द्विजेन्द्रा न विद्यते तत्पुरुषस्य किञ्चित् ।।
तपः प्रकर्षेण परेण लब्धिर्न विद्यते यस्य महानुभावाः ।।२२ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु तपःप्रशं सावर्णनोनाम षट्षष्ट्युत्तरद्विशततमोऽध्यायः ।। २६६ ।।
3.267
हंस उवाच ।।
वशे जगदिदं प्राहुः शूरबाहुषु लम्बते ।।
शूराणामथ सर्वेषां शौर्यमेव विशिष्यते ।।१।।
ब्राह्मणार्थे गवार्थे वा स्वाम्यर्थे मित्रकारणे ।।
आहृतौ ये प्रपद्यन्ते नाकपृष्ठं व्रजंति ते ।।२।।
धनापहारे संप्राप्ते संप्राप्ते दारविप्लवे ।।
(आत्मनश्च परित्राणे युध्यमानो दिवं व्रजेत् ।। ३ ।।
क्षत्रविट्छूद्रविप्राणां युद्धमेव परायणम् ।।)
आत्मनश्च परित्राणे संप्राप्ते देशविप्लवे ।।४।।
दारनाशे तु संप्राप्ते दक्षिणानां च सङ्करे ।।
विप्रस्तु शस्त्रं गृह्णीयात्संकरे चाप्युपस्थिते ।। ५ ।।
वृत्तिन्तु कल्पयेद्विप्रः क्षत्त्रधर्मेण वा न वा ।।
संग्रामान्न निवर्त्तेत तस्य धर्मं हितं तदा ।। ६ ।।
एकपुत्रं तृणमुखं तवास्मीति च वादिनम् ।।
स्त्रीबालरक्षकम्भीरुं पलायनपरायणम् ।। ७ ।।
व्यायुधं व्यसनस्थं च परेण सह संगतम् ।।
धुर्यं च धुर्यवाहं च युद्धप्रेक्षकमेव च ।।८।।
न हन्तव्या द्विजश्रेष्ठा युद्धधर्मं विजानता ।।
युद्धं न कुर्याद्या नस्थः पुरुषेण पदातिना।।९।।
समेन युद्धमाकाङ्क्षस्तथैवाभ्यधिकेन वा।।
नरः प्राप्नोति नरकं हीनहा तद्धतोऽपि वा ।।3.267.१०।।
अवर्मयित्वा यो वाहं चात्मानं वर्मयेन्नरः ।।
स शीघ्रं नरकं याति सुकृतेनापि कर्मणा ।। ११।।
कथितो युद्धधर्मोऽयं फलं चातो निबोधत ।।
धर्मलाभोऽर्थलाभश्च यशोलाभश्च तस्य वै।।१२।।
यः शूरो युद्ध्यते युद्धे विमृन्दन्परवाहिनीम्।।
तस्य धर्मार्थकामाश्च यज्ञाश्चैवाप्तदक्षिणाः।।१३।।
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः।।
न तत्फलमवाप्नोति संग्रामे यदवाप्यते ।। १४ ।।
असृग्यदास्य गात्रेभ्यो विनिर्याति रणाजिरे ।।
तेनैव सार्धं निर्याति तस्य पापं शरीरतः ।।१५।।
सहते च परं क्लेशं प्रहाराणां च रोपणे ।।
यद्वीरः समवाप्नोति तपो नास्त्यधिकं ततः ।। १६ ।।
यस्य युद्धे प्रहारा ये किन्तु स्याद्दैवयोगतः ।।
युध्यमानस्य धर्मज्ञाः सोऽपि नाके महीयते ।। १७ ।।
रणे यथाधिकवधं कृत्वा फलमुपाश्नुते ।।
परं ह्यभिमुखं हत्वा तद्यानं योऽधिरोहति।।१८।।
विष्णुक्रान्तं स जयति चैवं युध्यन्रणाजिरे ।।
यस्तु सेनापतिं हत्वा तद्यानमधिरोहति ।। १९ ।।
अश्वमेधानवाप्नोति चतुरस्तेन कर्मणा ।।
यावन्ति तस्य शस्त्राणि भिंदन्ति त्वचमाहवे ।। 3.267.२० ।।
तावतो लभते लोकान्सर्वकामदुघाक्षयान् ।।
यत्रयत्र हतः शूरः शत्रुभिर्विनिपातितः ।। ।। २१ ।।
अक्षयांल्लभते लोकान्निर्वृतिं दीनतां विना ।।
स्वामी सुकृतमादत्ते हतानां विपलायिनाम् ।। २२ ।।
स्वामिनो दुष्कृतं सर्वं तदा च प्रतिपद्यते ।।
पलायमानः पुरुषस्तथा प्राप्नोति वै द्विजाः ।। २३ ।।
पदेपदे दुराचारो गोवधस्य फलं नरः ।।
जीवँल्लक्ष्मीं समाप्नोति मृतश्च त्रिदिवं नरः ।। २४ ।।
यशश्चोभयथा विप्रा नास्ति युद्धे निरर्थता ।।
परानभिमुखः शूरो यावद्व्रजति वै द्विजाः ।। २५ ।।
पदेपदे यज्ञफलमानुपूर्व्यात्समाप्नुयात् ।।
अभग्नञ्च परं हन्याद्भग्नं च परिरक्षति ।। २६ ।।
पलायन्ते स्थिता यस्मिन्स याति परमां गतिम् ।।
ऊर्ध्वं तिर्यक् च यश्चार्वाक् प्राणान्संत्यज्य युध्यति ।। २७ ।।
हतासुश्च पतेद्युद्धे स स्वर्गान्न निवर्तते ।।
यस्य युद्धे प्रविष्टस्य देहं चिह्नीकृतं परैः ।। २८ ।।
आत्मानं यूपमुत्सृज्य स यज्ञोऽनन्तदक्षिणः ।।
नाशौचभाजस्तस्य स्युर्बान्धवा द्विजसत्तमाः ।। २९ ।।
श्राद्धञ्चैवाग्निसंस्कारस्तथैवाप्युदकक्रिया ।।
मृतस्य नोपयुज्यन्ते संग्रामेऽभिमुखस्य तु ।।3.267.३०।।
क्रियन्ते तस्य धर्मज्ञा आनृण्यार्थं स्वबन्धुभिः ।।
यस्य चिह्नीकृतं गात्रं शरशक्त्यृष्टितोमरैः ।। ३१ ।।
देवकन्यास्तु तं वीर रमयन्ते रमन्ति च ।।
वराप्सरःसहस्राणि शूरमायोधने हतम् ।। ३२ ।।
त्वरितास्त्वभिधावन्ति मम भर्ता ममेति च ।।
हतस्याभिमुखस्याजौ पतितस्यानिवर्तिनः ।। ३३ ।।
ह्रियते यत्परैर्द्रव्यं नरमेधफलं तु तत् ।।
शक्यं त्विह समृद्धैस्तु यष्टं क्रतुशतैर्नरैः ।। ३४ ।।
आत्मदेहं तु संग्रामे त्यक्तुं विप्राः सुदुष्करम् ।।
यां यज्ञसंघैस्तपसा च विप्राः स्वर्गैषिणः सत्त्वचयैः प्रयान्ति ।।
क्षणेन तामैव गतिं प्रयान्ति महाहवे स्वां तनुमुत्सृजन्तः ।। ३५ ।।
सर्वे च वेदाः सह षड्भिरंगैः सांख्यं च योगं च वने च वासः ।।
एतान्गुणानेक एवातिदेशेत्संग्रामधाम्ना स्वतनुं त्यजेद्यः ।।३६ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु शूरगुणवर्णनो नाम सप्तषष्ट्युत्तरद्विशततमोऽध्यायः ।। ।। २६७ ।।
3.268
हंस उवाच ।।
अहिंसा सर्वधर्माणां धर्मः पर इहोच्यते ।।
अहिंसया तदाप्नोति यत्किञ्चिन्मनसेप्सितम् ।। १ ।।
स्त्रीहिंसा धनहिंसा च प्राणिहिंसा तथैव च ।।
त्रिविधां वर्जयन्हिंसां ब्रह्मलोकं प्रपद्यते ।। २ ।।
दाक्षिण्यं रूपलावण्यं सौभाग्यमपि चोत्तमम् ।।
धनं धान्यमथारोग्यं धर्मं विद्यां तथा स्त्रियः ।। ३ ।।
राज्यं भोगाँश्च विपुलान्ब्राह्मण्यमपि चेप्सितम् ।।
अष्टौ चैव गुणान्वापि दीर्घं जीवितमेव च ।।४ ।।
अहिंसकाः प्रपद्यंते यदन्यदपि दुर्लभम्।।
अहिंसकस्तथा जन्तुर्मांसवर्जयिता भवेत।।५।।
मासिमास्यश्वमेधेन यो यजेत शतं समाः।।
मांसानि च न खादेद्यः समं वा स्यान्न वा समम।।६।।
सदा यजति सत्रेण सदा दानं प्रयच्छति ।।
सदा तपस्वी भवति मधुमांसस्य वर्जनात्।।७।।
सर्ववेदा न तत्कुर्युः सर्वदानानि चैव हि ।।
यो मांसरसमास्वाद्य सर्वमांसानि वर्जयेत् ।। ८ ।।
दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम ।।
चतुर्व्रतमिदं श्रेष्ठं प्राणिनां मृत्युभीरुणाम् ।। ९ ।।
तदा भवति लोकेऽस्मिन्प्राणिनां जीवितैषिणाम् ।।
विश्वास्यश्चोपगम्यश्च नहि हिंसारुचिर्यथा ।। 3.268.१० ।।
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ।।
आत्मौपम्येन गन्तव्यमात्मविद्भिर्महात्मभिः ।। ११ ।।
अहिंसा परमो धर्मः सत्यमेव द्विजोत्तमाः ।।
लोभाद्वा मोहतो वापि यो मांसान्यत्ति मानवः ।। १२ ।।
निर्घृणः स तु मन्तव्यः सर्वधर्मविवर्जितः ।।
स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।। १३ ।।
उद्विग्नवासे वसति यत्रयत्राभिजायते ।।
धनेन क्रयिको हन्ति उपभोगेन खादकः ।। १४ ।।
घातको वधबन्धाभ्यामित्येष त्रिविधो वधः ।।
भक्षयित्वा तु यो मांसं पश्चादपि निवर्त्तते ।। १५ ।।
तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्त्तते ।।
राक्षसैर्वा पिशाचैर्वा डाकिनीभिर्निशाचरैः ।। १६ ।।
तथान्यैर्नाभिभूयेत यो मांसं परिवर्जयेत् ।।
खेचराश्चावगच्छन्ति जीवतोऽस्य मृतस्य वा ।। १७ ।।
पृष्ठतो द्विजशार्दूल यो मांसं परिवर्जयेत् ।।
तथान्यैर्नाभिभूयेत यो मांसं परिवर्जयेत् ।। १८ ।।
चिताधूमस्य गन्धेऽपि मृतस्यापि निशाचराः ।।
क्रव्यादे विप्रणश्यन्ति यो मांसं परिवर्जयेत् ।।१९।।
शस्त्राग्निनृपचौरेभ्यः सलिलाच्च तथा विषात् ।।
भयं न विद्यते तस्य तथान्यदपि किञ्चन ।। 3.268.२० ।।
न ताँल्लोकान्प्रपद्यंते ये लोका मांसवर्जिनाम् ।।
स दण्डी स च विक्रान्तः स यज्वा स तपस्यति ।। २१ ।।
स सर्वलोकानाप्नोति यो मांसं परिवर्जयेत ।।
न तस्य दुर्लभं किञ्चित्तथा लोकद्वये भवेत् ।।
वरशापसमर्थश्च तथा स्यान्मांसवर्जकः ।। २२।।
विमानमारुह्य शशाङ्कतुल्यं देवाङ्गनाभिः सहितो नृवीरः ।।
सुखानि भुक्त्वा सुचिरं हि नाके लोकानवाप्नोति पितामहस्य ।। २३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु हिंसादोषवर्णनो नामाष्टषष्ट्यधिकद्विशततमोऽध्यायः ।। २६८ ।।
3.269
हंस उवाच ।।
क्षमा धर्मः क्षमा सत्यं क्षमा शौचं क्षमा बलम् ।।
क्षमा यज्ञाः क्षमा दानं क्षमा च परमं तपः ।। १ ।।
आकृष्टस्ताडितो वापि परेषां यस्तितिक्षते ।।
तस्मात्सुकृतमादत्ते दुष्कृतं च प्रयच्छति ।। २ ।।
यः क्षमावान्स धर्मात्मा क्षमयैव द्विजोत्तमाः ।।
आक्रोष्टारं निर्दहति स्वर्गलोकं च गच्छति ।। ३ ।।
एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते ।।
यदेनं क्षमया युक्तं त्वशक्तं मन्यते जनः ।। ४ ।।
विज्ञेयः सोऽपि दोषोऽस्य द्विजेन्द्राः स महान् गुणः ।।
तस्मात्पुण्यसमादानाद् दुष्कृतस्य समर्पणात् ।। ५ ।।
मृतः क्षमावान्पुरुषो ब्रह्मलोकं प्रपद्यते ।।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ।। ६ ।।
प्राप्नोति कामान्दिवि चेह मुख्यान्संवत्सराणां नियुतानि विप्राः ।।
सर्वंसहः क्षान्तिपरो मनुष्यस्त्वतः क्षमावान्सततं नरः स्यात् ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु क्षमागुणवर्णनो नामैकोनसप्तत्यधिकद्विशततमोऽध्यायः ।। २६९ ।।
3.270
हंस उवाच ।।
आनृशंस्यं परो धर्मो लोकेऽस्मिन्द्विजसत्तमाः ।।
तस्मादात्मवता भाव्यं कृतज्ञेन नरेण तु ।। १ ।।
ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा ।।
निष्कृतिर्विहिता राजन्कृतघ्ने नास्ति निष्कृतिः ।। २ ।।
नरकान्न विमुच्यन्ते ये कृतघ्ना नराधमाः ।।
आभूतसंप्लवं घोरा नात्र कार्या विचारणा ।। ३ ।।
तिर्यग्योनौ हि जायन्ते दुःखावासं वसन्ति च ।।
लभन्ते न क्वचित्त्राणं तथा प्राप्ते भये नराः ।। ४ ।।
एतावानेव पुरुषः कृतं यस्मिन्न नश्यति ।।
कृतज्ञः स्वर्गमाप्नोति कृतज्ञो विन्दते महत् ।। ५ ।।
प्रभुं वा यदि वा भृत्यं विप्रं गुरुमथापि वा ।।
आपन्नं न त्यजेद्यस्तु स तु नाके महीयते ।। ६ ।।
समृद्धं यस्तु संसेव्य दरिद्रं यो विमुञ्चति ।।
स नृशंसतमो लोके नरो नरकभाजनम् ।। ७ ।।
न त्यजेत नरो भृत्यं स्वगेहे गतयौवनम् ।।
असमर्थं तु वार्धक्ये त्यक्त्वा नरकमाप्नुयात् ।। ८ ।।
कुञ्जरन्तुरगं वृद्धं धेनुं दान्तमथापि वा ।।
यस्त्यजेत्स सुदुर्बुद्धिर्नरकं प्रतिपद्यते ।। ९ ।।
नाद्रियन्ते पशून्बद्ध्वा यवसेनोदकेन वा ।।
यथावद् द्विजशार्दूलास्ते नरा निरयङ्गताः ।। 3.270.१० ।।
अचिकित्स्येन रोगेण गृहीतं स्वगृहे पशुम् ।।
चिकित्स्यं न त्यजेदेनं यावज्जीवं द्विजोत्तमाः ।। ११ ।।
तस्य त्यागादवाप्नोति मानवो नरकं धुवम् ।।
समृद्धं स्वामिनं यस्तु सेवित्वा पुरुषाधमः ।।
असमृद्धं त्यजेत्पश्चाद् ध्रुवं नरकमृच्छति ।। १२ ।।
यो नरः क्लेशमाप्नोति हीनार्थस्वामिसेवनात् ।।
तत्तपोऽस्य विनिर्दष्टं ब्रह्मलोकाय वै द्विजाः ।। ।। १३ ।।
कृतज्ञः पुरुषो लोके कृतज्ञः सर्वभाक्तथा ।।
कृतज्ञः सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति ।। १४ ।।
मातरं पितरं पुत्रं याज्यमृत्विजमेव च ।।
स्वामिनं च गुरुं भृत्यं बान्धवं पशुमेव च ।। १५ ।।
भार्यां वापि द्विजश्रेष्ठा न त्यजेन्मनसा क्वचित् ।।
एषां तु पतति त्यागे ध्रुवं नरकमृच्छति ।।१६।।
न त्यजेत तथैवाग्निं नाग्निमुत्सादयेत्तथा ।।
देवतार्चां तथा विप्रास्त्यक्त्वा नरकमृच्छति।।१७।।
छायायां यस्य विश्रान्तो नरः स्यात्पादपस्य तु ।।
तस्मात्पत्रं न हिंसेत कृतज्ञत्वमनुस्मरन् ।। १८ ।।
कृतज्ञो भूतिमाप्नोति कृतज्ञश्च तथा यशः ।।
कृतज्ञो नाकमाप्नोति ब्रह्मलोकमथापि वा ।।१९ ।।
कृतज्ञैर्वसुधा सर्वा धार्यते सुमहात्मभिः ।। 3.270.२० ।।
कृतज्ञ एव यजते कृतज्ञस्तप्यते तपः ।।
यज्वा दाता तथा शूरः कृतज्ञश्च तथा भवेत् ।।
कृतज्ञस्त्यजते प्राणान्मित्रकार्ये तथा धुवम् ।। २१ ।।
यो ब्रह्मलोकस्तपसा न शक्यः प्राप्तुं द्विजेन्द्रा महतः सुकृच्छ्रात् ।।
तं ब्रह्म लोकं हि नरः कृतज्ञः प्राप्नोति शीघ्रं न हि संशयोऽत्र ।। २२।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु कृतज्ञतागुणनिरूपणो नाम सप्तत्यधिकद्विशततमोऽध्यायः ।।२७०।।