विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः २६१-२६५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः २५६-२६० विष्णुधर्मोत्तरपुराणम्
अध्यायाः २६१-२६५
वेदव्यासः
अध्यायाः २६६-२७० →

3.261
।। हंस उवाच ।। ।।
यशसा संयुतो जन्तुः श्रेयसो भाजनं भवेत् ।।
यशसा संयुतो जन्तुस्त्रिदिवं प्रतिपद्यते ।। १ ।।
यशसा संयुतो जन्तुः सम्पदामेति पात्रताम् ।।
यशसा संयुतो जन्तुः सर्वकामानुपाश्नुते ।। २ ।।
स एकः पुरुषो लोके यशसा यो हि संयुतः ।।
येषां साधु समावापं गीयते सुमहद्यशः ।। ३ ।।
तेषां यशस्तथा पुण्यं नाकपृष्ठेऽपि गीयते ।।
देवता यं विजानंति तस्य नाके गतिर्ध्रुवा ।। ४ ।।
कीर्त्यमानं तथा सद्भिर्यः शृणोति यशः स्वकम् ।।
सुखमाप्नोति धर्मज्ञाः स्वर्गादपि परं नरः ।। ५ ।।
यशः शोभा मनुष्यस्य परमं तस्य मण्डनम् ।।
यशसा वर्जितस्येह मण्डनं लाञ्छनं परम् ।। ६।।
यशः प्रधानं पुरुषस्य लोके यशःप्रधानास्त्रिदिवं प्रयान्ति ।।
लोकद्वये चापि यशोऽन्वितानां भवन्ति कामा मनसा त्वभीष्टाः ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु यशःप्रशंसावणर्नो नामैकषष्ट्युत्तरद्विशततमोऽध्यायः ।। २६१ ।।
3.262
हंस उवाच ।।
यज्ञेन देवा जीवन्ति यज्ञेन पितरस्तथा ।।
देवाधीनाः प्रजा सर्वा यज्ञाधीनाश्च देवताः ।। १ ।।
यज्ञो हि भगवान्विष्णुर्यत्र सर्वं प्रतिष्ठितम् ।।
यज्ञार्थं पशवः सृष्टा देवास्त्वौषधयस्तथा ।। २ ।।
यज्ञार्थं पुरुषाः सृष्टाः स्वयमेव स्वयंभुवा ।।
यज्ञश्च भूत्यै सर्वस्य तस्माद्यज्ञपरो भवेत् ।। ३ ।।
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।।
धनं यद्यज्ञशीलानां देवस्वं तं विदुर्बुधाः ।। ४ ।।
ओषधीनां पशूनाञ्च यज्ञ एव परायणम् ।।
सयूथ्यश्च सकुल्यश्च नाकपृष्ठे महीयते ।। ५ ।।
पशुस्तु प्रोक्षितो यज्ञे तथेवौषधयो द्विजाः ।।
यज्ञोपयुक्ता मोदन्ते त्रिदिवे नात्र संशयः ।। ६ ।।
यज्ञेन सम्यक्पुरुषस्तु नाके समृज्यमानस्त्रिदशैर्महात्मा ।।
प्राप्नोति सौख्यानि महानुभावास्तस्मात्प्रयत्नेन यजेत यज्ञैः ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु यज्ञप्रशंसावर्णनो नाम द्विषष्ट्यधिकद्विशततमोऽध्यायः ।। २६२ ।।
2.263
हंस उवाच ।।
शीलं प्रधानं लोकेऽस्मिंस्तस्मिन्सर्वं प्रतिष्ठितम् ।।
शीलेन सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति ।। १ ।।
क्रियाः शीलविहीनस्य भवन्ति विफलाः कृताः ।।
तस्माच्छीलवता भाव्यं पुरुषेण विजानता ।। २ ।।
शीलेन देवराट्छक्रः सुरैश्वर्यमवाप्तवान् ।।
शीलेन धर्मराजोऽपि धर्मराजत्वमाप्तवान् ।।३।।
शीलेन वरुणो देवो राजराजत्वमाप्तवान् ।।
शीलेन च कुबेरोऽपि धनाध्यक्षत्वमाप्तवान् ।। ४ ।।
शीलेन सुखमाप्नोति स्वर्गं च मनुजोत्तमाः ।।
शीलेन तदवाप्नोति यत्र गत्वा न शोचति ।। ५ ।।
शीलं समासाद्य समस्तकामान्प्राप्नोति मुख्यान्पुरुषः प्रधानः ।।
तस्मात्प्रयत्नेन नरेण शीलं समर्जनीयं सुखदं सदैव ।। ६ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु शीलप्रशंसावर्णनो नाम त्रिषष्ट्युत्तरद्विशततमो ऽध्यायः ।। २६३ ।।
3.264
हंस उवाच ।।
दमेन युक्तः पुरुषः सर्वान्कामानवाप्नुयात् ।।
तस्मात्सर्वप्रयत्नेन दमः कार्यो विजानता ।। १ ।।
इन्द्रियाणां जयो लोके दम इत्यभिधीयते ।।
नादान्तस्य क्रियाः काश्चिद्भवन्तीह द्विजोत्तमाः ।। २ ।।
नादान्तः सिद्धिमाप्नोति नादान्तो गतिमीप्सिताम् ।।
नादान्तः श्रियमाप्नोति नादान्तः किञ्चिदेव तु ।। ३ ।।
पञ्चेन्द्रियस्य मर्त्यस्य यद्येकं छिद्रमिन्द्रियम् ।।
ततोऽस्य क्षरति प्रज्ञा दृतेः पात्रादिवोदकम् ।। ४ ।।
पुरुषार्थं परित्यज्य स्वार्थे च सततोत्थितः ।।
इन्द्रियाणां बुधस्तेषाङ्कः स्वार्थे प्रयतेन्नरः ।। ५ ।।
इन्द्रियाणां प्रसङ्गेन गतिं गच्छति दारुणाम् ।।
विजित्य तान्येव नरः सर्वान्कामानवाप्नुयात् ।। ६ ।।
दान्तः पुमान्नाकमनुप्रयाति दान्तः पुमान्मोक्षपथं प्रयाति ।।
दान्तस्य दुःखं न हि किञ्चिदस्ति दान्तः समाप्नोत्यखिलान्हि कामान् ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दमप्रशंसावर्णनो नाम चतुःषष्ट्युत्तरद्विशततमोऽध्यायः ।।२६४।। ।।
3.265
।। हंस उवाच ।। ।।
सत्यमेव परं ब्रह्म सत्यमेव परं तपः ।।
सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम् ।। १ ।।
सत्यं वेदेषु जागर्ति मुक्तिः सत्यतरोः फलम् ।।
तपो यशश्च पुण्यश्च पितृदेवर्षिपूजनम्।।२।।
आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम्।।
सत्यं यज्ञास्तथा वेदा मन्त्रा देवी सरस्वती ।। ३ ।।
व्रतचर्या तथा सत्यमोङ्कारः सत्यमेव च ।।
सत्येन वायुरभ्येति सत्येनाभासते रविः ।। ४ ।।
सत्येन चाग्निर्दहति स्वर्गं सत्येन गच्छति ।।
सत्येन चापः क्षिपति पर्जन्यः पृथिवीतले ।। ५ ।।
पारणं सर्ववेदानां सर्वतीर्थावगाहनम् ।।
सत्यं च वदते लोके समं स्यातां न वा समम् ।। ६ ।।
अश्वमेधसहस्रं तु सत्यं च तुलया धृतम् ।।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ।। ७ ।।
सत्येन देवाः प्रीयन्ते पितरो ब्राह्मणास्तथा ।।
सत्यमाहुः परं धर्मं तस्मात्सत्यं न लोपयेत् ।। ८ ।।
मुनयः सत्यनिरताः सत्यस्थास्त्रिदशोत्तमाः ।।
स्वर्गे सत्यपरा नित्यं मोदन्ते देवता इव ।। ९ ।।
अप्सरोगणसंकीर्णैर्विमानैरुपयान्ति च ।।
वक्तव्यं हि सदा सत्यं न सत्याद्विद्यते परम् ।। 3.265.१० ।।
अगाधे विमले शुद्धे सत्यतोये शुचिह्रदे ।।
स्नातव्यं मानसे तीर्थे स्नानं तत्परमं स्मृतम् ।। ११ ।।
आत्मार्थे वा परार्थे वा पुत्रार्थे वा रिपोः कृते ।।
येनृतं नाभिभाषन्ते ते नराः स्वर्गगामिनः ।। १२ ।।
यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा ।।
हितं स्याद्येन भूतानां तत्तद्वाच्यं विजानता।।१३।।
आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयं यमश्च ।।
अहश्च रात्रिश्च शुभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ।। १४ ।।
न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् ।।
नासौ धर्मो यत्र नो सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु सत्यप्रशंसावर्णनो नाम पञ्चषष्ट्युत्तरद्विशततमोऽध्यायः ।। २६५ ।। ।।