विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः २५१-२५५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः २४६-२५० विष्णुधर्मोत्तरपुराणम्
अध्यायाः २५१-२५५
वेदव्यासः
अध्यायाः २५६-२६० →

3.251
हंस उवाच ।।
अनृतं वर्जयेन्नित्यमनृतं पातकं परम् ।।
अनृताद्धि परं नास्ति द्वारं नाशनमात्मनः ।। १ ।।
सर्वे निबद्धा वाच्यार्था वाङ्मूला वाग्विनिस्सृताः।।
तस्मान्न स्तेनयेद्वाचं य इच्छेद्धितमात्मनः ।। २ ।।
अनृतं न क्वचिद्वाच्यं तथा साक्ष्ये विशेषतः ।।
अनृतं हि वदन्साक्ष्ये पितृभिः सह मज्जति ।। ३ ।।
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।।
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ।। ४ ।।
हन्ति जातानजाताँश्च हिरण्यार्थेऽनृतं वदन् ।।
सर्वं भूम्यनृतं हन्ति मास्म भूम्यनृतं वदेत् ।। ५ ।।
अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने ।।
अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च ।। ६ ।।
एतान्दोषानवेक्ष्यैव सर्वाननृतभाषणे ।।
यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वदेत् ।। ७ ।।
नग्नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः ।।
अन्धः शत्रुगृहं गच्छेन्न साक्ष्यमनृतं वदेत् ।। ८ ।।
साक्ष्येऽनृतं वदन्पाशैर्बध्यते वारुणैर्भृशम् ।।
निविशन्ते तमाजातीस्तस्मात्साक्ष्ये वदेदृतम् ।। ९ ।।
यन्मया गदितं पापं द्विजेन कूटसाक्षिणः ।।
ततोऽधिकमवाप्नोनि सद्यो मिथ्याऽभिशंसने ।। 3.251.१० ।।
यथा क्रोधाद्भयाल्लोभादज्ञानाद्वा द्विजोत्तमाः ।।
योऽनृतं भाषते सद्भ्यः स याति नरकं ध्रुवम् ।। ११ ।।
अवाक्छिरास्तमस्यन्धे किल्बिषी नरके पतेत् ।।
यः प्रश्नं वितथं ब्रूयात्पृष्टः सद्धर्मनिश्चये ।। १२ ।।
अन्धो मत्स्यानिवाश्नाति निरपेक्षं सकण्टकान् ।।
यो भाषतेऽर्थ वैकल्यमप्रत्यक्षं सभाङ्गतः ।।१३।।
कूटकर्मतुलामाने रसानां भेदने तथा ।।
विश्वासन्यासहरणे रहस्यसमभेदने ।। १४ ।।
मृतिं कल्पयते यश्च मधु मांसेन पातकम् ।।
द्विजस्य सुरया वापि लोभेन च विशेषतः ।। १५ ।।
गोब्राह्मणवधे वापि गुरुपितृवधे तथा ।।
वयस्यदारगमने गुरुदारप्रदर्शने ।। १६ ।।
व्युत्पादने च शस्त्राणां शस्त्रोत्सादे तथैव च ।।
भर्तृपिण्डापहरणे संग्रामाच्च पलायने ।।१७।।
शरणागतसंत्यागे गच्छतश्च दिवा स्त्रियम् ।।
प्रेष्यां च गच्छतः पापं राजद्रोहे तथैव च ।। १८ ।।
पङ्क्त्यां विषमदातुश्च श्राद्धं मित्रस्य यत्तथा ।।
शुल्केन ददतः कन्यां केशविक्रयिकस्य च ।। १९ ।।
विप्रस्य पातकं यच्च प्राणिनां विक्रये भवेत् ।।
आमश्राद्धभुजः पापमयाज्यस्य च याजने ।। 3.251.२० ।।
मिथ्या राज्यस्य करणे परद्रव्यापहारिणः ।।
सर्वाण्येतानि पापानि द्विजः सभ्यः समाप्नुयात् ।। २१ ।।
यद्यन्यथा वदेत्तस्माद्धर्म्यं सभ्यः सदा वदेत् ।।
एतदेव तथा पापं विज्ञेयं कूटसाक्षिणाम् ।। २२ ।।
कूटकर्मा तु नरकं पितृभिः सह मज्जति ।।
दशवर्षसहस्राणि दशवर्षशतानि च ।।२३।।
ततो दशगुणं कालं सभ्यो मिथ्याभिभाषिता ।।
रागद्वेषप्रवृत्तस्तु व्यवहारेऽपि पार्थिवः ।। २४ ।।
ततो दशगुणं कालं नरके वसति ध्रुवम् ।।
उक्ते वचसि धर्म्ये तु सद्यः पापात्प्रमुच्यते ।। २५ ।।
राजा नरकमाप्नोति सत्यवाक्यं विलंघयन ।।
शूद्रविट्क्षत्रविप्राणां यत्रोक्ते प्राप्नुयाद्वधः ।। २६ ।।
तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते ।।
वाग्दैवतैश्च चरुभिर्यजनैश्च सरस्वतीम् ।।।२७।।
कूष्माण्डैर्वापि जुहुयाद्घृतमग्नौ यथाविधि ।।
उदुत्यृचे वा वारुण्ये ऋचा वाग्दैवतेन वा ।।२८।।
अनृतस्य वशस्तस्य कुर्वाणो निष्कृतिं पराम्।।
बहवः सुखमेधन्ते यस्मिन्विप्रा निपातिते ।।
वाच्यं तस्य वधे प्राप्ते यथाभूतमिति श्रुतिः ।। २९ ।।
न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु विप्रा न विवाहकाले ।।
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ।। 3.251.३० ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वनृतदोषवर्णनो नामैकपञ्चाशदुत्तरद्विशततमोऽध्यायः ।। २५१ ।।
3.252
हंस उवाच ।।
सर्वेषामेव पापानां हिंसा परमिहोच्यते ।।
हिंसा बलमसाधूनां हिंसा लोकद्वयापहा ।। १ ।।
अपि कीटः पतङ्गो वा न हन्तव्यः कथञ्चन ।।
महद्दुःखमवाप्नोति पुरुषः प्राणिनाशनात् ।। २ ।।
आततायिनमायान्तं पुरुषं यदि वा पशुम् ।।
उपायहीनस्तं हत्वा न तु पापेन बाध्यते ।। ३ ।।
गुरुं वा बालवृद्धौ वा मान्यं वाप्यथ वा जनम् ।।
आततायिनमायान्तं हन्यादेवाविचारयन् ।। ४ ।।
आततायिन मायान्तमपि वेदान्तगं रणे ।।
जिघांसन्तं जिघांसीयात्तेन पापं न विद्यते ।। ५ ।।
रणे प्रहाराभिहते शत्रौ नैवास्ति पातकम् ।।
जित्वा गृहीते निहते तस्मिन्नेवास्ति पातकम् ।। ६ ।।
रणे जितन्तु यः शक्तः पश्चात्पातयते नरः ।।
स याति नरकं घोरं बहून्यब्दशतानि च ।। ७ ।।
मुक्तश्च नारकाद्दुःखाद्बहून्यब्दशतानि तु ।।
आमगर्भेषु सिच्यन्ते ये नरा नरघातकाः ।। ८ ।।
यावन्ति पशुरोमाणि तावत्कृत्वेह मारणम् ।।
वृथापशुघ्नः प्राप्नोति प्रेत्य चेह च निष्कृतिम् ।। ९ ।।
अपि कीटं नरो हत्वा छित्त्वा तृणमथापि वा ।।
नरकं याति धर्मज्ञाः पुरुषः स्वेन कर्मणा ।। 3.252.१० ।।
स्त्रीहिंसा धनहिंसा च प्राणिहिंसा च दारुणा ।।
हिंसा च त्रिविधा प्रोक्ता वर्जिता पण्डितैर्नरैः ।। ।। ११ ।।
अहिंसकस्तु यत्नेन वर्जयेत्तु परस्त्रियम् ।।
विजनेऽपि तथा न्यस्तं परद्रव्यं प्रयत्नतः ।। १२ ।।
अतो वै नैव कर्तव्या प्राणिहिंसा भयावहा ।।
वियोज्य प्राणिनं प्राणैस्तथैकमपि निर्घृणः ।। १३ ।।
नरकाद्धि विनिर्मुक्तो न किञ्चित्सुखमेधते ।।
यां रात्रिमधिविन्नां स्त्रीं यां चैवाक्षपराजिताम् ।। १४ ।।
यां च राज्यच्युतो रात्रिं यां च सर्वस्वविच्युतः ।।
इष्टबन्धुवियुक्तश्च यां रात्रिं दुःखमश्नुते ।। १५ ।।
व्यवहारे जितश्चैव यद् दुःखं कूटसाक्षिभिः ।।
तत्सर्वं दुःखमाप्नोति हत्वैकमपि तु द्विजाः ।। १६ ।।
नास्ति पापतरं लोके मनुष्या मांसभोजिनः।।
बहिर्मांसं तृणात्काष्ठादुपलाद्वापि जायते।।१७।।
घोरात्प्राणिवधाज्जातं पुरुषः परिवर्जयेत् ।।
यदि चेत्खादको न स्यान्न भवेद्घातकस्तथा ।। १८ ।।
एतस्मात्कारणान्निन्द्यो घातकादपि खादकः ।।।
यावतां प्राणिनां येन मांसं भुक्तं भवेदिह ।। १९ ।।
ता एव ते न तावत्यो गन्तव्या योनयो ध्रुवम् ।।
येषान्तु प्राणिनां भुक्तं तेन मांसं द्विजोत्तमाः ।। 3.252.२० ।।
भोक्तव्यं तस्य तैर्मांसं ध्रुवं जन्मनिजन्मनि ।।।
मांसभक्षयिताऽमुत्र यस्य मांसमिहाद्म्यहम् ।।२१।।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ।।
समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् ।। ।। २२ ।।
प्रसमीक्ष्य निवर्त्येत सर्वमांसस्य भक्षणात् ।।
अनुमन्ता विशसिता निहन्ता क्रियविक्रयी ।। २३ ।।
संस्कर्ता चोपहर्ता च खादकाश्च विघातकाः ।।
स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।। २४ ।।
न पापकृत्तमो लोके तस्मादन्यो हि विद्यते ।।
असंस्कृतान्पशून्मन्त्रैर्नाद्याद्विप्रः कथञ्चन ।। २५ ।।
मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ।।
या वेदविहिता हिंसा न सा हिंसा मता यतः ।। २५ ।।
ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा ।।
यज्ञार्थं निधनं प्राप्ता प्राप्नुवन्त्युच्छ्रिताः पुनः ।। २७ ।।
मधुपर्के च यज्ञे च पितृदैवतकर्मणि ।।
अत्रैव पशवो हिंस्या नान्यत्रेति कदाचन ।। २८ ।।
एष्वर्थेषु पशून्हन्ति वदतत्त्वार्थविद्द्विजाः ।।
आत्मानं च पशूँश्चैव गमयन्त्युत्तमां गतिम् ।। २९ ।।
यज्ञार्थं पशवः सृष्टाः पूर्वमेव स्वयम्भुवा ।।
यज्ञाश्च भूतैः सर्वस्य तस्माद्यज्ञे वधोऽवधः ।। 3.252.३० ।।
वृथा तु मांसं पुरुषः समश्नन्प्रयाति विप्रा नरकं सुघोरम् ।।
निबर्हणं गर्हितमेव जन्तोर्मांसश्च तस्मात्परिवर्जनीयम् ।। ३१।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु हिंसादोषवर्णनो नाम द्विपञ्चाशदुत्तरद्विशततमोऽध्यायः ।। २५२ ।।
3.253
ऋषय ऊचुः ।।
ब्रूह्यस्माकं द्विजश्रेष्ठ नरः पापेन कर्मणा ।।
किंकिमाप्नोति धर्मज्ञ विहगेन्द्र महामते ।। १ ।।
।। हंस उवाच ।। ।।
पापं कृत्वा नरो विप्रा नरकं प्रतिपद्यते ।।
नरकाच्च विनिर्मुक्तस्तिर्यग्योनौ तथा व्रजेत् ।। २।।
शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ।।
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ।।३ ।।
कर्मजा गतयो नॄणामुत्तमाधममध्यमाः ।।
त्रिविधास्तु विनिर्दिष्टा दशलक्षणलक्षिताः ।। ४ ।।
परद्रव्येष्वभिध्यानं मनसा दुष्टचिन्तनम् ।।
वितथाभिनिवेशश्च त्रिविधं कर्म मानसम् ।। ५ ।।
पारुष्यमनृतं चैव पैशुन्यं चैव सर्वशः ।।
अनिबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ।। ६ ।।
अदत्तानामुपादानं हिंसा चैवाविधानतः ।।
परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ।। ७ ।।
एकस्मिन्नप्यतो विप्राः सेवते दशलक्षणम् ।।
अधर्मात्प्राप्य मानुष्यं यदा भवति दुःखितः ।। ८ ।।
इह दुश्चरितैः केचित्केचित्पूर्वकृतैस्तथा ।।
प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ।। ९ ।।
ब्रह्महा क्षयरोगी स्याद्दुश्चर्मा गुरुतल्पगः ।।
श्यावदन्तः सुरापश्च कुनखी कनकापहः ।। 3.253.१० ।।
वस्त्रापहारकः श्वित्री पङ्गुरश्वापहारकः ।।
पङ्गुरेव तथा ज्ञेयः सर्वयानापहारकः ।। ११ ।।
अधश्च जायते लोके गां हृत्वा मानवाधमः ।।
धान्यचौरोऽतिरिक्ताङ्गो मूको वागपहारकः ।। १२ ।।
गुरुस्वामि द्विजान्क्रोशन्वेदनिन्दां तथैव च ।।
श्रुत्वा भवति दुर्बुद्धिर्बधिरो मानवाधमः ।। १३ ।।
नित्यामयावी भवति तथा चान्नापहारकः ।।
वियोज्यैकमपि प्राणैः प्राणिनं व्याधितस्तथा ।। १४ ।।
वस्त्रभोज्यापहर्तारौ तथा नग्नबुभुक्षितौ ।।
अग्निमान्द्याभिभूतश्च तथा भवति दुर्मतिः ।। १५ ।।
जुहोति यो द्विजश्रेष्ठा असमिद्धे हुताशने ।।
रत्नापहारी भवति तथा कुष्ठी नराधमः ।। १६ ।।
पिशुनः पूतिनासश्च पूतिवक्त्रश्च सूचकः ।।
षण्डश्च जायते लोके दारातिक्रमकारकः ।। १७ ।।
परपुंसि प्रदाता वा तस्य भार्या तथा भवेत् ।।
कुष्ठी भवति धर्मज्ञास्त्वपहृत्य तथा स्त्रियम् ।। १८ ।।
लिङ्गव्याधिमवाप्नोति वियोनौ मैथुनं गतः ।।
गां च गत्वा द्विजश्रेष्ठा लिङ्गनाशमवाप्नुयात् ।। १९ ।।
पूज्यावमन्ता खल्वाटो पूज्यताडयिता कुणिः ।।
मार्गार्हाय च यो मार्गं न प्रयच्छति दुर्मतिः ।। 3.253.२० ।।
खञ्जो भवति दुर्बुद्धिरासनार्हस्य चासनम् ।।
दुर्नामा संयतो नित्यं मत्सरी जायते शठः ।। २१ ।।
दीपहर्ता भवत्यन्धः काणो निर्वापको भवेत् ।।
दैवदत्तेन ज्ञानेन कृत्वा कर्म सुदुर्मतिः ।।
जायते बुद्बुदाक्षो वा नेत्ररोगयुतोऽथवा ।। २२ ।।
दृष्ट्वा परस्त्रियं नग्नां नरो दुष्टेन चक्षुषा ।।
जात्यन्धतामवाप्नोति परलोके न संशयः ।। २३ ।।
वर्णाधिकस्य जीवित्वा वर्णहीनेन कर्मणा ।।
तस्यैव योनिमाप्नोति नात्र कार्या विचारणा ।। २४ ।।
तथैवाधिकवर्णस्य यदि जीवति कर्मणा ।।
हीनवर्णस्तथा लोके भवत्यन्धः स दुर्मतिः ।। २५ ।।
यस्यान्नेनोदरस्थेन मृत्युमेति द्विजः क्वचित् ।।
तस्यैव योनिमाप्नोति स्वकृतेनापि कर्मणा ।। २६ ।।
आमश्राद्धं तथा भुक्त्वा विरूपो जायते नरः ।।
विरूप एव भवति तथाविक्रेयविक्रयात् ।। २७ ।।
विनापराधेन तथा कृत्वा पत्न्यधिवेदनम् ।।
पराजयमवाप्नोति व्यवहारे तथा रणे ।। २८ ।।
मूलकर्म तथा कृत्वा वशीकरणकारणात् ।।
द्वेष्यो भवति लोकेऽस्मिञ्जगतो नात्र संशयः ।। २९ ।।
अवकीर्णी च भवति लिङ्गव्याधिसमन्वितः ।।
परिवेत्ता तथा लोके सर्वव्याधिसमन्वितः ।। 3.253.३० ।।
अयाज्ययाजकः पापो जायते वर्णसंकरः ।।
वेदविक्रयको मूर्खः कितवश्चैव जायते ।। ३१ ।।
विद्यानर्थश्च भवति तथाविक्रेयविक्रयी ।।
एकः स्वाद्वशनो लोके जायते परतर्षकः ।। ३२ ।।
परिव्राड् कामवृत्तस्तु नित्यं भवति दुःखितः ।।
हिंसारतस्तथाल्पायुर्यस्तु मांसाशनो नरः ।। ३३।।
नास्तिकस्तु दरिद्रः स्यात्सर्वभोगविवर्जितः ।।
अतिमानप्रवृत्तस्तु जायते कुत्सिते कुले ।। ३४ ।।
श्वपाकपुक्कसादीनां कुत्सितानामचेतसाम् ।।
कुलेषु तेषु जायन्ते गुरुवृद्धावचायकाः ।। ३५ ।।
परोद्वेगरतिर्नित्यं बहुबाधश्च जायते ।।
प्रकीर्णमैथुनो जन्तुः क्लीबो भवति वै द्विजाः ।।३६।।
नरः पापसमाचारो मृत्युमभ्येति कुत्सितम् ।।
श्वभ्रे तु मरणं लोके विषः स्थावरजङ्गमैः ।। ३७ ।।
दंष्ट्रिभ्यश्च नखिभ्यश्च चण्डालाद्ब्राह्मणात्तथा।।
गृहावपतनाच्चैव द्रुमाश्वपतितैस्तथा ।। ३८ ।।
नौभंगादग्निदाहाच्च तथोद्बन्धनकर्मणा ।।
गोभ्यश्च मरणं लोके विज्ञेयं पापकर्मणः ।। ३९ ।।
एषामन्यतमं मृत्युमासाद्य नरकं व्रजेत् ।।
नवापि तैश्च युज्यन्ते ये नराः शुभकारिणः ।। 3.253.४० ।।
ताडिता ताड्यते लोके बद्धा वै बध्यते तथा ।।
हन्ता वधमवाप्नोति नात्र कार्या विचारणा ।। ४१ ।।
यद्यत्परस्याचरति तत्तदस्योपजायते ।। ४२ ।।
प्राप्नोति यादृशीं बाधां यत्कर्मणि कृते परः ।।
तस्यापि तादृशी बाधा ज्ञेया जन्मनिजन्मनि ।। ४३ ।।
तस्मात्सर्वप्रयत्नेन पापबाधां विवर्जयेत् ।।
श्रूयतां धर्मसर्वस्वं श्रुत्वा चाप्यवधार्यताम् ।।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।। ४४ ।।
परोपतापक्रियया न कार्यं धनार्जनं दोषसमूहकारि ।।
परोपतापप्रभवो हि दोषः शक्यो न हन्तुं विबुधालयेऽपि ।। ४५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु पापकर्मफल निरूपणो नाम त्रिपञ्चाशदुत्तरद्विशततमोऽध्यायः ।। २५३ ।।
3.254
।। हंस उवाच ।। ।।
ज्ञानं सुखावहं लोके ज्ञानं चक्षुः परं मतम् ।।
ज्ञानाद्धर्ममवाप्नोति ज्ञानादर्थं च मानवः ।। १ ।।
ज्ञानात्काममवाप्नोति ज्ञानान्मोक्षं च गच्छति ।।
तस्मात्सर्वप्रयत्नेन ज्ञाने यत्नं समाचरेत् ।। २ ।।
ज्ञानेन सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति ।।
ज्ञानैकहेतुश्च तथा नित्यं शास्त्रान्ववेक्षणम् ।। ३ ।।
आचार्यगुरुशुश्रूषा वृद्धानां चैव सेवनम् ।।
अनालस्यमकार्पण्यं दिवा निद्राविवर्जनम् ।। ४ ।।
ज्ञानमेष परो बन्धुर्ज्ञानं मार्गस्य देशकम् ।।
संसारबन्धनक्लेशाँस्तथा ज्ञानेन मुञ्चति ।।५।।।
ज्ञानेन पुरुषो वेत्ति ज्ञानाद्वैराग्यमृच्छति ।।
ज्ञानेन तदवाप्नोति यद् गत्वा नानुशोचति ।। ६ ।।
एतद्विदित्वा पुरुषेण कार्यं ज्ञाने सदा यत्नमदीनसत्त्वाः ।।
ज्ञानं समासाद्य महानुभावा विमुक्तदुःखाः सुखिनो भवन्ति ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु ज्ञानवर्णनो नाम चतुष्पञ्चाशदुत्तरद्विशततमोऽध्यायः ।। २५४ ।।
3.255
।। हंस उवाच ।।
धर्मे यत्नः सदा कार्यो धर्म एकः सुखावहः ।।
धर्मेण पाल्यते सर्वं त्रैलोक्यं सचराचरम् ।। १ ।।
धारणाद्धर्ममित्याहुर्धर्मो धारयति प्रजाः ।।
धर्मे संसेविते कामान्प्राप्नोति मनसेप्सितान् ।। २ ।।
धर्मेणार्थं तथा लोके प्राप्नोति मनसेप्सितम् ।।
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ ।। ३ ।।
विमुखा बान्धवा यान्ति धर्मस्त्वेकोनुगच्छति ।।
एकस्मिन्नप्यतिक्रान्ते दिने धर्मविवर्जिते ।। ४ ।।
दस्युभिर्मुषितस्येव युक्तमाक्रन्दितं चिरम् ।।
बलादेव चरेद्धर्ममनित्यं जीवितं यतः ।। ५ ।।
नास्ति धर्मविहीनस्य सुखमण्वपि वै द्विजाः ।।
धर्मेण देवैर्देवत्वमृषित्वमृषिभिस्तथा ।। ६ ।।
प्राप्तं धर्मेण सकलं ब्रह्मणा च कृतं जगत् ।।
येन सर्वमिदं सृष्टं स वै धर्मे हरिः स्थितः ।। ७ ।।
कृतस्य धर्मस्य न चास्ति नाशस्तस्मात्तु धर्मः पुरुषेण कार्यः।।
धर्मे कृते नास्ति भयं नराणां लोकेपरे चेह तथा द्विजेन्द्राः ।। ८ ।।
इति श्रीविष्णुधर्मात्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु धर्मप्रशंसावर्णनो नाम पञ्चपञ्चाशदुत्तरद्विशततमोऽध्यायः ।। २५५ ।।