विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ०७६-०८०

विकिस्रोतः तः
← अध्यायाः ७१-७५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः ७६-८०
वेदव्यासः
अध्यायाः ८१-८५ →
नर-नारायण

3.76
वज्र उवाच।।
नरनारायणौ कार्यौ केन रूपेण संयुतौ।।
हरिः कृष्णश्च कर्तव्यः कथं वा भृगुनन्दन।। १ ।।
मार्कण्डेय उवाच ।।
दूर्वाश्यामो नरः कार्यो द्विभुजश्च महाभुज ।।
नारायणश्चतुर्बाहुर्नीलोत्पलदलच्छविः ।। २।।
तयोर्मध्ये च बदरी कार्या फलविभूषणा ।।।
बदर्यामनु तौ कार्यावक्षमालाधरावुभौ ।। ३ ।।
अष्टचक्रे स्थितौ याने भूतियुक्ते मनोहरे ।।
कृष्णाजिनधरौ दान्तौ जटामण्डलधारिणौ ।। ४ ।।
पादेन चैकेन रथस्थितेन पादेन चैकेन च जानुगेन ।।
कार्यो हरिश्चात्र नरेण तुल्यः कृष्णोऽपि नारायणतुल्यमूर्तिः ।। ५ ।।
इति श्रीविप्णुध०तृ०ख०मा० सं० नरनारायणरूपनिर्माणो नाम षट्सप्ततितमोऽध्यायः ।।७६।।
3.77
वज्र उवाच ।।
धर्मस्य रूपनिर्माणं जानस्य च परन्तप ।।
वैराग्यस्य व धर्मज्ञ तथैश्वर्यस्य मे वद ।। १ ।।
मार्कंडेय उवाच ।।
चतुर्वक्त्रश्चतुष्पादश्चतुर्बाहुस्सिताम्बरः ।।
सर्वाभरणवाञ्छ्वेतो धर्मः कार्यो विजानता ।। २ ।।
दक्षिणे चाक्षमालां च तस्य वामे तु पुस्तकम् ।।
मूर्तिमान्व्यवसायस्तु कार्यो दक्षिणभागगः ।। ३ ।।
वामभागगतः कार्यः सुखः परम रूपवान् ।।
कार्यौ धर्मकरौ मूर्ध्नि विन्यस्तौ च तथा तयोः ।। ४ ।।
अक्षमाला स्मृतः कालः पुस्तकं चागमं स्मृतम् ।।
यज्ञः सत्यं तपो दानं तस्य वक्त्रचतुष्टयम् ।। ५ ।।
देशकालौ तथा शौचं शुद्धिश्चास्य भुजः स्मृतः ।।
श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।। ६ ।।
तस्य देवस्य धर्मज्ञ ज्ञेयं पादचतुष्टयम् ।।
सत्त्वाधिक्त्वाच्छुक्लस्तु ज्ञानवासश्च कीर्त्यते ।। ७ ।।
अथवा चास्य कर्तव्याः पत्न्यश्चैव चतुर्दश ।।
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः।। ८।।
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिस्तुष्टिश्चतुर्दशी ।।
द्वाराण्येतानि धर्मस्य सर्वाणि कथितानि ते ।। ९ ।।
कार्याः सरूपा द्विभुजाश्च सर्वास्तेजोन्वितास्ताश्च सुभूषणाश्च ।।
धर्मः स्थितः स्याद्यदि चैक एव भार्यान्वितश्चेदथ चोपदिष्टः ।। 3.77.१० ।।
इति श्रीविष्णुध० तृ० ख० मा० सं० धर्मरूपनिर्माणो नाम सप्तसप्ततितमोऽध्यायः ।। ७७ ।।
3.78
मार्कण्डेय उवाच ।।
य एव भगवान्विष्णुर्नरसिंह वपुर्धरः ।।
ध्यानविद्भिः स एवोक्तो ज्ञानः पलवरार्दनः ।। १ ।।
पीनस्कन्दकटिग्रीवः कृशमध्यः कृशोदरः ।।
सिंहासने नृदेहस्तु नीलवासाः प्रभान्वितः ।। ऐ ।।
आलीढस्थानसंस्थानः सर्वाभरणभूषितः ।।
ज्वालामालाकुलमुखो ज्वालाकेसरमण्डलः ।। ३ ।।
हिरण्यकशिपोर्वक्षः पाटयन्नखरैः खरैः ।।
नीलोत्पलाभः कर्तव्यो देवजानुगतस्तथा ।। ४ ।।
हिरण्यकशिपुर्दैत्यस्तमज्ञानं विदुर्बुधाः ।।
सङ्कर्षणात्मा भगवानज्ञानस्य विनाशनः ।। ५ ।।
वाङ्मनःकायसम्भूतं त्रिविधं जगतां मलम् ।।
एतत्सङ्कर्षणो देवः सदा पाटयति द्विज ।। ६।।
हरिः सङ्कर्षणांशेन नरसिंहवपुर्धरः ।।
तमसस्त्रिविधस्यापि नाशनो जगतां हरिः ।। ७ ।।
हार्द्दमूर्तिनिभस्तस्य नान्यो जगति विद्यते ।।
नृसिंहमूर्तिर्देवस्य सर्वाज्ञानविनाशिनी ।। ८ ।।
सिंहासने सुखासीनः कार्यो वा भगवान्हरिः ।।
गदामस्तकविन्यस्तकरद्वितयभूषणः ।। ९ ।।
ज्वालामालाकुलवपुः शङ्खपद्मधरः प्रभुः ।।
मूर्तिमत्पृथिवीहस्तन्यस्तपादोऽथ वोत्थितः ।। 3.78.१० ।।
शङ्खचक्रगदापद्मलाञ्छनैः शोभितः करैः ।।
अग्निज्वालाकुलावर्तविभूषिततनूरुहः ।। ११ ।।
नरसिंहोऽथ वा कार्यः प्रभामण्डलदुर्दृशः ।।
सर्वाभरणसम्पन्नः कार्यो भूषणवर्जितः ।। १२ ।।
ज्ञानं नृसिंहो जगतामधीशस्तेजोनिवासोम्बरसन्निकाशः ।।
रूपं मयैतत्त्रिविधं प्रदिष्टं तस्याप्रमेयस्य जनार्दनस्य १३ ।।
इति श्रीवि० ध० तृ० ख० मा० सं० नृसिंहरूपनिर्माणो नामाष्टसप्ततितमोऽध्यायः ।। ७८ ।।
3.79
।। मार्कंडेय उवाच ।।
ऐश्वर्यमनिरुद्धस्तु वराहो भगवान्हरिः ।।
ऐश्वर्यशक्त्या दंष्ट्राग्रसमुद्धृतवसुन्धरः ।। १ ।।
नृवराहोऽथ वा कार्यः शेषोपरिगतः प्रभुः ।।
शेषश्चतुर्भुजः कार्यश्चारुरत्नफणान्वितः ।। २।।
आश्चर्योत्फुल्लनयनो देवीवीक्षणतत्परः ।।
कर्तव्यौ सीरमुसलौ करयोस्तस्य यादव ।। ३ ।।
सर्पभूषश्च कर्तव्यस्तथैव रचिताञ्जलिः ।।
आलीढस्थानसंस्थानस्तत्पृष्ठे भगवान्भवेत् ।। ४ ।।
सव्येऽरत्निगता तस्य योषिद्रूपा वसुन्धरा ।।
नमस्कारपरा तस्य कर्तव्या द्विभुजा शुभा ।। ५ ।।
यस्मिन्भुजे धरा देवी तत्र शङ्खः करे भवेत ।।
अन्ये तस्य कराः कार्याः पद्मचक्रगदाधराः ।। ६ ।।
हिरण्याक्षशिरच्छेदश्चक्रोद्यतकरोऽथ वा ।।
शूलोद्यतहिरण्याक्षसम्मुखो भगवान्भवेत् ।। ७ ।।
मूर्तिमन्तमनैश्वर्यं हिरण्याक्षं विदुर्बुधाः ।।
ऐश्वर्येण वराहेण स निरस्तोऽरिमर्दनः ।। ८ ।।
नृवराहोऽथ वा कार्यो ध्याने कपिलवत्स्थितः ।।
द्विभुजस्त्वथ वा कार्यः पिण्डनिर्वहणोद्यतः ।। ९ ।।
समग्रक्रोडरूपो वा बहुदानवमध्यगः ।।
नृवराहो वराहो वा कर्तव्यः क्ष्माविधाणे ।। 3.79.१० ।।
ऐश्वर्ययोगोद्धृतसर्वलोकः कार्योऽनिरुद्धो भगवान्वराहः ।।
रुद्धा न यस्य क्वचिदेव शक्तिः समस्तपापापहरस्य राजन् ।। ११ ।।
इति श्रीवि० ध० तृ० ख० मा० व० सं० वराहरूपनिर्माणो नामैकोनाशीतितमोऽध्यायः ।। ७९ ।।
3.80
वज्र उवाच ।।
अथाश्वशिरसो रूपं विष्णोरमिततेजसः ।।
श्रोतुमिच्छाम्यनेनैव प्रसङ्गेन महाभुज।। १।।
मार्कंडेय उवाच ।।
मूर्तिमत्पृथिवीपाल हस्तपादस्मितच्छविः ।।
नीलाम्बरधरः कार्यो देवो हयशिरोधरः ।। २ ।।
विद्धि संङ्कर्षणाङ्गं वै देवं हयशिरोधरम् ।।
कर्तव्योऽष्टभुजो देवस्तत्करेषु चतुर्ष्वथ ।। ३ ।।
शङ्खचक्रगदापद्मान्साकारान्कारयेद्बुधः ।।
चत्वारश्च करा कार्या वेदानां देहधारिणाम् ।। ४ ।।
देवेन मूर्ध्नि विन्यस्ता सर्वा भरणधारिणा ।।
अश्वग्रीवेन देवेन पुरा वेदाः समुद्धृताः ।। ५ ।।
वेदा हृता दानवपुङ्गवाभ्यां रसातलाद्देव वरेण तेन।।
समुद्धृता यादववंशमुख्य तुरङ्गमूर्ध्ना पुरुषोत्तमेन ।। ६ ।।
इति श्रीवि० ध० तृ० ख० मा० व० सं० हयग्रीवरूपनिर्माणो नामाशीतितमोऽध्यायः ।। ८० ।।