विश्वकर्मवास्तुशास्त्रम्

विकिस्रोतः तः

विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या

श्री सरस्वत्यै नमः श्रीगणेशाय नमः श्रीविश्वकर्मणे नमः

प्रथमोऽध्याय[सम्पाद्यताम्]

श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यां पूर्वार्ध आयादिगणिताध्याय प्रथमोऽध्याय १
श्री विश्वकर्मा उवाच
अथातः संप्रवक्ष्यामि आयादिनां लक्षणे
प्रासादनिलये पुरे वापि प्राकर मंडपे १
वास्तु कर्मेषु सर्वेषु आयादिगणित योजयेत्
इदानीं कथयिष्यामि गणितवास्तुकर्मके २
१ आय
आयत्वं च पृथुत्वे न गुणयेदाकर्मणि
अष्टाभिर्हरेत्भाग यत्शेषं आयादिशु ३
ध्वजाधूमस्तथा सिंह श्वानोवृषखरौगज
ध्वाक्षं चैव समं दृष्ट्वा प्रार्व्यादिषु प्रदक्षिणे ४
ध्वजो सिंहो वृषो गजो शश्यतेश्रुभवेश्मशु
अधमानं खरोध्वांक्षो धूमश्वानःसुखावहा ५
प्रासाद प्रतिमालिङ्गे जगती पीठमंडपे
वेदी कुंडेशुचि चैव पताकाछत्र ध्वजादेय ६
अग्निकर्मषु सर्वेषु होमशाला महानसे
थूमोऽग्निकुंडसंस्थाने होमकर्मगृहेऽपि च ७
आयुधेषु समस्तेषु नृपाणां भवनेषु च
नृपासने सिंहद्वारे सिंहतत्र निवेशयेत् ८
श्वानोम्लेच्छं गृहे प्रोक्तो वेश्यागारे नटस्य च
नृत्यकारेषु सर्वेषु श्वानःश्वानोपजीविनाम् ९
वणिजकर्मषु सर्वेषु भोजनपात्रेषु मंडपे
वृषास्तुरङ्गशालानां गौशालागोकुलेषु च १०
तत् वितघ्नादिस्वरे वाजित्रे विविधे तथा
कुलालरजाकादिका खरो गर्दभोपजीविनाम् ११
गजश्च गजशालायां सिंहयत्नेन वर्जयेत्
सिंहासने गजं देयं यानस्याय गृहेषु च १२
मठेषु यंत्रशालासु जिनशालादिकेषु च
ध्वांक्षं चैव प्रदातव्यं शिल्पकर्मो प्रजीविनाम् १३
वृषस्थाने गजं दद्यात् सिंहवृषमहस्तिनौ
ध्वज सर्वेषु दातव्यं वृषो नान्यत्र दीयते १४
प्रासादे मंडपे बाह्ये गृहे भित्तिस्तु मध्यत १५
आय स्वरूप
यथानामा तथामुखा ध्वजनर ध्वांक्षकाकरूपकं
मुखैः स्वनामा सदशाः नराकार करोदरा १६
हस्तभ्यां तदूरुपाढ्या पादाभ्यां विहंगाकृते
सर्वेषां सिंहवह्नीवा प्रबलाश्च महोकटा १७
२ नक्षत्रा
फले चाष्टगुपो तस्मिन् सप्ताविंशति भाजित
यदच्छेषं लभते तत्र नक्षत्र तद्गृहेषु य १८
३ गण
पुनर्वसुश्विनी पुष्य मृगश्रवणरेवती
स्वाति हस्तानुराधाय एतेदेवगणाःस्मृता १९
भरणी रोहिणि आद्रा र्! पूर्वाणि तृतीयं तथा
उत्तरात्रयं श्रैव नवैते मानुषागणा २०
विशाखा कृतिकाश्लेषा मघा च शतभिषास्तथा
चित्रा ज्येष्ठाधनीष्ठा च मूल एते च राक्षसा २१
स्वगणे चोत्तमा प्रीति मध्ये मानवराक्षसा
कलहो देवदैत्यानां मृत्युमानवराक्षसै २२
४ चंद्र
कृतिकाद्या सप्त सप्त पूर्वादिषु प्रदक्षिणे
अष्टाविंशति ऋक्षाणी ततः चंद्र मुदियते २३
अग्रतो हरते आयु पृष्ठतो हरतेधन
वामदक्षिणातो चंद्रो धनधान्यकरस्मृता २४
प्रासादे रात्रवेश्मेषु चंद्रो दद्यात् अग्रतो
अन्येषां च न दातव्यं श्रीमंतादि गृहेषु च २५
५ व्यय
नक्षत्रं वसुभिर्भक्त यच्छेषं व्ययो भवेन
समव्ययः पिशाच राक्षसस्य व्ययोऽधिकं २६
व्ययन्यूनो नरोऋक्षो धनंधान्यकर स्मृता
६ अशंक
मूलराशी व्ययक्षिप्यं गृहनामाक्षराणि च २७
त्रिभिरेव हरेद्भागे यच्छेषं तदंशकम्
इंद्रो यमश्च राजानां अंशके क्रमेण तु २८
प्रमाणं त्रिविधोत्कर्तव्या ज्येष्ठ मध्यम कन्यस
७ तारा
गणयेत्स्वामि नक्षत्रं यावदक्षं गृहस्य च २९
नवभिश्च हरेत्भागं शेषं तारा प्रकीर्तिता
ताराषटश्रुभाप्रोक्ताद्येकाद्विचतुषडाष्टनवके ३०
त्रिपंच सप्तभिश्चैव एमितारा विवर्जिता ३१
इति श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्याय आयादिगणिताध्याय प्रथमोऽध्याय क्रमांक १ पूर्वार्ध

द्वितीयोऽध्याय[सम्पाद्यताम्]

श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे क्रमांक द्वितीयोऽध्याय २
ग्रंथपूर्ति
वास्तुप्रारंभ
शुभ लग्ने शुभ नक्षत्रे पंचग्रह बलान्विते
मास संक्रांतिवत्सादि निषिद्धकाल वर्जिते १
भूमिपरीक्षा
सर्वदिक्षुप्रवाहो वा प्रागुदक्शंकरप्लवा
केशांगाराकाष्टलोहास्थिक्रान्त शोधयेत् भूमि २
पाषाणान्ते जलान्तवा वालुकान्नखनेन्त भूमि
दिग्शुद्धिकृते वास्तु पुरप्रासाद मंदिर ३
पंचवानवाशिला मध्ये कर्मशिला स्थापयेत्
एक हस्ते तु प्रासादे शिलो वेदांङ्गुलो भवेत् ४
षडांङ्गुला द्विहस्ते च त्रिहस्ते च ग्रहाङ्गुला
चतुहस्तेय प्रासादे शिलास्याद द्वादशाम् ५
ततोऽपरेष्ट हस्तांते वृद्धिवेदाङ्गुलो भवेत्
पुनः त्र्! यंगुलातो वृद्धि पंचाश हस्तकावधि ६
पादेन चोच्छिता शस्तातां कुर्याद् पंकजान्वितम्
दिग्पाल क्षेत्रपाल गणेशचंडीका वास्तौ ७
एतेषां विधिवत्पूजा कृत्वा कर्मसमारभेत्
शिलाधः नागकूर्मोपरिकुभ स्थापयेत् ८
एक हस्तादिप्रासादाद् यावद् हस्तशतार्धकम्
प्रमाणां कुंभकेमुले नासिकेभित्ति बाह्यते ९
त्रिपंचसप्तनवोभि फलनाभिर्विभाजितम्
प्रासादस्याङ्गसंख्या च वारिमार्गान्तरस्थिता १०
इति विश्वकर्माकृते वासुविद्यायां वास्तुशास्त्रे वास्तुप्रारंभाशिला स्थापना ध्याय द्वितीयोऽध्याय २

तृतीयोऽध्यायः[सम्पाद्यताम्]

श्री विश्वकर्माकृतायां वास्तुविद्यायां जगती लक्षणाध्याय क्रमाक ३
विश्वकर्मा उवाच
अतः ऊर्ध्वप्रवक्ष्यामि जगत्यां लक्षण परम्
ये नैव कृतमात्रेण सर्वश्रेय समाप्नुयात् १
प्रासाद विस्तर तुल्य प्रासादार्धं प्रमाणतः
पादोनं वाथ कर्तव्यं सार्धवाथ प्रयोजयेत् २
द्विगुणं वाथ कर्तव्यं सोपानायाम कीर्तितः
शुण्डिकासु च विज्ञेयं तत्पादे गण्ड विस्तरम् ३
द्वितीयं तत्समं ज्ञेयं शुण्डिकोभयतः स्थिता
प्रासादार्धसमं ज्ञेयं जगतीभद्र निर्गमम् ४
पादोनं वाथ कर्तव्यं प्रासादस्य समं ततः
भद्र निर्गम तुल्यं तु जगतीगण्डनिर्गमम् ५
द्वितीयं तत्समं कार्य प्रतीहारास्तदग्रतः
मूलनायकं यन्मानं तन्मानात्पादवर्जितम् ६
ऊर्ध्वोदयलक्षणम्
जगत्योदय संग्राह्या चतुर्दश विभाजितम्
प्रथमे चतुरश्रे तु सार्ध्वभागसमुच्छ्रयम् ७
द्वितीयं तत्समं कार्यं तृतीयं तत्प्रमाणतः
चिप्पिका ऊर्ध्वमेकेन भागमेकेन कुंभकम् ८
भागार्धे खुरकं ज्ञेयं पादोनं जाडयकुंभकम्
भागार्धे कर्णकं कुर्यात् पादोनंतरपत्रिका ९
भागार्धं खुरकं कार्यं सार्धं भागं तु कुंभकम्
पादोनभागमुत्सेधं कलशं कुर्याद्विचक्षणः १०
भागार्धे नान्तरपत्रं पादोनं च कपोतिका
रूपकण्ठं च भागेन निर्गमं तु त्रिभागिकम् ११
एतेन कथितं सर्वं जगतीनां समुच्छ्रयम्
तथाहं कथयामिति तव पुत्र यथार्थतः १२
राजसेनो धरेनाम अर्धभाग प्रमाणतः
सार्धभाग समुच्छ्रेया पत्रयुक्तं सुवेदिका १३
आसनपट्टमानं तु अर्धभागं च सङ्ख्यया
विस्तारं च द्विभिर्भागैः पादयुक्ताश्च कारयेत् १४
मत्तवारणकं चैव सार्धभागसमुच्छ्रयम्
तस्योदयंश्च त्रिभागेन पिण्डं कुर्याद्विचक्षणः १५
पादोन कायेत् पिण्डश्च न न्यूना न ततोधिका
अथ प्रासादमानेन कन्यसे चैव चोच्यते १६
अर्धेन कोणधामानि चतुःकोणेन दापयेत्
वामे गणाधिपत्यं च दक्षिणे पार्वती स्मृता १७
नैरृत्ये भास्करं विद्यात् वायव्ये च जनार्दनम्
मातृभिर्मातरस्थाने दक्षिणं दिशमाश्रितम् १८
पश्चिमांजलशेनस्तु सौम्यायां अश्ववाहनम्
स्थात्पथि चैव कर्तव्यं ईशान्यां देवतालयम् १९
प्रासादस्योत्तरे कार्यं गृहं चन्द्र स्य चोत्तमम्
चतुरश्रं च वृत्तं वा वलभ्याकृतिमुत्तमम् २०
अर्धभागे त्रिपादे वा यथा वाध्यान जायते
तथावै कार्य्येत्प्राज्ञः जगत्यां मध्यसंस्थितम् २१
चारुसिंहासनासीनं नीलमेघाञ्जन प्रभम्
ऊर्ध्वे चक्रं सुते जाढ्यं पिवंतं स्नपन सदा २२
टंकऽपाणि महाचण्डं प्रणालाधो व्यवस्थितम्
इदृशं कारयेच्चण्डं सर्वकामफलप्रदम् २३
स्वयं बाणलिङ्गे च स्थण्डिले मण्डलेपि वा
अद्वैतमन्त्रसंयुक्ते चले चण्डेन विद्यते २४
रोहलिङ्गे स्वयम्भूबाणलिङ्गे सवेदिका
इतरे च जगत्यायां चले चण्डेन विद्यते २५
बाण रोहे चले सिद्धे न चण्डाय स्वयम्भूवा
प्रतिमानां च सर्वेषां अद्वैते स्थण्डिलेन हि २६
नंदिमंडप
वृषभं तोरणं चैव तथा वै नृत्यमण्डपम्
प्रासादाग्रे प्रकर्तव्यं सर्वशोभा समन्वितम् २७
अनन्तरं च त्रिभागेन चतुर्थांशेन चोत्तमम्
भूतांशेन तु कर्तव्यं द्वितीयं नृत्यमण्डपं २८
जगत्यायाम गर्भं तु गर्भं वै मण्डपस्य च
तत्समानः प्रतीहारा द्वारे च वामदक्षिणे
नामानि च प्रवक्ष्यामि यथोक्तानि स्वयंभुवा २९
जगती चतुर्मुखा नामः महाकालं च वामतः
दक्षिणे तु भवेन्नंदी सर्वविघ्नविनाशन ३०
याम्या यां च स्मृतं द्वारं भृंगौ वामौ विनिर्दिशेत्
हेरंबो दक्षिणे कुर्यात् द्वारदो विघ्ननाशन ३१
पश्चिमायां दिशां वामे दुर्मुखो पाण्डुरो भवेत्
सौम्यायां च दिशां वत्स सितो वामेऽसितोत्तरे ३२
चत्वारि द्वारः विख्यातां जगत्यां रूपदायकाः
देव्यांश्च दिग्पालांश्च यथा स्थानतः शृणु ३३
पूर्वायां स्थापयेत् शक्रं अग्नौ चैवाग्नि गोचरे
यमं वै दक्षिणे भागे राक्षसान्नैरृति तथा ३४
वरुणे पश्चिमायां तु वायव्यां वायुदेवता
घनदं सोम दिग्भागे ईशान्याभीश देवता ३५
प्रासाद पृष्टि भद्रे तु जगत्यां याः कुमारिकाः
वामे च दक्षिणे चैव सप्तमातृ विनिर्दिशेत् ३६
जगती देवदेवस्य शृणु विष्णोर्यथा स्थिता ३७
आग्नेयां स्थापयेन्नित्यं मुदकन्तं विनायकम्
याम्यां वामनं रूपं नारसिंहं च नैऋते ३८
वायव्ये क्रोड रूपं च जलशयनः वारुणे
कौबेरे बालक्रीडा च ईशाने मधुनाशनम् ३९
एवं विष्णुं भवेज्जगती सूर्यस्य शृणु सांप्रतः
शिखीस्थाने कुजं स्थाप्यं गुरुं वामे प्रतिष्ठयो ४०
चन्द्र पुत्रं तु नैरृत्ये शुक्रं च वारुणे न्यसेत्
रविपुत्रं तु वायव्ये सोमे सोमं च स्थापयेत् ४१
राहु च शंकरे स्थाप्य स्थाप्यता वरदा भवेत्
सुमित्रस्य भवेद् ह्येवं देवद्रो णे सुखावहा ४२
अन्यथा कुरुते यस्तु सोपिकुर्य्याशिवेन्यथा
चण्डिकायां प्रवक्ष्यामि शृणु संक्षेपलक्षणम् ४३
विघ्नेशमग्निदेशे च मातृहर्म्यं च दक्षिणे
चामुण्डा नैरृते भागे मिश्रादेवी तु पश्चिमे ४४
लक्ष्मी च वायव्ये स्थाप्य भद्र काली च सौम्यगा
ऐशान्यां कालरात्री च सर्वकार्यार्थसाधिनी ४५
एवं तु स्थापयेद्देव्यः सर्वसिद्धकरःशुभा
जिनविहारम्
अथजिन विहार कथयाम्यहम्
विहारं यादृशं प्रोक्त तादृशं कथयाम्यहम् ४६
मध्ये स्थाप्यं बुधजीन् श्रीमान् अग्रे चित्रेण भूषिता
ताराहर्म्यं समोपेत यक्षवृंदगणान्वितम् ४७
एक भौम द्विभौमं वा त्रिभुयो कास्योरये
चित्रशाला समोपेतं उपवर्णसंकुलम् ४८
विहार एवमेवं च श्रीमुचान्य जिनालयम्
रिष्टनेम्ययतः कृत्वा ऋषभं च नियोजयेत्
चतुर्विंशती देवानि एकमेकं प्रतिष्ठयेत् ५०
यक्षैर्गणधरैर्दिव्यैः देवतैश्च विशेषतः
नानारूपकसंयुक्ता जगती कारयेत् शुभा ५१
प्रासादे मण्डपं कुर्यात् त्रिकं च तदनन्तरम्
अग्रं वलाणकं कार्यं द्विभूमं च त्रिणीस्तथा ५२
सप्त दश देवकुलीः स्थाप्या वामदक्षिणतः
त्रिकस्य पार्श्वयोश्चैव नवपृष्ट ष्टयोगयेन ५३
द्विपच्चाश तथा कार्या प्रदक्षिण क्रमेण तु
जिनस्याग्रे प्रदातव्यं समोवसरणं तथा ५४
अपूर्ण ५५
इति श्री विश्वकर्माकृत्तायां वास्तुशास्त्रे वास्तुविद्यायां जगती लक्षणाधिकारे क्रमांक तृतीयोऽध्यायः ३

प्रमाणलक्षणाध्यायः[सम्पाद्यताम्]

श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे भिट्टपीठ लक्षणाध्याय क्रमांक अध्याय ४
भिट्टमान
अतिस्थूलासु विस्तीर्णा प्रासाद घरणीशीला
अति सुद्र ढकार्या इष्टिका चूर्णवारिभिः १
शिलोपटि भवेद्भिट्टमेकहस्ते युजाङ्कुलम्
अर्धांगुला भवेदवृयविद् हस्तशतार्धकम् २
एकद्वित्रिणि भिट्टानि हीनाहीनानि कारयेत्
स्वस्योदयप्रमाणस्य चतुर्थांशेन निर्गमं ३
पीठमान
अथातः संप्रवक्ष्यामि प्रासादपीठमानतम्
एकहस्तेषु प्रासादे पीठं च द्वादशांगुलम् ४
हस्ताद्विपंचपर्यंत हस्तेहस्ते पंवाङ्कुलम्
पंयोर्ध्व दशयावत् वृद्धि वेदाङ्कुलं भवेत् ५
दशोर्ध्व विशपर्यंतं हस्ते चैवाङ्कुलं त्रयं
विशोर्ध्व षट् त्रिंशति कर वृद्धद्वयाङ्कुलम् ६
अतःऊर्ध्व शतार्धेन हरतेहरतैकमंङ्गुलम्
अर्धमाने त्रिभाजे वा पीठ चैव नियोजयेत् ७
स्थानमानाश्रयं ज्ञात्वा तत्र दोषो न विद्यते
प्रथम पीठं भाग
पीठस्यायोछ्रयो ज्ञात्वा भागं वक्ष्यामि तत्वतः
चत्वारिंशद्विभिश्चास्य ऊर्ध्वभागा विभाजिते ८
अष्टभागैर्भवेध्वत्स । जाडयकुम्भं द्विजोत्तम
कर्णं सार्ध विभागं तु भागार्ध चान्तरपत्रकम् ९
सार्ध पंचाभिमानं स्कंधकुर्याद्वियक्षणाम्
पट्टिकाचार्ध भागं तु चाष्टभागाश्य निर्गमम् १०
कर्णालिकां ततः कुर्यात् भागै चैव चतुर्दशम्
कर्णं सार्धं यं ज्ञेयं भागार्ध चांतरपदम् ११
चिप्पिका भागमेकं तु चान्तरपदं द्विभागिकः
सार्धद्विभागिका कार्या कपोतालिस्तु शोभना १२
भागार्धं तत्र मध्ये तु स्कन्धं चान्तरपत्रिका
ग्रासश्च पद्विका कुर्यात् सार्धपञ्चस्तु उन्नत १३
अतो भागार्ध मध्ये तु चिप्पिका दलशोभना
षड्भागास्य भवेत् वत्स निर्गमं तु कणालिका १४
चिप्पिका भागमेकं तु कपोतालिर्द्विभागिका
चिप्पिका तत्समा प्रोक्ता त्रिभागं कणकं भवेत् १५
अतन्मेतवमाक्ष्यान्तं कणालिका प्रमाणकम्
गजपीठं च वक्ष्यामि भागैर्युक्तं च द्वादशै १६
पट्टिका अन्तरपत्रं तु भागार्ध चारु शोभना
कर्ण च भागमेकं च भागार्ध स्कंधपट्टिका १७
सार्धचाष्टो समाख्याता गजाःभागेस्तु शोभना
कपोतालिश्च कर्णं च भागमेकं सुविस्तृतम् १८
भागार्ध स्कंधपट्टिस्तु त्रिणिभागस्तु निर्गमः
नरपीठं पीठ मध्यैः भागैश्चाष्टैः समन्वितः १९
चिप्पिकान्तर पत्रः भागमेकं च कारयेत्
रूपाणि षट्सार्धेन अर्ध स्कन्धं च पट्टिका २०
एतन्मेवतमं वत्स द्विभागाश्चैव निर्गमे
पीठमानो समादिष्ट प्रासादमान समन्वितम् २१
द्वितीय पीठम्
शतार्द्धत्रीणि संयुक्ता पीठभागं च मध्यमे
नवभिर्जाडयकुम्भं च निर्गमं चाष्टभागिकम् २२
कणालिका प्रकर्तव्या भागैश्चैव चतुर्दश
षड्भिस्तु निर्गमे कुर्यात् गजाश्चैव त्रयोदशैः २३
निर्गमे त्रीणि भागानि नवभिरश्वपीठकम्
निर्गमे त्रीणि विज्ञेया वसुभिर्नरपीठकम् २४
द्वौ भागौ निर्गमे तस्य मध्यपीठं अयंविधि
तृतीय पीठम्
उत्तमं संप्रवक्ष्यामि षष्टिभागैर्विभाजिते २५
वसुभिर्जाडयकुम्भं तु निर्गमं तु तदेव हि
मनुसङ्ख्या कणाली च निर्गमे ऋतुभागिकाः २६
त्रयोदशैर्गजाज्ञेया निर्गमे त्रीणिमेव च
नंदस्या सङ्ख्या भवेदश्वा त्रीणि निर्गममेव च २७
नराणां मातराणां च अष्टवाष्टो प्रकल्पयेत्
द्वौ द्वौ निर्गमे ताभ्यां ज्येष्ठपीठ अयं विधौ २८
चतुर्थ पीठम्
चतुर्थ कन्यसं पीठं प्रासादस्यानुरूपतः २९
पञ्चमे षष्टमे भागे सप्तमे चाष्टमेव च ३०
पीठं चैव प्रकर्तव्य अत ऊर्ध्व न कारयेत्
अष्टभिर्जाडयकुम्भं च निर्गमे वसुभार्णिकम् ३०
मनुसङ्ख्य कणाली च निर्गमे ऋतुसङ्ख्यया
एवं कृते भवेतसिद्धिं कर्तुं काशपकः सदा ३१
कनीयसपीठाङ्गोपाङ्गानि
भागार्धं घसिका कार्या पादोन कर्णकं द्वयम्
पञ्च भागोच्छ्रितं स्कन्धं पादोनं चैव चिप्पिका ३२
चाष्टभाग समुच्छ्रयं जाडयकुम्भं सुशोभनम्
निर्गमं चाष्टाभिर्भागै अतोदूर्ध्वं च कणालिका ३३
भागार्धा घसिका कार्या कणकं सार्धद्विमुच्छ्रयम्
चिप्पिका भागमेकं तु द्वितीयान्तरपत्रिकाम् ३४
सपादस्कन्ध द्वयं स्यात् पादोनं कर्णमुच्यते
पादोनं स्कन्धचोच्छ्रायं घसिका भाग पादकः ३५
सार्ध त्रयोच्छ्रिता कार्या ग्रासपृट्टी सुशोभना
पादोनं कर्णमुच्छ्रेयं पादोन चैव चिप्पिका ३६
चतुर्दशै समुच्छ्रेयं कर्णमालि सुशोभना इतिकामदपीठ
षट्भागं भवेत्वत्स निर्गमं च कणालिका ३७
कर्णपीठ
चिप्पिका भागमेकेन कर्णद्विसार्धभागम्
घसिकार्ध भागेन प्रोक्तस्कंधत्रिभागम् ३८
कर्णकद्वीभागेन चाष्टभागं कर्षापीठकम्
एतेने तत्रमाख्याता कर्णपीठ सुशोभना इति कर्णपीठ ३९
देवप्रासादपीठादेयम्
पीठं चत्वारि उक्तानि प्रासादेषु च कारयेत्
शिवे च ब्रह्मणे चैव विष्णुना च रवैस्तथा ४०
बौद्धे जैनै च कर्तव्या पीठा चत्वारि शोभना
यक्षं च चण्डी तथा दुर्गा गौरी गणपतिस्तथा ४१
महालक्ष्मीस्तथा स्कन्दे योगिनीनां तथैव च
पीठानि कार्येन्नित्यं प्रासादेषु च सर्वेषु
इदस्यं कुरुते यस्तु सर्वकामफलं लभेत ४२
देवपीठ विभाग
ऊच्छयेयत्र पीठस्य त्रिशता परिभाजिते
एकांशभूगतं कार्यं त्रिभागः कण्ठपीठिका ४३
भागार्ध मुखपट्ट च स्कंधः सार्ध्वत्रयोन्नत
स्कंधस्य पट्टिका वै स्याद् भागार्ध चान्तरपत्रिका ४४
कर्णः सार्द्धद्वयं वै स्याद् भागैकं चिप्पिकामत
द्विभागं चान्तरपत्रकं कपोताली द्विसार्द्धिका ४५
सार्द्धपंचग्रासपदि कर्तव्याविधिपूर्वकम्
अर्धे मुखपट्टिकाख्या त्रिभागं कर्णशोभनम् ४६
अर्धः स्कंधपट्टि कार्या चतुर्भागश्च स्कंधकः
क्षोभणश्चाष्टभागैः कर्तव्य तदशंकितैः इति देवपीठ ४७
दोषफलम्
मानहीनं न कर्तव्य मानाधिक्यं न कारयेत्
मानहीने कुलोच्छेदं स्थापकस्य तदाभवेत् ४८
स्थापकस्या भवेद्दोषं नरके पतनं ध्रुवम्
शिल्पीनो निष्कुलं यान्ति मानहीने कृतेन तु ४९
मानाधिक्ये कृते चैव राष्ट्रभङ्ग भयंभवेत्
न दोषः स्थापकश्चैव यजमानस्य विद्यते ५०
अन्य च कुरुतेयस्तु शिल्पीदोष भवाप्नुयात्
इति श्री विश्वकर्माकृतायां वास्तुविद्यायां वास्तुशास्त्रे भिट्टपीठ प्रमाणलक्षणाध्याय क्रमांक ४

अध्याय ५[सम्पाद्यताम्]

श्री विश्वकर्माकृते वास्तुविद्यायां प्रासाद कटयोच्छ्रय लक्षणां क्रमांक अध्याय ५
मंडोवर प्रासादोदयमान
अथातः संप्रवक्ष्यामि प्रासादस्य तु लक्षणम्
प्रासादस्य तु यन्मानं ज्ञातव्यं मूलनासके १
अंगुलानि ततो ज्ञात्वा दशभागे विभाजित
एकहस्तं द्विहस्तं वा कूर्यात्तय समोदयं २
त्रिचतुःपंच हस्तं तु नवभागोदये स्मृतं
षट् सप्तहस्तके चैव अष्टभाणमुच्छ्रयं ३
नवाष्टकेषु प्रासादे सप्तसार्ध्व प्रमाणकं
दशमेकादशैव चैव सप्तभाग समुच्छ्रयं ४
द्वादशे त्रयोदशे च षटसार्धतुकाश्येत्
अतः ऊर्ध्व ततो कुर्यात् द्यान द्विंशस्तु हस्तके ५
षट्भागस्य प्रमाणं तु कर्तव्यं शिल्पीबुध
विशहस्तात्यरे ज्ञात्वा यावत्षट्विंशहस्तकं ६
कटयुच्छ्रयं तु कर्तव्य पंचसार्ध्व समुच्छ्रिता
षट् त्रिंशमत कृत्वा यावत्पंचाशहस्तक ७
पंचभाग प्रमाणेन कर्तव्याशिल्पिनोबुधः
घटादौ छाद्यपर्यंत विभक्ति मध्यमध्यया ८
एकभेदा समाख्यान द्वितीयं शृणु सोप्रत
प्रासादयं च मानं च ९
प्रासादमेमुलाना कृत्वा विभजेन्नवभागिकं
एकहस्तद्विहस्तं वा त्रिहस्तं चतुःपंचक १०
अधःपदयोर्ध्व पदंय नवभागं कारयेत्
षट्सप्त हस्त प्रासादे कर्तव्यं चाष्टभागिकं ११
नवचाष्ट हस्तप्रासादे सप्तभागप्रमाणकं
दशमेकादशे पुत्र षट्सार्ध्व भागमानक १२
द्वादशे त्रयोदशे ज्ञात्वा पंचसार्धश्च भाजत
अतऊर्ध्वततः कुर्याद्यावद्विंशश्च संख्यया १३
पंचभाग प्रमाणेन कर्तव्या शिल्पिनो बुध
विंशोर्ध्वेत्ततः कुर्याद्यावत्पंचाश हस्तकं १४
तावत्यर्ध कर्तव्ये प्रासादस्यानुमेखला
नवभागप्रमाणेन उच्छ्रये भाग संख्यया १५
शलिलांत्तर
अथातो लक्षणं वक्ष्ये सलिलान्तर निश्चयं
यावद् हस्तप्रमाणेन विस्तारक्रियते कटि १६
तावदङ्गुलमानेन निर्गमं तस्य कारयेत्
निर्गमं पंचमॐऽशेन वारिमार्गान्तरक्षोभना १७
क्षोभयानास्तु पादेन विस्तारतस्य कारयेत्
मद्रा र्ध तु ततो वत्स ज्ञातव्यं मूलनासके १८
दशधा भाजितं कृत्वा भागैके मूल नासिक
द्वितीया फालना कार्या पादोनत्रयविस्तृता १९
तृतीया च त्रिभिर्भागैः कर्तव्या नामसंशय
भागार्धनु ततः कार्य सपादचयविस्तृता २०
अनेनैवचभागेन निर्गमंस्याफालना
यावद्हस्तप्रमाणेन कटिमान विधीयते २१
तावदेङ्गुलपास्तु फलादैना तु निर्माम
अनुगेषु तथा प्येयं एव कोणेषु मापयेत् २२
मंडोवर विभाग १७०
अतोर्ध्व चैव कर्तव्यं शतमेकोनसप्तभिः
क्षुनमादो पादपर्यंतः विभक्त भाग योजयेत् २३
एतेश्चैव भाजैस्तु क्षुरकंस्तु क्रतु कल्पयेत्
भागविंश त्रयधिका ततोकुभे भागाश्च कारयेत् २४
अत ऊर्ध्व तु यदिस्तु कुर्याद्भागं पदात्फलं
कलशं दिगभागानि ऊर्ध्वपद्वित्रिपादत २५
अर्धाच्च तेन मानेन अंतरपत्रं तथा शृणु
चत्वारिभाज तो वत्स कर्तव्या शिल्पिनातधः २६
कुमालिका भाग श कथयामि सार्धनव
भागत् कर्णभाग द्वयं कुर्यात् स्कंध द्विभागितं २७
स्कंधोर्ध्व षट्टिका वत्स भागोर्ध कारयेद्बुधः
कर्ण तलै पट्टिका वत्स उभयोर्द्विभागमेव च २७
कर्ण तु भागमेकं तु त्रिभाग स्कंधमित्युक्तं
वर्तनात्तु कुमालिका एवं सार्ध नव भागत् २८
मसुरकं तु वक्ष्यामि भागः सार्धदशेन तु
कर्णकभाग चतुष्केन तन्मध्ये स्कंधपट्टीका २९
कणॐ भागसार्धेनु
स्कंध भागत्रयं अधः पट्टिका अर्धभूषिते ३०
कामरूपवती नाम विन्यसेत्सार्धभागिका
अंतरपत्रं तु विख्यातं भागार्ध च कारयेत् ३१
जंघा
जंघाकायां तथा कार्या च तु चत्वारिंशत्तु भागत्
जंघालथैव कर्तव्या सुरूप्त रूपसंयुत ३२
दिशापालैस्तु सायुक्ता भद्र खत्तक भूषिता
उत्तरे विन्यसेच्चंडी दक्षिणैंडधक भैरव ३३
नाटेश्वरं न्यसेद्भद्रे पश्चिमे नृत्यसंयुतं
अथवा च प्रकर्तव्या देवता त्रय संयुताः ३४
ब्रह्मा दक्षिणे भागे वामे विष्णुः प्रकीर्तित
रुद्र स्तु पश्चिमे भद्रे सर्वसोभाग्य संयुतं ३५
रथिकैश्च विचियेस्तु अनुजेषु च योक्षितो
किं तु संपात कोणेषु मुनिस्तत्र संस्थितेः ३६
सिंहकर्णार्धमुत्सेध भद्रं उद्भम् समुछ्रय
सर्धपादाधिकं चैवा विंशभागाश्च कारयेत् ३७
अंतरपदं तथा भागं कारयेद्विचक्षणा
ग्रासस्थपट्टिका चैव पंच भागस्तु संख्यया ३८
दशभाग उद्गमो वक्ष्ये मध्ये संयोज्यसूनुतुः
कर्णय पट्टीकायुक्त सार्धभागं तु कारयेत् ३९
सार्ध भाग समाख्याता भरण च निबोधये
कपोताली तथा वक्ष्ये भागमेकञ्च विन्यसेत्
स्कंधतथेतियुकत सार्धभागं तु कारयेत ४०
सार्धभाग समाख्यात भरणो च निबोधयेत्
भरणं च ततो प्राज्ञ सार्ध द्वादश संख्यया ४१
कामरूपट्टिका चैव भागमेकं समुच्छ्रिता
पाद्न चिप्पिका कार्या कर्पापाद्नकद्वय ४२
गौभार्ध घसिका कार्या भागार्धनत् पट्टिका
द्विभिर्भागैस्तत स्कंध कर्ण भागेन कायसेत् ४३
सार्ध भागोच्छ्रितं स्कंध कर्ण सार्ध समुच्छ्रितं
कर्तव्ये चांतरपत्रं द्विभिर्भागै समुच्छ्रितं ४४
एवमेवं हि कर्तव्य भरण सार्ध द्वादश
भागैश्चतुर्दशेश्चैव कपोताली वदाम्यहं ४५
भागार्धे पट्टिका कार्या स्कंध सार्धसमुच्छ्रिता
पट्टियांद्वयं कार्यं भागमेकं समुच्छ्रितं ४६
भागद्वयो छितं स्कंध कर्णसार्धद्विभागक
भागेर्ध चार्ध पट्टिस्तु कर्तव्या नात्र संशय ४७
पंच भागोच्छ्रिते कार्यं अंतरपत्र च शोभन
कपोताली समाशयाता कूटछाद्यं वदाम्यहं ४८
कूटछाद्यं ततो वक्षे भागैचैवतुषौंऽशौ
कामरूप च कर्तव्य भागपादेन संयुतं ४९
चिप्पिका तत्प्रमाणेन त्रैश्चैव तु भूषित
सार्ध भागोच्छ्रिता कर्ण दंडभागेन मुच्छ्रित ५०
पादोनै कृतभि मार्गैः स्कंध कार्यसुवर्त्तित
पाद्नै घसिका कार्या मागार्धेन तु पट्टिक ५१
सार्धभागोछ्रिताकर्ण स्कंध पादोनक द्वय
तस्योर्ध पट्टिका कार्या भागार्धेन तु चौच्छिता ५२
प्रवेशं च कपोतश्च भागायत्वारी नान्यथा
निर्गमं च प्रवक्ष्यामि कर्णसूत्रागतःछ्रितं ५३
दशमेकाधिकै भागैः तत्वनातस्य कारयेत्
लंबुना तु द्विधाकृत्यं अग्रभागांगुलीकृत ५४
तरयाग्रे चिप्पिका कार्या मणिबंध तथापरे
कपोताल्य कर्णस्य कारयेच्चापरांदिश ५५
पंचयुक्तानि अधन प्रविशेतु प्रवेशिकं
खल्वणा कारयेत्तत्र कर्णस्योर्ध्व समाबुधः ५६
तस्योर्धपट्टिका कार्या सार्ध भाग समुछ्रता
स्कंध सार्धद्वय कार्य भागं नैकेनपट्टिका ५७
शलिलान्तर सप्तभिर्भागैस्तद्वत्प्रवेशनं
कूटछाद्यं भवेदेवं षोडशैस्तु समुछ्रत ५८
गर्भन्यासार्धमुच्छ्रायं गर्भकार्या प्रयत्नत
प्रासादसपाद सार्धमर्धवा अत्युच्चभयकारक ५९
अपूर्ण
इति विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे प्रासाद कटयोछ्रियं लक्षणं मंडोवराधिकार अध्याय कमांक ५

द्वारमानलक्षणाध्याय[सम्पाद्यताम्]

श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे द्वारमानलक्षणाध्याय क्रमांक ६
श्री विश्वकर्मा उवाच -- द्वार लक्षणं मान प्रमाण
द्वारस्य लक्षणं वत्स कथयामि यथार्थत
एकहस्ते तु प्रासादे द्वारस्यात् षोडशांङ्गुलम् १
षोडशाङ्गुलं वृद्धि पर्यंत चतुर्हस्तकम्
गुणङ्गुका भवेद् वृद्धिर्यावम् वसुहस्तकम् २
अतः ऊर्ध्व द्वयाङ्गलावृद्धि पंचाश हस्तकम्
यं दृष्टा त्रिदशाः सर्वे विस्मय परमंगलः ३
ज्ञातव्यं द्वारमुत्सेधं शिल्पिनेन तु तत्त्वतः ४
पञ्चमांशेन पादेन त्रिभागेन तु कार्यतः
प्रासाद द्वार विस्तारं द्विगुणं तस्य चोछ्रयम् ५
द्वारस्य विस्तरं ज्ञात्वा शाखा लक्षणमब्रवीत्
पञ्च मांशेन हीना च षोडशोना तदर्धतः ६
त्रिभागेन प्रकर्तव्या पादूना वाथ कारयेत्
शाखास्य विस्तरं वत्स एकैकस्य तु प्रकल्पयत् ७
शाखास्य विस्तरं वत्स भागैश्चैव विभञ्जयत्
शाखास्य विस्तरं ज्ञात्वा त्रयोविंशार्ध संयुतैः ८
--- कर्तव्यं तु सदा तज्ञे
--- शिल्पिनिः शास्त्रपारगैः ९
भद्र शाखा तु कर्तव्या भागैश्चतुर्भिरेव च
रूपशाखां द्वयोर्भागा द्वितीया तत्समा भवेत् १०
तृतीया चैव त्रिभागा द्वौभागौ च चतुर्थिका
पत्रशाखां त्रिभिर्भागैरुभयोः पार्श्वयोः समाः ११
बकुली सार्ध भागेन भागं भागं च चिप्पिका
घसिका सुर संयुक्ता वौलिका भगतस्थिताः १२
पत्रशाखा द्विभिर्भागै पट्टिका द्वय संयुता
--- खल्वशाखा च भागतः १३
शाखाश्च पेटकं पुत्र द्वार विस्तार पादतः
उदयं च प्रवक्ष्यामि यथा वदनु पूर्वशः १४
द्वारस्य चोछ्रयं ज्ञात्वा विंशभागैर्विभाजयेत्
दशपञ्च तथा कुर्यात् अतोर्ध्व भज्जनं शृणु १५
रथिका भद्र शाखास्य भागाश्चत्वारि दापयेत्
निगरं चाष्टभिर्भागैः शेषं चैवोपरिस्थितिम् १६
यस्य पदा देवा प्रतिहारा तस्य कारयेत्
सीमा मधेयदेवान् उपरे तत्र कारयेत् १७
निगरे वामा शाखायां महाकालं तु कारयेत्
दक्षिणे तु स्थितोनन्दी सर्वोपद्र वनाशनः १८
शिवस्याग्रे भवेद् ह्येवं नान्येषां तु सुरालये
निगरस्योपरिष्टा तु शिवरूपाणि कारयेत् १९
त्रिरथिकं च कर्तव्यं चतुर्भि वाथ कारयेत्
उपर्युपरि विन्यस्य रथिका शाखमानतः २०
उत्तरङ्गम्
उत्तरङ्ग च वक्ष्यामि यथोक्तं च स्वयंभुवा
द्वारोच्छ्रयस्य पादून त्रिभागेवाथ चार्धतः २१
उछ्रयं चैव कर्तव्यं कथितेन यथार्थतः
भद्रे षु पल्लवैर्युक्तं भरणेषु विशेषतः २२
मालाधरस्तथायुक्तं मध्यभागे विनायकम्
ग्रहैश्चैव समोपेतं अधिनायक रूपकै
रथिको द्वि द्वि वधेषु भूषितव्यं प्रयत्नतः
उदम्बरम्
उदम्बरो ततो वक्ष्ये उच्छ्रयेण विशेषतः २४
द्वारोच्छ्रयस्य पादेन बाहुल्यो उदुम्बरस्य च
कर्तव्यं सर्वतस्तेवं घटां तस्य समोदयम् २५
द्वारविस्तार त्रिभागेन मध्यकन्द कारयेत्
मृणालेन समायुक्तं पद्यं कुर्यात्ततोपरि २६
पार्श्वयोरुभयोः कार्य ग्रासरूपं सपत्रकम्
धनदं वामदेशे तु दक्षिणे तु विनायकम् २७
युग्मेन सहितं वाथ कर्तव्यं नात्र संशयः
पीठोपरि तु कर्तव्यं मृणालं रूपसंयुतम् २८
मूलनासिक्योर्मध्ये समसूत्रं तु शोभनम्
शाखायां भित्तितुल्यं न न्यूनं न ततोऽधिकम् २९
सीमाधिक्यं हने दृष्टं भृत्यां श्चैवस्तु बान्धवान्
सीमा मध्यगतं वाथ स्वसुतं स्वामीनं हनेत् ३०
ऋजुसूत्रस्य चक्र स्यात् प्रजाहानिस्तदा भवेत्
अज्ञानात्स्थापयेदस्तु शिल्पीन च बुद्धिमान् ३१
निष्कुलं शिल्पीनस्तत्र कारकं मृत्युमाप्नुयान्
अथ शास्त्रप्रभाणेन उभयोरन्तरं चिरम् ३२
अर्धचन्द्र म्
अर्धचन्द्र प्रवक्ष्यामि द्वारविस्तार चार्धतः
कर्तव्यं निर्गमं तस्य न न्यूनं न ततोऽधिकम् ३३
निर्गमस्य च यन्मान द्विगुणं कारयेद्बुधः
त्रिभागेन नगरक उभयोः पार्श्वताः समम् ३४
पद्मं च मध्यतः कुर्यात्ततो वृत्तं समालिखेत्
शङ्खयुग्मं समायुक्तं पद्माकारैः समावृत्तम् ३५
एतत्ते कथितं सर्व निःसन्देह यथार्थतः
अपूर्ण
इति श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे द्वारमान लक्षणाध्याय क्रमांक ६

अध्याय ७[सम्पाद्यताम्]

श्री विश्वकर्माकृतायां वास्तुविद्यायां वास्तुशास्त्रे क्रमांक अध्याय ७
प्राग्ग्रीवादिमण्डपाः
मण्डपा कथयिष्यामि पूर्वप्रासाद मानतः
समसार्धश्च द्विगुणाज्येष्ठ मध्यकन्यसा १
अनुक्रमेण ते सर्वे पदस्तंभानुपूर्वतः
प्राग्ग्रीवो वर्धमानश्च विजयो भद्र मेव च २
विशालः यज्ञभद्र श्च सुश्लिष्ठोमृत्मर्युदनः
भाग्यं च बुद्धिसंकीर्णः सर्वभद्रो जयावहोः ३
मुक्तकोणो हरिश्चैव मानभद्रो च सुवृत्तः
पुष्पभद्र ः! सुभद्र श्चैव छत्रं च पद्ममेव च ४
श्रीवत्सश्च धनालयः पुष्पकं पुण्डरीकं च
कौशल्यं च सुरप्रियं सुव्रतं शङ्खनाभकम् ५
सौभाग्यं कुन्दमेव च सूत्रं पूर्णचन्द्र कम्
--- अष्टकोणं तथैव च ६
इत्येतेन समाख्याता त्रयस्त्रिंशति मण्डपाः
प्रासाद विस्तरं कल्पं अग्रे च स्तंभकं द्वयम् ७
स तु प्राग्ग्रीवको नामं मण्डपं प्रथमं स्मृतम्
चतुर्भि च स्तंभमान चतुष्कि वर्धमानम् ८
चतुर्भागे कृते क्षेत्रे अग्रे कुर्याच्चतुष्किका
कर्तव्यो विजयो प्राज्ञः षड्भिः स्तम्भकैर्युतम् ९
तस्य भद्रे पदा त्रीणि दशस्तम्भैस्तु भाजितम्
भद्रं चैव समाख्यातं भद्र भागैक निर्गतम् १०
विशालं तु प्रवक्ष्यामि चतुर्भाग कृते भुवि
द्विषट स्तम्भकैर्युक्तो कथयामि यज्ञभद्र ः! ११
चतुःक्षेत्रं च प्राग्ग्रीवं भागद्वयं विनिर्गतम्
चतुर्दशयुते स्तंभैर्मण्डपं यज्ञभद्र कम् १२
क्षेत्रे विशाल संज्ञं तु त्रिदिक्षु भद्र कानि च
अष्टादशयुतैः स्तम्भैः सुश्लिष्टो नाम कीर्तितः १३
अष्टाष्टके कृते क्षेत्रे द्विरष्ट स्तम्भकैर्युता
चतुष्किकान्नतामध्ये कर्तव्यो मृत्युमर्दनः १४
क्षेत्रं अष्टाकृति कृत्वा कर्णभाग द्वयं मतम्
भद्रं च तत्समं कुर्यात् भाग्यं च द्धिनयै च ऐ १५
मध्ये चतुष्किकायुक्तं कर्तव्यं बुद्धिसंकीर्णम्
दशधा विभजेत्क्षेत्रे द्विपदं कर्ण विस्तरम् १६
भद्र शाला षडंशेन भागत्रय विनिर्गतम्
सर्वभद्रं चैवोक्तं स्तम्भकै दशचाष्टभिः १७
चतुःस्तम्भयुतं मध्ये मण्डपेस्तु जयावहः
विदिष्टते पदे क्षेत्रे अष्टौकर्ण द्विभागिकौ १८
भद्र कर्ण समं कुर्यात् स्तम्भकै विंशतिर्युतम्
मुक्तकोणं तु कर्तव्यं कक्षस्तम्भा समावृत्तम् १९
प्राग्ग्रीवे निर्गतं च हरिऽष्टाविंशति स्तम्भके
अष्टस्तंभधरैमध्ये मानभद्र ः! स उच्यते २०
स्तंभकैश्चतुर्त्रिंश तु कर्तव्यं शुभलक्षणम्
अष्टवर्ग कृते क्षेत्रे कर्ण भाग द्वयं मतम् २१
भद्रं द्विपदमेवोक्तं अनुगं भाग संयुतम्
अष्टाविंशधरैर्युक्तो सुवृतो मुनिसत्तमः २२
सर्वाश्चतुष्किका बाह्ये पुष्पभद्रं प्रकीर्तिताः
मध्ये चतुष्कीकार्या चतुस्तम्भ समाकुला २३
अष्टाविंशधरैर्युक्तौ मण्डपोयं सुभद्र कः
दिवाकरकृते क्षेत्रे त्रिचतुर्भ्रमंततः
कर्णद्विपदमेवोक्तं अनुग भागमेव च २४
भद्रं भागचतुष्केन द्विपदं तस्य निर्गमम्
चतुष्कोन्नतं मध्ये अष्टस्तम्भ विभूषितम् २५
तच्छत्रमण्डपं प्रोक्तं कर्तव्यं प्रीतिवर्धनम्
चतुस्त्रिंशच्च बाह्ये तु सूत्रये नात्र संशयः २६
चतुर्दश कृते क्षेत्रे भद्र षड्भाग विस्तृतम्
द्विभाग निर्गतं बाह्ये कर्णभागेष्टयं भवेत् २७
सूत्रेष्टांशं जायते स्फुटं स बाह्याभ्यन्तरम्
कुर्यात् विंशधरा --- पद्मे प्रकीर्तिता २८
चतुरश्रं दशधा क्षेत्रे भद्रं भाग यथान्वितम्
निर्गतं भागमेकेन सार्धभागेन चानुगः २९
द्विभाग कर्ण विस्तारं ---
त्रिंशस्तम्भ समायुक्तं श्रीवत्स शुभलक्षणम् ३०
द्विसप्तति कृते क्षेत्रे भद्रं भाग द्वयंमतम्
द्विपदं निर्गमं प्रोक्तं नंदिका भागसंयुता ३१
द्वादश द्विपदा कर्णा नंदिका स्तम्भ संयुता
चतुषष्टि धरैर्युक्तो मण्डपो च धनालयः ३२
क्षेत्रे षोडशधा भक्ते द्विपदा कर्ण विस्तरा
शालायां द्विधा प्रोक्ता विस्तरावेन निर्गता ३३
स्तम्भका चतुर्मध्येन अष्टस्यान्तरालये
द्वाविंशति विधा प्रोक्ता पुष्पको नाम सुव्रतो ३४
भू भागे दशधा प्राज्ञः ससूत्रपद संचितै
द्वादशं द्विपदा कर्णा भद्र हीनं चतुर्दिशम् ३५
अष्टस्तम्भान्वितं मध्ये कर्तव्यं चान्नतं शुभम्
षट्त्रिंशति धरैर्युक्तं पुण्डरीकं हरिप्रियम् ३६
षट्चाष्ट कृते क्षेत्रे त्रिपदं कर्ण विस्तरम्
अनुगं द्विपदं ज्ञेयं त्रिगुणं भद्र कं भवेत् ३७
निर्गमं द्विपदं प्रोक्ते मध्यस्तम्भा तु द्वादशः
केचित्तदान्तरे प्रोक्तो चतुः पञ्चाश सङ्ख्यया ३८
मण्डपं कारयेत्प्राज्ञः कौशल्यं च सुखावहम्
द्विरष्ट भाजिते क्षेत्रे कर्णं षड्भागविस्तरम् ३९
चतुर्भागयुतं भद्रं निर्गमं च पदत्रयम्
द्विपदा नेधराका कार्या चत्वारिंश प्रमाणतः ४०
चतुष्किकाकोनविंशो मण्डपो यं सुरप्रियः
क्षेत्रे द्वादशधा भक्ते कर्णं त्रिपदं विस्तरम् ४१
द्विपदा चतुष्की त्रीणि सर्वभद्रे षु कीर्तिता
द्वादशे मध्यदेशे तु षट्त्रिंशद्बाह्यतो धरा ४२
सुव्रतं नाममेवोक्तं मण्डपं सर्वकामदम्
चतुषष्टि पदे क्षेत्रे द्विपदं कर्ण विस्तरम् ४३
भद्र भाग चतुष्केन बाहुल्यं निर्गतं तथा
अर्ध सङ्ख्यामिती चोर्ध्व विंश स्तम्भधरैर्युतम् ४४
शङ्खनाभं प्रकर्तव्यं नारायणो अतिप्रियम्
विस्तार भाजिते क्षेत्रे द्विपदं कर्ण विस्तरम् ४५
भद्र भागे चतुष्केन हीनं च निर्गमं सम
मध्ये तु अष्टभिर्भागैः त्रिंशच्चाष्टो तदन्तरे ४६
चत्वारिंशच्चतुर्युक्ता बाह्यतरा प्रकीर्तिता
अशीतिः स्तम्भकैर्युक्तैः मध्ये रङ्गोपशोभितः ४७
सौभाग्यं च समाख्यातं मण्डपं मकरालयम्
भूभागैः षोडशैर्भक्तैः कर्णाद्विपद विंशति ४८
त्रिपदा निर्गता सर्वे भद्रं द्विपद विस्तरम्
निर्गतं च त्रिभागेन मध्ये षोडशभिर्धरै ४९
भद्रा न्तरे तथा चाष्टौ षटसप्तति स्तम्भकैः
विंशतिश्च सदा सौम्यं कर्तव्यं कुन्द सम्भवम् ५०
चतुरश्र सप्तधा क्षेत्रे सर्वपदि चतुष्किका
सङ्ख्यया चतुःषष्टी तु चतुरश्र समाश्रुमा ५१
चतुशीति धरैर्युक्तः स सूत्रश्चेति कीर्तितः
सूत्रस्तम्भ चतुःषष्टि वाऽथवा चतुशीति च ५२
क्षेत्रे त्रिमण्डले प्राज्ञः अष्टं संपात संवृत्तम्
त्रिकोण विषमेवोक्तं चतुर्विंशधरैर्युतम् ५३
वृत्तं तु कारयेत् सर्वं पूर्णचन्द्रं तु मण्डपम्
अष्टकोणे कृते क्षेत्रे मध्यकोणानि ज्ञापयेत् ५४
चतुष्की तत्पदे कार्याः चतुरश्राश्चेति कीर्तिता
अष्टकोणं भवेत्प्राज्ञः विंश स्तम्भ समावृत्तः ५५
सर्वे करोटके कार्या तद्लितौ क्षिप्त लंबिका
संवरणोदयमूर्ध्वे तु सूत्र संपाद एव च ५६
केचिद्वेदिकाहीना च गवाक्षा स्तम्भ सखावृत्तः
भद्रा लिन्दको केचित् सव्यते सिक्षयतं षट्विधः क्रमात् ५७
प्रमाणो वेदिका कर्णो केचित्स्तम्भं च विस्तरात्
केचित् भित्ति प्रमाणेन विस्तारं मण्डपस्य तु ५८
इति श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे प्राग्ग्रीवादि मंडपाधिकार क्रमांक अध्याय ७

शिखरलक्षणाध्याय[सम्पाद्यताम्]

अथ श्री विश्वकर्माकृते वास्तुविद्यायां शिखरलक्षणाध्याय क्रमांक आध्याय ८
एकस्थापि तलस्योर्ध्वे शिखराणि बहून्यपि
शिखराश्च विविधाकार मनेकांऽकभूषिता १
छाद्योर्ध्वे प्रहारा स्यात् शृंगेशृंगे तथैव च
मूलकर्णस्थादौ च एक द्वित्रिक्रमे न्यसेत् २
निरंधारे मूलभितौ सांधारे भ्रमभित्तिषु
रेखा विस्तार मानेन सपादं तदुच्छ्रय ३
त्रिभाग सहितश्चैव सार्ध्ववातु विचक्षणं
दशधामूल पृथुत्वे षड्भागः स्कंध उच्यते ४
षड्बाह्ये दोषदं प्रोक्त पंचमध्येन शोभनम्
अतोर्घ्वं शिखरं मूले समासान्न तु विस्तरात् ५
चतुरश्री कृते क्षेत्रे दशधा प्रतिभाजितः ६
द्वौ द्वौ भागो तु कर्तव्यौ कोणे कोणे न संशयः
भद्र भाग त्रयं कार्यं सार्धभागं तु चानुगम् ७
व्यासमानं सपादं च उच्छ्रयेण तु कारयेत्
स्कन्धं षड्भागिकं कार्यं तस्यार्धे नवधा भजेत् ८
चतुर्भागायतं कोणं त्रिभिर्भागंस्तु चानुगः
भद्रा र्धं तु द्विभिर्भागेस्ततः साधयते कला ९
आदिकोणं द्विधाकृत्वा प्रथमं वेद भाजितम्
द्वितीयं तु त्रिभिर्भागैरेवं सप्तकला भवेत् १०
उदयं चाष्टभिर्भागैः कृत्वा रेखा समालिखेत्
ऊर्ध्व तिर्यक् भागानां भागे भागं तु लाञ्छयेत् ११
एवं सिद्धयेद् रेखा भद्रे कोणे च चानुगे
विषमा भूमिका ज्ञेया पञ्चसप्तनवस्तथा १२
दशमेकाधिका कार्या त्रयोदश तथा परा
पञ्चाधिकं दशै कार्या आघाटैश्चोपल क्षिताः १३
दशभिर्भागे षड्भागे स्कंध विस्तरात्
मूलरेखाः ---
सप्तभागे आमलासारो विस्तारास्यार्धोदये कृतः
प्रतिरथावुभौ मध्येऽमलसारस्य विस्तरम् १४
ततो विस्तरमर्धेन कृत्वा चैव ततोच्छ्रयम्
उच्छ्रयं त्रीणि सार्धानि विभजेत्तदनन्तरम् १५
ग्रीवा पादोन भागेन सपादामलसारकम्
चन्द्रि का भाग पादोन पादोनामलसारिको १६
ग्रीवायासं च विस्तरं आमलसारं सप्तभिश्च
चन्द्रि का पंचमी ज्ञेया त्रिभिस्तु मालसारिका १७
पद्मच्छत्रे तथा पद्मं आमलसारे तथाऽमलम्
कलशे च स्थितो रुद्रो व्योम व्यापि सदाशिव १८
सद्योवामस्तथा घोरं तत्पुरुषीशानमेवः
एतदेवासमाख्याता प्रासादो समाश्रिते
कर्णं प्रतिरथे भद्रे रथे पञ्जरभद्र योः १९
पञ्चवक्त्रे दिक्षुभद्रे अङ्ग सङ्ख्या प्रशस्यते
एता देवाः समाख्याता प्रासादेषु समाश्रिता २०
मूलरेखास्य मानेन कलशं पंचभागतमं स्याद् द्विभागिकम्
अथवा प्रासादोष्ट भाग कलशविस्तरे तत २१
उच्छ्रये विस्तरे सार्धतुल्य कुर्यान्न संशये
विस्तारो सार्ध उच्छ्रये त्रयभागं च अंडके
आर्ध चतुर्भिर्भाज्येत्सर्वं भागं तस्य परित्यजेत्
भागत्रयमधस्ताच्च भोगे वृत्तं ततोपरि २२
अधोवृत्तं द्विभिर्भागैः भ्रामयेन्नात्र संशयः
एवं तु सिद्धते चाण्डं अधोभागे न संशयः २३
अर्ध भागोछ्रिता ग्रीवा अर्धे कर्णं पद्मपत्रिकाम्
कर्तव्यं च द्विभिर्भागैः विस्तारं कर्णयोर्द्वयोः २४
विस्तारं भागमेकेन कण्ठस्यैव तु कारयेत्
मातुलिङ्गं च कर्तव्यं द्विभिर्भागैः समुच्छ्रितम् २५
अधोमेकभागं च ऊर्ध्वे नार्ध विस्तरा
कर्तव्यं सर्वतस्तेवं न न्यूनं न ततोऽधिकम् २६
अतः परं प्रवक्ष्यामि पुरुषं विन्यसेद्यथा २७
न्यसेत् देवालयेन चतुर्वर्गफलं लभेत्
छाद्यनोपप्रदेशे तु शृङ्गमध्येऽथ चोपरि २८
शुकनासावसाने तु विधुवद्वेदयाभूमिकान्तरे
मध्यगर्भे विद्यातव्यो हृदावरण को विधिः २९
पुंसस्तुर्य मय तत्र सर्वतः पुटिते न्यसेत्
कलशाधृतोपूर्ण परिपर्यकोर्धस्थापने
शयी तस्यामि निप्रस्थ पद्मं च दक्षिणे करे ३०
त्रिपताकं करे वामे कारये हृदि संस्थितम्
प्रमाणं यास्य वक्ष्यामि प्रासादो चैक हस्तके ३१
अर्धमङ्गुल सङ्ख्या च कर्तव्यो नात्र संशयः
अर्धाङ्गुला भवेद् वृद्धिर्यावत् पंचाश हस्तकं ३२
हेमजे रनरजे वापि ताम्रजे वापि भागशः
कलश आञ्जपूर्णे तु सौवर्णं पुरुषं क्षिपेत् ३३
स्थिरः अध्मनि विन्यस्तं अधोधं मध्यमाधमम्
पूज्य वास्त्वगारे शोध्यन मन्त्रस्याभि मन्त्रयेत् ३४
अतो रेखां प्रवक्ष्यामि सङ्ख्यया पञ्चविंशतिः
सच्या सा शोभना भद्रा सुरूपा सुमनोहरा ३५
शुभा चैव तथा शान्ता कौबेरी च सरस्वती
कोला च कलवीरा च कुमुदा पद्मिनी तथा ३६
कनका विकटा चैव रम्या च रमणी तथा
वसुंधरा तथा हंसी विशाखा नंदिनी भवेत् ३७
जया च विजया चैव सुमुखा च प्रियानना
इत्येतानि च रेखाणि सङ्ख्यायां पञ्चविंशतिः ३८
ध्वजलक्षणाधिकारः
को ध्वजो ध्वजमित्या रोहणं च कीदशम्
निरंधारे किं प्रमाणं च कथं वा तस्य कल्पना ३९
श्री विश्वकर्मा उवाच
ध्वजानुरोहणं वक्ष्ये कृते येन फलं लभेत्
सुदृढं विषमं पर्व ध्वजं वंशं परीक्षयेत् ४०
---
अनुगोपरि संस्थाप्य ध्वज तु दक्षिणां दिशम् ४१
पश्चिमा मुखाकार्या प्रासाद पुरभूषणः
इशान्यांदिशिमाश्रित्य ध्वजादण्ड निवेशनम् ४२
पूर्वमुखे तु प्रासादे दृष्टव्या सुरवल्लभा
नैऋत्यां तु प्रकर्तव्यां ध्वजादण्ड निवेशनम् ४३
दक्षिणाभिमुखं कार्य प्रासाद कीर्तिसम्भवा
वायव्या चानुगे दिक्षु ध्वजादण्ड निवेशनम् ४४
उत्तराभिमुखं वत्स प्रासादे तत्र कारयेत्
वायव्ये चानुगे तस्य ध्वजादण्ड निवेशनम् ४५
मूलगर्भस्य यन्मानं दक्षिणा दिशमाश्रितम्
अनुगस्योपरि कार्यं ध्वजादण्ड निवेशनम् ४६
प्रासादस्यनुयद्वारं प्राचीस्था तत्र कल्पयेत्
पृष्ठश्चानुगे दिक्षु दृष्टव्य ध्वजलक्षणम् ४७
दिशायां बिदिशायां च प्रासादमुखकल्पना
पृष्ठश्चानुगे दिक्षे दृष्टव्यं ध्वजलक्षणम् ४८
मेरु शृङ्गे तु प्रासादे भद्र को गेतु चानुगे
मूलप्रासादमानेन ध्वजादण्ड निवेशनम् ४९
चतुर्मुखं ततो वत्स प्रासादं सर्वकामदम्
ईशान्यां दिशमाश्रित्य ध्वजादण्ड निवेशनम् ५०
तोरणेन तथा चैव शुकनासे बलानके
मूलप्रासाद मानेन ध्वजादण्ड निवेशयेत् ५१
पूरे ग्रामे नगरे च दुर्ग यत्रा नियोजयेत्
ध्वजस्य नियमो नास्ति सर्वतोमुख शोभना ५२
अत्रतिष्ठे ध्वजाकार्या जलाश्रयं तत्र शोधयेत्
दक्षिणां दिशमाश्रित्य दृष्टव्यं ध्वजलक्षणम् ५३
गिरिदोष हिते वत्स प्रासादे न च मन्दिरे
स्थानानैव प्रकर्तव्या इत्युक्तं च स्वयंभुवा ५४
पञ्चगव्य समायुक्तं पञ्चवर्ण च संयुतम्
प्लावधे तत्र मध्यस्थे तत्रकार्य समाचरेत् ५५
विजयश्च शक्तिरूपं च सुप्रभं तु जयावहम्
पञ्चमं विश्वरूपं च प्रमाणं तस्य कल्पयेत् ५६
ध्वजदंडदीर्घमान
प्रासादे कटि विस्तारे चतुष्की स्तम्भ विस्तरात्
गर्मभित्ति समंदैर्घ्यं क्वचित् कर्ण प्रविस्तरम् ५७
विभक्ते चैव प्रासादे शिखरं विस्तर तत्सम्
ध्वजवंशस्य दीर्घत्वं मया प्रोक्तं मतान्तरे ५८
ज्येष्ठे च मध्यमे चैव कन्यसे च प्रकल्पयेत्
त्रिपर्वं च जयं नाम शक्तिरूपं च पञ्चभिः ५९
सुप्रभं सप्तपर्वं तु नवपर्वं जयावह
विश्वरूपं द्विरूपं तु बहुपर्वं समन्वितम् ६०
वंशमयो च कर्तव्यः सारदारु समन्वितः
ध्वजदंडकाष्ट
शिशवं खदिरं चैव अञ्चन मधुकं तथा ६१
दृढढारु शुभं कार्यं ग्रन्थिकोटर वर्जितम्
पिण्डश्चैव प्रकर्तव्यः ध्वजदण्डस्य कल्पयेत् ६२
अंशे द्वात्र्! यंशके चैव चत्वारिंश तु मध्यमे
ज्येष्ठे चैव प्रकर्तव्या षष्टिः अंशकाः स्मृता ६३
एवंविधं तु कर्तव्यं हेमरूपेन वेष्ठिता
मर्कटिकाः
तदूर्ध्व चैव वक्ष्यामि मर्कटकां सुशोभनम् ६४
तदूर्ध्व तु षडंशेन मर्कटी चार्ध विस्तरा
ततस्त्रिभाग उत्सेधं किंकिणी मण्डिता शुभा ६५
कलशं कारयेत्तस्य पञ्चमांशेन दीर्घतः
आयुधं वाहनं वापि ध्वजाग्रे तस्य धारयेत् ६६
नवभागेन वंशस्य प्रमाणं तस्य कल्पयेत्
शिखराध त्रिभागोर्ध्वं वंशाधा सुनिश्चियम् ६७
पताका
विजया वैजयंती च शक्तिरूपा तथैव च
अपराजिताः सुरूपाः पताका परिकीर्तिताः ६८
दिव्य वस्त्र पताका च पञ्चवर्णक संयुता
तारकैरर्धचन्द्र श्च किंकिणी घुर्घुरान्विता ६९
निष्पन्नं शिखरं दृष्ट्वा ध्वजहीनं न धारयेत्
असुरा वासमिच्छन्ति ध्वजहीनं सुरालवे ७०
वाताहुनं पताकानां फोफारो यत्र दृश्यते
तत कृतं निष्फलं यान्ति पुण्यं तस्य न विद्यते ७१
तस्मात्सर्वप्रयत्नेन ध्वजहीनं न धारयेत्
ईदृशं कुरुते यस्तु स्थापकः स्थपक सदा ७२
राज्यवृद्धिः स्थानवृद्धिः प्रजा सौख्येन नंदति
--- --- ७३
इति श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे शिखरलक्षणाध्याय क्रमांक ८

करोटक लक्षणाध्याय[सम्पाद्यताम्]

श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे क्रमांक अध्याय ९
करोटक लक्षणाध्याय
अतोर्ध्वं मण्डपं वक्ष्ये अंतरः क्रियते यथा
मण्डपस्य प्रमाणं स्यात् ज्ञातव्यं सूत्र साधितम् १
चतुरश्च कृते क्षेत्रे गर्भसूत्रं तु पातयेत्
व्यासार्धं तु ततो ग्राह्यं द्विषड्भागं तत्र भागयेत् २
गर्भार्धपंचभागाय दशभागैक अस्य
अष्टास्त्रः सिध्यते ह्येवं नात्रकार्या विचारणा
पूर्वोक्त भागमानेन सार्धस्य पट्टविस्तरम् ३
तन्त्रकेन समायुक्तं ज्ञातव्यं शिल्पिना त्वया
अतोर्ध्वं भ्रामयेद्वत्स सूत्रं तु भ्रमसाधितम् ४
पट्टयोरुभयोर्मध्ये विस्तारं च प्रलक्षयेत्
विस्तारार्धन तत्रैव कर्तव्यं च ततोच्छ्रयम् ५
उच्छ्रयेण शतं कुर्यात् अष्टादश विनिश्चितम्
कर्णदर्दरिका
अतो दर्दरिकां वक्ष्ये भागाश्चैव चतुर्दश ६
कामरूपं च भागेन भागं पादोन चिप्पिका
कर्णकं तु द्विभिर्भागैः भागैकं पदिकान्तरम् ७
त्रिभिः स्कन्धं च कर्तव्यं भागैकं पट्टिकाद्वयम्
चतुर्भागास्ततश्चोर्ध्वे ग्रासपट्टीश्च शोभना ८
पादोनकर्णमुत्सेधं अर्धं चान्तरपत्रकम्
चतुर्दशैस्तु कर्तव्या भागै दर्दरिका शुभा ९
निर्गमं ततो वक्ष्ये दर्दरिका सुशोभनम्
भागैकं कामरूपं च चिप्पिका द्वय निर्गता १०
सपादैस्तु त्रिभिर्भागै कर्णं तु तत्र कारयेत्
स्कन्धश्चैव ततः कार्यः सपादत्रयनिर्गतः ११
द्वौ भागौ निर्गमेणैव कर्तव्यं पट्टिका द्वयम्
सार्धेकादशभागे तु निर्गमेणैव कारयेत् १२
एवं दर्दरिका कार्या उदये निर्गमेन च
रूपकंठ
रूपकण्ठं ततो वक्ष्ये भागं चैव तु द्वादशे १३
कामरूपं च भागेन सार्धभागेन चिप्पिका
भागार्धं च ध्रुवं कार्यं पञ्चसार्धाश्च रूपकम् १४
छुरकं चार्धभागेन पादोना चैव चिप्पिका
पादेन घसिका कार्या पादूने चोर्ध्वचिप्पिका १५
कर्णं च भागपादोन अर्धेनान्तरपत्रकम्
तस्योर्ध्वे द्वादशोत्सेधं रूपकण्ठं सुशोभनम् १६
निर्गमं चैव वक्ष्यामि त्रिभिर्भागैस्तु कारयेत्
विद्याधरान् ततो कुर्यात् षोडशैव तु सङ्ख्यकान् १७
रूपकण्ठोच्छ्रिता कार्या निर्गमान् तत्प्रमाणतः
विस्तृता तत्प्रमाणेन मूले चैव तु कीर्तिताः १८
विद्याधराणामूध्वेन कामदेवं सुशोभनम्
प्रावृत्तं नायिकाभिश्च सुरूपैः सुमनोरमैः १९
इशान्याभिमुखं कार्यं धनुर्हस्तं पुष्पबाणक्रम्
एवं विधं प्रकर्तव्यं सर्वदोषापहारकम् २०
षड्दर्शनेषु प्रासादेषु अग्रेश्चैव तु कारयेत्
अन्यथा कुरुते यस्तु सगच्छेन्नरकं ध्रुवम् २१
शिल्पिनो निष्कुलं यान्ति राष्ट्रभङ्गभयं भवेत्
म्रियते यजमानस्तु नात्र कार्या विचारणा २२


गजतालु
भागोस्त्रयोदशैश्चैव कुर्याच्च गजतालुका
उच्छ्रयेण ततः कुर्यात् यथा भवति शोभनम् २३
भागैकं कामरूपं च भागं कुर्याच्च चिप्पिकाम्
लूमा वै सप्तभिः कुर्यात् भागैकं कामरूपकम् २४
भागैकं चिप्पिका कार्या कर्णसार्ध समुच्छ्रितम्
भागार्धे चान्तरपत्रं कर्तव्यं नात्रसंशयः २५
एवं त्रयोदशभागैः उच्छ्रयेण तु कारयेत्
निर्गमं चास्य वक्ष्यामि यथावदतु पूर्वतः २६
भागार्ध कामरूपस्तु चिप्पिकाद्वयनिर्गता
त्रिभिश्च गजतालुका चतुर्भिस्तु लूमास्मृता २७
चिप्पिका पृष्टिसूत्रेण खल्वणा तत्र कारयेत्
द्विभिर्माणिबन्धस्तु चिप्पिका द्वयनिर्गता २८
एवं त्रयोदशैः सार्धं निर्गमं गजतालुके
द्वितीय गजतालु
जगतालु द्वितीया च भागैश्चैव तु द्वादशैः २९
उच्छ्रयेण ततः कुर्यात् निर्गमः सार्ध द्वादशः
भागैरेकादशैश्चैव उच्छ्रयेण गजतालुका ३०
सार्ध एकादशाभागा निर्गमेण तु कारयेत्
तृतीयां कारयेत्प्राज्ञः सर्वकामफलप्रदाम् ३१
कोल
गजतालुकोर्ध्व कर्तव्यं कोलं चैव सुशोभनम्
पुष्पकण्ठं समायुक्तं छुरकैस्तु समावृत्तः ३२
भागादर्धं च ध्रुवं कुर्यात् द्वितीय ह्येवमेव च
पुष्पकण्ठं च सोधन छुरिका भाग त्रयेण तु ३३
कामरूप सपादेन चिप्पिका भाग पादुन
पट्टिका द्वयभागेन अर्धयान्तरपत्रिका ३४
कोलं च दशभिर्भागै उच्छ्रये निर्गमे तथा
चिप्पिका भागपादोन लूमापादाष्टका स्मृता ३५
पिंड कार्योनुभागेन एवं कोल समुच्छ्रय
सार्ध त्रिक एवं कार्यं कोलकं तस्य मध्यतः ३६
ध्रुवकेण समायुक्ता चिप्पिकाभिर्विनिर्गता
सार्धद्धि निर्गतं कार्य टेकरं तत्र शोभनम् ३७
सिद्धिस्तु पद्मपत्राणि शेषा लूमाः समालिखेत्
द्विभागे निर्गमणं च प्रथमा वलिका तत्र त्रिभिर्भागैस्तु निर्गता ३८
उच्छ्रिता च द्विभागेन पद्मकेसर संयुता
द्वितीया तत्समा कार्या निर्गमौच्छ्रये यथा ३९
त्रिभिश्चैव तृतीयं च निर्गमेणैव कारयेत्
उच्छ्रिता च द्विभागेन न न्यूना न चाधिका ४०
चतुर्थी च तथा कार्या सार्धद्विभाग निर्गता
प्रथमं षोडशैः कोलै द्वितीयं द्वादशैः स्थितम् ४१
अष्टकोलं तृतीयं च चतुः कोलं चतुर्थकम्
द्विकोलं पञ्चमं प्रोक्तं सर्वशोभासमन्वितम् ४२
उदयं निर्गमेणैव दशभागानि च कारयेत्
थरैः पञ्चभि च ख्याता भागानि उदयेन तु ४३
अष्टाविंशति शतार्धे भागानुत्र संख्यता
यथामेधागताश्चैव आषाढे य महिपति ४४
तथा मेधाश्च मंडपा प्रोक्त आकाशं दशते पुनः
निलवृक्षे समुत्पन्ना देवता मपिता दुर्लभ ४५
इति श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे करोटकलक्षणनाम क्रमांक अध्याय ९

अध्याय १०[सम्पाद्यताम्]

अथ श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्या संवरणाधिकारे क्रमांक अध्याय १०
अत ऊर्ध्वं प्रवक्ष्यामि संवर्णा च यथा भवेत्
उदयेन समायुक्ता भाग सङ्ख्या च संयुता १
अर्धोदयं च यत्प्रोक्तं वामनं उदयं भवेत्
कृते चैव भवेच्छान्तिः सर्वयज्ञफलं लभेत् २
अर्धोदयं च नवधाः द्वौभागौ परिवर्जयेत्
अनन्तं उदयं नामः सर्वलोके सुखावहम् ३
अधोदयं च नवधाः त्रीणि भागानि संत्यजेत्
वाराहं उदयं नाम अनन्तं फल दायकम् ४
उदये च समाख्याता अनन्तं फलदायिका
तस्मिन् देशे भवेच्छान्ति क्षेमारोग्यं प्रजायते ५
उदयंहीना चये केचित् क्रियंते मण्डपा भुवि
तत्र मारीमहाव्याधि राष्ट्रभङ्ग भयं भवेत् ६
दुर्भिक्षं चाति रौद्रं च राज्ञो च म्रियते तथा
यजमानं निष्कुलं यांति शिल्पिनो म्रियते ध्रुवम् ७
एक हस्तादितः कृत्वा यावतः सप्त षष्टि वत्
तावंतश्चतुरो वृद्धिः घण्टिका परिकीर्तिता ८
घण्टानां च विभागेन तलोदय समन्वितम्
विविधा मण्डपैश्चैव संवर्णा ऊर्ध्वसंयुता ९
एकहस्ते द्विहस्ते च प्रासादे मण्डपं शुभम्
पञ्च घण्टिका संयुक्तं मण्डपं सर्वकामदम् १०
त्रि हस्तेन नव घण्टा च चतुर्हस्ते त्रयोदशः
दशसप्त घण्टिकैर्युक्तं पञ्च हस्ते प्रकीर्तितम् ११
एकविंशत्समायुक्तं घण्टिका मण्डपं शुभम्
प्रासादे षट्हस्तेन सर्वशोभासमन्विते १२
सप्त हस्ते तु प्रासादे घण्टिका पञ्चविंशति
मण्डपं कारयेत्प्राज्ञः गजसिंहसमन्वितम् १३
वसु हस्तेन कर्तव्या घण्टिका उनत्रिंशतिः
नव हस्ते तथा प्रोक्तं दश हस्ते तथैव च १४
त्रयस्त्रिंशत्समायुक्तं सार्धपादसमन्वितम्
कलश सिंहसमोपेता तथा गरुडसमन्विता १५
सप्तत्रिंशत्समायुक्तं घण्टिकायाः समन्वितम्
एकादशा दितकृत्वा यावत्षोडशहस्तकम् १६
हस्ते सप्तत्रिंशो मेते यावत् जिनहस्तकम्
घण्टिका च प्रकर्तव्या चत्वारिंशेक संयुता १७
पंचविंशति संयुक्ता प्रासादे सर्व कामदे
तावश्चैव प्रकर्तव्यं ज्ञातव्यं त्रिंशहस्तकम् १८
पंचचत्वारिंशेघंटा मंडपा सुशोभना
एकत्रिंशति हस्ते तु यावत् षड्त्रिंशतिः
घण्टिकानां प्रकर्तव्या उनपञ्चाश संयुता १९
सप्तत्रिंशोदितः कृत्वा यावत्पञ्चाश हस्तकम्
घण्टिकानां प्रकर्तव्यं शतमेकोत्तरीयुतम् २०
एकपञ्चादितः कृत्वा ज्ञातव्यं सप्तषष्टीय
घण्टिकानां प्रकर्तव्यो शतमेकोनत्रिंशक २१
एवं संवरणा कार्या गजसिंहसमन्विता
रथिकातिलकयुताघण्टिकास्कन्धपट्टिका २२
मूलकूटक संयुक्ता तवङ्गे छाद्य संयुता
कूटकौ बहुसंपन्ना कार्या संवरणा शुभा २३
चतुरस्रीकृते क्षेत्रे अष्टभाग विभाजिते
भागौ द्वौ रथिका कार्या चतुर्दिक्षु व्यवस्थिता २४
द्वौ भागौ कर्णकं चैव घण्टिका च द्विभागिका
कूटं भागोन कर्तव्यं चतुर्दिक्षु व्यवस्थितम् २५
द्विभागा घण्टिका कार्या सर्वशोभासमन्विता
मूलघण्टा चतुर्भागा द्विभागै कलशं भवेत् २६
उदयं च प्रवक्ष्यामि भागाश्चत्वारिमेव च
रथिकातिलकंकूटं भागमेकेन कारयेत् २७
सार्धपादा तथा घण्टा मूलघण्टा तथैव च
भाग भाग च कर्तव्यं उदये परिकीर्तितः २८
मूलघण्टा च पादोना स्कन्धं पट्टं च शोभनम्
मूलघण्टा त्रिधा कृत्वा विभजेय यथाक्रमम् २९
अन्तरपत्रं पदं चैव कर्ण चैव तथैव च
भागमेकेन कर्तव्यं स्कन्धं वै भागमेव च ३०
घसिकामलसारि च तथा चैव तु कर्तरि
भागमेकेन कार्या एवं घण्टा विवर्तना ३१
पञ्चघण्ठा मया प्रोक्ता संवरणा सुशोभना
द्वादशैव ततः कार्या घण्टिका च समन्विता ३२
संवरणा नामानि
अथ नामानि वक्ष्यामि संवरणा यथास्थिता
पद्मिनी पञ्चघण्टा च नवघण्टा च नंदिनी ३३
त्रयोदश घण्टिकोपेता कमला परिकीर्तिता
सप्तदश घण्टिकोपेता हंसिनी परिकीर्तिता ३४
सुनन्दा चैकविंशत्या नलिनी पञ्चविंशतीः
नन्दा चैकोनत्रिंशत्या त्रयस्त्रिंश यशोवती ३५
सप्तत्रिंश विशालाक्षी घण्टिका परिकीर्तिता
कीर्तिसंवर्द्धनी नाम चत्वारिंशेक संयुता ३६
पञ्चत्वारिंश देवश्च वा पदा परिकीर्तिता
उनपंचाशद्युक्ता गजवर्द्धनिका शुभा ३७
सिंहालिका तथा प्रोक्ता त्रिपंचाश च घण्टिका
सप्तपंचाशद्युक्ता श्रीधरी प्रविकीर्तिता ३८
एकषष्टं गंधलता पंचषष्टं तु मालिका
विशाल नवषष्टं तु घण्टिका प्रविधीयते ३९
त्रिकूटा त्रिसप्तति घण्टिकाः क्रियते पुनः
दलदा सप्त सप्तायां घण्टिकासुर्विधीयते ४०
एकाशिती घण्टिकानां तु पुष्पशिखा प्रशस्यते
तारावली तु पंचाशी घण्टिका परिकीर्तिता ४१
नावांस्री घण्टिकायुक्ता पूर्णोदरी प्रशस्यते
त्रिनवत्यांश्चित्रकूटानां घण्टांकूटस्य पूजयेत् ४२
माहेन्द्री सप्तनवत्या च घण्टा गवाक्ष क्रियते
शतेनैकोत्तराणां तु गौरी घण्टा प्रकीर्तिता ४३
शतपंचोत्तरी घण्टा चन्द्रा स्यानामनामतः
नवधिकं शतं कार्यं पंचमुखी प्रकीर्तिता ४४
कीर्तिसंजीवनी नाम घण्टा त्रयोदशं शतम्
मृणालसिंह सम्भूता शतं सप्तदशाधिकाम् ४५
गवाक्षं तत्र सम्भूतं कूटाकारं तु शोभनम्
शतमेकोनविंशत्या कर्तव्यं मृगसुन्दरम् ४६
शतं विंशाधिका पंच वैज्यंती घण्टामेव च
शतमेकोन त्रिंशत्या राजवर्द्धनिका शुभा ४७
यशः कीर्तिं बलं देयं राज्ञानां दर्द्धते मुदा
---- ४८
इति विश्वकर्मा कृतायां वास्तुविद्यायां वास्तुशास्त्रे संवरणाधिकार अध्याय क्रमांक १०

अध्याय ११[सम्पाद्यताम्]

अथ श्री विश्वकर्माकृतायां जयपृच्छायां वास्तुशास्त्रे वास्तुविद्यायां देवता दृष्टिपदस्थापनलक्षणाधिकारे क्रमांक अध्याय ११
विश्वकर्मा उवाच
गर्भार्धे अष्टा भक्ते मध्ये लिद्ध स्थापयेत्
सप्तमे ब्रह्मणे चैव केशवं सूर्यमेव च १
षष्टमे तु उमादेवी रुद्र श्चैव विनायकम्
पंचमे मातराः रुद्र लोकपाला मरुद्गणान् २
चतुर्थे नारा सुशधि योगिनं तृतीयमक्षयपदम्
द्वितीया राक्षस पदं प्रथमे पैशाचिक पदम् ३
गर्भार्द्धे पञ्च भागेन प्रथम शिव स्थाप्य
द्वितीये ब्रह्म संस्थाने कुमारी ऽर्हत म्रवेति ४
तृतीये विष्णुरादित्य कुमारो ब्रह्म मातृकाम्
चतुर्थे मातरः स्थानं चतुर्थे भाग यौगिनी ५
पंचमे यक्ष भूताद्या एते पद स्थापन
इति देवता पद स्थापन
अथ प्रासाद देवता दृष्टिपद
द्वात्रिंशद्वारमुत्सेधं मूर्ध्वके त्रीणि वर्जयेत्
अधोऽष्टमे शिवः प्रोक्तौ दर्शेकादश हीनकम् ६
द्वादशे च समुत्सेध भवेत्स्थाप्य जलशायिनम्
चतुर्दशे मातृदेवीं षोडशे यक्षमेव च ७
अष्टादशे तु कर्तव्या बुभौ रुद्रो च श्रीहरिः
ब्रह्म युग्मं च कर्तव्यं अत ऊर्ध्वं तथा शृणु ८
एकाधिके बुधश्चैव लेपचित्राणि कारयेत्
विंशति मे दुर्गा देवीं अगस्ति नारदस्तथा ९
एक विशतमे चैव लक्ष्या च जिनमेव च
चतुर्विंशे समुत्सेधं सरस्वती गणाधिकम् १०
षडधिक विंशोत्सेध मानव चंद्र मेव च
ब्रह्मा विष्णुस्तथा रुद्र सूर्यस्तु सप्तविंशती ११
भैरव चंडिका चैव एकोन त्रिंशदंशके
तदूर्ध्वे भैरव कार्यं नान्येषां तु कदाचन १२
द्वारोछ्रयाष्टधा भक्ते ऊर्ध्व भाग परित्यजेत्
सप्तमाष्टमे सप्तमे भागे दृष्टिस्तु शोभना १३
इति श्री विश्वकर्माकृते जयपृच्छायां वास्तुशास्त्रे वास्तुविद्यायां देवता दृष्टिपद स्थापन अध्याय ११

अध्याय १२[सम्पाद्यताम्]

अथ विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे महादेवादि महासंघाट क्रमांक अध्याय १२
अथातः संप्रवक्ष्यामि मूर्तिसंघाट लक्षणं
चतुर्विंश कार्या प्रत्येकं शृणु निर्गतं १
केशवं च महादेवं संघाटं स महादेव
जयकांचन भूषितं दिग्मार्णादिभूषणै २
शंकर नारायणं युक्तं शंकरनारायण भवेत्
तस्य ऊर्ध्वं किरीटं च हरितादिभूषणां प्रिय ३
महेश्वर महाज्ञेयं संघाटं प्रसित माधवम्
चतुर्भुज विराटं पासं च भूषितं ४
हरगोविंद संघाटं --- गोविंदहरमेव च
श्रीवत्सको समायुक्तं जय सार्ध्व विभूषितम् ५
कीर्तिवास विष्णुभ्यां संघाट विष्णुकीर्तित
सर्वलक्षण संयुक्तं रुचकादिविभूषितम् ६
शशि मधुसूदन स्यात् संघाटं तत्र नामत
मधुसूदन कपालि च भूषया चास्ति कांचनम् ७
त्रिविक्रम चक्रदेवेश संघाटं नामोच्यते
देवेश त्रिविक्रमं नामं कांचन मुकुटाहितम् ८
वामनं श्रीकंठ युक्तं श्रीकंठ वामने भवेत्
सर्वाभूषणा साचोर्ध्व शेखरीरत्नभूषित ९
ईश्वरं श्रीधर प्रोक्त श्रीधरीश्वरमेव च
चित्रकूटं च वामकूटं श्रीवत्सकौस्तुभं भवेत् १०
पार्वतीप्रियहृषिकेश कुर्यतं परिकीर्तिनम्
परमऋषिकेशनाम सर्वाभरणाभूषितम् ११
रुद्रे व पद्मनाभं च संघाटे पद्मरुद्र कम्
सर्वसंवाकदेव स्याद् भूषणा सर्वशान्तिदं १२
दामोदर शिवयुक्तं शिवदामोदरं भवेत्
सर्वलक्षणा संयुक्तं सर्वाभरणभूषिता
इतिमहादेवदिकेशवादि १३
आयुधमेद निर्णय
अथातः संप्रवक्ष्यामि आयुधमेदनिर्णय
प्रत्येक कथिनं वत्स आदिमध्ये च सानुगा १४
दक्षिणे वादने वा संव्यावर्तं च निर्णयं
वज्रखट्वाङ्गचक्रे कौमोदकीमितस्तथा १५
विश्वकेशवनामस्य सर्वपापप्रणाशनं
अक्षमाला त्रिशूलं च गदायां चक्रमेव च १६
शंकर नारायणं नाम तस्योर्ध्वे पुनरुच्यते
अक्षमाला च खड्ग शंख या पद्ममेव च १७
प्रशस्त माधवं नाम तस्योर्ध्व पुनरुवेत्रि
मातुलिका श्रूले स्यात्पद्म शंखस्तथैव च १८
गोविंद हरनामस्थ कर्मचास्ताश निबोधते
कपालं डमरुज्ञेयं शंख चक्रणमेव च १९
चक्रपाणिस्तदानाम तस्योर्ध्वे पुनरुच्यते
अक्षमाला च पाशाया पद्म कौमोदकीस्तथा २०
मधुसूदन कपालं च गदतो विहतो मया
अक्षमाला त्रिशूलं च सुदर्शनशंखमेव च २१
देवेशत्रिविक्रम नाम तस्योर्ध्वे पुनरुच्यते
वरद याक्ष मालास्यां गदा वज्र प्रकीर्तिता २२
श्रीकंठ वामनो नाम तस्योर्ध्वे पुनरुच्यते
कपालं खद्वाङ्गमित्युक्तं गदा या शंखमेव च २३
श्रीधरभ्य नाम कर्म चारत निबोधते
वरदडमरुके च पद्मायां शंखमेव च २४
परमऋषिकेशं नाम कर्मचास्त निबोधते
अक्षमालां च विज्ञेया डमरु चक्रदाभवेत् २५
अर्चासंघाटभिन्युक्त पद्मरुद्वेश्चमेव च
वरदडमरु चैव गदायां चक्रमेव च २६
शिवदामोदरं नाम कर्मचास्त निबोधते
--- २७
अंगप्रत्यङ्गभग्नायां मूर्तिस्थाप्याविसर्जयेत्
नखाऽभरणामालाखेर्मग्नाज्ञानविचारयेत् २८
इति श्री विश्वकर्माकृते वासुविद्यायां महादेवादि महासंघाट आयुध भैदनिर्णयाध्याय क्रमांक अध्याय १२

कीर्तिस्तंभलक्षण[सम्पाद्यताम्]

विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां कीर्तिस्तंभलक्षण क्रमांक अध्याय १३
श्री विश्वकर्मा उवाच
नमामि शारदादेवी देवमानवंदिताम्
नमामि चर्चिता वक्षे कीर्तिस्तंभादिलक्षणम् १
अनेक शिल्पीकार्याणि सिद्धिकेतु सुखाप्तये
कीर्तिस्तंभो महानाभो प्रोच्यते विश्वकर्मणे २
शुद्धभूमिं तले स्तंभः कीर्तिकर्तव्य ज्ञायते
भूमितोऽकुरपात्राद्यै श्रेष्टितिश्चामलैरिभै ३
नरै नाटिकरुपैश्च रूपिणी शतसंयुते
दीव्यपाषाणसंपन्ने रंशेर्नाना विधैर्युते ४
प्रभाभूषितशक्तिनां मध्यकोणंता मुख्यकं
भद्र कर्णे विकर्णाद्य वक्षे वास्तुविचारिन ५
प्रासादाग्रेऽगणवारे स्थापिती विश्वकर्मणा
प्रतोल्या सहितो देवै पूजिते खिलसिद्धिदं ६
यस्य दर्शनमात्रेण जिनशासनदीपकै
जिनवर्गे महापुण्यं प्राप्यते भवसागरे ७
महाप्रासादकरणे निष्पन्नै वास्तुवेदिके
पूर्णे याये ततः कार्यो मानस्तंभसकीर्तिदं ८
अभिरूपमरूपश्च विरूप मध्यरूपकै
कीर्तिस्तंभो विभातिह भूमौ पुण्यकृतां नृणां ९
पूर्वदक्षिण वारुण्यो दिशो वाक्ष कुवेरका
चतुररस्त्र कोणकाश्चैव ईशानाग्निनैरुत्यनिलः १०
धवसाधन कामादौ कीर्तिस्तंभस्तु कारयेत्
सर्वे वासुकृतः श्रेष्टं कीर्तिस्तंभस्य लक्षणं ११
मानप्रमाण संयुक्तं लघुदीर्घसमन्वित
अनुरूप यथायोग्य कर्तव्यं विश्वकर्मणा १२
अष्टभाग विभक्तेऽन भूपीठे संदुराश्रये
भद्र कर्णो विकर्णाद्यै कीर्तिस्तंभो विरच्यतो १३
सप्तभूमिमयकार्या वास्तुवेदे त्रिंशत्यभी
प्रथमभूमिरुद्दिष्टा भद्र त्रयविराजिता १४
जाड्यकुंभकणालि च तत्र ग्रासपद्या पुन
गजस्थानं नरःस्थानं पुरःस्थानं च कुंभकं १५
कलशोऽत्तरपत्रं च कपोलिमंचिकस्तथा
बहिर्जंधाविभार्ग च दिग्पालाश्च सपन्नगा १६
अंतर्जघा विभागेन गणगंधर्वशक्त्यया
उद्गभरणी चैव कणालि च शिरावटि १७
पट्टिकाछाद्यकूटं च मंडोवरादिभूमिका
एतस्योभूमिकायं च उपर्योपरिसूरिभि १८
--- कर्तव्यं वास्तुविधिनां
बाह्यभूर विभूमिषु पुरुषमूर्ति प्रतिष्टितं १९
एवं षट् भूमिकायं च उपर्योपरिसूरिभिः
कर्तव्य वास्तुविधिना बाह्यभूरविभूमिषु २०
आद्यभूमिमहानंदा द्वितीयानंदवद्धनी
तृतीयाधर्मविस्तारा चतुर्थकर्मासिद्धिदा २१
पंचमी देवतातुल्या षष्टिमोक्षस्वरूपका
सप्ताभ्यानंदविर्वाणा अष्टमि तु अयोनिजा २२
नवभि एकादशी स्यात् एवं च भूमिलक्षणं
शिवालये शिव कुर्यात् ब्रह्मणंब्रह्मणंस्थले २३
विष्णुस्थाने महाविष्णु जिनेजैनप्रकर्तिना
नगरे राजधानी च महादूर्गे विशेषत २४
भूपालयवलभः स्तंभः वास्तुशास्त्रे प्रकर्तिता
स्तंभकीर्तिदर्शनेय तीर्थकोटिकलप्रदं २५
इति श्री विश्वकर्माकृतायां वास्तुविद्यायां वास्तुशास्त्रे कीर्तिस्तंभ लक्षणाधिकार क्रमांक अध्याय १३

अध्याय १४[सम्पाद्यताम्]

अथ विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे प्रासादाधिकारे देवतान्यास क्रमांक अध्याय १४
श्री विश्वकर्मा उवाच
प्रासादे देवतानां च गुणवृक्ष्यामि सांप्रत
तथा यावतनुसंस्था च क्रमेणैवप्रकीर्तिता १
कौर्म्म घनशिलाणं तु खरशिलायावाराहकं
भिट्टत्रयो त्रयोदेवा पन्नगायक्षकिन्नरा २
जाड्यकुंभो स्थितो नंदि हरि चैव कणालिका
गजपीठं गणेशं च अश्वपीठं तथाश्विनै ३
नरपीठ नरोत्तमात्र खुरके च धरास्मृता
कुंभकेष्ट तथासृष्टिं निर्गमोदगोसमया ४
रुद्रं च प्रकर्तव्या भद्रे भद्रे स्वयंविधि
कलशे च तथागौरि नंदि चैवांतरपत्रको ५
कपोताल्यां गांधर्वा मंचिकायां सरस्वती
अत ऊर्ध्वे भवेद्जंघा देवतानां मनोरमा ६
देवतानां श्रयं स्थानं प्रासादस्यावभूषण
कर्णेषु दिक्पालाश्चैव प्राच्यादिषु प्रदक्षिणे ७
नाटेश्वरं पश्चिमे भडे अंतकैः सहदक्षिणे
चंडिका चोत्तरे देवी दंष्ट्रारौद्र तनाश्रुभा ८
प्रतिरथे तत्र देव्या च कर्तव्या च दिशापति
वारिमध्ये तु निद्रा णां प्रनिलातयसाशने ९
आधारं अक्षसूत्र च जटामुकटमंडितं
मंदिकाकोणिकायां च दले प्रतिरथौ तथा १०
रूपं च नृत्यसंयुक्तं भेदमूर्तिस्तथैव च
गणेशं च कुमारं च आदित्यस्य ---स्तथा ११
चंडिकाब्रह्मणं चैव वासुदेव तथैव च
भेदमूर्तिस्तु जंघाया अन्येश्चापि सुरास्तया १२
क--मिकमध्यदेवं च प्रासादो सर्वदेव हि
प्रासादे अंतरं नास्ती पीठं चैव तथैव च १३
कपिलायमभिश्चैव अंतरंतय विद्यते
तलविभक्ति छंदेन ऊर्ध्वे च पृथक्पृथक् १४
ज्ञातिच्छंदे समुत्पन्ना शृंगप्रत्याङ्गमेव च
कर्तव्यं जगत्यान्तरं अनंतरं कुलदेवता १५
अंतरं भद्र देशे तु उत्तभागे स्तथैव च
बलाणक मंडपंश्चैव कर्तव्या पंचदेवता १६
चंडिका गणेशं चैव जिनार्क ब्रह्मणदास्तथा
यामूर्तिमध्यदेशे तु पृष्टिभद्रे तथैव च १७
अन्ये परिणाप्राज्ञ सर्वदैव स्वयं विधि
उद्गमे च भवेदिंद्र कपिग्रासरलकृता १८
प्रवेशं चतुभागेस्तु कर्तव्यं शास्त्रपारगै
सावित्रिपद संस्थाने भरण्या च न संशय १९
विद्याधराकपोतालि अंतरपत्रेषु सुरंगाणि
पर्जन्येषु खुटछाद्यै अतः ऊर्ध्वे तथैव च २०
निर्गमे मणिरत्नेव --- सर्वत्र पूजते २१
इति मंडोवर देवतादस्थान
विश्वकर्मा उवाच
सदाशिवमध्यदेशे च लक्ष्मी सर्वत्र दापयेत्
पदस्थाने स्थितादेवा सर्वकल्याणकारका २२
शाखायां चंदसूयस्तु मातराणां चोतरंगकौ
उदंबरस्थिता यक्ष अश्विन्यर्धचंद्र के २३
राजसेन वेदिकायां आसनं घत्रवारणं
मृत्यलोकयो देवा ते पद सर्वमाश्चिता २४
स्तंभासने भवे शक्र आसनं सर्ववर्णयेत्
ब्रह्मक्षत्रिय वैश्य योगियां च पुनःपुनः २५
स्तंभेषु पर्वता प्रोक्ता आयाश्च दिग्वजः
सह भरणं शंकरे चैव गांधर्वे कुमारस्तथा २६
पट्टकं मातरा सर्वे देव्यानं च समस्तकाः
अंतरा उत्तराश्चैव वैताल्या ब्रह्मराक्षसा २७
पदशांशे भवे शक्रः यक्षश्च धनदस्तथा
उदिपर्णा गणी सर्वे वृतश्चैव न संशयः २८
त्रयाशंतिसुरा सर्वे त्रिदैशैः सहसंयुतं
वृतोर्ध्वयते नित्यं कर्णदर्दटिका २९
करोटकस्यऽधोभागैः ऊर्ध्वं दर्दरिकास्तथा
विद्याधरथरं नाम देवानावल्लभ सदा ३०
दशयाद्विद्याधरं च रूपपश्चिम प्रियवादिनौ
दिशि च विदिशि चैव मध्यस्थास्र निदेशयेत् ३१
--- संघाप्रकर्तव्या षंडेषंडे च कारयेत्
----- ३२
षोडशविद्याधरं च चतुर्यात्रप्रकाशका
कंदर्प्प नृत्यताश्चैव नृत्यकी नृत्यवल्लभा ३३
गीयालुंकोलकंक्तयाव वृत्तानपूर्णामेव च
आकाशं च पदं प्रोक्त अव्यक्तं व्यक्तमेव च ३४
मध्ये ध्रुवपदं तस्य अचलं ध्रुव निश्चलं
एतत सर्वपदं प्रोक्त भाषिते विश्वकर्मणे ३५
जालिके रुषि संहाय मध्ये वसुरसंस्थिता
ब्रह्माविष्णुस्तथारुद्रं भद्रे भद्रे षु दाययेत् ३६
ऊरुशिखरे तथाय च भद्रे भद्रे स्वयंविधि
शिखरे ईश्वरं विद्यात् शिखायं च सुराधिपं ३७
ग्रीवायां यततो नंदी अंडकेषु निशानतं
पद्मपत्र तथा पद्मं आमलसादिकापदरं ३८
कलशं च स्थितो रुद्रो व्योमव्यापि सदाशिव
सद्योवामस्तथाधोर पद्म ईशानःस्तथा ३९
कर्णप्रतिरथरद्ध बालंझरसुभद्र कं
कर्णिका नदिकायां च शलिलान्तक तथा ४०
एते देव समाख्याता प्रासादेषु सुराधिपा
पंचवक्रे दिषु भद्रे अंगसंख्या प्रशस्यते ४१
पथ्यते मुच्यते पापं अक्षयाफलमेव च
त्रिकालस्मरते यस्तु सर्वार्धफलं भवेत् ४२
इति श्री विश्वकर्माकृते वास्तुविद्यायां त्रिदशभवनोद्भव वास्तुशास्त्रे प्रासादाधिकारेस्तथवकादेवता क्रमांक अध्याय १४

अध्याय १५[सम्पाद्यताम्]

अथ चतुर्विंशति गौरी स्वरूपाणि श्री विश्वकर्माकृतायां वास्तुविद्यायां वास्तुशास्त्रे वास्तुविद्या क्रमांक अध्याय १५
विश्वकर्मा उवाच
अथातः संप्रवक्ष्यामि गौर्यादिचतुर्विंशतिम्
चतुर्भुजा विनेत्रा च सर्वाभरणभूषिता १
पीताङ्गी पीतवर्णा च पीतवस्त्रविभूषिता
एक वक्त्रा त्रिनेत्रा च स्वरूपे यौवनान्विता २
सुप्रभा सुतेजाद्या च मुकुटेन विराजिता
प्रभामंडलसंयुक्ता कुंडलाभरणविभूषिता ३
हारकंकणकेयूरा पादयोर्नू पुरास्थिता
सिंहस्कंधे मसारूढा नानारूपकरोद्यता ४
देवगांधर्वगणेन पूजिता सुरगणैस्तथा
कृतयुगे तोतला नाम पूज्यते ब्राह्मणैः सदा ५
त्रिपुराख्या तु क्षत्रियैः सौभाग्या च वैश्यस्तथा
विजया शूद्र जातिभिः पूज्याश्वत्वारो ब्राह्मणैः ६
त्रयश्च राज्यजातिभिः द्वयौ वैश्यश्च पूज्यते
अथैका शूद्र जातिभिः --- ७
१ तोतला देवी-
दक्षिणे चाक्षमालां च तस्याधश्च कमंडलुम्
तथैव पीछिकां वामे वामाधः शंखमुत्तमम् ८
रूपेण तोतला नाम मूर्त्तिश्च हंसवाहिनी
२ त्रिपुरा देवी-
अभयं च दक्षिणे हस्ते तस्योर्ध्वेऽङ्कुशमङ्गुले ९
पाशं च वामहस्ते तु लिङ्गं च तदधः स्थितम्
प्रेतासना महादेवी त्रिपुरा नाम मूर्तिकः १०
३ सौभाग्या देवी-
दक्षिणे चाक्षसूत्रं च तस्योर्ध्वे पद्ममुत्तमम्
वामे तु पुस्तकं चैव वामाधः फलमुत्तमम् ११
गरुडे च समारूढा सौभाग्यवेत्ता मूर्त्तिकः
४ विजया देवी-
दक्षिणे चाक्षसूत्रं च तदूर्ध्व दंडमुत्तमम् १२
वामे तु पुस्तकं चैव वामेधश्चाभयं तथा
प्रसन्नमुखा देवी च विजया नाम मूर्त्तिकः १३
५ गौरी देवी-
दक्षिणे चाक्षसूत्रं च भूजोर्ध्वेश्वरमेव च
गणं च वामहस्ते च तस्याधश्च कमंडलुम् १४
गौरी नामेन विख्याता मूर्तिश्च सिंहवाहिनी
६ पार्वती देवी-
दक्षिणे चाभयं चैवं तूर्ध्वे लिङ्गमीश्वरम् १५
वामे गजाननं चैव मातुलिङ्गं चाधःस्थितम्
गोधिका लांछनं चैव पार्वती नाम मूर्त्तिकाः १६
७ शूलेश्वरी देवी-
अभयं दक्षिणे हस्ते तदूर्ध्वे रुद्र मेव च
वामे गणपतिश्चैव वामाधः चाक्षमालिका १७
सिंहवाहने समारूढा शुलेश्वरी नाम मूर्तिषु
८ ललिता देवी-
दक्षिणं चाक्षमालां तु तदूर्ध्वे लिङ्गमेव च १८
वामे गणपतिं चैव तस्याधः पद्ममुत्तमम्
गोधिकावाहने चैव ललिता नाम मूर्तिषु १९
९ ईश्वरी देवी-
अभयं दक्षिणे हस्ते तदूर्ध्वे ईश्वरं तथा
वामे गणपतिं चैव वामाधश्च कमंडलुम् २०
---ईश्वरी सिंहवाहिनी
१० मनेश्वरी देवी-
पद्मं दक्षिणहस्ते च तदूर्ध्वे ईश्वरं तथा २१
वामे गणपतिं चैव वामाधश्चाभयं तथा
सिंह वाहन समारूढा मनेश्वरी नाम मूर्तिषु २२
११ उमापति देवी-
अभयं दक्षिणे हस्ते तदूर्ध्वे ईश्वरं तथा
वामे गणपतिं चैव वामाधः पद्ममुत्तमम् २३
उमापतिनामा मूर्तिः देवी च सिंहवाहिनी
१२ वीणा देवी-
पद्मं च दक्षिणे हस्ते तदूर्ध्व लिङ्गमेव च २४
गणेशं वामहस्ते च लिङ्गं तदधःस्थितम्
सिंहासने समारूढा वीणेति नाम मूर्तिषु २५
१३ हस्तिनी देवी-
दक्षिणे च मातुलिङ्गं तदूर्ध्वे ईश्वरं तथा
वामे गणपतिं चैव वामाधश्च कमंडलुम् २६
गोधासने समारूढा हस्तिनी नाम मूर्तिषु
१४ त्रिनेत्रा देवी-
अक्षसूत्रं दक्षिणे च तदूर्ध्वे ईश्वरं तथा २७
वामे गणपतिं चैव मातुलिङ्गमधः स्थितम्
सिंहासने समारूढा त्रिनेत्रा नाम मूर्तिषु २८
१५ रमणा देवी-
अक्षसूत्रं दक्षिणे च तदूर्ध्वे ईश्वरं तथा
वामे गणपतिं चैव तस्याधः पुस्तकं तथा २९
हंसवाहनमारूढा रमणा नाम मूर्तिषु
१६ कुलकला देवी-
पद्मं च दक्षिणे हस्ते तस्योर्ध्वे पद्ममुत्तमम् ३०
पुस्तकं वामहस्तेन तथाधश्च कमंडलुम्
कमलालाच्छनं चैव देवीनाम कुलकला ३१
१७ जंघा देवी-
अक्षमालां दक्षिणे च तस्योर्ध्वे पद्ममुत्तमम्
दर्पणं वामहस्ते च वामाधाः फलमुत्तमम् ३२
हस्तिनो वाहना देवी जंघानामतो मूर्तिषु
१८ त्र्! यैलोक्यविजया देवी-
वरदं दक्षिणे हस्ते तस्योर्ध्वेऽकुशमुत्तमम् ३३
पाशं च वामहस्ते तु वामाधश्चाभयं तथा
ब्रह्मा विष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः ३४
एते पंच महाप्रोक्ताः पादमूले व्यवस्थिताः
त्र्! यैलोक्यविजया नाम --- ३५
१९ कामेश्वरी देवी-
दक्षिणे चाक्षसूत्रं च तदूर्ध्वे पद्ममुत्तमम्
पुस्तकं वामस्ते तु वामाधश्चाभयं तथा ३६
कमलासनमारूढा देवी कामेश्वरी तथा
२० रक्तनेत्रा-
अभयं दक्षिणे हस्ते तदूर्ध्वे खड्गमेव च ३७
वामे तु तक्षकं चैव तस्याधः फलं भवेत्
प्रेतासना समारूढा रक्तनेत्रा च नामत ३८
२१ चंडी २२ जंभिनी २३ ज्वालाप्रभो २४ भैरवी-
चंडीनीतानी दध्यनी जंभिनी ज्वलतप्रभा
सहितं भैरवरूपा कोटराक्षी च भीषणी ३९
प्रेतारूढा विशाला च द्वादश पंचलोचना
पंचमहादीप्तमुद्रा --- पंचकभूषणा ४०
सिंहचर्मपरिधाना गजचर्मोत्तरीयकम्
नीलोत्पलसमाभासा सूर्यकोटिसमप्रभम् ४१
कपालाभरणं खण्डं खंडं षड्वर्गधारिणि
कपालखड्गधरा ज्ञेया त्र्! यैलोकोद्योतघंटिका ४२
सरसारङ्गधरा दिव्या पाशाङ्कुशधरा च तु
सर्पकुंडलसंयुक्ता सर्पाभरणभूषिता ४३
सर्पकंकणकेयूरा नागाभरणभूषिता
इत्येवं भैरवीदेवी सपादपरिकीर्तिता ४४
इति श्री विश्वकर्मा कृतायां वास्तुशास्त्रे चतुर्विंशति गौरी स्वरूपाक क्रमांक अध्याय १५

गौरीस्वरूपाध्याय[सम्पाद्यताम्]

श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां द्वादश गौरी स्वरूपाध्याय क्रमांक अध्याय १६
अथ गौर्याः प्रवक्ष्यामि प्रमाणं मूर्ति लक्षणम्
चतुर्भुजा त्रिनेत्रा च सर्वाभरणभूषिता १
गोधासनो परिस्था च कर्तव्या सर्व कामदा
इति गौरी मूर्ति स्वरूप
उमा च पार्वती गौरी ललिता च श्रिया तथा २
कृष्णा च हिमवती च रंभा च सावित्री तथा
त्रिखंडा तोतला चैव त्रिपुरा द्वादशोदिताः
इति गौरि नामानि ३
१ उमा देवी-
अक्षसूत्रं च कमलं दर्पणं च कमंडलुः
उमानाम्ना भवेन्मूर्ति पूजिता त्रिदशैरपि ४
२ पार्वती देवी-
अक्षसूत्रं शिवदेवं गणाध्यक्षं कमंडलुम्
अग्निकुंडोपक्षद्वये पार्वती पर्वतोद्भवा ५
३ गौरी देवी-
अक्षसूत्राभये पद्म तस्योधस्तु कमंडलुः
गौर्याश्रु मूर्तिरित्युक्ता कर्तव्या शिवशालिनी ६
४ ललिता देवी-
अक्षसूत्रं तथा वीणा दर्पणेऽध कमंडलुः
ललिता च तदा नाम सिद्धचारण सेविता ७
५ श्रिया देवी-
गोधासनाक्षसूत्रो च वरदाभयकमंडलुः
श्रिया मूर्तिस्तदानाम गृहे पूज्या श्रिये सदा ८
६ कृष्णा देवी-
अक्षसूत्रं कमंडलुहृदयेतपुटाजलिः
पंचाग्नयश्च कुंडेषु कृष्णा नाम सुशोभना ९
७ हिमवती देवी-
हिमवंती शैलराजी तस्यावत्या गिरिसुता
पद्मदर्पणाभयतु विवाहेतु महेश्वरी १०
८ रंभा देवी-
कमंडल्वक्षवज्रांकुश गजासनं संस्थिता
सांप्रतितोद्भवद्रू पा रंभा च सर्वकामदा ११
९ सावित्री देवी-
अक्षसूत्रं पुस्तकं च धत्ते पद्मकमंडलु
चतुर्वक्त्रातु सावित्री श्रोत्रियाणां गृहे हिता १२
१० त्रिखंडा देवी-
अक्षसूत्रवज्रशक्ति तस्याधश्च कमंडलु
त्रिखंडा पूज्येन्नित्यं सर्वकामफलप्रदाम् १३
११ तोतला देवी-
शुलाक्षसूत्रं दंड च श्वेतयामरकं तथा
श्वेतदेहा भवेत् देवी तोतला पापनाशिनी १४
१२ त्रिपुरा देवी-
पाशांकुशाभयवरं चतुर्हस्तेष्वनुक्रमात्
त्रिपूरानाम संपूज्या वंदिता त्रिदशैरपि १५
इति द्वादश गौरि स्वरूप
इति श्री विश्वकर्मा कृतायां वास्तुशास्त्रे वास्तुविद्यायां द्वादश गौरि स्वरूपाध्याय क्रमांक अध्याय १६

सरस्वती स्वरूपाध्याय[सम्पाद्यताम्]

श्री विश्वकर्माकृते वास्तुशास्त्रे वास्तुविद्यायां द्वादश सरस्वती स्वरूपाध्याय क्रमांक अध्याय १६
अथातः संप्रवक्ष्यामि द्वादश वाणी लक्षणम्
चतुर्भुजाश्चैकवक्त्रा मुकुटेन विराजिताः १
प्रभामंडल संयुक्ता कुंडलान्वितन्वरभूषिता
वस्त्रालंकार संयुक्ताः सुरूपा नवयौवनान्विता २
सुप्नसन्ना तेजाढ्या नित्यं च भक्तवत्सला
१ श्रिया देवी-
दक्षिणे चाक्षसूत्रं च तदूर्ध्वे पद्ममुत्तमम् ३
परमामुत्तमा वीणां वामे ध पुस्तकं भवेत्
२ सरस्वती देवी-
दक्षिणाधक्षसूत्रं तदूर्ध्वे पुस्तकं तथा ४
वीणा वामकरे ज्ञेया तदधःपद्मपुस्तकम्
द्वितीया सरस्वती नाम हंसवाहनसंस्थितं ५
३ कमलारुक्षिणी देवी-
वरदं दक्षिणे हस्ते पद्मपत्र तदूर्ध्वतः
पद्मं वामकरे ज्ञेयं वामाधः पुस्तकं भवेत् ७
४ जया देवी-
दक्षिणे वरदं ज्ञेयं तदर्धे पद्ममुत्तमं
पुस्तकं वामहस्ते तु अधोवामे क्षमालिका ८
५ विजया देवी-
वरदं दक्षिणे हस्ते अक्षसूत्रं तदूर्ध्वतः
पुस्तकं वामहस्ते तु तस्याध पद्ममुत्तमं ९
६ सारंगी देवी-
वरददक्षिणे हस्ते पुस्तकं च तदूर्ध्वतः
अक्षसूत्रं करे वामे वामाधः पद्ममुत्तम १०
७ तुंबरी देवी-
अभय च दक्षिणे हस्ते तदूर्ध्वे अक्षमालिका
वीणा वामकरे ज्ञेया तस्याध पुस्तकं भवेत् १०
८ भारती देवी-
वरदं दक्षिणे हस्ते तदूर्ध्वे कमलं भवेत्
वीणा वाम करे ज्ञेया तस्याधः पुस्तक भवेत् ११
९ सुमंगला देवी-
दक्षिणे वरदसूत्रं च पद्मतस्यो परिस्थितं
वीणा च वामोर्ध्वे स्यात् वामाधः पुस्तकं भवेत् १२
१० विद्याधरी देवी-
पद्मं च दक्षिणे हस्ते ऊर्ध्वं चाक्षमालिकाम्
वीणा वाम हस्ते तु पुस्तकं स्यात्तदधःत १२
११ सर्वविधा देवी-
दक्षिणे चाक्षसूत्रं तु पद्म तस्योर्धः स्थिति
पुस्तकं वाम हस्ते च चाभयं तस्योदधःत १३
१२ शारदा देवी-
अभयं दक्षिणे हस्ते ऊर्ध्वे पद्मं च दृश्यते
पुस्तकं वामहस्ते तु तस्याधश्चाक्षमालिकाम् १४
द्वादश शारदानाम इति शास्त्रस्य निर्णयः
इति श्री विश्वकर्मा कृतायां वास्तुविद्यायां वास्तुशास्त्रे पद्मासन संस्थिता हंसारूढा प्रसन्ना च पूजिता सरस्वती द्वादशमूर्ति ।
श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां द्वादश सरस्वती स्वरूपाध्याय क्रमांक अध्याय १६

अध्याय १७[सम्पाद्यताम्]

अथ द्वादश सरस्वती स्वरूप
देवतामूर्ति प्रकरणे
एक वक्त्र चतुर्भुजा मुकुटेन विशजितः
प्रभामंडल संयुक्ता कुंडलान्वित शेखरः १ इति सरस्वती स्वरूप लक्षण
अक्ष पद्मं विणापुस्तक महाविद्या प्रकीर्तिता । इति महाविद्या १
अक्ष पुस्तकवीणा पद्म महावीणा च नामत २ इति महावीणा २
वराक्ष पद्मपुस्तक शुभावहा च भारती । इति भारती ३
वराम्बुअक्ष पुस्तक सरस्वती प्रकीर्तिता ३ इति सरस्वती ४
वराक्षं पुस्तकं पद्मं आर्यानाम प्रकीर्तिता इत्यार्या ५
वरपुस्तकाक्ष पद्म ब्राह्मी नाम सुखावहा ४ इति ब्राह्मी ६
वर पद्मवीणा पुस्तक महाधेनुश्च नामतः । इति महाधेनु ७
वर च पुस्तक वीणा वेदजर्भा तथाम्बुजम् ५ इति वेदजर्भा ८
अक्ष तथाऽभये पद्मपुस्तके मेश्वरीभवेत् । इत्येश्वरी ९
अक्ष पद्मवीणाश्चैव महालक्ष्मी च आगमे ६ इति महालक्ष्मी १०
अक्ष पद्म पुस्तकं च महाकाल्याऽभयं तथा । इति महाकाली ११
अक्ष पुस्तक वीणा च पद्म महासरस्वती ७ इति महासरस्वती १२
इति द्वादश सरस्वती स्वरूप
श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां त्रयोदश्यादिव्य
द्विभुज स्वरूपाध्याय क्रमांक अध्याय १७
अथातः संप्रवक्ष्यामि आदित्याश्च द्वयंकरा
त्रयोदशादित्यान् प्रोक्तं रूप शृणु विचक्षण १
१ आदित्य देव-
प्रथमे हस्ते शंखं च वामे पद्मकं हस्तके
प्रथमं च भवेन्नाम आदित्यास्तु विधीयते २
२ रवि देव-
प्रथम हस्ते शंख च वामे वज्रदंडकम्
द्वितीयं तु भवेदस्य रविर्नाम विधीयते ३
३ गौतम देव-
प्रथमं पद्महस्ते च वामे पद्मं दंडकम्
तृतीयस्तु भवेद्देवो गौतमस्तु विधीयते ४
४ भानुप्तान देव-
प्रथमे पद्महस्ते च वामे शदल हस्तके
चतुर्थस्तु भवेन्नाम भानुप्तानो विधीयते ५
५ शाचित्त देव-
प्रथमे पद्महस्ते च वामे शंखतु हस्तके
पंचमंस्तु भवेत् देवः शाचितनाम धार्यते ६
६ दिवाकर देव-
प्रथमे वज्रदंड च वामे वज्रदंडकम्
षष्टमस्तु भवेद्देवो दिवाकरो विधीयते ७
७ धूमकेतु देव-
प्रथमे वज्रदंडा च वामे पद्मं च हस्तके
सप्तमं तु भवेन्नाम धूम्रकेतुर्विधीयते ८
८ संभव देव-
प्रथमे वज्रदंडा तु वामे शंख च हस्तके
अष्टमस्तु भवेन्नाम संभवस्तु विधीयते ९
९ भास्कर देव-
प्रथमे फलं हस्ते च वामे शंख तु हस्तके
नवमस्तु भवेन्नाम भास्करस्तु विधीयते १०
१० सूर्य देव-
प्रथमे फलं च हस्ते वामे दंडं च हस्तके
दशमस्तु भवेन्नाम सूर्यदेवो विधीयते ११
११ संतुष्ट देव-
प्रथमे चक्रं हस्ते च वामे पद्म तु हस्तके
एकादशमो भवेन्नाम संतुष्टस्तु विधीयते १२
१२ सुवर्णकेतु देव-
प्रथमे फलं हस्ते च वामे पद्मं तु हस्तके
द्वादशमो भवेन्नाम सुवर्णकेतुर्विधीयते १३
१३ मार्कंड देव-
उभयोर्हस्तयोः पद्ममे स्थारुढश्च संस्थितः
त्रयोदशमो भवेन्नाम मार्कंडस्तु विधीयते १४
इति श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां त्रयोदश्यादिव्य स्वरूपाध्याय क्रमांक अध्याय १७

वास्तुलक्षणाध्याय[सम्पाद्यताम्]

श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां वास्तुलक्षणाध्याय क्रमांक अध्याय १८
पुरान्धकवधे रुद्र ललाटपतिपतितंनक्षितो
स्वेदस्तनोद्भुतं जातं पुरुषो वै सुदुःखह १
अधोमुखेन सौख्यश्च कुरुते हन्ति चान्यथा
नैव तस्य विना शांति श्रीदः सुविहितो बली २
६४ पदतो वास्तु
अथवास्तु देवता भाग निर्णय चोसठ पद
चतुषष्टि पदोवास्तु मध्ये ब्रह्मवेदे पदे भवेत् ३
अर्यमाच्चतुर्भाग ब्रह्मकर्णष्टयुग्मांश स
शेषा एकपदा बाह्ये त्वष्टा विशतिदेवा ४
ब्रह्मा चतुर्देवो अर्यमा विवरवान् मैत्रगण
पृथ्वीधरस्तथा चतुष्कोणे अष्टदेवो
ब्राह्मपंक्ति द्वित्रया देवो स्वाप्याय च पूजयो ५
८१ पदनो वास्तु
वास्तुक्षेत्रे एकाशिपदे नव नव भाजिते
मध्ये नवब्रह्मा नवभागे षट् पट् पद अर्यमादिदय ६
द्वीपद मध्यमध्ये कोणस्यो बाह्ये सर्धे द्विभागिकाः
बाह्यपंक्ति कैकदेवा एकाशिपद वास्तुन ७
सो पदनो वास्तु
चतुरसी कृते क्षेत्रे दश दश विभाजिते
शतपदे वास्तु कलाशेषदे ब्रह्मा ८
वरस्येशा अर्यमादय चतुष्कोणे आपवत्सादि
बाह्यपदमेकैकदेवा स्थाप्य शतपदवास्तुन ९
हजार पदनो वास्तु
चतुरश्री कृते क्षेत्रे द्वात्रिंशद्विभाजिते
षट्पंचाशत्पदैर्युक्तान्येकादश शतानि च १०
मध्यस्थाने लिखेत्पद्मं वेदगर्भ इति स्मृतम्
ब्रह्मान्ते च भवेद्वीथी चत्वारिंशत्पदैः क्रमात् ११
अर्यम्मोऽस्ते भवेद्वीथी शतं च द्वादशोत्तमम्
वीथीकर्णे समस्तेवं पदमुक्तिः क्रमोदित १२
अप्तदंश मंडलेषु चाद्ये पद्मं निपातयेत्
तदनन्तरपंक्तौ च ब्रह्माषण्ण वतिपदः १३
तदन्ते वीथीकाकार्या चत्वारिंशत्पदान्विता
सशितिभिश्च चत्वारोऽर्यमाद्याश्च चतुर्दिशम् १४
चत्वारिंश पदैरथैरष्टौ स्युर्ब्रह्मकर्णत्
तदन्तवीथीका कार्या शतं च द्वादशोत्तरम् १५
तदबाह्ये च भवेद्वीथी द्वात्रिंशदधिकं शतम्
कौणे लोप्याश्च षट्पादाश्चतुर्षु चतुर्विंशतिः १६
इशाघ्ना रुद्र दासान्ता लता वीथ्यन्तरे गता
एवं पदानि आयन्ते षट्त्रिंशदधिकं शतम् १७
बाह्य कर्णे तु चत्वारः प्रस्थाप्या नवभिः पदैः
सप्त सप्त तदाश्चिता योज्या अष्टाष्टाभिः पदैः १८
तन्मानानुक्रमाद्योज्या शेषा अष्टपदास्तथा
एवं सहस्रपदैर्युक्तं सर्वतोभद्र लक्षणं । इति सहस्रपदं सर्वतोभद्र वास्तु १९
अधासणे वास्तु प्रपूज्यते यजमान से
वास्तुपूजा विनावास्तु प्रारंभे न भवेशने । इति वास्तु
इति श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां वास्तुलक्षणाध्याय क्रमांक अध्याय १८

स्रोतः[सम्पाद्यताम्]