सूर्यसिद्धान्त छेद्यकाधिकारः

विकिस्रोतः तः

Varitants for the part beginning with * are supplied in ( ) .

सूर्यसिद्धान्त अनुक्रमणिका


[छेद्यक]
६.०१क न छेद्यकम् ऋते यस्माद् भेदा ग्रहणयोः स्फुटाः /
६.०१ख ज्ञायन्ते तत् प्रवक्ष्यामि छेद्यकज्ञानम् उत्तमम् //

६.०२क सुसाधितायाम् अवनौ बिन्दुम् कृत्वा ततो लिखेत् /
६.०२ख सप्तवर्गाङ्गुलेनादौ मण्डलम् वलनाश्रितम् //

६.०३क ग्राह्यग्राहकयोगार्धसम्मितेन द्वितीयकम् /
६.०३ख मण्डलम् तत् समासाख्यम् ग्राह्यार्धेन तृतीयकम् //

६.०४क याम्योत्तराप्राच्यपरासाधनम् पूर्ववद् दिशाम् /
६.०४ख प्राग् इन्दोर् ग्रहणम् पश्चान् मोक्षो +अर्कस्य विपर्ययात् //

६.०५क यथादिशम् प्राग्रहणम् वलनम् हिमदीधितेः /
६.०५ख मौक्षिकम् तु विपर्यस्तम् विपरीतम् इदम् रवेः //

६.०६क वलनाग्रान् नयेन् मध्यम् सूत्रम् यद्य् अत्र सम्स्पृशेत् /
६.०६ख तत्समासे ततो देयौ विक्षेपौ ग्रासमौक्षिकौ //

६.०७क विक्षेपाग्रात् पुनः सूत्रम् मध्यबिन्दुम् प्रवेशयेत् /
६.०७ख तद्ग्राह्यबिन्दुसम्स्पर्शाद् ग्रासमोक्षौ विनिर्दिशेत् //

६.०८क नित्यशो +अर्कस्य विक्षेपाः परिलेखे यथादिशम् /
६.०८ख विपरीताः शशाङ्कस्य तद्वशाद् अथ मध्यमम् //

६.०९क वलनम् प्राङ्मुखम् देयम् तद्विक्षेपैकता यदि /
६.०९ख भेदे पश्चान् मुखम् देयम् इन्दोर् भानोर् विपर्ययात् //

६.१०क वलनाग्रात् पुनः सूत्रम् मध्यबिन्दुम् प्रवेशयेत् /
६.१०ख मध्यसूत्रेण विक्षेपम् वलनाभिमुखम् नयेत् //

६.११क विक्षेपाग्राल् लिखेद् वृत्तम् ग्राहकार्धेन तेन यत् /
६.११ख ग्राह्यवृत्तम् समाक्रान्तम् तद्ग्रस्तम् तमसा भवेत् //

६.१२क छेद्यकम् लिखता भूमौ फलके वा विपश्चिता /
६.१२ख विपर्ययो दिशाम् कार्यः पूर्वापरकपालयोः //

६.१३क स्वच्छत्वाद् द्वादशाम्शो +अपि ग्रस्तश् चन्द्रस्य दृश्यते /
६.१३ख लिप्तात्रयम् अपि ग्रस्तम् तीक्ष्णत्वान् न विवस्वतः //

६.१४क स्वसम्ज्ञितास् त्रयः कार्या विक्षेपाग्रेषु बिन्दवः /
६.१४ख तत्र प्राङ्मध्ययोर् मध्ये तथा मौक्षिकमध्ययोः //

६.१५क लिखेन् मत्स्यौ तयोर् मध्यान् मुखपुच्छविनिःसृतम् /
६.१५ख प्रसार्य सूत्रद्वितयम् तयोर् यत्र युतिर् भवेत् //

६.१६क तत्र सूत्रेण विलिखेच् चापम् बिन्दुत्रयस्पृशा /
६.१६ख स पन्था ग्राहकस्योक्ता येनासौ सम्प्रयास्यति //

६.१७क ग्राह्यग्राहकयोगार्धात् प्रोज्झ्येष्टग्रासम् आगतम् /
६.१७ख अवशिष्टाङ्गुलसमाम् शलाकाम् मध्यबिन्दुतः //

६.१८क तयोर् मार्गोन्मुखीम् दद्याद् ग्रासतः प्राग्ग्रहाश्रिताम् /
६.१८ख विमुञ्चतो मोक्षदिशि ग्राहकाध्वानम् एव सा //

६.१९क स्पृशेद् यत्र ततो वृत्तम् ग्राहकार्धेन सम्लिखेत् /
६.१९ख तेन ग्राह्यम् यदाक्रान्तम् तत् तमोग्रस्तम् आदिशेत् //

६.२०क मानान्तरार्धेन मिताम् शलाकाम् ग्रासदिङ्मुखीम् /
६.२०ख निमीलनाख्याम् दद्यात् सा तन्मार्गे यत्र सम्स्पृशेत् //

६.२१क ततो ग्राहकखण्डेन प्राग्वन् मण्डलम् आलिखेत् /
६.२१ख तद्ग्राह्यमण्डलयुतिर् यत्र तत्र निमीलनम् //

६.२२क एवम् उन्मीलने मोक्षदिङ्मुखीम् सम्प्रसारयेत् /
६.२२ख विलिखेन् मण्डलम् प्राग्वद् उन्मीलनम् अथोक्तवत् //

६.२३क अर्धाद् ऊने सधूम्रम् स्यात् कृष्णम् अर्धाधिकम् भवेत् /
६.२३ख विमुञ्चतः कृष्णताम्रम् कपिलम् सकलग्रहे //

६.२४क रहस्यम् एतद् देवानाम् न देयम् यस्य कस्यचित् /
६.२४ख सुपरीक्षितशिष्याय देयम् वत्सरवासिने //

सूर्यसिद्धान्त अनुक्रमणिका

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कड़ियाँ[सम्पाद्यताम्]