"ऋग्वेदः सूक्तं १.५८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) ६ अवतरण: rigveda and other pages
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{header
| title = [[ऋग्वेदः मण्डल १| ऋग्वेदः मण्डल १]]
| author = नोधा गौतमः
| translator =
| section = सूक्तं १.५८
| previous = [[ऋग्वेद: सूक्तं १.५७|सूक्तं १.५७]]
| next = [[ऋग्वेद: सूक्तं १.५९|सूक्तं १.५९]]
| notes = दे. अग्निः। जगती, ६-९ त्रिष्टुप्
}}

{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}}
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}}



२३:५१, १८ नवेम्बर् २०१६ इत्यस्य संस्करणं

← सूक्तं १.५७ ऋग्वेदः मण्डल १
सूक्तं १.५८
नोधा गौतमः
सूक्तं १.५९ →
दे. अग्निः। जगती, ६-९ त्रिष्टुप्

ऋग्वेदः सूक्तं १.५८


नू चित्सहोजा अमृतो नि तुन्दते होता यद्दूतो अभवद्विवस्वतः ।
वि साधिष्ठेभिः पथिभी रजो मम आ देवताता हविषा विवासति ॥१॥
आ स्वमद्म युवमानो अजरस्तृष्वविष्यन्नतसेषु तिष्ठति ।
अत्यो न पृष्ठं प्रुषितस्य रोचते दिवो न सानु स्तनयन्नचिक्रदत् ॥२॥
क्राणा रुद्रेभिर्वसुभिः पुरोहितो होता निषत्तो रयिषाळमर्त्यः ।
रथो न विक्ष्वृञ्जसान आयुषु व्यानुषग्वार्या देव ऋण्वति ॥३॥
वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः ।
तृषु यदग्ने वनिनो वृषायसे कृष्णं त एम रुशदूर्मे अजर ॥४॥
तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वाँ अव वाति वंसगः ।
अभिव्रजन्नक्षितं पाजसा रज स्थातुश्चरथं भयते पतत्रिणः ॥५॥
दधुष्ट्वा भृगवो मानुषेष्वा रयिं न चारुं सुहवं जनेभ्यः ।
होतारमग्ने अतिथिं वरेण्यं मित्रं न शेवं दिव्याय जन्मने ॥६॥
होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वृणते अध्वरेषु ।
अग्निं विश्वेषामरतिं वसूनां सपर्यामि प्रयसा यामि रत्नम् ॥७॥
अच्छिद्रा सूनो सहसो नो अद्य स्तोतृभ्यो मित्रमहः शर्म यच्छ ।
अग्ने गृणन्तमंहस उरुष्योर्जो नपात्पूर्भिरायसीभिः ॥८॥
भवा वरूथं गृणते विभावो भवा मघवन्मघवद्भ्यः शर्म ।
उरुष्याग्ने अंहसो गृणन्तं प्रातर्मक्षू धियावसुर्जगम्यात् ॥९॥


*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.५८&oldid=91652" इत्यस्माद् प्रतिप्राप्तम्