"ऋग्वेदः सूक्तं १.९२" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) ७ अवतरण: rigveda and other pages |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
{{header |
|||
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}} |
|||
| title = [[ऋग्वेदः मण्डल १|ऋग्वेदः मण्डल १]] |
|||
| author = गोतमो राहूगणः |
|||
| translator = |
|||
| section = सूक्तं १.९२ |
|||
| previous = [[ऋग्वेद: सूक्तं १.९१|सूक्तं १.९१]] |
|||
| next = [[ऋग्वेद: सूक्तं १.९३|सूक्तं १.९३]] |
|||
| notes = दे. उषाः, १६-१८ अश्विनौ। १-४ जगती, ५-१२ त्रिष्टुप्, १३-१८ उष्णिक् |
|||
}} |
|||
<div class="verse"> |
<div class="verse"> |
०१:४८, ११ नवेम्बर् २०१६ इत्यस्य संस्करणं
← सूक्तं १.९१ | ऋग्वेदः मण्डल १ सूक्तं १.९२ गोतमो राहूगणः |
सूक्तं १.९३ → |
दे. उषाः, १६-१८ अश्विनौ। १-४ जगती, ५-१२ त्रिष्टुप्, १३-१८ उष्णिक् |
एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते । निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः ॥१॥ उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत । अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥२॥ अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः । इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते ॥३॥ अधि पेशांसि वपते नृतूरिवापोर्णुते वक्ष उस्रेव बर्जहम् । ज्योतिर्विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्युषा आवर्तमः ॥४॥ प्रत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कृष्णमभ्वम् । स्वरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत् ॥५॥ अतारिष्म तमसस्पारमस्योषा उच्छन्ती वयुना कृणोति । श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः ॥६॥ भास्वती नेत्री सूनृतानां दिव स्तवे दुहिता गोतमेभिः । प्रजावतो नृवतो अश्वबुध्यानुषो गोअग्राँ उप मासि वाजान् ॥७॥ उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम् । सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम् ॥८॥ विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुरुर्विया वि भाति । विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन्मनायोः ॥९॥ पुनःपुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना । श्वघ्नीव कृत्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः ॥१०॥ व्यूर्ण्वती दिवो अन्ताँ अबोध्यप स्वसारं सनुतर्युयोति । प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ॥११॥ पशून्न चित्रा सुभगा प्रथाना सिन्धुर्न क्षोद उर्विया व्यश्वैत् । अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर्दृशाना ॥१२॥ उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति । येन तोकं च तनयं च धामहे ॥१३॥ उषो अद्येह गोमत्यश्वावति विभावरि । रेवदस्मे व्युच्छ सूनृतावति ॥१४॥ युक्ष्वा हि वाजिनीवत्यश्वाँ अद्यारुणाँ उषः । अथा नो विश्वा सौभगान्या वह ॥१५॥ अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् । अर्वाग्रथं समनसा नि यच्छतम् ॥१६॥ यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः । आ न ऊर्जं वहतमश्विना युवम् ॥१७॥ एह देवा मयोभुवा दस्रा हिरण्यवर्तनी । उषर्बुधो वहन्तु सोमपीतये ॥१८॥