"ऋग्वेदः सूक्तं १.८९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) ७ अवतरण: rigveda and other pages
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}}
| title = [[ऋग्वेदः मण्डल १|ऋग्वेदः मण्डल १]]
| author = गोतमो राहूगणः
| translator =
| section = सूक्तं १.८९
| previous = [[ऋग्वेद: सूक्तं १.८८|सूक्तं १.८८]]
| next = [[ऋग्वेद: सूक्तं १.९०|सूक्तं १.९०]]
| notes = दे. विश्वेदेवाः (१-२, ८-९ देवाः, १० अदितिः )। जगती, ६ विराट्-स्थाना, ८-१० त्रिष्टुप्
}}



<div class="verse">
<div class="verse">

०१:४१, ११ नवेम्बर् २०१६ इत्यस्य संस्करणं

← सूक्तं १.८८ ऋग्वेदः मण्डल १
सूक्तं १.८९
गोतमो राहूगणः
सूक्तं १.९० →
दे. विश्वेदेवाः (१-२, ८-९ देवाः, १० अदितिः )। जगती, ६ विराट्-स्थाना, ८-१० त्रिष्टुप्


आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः ।
देवा नो यथा सदमिद्वृधे असन्नप्रायुवो रक्षितारो दिवेदिवे ॥१॥
देवानां भद्रा सुमतिरृजूयतां देवानां रातिरभि नो नि वर्तताम् ।
देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥२॥
तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् ।
अर्यमणं वरुणं सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥३॥
तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः ।
तद्ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् ॥४॥
तमीशानं जगतस्तस्थुषस्पतिं धियंजिन्वमवसे हूमहे वयम् ।
पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये ॥५॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥६॥
पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः ।
अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥७॥
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥८॥
शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥९॥
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥१०॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.८९&oldid=90490" इत्यस्माद् प्रतिप्राप्तम्