"वर्गः:उपनिषदः" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
वर्गः:ग्रन्थाः नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:

'''राजश्यामलारहस्योपनिषत्''' (अपूर्ण)

यामुत्तानशायिनीं कृत्वा दर्पणवन्निर्मलं जगन्मोहनचक्रं गन्धद्रव्येण धूपदीपैश्च
परिमलीकृतं कुङ्कुममिलितैर्मल्लिकाकुड्ममलैः शरसङ्ख्यया पूजयन् ब्राह्मणो
देवभोगमाप्नोति । वसन्तनवरात्रिषु भार्याजगन्मोहनचक्रे मल्लिकाकुड्मलैः
सहस्रनामभिः रहस्यनामभिश्च पूजिता राजश्यामला राजवशङ्करी भवति ।
शुक्रवासरयुक्तायां सप्तम्यां रात्रौ भार्याया जगन्मोहनचक्रे प्रथमयामे कल्हार-
पुष्पैः सहस्रनामभिर्देवतां पूजयन् देवतासालोक्यमाप्नोति । तस्यामेव
द्वितीययामे भार्याजगन्मोहनचक्रे पारिजातपुप्पैः सहस्रनामभिः पूजयन्
देवतासामीप्यमाप्नोति । तस्यामेव तृतीययामे भार्याजगन्मोहनचक्रे
मन्दारपुष्पैः सहस्रनामभिः पूजयन् देवतासारूप्यमाप्नोति । तस्यामेव
चतुर्थयामे जगन्मोहनचक्रे चम्पकपुष्पै सहस्रनामभिः पूजयन् देवता-
सायुज्यमाप्नोति । सर्वरात्रिषु जगन्मोहनचक्रे मल्लिकाकुड्मलैः पूजिता श्यामला
कामितार्थप्रदा भवति । ग्रीष्मकाले सर्वरात्रिषु श्रीचन्दनविलिप्तभार्याजगन्मो-
हनचक्रं पूजयन् सर्वसिद्धिमाप्नोति । दूर्वाभिः पूजयन् महदायुष्यमश्नुते ।
अष्टम्यां शुक्रवासरयुक्तायां रात्रौ जगन्मोहनचक्रे राजश्यामलाम्बां
श्रीचन्दनेन पूजयन् मानवो गन्धलिप्तो जगन्मोहको भवति । महानवम्यां
शुकवासरयुक्तायां रात्रौ जगन्मोहनचक्रे कुङ्कुमाक्षतैर्देवता पूजयित्वा पूजि-
ताक्षतान् राज्ञे निवेदयेत् । राजा दासभावमाप्नोति । त्रयोदश्यां शुक्रवास-
रयुक्तायां रात्रौ भार्याजगन्मोहनचकं पूजयन् मानवः कामसुन्दरो भवति ।
चन्द्रदर्शनयुक्तायां द्वितीयायां शुक्रवारयुक्तायां भार्याजगन्मोहनचक्रे राजश्या-
मलाम्बां श्वेतगन्धाक्षतैः श्वेतपुष्पैश्च पूजयन् साधको देहान्ते राजा भवति ।
सर्वभोगप्रदा सर्वसौभाग्यप्रदा दीर्घायुष्यप्रदा महायोगप्रदा महामङ्गलप्रदा
काम्यप्रदा श्रीराजश्यामला देवेन्द्रभोगप्रदा भवति । सर्वकाम्यरहस्यपूजान्ते
मैथुनं देवताप्रीतिकरं भवति । मोक्षप्रदं भवति । स एव भोगापवर्गः ।
गुर्वनुज्ञया गुप्तः क्षपणको मुक्तो भवति । एवं कान्तायाः पूजिता स्वर्णचक्रे
श्यामला मङ्गलप्रदा भवति । द्रोहिणां नोपदेशः । क्षपणकानां पञ्चाधि-
करणैः परो मोक्षो नान्यथेति य एवं वेद । इत्युपनिषत् । ।
इति राजश्यामलारहस्योपनिषत् समाप्ता




[[वर्गः:ग्रन्थाः]]
[[वर्गः:ग्रन्थाः]]

११:५०, २८ आगस्ट् २०१६ इत्यस्य संस्करणं

राजश्यामलारहस्योपनिषत् (अपूर्ण)

यामुत्तानशायिनीं कृत्वा दर्पणवन्निर्मलं जगन्मोहनचक्रं गन्धद्रव्येण धूपदीपैश्च परिमलीकृतं कुङ्कुममिलितैर्मल्लिकाकुड्ममलैः शरसङ्ख्यया पूजयन् ब्राह्मणो देवभोगमाप्नोति । वसन्तनवरात्रिषु भार्याजगन्मोहनचक्रे मल्लिकाकुड्मलैः सहस्रनामभिः रहस्यनामभिश्च पूजिता राजश्यामला राजवशङ्करी भवति । शुक्रवासरयुक्तायां सप्तम्यां रात्रौ भार्याया जगन्मोहनचक्रे प्रथमयामे कल्हार- पुष्पैः सहस्रनामभिर्देवतां पूजयन् देवतासालोक्यमाप्नोति । तस्यामेव द्वितीययामे भार्याजगन्मोहनचक्रे पारिजातपुप्पैः सहस्रनामभिः पूजयन् देवतासामीप्यमाप्नोति । तस्यामेव तृतीययामे भार्याजगन्मोहनचक्रे मन्दारपुष्पैः सहस्रनामभिः पूजयन् देवतासारूप्यमाप्नोति । तस्यामेव चतुर्थयामे जगन्मोहनचक्रे चम्पकपुष्पै सहस्रनामभिः पूजयन् देवता- सायुज्यमाप्नोति । सर्वरात्रिषु जगन्मोहनचक्रे मल्लिकाकुड्मलैः पूजिता श्यामला कामितार्थप्रदा भवति । ग्रीष्मकाले सर्वरात्रिषु श्रीचन्दनविलिप्तभार्याजगन्मो- हनचक्रं पूजयन् सर्वसिद्धिमाप्नोति । दूर्वाभिः पूजयन् महदायुष्यमश्नुते । अष्टम्यां शुक्रवासरयुक्तायां रात्रौ जगन्मोहनचक्रे राजश्यामलाम्बां श्रीचन्दनेन पूजयन् मानवो गन्धलिप्तो जगन्मोहको भवति । महानवम्यां शुकवासरयुक्तायां रात्रौ जगन्मोहनचक्रे कुङ्कुमाक्षतैर्देवता पूजयित्वा पूजि- ताक्षतान् राज्ञे निवेदयेत् । राजा दासभावमाप्नोति । त्रयोदश्यां शुक्रवास- रयुक्तायां रात्रौ भार्याजगन्मोहनचकं पूजयन् मानवः कामसुन्दरो भवति । चन्द्रदर्शनयुक्तायां द्वितीयायां शुक्रवारयुक्तायां भार्याजगन्मोहनचक्रे राजश्या- मलाम्बां श्वेतगन्धाक्षतैः श्वेतपुष्पैश्च पूजयन् साधको देहान्ते राजा भवति । सर्वभोगप्रदा सर्वसौभाग्यप्रदा दीर्घायुष्यप्रदा महायोगप्रदा महामङ्गलप्रदा काम्यप्रदा श्रीराजश्यामला देवेन्द्रभोगप्रदा भवति । सर्वकाम्यरहस्यपूजान्ते मैथुनं देवताप्रीतिकरं भवति । मोक्षप्रदं भवति । स एव भोगापवर्गः । गुर्वनुज्ञया गुप्तः क्षपणको मुक्तो भवति । एवं कान्तायाः पूजिता स्वर्णचक्रे श्यामला मङ्गलप्रदा भवति । द्रोहिणां नोपदेशः । क्षपणकानां पञ्चाधि- करणैः परो मोक्षो नान्यथेति य एवं वेद । इत्युपनिषत् । । इति राजश्यामलारहस्योपनिषत् समाप्ता

उपवर्गाः

६ इत्येषु वर्गेऽस्मिन् ६ उपवर्गाः आहत्य ६ सन्ति

"उपनिषदः" वर्गेऽस्मिन् विद्यमानानि पृष्ठानि

वर्गेऽस्मिन् अधो लिखितं११९ पृष्ठानि आहत्य ११९ पृष्ठानि विद्यन्ते

"https://sa.wikisource.org/w/index.php?title=वर्गः:उपनिषदः&oldid=76815" इत्यस्माद् प्रतिप्राप्तम्