"वैराग्यशतकम् (भर्तृहरिविरचितम्)" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
{{header | title = वैराग्यशतकम् | author = भर्तृहरिः | translator = |... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १: पङ्क्तिः १:
{{header
{{header
| title = वैराग्यशतकम्
| title = वैराग्यशतकम्
| author = भर्तृहरिः
| author = भर्तृहरि
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
चूडोत्तंसितचन्द्रचारुकलिकाचञ्चच्छिखाभास्वरो
चूडोत्तंसितचन्द्रचारुकलिकाचञ्चच्छिखाभास्वरो
लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् ।
लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् ।

०७:००, २ जुलै २०१६ इत्यस्य संस्करणं

{{header

| title      = वैराग्यशतकम्
| author     = भर्तृहरि

चूडोत्तंसितचन्द्रचारुकलिकाचञ्चच्छिखाभास्वरो लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् । अन्तःस्फूर्जद्अपारमोहतिमिरप्राग्भारं उच्चाटयन् श्वेतःसद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः । । ३.१ । ।

भ्रान्तं देशं अनेकदुर्गविषमं प्राप्तं न किञ्चित्फलं त्यक्त्वा जातिकुलाभिमानं उचितं सेवा कृता निष्फला । भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकवत् तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि सन्तुष्यसि । । ३.२ । ।

उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन सन्तोषिताः । मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः प्राप्तः काणवराटकोऽपि न मया तृष्णे सकामा भव । । ३.३ । ।

खलालापाः सौढाः कथं अपि तद्आराधनपरैर्निगृह्यान्तर् बाष्पं हसितं अपि शून्येन मनसा । कृतो वित्तस्तम्भप्रतिहतधियां अञ्जलिरपि त्वं आशे मोघाशे किम अपरं अतो नर्तयसि मां । । ३.४ । ।

अमीषां प्राणानां तुलितविसिनीपत्रपयसां कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितं । यद्आढ्यानां अग्रे द्रविणमदनिःसंज्ञमनसां कृतं मावव्रीडैर्निजगुणकथापातकं अपि । । ३.५ । ।

क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः सोढो दुःसहशीततापपवनक्लेशो न तप्तं तपः । ध्यातं वित्तं अहर्निशं नित्यमितप्राणैर्न शम्भोः पदं तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः । । ३.६ । ।

भोगा न भुक्ता वयं एव भुक्तास् तपो न तप्तं वयं एव तप्ताः । कालो न यातो वयं एव यातास्तृष्णा न जीर्णा वयं एव जीर्णाः । । ३.७ । ।

बलिभिर्मुखं आक्रान्तं पलितेनाङ्कितं शिरः । गात्राणि शिथिलायन्ते तृष्णैका तरुणायते । । ३.८ । ।

विवेकव्याकोशे विदधति समे शाम्यति तृषा परिष्वङ्गे तुङ्गे प्रसरतितरां सा परिणता । जराजीर्णैश्वर्यग्रसनगहनाक्षेपकृपणस्तृषापात्रं यस्यां भवति मरुतां अप्यधिपतिः । । ३.८*१ । ।

निवृत्ता भोगेच्छा पुरुषबहुमानोऽपि गलितः समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः । शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने अहो मूढः कायस्तदपि मरणापायचकितः । । ३.९ । ।

आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी । मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी तस्याः परगता विशुद्धं अलसो नन्दन्ति योगीश्वराः । । ३.१० । ।

न संसारोत्पन्नं चरितं अनुपश्यामि कुशलं विपाकः पुण्यानां जनयति भयं मे विमृशतः । महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषया महान्तो जायन्ते व्यसनं इव दातुं विषयिणां । । ३.११ । ।

अवश्यं यातारश्चिरतरं उषित्वापि विषया वियोगे को भेदस्त्यजति न जनो यत्स्वयं अमून् । व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः स्वयं त्यक्ता ह्येते शमसुखं अनन्तं विदधति । । ३.१२ । ।

ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करं यन्मुञ्चन्त्युपभोगभाञ्ज्यपि धनान्येकान्ततो निःस्पृहाः । सम्प्रातान्न पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययान् वाञ्छामात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयं । । ३.१३ । ।

धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायतामानन्दाश्रु जलं पिबन्ति शकुना निःशङ्कं अङ्केशयाः । अस्माकं तु मनोरथोपरचितप्रासादवापीतटक्रीडा काननकेलिकौतुकजुषां आयुः परं क्षीयते । । ३.१४ । ।

भिक्षाशतं तदपि नीरसं एकबारं शय्या च भूः परिजनो निजदेहमात्रं । वस्त्रं विशीर्णशतखण्डमयी च कन्था हा हा तथापि विषया न परित्यजन्ति । । ३.१५ । ।

स्तनौ मांसग्रन्थी कनककलशावित्युपमिती मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितं । स्रवन्मूत्रक्लिन्नं करिवरशिरस्पर्धि जघनं मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरुकृतं । । ३.१६ । ।

एको रागिषु राजते प्रियतमादेहार्धहारी हरो नीरागेषु जनो विमुक्तललनासङ्गो न यस्मात्परः । दुर्वारस्मरबाणपन्नगविषव्याबिद्धमुग्धो जनः शेषः कामविडम्बितान्न विषयान्भोक्तुं न मोक्तुं क्षमः । । ३.१७ । ।

अजानन्दाहात्म्यं पततु शलभस्तीव्रदहने स मीनोऽप्यज्ञानाद्बडिशयुतं अश्नातु पिशितं । विजानन्तोऽप्येते वयं इह वियज्जालजटिलान् न मुञ्चामः कानां अहह गहनो मोहमहिमा । । ३.१८ । ।

तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरं क्षुधार्तः शाल्यन्नं कवलयति मांसादिकलितं । प्रदीप्ते कामाग्नौ सुदृढतरं आलिङ्गति वधूं प्रतीकारं व्याधः सुखं इति विपर्यस्यति जनः । । ३.१९ । ।

तुङ्गं वेश्म सुताः सतां अभिमताः सङ्ख्यातिगाः सम्पदः कल्याणी दयिता वयश्च नवं इत्यज्ञानमूढो जनः । मत्वा विश्वं अनश्वरं निविशते संसारकारागृहे संदृश्य क्षणभङ्गुरं तदखिलं धन्यस्तु सन्न्यस्यति । । ३.२० । ।

दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरा क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी । याच्ञाभङ्गभयेन गद्गदगलत्रुट्यद्विलीनाक्षरं को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् । । ३.२१ । ।

अभिमतमहामानग्रन्थिप्रभेदपटीयसी गुरुतरगुणग्रामाभोजस्फुटोज्ज्वलचन्द्रिका । विपुलविलल्लज्जावल्लीवितानकुठारिका जठरपिठरी दुस्पुरेयं करोति विडम्बनं । । ३.२२ । ।

पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली कपालिं ह्यादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठे । द्वारं द्वारं प्रविष्टो वरं उदरदरीपूरणाय क्षुधार्तो मानी प्राणैः सनाथो न पुनरनुदिनं तुल्यकुल्येसु दीनः । । ३.२३ । ।

गङ्गातरङ्गकणशीकरशीतलानि विद्याधराध्युषितचारुशिलातलानि । स्थानानि किं हिमवतः प्रलयं गतानि यत्सावमानपरपिण्डरता मनुष्याः । । ३.२४ । ।

किं कन्दाः कन्दरेभ्यः प्रलयं उपगता निर्झरा वा गिरिभ्यः प्रध्वस्ता वा तरुभ्यः सरसगलभृतो वल्कलिन्यश्च शाखाः । वीक्ष्यन्ते यन्मुखानि प्रसभं अपगतप्रश्रयाणां खलानां दुःखाप्तस्वल्पवित्तस्मयपवनवशानर्तितभ्रूलतानि । । ३.२५ । ।

पुण्यैर्मूलफलैस्तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना भूशय्यां नवपल्लवैरकृपणैरुत्तिष्ठ यावो वनं । क्षुद्राणां अविवेकमूढमनसां यत्रेश्वराणां सदा वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते । । ३.२६ । ।

फलं स्वेच्छालभ्यं प्रतिवनं अखेदं क्षितिरुहां पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरितां । मृदुस्पर्शा शय्या सुललितलतापल्लवमयी सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः । । ३.२७ । ।

ये वर्तन्ते धनपतिपुरः प्रार्थनादुःखभाजो ये चाल्पत्वं दधति विषयाक्षेपपर्याप्तबुद्धेः । तेषां अन्तःस्फुरितहसितं वासराणि स्मरेयं ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः । । ३.२८ । ।

ये सन्तोषनिरन्तरप्रमुदितस्तेषां न भिन्ना मुदो ये त्वन्ये धनलुब्धसङ्कलधियस्तेसां न तृष्णाहता । इत्थं कस्य कृते कुतः स विधिना कीदृक्पदं सम्पदां स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते । । ३.२९ । ।

भिक्षाहारं अदैन्यं अप्रतिसुखं भीतिच्छिदं सर्वतो दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनं । सर्वत्रान्वहं अप्रयत्नसुलभं साधुप्रियं पावनं शम्भोः सत्रं अवायं अक्षयनिधिं शंसन्ति योगीश्वराः । । ३.३० । ।

भोगे रोगमयं कुले च्युतिभयं वित्ते नृपालाद्भयं माने धैन्यभयं बले रिपुभयं रूपे जराय भयं । शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयं सर्वं वस्तु भयान्वितं भुवि न्éणां वैराग्यं एवाभयं । । ३.३१ । ।

आक्रान्तं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनं सन्तोषो धनलिप्सया शममुखं प्रौढाङ्गनाविभ्रमैः । लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैर् अस्थैर्येण विभूतयोऽप्यपहता ग्रस्तं न किं केन वा । । ३.३२ । ।

आधिव्याधिशतैर्जनस्य विविधैरारोग्यं उन्मूल्यते लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः । जातं जातं अवश्यं आशु विवशं मृत्युः करोत्यात्मसात् तत्किं तेन निरङ्कुशेन विधिना यन्निर्मितं सुस्थिरं । । ३.३३ । ।

भोगास्तुङ्गतरङ्गभङ्गतरलाः प्राणाः क्षणध्वंसिनः स्तोकान्येव दिनानि यौवनसुखं स्फूर्तिः प्रियासु स्थिता । तत्संसारं असारं एव निखिलं बुद्ध्वा बुधा बोधका लोकानुग्रहपेशलेन मनसा यत्नः समाधीयतां । । ३.३४ । ।

भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चला आयुर्वायुविघट्टिताब्जपटलीलीनाम्बुवद्भङ्गुरं । लीला यौवनलालसास्तनुभृतां इत्याकलय्य द्रुतं योगे धैर्यसमाधिसिद्धिसुलभे बुद्धिं विदध्वं बुधाः । । ३.३५ । ।

आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीर् अर्थाः सङ्कल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः । कण्ठाश्लेषोपगूढ तदपि च न चिरं यत्प्रियाभः प्रणीतं ब्रह्मण्यासक्तचित्ता भवत भवमयाम्भोधिपारं तरीतुं । । ३.३६ । ।

कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे कान्ताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः । वामाक्षीणां अवज्ञाविहसितवसतिर्वृद्धभावोऽन्यसाधुः संसारे रे मनुष्या वदत यदि सुखं स्वल्पं अप्यस्ति किञ्चिथ् । । ३.३७ । ।

व्याघ्रीव तिष्ठति जरा परितर्जयन्ती रोगाश्च शत्रव इव प्रहरन्ति देहं । आयुः परिस्रवन्ति भिन्नघटादिवाम्भो लोकस्तथाप्यहितं आचरतीति चित्रं । । ३.३८ । ।

भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवस्तत् कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टतैः । आशापाशशतापशान्तिविशदं चेतःसमाधीयतां कामोत्पत्तिवशात्स्वधामनि यदि श्रद्देयं अस्मद्वचः । । ३.३९ । ।

सखे धन्याः केचित्त्रुटितभवबन्धव्यतिकरा वनान्ते चित्तान्तर्विषं अविषयाशीत्विषगताः । शरच्चन्द्रज्योत्स्नाधवलगगनाभोगसुभगां नयन्ते ये रात्रिं सुकृतचयचिन्तैकशरणाः । । ३.३९*१ । ।

ब्रह्मेन्द्रादिमरुद्गणांस्तृणकणान्यत्र स्थितो मन्यते यत्स्वादाद्विरसा भवन्ति विभवास्त्रैलोक्यराज्यादयः । भोगः कोऽपि स एव एक परमो नित्योदितो जृम्भते भोः साधो क्षणभङ्गुरे तदितरे भोगे रतिं मा कृथाः । । ३.४० । ।

सा रम्या नगरी महान्स नृपतिः सामन्तचक्रं च तत् पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चन्द्रबिम्बाननाः । उद्वृत्तः स राजपुत्रनिवहस्ते वन्दिनस्ताः कथाः सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः । । ३.४१ । ।

यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते । इत्थं नयौ रजनिदिवसौ लोलयन्द्वाविवाक्षौ कालः कल्यो भुवनफलके क्रडति प्राणिशारैः । । ३.४२ । ।

आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते पीत्वा मोहमयीं प्रमादमदिरां उन्मत्तभूतं जगथ् । । ३.४३ । ।

रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवो धावन्त्युद्यमिनस्तथैव निभृतप्रारब्धतत्तत्क्रियाः । व्यापारैः पुनर्उक्तभूतविषयैरित्थं विधेनामुना संसारेण कदर्थिता वयं अहो मोहान्न लज्जामहे । । ३.४४ । ।

न ध्यानं पदं ईश्वरस्य विधिवत्संसारविच्छित्तये स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः । नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितं मातुः केवलं एव यौवनवनच्छेदे कुठारा वयं । । ३.४५ । ।

नाभ्यस्ता प्रतिवादिवृन्ददमनी विद्या विनीतोचिता खड्गाग्रैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः । कान्ताक्ॐअलपल्लवाधररसः पीतो न चन्द्रोदये तारुण्यं गतं एव निष्फलं अहो शून्यालये दीपवथ् । । ३.४६ । ।

विद्या नाधिगता कलङ्करहिता वित्तं च नोपार्जितं शुश्रूषापि समाहितेन मनसा पित्रोर्न सम्पादिता । आलोलायतलोचनाः प्रियतमाः स्वप्नेऽपि नालिङ्गिताः कालोऽयं परपिण्डलोलुपतया काकैरिव प्रेर्यते । । ३.४७ । ।

वयं येभ्यो जाताश्चिरपरिगता एव खलु ते समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः । इदानीं एते स्मः प्रतिदिवसं आसन्नपतना गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः । । ३.४८ । ।

आयुर्वर्षशतं न्éणां परिमितं रात्रौ तद्अर्धं गतं तस्यार्धस्य परस्य चार्धं अपरं बालत्ववृद्धत्वयोः । शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनां । । ३.४९ । ।

क्षणं बालो भूत्वा क्षणं पै युवा कामरसिकः क्षणं वित्तैर्हीनः क्षणं अपि च सम्पूर्णविभवः । जराजीर्णैरङ्गैर्नट इव बलीमण्डिततनूर् नरः संसारान्ते विशति यमधानीयवनिकां । । ३.५० । ।

त्वं राजा वयं अप्युपासितगुरुप्रज्ञाभिमानोन्नताः ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः । इत्थं मानधनातिदूरं उभयोरप्यावयोरन्तरं यद्यस्मासु पराङ्मुखोऽसि वयं अप्येकान्ततो निःस्पृहा । । ३.५१ । ।

अर्थानां ईशिषे त्वं वयं अपि च गिरां ईश्महे यावदर्थं शूरस्त्वं वादिदर्पव्युपशमनविधावक्षयं पाटवं नः । सेवन्ते त्वां धनाढ्या मतिमलहतयेमां अपि श्रोतुकामामय्य् अप्यास्था न ते चेत्त्वयि मम नितरां एव राजन्ननास्था । । ३.५२ । ।

वयं इह परितुष्टा वल्कलैस्त्वं दुकूलैः सम इह परितोषो निर्विशेषो विशेषः । स तु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः । । ३.५३ । ।

फलं अलं अशनाय स्वादु पानाय तोयं क्षितिरपि शयनार्थं वाससे वल्कलं च । नवघनमधुपानभ्रान्तसर्वेन्द्रियाणामविनयम् अनुमन्तुं नोत्सहे दुर्जनानां । । ३.५४ । ।

अश्नीमहि वयं भिक्षां आशावासो वसीमहि । शयीमहि महीपृष्ठे कुर्वीमहि किं ईश्वरैः । । ३.५५ । ।

न नटा ना विटा न गायका न च सभ्येतरवादचुञ्चवः । नृपं ईक्षितुं अत्र के वयं स्तनभारानमिता न योषितः । । ३.५६ । ।

विपुलहृदयैरीशैरेतज्जगज्जनितं पुरा विधृतं अपरैर्दत्तं चान्यैर्विजित्य तृणं यथा । इह हि भुवनान्यन्यैर्धीराश्चतुर्दश भुञ्जते कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः । । ३.५७ । ।

अभुक्तायां यस्यां क्षणं अपि न यातं नृपशतैर् धुवस्तस्या लाभे क इव बहुमानः क्षितिभृतां । तद्अंशस्याप्यंशे तद्अवयलेशेऽपि पतयो विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदं । । ३.५८ । ।

मृत्पिण्डो जलरेखया बलयतिः सर्वोऽप्ययं नन्वणुः स्वांशीकृत्य स एव सङ्गरशतै राज्ञां गणा भुञ्जते । ये दद्युर्ददतोऽथवा किं अपरं क्षुद्रा दरिद्रं भृशं धिग्धिक्तान्पुरुषाधमान्धनकणान्वाञ्छन्ति तेभ्योऽपि ये । । ३.५९ । ।

स जातः कोऽप्यासीन्मदनरिपुणा मूर्ध्नि धवलं कपालं यस्योच्चैर्विनिहितं अलङ्कारविधये । नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना नमद्भिः कः पुंसां अयं अतुलदर्पज्वरभरः । । ३.६० । ।

परेषां चेतांसि प्रतिदिवसं आराध्य बहुधा प्रसादं किं नेतुं विशसि हृदय क्लेशकलितं । प्रसन्ने त्वय्यन्तःसवयमुदितचिन्तामणिगणो विविक्तः सङ्कल्पः किं अभिलषितं पुष्यति न ते । । ३.६१ । ।

सत्यां एव त्रिलोकीसरिति हरशिरश्चुम्बिनीवच्छटायां सद्वृत्तिं कल्पयन्त्यां बटविटपभवैर्वल्कलैः सत्फलैश्च । कोऽयं विद्वान्विपत्तिज्वरजनितरुजातीवदुःखासिकानां वक्त्रं वीक्षेत दुःस्थे यदि हि न विभृयात्स्वे कुटुम्बेऽनुकम्पां । । ३.६१*१ । ।

परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां स्वयं भवति यद्यथा भवति तत्तथा नान्यथा । अतीतं अननुस्मरन्नपि च भाव्यसङ्कल्पयन्नतर्कित समागमानुभवामि भोगनाहं । । ३.६२ । ।

एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रयश्रेयो मार्गं अशेषदुःखशमनव्यापारदक्षं क्षणात् । स्वात्मीभावं उपैहि सन्त्यज निजां कल्लोललोलं गतिं मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना । । ३.६३ । ।

मोहं मार्जय तां उपार्जय रतिं चन्द्रार्धचूडामणौ चेतः स्वर्गतरङ्गिणीतटभुवां आसङ्गं अङ्गीकुरु । को वा वीचिषु बुद्बुदेषु च तडिल्लेखासु च श्रीषु च ज्वालाग्रेषु च पन्नगेषु सरिद्वेगेषु च चप्रत्ययः । । ३.६४ । ।

चेतश्चिन्तय मा रमां सकृदिमां अस्थायिनीं आस्थया भूपालभ्रुकुटीकुटीविहरणव्यापारपण्याङ्गनां । कन्थाकञ्चुकिनः प्रविश्य भवनद्वाराणि वाराणसीरथ्या पङ्क्तिषु पाणिपात्रपतितां भिक्षां अपेक्षामहे । । ३.६५ । ।

अग्रे गीतं सरसकवयः पार्श्वयोर्दाक्षिणात्याः पश्चाल्लीलावलयरणितं चामरग्राहिणीनां । यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ । । ३.६६ । ।

प्राप्ताः श्रियः सकलकामदुधास्ततः किं न्यस्तं पदं शिरसि विद्विषतां ततः किं । सम्पादिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितास्तनुभृतां तनवस्ततः किं । । ३.६७ । ।

भक्तिर्भवे मरणजन्मभयं हृदिस्थं स्नेहो न बन्धुषु न मन्मथजा विकाराः । संसर्ज दोषरहिता विजया वनान्ता वैराग्यं अस्ति किं इतः परमर्थनीयं । । ३.६८ । ।

तस्मादनन्तं अजरं परमं विकासि तद्ब्रह्म चिन्तय किं एभिरसद्विकल्पैः । यस्यानुषङ्गिण इमे भुवनाधिपत्यभोगादयः कृपणलोकमता भवन्ति । । ३.६९ । ।

पातालं आविशसि यासि नभो विलङ्घ्य दिङ्मण्डलं भ्रमसि मानस चापलेन । भ्रान्त्यापि जातु विमलं कथं आत्मनीनं न ब्रह्म संसरसि विर्वृतिमं एषि येन । । ३.७० । ।

किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः । मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं स्वात्मानन्दपदप्रवेशकलनं शेसैर्वाणिग्वृत्तिभिः । । ३.७१ । ।

नायं ते समयो रहस्यं अधुना निद्राति नाथो यदि स्थित्वा द्रक्ष्यति कुप्यति प्रभुरिति द्वारेषु येषां वचः । चेतस्तानपहाय याहि भवनं देवस्य विश्वेशितुर् निर्दौवारिकनिर्दयोक्त्य्अपरुषं निःस्ॐअशर्मप्रदं । । ३.७१*१ । ।

यतो मेरुः श्रीमान्निपतति युगान्ताग्निवलितः समुद्राः शुष्यन्ति प्रचुरमकरग्राहनिलयाः । धरा गच्छत्यन्तं धरणिधरपादैरपि धृता शरीरे का वार्ता करिकलभकर्णाग्रचपले । । ३.७२ । ।

गात्रं सङ्कुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिर् दृष्टिर्नक्ष्यति वर्धते वधिरता वक्त्रं च लालायते । वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रूषते हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते । । ३.७३ । ।

वर्णं सितं शिरसि वीक्ष्य शिरोरुहाणां स्थानं जरापरिभवस्य तदा पुमांसं । आरोपितांस्थिशतकं परिहृत्य यान्ति चण्डालकूपं इव दूरतरं तरुण्यः । । ३.७४ । ।

यावत्स्वस्थं इदं शरीरं अरुजं यावच्च दूरे जरा यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान् सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः । । ३.७५ । ।

तपस्यन्तः सन्तः किं अधिनिवसामः सुरनदीं गुणोदारान्दारानुत परिचरामः सविनयं । पिबामः शास्त्रौघानुतविविधकाव्यामृतरसान् न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने । । ३.७६ । ।

दुराराध्याश्चामी तुरगचलचित्ताः क्षितिभुजो वयं तु स्थूलेच्छाः सुमहति फले बद्धमनसः । जरा देहं मृत्युर्हरति दयितं जीवितं इदं सखे नान्यच्छ्रेयो जगति विदुषेऽन्यत्र तपसः । । ३.७७ । ।

माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयातेऽर्थिनि क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने । युक्तं केवलं एतदेव सुधियां यज्जह्नुकन्यापयःपूताग्राव गिरीन्द्रकन्दरतटीकुञ्जे निवासः क्वचिथ् । । ३.७८ । ।

रम्याश्चन्द्रमरीचयस्तृणवती रम्या वनान्तस्थली रम्यं साधुसमागमागतसुखं काव्येषु रम्याः कथाः । कोपोपाहितबाष्पबिन्दुतरलं रम्यं प्रियाया मुखं सर्वं रम्यं अनित्यतां उपगते चित्ते न किञ्चित्पुनः । । ३.७९ । ।

रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादिकं किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये । किन्तु भ्रान्तपतङ्गक्षपवनव्यालोलदीपाङ्कुरच्छाया चञ्चलं आकलय्य सकलं सन्तो वनान्तं गताः । । ३.८० । ।

आ संसारात्त्रिभुवनं इदं चिन्वतां तात्तादृङ्नैवास्माकं नयनपदवीं श्रोत्रमार्गं गतो वा । योऽयं धत्ते विषयकरिणो गाढगूढाभिमानक्षीवस्यान्तः करणकरिणः संयमालानलीलां । । ३.८१ । ।

यदेतत्स्वच्छन्दं विहरणं अकार्पण्यं अशनं सहार्यैः संवासः श्रुतं उपशमैकव्रतफलं । मनो मन्दस्पन्दं बहिरपि चिरस्यापि विमृशन्न जाने कस्यैषा परिणतिरुदारस्य तपसः । । ३.८२ । ।

जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं हन्ताङ्गेषु गुणाश्बन्ध्यफलतां याता गुणज्ञैर्विना । किं युक्तं सहसाभ्युपैति बलवान्कालः कृतान्तोऽक्षमी हा ज्ञातं मदनान्तकाङ्घ्रियुगलं मुक्त्वास्ति नान्यो गतिः । । ३.८३ । ।

महेश्वरे वा जगतां अधीश्वरे जनार्दने वा जगद्अन्तरात्मनि । न वस्तुभेदप्रतिपत्तिरस्ति मे तथापि भक्तिस्तरुणेन्दुशेखरे । । ३.८४ । ।

स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने सुखासीनाः शान्तध्वन्तिसु रजनीषु द्युसरितः । भवाभोगोद्विग्नाः शिव शिव शिवेत्युच्चवचसः कदा यास्यामोऽतर्गतबहुलबाष्पाकुलदशां । । ३.८५ । ।

महादेवो देवः सरिदपि च सैषा सुरसरिद्गुहा एवागारं वसनं अपि ता एव हरितः । सुहृदा कालोऽयं व्रतं इदं अदैन्यव्रतं इदं कियद्वा वक्ष्यामो वटविटप एवास्तु दयिता । । ३. । ।

वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः स्मरन्तः संसारे विगुणपरिणामां विधिगतिं । वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणास् त्रियामा नेस्यामो हरचरणचिन्तैकशरणाः । । ३.८६ । ।

कदा वाराणस्यां अमरतटिनीरोधसि वसन् वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटं । अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन प्रसीदेत्याक्रोशन्निमिषं इव नेष्यामि दिवसान् । । ३.८७ । ।

उद्यानेषु विचित्रभोजनविधिस्तीव्रातितीव्रं तपः कौपीनावरणं सुवस्त्रं अमितं भिक्षाटनं मण्डनं । आसन्नं मरणं च मङ्गलसमं यस्यां समुत्पद्यते तां काशीं परिहृत्य हन्त विबुधैरन्यत्र किं स्थीयते । । ३. । ।

स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वा ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यङ्कमूले । आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थं । । ३.८८ । ।

एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः । कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः । । ३.८९ । ।

पाणिं पात्रयतां निसर्गशुचिना भैक्षेण सन्तुष्यतां यत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यतां । अत्यागेऽपि तनोरखण्डपरमानन्दावबोधस्पृशा मध्वा कोऽपि शिवप्रसादसुलभः सम्पत्स्यते योगिनां । । ३.९० । ।

कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी नैश्चिन्त्यं निरपेक्षभैक्ष्यं अशनं निद्रा श्मशाने वने । स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा स्थैर्यं योगमहोत्सवेऽपि च यदि त्रैलोक्यराज्येन किं । । ३.९१ । ।

ब्रह्माण्डं मण्डलीमात्रं किं लोभाय मनस्विनः । शफरीस्फुर्तेनाब्धिः क्षुब्धो न खलु जायते । । ३.९२ । ।

मातर्लक्ष्मि भजस्व कञ्चिदपरं मत्काङ्क्षिणी मा स्म भूर् भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणां असि । सद्यः स्यूतपलाशपत्रपुटिकापात्रैः पवित्रीकृतैर् भिक्षावस्तुभिरेव सम्प्रति वयं वृत्तिं समीहामहे । । ३.९३ । ।

महाशय्या पृथ्वी विपुलं उपधानं भुजलतां वितानं चाकाशं व्यजनं अनुकूलोऽयं अनिलः । शरच्चन्द्रो दीपो विरतिवनितासङ्गमुदितः सुखी शान्तः शेते मुनिरतनुभूतिर्नृप इव । । ३.९४ । ।

भिक्षासी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदा हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः । रथ्याकीर्णविशीर्णजीर्णवसनः सम्प्राप्तकन्थासनो निर्मानो निरहङ्कृतिः शमसुखाभोगैकबद्धस्पृहः । । ३.९५ । ।

चण्डालः किं अयं द्विजातिरथवा शूद्रोऽथ किं तापसः किं वा तत्त्वविवेकपेशलमतिर्योगीश्वरः कोऽपि किं । इत्युत्पन्नविकल्पजल्पमुखरैराभाष्यमाणा जनैर् न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः । । ३.९६ । ।

हिंसाशून्यं अयत्नलभ्यं अशनं धात्रा मरुत्कल्पितं व्यालानं पशवस्तृणाङ्कुरभुजस्तुष्टाः स्थलीशायिनः । संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां तां अन्वेषयतां प्रयान्ति सततं सर्वं समाप्तिं गुणाः । । ३.९७ । ।

गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः स्वाङ्गं अङ्गे मदीये । । ३.९८ । ।

जीर्णाः कन्था ततः किं सितं अमलपटं पट्टसूत्रं ततः किं एका भार्या ततः किं हयकरिसुगणैरावृतो वा ततः किं । भक्तं भुक्तं ततः किं कदशनं अथवा वासरान्ते ततः किं व्यक्तज्योतिर्न वान्तर्मथितभवभयं वैभवं वा ततः किं । । ३. । ।

पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्ष्यं अक्षय्यं अन्नं विस्तीर्णं वस्त्रं आशादशकं अचपलं तल्पं अस्वल्पं उर्वीं । येषां निःसङ्गताङ्गीकरणपरिणतस्वान्तसन्तोषिणस्ते धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति । । ३.९९ । ।

त्रैलोक्याधिपतित्वं एव विरसं यस्मिन्महाशासने तल्लब्ध्वासनवस्त्रमानघटने भोगे रतिं मा कृथाः । भोगः कोऽपि स एक एव परमो नित्योदिता जृम्भने यत्स्वादाद्विरसा भवन्ति विसयास्त्रैलोक्यराज्यादयः । । ३.९९*१ । ।

मातर्मेदिनि तात मारुति सखे तेजः सुबन्धो जल भ्रातर्व्य्ॐअ निबद्ध एष भवतां अन्त्यः प्रणामाञ्जलिः । युष्मत्सङ्गवशोपजातसुकृतस्फारस्फुरन्निर्मलज्ञानापास्त समस्तमोहमहिमा लीने परब्रह्मणि । । ३.१०० । ।

शय्या शैलशिलागृहं गिरिगुहा वस्त्रं तरुणां त्वचः सारङ्गाः सुहृदो ननु क्षितिरुहां वृत्तिः फलैः क्ॐअलैः । येसां निर्झरं अम्बुपानं उचितं रत्यै तु विद्याङ्गना मन्ये ते परमेश्वराः शिरसि यरि बद्धो न सेवाञ्जलिः । । ३.१००*१ । ।

धैर्यं यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी सत्यं मित्रं इदं दया च भगिनी भ्राता मनःसंयमः । शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजनं ह्येते यस्य कुटुम्बिनो वद सखे कस्माद्भयं योगिनः । । ३.१००*२ । ।

अहो वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्ठे वा कुसुमशयने वा दृषदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः । । ३.१००*३ । ।