"लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३१४" इत्यस्य संस्करणे भेदः

Jump to navigation Jump to search
सम्पादनसारांशरहितः
(<poem><span style="font-size: 14pt; line-height: 200%"> </span></poem> नवीन पृष्ठं निर्मीत अस्ती)
 
<poem><span style="font-size: 14pt; line-height: 200%">
श्रीनारायण उवाच-
शृणु लक्ष्मि! चमत्कारं सप्तम्यास्तु व्रतेन वै । ब्रह्मपुत्र्यास्तु सन्ध्याया जातो यस्तं वदाम्यहम् ।। १ ।।
सृष्टिकर्ता स्वयं ब्रह्मा सृष्ट्यारंभे तु मानसान् । अत्रिं मरिचिं पुलहं पुलस्त्यांगिरसौ क्रतुम् ।। २ ।।
वशिष्ठं नारदं दक्षं भृगुं चेति महाप्रभून् । प्रससर्ज जातमात्रान् सुरूपान् यौवनान्वितान् ।। ३ ।।
कार्यदक्षान्मनःक्षोभकरान् दिव्यान् यदा ततः । तदाऽजमनसो जाता चारुरूपा वरांगना ।। ४ ।।
नाम्ना सन्ध्या दिवक्षान्ता सायं सन्ध्या जपन्तिका । अतीव सुन्दरी सुभ्रूर्मुनिचेतोविमोहिनी ।। ५ ।।
मानस्यभूत्तदा सृष्टिर्न वै कामादिगर्भजा । ततो दक्षादयो ध्याता वेधसा कामसारिणः ।। ६ ।।
कामस्तत्राऽऽविर्बभूव ब्रह्मणो मानसः सुतः । कांचनीकृतजाताभो लोलश्चन्द्रनिभाननः ।। ७ ।।
आरक्तपाणिनयनाननपादकरादिकः । प्रफुल्लपद्मपत्राक्षः पुष्पकोदण्डमण्डितः ।। ८ ।।
कान्तः कटाक्षपातेन भ्रामयन् नयनद्वयम् । तं वीक्ष्य पुरुषं रम्यं सन्ध्या दक्षादिकास्तदा ।। ९ ।।
औत्सुक्यं परमं जग्मुश्चांचल्यं राजसं तथा । इन्द्रियानन्दभानं च प्रापुस्ते साऽऽप कामनाम् ।। १० ।।
हर्षणं रोचनं चापि मोहनं शोषणं तथा । द्रावणं सुमनोऽस्त्राणि कामो जग्राह वै तदा ।। १ १।।
ब्रह्मा प्राह तदा कामं पुष्पबाणैस्तु पञ्चभिः । मोहयन्पुरुषान्स्त्रींश्च कुरु सृष्टिसहायताम् ।। १२।।
अहं वा वासुदेवो वा स्थाणुर्वा पुरुषोत्तमः । भविष्यामस्त्वद्वशेऽत्र किमन्ये प्राणधारकाः ।।१३।।
प्रच्छन्नरूपो जन्तूनां प्रविशन् हृदयं सदा । सुखहेतुः स्वयं भूत्वा सृष्टिं कुरु सनातनीम् ।। १४।।
आज्ञापयित्वा ब्रह्मा तं स्वासने निषसाद ह । दक्षादयो निषेदुश्च सन्ध्या चोपाविवेश ह ।। १५।।
तावत् कामस्तुतान्सर्वान्परीक्षार्थं प्रयत्नतः । आलीढस्थानमासाद्य धनुराकृष्य वै बलात् ।। १६।।
कामार्थे पुष्पजातैर्वै योजयामास मार्गणैः । दक्षाद्या मोहिताः सर्वे विकारं प्रापुरादितः ।। १७।।
सन्ध्यां सर्वे निरीक्षन्तो विकृतिं बहुधा ययुः । तदैव चोनपञ्चाशद्भावा जाताः शरीरतः ।। १८।।
सन्ध्यापि वीक्ष्यमाणा तैश्चक्रे भावान्कटाक्षगान् । अथ भावयुतां सन्ध्यां दृष्ट्वाऽतिविकृतिं गताः ।। १९।।
सन्ध्या यूनश्च तान्दृष्ट्वा विशिष्टां विकृतिं गता । मदनश्च निजे कार्ये श्रद्दधे फलभावनः ।।।२०।।
यदिदं ब्रह्मणः कार्यं ममोद्दिष्टं मयापि तत् । कर्तुं शक्यमिति त्वद्धा निश्चितं सफलं ननु ।।२१।।
तदा तु विकृतान्दृष्ट्वा धर्मदेवः सुतः स्वयम् । पितरं च तथा भ्रातॄन् सन्ध्यां प्राह विवेकतः ।।२२।।
धर्मार्थं मदनो जातो नाऽधर्मार्थे कदाचन । कुटुम्बं विकृतिं प्राप्तं त्वन्योन्यं मदनेन हि ।।२३।।
नैतद्योग्यं प्रजानां हि क्षेमकृन्न भविष्यति । यौवने जातमात्रे चेद् यदि कामप्रवेशनम् ।।२४।।।
तदा माता च भगिनी भ्रातृपत्नी तथा सुता । पिता भ्राता पतिः पुत्र इत्याम्नायो विनंक्ष्यति ।।२५।।
जातमात्रस्य तु कामो यौवनं न भवेद्यथा । तथा कुरु विधातस्त्वं येन धर्मावनं भवेत् ।।२६।।
धर्म प्राहापि कामं च कृतवाँस्त्वं हि वैशसम् । अयोग्ये चाप्यकाले च ततो भस्मी भविष्यसि ।।२७।।
धर्मः प्राह च दक्षादीन् यात बदरिकाश्रमम् । गंगां स्नात्वा हरिं नत्वा तपस्तप्त्वा तु पावनाः ।।२८।।
भवन्त्यथ ततः सृष्टिं कुर्वन्तु धर्मतः सदा । धर्मः प्राह च पितरं यशं कुरु पितामह ।।२९।।
ब्रह्मा सृष्टौ प्रथमं तु यज्ञं चकार वैदिकम् । ततो जातास्तु पर्जन्यास्तृप्तिदा अन्नदाः सदा ।।३ ०।।
धर्मः प्राह ततः सन्ध्यां विकारदोषयोगिनीम् । श्वपचस्य भव पुत्री ततः शुद्धा भविष्यसि ।। ३ १।।
सन्ध्या प्राह तदा धर्मं यतिष्ये तपसा यथा । जातमात्रस्य कामोऽयं न बाधेत तथा चिरम् ।।३२।।
इतिवृत्तोत्तरं सर्वे यथोद्दिष्टं ययुस्ततः । सन्ध्याऽप्यमर्षमापन्ना तदा ध्यानपराभवत् ।।३३।।
इदं विममृशे योग्यं भविष्यत्सुखदं भवेत् । उत्पन्नमात्रा चाहं सुयुवती काममोहिता ।।३४।।
दक्षाद्याश्च तथा जाता मयि कामेन मोहिताः । सर्वेषां मथितं चित्तं मदनेन कुटुम्बिना ।।३५।।
प्राप्नुयां फलमेतस्य पापस्य त्वघरूपिणः । करिष्याम्यस्य पापस्य प्रायश्चित्तमहं स्वयम् ।।३६।।
तच्छोधनफलं शीघ्रमहमिच्छामि साधनम् । निजां तपसि होष्यामि धर्ममार्गानुसारतः ।।३७।।
किं त्वेकां स्थापयिष्यामि मर्यादामिह सर्वथा । यथा नोत्पन्नमात्रा वै सकामाः स्युः शरीरिणः ।।३८।।
एतदर्थमहं कृत्वा तपः परमदारुणम् । मर्यादां स्थापयिष्यामि त्यक्ष्यामि दुष्टजीवितम् ।।३९।।
मयाऽनेन शरीरेण कुटुम्बिस्वजनेषु वै । उद्भावितः कामभावो न तत्सुकृतसाधनम् ।।४० ।।
एवं विचार्य मनसा सन्ध्या योगसमाधिना । तेनैव तु शरीरेण छायात्मकेन मानसी ।।४१ ।।
सूक्ष्मीभूय दुरितस्य नाशाय श्वपचगृहे । जातिस्मरा सुता जाता जातमात्रा सयौवना ।।४२।।
राखालो जनकस्तस्या माता मातङ्गिनी तदा । कर्मचाण्डालतां प्राप्तौ वसतः स्म हिमाचले ।।४३।।
यत्र नाऽवग्रहः कश्चिन्नास्ति निष्फलवृक्षता । नास्ति यत्र मरुदेशस्तादृश्यां वसतो भुवि ।।४४।।
धर्मशापं पूर्वजन्म स्मृतवत्येव नित्यदा । समयं क्षपयामास शुद्धिकृत्तपआदिना ।।।४५।।
पितरौ सेवयामास पापक्षालनशक्तिकौ । प्रतीक्षमाणा तं कालं येन शुद्धिर्भवेद् यथा ।।४६।।
तावद्भूमौ विचरन्तः पतितोद्धारकारकाः । सप्तर्षयस्ततो व्योम्ना निर्जग्मुर्बदरीं प्रति ।।४७।।
वने तत्र स्थले तां तु दृष्ट्वा ते योगचक्षुषा । अवतेरुश्च ते भिक्षामिषेण श्वपचगृहम् ।।४८।।
यद्यपि कर्मचाण्डालो ब्रह्मपुत्रो ह्ययं खलु । फलाद्यर्थे भिक्षणीयो यत्र बाधो न विद्यते ।।४९।।
अपक्वान्नेऽपि न दोषः कणेषु नास्ति सूतकम् । ययाचिरे विचार्येत्थं भिक्षां श्वपचवृक्षतः ।।५०।।
श्वपचस्तान् द्विजान् ज्ञात्वा कन्याऽभिज्ञाय सर्वथा । सहर्षं प्रददौ भिक्षां वाणीबन्धनपूर्विकाम् ।।५१ ।।
श्वपचः पादयोर्नत्वा पीत्वा पादामृतं जलम् । प्रार्थयामास सप्तर्षीन् जगदुद्धारकारकान् ।।५२।।
भिक्षां फलान्नकन्याढ्यां गृह्णन्तु मुनयोऽमलाः । कन्यां चास्मानुद्धरन्तु कन्यां भिक्षां ददामि वः ।।५३।।
ऋषीणामानुमत्येन वशिष्ठो वेधसोंऽशकः । जग्राह भिक्षां कन्यां च नीत्वा ययुश्च बद्रिकाम् ।।५४।।
तां कन्यां ते तु संस्नाप्य गंगायां बदरीवने । कामधेनुशरीरान्तर्मुखात्प्रवेशनं तु ते ।।५५।।
कारयित्वा प्रभावेण मूत्रद्वारेण तां तदा । बहिर्निष्कासयामासुर्जन्मान्तरगताऽभवत् ।।५६।।
बभूव पावनी सा तु ह्युपवीतेनसंस्कृता । द्विजत्वं च तपोयोग्यं लब्धवती तु कन्यका ।।५७।।
अथापि सा तपसाऽर्थे मर्यादां कामयौवनाम् । स्थापयितुं वाच्छति स्म प्रोवाच ऋषये स्मिता ।।५८।।
महर्षे लोकमर्यादा जातमात्रे तु यौवने । रक्ष्यते नैव भूतानां तस्याः स्थापनहेतवे ।।५९।।
तपः कर्तुं समिच्छामि चन्द्रभागानदीतटे । यद्याज्ञा ब्रह्मदेवस्य वाच्छामि चरितुं तपः ।।६०।।
ज्ञात्वा हार्दं तु गम्भीरं बह्विष्टं तु निजस्य वै । ओमित्युवाच तां तत्र वसिष्ठस्तपसां निधिः ।।६१।।
वीक्षांचक्रे सरस्तत्र बृहल्लोहितसंज्ञकम् । चन्द्रभागानदीं तस्मात्प्राकाराद् दक्षिणाम्बुधिम् ।।।६२।।
यान्तीं ददर्श सा चैव तथा सानुगिरेर्महत् । निर्भिद्य पश्चिमं सा तु चन्द्रभागगिरेर्नदी ।।६ ३।।
पावयन्ती जनान्देशान् शनैर्गच्छति सागरम् । तस्मिन् गिरौ चन्द्रभागे बृहल्लोहितसत्तटे ।।६४।।
अवतीर्य व्योममार्गाद् वशिष्ठस्तामुवाच ह । कुर्वत्रैव तपो देवि! रक्षासूत्रं गृहाण च ।।६५।।
प्रकोष्ठे धार्यमेवैतद् रक्षणं ते भविष्यति । इत्युक्त्वा ते ययुस्तस्माद् ऋषयः सत्यलोककम् ।।६६ ।।
तत्राऽतपत्तपो घोरं स्वयं देवी त्वरुन्धती । सौभाग्यकांक्षमाणा सा गौरीपूजापरायणा ।।६७।।
पापनाशनयत्ना च कामनियमतत्परा । तपसा स्वल्पकालेन गौरी प्राविर्बभूव च ।।६८।।
उवाच परमाऽऽराध्योरुन्धति! पुरुषोत्तमः । तमेकं जगतामाद्यं भजस्व पुरुषोत्तमम् ।।६ ९ ।।
ओंनमः श्रीकृष्णनारायणाय ओनमोऽस्तु ते । मन्त्रेणानेन सर्वेशं कृष्णं भज शुभानने ।।७० ।।
तेन ते सकलाऽवाप्तिर्भविष्यति न संशयः । स्नानं मौनेन कर्तव्यं मौनेन हरिपूजनम् ।।७१ ।।
जलाहारं फलाहारं कन्दाहारमुपोषणम् । वाय्वाहारं भोजनं वा षष्ठे काले समाचरेत् ।।७२।।
कुरु त्वेवं तपस्यां त्वं सर्वाभीष्टमवाप्स्यसि । मालानां तु सहस्रे द्वे सहस्रं वा जपोऽन्वहम् ।।७३।।
उक्तमन्त्रेण कर्तव्यो मूर्तिं कृष्णस्य चिन्तयेः । तामाभाष्य महागौरी तत्रैवाऽन्तर्दधे ततः ।।७४।।
सन्ध्याऽपि च तपोरीतिं ज्ञात्वा मोदमवाप ह । तपश्चर्तुं समारेभे बृहल्लोहिततीरगा ।।७५ ।।
दिव्यज्ञानं दिव्यचक्षुर्दिव्यां वाचमवाप सा । दिव्यकर्णौ प्राप्तवती तपश्चचार दारुणम् ।।७६ ।।
पुरुषोत्तममासस्य सप्तम्यां परपक्षके । शुश्राव दुन्दुभिं दिव्यं प्रातरेव त्वरुन्धती ।।७७।।
शृण्वन्तु तापसाः सर्वे तापस्यश्च कृपामयम् । पुरुषोत्तमवाद्योऽहं प्रवदाम्यत्यभीष्टदम् ।।७८।।
अधिकमाससप्तम्यां निराहारं व्रतं चरेत् । पूजयित्वा यथालब्धोपचारैर्भोजयेद्धरिम् ।।७९।।
रात्रौ जागरणं कुर्यात्प्रातर्वै पारणां चरेत्। दानं दद्यात्फलादीनां जलेनार्घ्यं ददेत्ततः ।।८०।।
विसर्जयेत् क्षमां प्रार्थ्य स यायात्सुखमुत्तमम् । श्रुत्वा तया दुन्दुभेश्चार्चनं कृतं कृतं व्रतम् ।।८ १ ।।
पत्रपुष्पफलैर्वार्भिः पूजितः पुरुषोत्तमः । भोजितश्च फलैः पक्वैरर्थितो हृदयेन च ।।।८२।।
रात्रौ जागरणं कृत्वा प्रातर्ब्राह्मे मुहूर्तके । ध्याने स्थिता क्षणं यावत्तावद्ददर्श तं हरिम् ।।८३।।
प्रत्यक्षं वीक्ष्य सा कृष्णं तुष्टाव जगतां पतिम् । स्थूल सूक्ष्मं यस्य वश्यं नौमि त्वां पुरुषोत्तमम् ।।८४।।
नित्यानन्दं पावनानां पावनं त्वां नमाम्यहम् । श्रीदं स्वेष्टप्रदं कृष्णनारायणं नमाम्यहम् ।।८५।।
प्रधानपुरुषौ यस्य कायत्वेन व्यवस्थितौ । तस्मै कृष्णाय हृद्याय वारं वारं नमोनमः ।।८६ ।।
त्वं परः परमात्मा च परंब्रह्म पुमुत्तमः । स्त्रिया मया कथं वर्ण्यो भूयो भूयो नमोऽस्तु ते ।।८७।।
इत्याश्रुत्य वचस्तस्याः प्रसन्नः पुरुषोत्तमः । अरुन्धत्याः शरीरं तु वल्कलाजिनशोभितम् ।।८८।।
सजटं शान्तवदनं निरीक्ष्याऽऽह हरिः स्वयम् । प्रीतोऽस्मि तपसा चैव व्रतेन च स्तवेन ते ।।८९ ।।
येन ते विद्यते कार्यं वरं वरय साम्प्रतम् । तत् करिष्ये तु भद्रं ते प्रसन्नोऽहं तव व्रतैः ।।९०।।
इति श्रुत्वा सुप्रसन्ना सन्ध्योवाच प्रणम्य तम् । यदि देयो वरः प्रीत्या वरयोग्याऽस्म्यहं यदि ।।९ १ ।।
यदि. शुद्धाऽस्म्यहं जाता कामविकृतिपातकात् । यदि कृष्ण प्रसन्नोऽसि व्रतेन मम साम्प्रतम् ।।९२।।
वृत्तस्तदाऽयं प्रथमो वरो मम विधीयताम् । उत्पन्नमात्रास्ते सृष्टौ सकामा मा भवन्त्विति ।।९ ३ ।।
द्वितीयश्च वरो मेऽस्तु प्रथिता सर्वसृष्टिषु । भविष्यामि यथाऽहं वै तथा माऽन्या भवेदिति ।।९४।।
तृतीयश्च वरो मेऽस्तु सन्ध्यायां कामनावतः । पौरुषं नाशमायातु प्रजा पिशाचतां व्रजेत् ।।९५।।
चतुर्थस्तु वरो मेऽस्तु मम रूपचतुष्टयम् । भवतु प्रथमं तत्र प्रातः सन्ध्यामयं शुभम् ।।९६ ।।
द्वितीयं तु भवेत् सायं सन्ध्यारूपं सुपुण्यदम् । तृतीयं तु वशिष्ठस्य पत्नी स्वर्गे भवामि वै ।।९७।।
चतुर्थे तु तव दासीरूपं भवतु धामनि । इति वरान् समभ्यर्थ्य मौनां तामाह माधवः ।।९८।।
यद्यद् वृत्तं त्वया सन्ध्ये दत्तं तदखिलं मया । व्रतेन तपसा सन्ध्ये त्वत्पापं भस्मतां गतम् ।।९९।।
प्रथमं तु वरं तत्र शृणु कामस्य रोधताम् । प्रथमं शैशवो भावः कौमाराख्यो द्वितीयकः ।। १०० ।।
तृतीयो यौवनो भावश्चतुर्थो वार्धकस्तथा । तृतीये त्वथ संप्राप्ते यौवने कामना भवेत् ।। १० १।।
इति मर्यादया सृष्टौ इत आरभ्य कामना । सम्पत्स्यते जातमात्राः सकामा स्युर्न देहिनः ।। १ ०२।।
द्वितीयं तु वरं ख्यातिं सतीभावेन यास्यसि । त्रिषु लोकेषु नान्यस्यास्तथा कीर्तिर्भविष्यति ।। १ ०३।।
तृतीयं तु वरं सन्ध्याकाले त्वनंगसेविनः । पिशाचाः संभविष्यन्ति बलपौरुषवर्जिताः ।। १ ०४।।
चतुर्थं तु वरं प्रातः सायं सन्ध्याद्वयं भव । पतिर्यस्ते वशिष्ठोऽस्ति भवताच्छाश्वतः पतिः ।। १०५।।
सप्तकल्पान्तजीवी च तपोद्रव्यस्त्वया सह । स्वर्गे तेन सह वासो यथेष्टं ते भवेदिति ।। १ ०६।।
अथ दिव्यस्वरूपेण ब्रह्मतन्वा मया सह । कुरु वैकुण्ठवासं मे भव दास्यरुणाऽभिधा ।। १ ०७।।
इति ते ये वरा मत्तः प्रार्थितास्तेऽर्पिता मया । अन्यच्च शृणु कार्येऽस्मिन् कायाकल्पं समाचर ।। १ ०८।।
एतच्छैलोपत्यकायां चन्द्रभागानदीतटे । मेधातिथिः ऋषियज्ञं करोति तापसाश्रमे ।। १०९।।
तपसा तत्समो नास्ति न भूतो न भविष्यति । तस्य ज्योतिष्टोमयज्ञे वह्नौ जनैरलक्षिता ।। ११ ०।।
सूक्ष्मरूपं समापन्ना कायापरिणतिं कुरु । तदग्नौ शोधितां वर्ष्मचतुष्टयं गृहाण वै ।। ११ १।।
प्रातःसन्ध्या तथा सायंसन्ध्या भूत्वा स्थिरा भव । पतिं वशिष्ठं मां ध्यात्वा श्रेष्ठं कन्याद्वयं भव ।।१ १ २।।
एका मेधातिथेः पुत्री वशिष्ठस्य प्रिया भव । द्वितीया मम दासी च अरुणाख्या प्रिया भव ।। ११ ३।।
अयं तु पर्वतस्ते वै नाम्ना स्यादरुणाचलः । महत्तीर्थं पावनं वै लोकमान्य भविष्यति ।। १ १४।।
इत्यभिधाय भगवान् करौ दत्वा तु मस्तके । प्रेम्णा निभाल्य तां तत्राऽन्तर्हितः संबभूव ह ।। १ १५।।
सन्ध्याऽप्यगच्छत्तत्रैव मेधातिथिमखस्थले । स्मृत्वा कान्तं वशिष्ठं च तथा श्रीपुरुषोत्तमम् ।। १ १६।।
सा विवेश समिद्धेऽग्नौ न केनाऽप्युपलक्षिता । शरीरं मलिनं तस्या वह्निना संस्कृतं तदा ।। १ १७।।
शोधितं दिव्यतां प्राप्तं देवार्हं ह्रासवर्जितम् । शुद्धं प्रवेशयामास वह्निस्तत्सूर्यमण्डलम् ।। १ १८।।
सूर्यस्त्वर्धं विभज्यैतच्छरीरं तु तदा रथे । स्वके संस्थापयामास प्रीतये पितृदेवयोः ।। १ १९।।
तदूर्ध्वभागोऽत्यरुणः प्रातःसन्ध्याऽभवच्छुभा । अरुणोदयवेला सा देवानां प्रीतिकारिणी ।। १२०।।
तच्छेषभागस्तस्यास्तु सायंसन्ध्याऽस्तमे रवौ । सूर्यास्तमनवेला सा पितॄणां मोदकारिणी ।। १२१ ।।
तस्याः प्राणास्तदा ध्याता हरिणा तत्तु शाश्वतम् । ब्राह्मं वर्ष्म बभूवास्याः सा दिव्या कन्यकाऽभवत् ।। १२२।।
अरुणा सा ब्रह्मधामगता गरुडगामिनी । अथ यज्ञावसाने तु मुनिना वह्निकुण्डतः ।। १२३ ।।
प्राप्ता पुत्री वह्निजन्या तप्तकांचनसन्निभा । अरुन्धतीति तस्यास्तु नाम चक्रे स वै मुनिः ।। १२४।।
न रुद्धणि यतो धर्मं सा कस्मादपि कारणात् । अस्य विष्णोः सदा धर्मं रुणद्धीति ह्यरुधन्ती ।। १२५ ।।
अथ सा ववृधे कन्या गुणैर्वर्षैर्मुनेर्गृहे । वशिष्ठेन विवाहं कारयामास पिता ततः ।। १२६।।
अस्या विवाहसत्कार्ये सुराश्च मुनयो ययुः । ब्रह्मविष्णुमहेशाश्चाऽभवन्नाशीर्वचःपराः ।। १ २७।।
अरुन्धती महासाध्वी रेजे वशिष्ठसंगता । इति सन्ध्याचरित्रं ते कथितं लक्ष्मि! पावनम् ।। १२८।।
धर्मदार्ढ्यकरं दिव्यं सर्वकामफलप्रदम् । अधिमासस्य चान्तस्य सप्तम्यास्तु व्रतेन वै ।। १२९ ।।
तपसा च प्रसन्नः श्रीकृष्णनारायणः प्रभुः । ददौ ययेष्टं रूपाणि त्वरुणायै पुमुत्तमः ।। १३ ०।।
येदं संशृणुयान्नारी नरो वा दृढमानसः । सर्वान् कामानवाप्नोति पुरुषोत्तमतोषणात् ।। १३ १।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये सृष्ट्यारंभे दक्षादीनां सन्ध्याया ब्रह्मणश्च कामेन पराभवे विकृतिभावोत्तरं धर्मदेववचनैः सन्ध्यायाः श्वपचपुत्रीत्वं, भिक्षामिषेण वशिष्ठादिसप्तर्षिभिः सन्ध्याया ग्रहणं, कामधेनुमुखे निक्षिप्य मूत्रद्वारेण निष्कासनं, तपोऽर्थे चन्द्रभागातीरेऽवस्थानं, गौरीप्राविर्भावः, सप्तमी- व्रतेन पुरुषोत्तमप्राविर्भावः, कामदेवस्य यौवने उत्पत्तिरिति नियमनं, प्रातःसायंसन्ध्याद्वयभवनं, मेधातिथिऋषिकृतयज्ञ- कुण्डेऽदृश्यतया प्रवेशनं, कायाशोधनं, दिव्याऽरुणायाः स्वरूपेण ब्रह्मधामगमनं, अरुन्धत्याख्याया वह्निकुण्डोत्पन्नसुता- त्मिकाया वशिष्ठेन विवाहोत्तरं स्वर्गगमनं, चेत्यादिनिरूपण-नामा चतुर्दशाधिकत्रिशततमोऽध्यायः ।।।१.३१४।।
 
</span></poem>
बेनामी उपयोगकर्ता
"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/57399" इत्यस्माद् प्रतिप्राप्तम्

सञ्चरणावलिः