"गरुडपुराणम्/आचारकाण्डः/अध्यायः २८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
आचारखण्डः using AWB
आचारकाण्डः using AWB
पङ्क्तिः ५५: पङ्क्तिः ५५:


[[वर्गः:गरुडपुराणम्]]
[[वर्गः:गरुडपुराणम्]]
[[वर्गः:आचारखण्डः]]
[[वर्गः:आचारकाण्डः]]

०७:१४, २० जनवरी २०१६ इत्यस्य संस्करणं

← आचारकाण्डः, अध्यायः २७ गरुडपुराणम्
अध्यायः २८
वेदव्यासः
आचारकाण्डः, अध्यायः २९ →

।।सूत उवाच ।।
गोपालपूजां वक्ष्यामि भुक्तिमुक्तिप्रदायिनीम् ।।
द्वारे धाता विधाता च गंगायमुनया सह ।।28.1।।

शङ्खपद्मनिधी चैव सारङ्गः शरभः श्रिया ।।
पूर्वे भद्रः सुभद्रो द्वौ दक्षे चण्डप्रचण्डकौ ।। 28.2 ।।

पश्चिमे बलप्रबलौ जयश्च विजयो यजेत् ।।
उत्तरे श्रीश्चतुर्द्वारे गणो दुर्गा सरस्वती ।। 28.3 ।।

क्षेत्रस्याग्न्यादिकोणेषु दिक्षु नारदपूर्वकम् ।।
सिद्धो गुरुर्नलकूवरं कोणे भगवतं यजेत् ।। 28.4 ।।

पूर्वे विष्णुं विष्णुतपो विष्णुशक्तिं समर्चयेत् ।।
ततो विष्णुपरीवारं मध्ये शक्तिं च कूर्म्मकम् ।। 28.5 ।।

अनन्तं पृथिवीं धर्मं ज्ञानं वैराग्यमग्नितः ।।
ऐश्वर्य्यं वायुपूर्वं च प्रकाशात्मानमुत्तरे ।। 28.6 ।।

सत्त्वाय प्रकृतात्मने रजसे मोहरूपिणे ।।
तमसे कन्द पद्माय यजेत्कं काकतत्त्वकम् ।। 28.7 ।।

विद्यातत्त्वं परं तत्त्वं सूर्य्येन्दुवह्निमण्डलम् ।।
विमलाद्या आसनं च प्राच्यां श्रीं ह्रीं प्रपूजयेत् ।। 28.8 ।।

गोपीजनवल्लभाय स्वाहान्तो मनुरुच्यते ।।
अङ्गानि यथा-आच क्रं च सुचक्रं च विचक्रं च तथैव च ।। 28.9 ।।

त्रैलोक्यरक्षकं चक्रमसुरारिसुदर्शनम् ।।
हृदादिपूर्वकोणषु अस्त्रं शक्तिं च पूर्वतः ।। 28.10 ।।

रुक्मिणी सत्यभामा च सुनन्दा नाग्नजित्यपि ।।
लक्ष्मणा मित्रविंदा च जाम्बवत्या शुशीलया ।। 28.11 ।।

शङ्खचक्रगदापद्मं मुसलं शार्ङ्गमर्चयेत् ।।
खङ्गं पाशाङ्कुशं प्राच्यां श्रीवत्सं कौस्तुभं यजेत् ।। 28.12 ।।

मुकुटं वलमालां च ऐंद्राद्यान्ध्वजमुख्यकान् ।।
कुमुदाद्यान्‌विष्वक्‌सेनं श्रिया कृष्णं सहार्चयेत् ।।
जप्याद्ध्यानात्पूजनाच्च सर्वान्कामानवान्पुयात् ।।

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीगोपालपूजानिरूपणं नामाष्टाविंशोऽध्यायः ।। 28 ।।