"ऋग्वेदः सूक्तं १.११७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
मध्वः सोमस्याश्विना मदाय परत्नो होता विवासते वाम
मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम्
बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः
बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ॥१॥
यो वामश्विना मनसो जवीयान रथः सवश्वो विश आजिगाति ।
यो वामश्विना मनसो जवीयान्रथः स्वश्वो विश आजिगाति ।
येन गछथः सुक्र्तो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम ॥
येन गच्छथः सुकृतो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम् ॥२॥
रषिं नरावंहसः पाञ्चजन्यं रबीसादत्रिं मुञ्चथो गणेन ।
ऋषिं नरावंहसः पाञ्चजन्यमृबीसादत्रिं मुञ्चथो गणेन ।
मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वर्षणा चोदयन्ता
मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता ॥३॥
अश्वं न गूळ्हमश्विना दुरेवैर्र्षिं नरा वर्षणा रेभमप्सु ।
अश्वं न गूळ्हमश्विना दुरेवैरृषिं नरा वृषणा रेभमप्सु ।
सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कर्तानि ॥
सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कृतानि ॥४॥
सुषुप्वांसं न निर्र्तेरुपस्थे सूर्यं न दस्रा तमसि कषियन्तम
सुषुप्वांसं न निरृतेरुपस्थे सूर्यं न दस्रा तमसि क्षियन्तम्
शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय
शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय ॥५॥
तद वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन
तद्वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन्
शफादश्वस्य वाजिनो जनाय शतं कुम्भानसिञ्चतं मधूनाम
शफादश्वस्य वाजिनो जनाय शतं कुम्भाँ असिञ्चतं मधूनाम् ॥६॥
युवं नरा सतुवते कर्ष्णियाय विष्णाप्वं ददथुर्विश्वकाय ।
युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर्विश्वकाय ।
घोषायै चित पित्र्षदे दुरोने पतिं जूर्यन्त्या अश्विनावदत्तम ॥
घोषायै चित्पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनावदत्तम् ॥७॥
युवं शयावाय रुशतीमदत्तं महः कषोणस्याश्विना कण्वाय ।
युवं श्यावाय रुशतीमदत्तं महः क्षोणस्याश्विना कण्वाय ।
प्रवाच्यं तद्वृषणा कृतं वां यन्नार्षदाय श्रवो अध्यधत्तम् ॥८॥
परवाच्यं तद वर्षणा कर्तं वां यन नार्षदायश्रवो अध्यधत्तम ॥
पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम
पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम्
सहस्रसां वाजिनमप्रतीतमहिहनं शरवस्यं तरुत्रम ॥
सहस्रसां वाजिनमप्रतीतमहिहनं श्रवस्यं तरुत्रम् ॥९॥
एतानि वां शरवस्या सुदानू बरह्माङगूषं सदनं रोदस्योः ।
एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः ।
यद वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम ॥
यद्वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम् ॥१०॥
सूनोर्मानेनाश्विना गर्णाना वाजं विप्राय भुरणा रदन्ता ।
सूनोर्मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदन्ता ।
अगस्त्ये बरह्मणा वाव्र्धाना सं विश्पलां नासत्यारिणीतम ॥
अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतम् ॥११॥
कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वर्षणा शयुत्रा ।
कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वृषणा शयुत्रा ।
हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन ॥
हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन् ॥१२॥
युवं चयवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः ।
युवं च्यवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः ।
युवो रथं दुहिता सूर्यस्य सह शरिया नासत्याव्र्णीत ॥
युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत ॥१३॥
युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना ।
युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना ।
युवं भुज्युमर्णसो निः समुद्राद विभिरूहथुर्र्ज्रेभिरश्वैः ॥
युवं भुज्युमर्णसो निः समुद्राद्विभिरूहथुरृज्रेभिरश्वैः ॥१४॥
अजोहवीदश्विना तौग्र्यो वां परोळ्हः समुद्रमव्यथिर्जगन्वान
अजोहवीदश्विना तौग्र्यो वां प्रोळ्हः समुद्रमव्यथिर्जगन्वान्
निष टमूहथुः सुयुजा रथेन मनोजवसा वर्षणास्वस्ति
निष्टमूहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति ॥१५॥
अजोहवीदश्विना वर्तिका वामास्नो यत सीममुञ्चतं वर्कस्य
अजोहवीदश्विना वर्तिका वामास्नो यत्सीममुञ्चतं वृकस्य
वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण
वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ॥१६॥
शतं मेषान वर्क्ये मामहानं तमः परणीतमशिवेन पित्रा ।
शतं मेषान्वृक्ये मामहानं तमः प्रणीतमशिवेन पित्रा ।
आक्षी रज्राश्वे अश्विनावधत्तं जयोतिरन्धाय चक्रथुर्विचक्षे
आक्षी ऋज्राश्वे अश्विनावधत्तं ज्योतिरन्धाय चक्रथुर्विचक्षे ॥१७॥
शुनमन्धाय भरमह्वयत सा वर्कीरश्विना वर्षणा नरेति ।
शुनमन्धाय भरमह्वयत्सा वृकीरश्विना वृषणा नरेति ।
जारः कनीन इव चक्षदान रज्राश्वः शतमेकंच मेषान
जारः कनीन इव चक्षदान ऋज्राश्वः शतमेकं मेषान् ॥१८॥
मही वामूतिरश्विना मयोभूरुत सरामं धिष्ण्या संरिणीथः
मही वामूतिरश्विना मयोभूरुत स्रामं धिष्ण्या सं रिणीथः
अथा युवामिदह्वयत्पुरंधिरागच्छतं सीं वृषणाववोभिः ॥१९॥
अथा युवामिदह्वयत पुरन्धिरागछतं सीं वर्षणाववोभिः ॥
अधेनुं दस्रा सतर्यं विषक्टामपिन्वतं शयवे अश्विनागाम
अधेनुं दस्रा स्तर्यं विषक्तामपिन्वतं शयवे अश्विना गाम्
युवं शचीभिर्विमदाय जायां नयूहथुः पुरुमित्रस्य योषाम ॥
युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य योषाम् ॥२०॥
यवं वर्केणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा ।
यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा ।
अभि दस्युं बकुरेणा धमन्तोरु जयोतिश्चक्रथुरार्याय ॥
अभि दस्युं बकुरेणा धमन्तोरु ज्योतिश्चक्रथुरार्याय ॥२१॥
आथर्वणायाश्विना दधीचे.अश्व्यं शिरः परत्यैरयतम
आथर्वणायाश्विना दधीचेऽश्व्यं शिरः प्रत्यैरयतम्
स वां मधु प्र वोचदृतायन्त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वाम् ॥२२॥
स वां मधु पर वोचद रतायन तवाष्ट्रं यद दस्रावपिकक्ष्यं वाम ॥
सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना परावतं मे ।
सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना प्रावतं मे ।
अस्मे रयिं नासत्या बर्हन्तमपत्यसाचं शरुत्यं रराथाम ॥
अस्मे रयिं नासत्या बृहन्तमपत्यसाचं श्रुत्यं रराथाम् ॥२३॥
हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम
हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम्
तरिधाशयावमश्विना विकस्तमुज्जीवस ऐरयतंसुदानू
त्रिधाश्यावमश्विना विकस्तमुज्जीवस ऐरयतं सुदानू ॥२४॥
एतानि वामश्विना वीर्याणि पर पूर्व्याण्यायवो.अवोचन
एतानि वामश्विना वीर्याणि प्र पूर्व्याण्यायवोऽवोचन्
बरह्मक्र्ण्वन्तो वर्षणा युवभ्यां सुवीरासो विदथमा वदेम
ब्रह्म कृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथमा वदेम ॥२५॥

</pre>
</pre>
</div>
</div>

२०:३८, १४ जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.११७


मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम् ।
बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ॥१॥
यो वामश्विना मनसो जवीयान्रथः स्वश्वो विश आजिगाति ।
येन गच्छथः सुकृतो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम् ॥२॥
ऋषिं नरावंहसः पाञ्चजन्यमृबीसादत्रिं मुञ्चथो गणेन ।
मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता ॥३॥
अश्वं न गूळ्हमश्विना दुरेवैरृषिं नरा वृषणा रेभमप्सु ।
सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कृतानि ॥४॥
सुषुप्वांसं न निरृतेरुपस्थे सूर्यं न दस्रा तमसि क्षियन्तम् ।
शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय ॥५॥
तद्वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन् ।
शफादश्वस्य वाजिनो जनाय शतं कुम्भाँ असिञ्चतं मधूनाम् ॥६॥
युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर्विश्वकाय ।
घोषायै चित्पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनावदत्तम् ॥७॥
युवं श्यावाय रुशतीमदत्तं महः क्षोणस्याश्विना कण्वाय ।
प्रवाच्यं तद्वृषणा कृतं वां यन्नार्षदाय श्रवो अध्यधत्तम् ॥८॥
पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम् ।
सहस्रसां वाजिनमप्रतीतमहिहनं श्रवस्यं तरुत्रम् ॥९॥
एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः ।
यद्वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम् ॥१०॥
सूनोर्मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदन्ता ।
अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतम् ॥११॥
कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वृषणा शयुत्रा ।
हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन् ॥१२॥
युवं च्यवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः ।
युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत ॥१३॥
युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना ।
युवं भुज्युमर्णसो निः समुद्राद्विभिरूहथुरृज्रेभिरश्वैः ॥१४॥
अजोहवीदश्विना तौग्र्यो वां प्रोळ्हः समुद्रमव्यथिर्जगन्वान् ।
निष्टमूहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति ॥१५॥
अजोहवीदश्विना वर्तिका वामास्नो यत्सीममुञ्चतं वृकस्य ।
वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ॥१६॥
शतं मेषान्वृक्ये मामहानं तमः प्रणीतमशिवेन पित्रा ।
आक्षी ऋज्राश्वे अश्विनावधत्तं ज्योतिरन्धाय चक्रथुर्विचक्षे ॥१७॥
शुनमन्धाय भरमह्वयत्सा वृकीरश्विना वृषणा नरेति ।
जारः कनीन इव चक्षदान ऋज्राश्वः शतमेकं च मेषान् ॥१८॥
मही वामूतिरश्विना मयोभूरुत स्रामं धिष्ण्या सं रिणीथः ।
अथा युवामिदह्वयत्पुरंधिरागच्छतं सीं वृषणाववोभिः ॥१९॥
अधेनुं दस्रा स्तर्यं विषक्तामपिन्वतं शयवे अश्विना गाम् ।
युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य योषाम् ॥२०॥
यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा ।
अभि दस्युं बकुरेणा धमन्तोरु ज्योतिश्चक्रथुरार्याय ॥२१॥
आथर्वणायाश्विना दधीचेऽश्व्यं शिरः प्रत्यैरयतम् ।
स वां मधु प्र वोचदृतायन्त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वाम् ॥२२॥
सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना प्रावतं मे ।
अस्मे रयिं नासत्या बृहन्तमपत्यसाचं श्रुत्यं रराथाम् ॥२३॥
हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम् ।
त्रिधा ह श्यावमश्विना विकस्तमुज्जीवस ऐरयतं सुदानू ॥२४॥
एतानि वामश्विना वीर्याणि प्र पूर्व्याण्यायवोऽवोचन् ।
ब्रह्म कृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथमा वदेम ॥२५॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.११७&oldid=4946" इत्यस्माद् प्रतिप्राप्तम्