"नारदपुराणम्- उत्तरार्धः/अध्यायः १५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<poem> वसिष्ठ उवाच ।। विमोच्य पातकाद्राजा गृहगोधा... नवीन पृष्ठं निर्मीत अस्ती
 
नारदपुराणम्- उत्तरार्धः using AWB
पङ्क्तिः १४७: पङ्क्तिः १४७:


</poem>
</poem>

[[वर्गः:नारदपुराणम्- उत्तरार्धः]]

११:०४, १९ जनवरी २०१६ इत्यस्य संस्करणं

वसिष्ठ उवाच ।।
विमोच्य पातकाद्राजा गृहगोधां हसन्निव ।।
उवाच मोहिनीं हृष्टः शीघ्रमारुह्यतां हयः ।। १५-१ ।।

योजनायुतगामी च क्षणात्कृष्णहयो यथा ।।
तदाकर्ण्य वचो राज्ञो मोहिनी मदलालसा ।। १५-२ ।।

आरुरोह समं भर्त्रा तं हयं वातवेगिनम् ।।
उवाच च वचो भूपं भर्तारं चारुहासिनी ।। १५-३ ।।

प्रचोदयेममर्वाणं स्वपुराय महीपते ।।
पुत्रवक्त्रं स्पृहा द्रष्टुं लंपटा तव वर्तते ।। १५-४ ।।

तवाधीना नृपश्रेष्ठ गम्यतां यत्र ते मनः ।।
मोहिन्या वचनं श्रुत्वा तप्रस्थे नगरं प्रति ।। १५-५ ।।

पश्यमानः सुसंहृष्टः पादपान्पर्वतान्नदीः ।।
वनानि सुविचित्राणि मृगान्बहुविधानपि ।। १५-६ ।।

ग्रामान्दुर्गांस्तथा देशान्नगराणि शुभानि च ।।
सरांसि च विचित्राणि भूभागान्सुमनोहरान् ।। १५-७ ।।

अचिरेणाश्रमं दृष्ट्वा वामदेवस्य भूपते ।।
आकाशस्थो महीपालो नमस्कृत्य त्वरान्वितः ।। १५-८ ।।

पुनरेव ययौ राजा वायुवेगेन वाजिना ।।
पश्यमानो बहून्देशान्धनधान्यसमन्वितान् ।। १५-९ ।।

आससाद पुरं राजा वैदिशं स्ववशं च तत् ।।
तमायांतं नृपं श्रुत्वा चारैर्द्धर्मांगदः सुतः ।। १५-१० ।।

पितरं हर्षसंयुक्तो भूपालान्वाक्यमब्रवीत् ।।
एषा प्रकारशमायाति उदीची दिङ् नृपोत्तमाः ।। १५-११ ।।

मत्पितुर्वाजिनाक्रांता तत्तेजः परिरंजिता ।।
तस्माद्गच्छामहे सर्वे संमुखं ह्यवनीपतेः ।। १५-१२ ।।

पितुरागतमात्रस्य संमुखं न सुतो व्रजेत् ।।
स याति नरकं घोरं यावदिंद्राश्चतुर्द्दशा ।। १५-१३ ।।

संमुखं व्रजमानस्य पुत्रस्य पितरं प्रति ।।
पदे पदे यज्ञफलं प्रोचुः पौराणिका द्विजाः ।। १५-१४ ।।

उत्तिष्ठध्वं व्रजाम्येष भवद्भिः परिवारितः ।।
अभिवादयितुं प्रेम्णा एष मे देवदेवता ।। १५-१५ ।।

तथोत्युक्तैस्तुतैः सर्वैर्भूमिपालैर्नृपात्मजः ।।
जगाम संमुखं पद्भ्यां क्रोशमात्रं पितुस्तदा ।। १५-१६ ।।

ततो राजसहस्रेण मूर्तिमानिव मन्मथः ।।
स गत्वा दूरमध्वानमाससादनृपं पथि ।। १५-१७ ।।

संप्राप्य पितरं स्त्रेहाज्जगाम धरणीं तदा ।।
शिरसा राजभिः सार्द्धं प्रणाममकरोत्तदा ।। १५-१८ ।।

प्रेम्णा समागतं प्रक्ष्य तं पतन्तं नृपैः सह ।।
अवरुह्य हयाद्राजा समुत्थाप्य सुतं विभो ।। १५-१९ ।।

भुजाभ्यां साधु पीनाभ्यां पर्यष्वंजत भूपतिः ।।
मूर्ध्नि चैवमुपाघ्राय उवाच तनयं तदा ।। १५-२० ।।

कच्चित्पासि प्रजाः सर्वाः कच्चिद्दण्डयसे रिपून् ।।
न्यायागतेन वित्तेन कोशं पुत्र बिभर्षि च ।। १५-२१ ।।

कच्चिद्विप्रेष्वत्यधिका वृत्तिर्दत्तानपायिनी ।।
कच्चित्ते कांतशीलत्वं कच्चिद्वक्ताः न निष्ठुरम् ।। १५-२२ ।।

कच्चिद्गावो न दुह्यन्ते पुत्र चांडलवेश्मानि ।।
कच्चिद्वचनकर्तारस्तनयाश्च पितुः सदा ।। १५-२३ ।।

कच्चिद्वधूः श्वश्रूवाक्ये वर्तते भर्तरि क्वचित् ।।
कच्चिद्विवादान्विप्रेस्तु समं नेक्षस आत्मज ।। १५-२४ ।।

कच्चिद्गावो न रुध्यंते विषये विविधैस्तृणैः ।।
तुलामानानि सर्वाणि ह्यन्नादीनां सदेक्षसे ।। १५-२५ ।।

कुटुंबिनं करैः पुत्र नात्यर्थमभिदूयसे ।।
कच्चिन्न द्यूतपानादि वर्तते विषये तव ।। १५-२६ ।।

कच्चिद्भिन्नरसैर्लोका भिन्नवाक्यैः पुरे तव ।।
न दानैर्जीर्णवस्त्रैश्च नोपजीवंति मानवाः ।। १५-२७ ।।

कच्चिदृष्ट्वा स्वयं पुत्र हस्त्यश्वं परिरक्षसि ।।
कच्चिच्च मातरः सर्वा ह्यविशेषेण पश्यसि ।। १५-२८ ।।

कच्चिन्न वासरे विष्णोर्नरा भुंजंति पुत्रक ।।
शशिनि क्षीणतां प्राप्ते कच्चिच्छ्राद्धपरो नरः ।। १५-२९ ।।

कच्चिच्चापररात्रेषु सदा निद्रां विमुंचसि ।।
निद्रा मूलमधर्मस्य निद्रा पापविवर्द्धिनी ।। १५-३० ।।

निद्रा दारिद्यजननी निद्रा श्रेयोविनाशिनी ।।
नहि निद्रान्वितो राजा चिरं शास्ति वसुंधराम् ।। १५-३१ ।।

पुंश्चलीव सदा भर्तुर्लोकद्वयविनाशिनी ।।
एवमुच्चरमाणं तं तनयो वाक्यमब्रवीत् ।। १५-३२ ।।

धर्मांगदो महीपालं प्रणम्य च पुनः पुनः ।।
सर्वमेतत्कृतं तात पुनः कर्तास्मि ते वचः ।। १५-३३ ।।

पितुर्वचनकर्तारः पुत्रा धन्या जगत्त्रये ।।
किं ततः पातकं राजन्यो न कुर्यात्पितुर्वचः ।। १५-३४ ।।

पितृवाक्यमनादृत्य व्रजेत्स्नातुं त्रिमार्गगाम् ।।
न तत्तीर्थफलं भुंक्ते यो न कुर्यात्पितुर्वचः ।। १५-३५ ।।

त्वदधीनं शरीरं मे त्वदधीनं हि जीवितम् ।।
त्वदधीनो हि मे धर्मस्त्वं च मे दैवतं परम् ।। १५-३६ ।।

त्रैलोक्यस्यापि दानेन न शुद्ध्येत ऋणात्सुतः ।।
किं पुनर्देहवित्ताभ्यां केशदानादिभिर्विभो ।। १५-३७ ।।

एवं ब्रुवाणं तनयं बहुभूपालसंवृतम् ।।
रुक्मांगदः परिष्वज्य पुनराह सुतं वचः ।।
सत्यमेतत्त्वया पुत्र व्याहृतं धर्मवेदिना ।। १५-३८ ।।

पितुरभ्यधिकं किंचिद्दैवतं न सुतस्य हि ।।
देवाः पराङ्मुखास्तस्य पितरं योऽवमन्यते ।। १५-३९ ।।

सोऽहं मूर्ध्नात्वया पुत्र धृतस्तत्क्षितिरक्षणात् ।।
जित्वा द्वीपवतीं पृथ्वीं बहुभूपालसंवृताम् ।। १५-४० ।।

एतत्सौख्यं परं लोके एतत्स्वर्गपदं ध्रुवम् ।।
पितुरभ्यधिकः पुत्रो यद्भवेत्क्षितिमंडले ।। १५-४१ ।।

सोऽहं पुत्र कृतार्थस्तु कृतः सद्गुणवर्त्मना ।।
त्वया साधयता भूपान्यथा हरिदिनं शुभम् ।। १५-४२ ।।

तत्पितुर्वचनं श्रुत्वा पुत्रो धर्मांगदोऽब्रवीत् ।।
क्क गतस्तु भवांस्तात निवेश्य मयि संपदः ।। १५-४३ ।।

कस्मिन्स्थाने त्वियं प्राप्ता सूर्यायुतसमप्रभा ।।
मन्ये निर्वेदमापन्न इमां सृष्ट्वा प्रजापतिः ।। १५-४४ ।।

नैतद्रूपा महीपालनारी त्रैलोक्यमध्यतः ।।
मन्ये भूधरजातेयमथवा सागरोद्भवा ।। १५-४५ ।।

माया वा मयदैत्यस्य प्रमदारूपसंस्थिता ।।
अहो सुनिपुणो धाता येनेयं निर्मिता विभो ।।
बालाग्रशतभागो हि व्यलीको नोपपद्यते ।। १५-४६ ।।

इयं हि योग्या कनकावदाता गृहाय तुभ्यं जगतीपतीश ।।
एवं विधा मे जननी यदि स्यात्कोऽन्योऽस्ति मत्तः सुकृती मनुष्यः ।। १५-४७ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते पितापुत्रसंवादो नाम पञ्चदशोऽध्यायः ।। १५ ।।