"अग्निपुराणम्/अध्यायः २११" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
नाना दानादि वर्णनम्
 
अग्निपुराणम् using AWB
पङ्क्तिः २५: पङ्क्तिः २५:
१ गवां शतप्रदानेनेत्यादिः, सर्वकामदा इत्यन्तः पाठः झ.पुस्तके नास्ति
१ गवां शतप्रदानेनेत्यादिः, सर्वकामदा इत्यन्तः पाठः झ.पुस्तके नास्ति
२ धर्मराजस्य माहात्म्ये इति ज..
२ धर्मराजस्य माहात्म्ये इति ज..
- - - -- - - - --
- - - -- - - - --


दशानां कपिलानां तु दत्तानां ज्येष्ठपुष्करे ॥२११.००८
दशानां कपिलानां तु दत्तानां ज्येष्ठपुष्करे ॥२११.००८
पङ्क्तिः ८१: पङ्क्तिः ८१:
१ पापो इति ख.. , छ.. , ज.. च
१ पापो इति ख.. , छ.. , ज.. च
२ सम्पूज्य वस्त्रगन्धाद्यैरिति ङ..
२ सम्पूज्य वस्त्रगन्धाद्यैरिति ङ..
- - -- - -- - -
- - -- - -- - -


रेवन्ताधिष्ठितञ्चाश्वं हैमं दत्त्वा न मृत्युभाक् ॥२११.०२८
रेवन्ताधिष्ठितञ्चाश्वं हैमं दत्त्वा न मृत्युभाक् ॥२११.०२८
पङ्क्तिः १९९: पङ्क्तिः १९९:


</font></poem>
</font></poem>

[[वर्गः:अग्निपुराणम्]]

०९:२६, १९ जनवरी २०१६ इत्यस्य संस्करणं


अथैकादशाधिकद्विशततमोऽध्यायः


नानादानानि

अग्निरुवाच
एकाङ्गां दशगुर्दद्याद्दश दद्याच्च गोशती ।२११.००१
शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते ॥२११.००१
प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा ।२११.००२
गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः ॥२११.००२
गवां शतप्रदानेन मुच्यते नरकार्णवात् ।२११.००३
दत्त्वा वत्सतरीं चैव स्वर्हलोके महीयते ॥२११.००३
गोदानादायुरारोग्यसौभाग्यस्वर्गमाप्नुयात् ।२११.००४
इन्द्रादिलोकपालानां या राजमहिषी शुभा ॥२११.००४
महिषीदानमाहात्म्यादस्तु मे सर्वकामदा(१) ।२११.००५
धर्मराजस्य साहाय्ये(२) यस्याः पुत्रः प्रतिष्ठितः ॥२११.००५
महिषासुरस्य जननी या सास्तु वरदा मम ।२११.००६
महिषीदानाच्च सौभाग्यं वृषदानाद्दिवं व्रजेत् ॥२११.००६
संयुक्तहलपङ्क्त्याख्यं दानं सर्वफलप्रदं ।२११.००७
पङ्क्तिर्दशहला प्रोक्ता दारुजा वृषसंयुता ॥२११.००७
सौवर्णपट्टसन्नद्धान्दत्त्वा स्वर्गे महीयते ।२११.००८
-- -- - -- -- -- - -
टिप्पणी
१ गवां शतप्रदानेनेत्यादिः, सर्वकामदा इत्यन्तः पाठः झ.पुस्तके नास्ति
२ धर्मराजस्य माहात्म्ये इति ज..
- - - -- - - - --

दशानां कपिलानां तु दत्तानां ज्येष्ठपुष्करे ॥२११.००८
तत्फलञ्चाक्षयं प्रोक्तं(१) वृषभस्य तु मोक्षणे(२) ।२११.००९
धर्मोऽसित्वञ्चतुष्पादश्चतस्रस्ते प्रिया इमाः ॥२११.००९
नमो ब्रह्मण्यदेवेश पितृभूतर्षिपोषक ।२११.०१०
त्वयि मुक्तेऽक्षया लोका मम सन्तु निरामयाः ॥२११.०१०
मा मे ऋणोऽस्तु दैवत्यो(३) भौतः पैत्रोऽथ मानुषः ।२११.०११
धर्मस्त्वं त्वत्प्रपन्नस्य या गतिः सास्तु मे ध्रुवा ॥२११.०११
अङ्गयेच्चक्रशूलाभ्यां मन्त्रेणानेन चोत्सृजेत् ।२११.०१२
एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः ॥२११.०१२
मुच्यते प्रेतलोकात्तु षण्मासे चाव्दिकादिषु ।२११.०१३
दशहस्तेन कुण्डेन त्रिंशत्कुण्डान्निवर्तनं ॥२११.०१३
तान्येव दशविस्ताराद्गोचर्मे तत्प्रदोऽघभित्(४) ।२११.०१४
गोभूहिरण्यसंयुक्तं कृष्णाजिनन्तु योऽर्पयेत्(५) ॥२११.०१४
सर्वदुष्कृतकर्मापि सायुज्यं ब्रह्मणो व्रजेत् ।२११.०१५
भाजनन्तिलसम्पूर्णं मधुना पूर्णमेव च ॥२११.०१५
दद्यात्कृष्णतिलानाञ्च प्रस्थमेकञ्च मागधं ।२११.०१६
शय्यां दत्त्वा तु सगुणां(६) भुक्तिमुक्तिमवाप्नुयात् ॥२११.०१६
हैमीं प्रतिकृतिं कृत्वा दत्त्वा स्वर्गस्तथात्मनः ।२११.०१७
विपुलन्तु गृहं कृत्वा दत्त्वा स्याद्भुक्तिमुक्तिभाक् ॥२११.०१७
- - -- - - -- - - -- - - -
टिप्पणी
१ तत्फलं चाक्षयं स्याद्वै इति ट..
२ वृषभस्य विमोक्षणे इति ख.. । वृषभस्य च मोक्षणादिति ज..
३ दैवोऽथेति ख.. , छ.. च
४ तत्प्रदोऽघनुदिति श.. । तत्प्रदोऽघजिदिति घ.. , ङ.. च
५ यस्तु कृष्णाजिनं ददेदिति ट..
६ दत्त्वोत्तमगुणामिति घ..
- - -- - -- - - -

गृहं मठं सभां स्वर्गी दत्त्वा स्याच्च प्रतिश्रियं ।२११.०१८
दत्त्वा कृत्वा गोगृहञ्च निष्पापः स्वर्गमाप्नुयात् ॥२११.०१८
यममाहिषदानात्तु निष्पापः स्वर्गमाप्नुयात् ।२११.०१९
ब्रह्मा हरो हरिर्देवैर्मध्ये च यमदूतकः ॥२११.०१९
पाशी(१) तस्य शिरश्छित्त्वा तं दद्यात्स्वर्गभाग्भवेत् ।२११.०२०
त्रिमुखाख्यमिदं दानं गृहीत्वा तु द्विजोऽघभाक् ॥२११.०२०
चक्रं रूप्यमयं कृत्वा के धृत्वा तत्प्रदापयेत् ।२११.०२१
हेमयुक्तं द्विजायैतत्कालचक्रमिदम्महत् ॥२११.०२१
आत्मतुल्यन्तु यो लौहं ददेन्न नरकं व्रजेत् ।२११.०२२
पञ्चाशत्पलसंयुक्तं लौहदण्डं तु योऽर्पयेत् ॥२११.०२२
वस्त्रेणाच्छाद्य विप्राय यमदण्डो न विद्यते ।२११.०२३
मूलं फलादि वा द्रव्यं संहतं वाथ चैकशः ॥२११.०२३
मृत्युज्जयं समुद्दिश्य दद्यादायुर्विवर्धये ।२११.०२४
पुमान् कृष्णतिलैः कार्यो रौप्यदन्तः सुवर्णदृक् ॥२११.०२४
खड्गोद्यतकरो दीर्घो जवाकुसुममण्डलः ।२११.०२५
रक्ताम्वरधरः स्रग्वी शङ्कमालाविभूषितः ॥२११.०२५
उपानद्युगयुक्ताङ्घ्रिः कृष्णकम्बलपार्श्वकः ।२११.०२६
गृहीतमांसपिण्डश्च वामे वै कालपूरुषः ॥२११.०२६
सम्पूज्य तञ्च गन्धाद्यैः(२) ब्राह्मणायोपपादयेत् ।२११.०२७
मरणव्याधिहीनः स्याद्राजराजेश्वरो भवेत् ॥२११.०२७
गोवृषौ तु द्विजे दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ।२११.०२८
- - -- - --- - -- -
टिप्पणी
१ पापो इति ख.. , छ.. , ज.. च
२ सम्पूज्य वस्त्रगन्धाद्यैरिति ङ..
- - -- - -- - -

रेवन्ताधिष्ठितञ्चाश्वं हैमं दत्त्वा न मृत्युभाक् ॥२११.०२८
घण्टादिपूर्णमप्येकं दत्त्वा स्याद्भुक्तिमुक्तिभाक् ।२११.०२९
सर्वान् कामानवाप्नोति यः प्रयच्छति काञ्चनं ॥२११.०२९
सुवर्णे दीयमाने तु रजतं दक्षिणेष्यते ।२११.०३०
अन्येषामपि दानानां सुवर्णं(१) दक्षिणा स्मृता ॥२११.०३०
सुवर्णं रजतं ताम्रं तण्डुलं धान्यमेव च ।२११.०३१
नित्यश्राद्धं देवपूजा सर्वमेतददक्षिणं ॥२११.०३१
रजतं दक्षिणा पित्रे धर्मकामार्थसाधनं ।२११.०३२
सुवर्णं रजतं ताम्रं मणिमुक्तावसूनि च ॥२११.०३२
सर्वमेतन्महाप्राज्ञो ददाति वसुधान्ददत् ।२११.०३३
पितॄंश्च पितृलोकस्थान् देवस्थाने च देवताः ॥२११.०३३
सन्तर्पयति शान्तात्मा यो ददाति वसुन्धराम् ।२११.०३४
खर्वटं खेटकं वापि ग्रामं वा शस्यशालिनं ॥२११.०३४
निवर्तनशतं वापि तदर्धं वा गृहादिकं ।२११.०३५
अपि गोचर्ममात्राम्बा दत्त्वोर्वीं सर्वभाग्भवेत् ॥२११.०३५
तैलविन्दुर्यथा चाप्सु प्रसर्पेद्भूगतं तथा ।२११.०३६
सर्वेषामेवदानानमेकजन्मानुगं फलं ॥२११.०३६
हाटकक्षितिगौरीणां सप्तजन्मानुगं फलं ।२११.०३७
त्रिसप्तकुलमुद्धृत्य कन्यादो ब्रह्मलोकभाक् ॥२११.०३७
गजं सदक्षिणं दत्त्वा निर्मलः स्वर्गभाग्भवेत् ।२११.०३८
अश्वं दत्त्वायुरारोग्यसौभाग्यस्वर्गमाप्नुयात् ॥२११.०३८
- -- - - - - -- - -
टिप्पणी
१ हिरण्यमिति ट..
- - -- - - -- - - -- -

दासीं दत्त्वा द्विजेन्द्राय अप्सरोलोकमाप्नुयात् ।२११.०३९
दत्त्वा ताम्रमयीं स्थालीं पलानां पञ्चभिः शतैः ॥२११.०३९
अर्धैस्तदर्धैरर्धैर्वा भुक्तिमुक्तिमवाप्नुयात्(१) ।२११.०४०
शकटं वृषसंयुक्तं दत्त्वा यानेन नाकभाक् ॥२११.०४०
वस्त्रदानाल्लभेदायुरारोग्यं स्वर्गमक्षयं ।२११.०४१
धान्यगोधूमकलमयवादीन् स्वर्गभाग्ददत् ॥२११.०४१
आसनं तैजसं पात्रं लवणं गन्धचन्दनं ।२११.०४२
धूपं दीपञ्च ताम्वूलं लोहं रूप्यञ्च रत्नकं(२) ॥२११.०४२
दिव्यानि नानाद्रव्याणि दत्त्वा स्याद्भुक्तिमुक्तिभाक् ।२११.०४३
तिलांश्च तिलपात्रञ्च दत्त्वा स्वर्गमवाप्नुयात् ॥२११.०४३
अन्नदानात्परं नास्ति न भूतं न भविष्यति ।२११.०४४
हस्त्यश्वरथदानानि दासीदासगृहाणि च ॥२११.०४४
अन्नदानस्य सर्वाणि कलां नार्हन्ति षोडशीं ।२११.०४५
कृत्वापि सुमहत्पापं यः पश्चादन्नदो भवेत् ॥२११.०४५
सर्वपापविनिर्मुक्तो लोकानाप्नोति चाक्षयान् ।२११.०४६
पानीयञ्च प्रपान्दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ॥२११.०४६
अग्निं काष्ठञ्च मार्गादौ दत्त्वा दीप्त्यादिमाप्नुयात्(३) ।२११.०४७
देवगन्धर्वनारीभिर्विमाने सेव्यते दिवि ॥२११.०४७
घृतं तैकञ्च लवणं दत्त्वा सर्वमवाप्नुयात् ।२११.०४८
- - -- - -- - - - --
टिप्पणी
१ ततोर्ध्वतस्तदर्धार्धैर्युक्तां भुक्तिमवाप्नुयातिति छ..
२ धूपदीपञ्च नैवेद्यं ताम्वूलं लोहरत्नकमिति ख..
३ दीप्ताग्निमाप्नुयादिति ङ..
--- - - - -- - - - -

छत्रोपानहकाष्ठादि दत्त्वा स्वर्गे सुखी वसेत्(१) ॥२११.०४८
प्रतिपत्तिथिमुख्येषु विष्कुम्भादिकयोगके ।२११.०४९
चैत्रादौ वत्सरादौ च अश्विन्यादौ हरिं हरं ॥२११.०४९
ब्रह्माणं लोकपालादीन् प्रार्च्य दानं महाफलं ।२११.०५०
वृक्षारामान् भोजनादीन्मार्गसंवाहनादिकान् ॥२११.०५०
पादाभ्यङ्गादिकं दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ।२११.०५१
त्रीणि तुल्यफलानीह गावः पृथ्वी सरस्वती ॥२११.०५१
व्राह्मीं सरस्वतीन्दत्त्वा निर्मलो ब्रह्मलोकभाक् ।२११.०५२
सप्तद्वीपमहीदः स ब्रह्मज्ञानं ददाति यः ॥२११.०५२
अभयं सर्वभूतेभ्यो यो दद्यात्सर्वभाङ्नरः ।२११.०५३
पुराणं भारतं वापि रामायणमथापि वा ॥२११.०५३
लिखित्वा पुस्तकं दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ।२११.०५४
वेदशास्त्रं नृत्यगीतं योऽध्यापयति नाकभाक् ॥२११.०५४
वित्तं दद्यादुपाध्याये छात्राणां भोजनादिकं ।२११.०५५
किमदत्तं भवेत्तेन धर्मकामादिदर्शिना ॥२११.०५५
वाजपेयसहस्रस्य सम्यग्दत्तस्य यत्फलं ।२११.०५६
तत्फलं सर्वमाप्नोति विद्यादानन्न संशयः ॥२११.०५६
शिवालये विष्णुगृहे सूर्यस्य भवने तथा ।२११.०५७
सर्वदानप्रदः स स्यात्पुस्तकं वाचयेत्तु यः ॥२११.०५७
त्रैलोक्ये चतुरो वर्णाश्चत्वारश्चाश्रमाः पृथक् ।२११.०५८
ब्रह्माद्या देवताः सर्वा विद्यादाने प्रतिष्ठताः ॥२११.०५८
- - -- - - - - -- - - - -
टिप्पणी
१ स्वर्गे महीयते इति ग.. । स्वर्गे सुखी भवेदेति घ.. , ङ.. च
-- -- - - -- - - - - -

विद्या कामदुघा धेनुर्विद्या चक्षुरनुत्तमं ।२११.०५९
उपवेदप्रदानेन गन्धर्वैः सह मोदते ॥२११.०५९
वेदाङ्गानाञ्च दानेन स्वर्गलोकमवाप्नुयात् ।२११.०६०
धर्मशास्त्रप्रदानेन धर्मेण सह मोदते ॥२११.०६०
सिद्धान्तानां प्रदानेन मोक्षमाप्नोत्यसंशयं ।२११.०६१
विद्यादानमवाप्नोति प्रदानात्पुस्तकस्य तु ॥२११.०६१
शास्त्राणि च पुराणानि दत्त्वा सर्वमवाप्नुयात् ।२११.०६२
शिष्यांश्च शिक्षयेद्यस्तु पुण्डलीकफलं लभेत् ॥२११.०६२
येन जीवति तद्दत्त्वा फलस्यान्तो न विद्यते ।२११.०६३
लोके स्रेष्ठतमं सर्वमात्मनश्चापि यत्प्रियं ॥२११.०६३
सर्वं पितॄणां दातव्यं तेषामेवाक्षयार्थिना ।२११.०६४
विष्णुं रुद्रं पद्मयोनिं देवीविघ्नेश्वरादिकान् ॥२११.०६४
पूजयित्वा प्रदद्याद्यः पूजाद्रव्यं स सर्वभाक् ।२११.०६५
देवालयं च प्रतिमां कारयत्सर्वमाप्नुयात् ॥२११.०६५
सम्मार्जनं चोपलेपं कुर्वन् स्यान्निर्मलः पुमान् ।२११.०६६
नानामण्डलकार्यग्रे मण्डलाधिपतिर्भवेत्(१) ॥२११.०६६
गन्धं पुष्पं धूपदीपं नैवेद्यञ्च प्रदक्षिणं ।२११.०६७
घण्टाध्वजवितानञ्च प्रेक्षणं वाद्यगौतकं ॥२११.०६७
वस्त्रादिदत्त्वादेवाय भुक्तिमुक्तिमवाप्नुयात् ।२११.०६८
कस्तूरिकां शिह्लकञ्च श्रीखण्डमगुरून्तथा ॥२११.०६८
कर्पूरञ्च तथामुस्तं गुग्गुलुं विजयं ददेत् ।२११.०६९
- --- - -- - -- ---
टिप्पणी
१ सम्मार्जनमित्यादिः मण्डलाधिपतिर्भवेदित्यन्तः पाठः ज.. पुस्तके नास्ति
-- - -- --- - -- -

घृतप्रस्थेन संस्थाप्य सङ्क्रान्त्यादौ स सर्वभाक् ॥२११.०६९
स्नानं पलशतं ज्ञेयमभ्यङ्गं पञ्चविंशतिः ।२११.०७०
पलानान्तु सहस्रेण महास्नानं प्रकीर्तितं ॥२११.०७०
दशापराधास्तोयेन क्षीरेण स्नापनाच्छतं ।२११.०७१
सहस्रं पयसा दध्ना घृतेनायुतमिष्यते ॥२११.०७१
दासीदासमलङ्कारं गोभूम्यश्वगजादिकं ।२११.०७२
देवाय दत्त्वा सौभाग्यं धनायुष्मान् व्रजेद्दिवं ॥२११.०७२

इत्याग्नेये महापुराणे नानादानानि नामैकादशाधिकद्विशततमोऽध्यायः ॥