"ऋग्वेदः सूक्तं १.९२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
एता उ तया उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते ।
एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते ।
निष्क्र्ण्वाना आयुधानीव धर्ष्णवः परति गावोऽरुषीर्यन्ति मातरः
निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः ॥१॥
उदपप्तन्नरुणा भानवो वर्था सवायुजो अरुषीर्गा अयुक्सत
उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत
अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः
अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥२॥
अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः ।
अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः ।
इषं वहन्तीः सुक्र्ते सुदानवे विश्वेदह यजमानाय सुन्वते
इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते ॥३॥
अधि पेशांसि वपते नर्तूरिवापोर्णुते वक्ष उस्रेव बर्जहम
अधि पेशांसि वपते नृतूरिवापोर्णुते वक्ष उस्रेव बर्जहम्
जयोतिर्विश्वस्मै भुवनाय कर्ण्वती गावो न वरजं वयुषा आवर्तमः
ज्योतिर्विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्युषा आवर्तमः ॥४॥
परत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कर्ष्णमभ्वम
प्रत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कृष्णमभ्वम्
सवरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत ॥
स्वरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत् ॥५॥
अतारिष्म तमसस पारमस्योषा उछन्ती वयुना कर्णोति
अतारिष्म तमसस्पारमस्योषा उच्छन्ती वयुना कृणोति
शरिये छन्दो न समयते विभाती सुप्रतीका सौमनसायाजीगः
श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः ॥६॥
भास्वती नेत्री सून्र्तानां दिव सतवे दुहिता गोतमेभिः ।
भास्वती नेत्री सूनृतानां दिव स्तवे दुहिता गोतमेभिः ।
परजावतो नर्वतो अश्वबुध्यानुषो गोग्रानुप मासि वाजान
प्रजावतो नृवतो अश्वबुध्यानुषो गोअग्राँ उप मासि वाजान् ॥७॥
उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम
उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम्
सुदंससा शरवसा या विभासि वाजप्रसूता सुभगे बर्हन्तम ॥
सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम् ॥८॥
विश्वानि देवी भुवनाभिचक्ष्या परतीची चक्षुरुर्विया वि भाति ।
विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुरुर्विया वि भाति ।
विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन मनायोः ॥
विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन्मनायोः ॥९॥
पुनः-पुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना ।
पुनःपुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना ।
शवघ्नीव कर्त्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः
श्वघ्नीव कृत्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः ॥१०॥
वयूर्ण्वती दिवो अन्तानबोध्यप सवसारं सनुतर्युयोति ।
व्यूर्ण्वती दिवो अन्ताँ अबोध्यप स्वसारं सनुतर्युयोति ।
परमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति
प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ॥११॥
पशून न चित्रा सुभगा परथाना सिन्धुर्न कषोद उर्विया वयश्वैत
पशून्न चित्रा सुभगा प्रथाना सिन्धुर्न क्षोद उर्विया व्यश्वैत्
अमिनती दैव्यानि वरतानि सूर्यस्य चेति रश्मिभिर्द्र्शाना ॥
अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर्दृशाना ॥१२॥
उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति ।
उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति ।
येन तोकंच तनयं च धामहे
येन तोकं च तनयं च धामहे ॥१३॥
उषो अद्येह गोमत्यश्वावति विभावरि ।
उषो अद्येह गोमत्यश्वावति विभावरि ।
रेवदस्मे वयुछ सून्र्तावति ॥
रेवदस्मे व्युच्छ सूनृतावति ॥१४॥
युक्ष्वा हि वाजिनीवत्यश्वानद्यारुणानुषः
युक्ष्वा हि वाजिनीवत्यश्वाँ अद्यारुणाँ उषः ।
अथा नोविश्वा सौभगान्या वह
अथा नो विश्वा सौभगान्या वह ॥१५॥
अश्विना वर्तिरस्मदा गोमद दस्रा हिरण्यवत
अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत्
अर्वाग रथं समनसा नि यछतम ॥
अर्वाग्रथं समनसा नि यच्छतम् ॥१६॥
यावित्था शलोकमा दिवो जयोतिर्जनाय चक्रथुः ।
यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः ।
नूर्जं वहतमश्विना युवम
ऊर्जं वहतमश्विना युवम् ॥१७॥
एह देवा मयोभुवा दस्रा हिरण्यवर्तनी ।
एह देवा मयोभुवा दस्रा हिरण्यवर्तनी ।
उषर्बुधो वहन्तु सोमपीतये
उषर्बुधो वहन्तु सोमपीतये ॥१८॥

</pre>
</pre>
</div>
</div>

१४:०८, १४ जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.९२


एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते ।
निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः ॥१॥
उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत ।
अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥२॥
अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः ।
इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते ॥३॥
अधि पेशांसि वपते नृतूरिवापोर्णुते वक्ष उस्रेव बर्जहम् ।
ज्योतिर्विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्युषा आवर्तमः ॥४॥
प्रत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कृष्णमभ्वम् ।
स्वरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत् ॥५॥
अतारिष्म तमसस्पारमस्योषा उच्छन्ती वयुना कृणोति ।
श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः ॥६॥
भास्वती नेत्री सूनृतानां दिव स्तवे दुहिता गोतमेभिः ।
प्रजावतो नृवतो अश्वबुध्यानुषो गोअग्राँ उप मासि वाजान् ॥७॥
उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम् ।
सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम् ॥८॥
विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुरुर्विया वि भाति ।
विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन्मनायोः ॥९॥
पुनःपुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना ।
श्वघ्नीव कृत्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः ॥१०॥
व्यूर्ण्वती दिवो अन्ताँ अबोध्यप स्वसारं सनुतर्युयोति ।
प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ॥११॥
पशून्न चित्रा सुभगा प्रथाना सिन्धुर्न क्षोद उर्विया व्यश्वैत् ।
अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर्दृशाना ॥१२॥
उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति ।
येन तोकं च तनयं च धामहे ॥१३॥
उषो अद्येह गोमत्यश्वावति विभावरि ।
रेवदस्मे व्युच्छ सूनृतावति ॥१४॥
युक्ष्वा हि वाजिनीवत्यश्वाँ अद्यारुणाँ उषः ।
अथा नो विश्वा सौभगान्या वह ॥१५॥
अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् ।
अर्वाग्रथं समनसा नि यच्छतम् ॥१६॥
यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः ।
आ न ऊर्जं वहतमश्विना युवम् ॥१७॥
एह देवा मयोभुवा दस्रा हिरण्यवर्तनी ।
उषर्बुधो वहन्तु सोमपीतये ॥१८॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९२&oldid=4753" इत्यस्माद् प्रतिप्राप्तम्