"अग्निपुराणम्/अध्यायः ३" इत्यस्य संस्करणे भेदः
No edit summary |
→कूर्मावतारवर्णनम्: अग्निपुराणम् using AWB |
||
पङ्क्तिः ५४: | पङ्क्तिः ५४: | ||
दर्शयामास रुद्राय स्त्रीरूपं भगवान्हरिः। |
दर्शयामास रुद्राय स्त्रीरूपं भगवान्हरिः। |
||
मायया मोहितः शम्भुर्गौरीं त्यक्त्वा स्त्रियङ्गतः ।। १८ ।। |
मायया मोहितः शम्भुर्गौरीं त्यक्त्वा स्त्रियङ्गतः ।। १८ ।। |
||
नग्न उन्मत्तरूपोऽभूत् स्त्रियः केशानधारयत् । |
नग्न उन्मत्तरूपोऽभूत् स्त्रियः केशानधारयत् । |
||
पङ्क्तिः ७०: | पङ्क्तिः ७०: | ||
त्रिदिवस्थाः सुराश्चासन् यः पठेत् त्रिदिवं व्रजेत् ।। २२ ।। |
त्रिदिवस्थाः सुराश्चासन् यः पठेत् त्रिदिवं व्रजेत् ।। २२ ।। |
||
इत्यादिमहापुराणे आग्नेये कूर्म्मावतारो नाम तृतीयोऽध्यायः ।। |
इत्यादिमहापुराणे आग्नेये कूर्म्मावतारो नाम तृतीयोऽध्यायः ।। |
||
</poem> |
</poem> |
||
[[वर्गः:अग्निपुराणम्]] |
०९:०३, १९ जनवरी २०१६ इत्यस्य संस्करणं
कूर्मावतारवर्णनम्
अग्निरुवाच
वक्ष्ये कूर्म्मावतारञ्च श्रुत्वा पापप्रणाशनम् ।
पुरा देवासुरे युद्धे दैत्यैर्देवाः पराजिताः ।। १ ।।
दुर्व्वाससश्च शापेन निश्रीकाश्चााभवंस्तदा।
स्तुत्वा क्षीराब्धिग विष्णुमूचुः पालय चासुरात्।। २ ।।
व्रह्मादिकान् हरिः प्राह सन्धिं कुर्वन्तु चासुरैः ।
क्षीराब्धिमथनार्थं हि अमृतार्थं श्रियेऽसुराः ।। ३ ।।
अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे।
युष्मानमृतभाजो हि कारयामि न दानवान् ।। ४ ।।
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम्।
क्षीराब्धिं मत्सहायेन निर्मथध्वमतन्द्रिताः ।। ५ ।।
विप्णूक्तां संविदं कृत्वा दैत्यैः क्षीराव्धिमागताः।
ततो मथितुमारब्धा यतः पुच्छं ततः सुराः ।। ६ ।।
फणिनिः श्वाससन्तप्ता हरिणाप्यायिताः सुराः।
मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत् ।। ७ ।।
कूर्म्मरुपं समास्थाय दध्रे विष्णुश्च मन्दरम्।
क्षीराव्धेर्मर्थयमानाच्च विपंहालाहलं ह्यभूत् ।। ८ ।।
हरेण धारितं कण्ठे नीलकण्ठस्ततोऽभवत् ।
ततोऽभूद्वारुणी देवी पारिजातस्तु कौस्तुभः ।। ९ ।।
गावश्चाप्सरसो दिव्या लक्ष्मीर्देवी हरिह्गता।
पश्यन्तः सर्वदेवास्तां स्तुवन्तः सश्रियोऽभवन् ।। १० ।।
ततो धन्वन्तरिविष्णुरायुर्वेदप्रवर्त्तकः ।
बिभ्रत कमण्डलुम्पूर्णममृतेन समुत्थितः ।। ११ ।।
अमृतं तत्कराद्दैत्याः सुरेभ्योऽर्द्धं प्रदाय च।
गृहीत्वा जग्मुर्जम्भाद्या विष्णुः स्त्रीरूपधृक् ततः ।। १२ ।।
तां दृष्ट्वा रूपसम्पन्नां दैत्याः प्रोचुविमोहिताः।
भव भार्याऽमृतं गृह्य पाययास्मान् वरानने ।। १३ ।।
तथेत्युक्त्वा हरिस्तेभ्यो गृहीत्वाऽपाययत्सुरान्।
चन्द्ररूपधरो राहुः पिवंश्चार्केन्दुनार्पितः ।। १४ ।।
हरिणाप्यरिणा च्छिन्नं स राहुस्तच्छिरः पृथक्।
कृपयाऽमपतान्नीतं वरदं हरिमब्रवीत् ।। १५ ।।
राहुर्मत्तस्तु चन्द्रार्कौ प्राप्स्येते ग्रहणं ग्रहः।
तस्मिन् काले च यद्दानं दास्यन्ते, स्यात्तदत्क्षयम् ।। १६ ।।
तथेत्याहाथ तं विष्णुस्ततः सर्वैः सहामरैः।
स्त्रीरूपं सम्परित्यज्य हरेणोक्तः प्रदर्शय ।। १७ ।।
दर्शयामास रुद्राय स्त्रीरूपं भगवान्हरिः।
मायया मोहितः शम्भुर्गौरीं त्यक्त्वा स्त्रियङ्गतः ।। १८ ।।
नग्न उन्मत्तरूपोऽभूत् स्त्रियः केशानधारयत् ।
अगाद्विमुच्य केशान् स्त्री अन्वधावच्च ताङ्गताम् ।। १९ ।।
स्खलितं तस्य वीर्यं कौ यत्र यत्र हरस्य हि।
तत्र तत्राभावत् क्षेत्रं लिङ्गानां कनकसाय च ।। २० ।।
मायेयमिति तां ज्ञात्वा स्वरूपस्थोऽभवद्धरः।
शिवमाह हरी रुद्र जिता माया त्वया हि मे ।। २१ ।।
न जेतुमेनां शक्तो मे त्वदृतेऽन्यः पुमन् भुवि।
अप्राप्याथामृतं दैत्या देवैर्युद्धे निपातिताः ।। २२ ।।
त्रिदिवस्थाः सुराश्चासन् यः पठेत् त्रिदिवं व्रजेत् ।। २२ ।।
इत्यादिमहापुराणे आग्नेये कूर्म्मावतारो नाम तृतीयोऽध्यायः ।।