"ब्रह्मपुराणम्/अध्यायः १४३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
ब्रह्मपुराणम् using AWB
पङ्क्तिः ४७: पङ्क्तिः ४७:
समस्तपापौघविनाशनं च, सिद्धैरशेषैः परिसेवितं च।। १४३.१७ ।।

समस्तपापौघविनाशनं च, सिद्धैरशेषैः परिसेवितं च।। १४३.१७ ।।

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये सिद्धतीर्थाद्यष्टोत्तरशततीर्थवर्णनं नाम त्रिचत्वारिंशदधिकशततमोऽध्यायः।। १४३ ।।

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये सिद्धतीर्थाद्यष्टोत्तरशततीर्थवर्णनं नाम त्रिचत्वारिंशदधिकशततमोऽध्यायः।। १४३ ।।

गौतमीमाहात्म्ये चतुःसप्ततितमोध्यायः।। ७४ ।।

गौतमीमाहात्म्ये चतुःसप्ततितमोध्यायः।। ७४ ।।

</poem>
</poem>

[[वर्गः: ब्रह्मपुराणम्]]
[[वर्गः:ब्रह्मपुराणम्]]

१०:५५, १६ जनवरी २०१६ इत्यस्य संस्करणं

← अध्यायः १४२ ब्रह्मपुराणम्
अध्यायः १४३
वेदव्यासः
अध्यायः १४४ →

सिद्धतीर्थवर्णनम्
ब्रह्मोवाच
सिद्धतीर्थमिति ख्‌यातं यत्र सिद्धेश्वरो हरः।
तस्य प्रभावं वक्ष्यामि सर्वसिद्धिकरं नृणाम्।। १४३.१ ।।

पुलस्त्यवंशसंभूतो रावणो लोकरावणः।
दिशो विजित्य सर्वाश्च सोमलोकमजीगमत्।। १४३.२ ।।

सोमेन सह योत्स्यन्तं दशास्यमहामब्रवम्।
मन्त्रं दास्ये निवर्तस्व सोमयुद्धाद्दशानन।। १४३.३ ।।

इत्युक्त्वाऽष्टोत्तरं मन्त्रं शतनामभिरन्वितम्।
शिवस्य राक्षसेन्द्राय प्रादां नारद शान्तये।। १४३.४ ।।

निःश्रीकाणां विपन्नानां नानाक्लेशजुषां नृणाम्।
शरणं शिव एवात्र संसारेऽन्यो न कश्चन।। १४३.५ ।।

ततो निवृत्तः स ह मन्त्रियुक्तस्तत्सोमलोकाज्जयमाप्य रक्षः।
स पुष्पकारूढगतिः सगर्वो, लोकान्पुनः प्राप जवाद्दशास्यः।। १४३.६ ।।

स प्रेक्षमाणो दिवमन्तरिक्षं, भुवं च नागांश्च गजांश्च विप्रान्।
आलोकयामास नगं महान्तं, कैलासमावास उमापतेर्यः। १४३.७ ।।

दृष्ट्वा स्मयोत्फुल्लदृगद्रिराजं, स मन्त्रिणौ रावण इत्युवाच।। १४३.८ ।।

रावण उवाच
को वा गिरावत्र वसेन्महात्मा, गिरिं नयाम्येनमथाधि भूमेः।
लङ्कागतोऽयं गिरिराशु शोभां, लङ्काऽपि सत्यं श्रियमातनोति।। १४३.९ ।।

ब्रह्मोवाच
इत्थं वचो राक्षसमन्त्रिणौ तौ, निशम्य रक्षोधिपतेश्च भावम्।
न युक्तमित्यूचतुरिष्टबुद्ध्या, निशाचरस्तद्वचनं न मेने।। १४३.१० ।।

संस्थाप्य तत्पुष्पकमाशु रक्षः, पुप्लाव कैलासिरेश्च मूले।
हिन्दोलयामास गिरिं दशास्यो, ज्ञात्वा भवः कृत्यमिदं चकार।। १४३.११ ।।

जित्वा दिगीशांश्च सगर्वितस्य, कैलासमान्दोलयतः सुरारेः।
अङ्गुष्ठकृत्यैव रसातलादिलोकांश्च यातस्य दशाननस्य।। १४३.१२ ।।

आलूनकायस्य गिरं निशम्य, विहस्य देव्या सह दत्तमिष्टम्।
तस्मै प्रसन्नः कुपितोऽपि शंभुरयुक्तदातेति न शंशयोऽत्र।। १४३.१३ ।।

ततोऽयमावाप्य वरान्सुवीरो, भवप्रसादात्कुसुमं जगाम।
गच्छन्स लङ्कां भवपूजनाय, गङ्गामगाच्छेभुजटाप्रसूताम्।। १४३.१४ ।।

संपूजयित्वा विविधैश्च मन्त्रैर्गङ्गाजलैः शंभुमदीनसत्त्वः।
असिं स लेभे शशिखण्डभूषात्सिद्धिं च सर्वर्धिमभीप्सितां च।। १४३.१५ ।।

मद्दत्तमन्त्रं शशिरक्षणाय, स साधयामास भवं प्रपूज्य।
सिद्धे तु मन्त्रे पुनरेव लङ्कामयात्स रक्षोधिपतिः स तुष्टः।। १४३.१६ ।।

ततः प्रभृत्येतदतिप्रभावं, तीर्थं महासिद्धिदमिष्टदं च।