"ब्रह्मपुराणम्/अध्यायः ६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(लघु) ब्रह्मपुराणम् using AWB
पङ्क्तिः ६४: पङ्क्तिः ६४:


आगच्छद्वडवा भूत्वाच्छाद्य रूपमनिन्दिता।
आगच्छद्वडवा भूत्वाच्छाद्य रूपमनिन्दिता।
कुरूनथोत्तरान् गत्वा तृणान्यथ चचार ह॥ ६.१७
कुरूनथोत्तरान् गत्वा तृणान्यथ चचार ह॥ ६.१७


द्वितीयायान्तु संज्ञायां संज्ञेयमिति चिन्तयन्।
द्वितीयायान्तु संज्ञायां संज्ञेयमिति चिन्तयन्।
पङ्क्तिः ९९: पङ्क्तिः ९९:
'''विवस्वानुवाच'''
'''विवस्वानुवाच'''
असंशयं पुत्र महृद्भविष्यत्यत्र कारणम्।
असंशयं पुत्र महृद्भविष्यत्यत्र कारणम्।
येन त्वामाविशत् क्रोधो धर्म्मज्ञं सत्यवादिनम्॥ ६.२८ ॥
येन त्वामाविशत् क्रोधो धर्म्मज्ञं सत्यवादिनम्॥ ६.२८ ॥


न शक्यमेतन्मिथ्या तु कर्त्त मातृवचस्तव।
न शक्यमेतन्मिथ्या तु कर्त्त मातृवचस्तव।
पङ्क्तिः १८२: पङ्क्तिः १८२:
इति श्रीब्रह्मे महापुराणे आदित्योत्पत्तिकथनं नाम षष्ठोऽध्यायः॥ ६ ॥
इति श्रीब्रह्मे महापुराणे आदित्योत्पत्तिकथनं नाम षष्ठोऽध्यायः॥ ६ ॥
</poem>
</poem>

[[वर्गः: ब्रह्मपुराणम्]]
[[वर्गः:ब्रह्मपुराणम्]]

१०:३१, १६ जनवरी २०१६ इत्यस्य संस्करणं

← अध्यायः ५ ब्रह्मपुराणम्
अध्यायः ६
वेदव्यासः
अध्यायः ७ →

आदित्योत्पत्ति-कथनम्
लोमहर्षण उवाच
विवस्वान् कश्यपाज्जज्ञे दाक्षायण्यां द्विजोत्तमाः।
तस्य भार्य्याभवत्संज्ञा त्वाष्ट्री देवी विवस्वतः॥ ६.१ ॥

सुरेश्वरीति विख्याता त्रिपु लोकेषु भाविनी।
सा वै भार्य्या भगवतो मार्त्तण्डस्य महात्मनः॥ ६.२ ॥

भर्त्तृरूपेण नातुष्यद्रूपयोवनशालिनी।
संज्ञा नाम सुतपसा सुदीप्तेन समन्विता॥ ६.३ ॥

आदित्यस्य हि तद्रूपं मण्डलस्य सुतेजसा।
गात्रेषु परिदग्धं वै नातिकान्तमिवाभवत्॥ ६.४ ॥

न खल्वयं मृतोऽण्डस्थ इति स्नेहादभाषत।
अजानन् काश्यपस्तस्मान्मार्त्तण्ड इति चोच्यते॥ ६.५ ॥

तेजस्त्वभ्यधिकं तस्य नित्यमेव विवस्वतः।
येनातितापयामास त्रींल्लोकान् कश्यपात्मजः॥ ६.६ ॥

त्रीण्यपत्यानि भो विप्रा संज्ञायां तपतां वरः।
आदित्यो जनयामास कन्यां द्वौ च प्रजापती॥ ६.७ ॥

मनुर्वैवस्वतः पूर्व्वं श्राद्धदेवः प्रजापतिः।
यमश्च यमुना चैव यमजौ सम्बभूवतुः॥ ६.८ ॥

श्यामवर्णन्तु तद्रूपं संज्ञा दृष्ट्वा विवस्वतः।
असहन्ती तु स्वां छायां सवर्णां निर्म्ममे ततः॥ ६.९ ॥

मायामयी तु सा संज्ञा तस्यां छायासमुत्थिताम्।
प्राञ्जलिः प्रणता भूत्वा छाया संज्ञां द्विजोत्तमाः॥ ६.१0 ॥

उवाच किं मया कार्य्यं कथयस्व शुचिस्मिते।
स्थितास्मि तव निर्देशे शाधि मां वरवर्णिनि॥ ६.११ ॥

संज्ञोवाच
अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः।
त्वयैव भवने मह्यं वस्तव्यं निर्विशङ्कया॥ ६.१२ ॥

इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा।
सम्भाव्यास्ते न चाख्येयमिदं भगवते क्वचित्॥ ६.१३ ॥

सवर्णोवाच
आ कचग्रहणाद्देवि आ शापान्नैव कर्हिचित्।
आख्यास्यामि नमस्तुभ्यं गच्छ देवि यथासुखम्॥ ६.१४ ॥

लोमहर्षण उवाच
समादिश्य सवर्णान्तु तथेत्युक्ता तया च सा।
त्वष्टुः समीपमगमद्व्रीडितेव तपस्विनी॥ ६.१५ ॥

पितुः समीपगा सा तु पित्रा निर्भर्त्सिता शुभा।
भर्त्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः॥ ६.१६ ॥

आगच्छद्वडवा भूत्वाच्छाद्य रूपमनिन्दिता।
कुरूनथोत्तरान् गत्वा तृणान्यथ चचार ह॥ ६.१७

द्वितीयायान्तु संज्ञायां संज्ञेयमिति चिन्तयन्।
आदित्यो जनयामास पुत्रमात्मसमं तदा॥ ६.१८ ॥

पूर्व्वजस्य मनोर्विप्राः सदृशोऽयमिति प्रभुः।
मनुरेवाभवन्नाम्ना सावर्ण इति चोच्यते॥ ६.१९ ॥

द्वितीयो यः सुतस्तस्याः स विज्ञेय शनैश्चरः।
संज्ञा तु पार्थिवी विप्राः स्वस्य पुत्रस्य वै तदा॥ ६.२0 ॥

चकाराभ्यधिकं स्नेहं न तथा पूर्व्वजेषु वै।
मनुस्तस्याः क्षमत्तत्तु यमस्तस्या न चक्षमे॥ ६.२१ ॥

स वै रोषाच्च बाल्याच्च बाविनोऽर्थस्य वानघ।
पदा सन्तर्ज्जयामास संज्ञां वैवस्वतो यमः॥ ६.२२ ॥

तं शशाप ततः क्रधात् सावर्णजननी तदा।
चरणः पततामेष तवेति भृशदुःखिता॥ ६.२३ ॥

यमस्तु तत्पितुः सर्व्वं प्राञ्जलिः प्रत्यवेदयत्।
भृशं शापभयोद्विग्नः संज्ञावाक्यैर्विशङ्कितः॥ ६.२४ ॥

शापोऽयं विनिवर्त्तव प्रोवाच पितरं द्विजाः।
मात्रा स्नेहेन सर्व्वेषु वर्त्तितव्यं सुतेषु वै॥ ६.२५ ॥

सेयमास्मानपास्येह विवस्वन् सम्बुभूषति।
तस्यां मयोद्यतः पादो न तु देहे निपातितः॥ ६.२६ ॥

बाल्याद्वा यदि वा लौल्यान्मोहात्तत्क्षन्तुमर्हसि।
शप्तोऽहमस्मि लोकेश जनन्या तपतां वर॥ ६.२७ ॥

तव प्रसादाच्चरणो न पतेन्मम गोपते
विवस्वानुवाच
असंशयं पुत्र महृद्भविष्यत्यत्र कारणम्।
येन त्वामाविशत् क्रोधो धर्म्मज्ञं सत्यवादिनम्॥ ६.२८ ॥

न शक्यमेतन्मिथ्या तु कर्त्त मातृवचस्तव।
कृमयो मांसमादाय यास्यन्त्यवनिमेव च॥ ६.२९ ॥

कृतमेवं वचस्तथ्यं मातुस्तव भविष्यति।
शापस्य परिहारेण त्वं च त्रातो भविष्यसि॥ ६.३0 ॥

आदित्यश्चाब्रवीत् संज्ञां किमर्थं तनयेषु वै॥
तुल्येष्वभ्यधिकः स्नेह एकस्मिन् क्रियते त्वया॥ ६.३१ ॥

सा तत् परिहरन्ती तु नाचचक्षे विवस्वते।
स चात्मानं समाधाय योगात्तथ्यमपश्यत॥ ६.३२ ॥

तां शप्तुकामो भगवान्नाशपन्मुनिसत्तमाः।
मूर्द्धजेषु निजग्राह स तु तां मुनिसत्त्माः॥ ६.३३ ॥

ततः सर्व्वं यथावृत्तमाचचक्षे विवस्वते।
विवस्वानथ तच्छ्रुत्वा क्रुद्धस्त्वष्टारमभ्यगात्॥ ६.३४ ॥

दृष्ट्वा तु तं यथान्यायमर्च्चयित्वा विभावसुम्।
निर्दग्धुकामं रोषेण सान्त्वयामास वै तदा॥ ६.३५ ॥

त्वष्टोवाच
तवातितेजसाविष्टमिदं रूपं न शोभते।
असहन्ती च संज्ञा सा वने चरति शाद्वले॥ ६.३६ ॥

द्रष्टा हि तां भवानद्य स्वां भार्य्यां शुभचारिणीम्।
श्लाघ्यां योगबलोपेतां योगमास्थाय गोपते॥ ६.३७ ॥

अनुकूलं तु ते देव यदि स्यान्मम सम्मतम्।
रूपं निर्वर्त्तयाम्यद्य तव कान्तमरिन्दम॥ ६.३८ ॥

ततोऽभ्युपागमत्त्वष्टा मार्त्तव्डस्य विवस्वतः।
भ्रमिमारोप्य तत्तेजः सातयामास भो द्विजाः॥ ६.३९ ॥

ततो निर्भासितं रूपं तेजसा संहतेन वै।
कान्तात् कान्ततरं द्रष्टुमधिकं शुसुभ तदा ॥ ६.४0 ॥

ददर्श योगमास्ताय स्वां भार्य्यां वडवां ततः।
अधृष्यां सर्व्वभूतानां तेजसा नियमेन च॥ ६.४१ ॥

वडवावपुषा विप्राश्चरन्तीमकुतोभयाम्।
सोऽश्वरूपेण भगवांस्तां मुखे समभावयत्॥ ६.४२ ॥

मैथुनाय विचेष्टन्तीं परपुंसोऽवशङ्कया।
सा तन्निरवमच्छुक्रं नासिकाभ्यां विवस्वतः॥ ६.४३ ॥

देवौ तस्यामजायेतामश्विनौ भिषजां वरौ।
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति॥ ६.४४ ॥

मार्त्तण्डस्यात्मजावेतावष्टमस्य प्रजापतेः।
तां तु रूपेण कान्तेन दर्शयामास भास्करः॥ ६.४५ ॥

सा तु दृष्ट्वैव भर्त्तारं तुतोष मुनिसत्तमाः।
यमस्तु कर्म्मणा तेन भृशं पीडितमानसः॥ ६.४६ ॥

धर्मेण रञ्जयामास धर्म्मराज इमाः प्रजाः।
स लेभे कर्म्मणा तेन शुभेन परमद्युतिः॥ ६.४७ ॥

पितणामाधिपत्यं च लोकपालत्वमेव च।
मनुः प्रजापतिस्त्वासीत्सावर्णिः स तपोधनाः॥ ६.४८ ॥

भाव्यः समागते तस्मिन्मनुः सावर्णिकेऽनतरे।
मेरुपृष्ठे तपो नित्यमद्यापि स चरत्युत॥ ६.४९ ॥

भ्राता शनैस्चरस्तस्य ग्रहत्वं स तु लब्धवान्।
त्वष्टा तु तेजसा तेन विष्णोश्चक्रमकल्पयत्॥ ६.५0 ॥

तदप्रतिहतं युद्धे दानवान्तचिकीर्षया।
यवीयसी तु साप्यासीद्यामी कन्या यशस्विनी॥ ६.५१ ।

अभवच्च सरिच्छ्रेष्ठा यमुना लोकपावनी
मनुरित्युच्यते लोके सावर्ण इति चोच्यते॥ ६.५२ ॥

द्वितीयो यः सुतस्तस्य मनोर्भ्राता शनैश्चरः।
ग्रहत्वं स च लेभे वै सर्व्वलोकाभिपूजितः॥ ६.५३ ॥

य इदं जन्म देवानां श्रुणुयान्नारसत्तमः।
आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद्यशः॥ ६.५४ ॥

इति श्रीब्रह्मे महापुराणे आदित्योत्पत्तिकथनं नाम षष्ठोऽध्यायः॥ ६ ॥