"रामायणम्/अयोध्याकाण्डम्/सर्गः ९४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
New Page
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{header
{{header
| title = [[../../]]
| title = [[../]]
| author = वाल्मीकिः
| author = वाल्मीकिः
| translator =
| translator =
| section = सर्गः ९४
| section = अयोध्याकाण्डम्
| previous = [[../सर्गः ९३|सर्गः ९३]]
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ९३|सर्गः ९३]]
| next = [[../सर्गः ९५|सर्गः ९५]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ९५|सर्गः ९५]]
| notes =
| notes =
}}
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
<poem>
<poem>
दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रिय: ।
दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रिय: ।

०८:२२, १७ डिसेम्बर् २०१५ इत्यस्य संस्करणं

← सर्गः ९३ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ९५ →
रामायणम्/अयोध्याकाण्डम्
दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रिय: ।
वैदेह्या: प्रियमाकांक्षन् स्वं च चित्तं विलोभयन् ।। २.९४.१ ।।

अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् ।
भार्य्याममरसङ्काश: शचीमिव पुरन्दर: ।। २.९४.२ ।।

न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभव: ।
मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ।। २.९४.३ ।।

पश्येममचलं भद्रे नानाद्विजगणायुतम् ।
शिखरै: खमिवोद्विद्धैर्द्धातुमद्भिर्विभूषितम् ।। २.९४.४ ।।

केचिद्रजतसङ्काशा: केचित् क्षतजसन्निभा: ।
पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभा: ।। २.९४.५ ।।

पुष्पार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभा: ।
विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिता: ।। २.९४.६ ।।

नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृत: ।
अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुत: ।। २.९४.७ ।।

आम्रजम्ब्वसनैर्लोध्रै: प्रियालै: पनसैर्धवै: ।
अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभि: ।। २.९४.८ ।।

काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा ।
बदर्य्यामलकैर्नीपैर्वेत्रधन्वनबीजकै: ।। २.९४.९ ।।

पुष्पवद्भि: फलोपेतैश्छायावद्भिर्मनोरमै: ।
एवमादिभिराकीर्ण: श्रियं पुष्यत्ययं गिरि: ।। २.९४.१० ।।

शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् ।
किन्नरान् द्वन्द्वशो भद्रे रममाणान् मनस्विन: ।। २.९४.११ ।।

शाखावसक्तान् खङ्गांश्च प्रवराण्यम्बराणि च ।
पश्च विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ।। २.९४.१२ ।।

जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित् ।
स्रवद्भिर्भात्ययं शैल: स्रवन्मद इव द्विप: ।। २.९४.१३ ।।

गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् ।
घ्राणतर्प्पणमभ्येत्य कं नरं न प्रहर्षयेत् ।। २.९४.१४ ।।

यदीह शरदो ऽनेकास्त्वया सार्द्धमनिन्दिते ।
लक्ष्मणेन च वत्स्यामि न मां शोक: प्रधक्ष्यति ।। २.९४.१५ ।।

बहुपुष्पफले रम्ये नानाद्विजगणायुते ।
विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि ।। २.९४.१६ ।।

अनेन वनवासेन मया प्राप्तं फलद्वयम् ।
पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ।। २.९४.१७ ।।

वैदेहि रमसे कच्चिच्चित्रकूटे मया सह ।
पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान् ।। २.९४.१८ ।।

इदमेवामृतं प्राहू राज्ञि राजर्षय: परे ।
वनवासं भवार्थाय प्रेत्य मे प्रपितामहा: ।। २.९४.१९ ।।

शिला: शैलस्य शोभन्ते विशाला: शतशो ऽभित: ।
बहुला बहुलैर्वर्णैर्नीलपीतसितारुणै: ।। २.९४.२० ।।

निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव ।
ओषध्य: स्वप्रभालक्ष्या भ्राजमाना: सहस्रश: ।। २.९४.२१ ।।

केचित् क्षयनिभा देशा: केचिदुद्यानसन्निभा: ।
केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ।। २.९४.२२ ।।

भित्त्वेव वसुधां भाति चित्रकूट: समुत्थित: ।
चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वत: शुभ: ।। २.९४.२३ ।।

कुष्ठपुन्नागस्ऺथगरभूर्जपत्रोत्तरच्छदान् ।
कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् ।। २.९४.२४ ।।

मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रज: ।
कामिभिर्वनिते पश्य फलानि विविधानि च ।। २.९४.२५ ।।

वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून् ।
पर्वतश्चित्रकूटो ऽसौ बहुमूलफलोदक: ।। २.९४.२६ ।।

इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च ।
रतिं प्रपत्स्ये कुलधर्मवर्द्धनीं सतां पथि स्वैर्नियमै: परै: स्थित: ।। २.९४.२७ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्नवतितम: सर्ग: ।। ९४ ।।