"तैत्तिरीयारण्यकम्(विस्वर)" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
<big><big><big>तैत्तिरीयारण्यकम् (अपूर्ण)
<big><big><big>तैत्तिरीयारण्यकम् (अपूर्ण)


[[/02/|आगामी पृष्ठः (प्रपाठकाः ४ - ८)]]
[[/02/|आगामी पृष्ठः (प्रपाठकाः ४ - ८)]]


प्रपाठकाः १ - ३
प्रपाठकाः १ - ३



०५:१७, ७ आगस्ट् २०१५ इत्यस्य संस्करणं

तैत्तिरीयारण्यकम् (अपूर्ण)

                                                                     आगामी पृष्ठः (प्रपाठकाः ४ - ८)


प्रपाठकाः १ - ३

    तैत्तिरीयारण्यकम्

 

भद्रं  कर्णेभिः शृणुयाम देवाः  । 

भद्रं  पश्येमाक्षभिर्यजत्राः   

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः  । 

व्यशेम देवहितं यदायुः   

स्वस्ति न इन्द्रो  वृद्धश्रवाः  । 

स्वस्ति नः पूषा विश्वदेवाः   

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः  । 

स्वस्ति नो बृहस्पतिर्दधातु 

ॐ शान्तिः शान्तिः शान्तिः 

 

प्रपाठक   अनुवाक

भद्रं  कर्णेभिः शृणुयाम देवाः    भद्रं  पश्येमाक्षभिर्यजत्राः    स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः    व्यशेम देवहितं यदायुः  स्वस्ति इन्द्रो  वृद्धश्रवाः    स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः    स्वस्ति नो बृहस्पतिर्दधातु  आपमापामपः सर्वाः    अस्मादस्मादितोऽमुतः  ( ) अग्निर्वायुश्च सूर्यश्च    सह संचस्करर्द्धिया    वाय्वश्वा रश्मिपतयः    मरीच्यात्मानोऽद्रुहः    देवीर्भुवनसूवरीः    पुत्रवत्त्वाय मे सुत  महानाम्नीर्महामानाः    महसो महसः स्वाः    देवीः पर्जन्यसूवरीः    पुत्रवत्त्वाय मे सुत  ( ) अपाश्न्युष्णिमपा रक्षः    अपाश्न्युष्णिमपा रघम्    अपाघ्रामप चावर्त्तिम्    अप देवीरितो हित    वज्रं देवीरजीतांश्च    भुवनं देवसूवरीः    आदित्यानदितिं देवीम्    योनिनोर्ध्वमुदीषत  शिवा नः शंतमा भवन्तु    दिव्या आप ओषधयः  सुमृडीका सरस्वति    मा ते व्योम संदृशि ( )

अमुतः सुतौषधयो द्वे ।।

 

अनुवाक

स्मृतिः प्रत्यक्षमैतिह्यम्    अनुमानश्चतुष्टयम्  एतैरादित्यमण्डलम्    सर्वैरेव विधास्यते  सूर्यो मरीचीमादत्ते    सर्वस्माद्भुवनादधि  तस्याः पाकविशेषेण    स्मृतं कालविशेषणम्  नदीव प्रभवात्काचित्    अक्षय्यात्स्यन्दते यथा (१) । तां नद्योऽभिसमायन्ति    सोरुः सती निवर्तते  एवं नानासमुत्थानाः  कालाः संवत्सरं श्रिताः  अणुशश्च महशश्च    सर्वे समवयन्त्रि तम्  तैः सर्वैः समाविष्टः    उरुः सन्न निवर्तते  अधि संवत्सरं विद्यात्    तदेव  लक्षणे (२) । अणुभिश्च महद्भिश्च    समारूढः प्रदृश्यते  संवत्सरः प्रत्यक्षेण नाधिसत्त्वः  प्रदृश्यते  पटरो विक्लिधः पिङ्गः    एतद्वरुणलक्षणम्  यत्रैतदुपदृश्यते    सहस्रं तत्र नीयते  एकं हि शिरो नाना मुखे    कृत्स्नं तदृतुलक्षणम् ( ३)  उभयतः सप्तेन्द्रियाणि    जल्पितं त्वेव दिह्यते  शुक्लकृष्णे संवत्सरस्य     दक्षिणवामयोः पार्श्वयोः  तस्यैषा भवति  शुक्रं ते अन्यद्यजतं ते अन्यत्    विषुरूपे अहनी द्यौरिवासि    विश्वा हि माया अवसि स्वधावः    भद्रा  ते पूषन्निह रातिरस्त्विति  नात्र भुवम्    पूषा    पशवः    नादित्यः संवत्सर एव प्रत्यक्षेण प्रियतमं विद्यात्    एतद्वै संवत्सरस्य प्रियतमं रूपम्    योऽस्य महानर्थ उत्पत्स्यमानो भवति    इदं पुण्यं कुरुष्वेति    तमाहरणं  दद्यात्  (४) । यथा लक्षण ऋतुलक्षणं भुवनं सप्त

 

1.3 अनुवाक

साकंजानां सप्तथमाहुरेकजम्    षडुद्यमा ऋषयो देवजा इति  तेषामिष्टानि विहितानि धामशः    स्थात्रे रेजन्ते विकृतानि रूपशः  को नु मर्या अमिथितः    सखा सखायमब्रवीत्    जहाको अस्मदीषते  यस्तित्याज सखिविदं सखायम्    तस्य वाच्यपि भोगो अस्ति  यदीं शृणोत्यलकं शृणोति  (१) । हि प्रवेद सुकृतस्य पन्थामिति  ऋतुरृतुना नुद्यमानः    विननादाभिधावः    षष्टिश्च त्रिंशका वल्गाः    शुक्लकृष्णौ षष्टिकौ  सारागवस्त्रैर्जरदक्षः    वसन्तो वसुभिः सह    संवत्सरस्य सवितुः    प्रैषकृत्प्रथमः स्मृतः अमूनादयतेत्यन्यान्  (२) अमूंश्च परिरक्षतः    एता वाचः प्रयुज्यन्ते    यत्रैतदुपदृश्यते  एतदेव  विजानीयात्    प्रमाणं कालपर्यये  विशेषणं तु वक्ष्यामः    ऋतूनां तन्निबोधत  शुक्लवासा रुद्र गणः    ग्रीष्मेणावर्तते  सह    निजहन्पृथिवीं सर्वाम्  (३) । ज्योतिषाऽप्रतिख्येन सः    विश्वरूपाणि वासांसि    आदित्यानां निबोधत  संवत्सरीणं कर्मफलम्    वर्षाभिर्ददतां सह  अदुःखो दुःखचक्षुरिव   तद्मा पीत इव दृश्यते  शीतेनाव्यथन्निव    रुरुदक्ष इव दृश्यते  ह्लादयते ज्वलतश्चैव    शाम्यतश्चास्य चक्षुषी  या वै प्रजा भ्रंश्यन्ते    संवत्सरात्ता  भ्रंश्यन्ते  याः प्रति तिष्ठन्ति    संवत्सरे ताः प्रति तिष्ठन्ति    वर्षाभ्य इत्यर्थः 

(४) । शृणोत्यन्यान्सर्वामेव षट्च ।।

 

अनुवाक 

अक्षिदुःखोत्थितस्यैव    विप्रसन्ने कनीनिके  आङ्क्ते चाद्गणं नास्ति    ऋभूणां तन्निबोधत  कनकाभानि वासांसि    अहतानि निबोधत  अन्नमश्नीत मृज्मीत    अहं वो जीवनप्रदः  एता वाचः प्रयुज्यन्ते    शरद्यत्रोपदृश्यते () अभिधून्वन्तोऽभिघ्नन्त इव    वातवन्तो मरुद्गणाः    अमुतो जेतुमिषुमुखमिव    संनद्धाः सह ददृशे   अपध्वस्तैर्वस्तिवर्णैरिव    विशिखासः कपर्दिनः  अक्रुद्धस्य योत्स्यमानस्य    क्रुद्धस्येव लोहिनी  हेमतश्चक्षुषी विद्यात्    अक्ष्णयोः क्षिपणोरिव () दुर्भिक्षं देवलोकेषु    मनूनामुदकं गृहे  एता वाचः प्रवदन्तीः    वैद्युतो यान्ति शैशिरीः  ता अग्निः पवमाना अन्वैक्षत    इह जीविकामपरिपश्यन्  तस्यैषा भवति  इहेह वः स्वतपसः    मरुतः सूर्यत्वचः  शर्म सप्रथा आवृणे ()  

दृश्यत इवावृणे

 

1.5  अनुवाक  ५ 

अतिताम्राणि वासांसि    अष्टिवज्रिशतघ्नि   विश्वे देवा विप्रहरन्ति    अग्निजिह्वा असश्चत्  नैव देवो मर्त्यः    राजा वरुणो विभुः  नाग्निर्नेन्द्रो  पवमानः    मातृक्कच्चन विद्यते  दिव्यस्यैका धनुरार्त्निः    पृथिव्यामपरा श्रिता () तस्येन्द्रो  वम्रिरूपेण    धनुर्ज्यामच्छिनत्स्वयम्  तदिन्द्र धनुरित्यज्यम्    अभ्रवर्णेषु चक्षते    एतदेव शंयोर्बार्हस्पत्यस्य    एतद्रुद्रस्य धनुः  रुद्रस्य त्वेव धनुरार्त्निः    शिर उत्पिपेष    प्रवर्ग्योऽभवत्  तस्माद्यः सप्रवर्ग्येण यज्ञेन यजते    रुद्रस्य शिरः प्रतिदधाति  नैनं रुद्र  आरुको भवति    एवं वेद () श्रिता यजते त्रीणि

 

1.6 अनुवाक

अत्यूर्ध्वाक्षोऽतिरश्चात्    शिशिरः प्रदृश्यते  नैव रूपं वासांसि    चक्षुः प्रतिदृश्यते  अन्योन्यं तु हिंस्रातः    सतस्तद्देवलक्षणम्  लोहितोऽक्ष्णि शार शीर्ष्णिः    सूर्यस्योदयनं प्रति  त्वं करोषि न्यञ्जलिकाम्    त्वं करोषि निजानुकाम्  () नि जानुका मे न्यञ्जलिका    अमी वाचमुपासतामिति    तस्मै सर्व ऋतवो नमन्ते    मर्यादाकरत्वात्प्र पुरोधाम्  ब्राह्मण आप्नोति    एवं वेद    खलु संवत्सर एतैः  सेनानीभिः सह    इन्द्राय सर्वान्कामानभिवहति    द्रप्सः    तस्यैषा भवति () अव द्र प्सो  अंशुमतीमतिष्ठत्    इयानः कृष्णो दशभिः सहस्रैः    आवर्तमिन्द्रः शच्या धमन्तम्    उप स्नुहि तं नृमणामथ द्रामिति   एतयैवेन्द्रः सलावृक्या सह    असुरान्परिवृश्चति    पृथिव्यंशुमती    तामन्ववस्थितः संवत्सरो दिवं   नैवंविदुषाचार्यान्तेवासिनौ    अन्योन्यस्मै द्रुह्याताम्    यो द्रुह्यति  भ्रश्यते स्वर्गाल्लोकात्    इत्यृतुमण्डलानि    सूर्यमण्डलान्याख्यायिकाः अत ऊर्ध्वं सनिर्वचनाः () निजानुकां भवति द्रुह्यातां पञ्च

 

1.7 अनुवाक ७

आरोगो भ्राजः पटरः पतङ्गः । स्वर्णरो ज्योतिषीमान्विभासः । ते अस्मै सर्वे दिवमातपन्ति । ऊर्ज दुहाना अनपस्फुरन्त इति, इति । कश्यपोऽष्टमः । स महामेरुं न जहाति । तस्यैषा भवति, इति । यत्ते शिल्पं कश्यप रोचनावत् । इन्द्रियावत्पु-ष्कलं चित्रभानु । यस्मिन्त्सूर्या अर्पिताः सप्त सकम्।() तस्मिन्नाजानमधिविश्रयेममिति,इति । ते अस्मै सर्वे कश्यपाज्ज्योतिर्लभन्ते । तान्त्सोमः कश्यपादधिनिर्धमति । भ्रस्ताकर्मकृदिवैवम्- इति । प्राणो जीवानीन्द्रियजीवानि । सप्त शीर्षण्याः प्राणाः । सूर्या इत्याचार्याः, इति । अपश्यमहमेतान्त्सप्त सूर्यानिति । पञ्चकर्णो वात्स्यायनः । सप्तकर्णश्च प्ल्राक्षिः ( ) । आनुश्रविकं एव नौ कश्यप इति । उभौ वेदयिते । न हि शेकुमिव महामेरुं गन्तुम्,इति । अपश्यमहमेतत्सूर्यमण्डलं परिवर्तमानम् । गार्ग्यः प्राणत्रातः । गेच्छन्त महामेरुम् । एकं चाजहतम्, इति । भ्राजपटरपतङ्गा निहने । तिष्ठन्नातपन्ति । तस्मादिह तपत्त्रितपाः ( ) । अमुत्रेतरे । तस्मादिहातपत्त्रितपाः, इति । तेषामेषा भवति, इति । सप्त सूर्या दिवमनुप्रविष्टाः । तानन्वेति पथिभिर्दक्षिणावान् । ते अस्मै सर्वे घृतमातपन्ति । ऊर्ज दुहाना अनपस्फुरन्त इति, इति । सप्तर्त्विजः सूर्या इत्याचार्याः, इति । तेषामेषा भवति, इति । सप्त दिशो नानासूर्याः ( ) । सप्त होतार ऋत्विजः । देवा आदित्या ये सप्त । तेभिः सोमाभीरक्ष ण इति, इति । तदप्याम्नायः । दिग्भ्राज ऋतूऽन्करोति, इति । एतयैवाऽऽवृताऽऽ सहस्रसूर्यताया इति वैशम्पायनः, इति । तस्यैषा भवति, इति । यद्द्याव इन्द्र ते शत शतं भूमीः । उत स्युः । न त्वा वज्रिन्त्सहस्र सूर्याः ( ) । अनु न जातमष्ट रोदसी इति, इति । नानालिङ्गत्वादृतूनां नानासूर्यत्वम्, इति । अष्टौ तु व्यवसिता इति, इति । सूर्यमण्डलान्यष्टात ऊर्ध्वम्, इति । तेषामेषा भवति, इति । चित्रं देवानामुदगादनीकम्। । चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षम् । सूर्य आत्मा जगतस्तस्थुषश्चेति() इति । साकं प्लाक्षिस्तपत्त्रितपा नानासूर्याः सूर्या नव च ।।

इति कृष्णयजुर्वेदीयत्तैतिरीयारण्यके प्रथमप्रपाठके सप्तमोऽनुवाकः ।। ७ ।।

 

1.8 अनुवाक ८

क्वेदमभ्रं निविशते । क्वाय संवत्सरो मिथः । क्वाहः(काहः?) क्वेयं देव रात्री । क्व मासा ऋतवः श्रिताः, इति । अर्धमासा मुहूर्ताः । निमेषास्त्रुटिभिः सह । क्वेमा आपो निविशन्ते ।यदीतो यान्ति संप्रति, इति । काला अप्सु निविशन्ते । आपः सूर्ये समाहिताः ( ) । अभ्राण्यपः प्रपद्यन्ते । विद्युत्सूर्ये समाहिता, इति । अनवर्णे इमे भूमी । इयं चासौ च रोदसी, इति । किस्विदत्रान्तरा भृतम् । येनेमे विधृते उभे । विष्णुना विधृते भूमी । इति वत्सस्य वेदना, इति । इरावती धेनुमती हि भूतम् । सूयवसिनी मनुषे दशस्ये ( ) । व्यष्टभ्नाद्रोदसी विष्णवेते । दाधर्थ पृथिवीमभितो मयूखैः, इति । किं तद्विष्णोर्बलमाहुः । का दीप्तिः किं परायणम् । एको यद्धारयद्देवः । रेजती रोदसी उभे, इति । वाताद्विष्णोर्बलमाहुः । अक्षराद्दीप्तिरुच्यते । त्रिपदाद्धारयद्देवः । यद्विष्णोरेकमुत्तमम् ( ), इति । अग्नयो वायवश्चैव । एतदस्य परायणम्, इति । पृच्छामि त्वां परं मृत्युम् । अवमं मध्यमं चतुम् । लोकं च पुण्यपापानाम् । एतत्पृच्छामि संप्रति, इति । अमुमाहुः परz मृत्युम् । पवमानं तु मध्यमम् । अग्निरेवावमो मृत्युः । चन्द्रमाश्चतुरुच्यते ( ), इति । अनाभोगाः परं मृत्युम् । पापाः संयन्ति सर्वदा । आभोगास्त्वेव संयन्ति । यत्र पुण्यकृतो जनाः, इति । ततो मध्यममायन्ति । चतुमग्निं च संप्रति, इति । पृच्छामि त्वा पापकृतः । यत्र यातयते यमः । त्वं नस्तद्ब्रह्मन्प्रब्रूहि । यदि वेत्थासतो गृहान् ( ), इति । कश्यपादुदिताः सूर्याः । पापान्निर्घ्नन्ति सर्वदा । रोदस्योरन्तर्देशेषु । तत्र न्यस्यन्ते वासवैः, इति । तेऽशरीराः प्रपद्यन्ते । यथाऽपुण्यस्य कर्मणः । अपाण्यपादकेशासः । तत्र तेऽयोनिजा जनाः, इति । मृत्वा पुनर्मृत्युमापद्यन्ते । अद्यमानाः स्वकर्मभिः () । आशातिकाः क्रिमय इव । ततः पूयन्ते वासवैः, इति । अपैतं मृत्युं जयति । य एवं वेद । स खल्वैवंविद्ब्राह्मणः । दीर्घश्रुत्तमो भवति । कश्यपस्यातिथिः सिद्धगमनः सिद्धागमनः, इति । तस्यैषा भवति, इति । आ यस्मिन्त्सप्त वासवाः । रोहन्ति पुण्या रुहः ( ) । ऋषिर्ह दीर्घश्रुत्तमः । इन्द्रस्य घर्मो अतिथिरिति, इति । कश्यपः पश्यको भवति । यत्सर्वं परिपश्यतीति सौक्ष्म्यात्, इति ।

अथाग्नेरष्टपुरुषस्य । तस्यैषा भवति, इति । अग्ने नय सुपथा राये अस्मान् । विश्वानि देव वयुनानि व्रिद्वान् । युयोध्यस्मज्जुहुराणमेनः । भूयिष्ठा ते नमउक्तिं विधेमेति ( ), इति । समाहिता दशस्ये उत्तममुच्यते गृहान्त्स्वकर्मभिः पूर्व्या रुह इति ।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठकेऽष्टमोऽनुवाकः ।। ८ ।।

 

1.9 अनुवाक ९

अग्निश्च जातवेदश्च । सहोजा अजिराप्रभुः । वैश्वानरो नर्यापाश्च । पङ्क्तिराधाश्च सप्तमः । विसर्पेवाऽष्टमोऽग्नीनाम् । एतेऽष्टौ वसवः क्षिता इति, इति । यथर्त्वेवाग्नेरर्चिर्वर्णविशेषाः । नीलार्चिश्च पीतकार्चिश्चेति, इति । अथ वायोरेकादशपुरुषस्यैकादशस्त्रीकस्य, इति । प्रभ्राजमाना व्यवदाताः ( ) । याश्च वासुकिवैद्युताः । रजताः परुषाः श्यामाः । कपिला अतिलोहिताः । ऊर्ध्वा अवपतन्ताश्च । वैद्युत इत्येकादश, इति । नैनं वैद्युतो हिनस्ति । य एवं वेद, इति । स होवाच व्यासः पाराशर्यः । विद्युद्वधमेवाहं मृत्युमैच्छमिति, इति । न त्वकाम हन्ति ( ) । य एवं वेद, इति । अथ गन्धर्वगणाः, इति । स्वानभ्राट् । अङ्घारिर्बम्भारिः । हस्तः सुहस्तः । कृशानुर्विश्वावसुः । मूर्धन्वानसूर्यवर्चाः । कृतिरित्येकादश गन्धर्वगणाः, इति । देवाश्च महादेवाः । रश्मयश्च देवा गरगिरः ( ), इति । नैनं गरो हिनस्ति । य एवं वेद, इति । गौरी मिमाय सलिलानि तक्षती । एकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूबुषी । सहस्राक्षरा परमे व्योमन्निति, इति । वाचो विशेषणम्, इति । अथ निगदव्याख्याताः । ताननुक्रमिष्यामः, इति । बराहवः स्वतपसः ( ) । विद्युन्महसो धूपयः । श्वापयो गृहमेधाश्चेत्येते । ये चेमेऽशिमिविद्विषः, इति । पर्जन्याः सप्त पृथिवीमभिवर्षन्ति । वृष्टिभिरिति । एतयैव विभक्तिविपरीताः । सप्तभिर्वातैरुदीरिताः । अमूँल्लोकानभिवर्षन्ति । तेषामेषा भवति, इति । समानमेतदुदकम् ( ) । उच्चैत्यव चाहभिः । भूमिं पर्जन्या जिन्वन्ति । दिवं जिन्वन्त्यग्नय इति, इति । यदक्षरं भूतकृतम् । विश्वे देवा उपासते । महर्षिमस्य गोप्तारम् । जमदग्निमकुर्वत, इति । जमदग्निराप्यायते । छन्दोभिश्चतुरुत्तरैः । राज्ञः सोमस्य तृप्तासः ( ) । ब्रह्मणा वीर्यावता । शिवा नः प्रदिशो दिशः, इति । तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे। शं चतुष्पदे, इति । सोमपा३ असोमपा३ इति निगदव्याख्याताः ( ), इति । व्यवदाता हन्ति गरगिरस्ततपस उदकं तृप्तासश्चतुष्पद एकं च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके नवमोऽनुवाकः ।। ९ ।।

 

1.10 अनुवाक १०

सहस्रवृदियं भूमिः । परं व्योम सहस्रवृत् । अश्विना भुज्यू नासत्या । विश्वस्य जगतस्पती, इति । जाया भूमिः पतिर्व्योम । मिथुनं ता अतुर्यथुः । पुत्रो बृहस्पती रुद्रः । सरमा इति स्त्रीपुमम्, इति । शुक्रं वामन्यद्यजतं वामन्यत् । विषुरूपे अहनी द्यौरिव स्थः () । विश्वा हि माया अवथः स्वधावन्तौ । भद्रा वां पूषणाविह रातिरस्तु, इति । वासात्यौ चित्रौ जगतो निधानौ । द्यावाभूमी चरथः स सखायौ । तावश्विना रासभाश्वा हवं मे । शुभस्पती आगत सूर्यया सह, इति । त्युग्रो ह भुज्युमश्विनोदमेघे । रुयिं न कश्चिन्ममृवां३ अवाहाः । तमूहथुर्नौभिरात्मन्वतीभिः । अन्तरिक्षप्रुड्भिरपोदकाभिः (), इति । तिस्रः क्षपस्त्रिरहाऽतिव्रजद्भिः । नासत्या भुज्युमूहथुः पतत्रैः । समुद्रस्य धन्वन्नार्द्रस्य पारे । त्रिभी रथैः शतपद्भिः षडश्वैः, इति । सवितारं वितन्वन्तम् । अनुबध्नाति शाम्बरः । आपपूरु षम्वरश्चैव। सविताऽरेपसो भवत्, इति । त्य सुतृप्तं विदित्वैव । बहुसोमगिरं वशी ( ) । अन्वेति तुग्रो वक्रियां तम् । आयसूयान्त्सोमतृप्सुषु, इति । स संग्रामस्तमोद्योऽत्योतः । वाचो गाः पिपाति तत् । स तद्गोभिः स्तवाऽत्येत्यन्ये । रक्षसाऽनन्विताश्च ये, इति । अन्वेति परिवृत्यास्तः । एवमेतौ स्थो अश्विना । ते एते द्युःपृथिव्योः । अहरहर्गर्भं दधाथे ( ), इति । तयोरेतौ वत्सावहोरात्रे । पृथिव्या अहः । दिवो रात्रिः । ता अविसृष्टौ । दंपती एव भवतः, इति । तयोरेतौ वत्सौ । अग्निश्चाऽऽदित्यश्च। रात्रेर्वत्सः । श्वेत आदित्यः । अह्नोऽग्निः । () ताम्रो अरुणः । ता अविसृष्टौ । दंपती एव भवतः, इति । तयोरेतौ वत्सौ । वृत्रश्च वैद्युतश्च । अग्नेर्वृत्रः । वैद्युत आदित्यस्य । ता अविसृष्टौ । दंपती एव भवतः, इति । तयोरेतौ वत्सौ () । उष्मा च नीहारश्च । वृत्रस्योष्मा । वैद्युतस्य नीहारः । तौ तावेव प्रतिपद्येते, इति । सेय रात्री गर्भिणी पुत्रेण संवसति । तस्या वा एतदु-ल्बणम् । यद्रात्रौ रश्मयः । यथा गोर्गर्भिण्या उल्बणम् । एवमेतस्यां उल्बणम्, इति । प्रजयिष्णुः प्रजया च पशुभिश्च भवति । य एवं वेद । एतमुद्यन्तमपियन्तं चेति । आदित्यः पुण्यस्य वत्सः, इति । अथ पवित्राङ्गिरसः ( ), इति ।। स्थोऽपोदकाभिर्वशी दधाथे अग्निस्तयोरेतौ वत्सौ भवति चत्वारि च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके दशमोऽनुवाकः ।। १० ।।

 

1.11 अनुवाक ११

पवित्रवन्तः परि वाजमासते । पितैषां प्रत्नो अभिरक्षति व्रतम् । महः समुद्रं वरुणस्तिरोदधे । धीरा इच्छेकुर्धरुणेष्वारभम्, इति । पवित्रं ते विततं ब्रह्मणस्पते । प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते । शृतास इद्वहन्तस्तत्समाशत, इति । ब्रह्मा देवानाम्, इति । असतः सद्ये ततक्षुः ( ) । ऋषयः सप्तात्रिश्च यत् । सर्वेऽत्रयो अगस्त्यश्च । नक्षत्रैः शंकृतोऽवसन्, इति । अथ सवितुः श्यावाश्वस्यावर्तिकामस्य, इति । अमी य ऋक्षा निहितास उच्चा । नक्तं ददृश्रे कुहचिद्दिवेयुः । अदब्धानि वरुणस्य व्रतानि । विचाकशच्चन्द्रमा नक्षत्रमेति, इति । तत्सवितुर्वरेण्यम् । भर्गो देवस्य धीमहि ( ) । धियो यो नः प्रचोदयात्, इति । तत्सवितुर्वृणीमहे । वयं देवस्य भोजनम् । श्रेष्ठ सर्वधातमम् । तुरं भगस्य धीमहि, इति । अपागूहत सविता तृभीन् । सर्वान्दिवो अन्धसः । नक्तं तान्यभवन्दृशे । अस्थ्यस्थ्ना संभविष्यामः, इति । नाम नामैव नाम मे ( ) । नपुसकं पुमास्त्र्यस्मि(?) । स्थावरोऽस्म्यथ जङ्गमः । यजेऽयक्षि यष्टाहे च, इति । मया भूतान्ययक्षत । पशवो मम भूतानि । अनूबन्ध्योऽस्म्यहं विभुः, इति । स्त्रियः सतीः । ता उ मे पुस आहुः । पश्यदक्षण्वान्न विचेतदन्धः । कविर्यः पुत्रः स इमा चिकेत ( ) । यस्ता वि'जानात्सवितुः पिता सत्, इति । अन्धो मणिमविन्दत् । तमनङ्गुलिरावयत् । अग्रीवः प्रत्यमुञ्चत् । तमजिह्वा असश्चत, इति । ऊर्ध्वमूलमवाक्छाखम् । वृक्षं यो वेद संप्रति । न स जातु जनः श्रद्दध्यात् । मत्युर्मा मारयादितिः, इति । हसित रुदितं गीतम् ( ) । वीणा पणवलासितम् । मृतं जीवं च यत्किंचित् । अङ्गानि स्नेव विद्धि तत्, इति । अतृष्यस्तृष्य ध्यायत् । अस्माज्जाता मे मिथू चरन् । पुत्रो निर्ऋत्या वैदेहः । अचेता यश्च चेतनः, इति । स तं मणिमविन्दत् । सोऽनङ्गुलिरावयत् । सोऽग्रीवः प्रत्यमुञ्चत् ( ) । सोऽजिह्वो असश्चत, इति । नैतमृषिं विदित्वा नगरं प्रविशेत् । यदि प्रविशेत् । मिथौ चरित्वा प्रविशेत् । तत्संभवस्य व्रतम्, इति । आ तमग्ने रथं तिष्ठ । एकाश्वमेकयोजनम् । एकचक्रमेकधुरम् । वातध्राजिगतिं विभो, इति । न रिष्यति न व्यथते ( ) । नास्याक्षो यातु सज्जति । यच्छ्वेतान्रोहिताश्चाग्नेः । रथे युक्त्वाऽधितिष्ठति, इति । एकया च दशभिश्च स्वभूते । द्वाभ्यामिष्टये विशत्या च । तिसृभिश्च वहसे त्रिशता च । नियुद्भिर्वायविह ता विमुञ्च ( ) इति ।। ततक्षुर्धीमहि नाम मे चिकेत गीतं प्रत्यमुञ्चद्व्यथते सप्त च ।।

इति कृप्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठक एकादशोऽनुवाकः ।। ११ ।।

 

1.12 अनुवाक १२

आतनुष्व प्रतनुष्व । उद्धमाऽऽधम संधम । आदित्ये चन्द्रवर्णानाम् । गर्भमाधेहि यः पुमान्, इति । इतः सिक्त सूर्यगतम् । चन्द्रमसे रसं कृधि । वारादं जनयाग्रेऽग्निम् । य एको रुद्र उच्यते, इति । असंख्याताः सहस्राणि । स्मर्यते न च दृश्यंते ( ) । एवमेतं निबोधत, इति । आ मन्द्रैरिन्द्र हरिभिः । याहि मयूररोमभिः । मा त्वा केचिन्न्येमुरिन्न पाशिनः । दधन्वेव ता इहि, इति । मा मन्द्रैरिन्द्र हरिभिः । यामि मयूररोमभिः । मा मा केचिन्न्येमुरिन्न पाशिनः । निधन्वेव ताँ३ इमि, इति । अणुभिश्च महद्भिश्च ( ) । निघृष्वैरसमायुतैः । कालैर्हरित्वमापन्नैः । इन्द्राऽऽयाहि सहस्रयुक्, इति । अग्निर्विभ्राष्टिवसनः । वायुः श्वेतसिकद्रुकः । संवत्सरो विषूवर्णैः । नित्यास्तेऽनुचरास्तव, इति ।  सुब्रह्मण्यो सुब्रह्मण्यो । इन्द्राऽऽगच्छ हरिव आगच्छ मेधातिथेः । मेष वृषणश्वस्य मेने ( ) । गौरावस्क-न्दिन्नहल्यायै जार । कौशिकब्राह्मण गौतमब्रुवाण, इति । अरुणाश्वा इहाऽऽगताः । वसवः पृथिविक्षितः । अष्टौ दिग्वाससोऽग्नयः । अग्निश्च जातवेदाश्चेत्येते, इति । ताम्राश्वास्ताम्ररथाः । ताम्रवर्णास्तथाऽसिताः । दण्डहस्ताः खादग्दतः । इतो रुद्राः परां गताः । ( ) उक्त स्थानं प्रमाणं च पुर इत, इति । बृहस्पतिश्च सविता च । विश्वरूपैरिहाऽऽगताम् । रथेनोदकवर्त्मना । अप्सुषा इति तद्वयोः, इति । उक्तो वेषो वासासि च । कालावयवानामितः प्रतीज्या । वासात्या इत्यश्विनोः । कोऽन्त-रिक्षे शब्दं करोतीति । वासिष्ठो रौहिणो मीमासां चक्रे । तस्यैषा भवति, इति । वाश्रेव विद्युदिति, इति । ब्रह्मण उदरणमसि । ब्रह्मण उदीरणमसि । ब्रह्मण आस्तरणमसि । ब्रह्मण उपस्तरणमसि(), इति ।। दृश्यते च मेने परां गताश्चक्रे षट् च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके द्वादशोऽनुवाकः ।। १२ ।।

 

1.13 अनुवाक १३

अष्टयोनीमष्टपुत्राम् । अष्टपत्नीमिमां महीम् । अहं वेद न मे मृत्युः । न चामृत्युरघाऽहरत्, इति । अष्टयोन्यष्टपुत्राम् । अष्टपदिदमन्तरिक्षम् । अहं वेद न मे मृत्युः । न चामृत्युरघाऽहरत् । अष्टयोनीमष्टपुत्राम् । अरष्टपत्नीममूं दिवम् () । अहं वेद न मे मृत्युः । न चामृत्युरघाऽहरत्, इति । सुत्रामाणं महीमूषु, इति । अदितिर्द्यौरदितिरन्तरिक्षम् । अदितिर्माता स पिता स पुत्रः । विश्वे देवा अदितिः पञ्चजनाः । अदितिर्जातमदितिर्जनित्वम, इति । अष्टौ पुत्रासो अदितेः । ये जातास्तन्वः परि । देवां३ उपप्रैत्सप्तभिः ( ) । परा मार्ताण्डमास्यत्, इति । सप्तभिः पुत्रैरदितिः । उपप्रैत्पूर्व्यं  युगम् । प्रजायै मृत्यवे तत् । परा मार्ताण्डमाभरदिति, इति । ताननुक्रमिष्यामः, इति । मित्रश्च वरुणश्च । धाता चार्यमा च । अशश्च भगश्च । इन्द्रश्च विवस्वाश्चेत्येते, इति । हिरण्यगर्भो हसः शुचिषत् । ब्रह्मजज्ञानं तदित्पदमिति, इति । गर्भः प्राजापत्यः । अथ पुरुषः सप्तपुरुषः ( ), इति ।। अमूं दिव सप्तभिरेते चत्वारि च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके त्रयोदशोऽनुवाकः ।। १३ ।।

 

1.14 अनुवाक १४

योऽसौ तपन्नुदेति । स सर्वेषां भूतानां प्राणानादायोदेति । मा मे प्रजाया मा पशूनाम् । मा मम प्राणानादायोदगाः, इति । असौ योऽस्तमेति । स सर्वेषां भूतानां प्राणा-नादायास्तमेतिं । मा मे प्रजाया मा पशूनाम् । मा मम प्राणानादायास्तं गाः, इति । असौ य आपूर्यति । स सर्वेषां भूतानां प्राणैरापूर्यति () । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरापूरिष्ठाः, इति । असौ योऽपक्षीयति । स सर्वेषां भूतानां प्राणैरपक्षीयति । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरपक्षेष्ठाः, इति । अमूनि नक्षत्राणि । सर्वेषां भूतानां प्राणैरप प्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृपत मोत्सृपत ( ), इति । इमे मासाश्चार्धमासाश्च । सर्वेषां भूतानां प्राणैरप प्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृपत मोत्सृपत ।। इम ऋतवः । सर्वेषां भूतानां प्राणैरप प्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृपत मोत्सृपत, इति । अयम् संवत्सरः । सर्वेषां भूतानां प्राणैरप प्रसर्पति चोत्सर्पति च () । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृप मोत्सृप, इति । इदमहः । सर्वेषां भूतानां प्राणैरप प्रसर्पति चोत्सर्पति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृप मोत्सृप । इय रात्रिः । सर्वेषां भूतानां प्राणैरप प्रसर्पति चोत्सर्पति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृम् मोत्सृप, इति । ॐ भूर्भुवुः स्वः, इति । एतद्वो मिथुनं मा नो मिथुन रीढ्वम्, ( ) इति । प्राणैरापूर्यति मोत्सृपत चोत्सर्पति च मोत्सृप द्वे च ।। उदेत्यस्तमेत्यापूर्यत्यपक्षीयत्यमूनि नक्षत्राणीमे मासा इम ऋतवोऽय संवत्सर इदमहरिय रात्रिर्दश ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके चतुर्दशोऽनुवाकः ।। १४ ।।

1.15   अनुवाक १५

 

अथाऽऽदित्यस्याष्टपुरुषस्य, इति । वसूनामादित्यानाँ स्थाने स्वतेजसा भानि, इति । रुद्राणामादित्यानाँ स्थाने स्वतेजसा भानि, इति । सताँ सत्यानाम् । आदित्यानाँ स्थाने स्वतेजसा भानि, इति । अभिधून्वतामभिघ्नताम् । वातवतां मरुताम् । आदित्यानाँ स्थाने स्वतेजसा भानि, इति । ऋभूणामादित्यानाँ स्थाने स्वतेजसा भानि, इति । संवत्सरस्य सवितुः । आदित्यस्य स्थाने स्वतेजसा भानि, इति । ओं भूर्भुवः स्वः । रश्मयो वो मिथुनं मा नो मिथुनँ रीढ्वम्, ( ) इति । ऋभूणामादित्यानाँ स्थाने स्वतेजसा भानि षट् च ।।

इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके पञ्चदशोऽनुवाकः ।। १५ ।।  1.15

 

1.16   अनुवाक १६

 

आरोगस्य स्थाने स्वतेजसा भानि । भ्राजस्य स्थाने स्वतेजसा भानि । पटरस्य स्थाने स्वतेजसा भानि । पतङ्गस्य स्थाने स्वतेजसा भानि । स्वर्णरस्य स्थाने स्वतेजसा भानि । ज्योतिषीमतस्य स्थाने स्वतेजसा भानि । विभासस्य स्थाने स्वतेजसा भानि । कश्यपस्य स्थाने स्वतेजसा भानि । ॐ भूर्भुवः स्वः । आपो वो मिथुनं मा नो मिथुनँ रीढ्वम् ( ), इति । आरोगस्य दश ।।

इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके षोडशोऽनुवाकः ।। १६ ।।  1.16

 

1.17   अनुवाक १७

 

अथ वायोरेकादशपुरुषस्यैकादशस्त्रीकस्य, इति । प्रभ्राजमानानाँ रुद्राणाँ स्थाने स्वतेजसा भानि । व्यवदातानाँ रुद्राणाँ स्थाने स्वतेजसा भानि । वासुकिवैद्युतानां रुद्राणां स्थाने स्वतेजसा भ्रानि । रजतानाँ रुद्राणां स्थाने स्वतेजसा भानि । परु- षाणां रुद्राणाँ स्थाने स्वतेजसा भानि । श्यामानां रुद्राणां स्थाने स्वतेजसा भानि । कपिलानां रुद्राणां स्थाने स्वतेजसा भानि । अतिलोहितानाशं रुद्राणां स्थाने स्वतेजसा भानि । ऊर्ध्वानां रुद्राणां स्थाने स्वतेजसा भानि ( ) । अवपतन्तानां रुद्राणां स्थाने स्वतेजसा भानि । वैद्युतानां रुद्राणां स्थाने स्वतेजसा भानि । प्रभ्राजमानीनां रुद्राणीनां स्थाने स्वतेजसा भानि । व्यवदातीनां रुद्राणीनां स्थाने स्वतेजसा भानि । वासुकिवैद्युतीनां रुद्राणीनां स्थाने स्वतेजसा भानि । रजतानां रुद्राणीनां स्थाने स्वतेजसा भानि । परुषाणां रुद्राणीनां स्थाने स्वतेजसा भानि । श्यामानां रुद्राणीनां स्थाने स्वतेजसा भानि । कपिलानां रुद्राणीनां स्थाने स्वतेजसा भानि । अतिलोहितीनां रुद्राणीनां स्थाने स्वतेजसा भ्रानि । ऊर्ध्वानां रुद्राणीनां स्थाने स्वतेजसा भानि । अवपतन्तीनां रुद्राणीनां स्थाने स्वतेजसा भानि । वैद्युतीनाँ रुद्राणीनां स्थाने स्वतेजसा भानि । ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनं रीढ्वम् ( ), इति । ऊर्ध्वानां रुद्राणां स्थाने स्वतेजसा भान्यतिलोहितीनां रुद्राणीनां स्थाने स्वतेजसा भानि पञ्च च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके

सप्तदशोऽनुवाकः ।। १७ ।। 1.17

 

1.18  अनुवाक १८

 

अथाग्नेरष्टपुरुषस्य, इति । अग्नेः पूर्वदिश्यस्य स्थाने स्वतेजसा भानि । जातवेदस उपदिश्यस्य स्थाने स्वतेजसा भानि । सहोजसो दक्षिणदिश्यस्य स्थाने स्वतेजसा भानि । अजिराप्रभव उपदिश्यस्य स्थाने स्वतेजसा भानि । वैश्वानरस्यापरदिश्यस्य स्थाने स्वतेजसा भानि । नर्यापस उपदिश्यस्य स्थाने स्वतेजसा भानि । पङ्तिरा-धस उदग्दिश्यस्य स्थाने स्वतेजसा भानि । विसर्पिण उपदि श्यस्य स्थाने स्वतेजसा भानि । ओं भूर्भुवः स्वः । दिशो वो मिथुनं मा नो मिथुन रीढ्वम् ( ), इति ।। स्वरेकं च ।।

एतद्रश्मय आपो रूपाणि दिशः पञ्च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठकेऽष्टादशोऽनुवाकः ।। १८ ।।

 

1.19 अनुवाक १९

 

दक्षिणपूर्वस्यां दिशि विसर्पी नरकः । तस्मान्नः परिपाहि, इति । दक्षिणापरस्यां दिश्यविसर्पी नरकः । तस्मान्नः परिपाहि, इति। उत्तरपूर्वस्यां दिशि विषादी नरकः । तस्मान्नः परिपाहि, इति । उत्तरापरस्यां दिश्यविषादी नरकः । तस्मान्नः परिपाहि, इति । आ यस्मिन्सप्त वासवा इन्द्रियाणि शतक्रतवित्येते ( ), इति ।। दक्षिणपूर्वस्यां नव ।।

इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठक एकोनविंशोऽनुवाकः ।। १९ ।। 1.19

 

1.20   अनुवाक २०

 

इन्द्रघोषा वो वसुभिः पुरस्तादुपदधताम् । मनोजवसो वः पितृभिर्दक्षिणत उपदधताम् । प्रचेता वो रुद्रैः पश्चादुपदधताम् । विश्वकर्मा व आदित्यैरुत्तरत उपदधताम् । त्वष्टा वो रूपैरुपरिष्टादुपदधताम् । संज्ञानं वः पश्चादिति, इति । आदित्यः सर्वोऽग्निः पृथिव्याम् । वायुरन्तरिक्षे । सूर्यो दिवि । चन्द्रमा दिक्षु । नक्षत्राणि स्वलोके, इति । एवा ह्येव । एवा ह्यग्ने । एवा हि वायो । एवा हीन्द्र । एवा हि पूषन् । एवा हि देवाः ( ), इति । दिक्षु, सप्त च ।।

इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके विंशोऽनुवाकः ।। २० ।। 1.20

 

1.21   अनुवाक २१

 

आपमापामपः सर्वाः । अस्मादस्मादितोऽमुतः । अग्निर्वायुश्च सूर्यश्च । सह संचस्करर्द्धिया । वाय्वश्वा रश्मिपतयः । मरीच्या त्मानो अद्रुहः । देवीर्भुवनसूवरीः । पुत्रवत्त्वाय मे सुत । महानाम्नीर्महामानाः । महसो महसः स्वः ( ) देवीः पर्जन्यसू वरीः । पुत्रवत्त्वाय मे सुत । अपाश्नुष्णिमपा रक्षः । अपाश्नुष्णिमपारघम् । अपाघ्रामप चावर्तिम् । अप देवीरितो हित । वज्रं देवीरजीतांश्च  । भुवनं देवसूवरीः । आदित्यानदितिं देवीम् । योनिनोर्ध्वमुदीषत ( ) भद्रं कर्णेभिः शृणुयामं देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवासंस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । केतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठां शतधा हि । समाहितासो सहस्रधायसम् । शिवा नः शंतमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वति । मा ते व्योम संदृशि ( ), इति । स्वरुदीषत वातरशनाः षट्च । ।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठक एकविंशोऽनुवाकः ।। २१ ।।  1.21

 

 

 

1.22  अनुवाक 22

 

योऽपां पुष्पं वेद । पुष्पवान्प्रजावान्पशुमान्भवति । चन्द्रम्रा वा अपां पुष्पम् । पुष्पवान्प्रजावान्पशुमान्भवति । य एवं वेद, इति । योऽपामायतनं वेद । आयतनवान्भवति । अग्निर्वा अपामायतनम् । यतनवान्भवति । योऽग्नेरायतनं वेद  ( १) । आयतनवान्भवति । आपो वा अग्नेरायतनम् । आयतनवान्भवति । य एवं वेद, इति । योऽपामायतनं वेद । आयतनवान्भवति । वायुर्वा अपामायतनम् । आयतनवान्भवति । यो वायोरायतनं वेद । आयतनवान्भवति ( २) । आपो वै वायोरायतनम् । आयतनान्भवति । य एवं वेद, इति । योऽपामायतनं वेद । आयतनवान्भवति । असौ वै तपन्नपामायतनम् । आयतनवान्भवति । योऽमुष्य तपत आयतनं वेद । आयनवान्भवति । आपो वा अमुष्य तपत  आयतनम् (३) । आयतनवान्भवति । य एवं वेद, इति । योऽपामायतनं वेद । आयतनवान्भवति । चन्द्रमा वा अपामायतनम् । आयतनवान्भवति । यश्चन्द्रमस आयतनं वेद । आयतवान्भवति । आपो वै चन्द्रमस आयतनम् । आयतनान्भवति ( ४) । य एवं वेद, इति । योऽपामायतनं वेद । आयतनवान्भवति । नक्षत्राणि वा अपामायतनम् । आयतनवान्भवति । यो नक्षत्राणामायतनं वेद । आयतनवान्भवति । आपो वै नक्षत्राणामा यतनम् । आयतनवान्भवति । य एवं वेद ( ५), इति । योऽपामायतनं वेद । आयतनवान्भवति । पर्जन्यो वा अपामायतनम् । आयतनवान्भवति । यः पर्जन्यस्याऽऽयतनं वेद । आयतनवान्भवति । आपो वै पर्जन्यस्याऽऽयतनम् । आयतनवान्भवति । य एवं वेद, इति । योऽपामायतनं वेद ( ६) । आयतनवान्भवति । संवत्सरो वा अपामायतनम् । आयतनवान्भवति । यः संवत्सर स्याऽऽयतनं वेद । आयतनवान्भवति । आपो वै संवत्सरस्याऽऽयतनम् । आयतनवान्भवति । य एवं वेद, इति । योऽप्सु नावं प्रतिष्ठितां वेद । प्रत्येव तिष्ठति ( ७) । इमे वै लोका अप्सु प्रतिष्ठिताः । तदेषाऽभ्यनूक्ता, इति । अपां रसमुदयं सन् । सूर्ये शुक्रम् समाभृतम् । अपाँ रसस्य यो रसः । तं वो गृह्णाम्युत्तममिति, इति । इमे वै लोका अपाँ रसः । तेऽमुष्मिन्नादित्ये समाभृताः, इति । जानुदघ्नीमुत्तरवेदीं खात्वा । अपां पूरयित्वा गुल्फदघ्नम् । ( ८) । पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च सँस्तीर्य । तस्मिन्विहायसे । अग्निं प्रणीयोपसमाधाय,, इति । ब्रह्मवादिनो वदन्ति । कस्मात्प्रणीतेऽयमग्निश्चीयते । साप्प्रणीतेऽयमप्सु ह्ययं चीयते । असौ भुवनेऽप्यनाहिताग्निरेताः । तमभित एता अबीष्टका उपदधाति, इति । अग्निहोत्रे दर्शपूर्णमासयोः । पशुबन्धे चातुर्मास्येषु । ( ९) अथो आहुः । सर्वेषु यज्ञक्रतुष्विति, इति । एतद्ध स्म वा आहुः शण्डिलाः । कमग्निं चिनुते । सत्रियमग्निं चिन्वानः । संवत्सरं प्रत्यक्षेण, इति । कमग्निं चिनुते । ( १०) नाचिकेतमग्निं चिन्वानः । प्राणान्प्रत्यक्षेण, इति । कमग्निं चिनुते । चातुर्होत्रियमग्निं चिन्वानः । ब्रह्म प्रत्यक्षेण, इति । कमग्निं चिनुते । वैश्वसृजमग्निं चिन्वानः । शरीरं प्रत्यक्षेण, इति । कमग्निं चिनुते । उपानुवाक्यमाशुमग्निं चिन्वानः ।( ११) इमाँल्लोकान्प्रत्यक्षेण इति । कमग्निं चिनुते । इममारुणकेतुकमग्निं चिन्वान इति । य एवासौ । इतश्चामुतश्चाव्यतीपाती । तमिति, इति । योऽग्नेर्मिथूया वेद । मिथुनवान्भवति । आपो वा अग्नेर्मिथूयाः । मिथुनवान्भवति । य एवं वेद ( १२), इति । वेद भवत्यायतनमायतनवान्भवति वेद वेद तिष्ठति गुल्फदघ्नं चातुर्मास्येष्वमुमादित्यं प्रत्यक्षेण कमग्निं चिनुत उपानुवाक्यमाशुमग्निं चिन्वानो मिथूया मिथुनवान्भवत्येकं च ।।  पुष्पमग्निर्वायुरसौ वै तपन्,चन्द्रमा नक्षत्राणि पर्जन्यः संवत्सरस्तिष्ठति सत्रियँ संवत्सरँ सावित्रममुं नाचिकेतं प्राणाँश्चातुर्होत्रियं ब्रह्म वैश्वसृजँ शरीरमुपानुवाक्यमाशुमिमाँल्लोकानिममारुणकेतुकं य एवासौ ।। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके द्वाविंशोऽनुवाकः ।। 1.२२ ।।

 

1.23    अनुवाक २३

 

आपो वा इदमासन्त्सलिलमेव । स प्रजापतिरेकः पुष्करपर्णे समभवत् । तस्यान्तर्मनसि कामः समवर्तत । इदँ सृजेयमिति । तस्माद्यत्पुरुषो मनसाऽभिगच्छति । तद्वाचा वदति । तत्कर्मणा करोति । तदेषाऽभ्यनूक्ता, इति ।

कामस्तदग्रे समवर्तताधि । मनसो रेतः प्रथमं यदासीत् ( १) । सतो बन्धुमसति निरविन्दन् । हृदि प्रतीष्या कवयो मनीषेति, इति । उपैनं  तदुपनमति । यत्कामो भवति । य एवं वेद, इति । स तपोऽतप्यत । स तपस्तप्त्वा । शरीरमधूनुत । तस्य यन्माँसमासीत् । ततोऽरुणाः केतवो वातरशना ऋषय उद तिष्ठन् (२)  । ये नखाः । ते वैखानसाः । ये वालाः । ते वालखिल्याः । यो रसः । सोऽपाम्, इति ।

अन्तरतः कृर्मं भूतँ सर्पन्तम् । तमब्रवीत् । मम वै त्वङ्माँसा । समभूत् ( ३ । नेत्यब्रवीत् । पूर्वमेवाहमिहाऽऽसमिति । तत्पुरुषस्य पुरुषत्वम् । स सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । भूत्वोदतिष्ठत् । तमब्रवीत् । त्वं वै पूर्वँ समभूः । त्वमिदं पूर्वः कुरुष्वेति, इति । स इत आदायापः ( ४) । अञ्जलिना पुरस्तादुपादधात् । एवा ह्येवेति । तत आदित्य उदतिष्ठत् । सा प्राची दिक्, इति । अथाऽऽरुणः केतुर्दक्षिणत उपादधात् । एवा ह्यग्न इति । ततो वा अग्निरुदतिष्ठत् । सा दक्षिणा दिक् । अथाऽऽरुणः केतुः पश्चादुपादधात् । एवा हि वायो इति । ( ५) ततो वायुरुदतिष्ठत् । सा प्रतीची दिक् । अथाऽऽरुणः केतुरुत्तरत उपादधात् । एवा हीन्द्रेति । ततो वा इन्द्र उदतिष्ठत् । सोदीची दिक् । अथाऽऽरुणः केतुर्मध्य उपादधात् । एवा हि पूषन्निति । ततो वै पूषोदतिष्ठत् । सेयं दिक् । ( ६) अथाऽऽरुणः केतुरुपरिष्टादुपादधात् । एवा हि देवा इति । ततो देवमनुष्याः पितरः । गन्धर्वाप्सश्चोदतिष्ठन् । सोर्ध्वा दिक्, इति । या विप्रुषो वि परापतन् । ताभ्योऽसुरा रक्षांसि पिशाचाश्चोदतिष्ठन् । तस्मात्ते पराभवन् । विप्रुड्भ्यो हि ते समभवन्, इति । तदेषाऽभ्यनूक्ता ( ७), इति । आपो ह यद्बृहतीर्गर्भमायन् । दक्षं दधाना जनयन्तीः स्वयंभुम् । तत इमेऽध्यसृज्यन्त सर्गाः । अद्भ्यो वा इदं समभूत् । तस्मादिदं सर्वं ब्रह्म स्वयंभ्विति, इति । तस्मादिदं सर्वं शिथिलमिवाध्रुवमिवाभवत्, इति । प्रजापतिर्वाव तत् । आत्मनाऽऽत्मानं विधाय । तदेवानुप्राविशत्, इति । तदेषाऽभ्यनूक्ता ( ८) इति । विधाय लोकान्विधाय भूतानि । विधाय सर्वाः प्रदिशो दिशश्च । प्रजापतिः प्रथमजा ऋतस्य । आत्मनाऽऽत्मानमभिसंविवेशेति, इति । सर्वमेवेदमाप्त्वा । सर्वमवरुध्य । तदेवानुप्रविशति । य एवं वेद ( ९) इति ।।

इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके त्रयोविंशोऽनुवाकः । । 1.२३ ।।

 

1.24    अनुवाक २४

 

चतुष्टय्य आपो गृह्णाति । चत्वारि वा अपां रूपाणि । मेघो विद्युत् । स्तनयित्नुर्वृष्टिः । तान्येवावरुन्धे, इति । आतपति वर्ष्यां गृह्णाति । ताः पुरस्तादुपदधाति । एता वै ब्रह्मवर्चस्या आपः । मुखत एव ब्रह्मवर्चसमवरुन्धे । तस्मान्मुखतो ब्रह्मवर्चसितरः ( ), इति । कूप्या गृह्णाति । ता दक्षिणत उपदधाति । एता वै तेजस्वनीरापः । तेज एवास्य दक्षिणतो दधाति । तस्माद्दक्षिणोऽर्धस्तेजस्वितरः,इति । स्थावरा गृह्णाति । ताः पश्चादुपदधाति । प्रतिष्ठिता वै स्थावराः । पश्चादेव प्रतितिष्ठति, इति । वहन्तीर्गृह्णाति २) । ता उत्तरत उपदधाति । ओजसा वा एता वहन्तीरिवोद्गतीरिव आकूजतीरिव धावन्तीः । ओज एवास्योत्तरतो दधाति । तस्मादुत्तरोऽर्ध ओजस्वितरः, इति । संभार्या गृह्णाति । ता मध्य उपदधाति । इयं वै संभार्याः । अस्यामेव प्रतितिष्ठति, इति ।

पल्वल्या गृह्णाति । ता उपरिष्टादुपादधाति ( ) । असौ वै पल्वल्याः । अमुष्यामेव प्रतितिष्ठति, इति । दिक्षूपदधाति । दिक्षु वा आपः । अन्नं वा आपः । अद्भ्यो वा अन्नं जायते । यदेवाद्भ्योऽन्नं जायते । तदवरुन्धे, इति । तं वा एतमरुणाः केतवो वातरशना ऋषयोऽचिन्वन् । तस्मादारुणकेतुकः, इति । तदेषाऽभ्यनूक्ता, इति । कैतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठां शतधा हि । समाहितासो सहस्रधायसमिति, इति । शतशश्चैव सहस्रशश्च प्रतितिष्ठति । य एतमग्निं चिनुते । य उ चैनमेवं वेद, इति ।। व्रह्मवर्चसितरो वहन्तीर्गृह्णाति ता उपरिष्टादुपादधात्यारुणकेतुकोऽष्टौ च ।।

इति कृप्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके चतुर्विशोऽनुवाकः । । 1.२४ । ।

 

1.25   अनुवाक २५

 

जानुदघ्नीमुत्तरवेदीं खात्वा । अपां पूरयति । अपां  सर्वत्वाय, इति । पुष्करपर्णं रुक्मं पुरुषमित्युपदधाति । तपो वै पुष्करपर्णम् । सत्यं  रुक्मः। । अमृतं पुरुषः । एतावद्वावास्ति । यावदेतत् । यावदेवास्ति ( ) । तदवरुन्धे, इति । कूर्ममुपदधाति । अपामेव मेधमवरुन्धे । अथो स्वर्गस्य लोकस्य समष्ट्यै, इति । आपमापामपः सर्वाः । अस्मादस्मादितोऽमुतः । अग्निर्वायुश्च सूर्यश्च । सह संचस्करर्धिया इति । वाय्वश्वा रश्मिपतयः, हति । लोकं पृण च्छिद्रं पृण ( २ । यास्तिस्रः परमजाः, इति । इन्द्रघोषा वो वसुभिरेवा ह्येवेति, इति । पञ्च चितय उपदधाति । पाङ्क्तोऽग्निः। यावानेवाग्निः । तं चिनुते, इति । लोकंपृणया द्वितीयामुपदधाति । पञ्चपदा वै विराट् । तस्या वा इयं पादः । अन्तरिक्षं पादः । द्यौः पादः । दिशः पादः । परोरजाः पादः, इति । विराज्येव प्रतितिष्ठति । य एतमग्निं चिनुते । य उ चैनमेवं वेद ( ), इति ।। अस्ति पृणान्तरिक्षं पादः षट्च ।।

इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके पञ्चविंशोऽनुवाकः ।। 1.२५ ।। 1.25

 

1.26    अनुवाक २६

 

अग्निं प्रणीयोपसमाधाय । तमभित एता अबीष्टका उपदधाति । अग्निहोत्रे दर्शपूर्णमासयोः । पशुबन्धे चातु र्मास्येषु । अथो आहुः । सर्वेषु यज्ञक्रतुष्विति, इति । अथ ह स्माऽऽहारुणः स्वायंभुवः । सावित्रः सर्वोऽग्निरित्यननुषङ्गं मन्यामहे । नाना वा एतेषां वीर्याणि,इति । कमग्निं चिनुते ( ) । सत्रियमग्निं चिन्वानः । कमग्निं चिनुते । सावित्रमग्निं चिन्वानः । कमग्निं चिनुते । नाचिकेतमग्निं चिन्वानः । कमग्निं चिनुते । चातुर्होत्रियमग्निं चिन्वानः । कमग्निं चिनुते । वैश्वसृजमग्निं चिन्वानः । कमग्निं चिनुते ( ) । उपानुवाक्यमाशुमग्निं चिन्वानः । कमग्निं चिनुते । इममारुणकेतुकमग्निं चिन्वान इति, इति । वृषा वा अग्निः । वृषाणौ सँस्फालयेत् । हन्येतास्य यज्ञः । तस्मान्नानुषज्यः, इति । सोत्तरवेदिषु क्रतुषु चिन्वीत । उत्तरवेद्यां ह्यग्निश्चीयते, इति । प्रजाकामश्चिन्वीत ( ) । प्राजापत्यो वा एषोऽग्निः । प्राजापत्याः प्रजाः । प्रजावान्भवति । य एवं वेद, इति । पशुकामश्चिन्वीत । संज्ञानं वा एतत्पशूनाम् । यदापः । पशूनामेव संज्ञानेऽग्निं चिनुते । पशु मान्भवति । य एवं वेद ( ), इति । वृष्टिकामश्चिन्वीत । आपो वै वृष्टिः । पर्जन्यो वर्षुको भवति । य एवं वेद, इति । आमयावी चिन्वीत । आपो वै भेषजम् । भेषजमेवास्मै करोति । सर्वमायुरेति, इति । अभिचरँश्चिन्वीत । वज्रो वा आपः ( ) । वज्रमेव भ्रातृव्येभ्यः प्रहरति । स्तृणुत एनम्, इति । तेजस्काम्रो यशस्कामः । ब्रह्मवर्चसकामः स्वर्गकामश्चिन्वीत । एतावद्वावास्ति । यावदेतत् । यावदेवास्ति । तदवरुन्धे, इति । तस्यैतद्व्रतम् । वर्षति न धावेत् () अमृतं वा आपः । अमृतस्यानन्तरित्यै, इति । नाप्सु मूत्रपुरीषं कुर्यात् । न निष्ठीवेत् । न विवसनः स्नायात् । गुह्यो वा एषोऽग्निः । एतस्याग्नेरनतिदाहाय, इति । न पुष्करपर्णानि हिरण्यं वाऽधितिष्ठेत् । एतस्याग्नेरनभ्यारोहाय, इति । न कूर्मस्याश्नीयात् । नोदकस्याघातुकान्येन मोदकानि भवन्ति । अघातुका आपः । य एतमग्निं चिनुते । य उ चैनमेवं वेद (), इति । चिनुते चिनुते प्रजाकामश्चिन्वीत य एवं वेदाऽऽपो धावेदश्नीयाच्चत्वारि च ।।

इति कृप्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके षड्विंशोऽनुवाकः ।। २६ ।। 1.26

 

1.27   अनुवाक २७

 

इमा नु कं भुवना सीषधेम । इन्द्रश्च विश्वे च देवाः इति । यज्ञं च नः स्तन्व च प्रजां च । आदित्यैरिन्द्रः सह सीषधातु, इति । आदिरत्यैरिन्द्रः सगणो मरुद्भिः । अस्माकं भूत्वविता तनूनाम्, इति । आप्लवस्व प्रप्लवस्व । आण्डी भव ज मा मुहुः । सुखादीं दुःखनिधनाम् । प्रतिमुञ्चस्व स्वां पुरम् ( ) इति । मरीचयः स्वायंभुवाः । ये शरीराण्यकल्पयन् । ते ते देहं कल्पयन्तु । मा च ते ख्या स्म तीरिषत्, इति । उत्तिष्ठत मा स्वप्त । अग्निमिच्छध्वं भारताः । राज्ञः सोमस्य तृप्तासः । सूर्येण सुयुजोषसः इति । युवा सुवासाः, इति । अष्टाचक्रा नवद्वारा ( ) । देवानां पूर-योध्या । तस्याँ हिरण्मयः कोशः । स्वर्गो लोको ज्योतिषाऽऽवृतः, इति । यो वै तां ब्रह्मणो वेद । अमृतेनाऽऽवृतां पुरीम् । तस्मै ब्रह्म च ब्रह्मा च । आयुः कीर्तिं प्रजां ददुः, इति । विभ्राजमानाँ हरिणीम् । यशसा संपरीवृताम् । पुरँ हिरण्मयीं ब्रह्मा ( ) । विवेशापराजिता, इति । पराङेत्यज्यामयी । पराङेत्यनाशकी । इह चामुत्र चान्वेति । विद्वान्देवासुरानुभयान्, इति । यत्कुमारी मन्द्रयते । यद्योषिद्यत्पतिव्रता । अरिष्टं यत्किंच क्रियते । अग्निस्तदनुवेधति, इति । अशृतासः शृतासश्च ( ) । यज्वानो येऽप्ययज्वनः । स्वर्यन्तो नापेक्षन्ते । इन्द्रमग्निं च ये विदुः, इति ।

सिकता इव संयन्ति । रश्मिभिः समुदीरिताः । अस्माल्लोकादमुष्माच्च । ऋषिभिरदात्पृश्निभिः, इति । अपेत वीत वि च सर्पतातः । येऽत्र स्थ पुराणा ये च नूतनाः । अहोभिरद्भिरक्तुभिर्व्यक्तम् । ( ) । यमो ददात्ववसानमस्मै, इति । नृ मुणन्तु नृ पात्वर्यः । अक्रृष्टा ये च कृष्टजाः । कुमारीषु कनीनीषु । जारिणीषु च ये हिताः, इति । रेतःपीता आण्डपीताः । अङ्गारेषु च ये हुताः । उभयान्पुत्रपौत्रकान् । युवेऽहं यमराजगान्, इति । शतमिन्नु शरदः, इति अदो यद्ब्रह्म विलबम् । पितृणां च यमस्य च । वरुणस्याश्विनोरग्नेः । मरुतां च विहायसाम्, इति । कामप्रयवणं मे अस्तु । स ह्येवास्मि सनातनः । इति नाको ब्रह्मिश्रवो रायो धनम । पुत्रानापो देवीरिहाऽऽहिता ( ), इति ।। पुरं नवद्वारा ब्रह्मा च व्यक्तँ शरदोऽष्टौ च ।।

इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके सप्तविंशोऽनुवाकः ।। २७ ।। 1.27

 

1.28   अनुवाक २८

 

विशीर्ष्णी गृध्रशीर्ष्णी च । अपेतो निर्ऋतिँ हथः । परिबाधँ श्वेतकुक्षम् । निजङ्घँ शबलोदरम्,इति । स तान्वाच्यायया सह । अग्ने नाशय संदृशः । ईर्ष्यासूये बुभुक्षाम् । मन्युं कृत्यां च दीधिरे । रथेन किँक्षुकावता । अग्ने नाशय संदृशः ( ), इति । इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठकेऽष्टाविंशोऽनुवाकः ।। २८ ।। 1.28

 

1.29  अनुवाक २९

 

पर्जन्याय प्रगायत । दिवस्पुत्राय मीढुषे । स नो यवसमिच्छतु, इति । इदं वचः पर्जन्याय स्वराजे । हृदो अस्त्वन्तरं तद्युयोत । मयोभूर्वातो विश्वकृष्टयः सन्त्वस्मे । सुपिप्पला ओषधीर्देवगोपाः,इति । यो गर्भमोषधीनाम् । गवां कृणोत्यर्वताम् । पर्जन्यः पुरुषीणाम् ( ), इति ।। विशीर्ष्णी पर्जन्याय दश दश ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठक एकोनत्रिंशोऽनुवाकः ।। २९ ।। 1.29

 

1.30   अनुवाक ३०

 

पुनर्मामैत्विन्द्रियम् । पुनरायुः पुनर्भगः । पुनर्ब्राह्मणमैतु मा । पुनर्द्रविणमैतु मा, इति । यन्मेऽद्य रेतः पृथिवीमस्कान् । यदोषधीरप्यसरद्यदापः । इदं तत्पुनराददे । दीर्घायुत्वाय वर्चसे, इति । यन्मे रेतः प्रसिच्यते । यन्म आजायते पुनः । तेन माममृतं कुरु । तेन सुप्रजसं कुरु (), इति ।

पुनर्द्वे च ।।

इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके त्रिंशोऽनुवाकः ।। ३० ।। 1.30

 

1.31   अनुवाक ३१

 

अद्भ्यस्तिरोधाऽजायत । तव वैश्रवणः सदा । तिरो धेहि सपत्नान्नः । ये अपोऽश्नन्ति केचन, इति । त्वाष्ट्री मायां वैश्रवणः । रथँ सहस्रवन्धुरम् । पुरश्चक्रँ सहस्राश्वम् । आस्थायाऽऽयाहि नो बलिम्, इति । यस्मै भूतानि बलिमावहन्ति । धनं गावो हस्तिहिण्यमश्वान् ( ) । असाम सुमतौ यज्ञियस्य । श्रियं बिभ्रतोऽन्नमुखीं विराजम्, इति । सुदर्शने च क्रौञ्चे च। मैनागे च महागिरौ । सतद्वाट्टारगमन्ता । सँहार्यं नगरं तव, इति । इति मन्त्राः । कल्पोऽत ऊर्ध्वम्, इति । यदि बलिँ हरेत् । हिरण्यनाभये वितुदये कौबेरायायं बलिः()। सर्वभूताधिपतये नम इति । अथ बलिँ   हृत्वोपतिष्ठेत, इति । क्षत्त्रं क्षत्त्रं वैश्रवणः । ब्राह्मणा वयँ स्मः । नमस्ते अस्तु मा मा हिँसीः । अस्मात्प्रविश्यान्नमद्धीति, इति । अथ तमग्निमादधीत । यस्मिन्नेतत्कर्म प्रयुञ्जीत, इति । तिरोधा भूः । तिरोधा भुवः ( ) । तिरोधा स्वः । तिरोधा भूर्भुवः स्वः । सर्वेषां लोकानामाधिपत्ये सीदेति, इति । अथ तमग्निमिन्धति । यस्मिन्नेतत्कर्म प्रयुञ्जीत, इति । तिरोधा भूः स्वाहा । तिरोधा भुवः स्वाहा । तिरोधा स्वः स्वाहा । तिरोधा भूर्भुवः स्वः स्वाहा, इति । यस्मिन्नस्य काले सर्वा आहुतीर्हुता भवेयुः () । अपि ब्राह्मणमुखीनाः । तस्मिन्नह्नः काले प्रयुञ्जीत । परः सुप्तजनाद्वेपि, इति । मा स्म प्रमाद्यन्तमाध्यापयेत् । सर्वार्थाः सिध्यन्ते । य एवं वेद् । क्षुध्यन्निदमजानताम् । सर्वार्था न सिध्यन्ते, इति । यस्ते विघातुको भ्राता । ममान्तर्हृदय्रे श्रितः ( ) । तस्मा इममग्रपिण्डं जुहोमि । स मेऽर्थान्मा विवधीत् । मयि स्वाहा, इति । राजाधिराजाय प्रसह्यसाहिने । नमो वयं वैश्रवणाय कुर्महे । स मे कामान्कामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय । महाराजाय नमः । केतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठाँ शतधा हि । समाहितासो सहस्र- धायसम् । शिवा नः शंतमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वति । मा ते व्योम संदृशि ( ) इति ।। अश्वान्बलिर्भुवो भवेयुः श्रितश्च सप्त च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठक एकत्रिंशोऽनुवाकः ।। ३१ ।। 1.31

 

1.32   अनुवाक ३२

 

संवत्सरमेतद्व्रतं चरेत् । द्वौ वा मासौ, इति । नियमः समासेन, इति । तस्मिन्नियमविशेषाः । त्रिषवणमुदकोपस्पर्शी । चतुर्थकालपानभक्तः स्यात् । अहरहर्वा भैक्षमश्नीयात् । औदुम्बरीभिः समिद्भिरग्निं परिचरेत् । पुनर्मा मैत्विन्द्रियमित्येतेनानुवाकेन । उद्धृतपरिपूताभिरद्भिः कार्यं कुर्वीत ( ) । असंचयवान् । अग्नये वायवे सूर्याय । ब्रह्मणे प्रजापतये । चन्द्रमसे नक्षत्रेभ्यः । ऋतुभ्यः संवत्सराय । वरुणायारुणायेति व्रतहोमाः । प्रवर्ग्यवदादेशः । अरुणाः काण्ड ऋषयः, इति । अरण्येऽधीयीरन् । भद्रं कर्णेभिरिति द्वे जपित्वा ( ) । महानाम्नीभिरुदकँ सँस्पर्श्य । तमाचार्यो दद्यात् । शिवा नः शंतमेत्योषधीरालभते । सुमृडीकेति भूमिम् । एवमपवर्गे । धेनुर्दक्षिणा । कँसं वासश्च क्षौमम् । अन्यद्वा शुक्लम् । यथाशक्ति वा । एवँ स्वाध्यायधर्मेण । अरण्येऽधीयीत । तपस्वी पुण्यो भवति तपस्वी पुण्यो भवति ( ), इति ।। कुर्वीत जपित्वा स्वाध्यायधर्मेण द्वे च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके द्वात्रिंशोऽनुवाकः ।। ३२ ।। 1.32

अथ शान्तिः

भद्रं कर्णेभिः शृणुयाम देवाः। भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः । व्यशेम देव हितं यदायुः ।। स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्व-वेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ।।

ॐ शान्तिः शान्तिः शान्तिः ।

इति कृष्णयजुर्वेदीय तैत्तिरीयाऽरण्यके प्रथमः प्रपाठकः समाप्तः।।१।।

 

अथ कृष्णयजुर्वेदीय तैत्तिरीयारण्यके द्वितीयः प्रपाठकः ।

हरिः ॐ ।

नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते

करोमि ।।

ॐ शान्तिः शान्तिः शान्तिः ।।

 

2.1   अनुवाक १

 

ॐ सह वै देवानां चासुराणां च यज्ञौ प्रततावास्तां वयँ स्वर्गं लोकमेष्यामो वयमेष्याम इति तेऽसुराः संनह्य सहसैवाऽऽचरन्ब्रह्मचर्येण तपसैव देवास्तेऽसुरा अमुह्यँस्ते न प्राजानँस्ते पराभवन्ते न स्वर्गं लोकमायन्प्रसृतेन वै यज्ञेन देवाः स्वर्गं लोकमांयन्नप्रसृतेनासुरान्पराभावयन्, इति । प्रसृतो ह वै यज्ञोपवीतिनो यज्ञोऽप्रसृतोऽनपवीतिनो यत्किंच ब्राह्मणो यज्ञोपवीत्यधीते यजत एव तत्-, इति ।

तस्माद्यज्ञोपवीत्येवाधीयीत याजयेद्यजेत वा यज्ञस्य प्रसृत्यै इति । अजिनं वासो वा दक्षिणत उपवीय-, इति । दक्षिणं बाहुमुद्धरतेऽवेधत्ते सव्यमिति यज्ञोपवीतमेतदेव विपरीतं प्राचीनावीतँ संवीतं मानुषम् ।। १ ।।, इति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके प्रथमोऽनुवाकः ।। १ ।। 2.1

 

2.2  अनुवाक २

 

रक्षांसि ह वा पुरोनुवाके तपोग्रमतिष्ठन्त तान्प्रजापतिर्वरेणोपामन्त्रयत तानि वरमवृणीताऽऽदित्यो नो योद्धा इति तान्प्र जापतिरब्रवीद्योधयध्वमिति तस्मादुत्तिष्ठन्तं ह वा तानि रक्षांस्यादित्यं योधयन्ति यावदस्तमन्वगात्तानि ह वा एतानि रक्षांसि गायत्रियाऽभिमन्त्रितेनाम्भसा शाम्यन्ति-, इति । तदु ह वा एते ब्रह्मवादिनः पूर्वाभिमुखाः संध्यायां गायत्रियाऽभिमन्त्रिता आप ऊर्ध्वं विक्षिपन्ति ता एता आपो वज्रीभूत्वा तानि रक्षांसि मन्देहारुणे द्वीपे प्रक्षिपन्ति-, इति । यत्प्रदक्षिणं प्रक्रमन्ति तेन पाप्मानमवधून्वन्ति-, इति । उद्यन्तमस्तं यन्तमादित्यमभिध्यायन्कुर्वन्ब्राह्मणो विद्वान्त्सकलं भद्रमश्नुतेऽसावादित्यो ब्रह्मेति-, इति । ब्रह्मैव सन्ब्रह्माप्येति य एवं वेद ।। २ ।।, इति । इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके द्वितीयोऽनुवाकः ।। २ ।।

 

2.3   अनुवाक ३

 

यद्देवा देवहेळनं देवासश्चकृमा वयम् । आदित्यास्तस्मान्मा मुञ्चतर्तस्यर्तेन मामित, इति । देवा जीवनकाम्या यद्वाचाऽनृतमूदिम । तस्मान्न इह मुञ्चत विश्वे देवाः सजोषसः, इति । ऋतेन द्यावापृथिवी ऋतेन त्वं सरस्वति । कृतान्नः पाह्येनसो यत्किंचानृतमूदिम, इति । इन्द्राग्नी मित्रावरुणौ सोमो धाता बृहस्पतिः । ते नो मुञ्चन्त्वेनसो यदन्यकृतमारिम, इति । सजातशँसादुत जामिशंसाज्ज्यायसः शंसादुत वा कनीयसः । अनाधृष्टं देवकृतं यदेनस्तस्मात्त्वमुस्माञ्जातवेदो मुमुग्धि, इति ।

यद्वाचा यन्मनसा बाहुभ्यामूरुभ्यामष्ठीवद्भ्यां शिश्नैर्यदनृतं चकृमा वयम् । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु चकृम यानि दुष्कृता, इति । येन त्रितो अर्णवान्निर्बभूऽव येन सूर्ये तमसो निर्मुमोच । येनेन्द्रो विश्वा अजहादरातीस्तेनाहं ज्योतिषा ज्योतिरानशान आक्षि, इति । यत्कुसीदमप्रतीत्तं मयेह येन यमस्य निधिना चरामि । एतत्तदग्ने अनृणो भवामि जीवन्नेव प्रति तत्ते दधामि, इति ।

तन्मयि माता यदा पिपेष यदन्तरिक्षं यदाशसातिक्रामामि त्रिते देवा दिवि जाता यदाप इमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि ( ), इति ।।

मुमुग्धि सप्त च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके तृतीयोऽनुवाकः ।। ३ ।।

 

2.4   अनुवाक ४

 

यददीव्यन्नृणमहं बभूवादित्सन्वा संजगर जनेभ्यः । अग्निर्मा तस्मादिन्द्रश्च संविदानौ प्रमुञ्चताम्, इति । यद्धस्ताभ्यां चकर किल्बिषाण्यक्षाणां वग्नुमुपजिघ्नमानः । उग्रंपश्या च राष्ट्रभृच्च तान्यप्सरसावनुदत्तामृणानि, इति ।

उग्रंपश्ये राष्ट्रभृत्किल्बिषाणि यदक्षवृत्तमनुदत्तमेतत् । नेन्न ऋणानृणव इत्समानो यमस्य लोके अधिरज्जुराय, इति । अव ते हेळ उदुत्तममिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने इति । संकुसुको विकुसुको निर्ऋथो यश्च निस्वनः । तेऽ१स्मद्यक्ष्ममनागसो दूराद्दूरमचीचतम्, इति । निर्यक्ष्ममचीचते कृत्यां निर्ऋतिं च । तेन योऽ१स्मत्समृच्छातै तमस्मै प्रसुवामसि, इति । दुःशंसानुशंसाभ्यां घणेनानुघणेन च । तेनान्योऽ१स्मत्समृच्छातै तमस्मै प्रसुवामसि, इति । सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन । त्वष्टा नो अत्र विदधातु रायोऽनुमार्ष्टु तुन्वो१ यद्विलिष्टम् (),इति ।। कृत्यां निर्ऋतिं च पञ्च च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।।

 

2.5  अनुवाक ५

 

आयुष्टे विश्वतो दधदयमुग्निर्वरेण्यः । पुनस्ते प्राण आयाति परा यक्ष्मं सुवामि ते, इति । आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरेधि । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभिरक्षतादिमम्, इति । इममग्न आयुषे वर्चसे कृधि तिग्ममोजो वरुण संशिशाधि । मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथाऽसत्, इति । अग्न आयूँषि पवस आसुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम्, इति । अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् । दधद्रयिं मयि पोषम् ( ), इति । अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयम्, इति । अग्ने जातान्प्रणुदा नः सपत्नान्प्रत्यजाताञ्जातवेदो नुदस्व । अस्मे दीदिहि सुमना अहेळञ्छर्मन्ते स्याम त्रिवरूथ उद्भौ, इति । सहसा जातान्प्रणुदा नः सपत्नान्प्रत्यजाताञ्जातवेदो नुदस्व । अधि नो ब्रूहि सुमनस्यमानो बयं स्याम प्रणुदा नः सपत्नान्, इति । अग्ने यो नोऽभितो जनो वृको वारो जिघांसति । ताँस्त्वं वृत्रहञ्जहि वस्वस्मभ्यमाभर, इति । अग्ने यो नोऽभिदासति समानो यश्च निष्ट्यः । तं वयं समिधं कृत्वा तुभ्यमग्नेऽपिदध्मसि (), इति । यो नः शपादशपतो यश्च नः शपतः शपात् । उषाश्च तस्मै निम्रुक्च सर्वं पापं समूहताम्, इति । यो नः सपत्नो यो रणो मर्तोऽभिदासति देवाः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचन, इति । यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् । सर्वाँस्तानग्ने संदह यांश्चाहं द्वेष्मि ये च माम्, इति । यो अस्मभ्यमरातीयाद्यश्च नो द्वेषते जनः । निन्दाद्यो अस्मान्दिप्साच्च सर्वांस्तान्मष्मषा कुरु, इति । संशितं म्रे ब्रह्म संशितं वीर्यां१ बलम् । संशितं क्षत्त्रं मे जिष्णु यस्याहमस्मि पुरोहितः, इति । उदेषां बाहू अतिरमुद्वर्चो अथो बलम् । क्षिणोमि ब्रह्मणाऽमित्रानुन्नयामि स्वाँ १ अहम्, इति । पुनुर्मनः पुनरायुर्म आगात्पुनश्चक्षुः पुनः श्रोत्रं म आगात्पुनः प्राणः पुनराकूतं म आगात्पुनश्चित्तं पुनराधीतं म आगात् । वैश्वानरो मेऽदब्धस्तनूपा अवबाधतां दुरितानि विश्वा ( ), इति ।। पोषं दध्मसि पुरोहितश्चत्वारि च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।

 

2.6 अनुवाक ६

 

वैश्वानराय प्रतिवेदयामो यदीनृणं संगरो देवतासु । स एतान्पाशान्मुमुचन्प्रवेद स नो मुञ्चातु दुरितादवद्यात्, इति । वैश्वानरः पवयान्नः पवित्रैर्यत्संगरमभिधावाम्याशाम् । अनाजानन्मनसा याचमानो यदत्रैनो अव तत्सुवामि, इति । अमी ये सुभगे दिवि विचृतौ नाम तारके । प्रेहामृतस्य यच्छतामेतद्बद्धकमोचनम, इति । विजिहीर्ष्व लोकान्कृधि बन्धान्मुञ्चासि बद्धकम् । योनेरिव प्रच्युतो गर्भः सर्वान्पथो अनुष्व, इति । स प्रजानन्प्रतिगृभ्णीत विद्वान्प्रजापतिः प्रथमजा ऋतस्य । अस्माभिर्दत्तं जरसः परस्तादच्छिन्नं तन्तुमनुसंचरेम (), इति । ततं तन्तुमन्वेके अनुसंचरन्ति येषां दत्तं पित्र्यमायनवत् । अबन्ध्वेके ददतः प्रयच्छाद्दातुं चेच्छक्नवांस स्वर्ग एषाम्, इति । आरभेथामनुसंरभेथां समानं पन्थामवथो घृतेन । यद्वां पूर्तं परिविष्टं यदग्नौ तस्मै गोत्रायेह जायापती संरभेथाम्, इति । यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिंसिम । अग्निर्मा तस्मादेनसो गार्हपत्य उन्नो नेषद्दुरिता यानि चक्रम, इति । भूमिर्माताऽदितिर्नो जनित्रं भ्राताऽन्तरिक्षमभिशस्त एनः । द्यौर्नः पिता पितृयाच्छं भवासि जामिमित्वा मा विवित्सि लोकात्, इति । यत्र सुहार्दः सुकृतो मदन्ते विहाय रोगं तन्वां१ं स्वायाम् । अश्लोणाङ्गैरह्रुताः स्वर्गे तत्र पश्येम पितरं च पुत्रम्, इति । यदन्नमद्म्यनृतेन देवा दास्यन्नदास्यन्नुत वाऽकरिष्यन् । यद्देवानां चक्षुष्यागो अस्ति यदेव किंच प्रतिजग्राहमग्निर्मा तस्मादनृणं कृणोतु, इति । यदन्नमद्मि बहुधा विरूपं वासो हिरण्यमुत गामजामविम्। यद्देवानां चक्षुष्यागो अस्ति यदेव किंच प्रतिजग्राहमग्निर्मा तस्मादनृणं कृणोतु, इति । यन्मया मनसा वाचा कृतमेनः कदाचन । सर्वस्मात्तस्मान्मेळितो मोग्धि त्वं हि वेत्थ यथातथम् ( ), इति ।।

चरेम पुत्रं षट् च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके षष्ठोऽनुवाकः ।। ६ ।।

 

2.7 अनुवाक ७

 

वातरशना ह वा ऋषयः श्रमणा ऊर्ध्वमन्थिनो बभूवुस्तानृषयोऽर्थमायंस्ते निलायमचरंस्तेऽनुप्रविशुः कूश्माण्डानि तास्तेष्वन्वविन्दञ्छ्रद्धया च तपसा च-,इति । तानृषयोऽब्रुवन्कथा निलायं चरथेति त ऋषीनब्रुवन्नमो वोऽस्तु भगवन्तोऽस्मिन्धाम्नि केन वः सपर्यामेति तानृषयोऽब्रुवन्पवित्रं नो ब्रूत येनारेपसः स्यामेति त एतानि सूक्तान्यपश्यन्-,इति। यद्देवा देव हेळनं यददीव्यन्नृणमहं बभूवाऽऽयुष्टे विश्वतो दध-दित्येतैराज्यं जुहुत वैश्वानराय प्रतिवेदयाम इत्युपतिष्ठत यदर्वाचीनमेनो भ्रूणहत्यायास्तस्मान्मोक्ष्यध्व इति-, इति । त एतैरजुहवुस्तेऽरेपसोऽभवन्-, इति । कर्मादिष्वेतैर्जुहुयात्पूतो देवलोकान्समश्नुते ( ), इति ।। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके सप्तमोऽनुवाकः ।। ७ ।।

 

2.8 अनुवाक ८

 

कूश्माण्डैर्जुहुयाद्योऽपूत इव मन्येत-,इति । यथा स्तेनो यथा भ्रूणहैवमेष भवति योऽयोनौ रेतः सिञ्चति-, इति । यदर्वाचीनमेनो भ्रूणहत्यायास्तस्मान्मुच्यते-,इति ।

यावदेनो दीक्षामुपैति दीक्षित एतैः सतति जुहोति-, इति । संवत्सरं दीक्षितो भवति संवत्सरादेवाऽऽत्मानं पुनीते-,इति । मासं दीक्षितो भवति यो मासः स संवत्सरः संवत्सरादेवाऽऽत्मानं पुनीते चतुर्विशति रात्रीर्दीक्षितो भवति चतुर्विशति- रर्धमासाः संवत्सरः संवत्सरादेवाऽऽत्मानं पुनीते द्वादश रात्रीर्दीक्षितो भवतिं द्वादश मासाः संवत्सरः संवत्सरा देवाऽऽत्मानं पुनीते षड्रात्रीर्दीक्षितो भवति षड्वा ऋतवः संवत्सरः संवत्सरादेवाऽऽत्मानं पुनीते तिस्रो रात्रीर्दीक्षितो भवति त्रिपदा गायत्री गायत्रिया एवाऽऽत्मातं पुनीते-,इति । न मासमश्नीयान्न स्त्रियमुपेयान्नोपर्यासीत जुगुप्सेतानृतात् इति । पयो ब्राह्मणस्य व्रतं यवागू राजन्यस्याऽऽमिक्षा वैश्यस्य-, इति। । अथो सौम्येऽप्यध्वर एतद्व्रतं ब्रूयात्-,इति । यदि मन्येतोपदस्यामीत्योदनं धानाः सक्तून्धृतमित्यनुव्रतयेदात्मनोऽनुपदासाय (), इति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठकेऽष्टमोऽनुवाकः ।। ८ ।।

 

2.9 अनुवाक ९

 

अजान्ह वै पृश्नीस्तपस्यमानान्ब्रह्म स्वयंभ्वभ्यानर्षत्त ऋषयोऽभवन्तदृषीणामृषित्वं तां देवतामुपातिष्ठन्त यज्ञकामास्त एतं ब्रह्मयज्ञमपश्यन्तमाहरन्तेनायजन्त- इति । यदृचोऽध्यगीषत ताः पयआहुतयो देवानामभवन्यद्यजूषि घृताहुतयो यत्सामानि सोमाहुतयो यदथर्वाङ्गिरसो मध्वा- हुतयो यद्ब्राह्मणानीतिहासान्पुराणानि कल्पान्गाथा नाराशसीर्मेदाहुतयो देवानामभवन्ताभिः क्षुधं पाप्मा- नमपाघ्नन्नपहतपाप्मानो देवाः स्वर्गं लोकमायन्ब्रह्मणः सायुज्यमृषयोऽगच्छन् ( ), इति ।। इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके द्वितीयप्रपाठके नवमोऽनुवाकः ।। ९ ।।

 

2.10 अनुवाक १०

 

पञ्च वा एते महायज्ञाः सतति प्रतायन्ते सतति संतिष्ठन्ते देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयत्र इति,इति । यदसौ जुहोत्यपि समिधं तद्देवयज्ञः संतिष्ठते-,इति । यत्पितृभ्यः स्वधा करोत्यप्यपस्तत्पितृयज्ञः संतिष्ठते-,इति ।

यद्भूतेभ्यो बलि हरति तद्भूतयज्ञः संतिष्ठते-,इति । यद्ब्राह्मणेभ्योऽन्नं ददाति तन्मनुष्ययज्ञः संतिष्ठते-,इति । यत्स्वाध्यायमधीयीतैकामप्यृचं यजुः साम वा तद्ब्रह्मयज्ञः संतिष्ठते-, इति । यदृचोऽधीते पयसः कूल्या अस्य पितॄन्त्स्वधा अभिवहन्ति यद्यजू्षि घृतस्य कूल्या यत्सामानि सोम एभ्यः पवते यदथर्वाङ्गि-रसो मधोः कूल्या यद्ब्राह्मणानीतिहासान्पुराणानि कल्पान्गाथा नाराशसीर्मेदसः कूल्या अस्य पितॄन्स्वधा अभिवहन्ति-,इति । यदृचोऽधीते पयआहुतिभिरेव तद्देवास्तर्पयति यद्यजूँषि घृताहुतिभिर्यत्सामानि सोमाहुतिभिर्यदथर्वाङ्गिरसो मध्वाहुतिभिर्यद्ब्राह्मणानीतिहासान्पुराणानि कल्पान्गाथा नाराशसीर्मेदाहुरतिभिरेव तद्देवाँस्तर्पयति त एनं तृप्ता आयुषा तेजसा वर्चसा श्रिया यशसा ब्रह्मवर्चसेनान्नाद्येन च तर्पयन्ति ( ), इति ।। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके दशमोऽनुवाकः ।। १० ।।

 

2.11 अनुवाक ११

 

ब्रह्मयज्ञेन यक्ष्यमाणः प्राच्यां दिशि ग्रामादछदिर्दर्श उदीच्यां प्रागुदीच्यां वोदित आदित्ये दक्षिणत उपवीयोपविश्य हस्ताववनिज्य त्रिराचामेद्द्विः परिमृज्य सकृदुपस्पृश्य शिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य-, इति । यत्त्रिराचामति तेन ऋचः प्रीणाति यद्द्विः परिमृजति तेन यजूषि यत्सकृदुपस्पृशति तेन सामानि यत्सव्यं पाणिं पादौ प्रोक्षति यच्छिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभते तेनाथर्वा-ङ्गिरसो ब्राह्मणानीतिहासान्पुराणानि कल्पान्गाथां नाराशँसीः प्रीणाति-, इति ।

दर्भाणां महदुपस्तीर्योपस्थं कृत्वा प्राङासीनः स्वाध्यायमधीयीतापां वा एष ओषधीनाम् रसो यद्दर्भाः सरसमेव ब्रह्म कुरुते-, इति । दक्षिणोत्तरौ पाणी पादौ कृत्वा सपवित्रावोमिति प्रतिपद्यत एतद्वै यजुस्त्रयीं विद्यां प्रत्येषा वागेतत्परममक्षरम्-, इति । तदेतदृचाऽभ्युक्तम् , इति । ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुर्यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासत इति-, इति ।

त्रीनेव प्रायुङ्क्त भूर्भुवुः स्वरित्याहैतद्वै वाचः सत्यं यदेव वाचः सत्यं तत्प्रायुङ्क्त-, इति । अथ सावित्रीं गायत्रीं त्रिरन्वाह पच्छोऽर्धर्चशोऽनवान सविता श्रियः प्रसविता श्रियमेवाऽऽप्नोत्यथो प्रज्ञातयैव प्रतिपदा छन्दासि प्रतिपद्यते ( ), इति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठक एकादशोऽनुवाकः ।। ११ ।।

 

2.12 अनुवाक १२

 

ग्रामे मनसा स्वाध्यायमधीयीत दिवा नक्तं वा - इति। इति ह स्माऽऽह शौच आह्नेयः-, इति । उतारण्येऽबल उत वाचोत तिष्ठन्नुत व्रजन्नुताऽऽसीन उत शयानोऽधीयीतैव स्वाध्यायं तपस्वी पुण्यो भवति य एवं विद्वान्त्स्वाध्यायमधीते-,इति । नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि ( ), इति ।  इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके द्वितीयप्रपाठके द्वादशोऽनुवाकः ।। १२ ।।

 

2.13 अनुवाक १३

 

मध्यंदिने प्रबलमधीयीतासौ खलु वावैष आदित्यो यद्ब्राह्मणस्तस्मात्तर्हि तेक्ष्णिष्ठं तपति तदेषाऽभ्युक्ता-, इति । चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षम् सूर्य आत्मा जगतस्तस्थुषश्चेति-इति ।

स वा एष यज्ञः सद्यः प्रतायते सद्यः संतिष्ठते तस्य प्राक्सायमवभृथः -,इति । नमो ब्रह्मण इति परिधानीयां त्रिरन्वाह-,इति । अप उपस्पृश्य गृहानेति ततो यत्किंच ददाति सा दक्षिणा (), इति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके त्रयोदशोऽनुवाकः ।। १३ ।।

 

2.14 अनुवाक १४

 

तस्य वा एतस्य यज्ञस्य मेघो हविर्धानं विद्युदग्निर्वर्ष हविस्तनयित्नुर्वषट्कारो यदवस्फूर्जति सोऽनुवषट्कारो वायुरात्माऽमावास्या स्विष्टकृत्-, इति । य एवं विद्वान्म्रेघे वर्षति विद्योतमाने स्तनयत्यवस्फूर्जति पवमाने वायावमावास्याया स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्याय इति-, इति । उत्तमं नाक रोहत्युत्तमः समानानां भवति यावन्त ह वा इमां वित्तस्य पूर्णां ददत्स्वर्गं लोकं जयति तावन्तं लोकं जयति भूयास चाक्षय्यं चाप पुनर्मृत्युं जयति ब्रह्मणः सायुज्यं गच्छति ( ), इति ।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके चतुर्दशोऽनुवाकः ।। १ ४ ।

 

2.15 अनुवाक १५

 

तस्य वा एतस्य यज्ञस्य द्वावनध्यायौ यदात्माऽशुचिर्यद्देशः-, इति । समृद्धिर्दैवतानि-, इति । य एवं विद्वान्महारात्र उषस्युदिते व्रजस्तिष्ठन्नासीनः शयानोऽरण्ये ग्रामे वा यावत्तरस स्वाध्यायमधीते सर्वाँल्लोकाञ्जयति सर्वाल्लोकाननृणोऽनुसंचरति तदेषाऽभ्युक्ता--, इति । अनृणा अस्मिन्ननृणाः परस्मितृतीये लोके अनृणाः स्याम । ये देवयाना उत पितृयाणाः सर्वान्पथो अनृणा आक्षीयेमेति-, इति । अग्निं वै जातं पाप्मा जग्राह तं देवा आहुतीभिः पाप्मानमपाघ्नन्नाहुतीनां यज्ञेन यज्ञस्य दक्षिणाभिर्दक्षिणानां ब्राह्मणेन ब्राह्मणस्य छन्दोभिश्छन्दसा स्वाध्यायेनापहतपाप्मा स्वाध्यायो देवपवित्रं वा एतत्तं योऽनूत्सृजत्यभागो वाचि भवत्यभागो नाके तदेषाऽभ्युक्ता-, इति । यस्तित्याज सखिविद सखायं न तस्य वाच्यपि भागो अस्ति । यदी शृणोत्यलकं शृणोति न हि प्रवेद सुकृतस्य पन्थामिति-, इति । तस्मात्स्वाध्यायोऽध्येतव्यो यं यं क्रतुमधीते तेन तेनास्येष्टं भवत्यग्नेर्वायोरादित्यस्य सायुज्यं गच्छति तदेषाऽभ्युक्ता-, इति । ये अर्वाङुत वा पुराणे वेदं विद्वासमभितो वदन्त्यादित्यमेव ते परिवदन्ति सर्वे अग्निं द्वितीयं तृतीयं च हसमिति-,इति । यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति तस्माद्ब्राह्मणेभ्यो वेदविद्भ्यो दिवे दिवे नमस्कुर्यान्नाश्लीलं कीर्तयेदेता एव देवताः प्रीणाति ( ), इति ।।

इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके द्वितीयप्रपाठके पञ्चदशोऽनुवाकः ।। १५ ।।

 

2.16 अनुवाक १६

 

रिच्यत इह वा एष प्रेव रिच्यते यो याजयति प्रति वा गृह्णाति याजयित्वा प्रतिगृह्य वाऽनश्नन्त्रिः स्वाध्यायं वेदमधीयीत-, इति । त्रिरात्रं वा सावित्रीं गायत्रीमन्वातिरेचयति-,इति । वरो दक्षिणा वरेणैव वर स्पृणोत्यात्मा हि वरः (), इति ।। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके षोडशोऽनुवाकः ।। १६ ।।

 

2.17 अनुवाक १७

 

दुहे हवा एष छन्दासि यो याजयति स येन यज्ञक्रतुना याजयेत्सोऽरण्यं परेत्य शुचौ देशे स्वाध्यायमेवैनमधीयन्नासीत-, इति । तस्यानशनं दीक्षा स्थानमुपसद आसन सुत्या वाग्जुहूर्मन उपभृद्धृतिर्ध्रुवा प्राणो हविः सामाध्वर्युः स वा एष यज्ञः प्राणदक्षिणोऽनन्तदक्षिणः समृद्धतरः ( ), इति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके सप्तदशोऽनुवाकः ।। १७ ।।

 

2.18 अनुवाक १८

 

कतिधाऽवकीर्णी प्रविशति चतुर्धेत्याहुर्ब्रह्मवादिनो मरुतः प्राणैरिन्द्रं बलेन बृहस्पतिं ब्रह्मवर्चसेनाग्निमेवेतरेण सर्वेण तस्यैतां प्रायश्चित्तिं विदांचकार सुदेवः काश्यपः-, इति । यो ब्रह्मचार्यवकिरेदमावास्याया रात्र्यामग्निं प्रणीयोपसमाधाय द्विराज्यस्योपघातं जुहोति कामावकीर्णोऽस्म्यवकीर्णोऽस्मि काम कामाय स्वाहा कामाभिदुग्धोऽस्म्यभिदुग्धोऽस्मि काम कामाय स्वाहेत्यमृतं वा आज्यममृतमेवाऽऽत्मन्धत्ते - इति । हुत्वा प्रयताञ्जलिः कवातिर्यङ्ङग्निमभिमन्त्रयेत,-इति । सं मांऽऽसिञ्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः । सं माऽयमग्निः सिञ्चत्वायुषा च बलेन चाऽऽयुष्मन्तं करोत मेति-, इति । प्रति हास्मै मरुतः प्राणान्दधति प्रतीन्द्रो वलं प्रति बृहस्पतिर्ब्रह्मवर्चसं प्रत्यग्निरितरः सर्व सर्वतनुर्भूत्वा सर्वमायुरेति, -इति ।

त्रिरभिमन्त्रयेत त्रिषत्या हि देवाः,-इति ।  योऽपूत इव मन्येत स इत्थं जुहुयादित्थमभिमन्त्रयेत पुनीत एवाऽऽत्मानमायुरेवाऽऽत्मन्धत्ते, -इति । वरो दक्षिणा वरेणैव वरम् स्पृणोत्यात्मा हि वरः (), इति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठकेऽष्टादशोऽनुवाकः ।। १८ ।।

 

2.19 अनुवाक १९

 

भूः प्रपद्ये भुवः प्रपद्ये स्वः प्रपद्ये भूर्भुवः स्वः प्रपद्ये ब्रह्म प्रपद्ये ब्रह्मकोशं प्रपद्येऽमृतं प्रपद्येऽमृतकोशं प्रपद्ये चतुर्जालं ब्रह्मक्रोशं यं मृत्युर्नावपश्यति तं प्रपद्ये देवान्प्रपद्ये देवपुरं प्रपद्ये परीवृतो वरीवृतो ब्रह्मणा वर्मणाऽहं तेजसा कश्यपस्य,-इति । यस्मै नमस्तच्छिरो धर्मो मूर्धानं ब्रह्मोत्तरा हनुर्युज्ञोऽ

धरा विष्णुर्हृदय संवत्सरः प्रजननमश्विनौ पूर्वपादावत्रिर्मध्यं मित्रावरुणावपरपादावग्निः पुच्छस्य प्रथमं काण्डं तत इन्द्रस्ततः प्रजापतिरभयं चतुर्थ-, इति । स वा एष दिव्यः शाक्वरः शिशुमारस्त ,-इति । य एवं वेदाप पुनर्मृत्युं जयति जयति स्वर्गं लोकं नाध्वनि प्रमीयते नाग्नौ प्रमीयते नाप्सु प्रमीयते नानपत्यः प्रमीयते लघ्वान्नो भवति,-इति । ध्रुवस्त्वमसि ध्रुवस्य क्षितमसि त्वं भूतानामधिपतिरसि त्वं भूताना श्रेष्ठोऽसि त्वां भूतान्युपपर्यावर्तन्ते नमस्ते नमः सर्वं ते नो नमः शिशुकुमाराय नमः (), इति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठक एकोनविंशोऽनुवाकः ।। १९ ।।

 

2.20 अनुवाक २०

 

नमः प्राच्यै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमः,-इति । नमो दक्षिणायै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमः प्रतीच्यै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नम उदीच्यै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नम ऊर्ध्वायै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमोऽधरायै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमोऽवान्तरायै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमः,-इति । नमो गङ्गायमुनयोर्मध्ये ये वसन्ति ते मे प्रसन्नात्मानश्चिरं जीवितं वर्धयन्ति नमो गङ्गायमुनयोर्मुनिभ्यश्च नमो नमो गङ्गायमुनयोर्मुनिभ्यश्च नमः ( ), इति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके विंशोऽनुवाकः ।। २० ।।

 

सह रक्षासि यद्देवाः सप्तदश यददीव्यन्पञ्चदशाऽऽयुष्टे चतुस्त्रिशशद्वैश्वानराय षड्विशतिर्वातरशना ह कूश्माण्डैरजान्ह पञ्च व्रह्मयज्ञेन ग्रामे मध्यंदिने तस्य वै मेघस्तस्य वै द्वौ रिच्यते दुहे ह कतिधाऽवकीर्णी भूर्नमः प्राच्यं विशतिः  सह वातरशना ह दुहे ह चतुर्विशशतिः ।। नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये  नमो विष्णवे बृहते करोमि ।।

ॐ शान्तिः शान्तिः शान्तिः ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयः प्रपाठकः समाप्तः ।। २ ।।

 

अथ कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठकस्याऽरम्भः ।

    

हरिः ॐ ।

तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं  यज्ञपतये । दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे । शं चतुष्पदे ।।

 ॐ शान्तिः शान्तिः शान्तिः ।।

 

3.1 अनुवाक १

 

ॐ चित्तिः स्रुक् । चित्तमाज्यम् । वाग्वेदिः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाध्वर्युः, इति । वाचस्पते विधे नामन् । विधेम ते नाम । विधेस्त्वमस्माकं नाम । वाचस्पतिः सोमं पिबतु । आऽस्मासु नृम्णं धात्स्वाहा ( ), इति ।। अध्वर्युः पञ्च च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके प्रथमोऽनुवाकः ।। १ ।।

 

3.2 अनुवाक २

पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता, इति । वाचस्पते वाचो वीर्येण । संभृततमेनाऽऽयक्ष्यसे । यजमानाय वार्यम् । आ सुवस्करस्मै । वाचस्पतिः सोमं पिबति । जजनदिन्द्रमिन्द्रियाय स्वाहा ( ), इति ।। पृथिवी होता दश ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके द्वितीयोऽनुवाकः ।। २ ।।

 

3.3 अनुवाक ३

अग्निर्होता । अश्विनाऽध्वर्यू । त्वष्टाऽग्नीत् । मित्र उपवक्ता , इति । सोमः सोमस्य पुरोगाः । शुकः शुकस्य पुरोगाः । श्रातास्त इन्द्र सोमाः । वातापेर्हवनश्रुतः स्वाहा ( ), इति ।। अग्निर्होताऽष्टौ ।।

इति कृप्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके तृतीयोऽनुवाकः ।। ३ ।।

 

3.3 अनुवाक ४

सूर्यं ते चक्षुः । वातं प्राणः । द्यां पृष्ठम् । अन्तरिक्षमात्मा । अङ्गैर्यज्ञम् । पृथिवी शरीरैः, इति । वाचस्पतेऽच्छिद्रया वाचा । अच्छिद्रया जुह्वा । दिवि देवावृध होत्रामेरयस्व स्वाहा ( ), इति ।। सूर्यं ते नव ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।।

 

3.4 अनुवाक ५

महाहविर्होता । सत्यहविरध्वर्युःअच्युतपाजा अग्नीत् । अच्युतमना उपवक्ता । अनाधृष्यश्चाप्रतिधृष्यश्च यज्ञस्याभिगरौ । अयास्य उद्गाता, इति । वाचस्पते हृद्विधे नामन् । विधेम ते नाम । विधेस्त्वमस्माकं नाम । वाचस्पतिः सोममपात् । मा दैव्यस्तन्तुश्छेदि मा मनुष्यः । नमो दिवे । नमः पृथिव्यै स्वाहा ( १३, इति ।

अपात्रीणि च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।

 

3.6 अनुवाक ६

वाग्घोता । दीक्षा पत्नी । वातोऽध्वर्युः । आपोऽभिगरः । मनो हविः । तपसि जुहोमि, इति । भूर्भुवः सुवः । ब्रह्म स्वयंभु । ब्रह्मणे स्वयंभुवे स्वाहा (), इति ।

वाग्घोता नव ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके षष्ठोऽनुवाकः ।। ६ ।।

 

3.7 अनुवाक ७

ब्राह्मण एकहोता । स यज्ञः । स मे ददातु प्रजां पशून्पुष्टिं यशः । यज्ञश्च मे भूयात् इति । अग्निर्द्विहोता । स भर्ता । स मे ददातु प्रजां पशून्पुष्टिं यशः । भर्ता च मे भूयात्, इति । पृथिवी त्रिहोता । स प्रतिष्ठा ( ) । स मे ददातु प्रजां पशून्पुष्टिं यशः । प्रतिष्ठा च मे भूयात्, इति । अन्तरिक्षं चतुर्होता । स विष्ठाः । स मे ददातु प्रजां पशून्पुष्टिं यशः । विष्ठाश्च मे भूयात्, इति । वायुः पञ्चहोता । स प्राणः । स मे ददातु प्रजां पशू न्पुष्टिं यशः । प्राणश्च मे भूयात् ( ), इति । चन्द्रमाः षड्ढोता । स ऋतून्कल्पयाति । स मे ददातु प्रजां पशून्पुष्टिं यशः । ऋतवश्च मे कल्पन्ताम्, इति । अन्न सप्तहोता । स प्राणस्य प्राणः । स मे ददातु प्रजां पशून्पुष्टिं यशः । प्राणस्य च मे प्राणो भूयात्, इति । द्यौरष्टहोता । सोऽनाधृष्यः ( ) । स मे ददातु प्रजां पशून्पुष्टिं यशः । अनाधृष्यश्च भूयासम्, इति । आदित्यो नवहोता । स तेजस्वी । स मे ददातु प्रजां पशून्पुष्टिं यशः । तेजस्वी च भूयासम्, इति । प्रजापतिर्दशहोता । स इद सर्वम् । स मे ददातु प्रजां पशून्पुष्टिं यशः । सर्वं च मे भूयात् ( ), इति । प्रतिष्ठा प्राणश्च मे भूयादनाधृश्यः सर्वं च मे भूयात् ।। ब्राह्मणो यज्ञोऽग्निर्भर्ता पृथिवी प्रत्रिष्ठाऽन्तरिक्षं विष्ठा वायुः प्राणश्चन्द्रमा स ऋतूनन्न स प्राणस्य प्राणो द्यौरनाधृष्य आदित्यः स तेजस्वी प्रजापतिः स इद सर्वं च मे भूयात् ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके सप्तमोऽनुवाकः ।। ७ । ।

 

3.8 अनुवाक ८

अग्निर्यजुर्भिः । सविता स्तोमैः । इन्द्र उक्थामदैः । मित्रावरुणावाशिषा । अङ्गिरसो धिष्णियैरग्निभिः । मरुतः सदोहविर्धानाभ्याम् । आपः प्रोक्षणीभिः । ओषधयो बर्हिषा । अदितिर्वेद्या । सोमो दीक्षया ( ) । त्वष्टेध्मेन । विष्णुर्यज्ञेन । वसव आज्येन । आदित्या दक्षिणाभिः । विश्वे देवा ऊर्जा । पूषा स्वगाकारेण । बृहस्पतिः पुरोधया । प्रजापतिरुद्गीथेन । अन्तरिक्षं पवित्रेण । वायुः पात्रैः । अह श्रद्धया (), इति ।। दीक्षया पात्रैरेकं च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठकेऽष्टमोऽनुवाकः ।। ८ ।।

 

3.9 अनुवाक ९

सेनेन्द्रस्य । धेना बृहस्पतेः । पथ्या पूष्णः । वाग्वायोः । दीक्षा सोमस्य । पृथिव्यग्नेः । वसूनां गायत्री । रुद्राणां त्रिष्टुक् । आदित्यानां जगती । विष्णोरनुष्टुक् () । वरुणस्य विराट् । यज्ञस्य पङ्क्तिः । प्रजापतेरनुमतिः । मित्रस्य श्रद्धा । सवितुः प्रसूतिः । सूर्यस्य मरीचिः । चन्द्रमसो रोहिणी । ऋषीणामरुन्धती । पर्जन्यस्य विद्युत् । चतस्रो दिशः । चतस्रोऽवान्तरदिशाः । अहश्च रात्रिश्च । कृषिश्च वृष्टिश्च । त्विषिश्चापचितिश्च । आपश्चौषधयश्च । ऊर्क् च सूनृता च देवानां पत्नयः ( ), इति । अनुष्टुग् दिशः षट् च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके नवमोऽनुवाकः ।। ९ ।।

 

3.10 अनुवाक १०

देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्यां प्रतिगृह्णामि । राजा त्वा वरुणो नयतु । देवि दक्षिणेऽग्नये हिरण्यम् । तेनामृतत्वमश्याम् । वयो दात्रे । मयो मह्यमस्तु प्रतिग्रहीत्रे । क इदं कस्मा अदात् । कामः कामाय । कामो दाता ( ) । कामः प्रतिग्रहीता । काम समुद्रमाविश । कामेन त्वा प्रतिगृह्णामि । कामैतत्ते । एषा ते काम दक्षिणा । उत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णातु, इति । सोमाय वासः । रुद्राय गाम् । वरुणायाश्वम् । प्रजापतये पुरुषम् ( ) । मनवे तल्पम् । त्वष्ट्रेऽजाम् । पूष्णेऽ विम् । निर्ऋत्या अश्वतरगर्दभौ । ह्रिमवतो हस्तिनम् । गन्धर्वाप्सराभ्यः स्रगलंकरुणे । विश्वेभ्यो देवेभ्यो धान्यम् । वाचेऽन्नम् । ब्रह्मण ओदनम् । सुमुद्रायापः ( ) । उत्तानायाऽऽङ्गीरसायानः । वैश्वानराय रथम्, इति । वैश्वानरः प्रत्नथा नाकमारुहत् । दिवः पृष्ठं भन्दमानः समन्मभिः । स पूर्ववज्जनयज्जन्तवे धनम् । समानमज्मा परियाति जागृविः, इति । राजा त्वा वरुणो नयतु देवि दक्षिणे वैश्वानराय रथम् । तेनामृतत्वमश्याम् । वयो दात्रे । मयो मह्यमस्तु प्रतिग्रहीत्रे ( ) । क इदं कस्मा अदात् । कामः कामाय । कामो दाता । कामः प्रतिग्रहीता । काम समुद्रमाविश । कामेन त्वा प्रतिगृह्णामि । कामैतत्ते । एषा ते काम दक्षिणा । उत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णातु ( ), इति ।। दाता पुरुषमापः प्रतिग्रहीत्रे नव च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके दशमोऽनुवाकः ।। १० ।।

 

3.11 अनुवाक ११

सुवर्णं घर्मं परिवेद वेनम् । इन्द्रस्याऽऽत्मानं दशधा चरन्तम् । अन्तः समुद्रे मनसा चरन्तम् । ब्रह्माऽन्वविन्दद्दशहोतारमर्णे । अन्तः प्रविष्टः शास्ता जनानाम् । एकः सन्बहुधा विचारः । शत शुक्राणि यत्रैकं भवन्ति । सर्वे वेदा यत्रैकं भवन्ति । सर्वे होतारो यत्रैकं भवन्ति । स मानसीन आत्मा जनानाम् ( ) । अन्तः प्रविष्टः शास्ता जनाना सर्वात्मा । सर्वाः प्रजा यत्रैकं भवन्ति । चतुर्होतारो यत्र संपदं गच्छन्ति देवैः । स मानसीन आत्मा जनानाम्, इति । ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठाम् । दिव आत्मान सवितारं बृहस्पतिम् । चतुर्होतारं प्रदिशोऽनुक्लृप्तम् । वाचो वीर्यं तपसाऽन्वविन्दत्, इति । अन्तः प्रविष्टं कर्तारमेतम् । त्वष्टार रूपाणि विकुर्वन्तं विपश्चिम् ( ) । अमृतस्य प्राणं यज्ञमेतम् । चतुहोंतृणामात्मानं कवयो निचिक्युः, इति । ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठाम् । दिव आत्मान सवितारं बृहस्पतिम् । चतुर्होतारं प्रदिशोऽनुक्लृप्तम् । वाचो वीर्यं तपसाऽन्वविन्दत्, इति । अन्तः प्रविष्टं कर्तारमेतम् । त्वष्टार रूपाणि विकुर्वन्तं विपश्चिम् ( ) । अमृतस्य प्राणं यज्ञमेतम् । चतुहोंतृणामात्मानं कवयो निचिक्युः, इति । इन्द्र राजान सवितारमेतम् । वायोरात्मानं कवय्रो निचिक्युः । रश्मि रश्मीनां मध्ये तपन्तम् । ऋतस्य पदे कवयो निपान्ति, इति । य आण्डकोशे भुवनं बिभर्ति । अनिर्भिण्णः सन्नथ लोकान्विचष्टे । यस्याऽऽण्डकोश शुष्ममाहुः प्राणमुल्बम् । तेन क्लृप्तोऽमृतेनाहमस्मि, इति । सुवर्णं कोश रजसा परीवृतम् । देवानां वसुधानीं विराजम् ( ) । अमृतस्य पूर्णां तामु कलां विचक्षते । पाद षड्ढोतुर्न किलाऽऽविवित्से, इति । येनर्तवः पञ्चधोत क्लृप्ता । उत वा षड्धा मनसोत क्लृप्ताः । तत् षड्ढोतारमृतुभिः कल्पमानम् । ऋतस्य पदे कवयो निपान्ति, इति । अन्तः प्रविष्टं कर्तारमेतम् । अन्तश्चन्द्रमसि मनसा चरन्तम् । सहैव सन्तं न विजानन्ति देवाः । इन्द्रस्याऽऽत्मान शतधा चरन्तम् ( ), इति । इन्द्रो राजा जगतो य ईशे । सप्तहोता सप्तधा विक्लृप्तः, इति । परेण तन्तुं परिषिच्यमानम् । अन्तरादित्ये मनसा चरन्तम् । देवाना हृदयं ब्रह्माऽन्वविन्दत्, इति । ब्रह्मैतद्ब्रह्मण उज्जभार । अर्क श्चोतन्त सरिरस्य मध्ये, इति । आ यस्मिन्त्सप्त पेरवः । मेहन्ति बहुला श्रियम् । बह्वश्वामिन्द्र गोमतीम् (), इति । अच्युतां बहुला श्रियम् । स हरिर्वसुवित्तमः । पेरुरिन्द्राय पिन्वते, इति । बह्वश्वामिन्द्र गोमतीम् । अच्युतां बहुला श्रियम् । मह्यमिन्द्रो नियच्छतु, इति । शत शता अस्य युक्ता हरीणाम् । अर्वाङायातु वसुभी रश्मिरिन्द्रः ।प्रमहमाणो बहुला श्रियम्। रश्मिरिन्द्रः सविता मे नियच्छतु ( ), इति । घृतं तेजो मधुमदिन्द्रियम् । मय्ययमग्निर्दधातु, इति । हरिः पतङ्गः पटरी सुपर्णः । दिविक्षयो नभसा य एति । स न इन्द्रः कामवरं ददातु, इति। पञ्चारं चक्रं परिवर्तते पृथु । हिरण्यज्योतिः सरिरस्य मध्ये । अजस्रं ज्योतिर्नभसा सर्पदेति । स न इन्द्रः कामवरं ददातु, इति । सप्त युञ्जन्ति रथमेकचक्रम् ( ) । एको अश्वो बहति सप्तनामा । त्रिनाभिं चक्रमजरमनर्वम् । येनेमा विश्वा भुवनानि तस्थुः, इति । भद्रं पश्यन्त उपसेदुरग्रे । तपो दीक्षामृषयः सुवर्विदः । ततः क्षत्त्रं बलमोजश्च जातम् । तदस्मै देवा अभिसंनमन्तु, इति । श्वेत रश्मिं बोभुज्यमानम् । अपां नेतारं भुवनस्य गोपाम् । इन्द्रं निचिक्युः परमे व्योमन् ( ), इति । रोहिणीः पिङ्गला एकरूपाः । क्षरन्तीः पिङ्गला एकरूपाः । शत सहस्राणि प्रयुतानि नाव्यानाम्, इति । अयं यः श्वेतो रश्मिः । परि सर्वमिदं जगत् । प्रजां पशून्धनानि । अस्माकं ददातु, इति । श्वेतो रश्मिः परि सर्वं बभूव । सुवन्मह्यं पशून्विश्वरूपान्, इति। पतङ्गमक्तमसुरस्य मायया ( १०) । हृदा पश्यन्ति मनसा मनीषिणः । समुद्रे अन्तः कवयो विचक्षते । मरीचीनां पदमिच्छन्ति वेधसः, इति । पतङ्गो वाचं मनसा बिभर्ति । तां गन्धर्वोऽवदद्गर्भे अन्तः । तां द्योतमाना स्वर्यं मनीषाम् । ऋतस्य पदे कवयो निपान्ति, इति । ये ग्राम्याः पशवो विश्वरूपाः । विरूपाः सन्तो बहुधैकरूपाः । अग्निस्ता अग्रे प्रमुमोक्तु देवः (११) । प्रजापतिः प्रजया संविदानः, इति । वीत स्तुके स्तुके । युवमस्मासु नियच्छतम् । प्र प्र यज्ञपतिं तिर, इति ।

ये ग्राम्याः पशवो विश्वरूपाः । विरूपाः सन्तो बहुधैकरूपाः । तेषा सप्तानाम्रिह रन्तिरस्तु । रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय, इति । य आरण्याः पशवो विश्वरूपाः । विरूपाः सन्तो बहुधैकरूपाः । वायुस्ता अग्रे प्रमुमोक्तु देवः । प्रजापतिः प्रजया संविदानः, इति । इडायै सृप्तं घृतवच्चराचरम् । देवा अन्वविन्दन्गुहाहितम्, इति । य आरण्याः पशवो विश्वरूपाः । विरूपा सन्तो बहुधैकरूपाः । तेषा सप्तानामिह रन्तिरस्तु । रायस्पोषाय सुप्रज्रास्त्वाय सुवीर्याय (१२), इति ।। आत्मा जनानां विकुर्वन्तं विपश्चिं प्रजानां वसुधानीं विराजं चरन्तं गोमतीं मे नियच्छत्वेकचक्रं व्योमन्मायया देव एकरूपा अष्टौ च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठक एकादशोऽनुवाकः ।। ११ ।।

 

3.12 अनुवाक १२

सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वा । अत्यतिष्ठद्दशाङ्गुलम्, इति । पुरुष एवेद सर्वम् । यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानः । यदन्नेनातिरोहति, इति । एतावानस्य महिमा । अतो ज्यायाश्च पूरुषः ( ) । पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि, इति । त्रिपादूर्ध्व उदैत्पुरुषः । पादोऽस्येहाऽभवात्पुनः । ततो विष्वङ्व्यक्रामत् । साशनानशने अभि, इति । तस्माद्विराडजायत । विराजो अधि पूरुषः । स जातो अत्यरिच्यत । पश्चाद्भूमिमथो पुरः (), इति । यत्पुरुषेण हविषा । देवा यज्ञमतन्वत । वसन्तो अस्याऽऽसीदाज्यम् । ग्रीष्म इध्मः शरद्धविः, इति । सप्तास्याऽऽसन्परिधयः । त्रिःसप्त समिधः कृताः । देवा यद्यज्ञं तन्वानाः । अबध्नन्पुरुषं पशुम्, इति । तं यज्ञं बर्हिषि प्रौक्षन् । पुरुषं जातमग्रतः () । तेन देवा अयजन्त । साध्या ऋषयश्च ये, इति । तस्माद्यज्ञात्सर्वहुतः । संभृतं पृषदाज्यम् । पशूस्ताश्चक्रे वायव्यान् । आरण्यान्ग्राम्याश्च ये, इति । तस्माद्यज्ञात्सर्वहुतः । ऋचः सामानि जज्ञिरे । छन्दासि जज्ञिरे तस्मात् । यजुस्तस्मादजायत (), इति । तस्मादश्वा अजायन्त । ये के चोभयादतः । गावो ह जज्ञिरे तस्मात् । तस्माज्जाता अजावयः, इति । यत्पुरुषं व्यदधुः । कतिधा व्यकल्पयन् । मुखं किमस्य कौ बाहू । कावूरू पादावुच्येते, इति । ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः ( ) । ऊरू तदस्य यद्वैश्यः । पद्भ्याम् शूद्रो अजायत, इति । चन्द्रमा मनसो जातः । चक्षोः सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत, इति । नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात् । तथा लोका अकल्पयन् ( ), इति । वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन्यदास्ते, इति । धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्प्रदिशश्चतस्रः । तमेवं विद्वानमृतं इह भवति । नान्यः पन्था अयनाय विद्यते, इति । यज्ञेन यज्ञमयजन्त देवाः । तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्ते । यत्र पूर्वे साध्याः सन्ति देवाः ( ), इति । पूरुषः पुरोऽग्रतोऽजायत कृतोऽकल्पयन्नासन्द्वे च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके द्रादशोऽनुवाकः ।। १२ ।।

 

3.13 अनुवाक १३

अद्भ्यः संभूतः पृथिव्यै रसाच्च । विश्वकर्मणः समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति । तत्पुरुषस्य विश्वमाजानमग्रे, इति । वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसः परस्तात् । तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यतेऽयनाय,इति । प्रजापतिश्चरति गर्भे अन्तः । अजायमानो बहुधा विजायते ( ) । तस्य धीराः परिजानन्ति योनिम् । मरीचीनां पदमिच्छन्ति वेधसः, इति । यो देवेभ्य आतपति । यो देवानां पुरोहितः । पूर्वो यो देवेभ्यो जातः । नमो रुचाय ब्राह्मये, इति । रुचं ब्राह्मं जनयन्तः । देवा अग्रे तदब्रुवन् । यस्त्वैवं ब्राह्मणो विद्यात् । तस्य देवा असन्वशे, इति । ह्रीश्च ते लक्ष्मीश्च पत्न्यौ । अहोरात्रे पार्श्वे । नक्षत्राणि रूपम् । अश्विनौ व्यात्तम्। इष्टं मनिषाण । अमुं मनिषाण । सर्वं मनिषाण ( ), इति ।। जायते वशे सप्त च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके त्रयोदशोऽनुवाकः ।। १३ ।।

 

3.14 अनुवाक १४

भर्ता सन्भ्रियमाणो बिभर्ति । एको देवो बहुधा निविष्टः । यदा भारं तन्द्रयते स भर्तुम् । निधाय भारं पुनरस्तमेति, इति । तमेव मृत्युममृतं तमाहुः । तं भर्तारं तमु गोप्तारमाहुः । स भृतो भ्रियमाणो बिभर्ति । य एनं वेद सत्येन भर्तुम्, इति । सद्योजातमुत जहात्येषः । उतो जरन्तं न जहात्येकम् ( ) । उतो बहूनेकमहर्जहार । अतन्द्रो देवः सदमेव प्रार्थः, इति । यस्तद्वेद यत आबभूव । संधां च या संदधे ब्रह्मणैषः । रमते तस्मिन्नुत जीर्णे शयाने । नैनं जहात्यहस्सु पूर्व्येषु, इति । त्वामापो अनु सर्वाश्चरन्ति जानतीः । वत्सं पयसा पुनानाः । त्वमग्नि हव्यवाह समिन्त्से त्वं भर्ता मातरिश्वा प्रजानाम् ( ), इति । त्वं यज्ञस्त्वमु वेवासि सोमः । तव देवा हवमायन्ति सर्वे । त्वमेकोऽसि बहूननुप्रविष्टः । नमस्ते अस्तु सुहवो म एधि, इति । नमो वामस्तु शृणुत हवं मे । प्राणापानावजिर संचरन्तौ । ह्वयामि वां ब्रह्मणा तूर्तमेतम् । यो मां द्वेष्टि तं जहितं युवाना, इति प्राणापानौ संविदानौ जहितम् । अमुप्यासुना मा संगसाथाम् ( ) । तं मे देवा ब्रह्मणा संविदानौ । वधाय दत्तं तमह हनामि, इति । असज्जजान सत आबभूव । यं यं जजान स उ गोपो अस्य । यदा भारं तन्द्रयते स भर्तुम् । परास्य भारं पुनरस्तमेति, इति । तद्वै त्वं प्राणो अभवः । महान्भोगः प्रजापतेः । भुजः करिष्यमाणः । यद्देवान्प्राणयो नव ( ), इति ।। एकं प्रजानां गसाथां नव ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके चतुर्दशोऽनुवाकः ।। १४ ।।

 

3.15 अनुवाक १५

हरि हरन्तमनुयन्ति देवाः । विश्वस्येशानं वृषभं मतीनाम् । ब्रह्म सरूपमनु मेद्-मागात् । अयनं मा विवधीर्विक्रमस्व, इति । मा छिदो मृत्यो मा वधीः । मा मे बलं

विवृहो मा प्रमोषीः । प्रजां मा मे रीरिष आयुरुग्र । नृचक्षसं त्वा हविषा विधेम, इति । सद्यश्चकमानाय । प्रवेपानाय मृत्यवे () । प्रास्मा आशा अशृण्वन् । कामेनाजनयन्पुनः, इति । कामेन मे काम आगात् । हृदयाद्धृदयं मृत्योः । यदमीषामदः प्रियम् । तदैतूप मामभि, इति । परं मृत्यो अनुपेरहि पन्थाम् । यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते व्रवीमि । मा न प्रजा रीरिषो मोत वीरान्, इति । प्र पूर्व्यं मनसा वन्दमानः । नाधमानो वृषभं चर्षणीनाम् । यः प्रजानामेकराण्मानुषीणाम् । मृत्युं यजे प्रथमजामृतस्य () इति ।। मृत्यवे वीराँश्चत्वारि च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके पञ्चदशोऽनुवाकः ।। १५ ।।

 

3.16 अनुवाक १६

तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमाभासि रोचनम् । उपयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वत एष ते योनिः सूर्याय त्वा भ्राजस्वते, इति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके षोडशोऽनुवाकः ।। १६ ।।

 

3.17 अनुवाक १७

आप्यायस्व मदिन्तम सोम विश्वाभिरूतिभिः । भवा नः सप्रथस्तमः, इति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके सप्तदशोऽनुवाकः ।। १७ ।।

 

3.18 अनुवाक १८

ईयुष्टे ये पूर्वतरामपश्यन्व्युच्छन्तीमुषसं मर्त्यासः । अस्माभिरू नु प्रतिचक्ष्याऽभूदो ते यन्ति ये अपरीषु पश्यान्, इति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठकेऽष्टादशोऽनुवाकः ।। १८ ।।

 

3.19 अनुवाक १९

ज्योतिष्मतीं त्वा सादयामि ज्योतिष्कृतं त्वा सादयामि ज्योतिर्विदं त्वा सादयामि भास्वतीं त्वा सादयामि ज्वलन्तीं त्वा सादयामि मल्मला भवन्तीं त्वा सादयामि दीप्यमानां त्वा सादयामि रोचमानां त्वा सादयाम्यजस्रां त्वा सादयामि बृहज्ज्योतिषं त्वा सादयामि बोधयन्तीं त्वा सादयामि जाग्रतीं त्वा सादयामि, इति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठक एकोनविंशोऽनुवाकः ।। १९ ।।

 

3.20 अनुवाक २०

प्रयासाय स्वाहाऽऽयासाय स्वाहा वियासाय स्वाहा संयासाय स्वाहोद्यासाय स्वाहाऽवयासाय स्वाहा शुचे स्वाहा शोकाय स्वाहा तप्यत्वै स्वाहा तपते स्वाहा ब्रह्महत्यायै स्वाहा सर्वस्मै स्वाहा, इति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके विंशोऽनुवाकः ।। २० ।।

 

3.21 अनुवाक २१

चित्त संतानेन भवं यक्ना रुद्रं तनिम्ना पशुपति स्थूलहृदयेनाग्नि हृदयेन रुद्रं लोहितेन शर्वं मतस्नाभ्यां महादेवमन्तःपार्श्वेनौषिष्ठहन शिङ्गीनिकोश्याभ्याम् (), इति ।। चित्तमेकम् ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठक एकविंशोऽनुवाकः ।। २१ ।।

 

चित्तिः पृथिव्यग्निः सूर्यं ते चक्षुर्महाहविर्होता वाग्घोता ब्राह्मण एकहोताऽग्निर्यजुर्भिः सेनेन्द्रस्य देवस्य सुवर्णं घर्म सहस्रशीर्षाऽद्भ्यो भर्ता हरिं तरणिराप्यायस्वेयुष्टे ये ज्योतिष्मतीं प्रयासाय चित्तमेकविशतिः ।। २१ ।।

 

चित्तिरग्निर्यजुर्भिरन्तःप्रविष्टः प्रजापतिः प्रजया संविदा नस्तस्य धीरा ज्योतिष्मतीं त्रिपञ्चाशत् ।। ५३ ।।

 

तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे । शं चतुष्पदे ।।

ॐ शान्तिः शान्तिः शान्तिः ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयः प्रपाठकः समाप्तः ।। ३ ।।

आगामी पृष्ठः (प्रपाठकाः ४ - ८)