"ऋग्वेदः सूक्तं १.२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(लघु) १७ अवतरण: rigveda and other pages
(भेदः नास्ति)

०८:४४, २० मार्च् २०११ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.२


वायवा याहि दर्शतेमे सोमा अरंकृताः ।
तेषां पाहि श्रुधी हवम् ॥१॥
वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः ।
सुतसोमा अहर्विदः ॥२॥
वायो तव प्रपृञ्चती धेना जिगाति दाशुषे ।
उरूची सोमपीतये ॥३॥
इन्द्रवायू इमे सुता उप प्रयोभिरा गतम् ।
इन्दवो वामुशन्ति हि ॥४॥
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
तावा यातमुप द्रवत् ॥५॥
वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम् ।
मक्ष्वित्था धिया नरा ॥६॥
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् ।
धियं घृताचीं साधन्ता ॥७॥
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ।
क्रतुं बृहन्तमाशाथे ॥८॥
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
दक्षं दधाते अपसम् ॥९॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.२&oldid=3949" इत्यस्माद् प्रतिप्राप्तम्