"तैत्तिरीयारण्यकम्(विस्वर)" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
तैत्तिरीय आरण्यकम्
<big>तैत्तिरीय आरण्यकम्

1.22
1.22

प्रपाठक 1, अनुवाक 22
प्रपाठक 1, अनुवाक 22


पङ्क्तिः ४६: पङ्क्तिः ४८:


1.23
1.23

आपो वा इदमासन्त्सलिलमेव । स प्रजापतिरेकः पुष्करपर्णे समभवत् । तस्यान्तर्मनसि कामः समवर्तत । इदँ सृजेयमिति । तस्माद्यत्पुरुषो मनसाऽभिगच्छति । तद्वाचा वदति । तत्कर्मणा करोति । तदेषाऽभ्यनूक्ता, इति ।
आपो वा इदमासन्त्सलिलमेव । स प्रजापतिरेकः पुष्करपर्णे समभवत् । तस्यान्तर्मनसि कामः समवर्तत । इदँ सृजेयमिति । तस्माद्यत्पुरुषो मनसाऽभिगच्छति । तद्वाचा वदति । तत्कर्मणा करोति । तदेषाऽभ्यनूक्ता, इति ।


पङ्क्तिः ८१: पङ्क्तिः ८४:


1.24
1.24

चतुष्टय्य आपो गृह्णाति । चत्वारि वा अपां रूपाणि । मेघो विद्युत् । स्तनयित्नुर्वृष्टिः । तान्येवावरुन्धे, इति ।
चतुष्टय्य आपो गृह्णाति । चत्वारि वा अपां रूपाणि । मेघो विद्युत् । स्तनयित्नुर्वृष्टिः । तान्येवावरुन्धे, इति ।


पङ्क्तिः १०८: पङ्क्तिः ११२:


1.25
1.25

जानुदघ्नीमुत्तरवेदीं खात्वा । अपां पूरयति । अपां सर्वत्वाय, इति ।
जानुदघ्नीमुत्तरवेदीं खात्वा । अपां पूरयति । अपां सर्वत्वाय, इति ।


पङ्क्तिः १२५: पङ्क्तिः १३०:
विराज्येव प्रतितिष्ठति । य एतमग्निं चिनुते । य उ चैनमेवं वेद ( ३), इति ।। अस्ति पृणान्तरिक्षं पादः षट्च ।।
विराज्येव प्रतितिष्ठति । य एतमग्निं चिनुते । य उ चैनमेवं वेद ( ३), इति ।। अस्ति पृणान्तरिक्षं पादः षट्च ।।
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके पञ्चविंशोऽनुवाकः ।। २५ ।।
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके पञ्चविंशोऽनुवाकः ।। २५ ।।
</big>

२३:५५, १० फेब्रवरी २०१५ इत्यस्य संस्करणं

तैत्तिरीय आरण्यकम्

1.22

प्रपाठक 1, अनुवाक 22

योऽपां पुष्पं वेद । पुष्पवान्प्रजावान्पशुमान्भवति । चन्द्रम्रा वा अपां पुष्पम् । पुष्पवान्प्रजावान्पशुमान्भवति । य एवं वेद, इति ।

योऽपामायतनं वेद । आयतनवान्भवति । अग्निर्वा अपामायतनम् । आयतनवान्भवति । योऽग्नेरायतनं वेद ( १) । आयतनवान्भवति । आपो वा अग्नेरायतनम् । आयतनवान्भवति । य एवं वेद, इति । योऽपामायतनं वेद । आयतनवान्भवति । वायुर्वा अपामायतनम् । आयतनवान्भवति । यो वायोरायतनं वेद । आयतनवान्भवति ( २) । आपो वै वायोरायतनम् । आयतनान्भवति । य एवं वेद, इति ।

योऽपामायतनं वेद । आयतनवान्भवति । असौ वै तपन्नपामायतनम् । आयतनवान्भवति । योऽमुष्य तपत आयतनं वेद । आयनवान्भवति । आपो वा अमुष्य तपत आयतनम् (३) । आयतनवान्भवति । य एवं वेद, इति ।

योऽपामायतनं वेद । आयतनवान्भवति । चन्द्रमा वा अपामायतनम् । आयतनवान्भवति । यश्चन्द्रमस आय तनं वेद । आयतवान्भवति । आपो वै चन्द्रमस आयतनम् । आयतनान्भवति ( ४) । य एवं वेद, इति ।

योऽपामायतनं वेद । आयतनवान्भवति । नक्षत्राणि वा अपामायतनम् । आयतनवान्भवति । यो नक्षत्राणामायतनं वेद । आयतनवान्भवति । आपो वै नक्षत्राणामा यतनम् । आयतनवान्भवति । य एवं वेद ( ५), इति । योऽपामायतनं वेद । आयतनवान्भवति । पर्जन्यो वा अपामायतनम् । आयतनवान्भवति । यः पर्जन्यस्याऽऽयतनं वेद । आयतनवान्भवति । आपो वै पर्जन्यस्याऽऽयतनम् । आयतनवान्भवति । य एवं वेद, इति ।

योऽपामायतनं वेद ( ६) । आयतनवान्भवति । संवत्सरो वा अपामायतनम् । आयतनवान्भवति । यः संवत्सर स्याऽऽयतनं वेद । आयतनवान्भवति । आपो वै संवत्सरस्याऽऽयतनम् । आयतनवान्भवति । य एवं वेद, इति ।

योऽप्सु नावं प्रतिष्ठितां वेद । प्रत्येव तिष्ठति ( ७) । इमे वै लोका अप्सु प्रतिष्ठिताः । तदेषाऽभ्यनूक्ता, इति ।

अपां रसमुदयं सन् । सूर्ये शुक्रम् समाभृतम् । अपाँ रसस्य यो रसः । तं वो गृह्णाम्युत्तममिति, इति । इमे वै लोका अपाँ रसः । तेऽमुष्मिन्नादित्ये समाभृताः, इति ।

जानुदघ्नीमुत्तरवेदीं खात्वा । अपां पूरयित्वा गुल्फदघ्नम् । ( ८) । पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च सँस्तीर्य । तस्मिन्विहायसे । अग्निं प्रणीयोपसमाधाय,, इति ।

ब्रह्मवादिनो वदन्ति । कस्मात्प्रणीतेऽयमग्निश्चीयते । साप्प्रणीतेऽयमप्सु ह्ययं चीयते । असौ भुवनेऽप्यनाहिताग्निरेताः । तमभित एता अबीष्टका उपदधाति, इति ।

अग्निहोत्रे दर्शपूर्णमासयोः । पशुबन्धे चातुर्मास्येषु । ( ९) अथो आहुः । सर्वेषु यज्ञक्रतुष्विति, इति ।

एतद्ध स्म वा आहुः शण्डिलाः । कमग्निं चिनुते । सत्रियमग्निं चिन्वानः । संवत्सरं प्रत्यक्षेण, इति ।

कमग्निं चिनुते । ( १०) नाचिकेतमग्निं चिन्वानः । प्राणान्प्रत्यक्षेण, इति ।

कमग्निं चिनुते । चातुर्होत्रियमग्निं चिन्वानः । ब्रह्म प्रत्यक्षेण, इति ।

कमग्निं चिनुते । वैश्वसृजमग्निं चिन्वानः । शरीरं प्रत्यक्षेण, इति ।

कमग्निं चिनुते । उपानुवाक्यमाशुमग्निं चिन्वानः ।( ११) इमाँल्लोकान्प्रत्यक्षेण इति । कमग्निं चिनुते । इममारुणकेतुकमग्निं चिन्वान इति । य एवासौ । इतश्चामुतश्चाव्यतीपाती । तमिति, इति ।

योऽग्नेर्मिथूया वेद । मिथुनवान्भवति । आपो वा अग्नेर्मिथूयाः । मिथुनवान्भवति । य एवं वेद ( १२), इति । वेद भवत्यायतनमायतनवान्भवति वेद वेद तिष्ठति गुल्फदघ्नं चातुर्मास्येष्वमुमादित्यं प्रत्यक्षेण कमग्निं चिनुत उपानुवाक्यमाशुमग्निं चिन्वानो मिथूया मिथुनवान्भवत्येकं च ।। पुष्पमग्निर्वायुरसौ वै तपन्,चन्द्रमा नक्षत्राणि पर्जन्यः संवत्सरस्तिष्ठति सत्रियँ संवत्सरँ सावित्रममुं नाचिकेतं प्राणाँश्चातुर्होत्रियं ब्रह्म वैश्वसृजँ शरीरमुपानुवाक्यमाशुमिमाँल्लोकानिममारुणकेतुकं य एवासौ ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके द्वाविंशोऽनुवाकः ।। २२ ।।


1.23

आपो वा इदमासन्त्सलिलमेव । स प्रजापतिरेकः पुष्करपर्णे समभवत् । तस्यान्तर्मनसि कामः समवर्तत । इदँ सृजेयमिति । तस्माद्यत्पुरुषो मनसाऽभिगच्छति । तद्वाचा वदति । तत्कर्मणा करोति । तदेषाऽभ्यनूक्ता, इति ।

कामस्तदग्रे समवर्तताधि । मनसो रेतः प्रथमं यदासीत् ( १) । सतो बन्धुमसति निरविन्दन् । हृदि प्रतीष्या कवयो मनीषेति, इति । उपैनं तदुपनमति । यत्कामो भवति । य एवं वेद, इति ।

स तपोऽतप्यत । स तपस्तप्त्वा । शरीरमधूनुत । तस्य यन्माँसमासीत् । ततोऽरुणाः केतवो वातरशना ऋषय उद तिष्ठन् (२) । ये नखाः । ते वैखानसाः । ये वालाः । ते वालखिल्याः । यो रसः । सोऽपाम्, इति ।

अन्तरतः कृर्मं भूतँ सर्पन्तम् । तमब्रवीत् । मम वै त्वङ्माँसा । समभूत् ( ३ । नेत्यब्रवीत् । पूर्वमेवाहमिहाऽऽसमिति । तत्पुरुषस्य पुरुषत्वम् । स सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । भूत्वोदतिष्ठत् । तमब्रवीत् । त्वं वै पूर्वँ समभूः । त्वमिदं पूर्वः कुरुष्वेति, इति ।

स इत आदायापः ( ४) । अञ्जलिना पुरस्तादुपादधात् । एवा ह्येवेति । तत आदित्य उदतिष्ठत् । सा प्राची दिक्, इति ।

अथाऽऽरुणः केतुर्दक्षिणत उपादधात् । एवा ह्यग्न इति । ततो वा अग्निरुदतिष्ठत् । सा दक्षिणा दिक् । अथाऽऽरुणः केतुः पश्चादुपादधात् । एवा हि वायो इति । ( ५) ततो वायुरुदतिष्ठत् । सा प्रतीची दिक् । अथाऽऽरुणः केतुरुत्तरत उपादधात् । एवा हीन्द्रेति । ततो वा इन्द्र उदतिष्ठत् । सोदीची दिक् । अथाऽऽरुणः केतुर्मध्य उपादधात् । एवा हि पूषन्निति । ततो वै पूषोदतिष्ठत् । सेयं दिक् । ( ६) अथाऽऽरुणः केतुरुपरिष्टादुपादधात् । एवा हि देवा इति । ततो देवमनुष्याः पितरः । गन्धर्वाप्सश्चोदतिष्ठन् । सोर्ध्वा दिक्, इति ।

या विप्रुषो वि परापतन् । ताभ्योऽसुरा रक्षांसि पिशाचाश्चोदतिष्ठन् । तस्मात्ते पराभवन् । विप्रुड्भ्यो हि ते समभवन्, इति ।

तदेषाऽभ्यनूक्ता ( ७), इति ।

आपो ह यद्बृहतीर्गर्भमायन् । दक्षं दधाना जनयन्तीः स्वयंभुम् । तत इमेऽध्यसृज्यन्त सर्गाः । अद्भ्यो वा इदं समभूत् । तस्मादिदं सर्वं ब्रह्म स्वयंभ्विति, इति । तस्मादिदं सर्वं शिथिलमिवाध्रुवमिवाभवत्, इति ।

प्रजापतिर्वाव तत् । आत्मनाऽऽत्मानं विधाय । तदेवानुप्राविशत्, इति ।

तदेषाऽभ्यनूक्ता ( ८) इति ।

विधाय लोकान्विधाय भूतानि । विधाय सर्वाः प्रदिशो दिशश्च । प्रजापतिः प्रथमजा ऋतस्य । आत्मनाऽऽत्मानमभिसंविवेशेति, इति ।


सर्वमेवेदमाप्त्वा । सर्वमवरुध्य । तदेवानुप्रविशति । य एवं वेद ( ०, इति ।।


इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके त्रयोविंशोऽनुवाकः । । २३ ।।


1.24

चतुष्टय्य आपो गृह्णाति । चत्वारि वा अपां रूपाणि । मेघो विद्युत् । स्तनयित्नुर्वृष्टिः । तान्येवावरुन्धे, इति ।

आतपति वर्ष्यां गृह्णाति । ताः पुरस्तादुपदधाति । एता वै ब्रह्मवर्चस्या आपः । मुखत एव ब्रह्मवर्चसमवरुन्धे । तस्मान्मुखतो ब्रह्मवर्चसितरः ( १), इति ।

कूप्या गृह्णाति । ता दक्षिणत उपदधाति । एता वै तेजस्वनीरापः । तेज एवास्य दक्षिणतो दधाति । तस्माद्दक्षिणोऽर्धस्तेजस्वितरः,इति ।

स्थावरा गृह्णाति । ताः पश्चादुपदधाति । प्रतिष्ठिता वै स्थावराः । पश्चादेव प्रतितिष्ठति, इति ।

वहन्तीर्गृह्णाति २) । ता उत्तरत उपदधाति । ओजसा वा एता वहन्तीरिवोद्गतीरिव आकूजतीरिव धावन्तीः । ओज एवास्योत्तरतो दधाति । तस्मादुत्तरोऽर्ध ओजस्वितरः, इति ।

संभार्या गृह्णाति । ता मध्य उपदधाति । इयं वै संभार्याः । अस्यामेव प्रतितिष्ठति, इति ।

पल्वल्या गृह्णाति । ता उपरिष्टादुपादधाति ( ३) । असौ वै पल्वल्याः । अमुष्यामेव प्रतितिष्ठति, इति ।

दिक्षूपदधाति । दिक्षु वा आपः । अन्नं वा आपः । अद्भ्यो वा अन्नं जायते । यदेवाद्भ्योऽन्नं जायते । तदवरुन्धे, इति ।

तं वा एतमरुणाः केतवो वातरशना ऋषयोऽचिन्वन् । तस्मादारुणकेतुकः, इति ।

तदेषाऽभ्यनूक्ता, इति । कैतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठां शतधा हि । समाहितासो सहस्रधायसमिति, इति ।

शतशश्चैव सहस्रशश्च प्रतितिष्ठति । य एतमग्निं चिनुते । य उ चैनमेवं वेद, इति ।। व्रह्मवर्चसितरो वहन्तीर्गृह्णाति ता उपरिष्टादुपादधात्यारुणकेतुकोऽष्टौ च ।। इति कृप्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके चतुर्विशोऽनुवाकः । । २४ । ।


1.25

जानुदघ्नीमुत्तरवेदीं खात्वा । अपां पूरयति । अपां सर्वत्वाय, इति ।

पुष्करपर्णं रुक्मं पुरुषमित्युपदधाति । तपो वै पुष्करपर्णम् । सत्यं रुक्मः। । अमृतं पुरुषः । एतावद्वावास्ति । यावदेतत् । यावदेवास्ति ( १) । तदवरुन्धे, इति । कूर्ममुपदधाति । अपामेव मेधमवरुन्धे । अथो स्वर्गस्य लोकस्य समष्ट्यै, इति ।

आपमापामपः सर्वाः । अस्मादस्मादितोऽमुतः । अग्निर्वायुश्च सूर्यश्च । सह संचस्करर्धिया इति । वाय्वश्वा रश्मिपतयः, हति ।

लोकं पृण च्छिद्रं पृण ( २ । यास्तिस्रः परमजाः, इति ।

इन्द्रघोषा वो वसुभिरेवा ह्येवेति, इति ।

पञ्च चितय उपदधाति । पाङ्क्तोऽग्निः। यावानेवाग्निः । तं चिनुते, इति लोकंपृणया द्वितीयामुपदधाति । पञ्चपदा वै विराट् । तस्या वा इयं पादः । अन्तरिक्षं पादः । द्यौः पादः । दिशः पादः । परोरजाः पादः, इति ।

विराज्येव प्रतितिष्ठति । य एतमग्निं चिनुते । य उ चैनमेवं वेद ( ३), इति ।। अस्ति पृणान्तरिक्षं पादः षट्च ।। इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके पञ्चविंशोऽनुवाकः ।। २५ ।।