"गणेशभुजङ्गम्" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<poem> रणत्क्षुद्रघण्टानिनादाभिरामं चलत्ताण्डवो... नवीन पृष्ठं निर्मीत अस्ती
 
पङ्क्तिः ४५: पङ्क्तिः ४५:
गणेशे विभौ दुर्लभं किं प्रसन्ने .. ९ ..
गणेशे विभौ दुर्लभं किं प्रसन्ने .. ९ ..
</poem>
</poem>

[[वर्गः:स्तोत्राणि]]

०५:१७, ६ डिसेम्बर् २०१४ इत्यस्य संस्करणं

रणत्क्षुद्रघण्टानिनादाभिरामं
चलत्ताण्डवोद्दण्डवत्पद्मतालम् .
लसत्तुन्दिलाङ्गोपरिव्यालहारं
गणाधीशमीशानसूनुं तमीडे .. १ ..

ध्वनिध्वंसवीणालयोल्लासिवक्त्रं
स्फुरच्छुण्डदण्डोल्लसद्बीजपूरम् .
गलद्दर्पसौगन्ध्यलोलालिमालं
गणाधीशमीशानसूनुं तमीडे .. २ ..

प्रकाशज्जपारक्तरन्तप्रसून-
प्रवालप्रभातारुणज्योतिरेकम् .
प्रलम्बोदरं वक्रतुण्डैकदन्तं
गणाधीशमीशानसूनुं तमीडे .. ३ ..

विचित्रस्फुरद्रत्नमालाकिरीटं
किरीटोल्लसच्चन्द्ररेखाविभूषम् .
विभूषैकभूशं भवध्वंसहेतुं
गणाधीशमीशानसूनुं तमीडे .. ४ ..

उदञ्चद्भुजावल्लरीदृश्यमूलो-
च्चलद्भ्रूलताविभ्रमभ्राजदक्षम् .
मरुत्सुन्दरीचामरैः सेव्यमानं
गणाधीशमीशानसूनुं तमीडे .. ५ ..

स्फुरन्निष्ठुरालोलपिङ्गाक्षितारं
कृपाकोमलोदारलीलावतारम् .
कलाबिन्दुगं गीयते योगिवर्यै-
र्गणाधीशमीशानसूनुं तमीडे .. ६ ..

यमेकाक्षरं निर्मलं निर्विकल्पं
गुणातीतमानन्दमाकारशून्यम् .
परं परमोंकारमान्मायगर्भं .
वदन्ति प्रगल्भं पुराणं तमीडे .. ७ ..

चिदानन्दसान्द्राय शान्ताय तुभ्यं
नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् .
नमोऽनन्तलीलाय कैवल्यभासे
नमो विश्वबीज प्रसीदेशसूनो .. ८ ..

इमं सुस्तवं प्रातरुत्थाय भक्त्या
पठेद्यस्तु मर्त्यो लभेत्सर्वकामान् .
गणेशप्रसादेन सिध्यन्ति वाचो
गणेशे विभौ दुर्लभं किं प्रसन्ने .. ९ ..

"https://sa.wikisource.org/w/index.php?title=गणेशभुजङ्गम्&oldid=37845" इत्यस्माद् प्रतिप्राप्तम्