"न्यायसूत्राणि/अध्यायः १/द्वितीयभागः" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
{{header | title = ../../ | author = | translator = | section = द्वितीयभागः | pr... नवीन पृष्ठं निर्मीत अस्ती
 
पङ्क्तिः ३१: पङ्क्तिः ३१:


</poem>
</poem>

[[वर्गः:न्यायसूत्राणि]]

०६:२५, ६ जुलै २०१२ इत्यस्य संस्करणं

← अध्यायः १, प्रथमभागः न्यायसूत्राणि
द्वितीयभागः
[[लेखकः :|]]

प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः ।। १ ।। {वादलक्षणम्}

यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः ।। २ ।। {जल्पलक्षणम्}

सः प्रतिपक्षस्थापनाहीनः वितण्डा ।। ३ ।। {वितण्डालक्षणम्}

सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीताः हेत्वाभासाः ।। ४ ।। {हेत्वाभासौद्देशसूत्रम्}

अनैकान्तिकः सव्यभिचारः ।। ५ ।। {सव्यभिचारलक्षणम्}

सिद्धान्तं अभ्युपेत्य तद्विरोधी विरुद्धः ।। ६ ।। {विरुद्धलक्षणम्}

यस्मात्प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः ।। ७ ।। {प्रकरणसमलक्षणम्}

साध्याविशिष्टः साध्यत्वात्साध्यसमः ।। ८ ।। {साध्यसमलक्षणम्}

कालात्ययापदिष्टः कालातीतः ।। ९ ।। {कालातीतलक्षणम्}

वचनविघातः अर्थविकल्पोपपत्त्या छलम् ।। १० ।। {छललक्षणम्}

तत्त्रिविधं वाक्छलं सामान्यच्छलं उपचारच्छलं च इति ।। ११ ।। {छलभेदौद्देशसूत्रम्}

अविशेषाभिहिते अर्थे वक्तुः अभिप्रायातर्थान्तरकल्पना वाक्छलम् ।। १२ ।। {वाक्छललक्षणम्}

सम्भवतः अर्थस्य अतिसामान्ययोगातसम्भूतार्थकल्पना सामान्यच्छलम् ।। १३ ।। {सामान्यच्छललक्षणम्}

धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् ।। १४ ।। {उपचारच्छललक्षणम्}

वाक्छलं एव उपचारच्छलं ततविशेषात् ।। १५ ।। {उपचारच्छलपूर्वपक्षलक्षणम्}

न ततर्थान्तरभावात् ।। १६ ।। {उपचारच्छललक्षणम्}

अविशेषे वा किञ्चित्साधर्म्यातेकच्छलप्रसङ्गः ।। १७ ।। {उपचारच्छललक्षणम्}

साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ।। १८ ।। {जातिलक्षणम्}

विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम् ।। १९ ।। {निग्रहस्थानलक्षणम्}

तद्विकल्पात्जातिनिग्रहस्थानबहुत्वम् ।। २० ।। {निग्रहस्थानबहुत्वसूत्रम्}