"ऋग्वेदः सूक्तं १०.१५२" इत्यस्य संस्करणे भेदः
No edit summary |
(लघु) ७ अवतरण: rigveda and other pages |
(भेदः नास्ति)
|
०८:४३, २० मार्च् २०११ इत्यस्य संस्करणं
ऋग्वेदः सूक्तं १०.१५२
शास इत्था महाँ अस्यमित्रखादो अद्भुतः । न यस्य हन्यते सखा न जीयते कदा चन ॥१॥ स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी । वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ॥२॥ वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज । वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ॥३॥ वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो अस्माँ अभिदासत्यधरं गमया तमः ॥४॥ अपेन्द्र द्विषतो मनोऽप जिज्यासतो वधम् । वि मन्योः शर्म यच्छ वरीयो यवया वधम् ॥५॥