"ब्रह्मपुराणम्/अध्यायः ४५" इत्यस्य संस्करणे भेदः

Jump to navigation Jump to search
सम्पादनसारांशरहितः
(new page)

| notes =

<poem>
'''पुरुषोत्तमक्षेत्र-वर्णनम्

'''मुनय ऊचुः
तस्मिन्क्षेत्रवरे पुण्ये वैष्णवे पुरुषोत्तमे।
किं तत्र प्रतिमा पूर्वं न स्थिता वैष्णवी प्रभो॥ ४५.१ ॥

येनासौ नृपतिस्तत्र गत्वा सबलवाहनः।
स्थापयामास कृष्णं च रामं भद्रां शुभप्रदाम्॥ ४५.२ ॥

संशयो नो महानत्र विस्मयश्च जगत्पते।
श्रेतुमिच्छामहे सर्वं ब्रूहि तत्कारणं च नः॥ ४५.३ ॥

'''ब्रह्मोवाच
श्रृणुध्वं पूर्वसंवृत्तां कथां पापप्रणाशिनीम्।
प्रवक्ष्यामि समासेन श्रिया पृष्टः सुरा हरिः॥ ४५.४ ॥

सुमेरोः काञ्चने श्रृङ्गे सर्वाश्चर्यसमन्विते।
सिद्धविद्याधरैर्यक्षैः किंनरैरुपसोभिते॥ ४५.५ ॥

देवदानवगन्धर्वैर्नागैरप्सरसां गणैः।
मुनिभिर्गुह्यकैः सिद्धैः सौपर्णैः समरुद्‌गणैः॥ ४५.६ ॥

अन्यैर्देवालयैः साध्यैः कश्यपाद्यैः प्रजेश्वरैः।
जातरूपप्रतीकाशैर्भूषिते सूर्यसंनिभैः॥ ४५.७ ॥

कर्णिकारवनैर्दिव्यैः सर्वर्तुकुसुमोत्करैः।
जातरूपप्रतीकासैर्भूषिते सूर्यसंनिभैः॥ ४५.८ ॥

अन्यैश्च बहुभिर्वृक्षैः शालतालादिभिर्वनैः।
पुंनागासोकसरलन्यग्रोधाम्रातकार्जुनैः॥ ४५.९ ॥

पारिजाताम्रखदिरनीपबिल्वकटम्बकैः।
धवखादिरपालाशशीर्षामलकतिन्दुकैः॥ ४५.१० ॥

नारिङ्गकोलबकुललोध्राडिमदारकैः।
सर्जैश्च कर्णैस्तगरैः शिशिभूर्जवनिम्बकैः॥ ४५.११ ॥

अन्यैश्च काञ्चनैश्चैव फलभारैश्च नामितैः।
नानाकुसुमगन्धाढ्यैर्भूषिते पुष्पपादपैः॥ ४५.१२ ॥

मालतीयूथिकामल्लीकुन्दबाणकुरुण्टकैः।
पाटलागस्त्यकुटजमन्दारकुसुमादिबिः॥ ४५.१३ ॥

अन्यैश्च विविधैः पुष्पैर्मनसः प्रीतिदायकैः।
नानाविहगसंधैश्च कूजद्भिर्मधुरस्वरैः॥ ४५.१४ ॥

पुस्कोकिलरुतैर्दिव्यैर्मनसः प्रीतिदायकैः।
एवं नानाविहगसंधैश्च कूजद्भिर्मधुरस्वरैः॥ ४५.१५ ॥

खगैर्नानाविधैश्चैव शोभिते सुरसेविते।
तत्र स्तितं जगन्नाथं जगत्स्रष्टारमव्ययम्॥ ४५.१६ ॥

सर्वलोकविधातारं वासुदेवाख्यमव्ययम्।
प्रणम्य शिरसा देवी लोकानां हितकाम्यया॥
पप्रच्छेमं महाप्रशनं पद्मजा तमनुत्तमम्॥ ४५.१७ ॥

'''श्रीरुवाच
ब्रहि त्वं सर्वलोकेश संशयं मे हृदि स्थितम्।
मर्त्यलोके महाश्चर्ये कर्मभूमौ सुदुर्लभे॥ ४५.१८ ॥

लोभमोहग्रहग्रस्ते कामक्रोधमहार्णवे।
येन मुच्येत देवेश अस्मात्संसारसागरात्॥ ४५.१९ ॥

आचक्ष्व सर्वदेवेश प्रणतं यदि मन्यसे।
त्वदृते नास्ति लोकेऽस्मिन्वक्ता संशयनिर्णये॥ ४५.२० ॥

'''ब्रह्मोवाच
श्रुत्वैवं वचनं तस्या देवदेवो जनार्दनः।
प्रोवाच परया प्रीत्या परं सारामृतोपमम्॥ ४५.२१ ॥

'''श्रीभगवानुवाच
सुखोपास्यः सुसाध्यश्चाभिरामश्च सुसत्फलः।
आस्ते तीर्थवरे देवि विख्यातः पुरषोत्तमः॥ ४५.२२ ॥

न तेन सदृशः कश्चित् त्रिषु लोकेषु विद्यते।
कीर्तनाद्यस्य देवेशि मुच्यते सर्वपातकैः॥ ४५.२३ ॥

न विज्ञातोऽमरैः सर्वैर्न दैत्यैर्न च दानवैः।
मरीच्याद्यैर्मुनिवरैर्गोपितं मे वरानने॥ ४५.२४ ॥

तत्तेऽहं संप्रवक्ष्यामि तीर्थराजं च सांप्रतम्।
भावेनैकेन सुश्रोणि श्रुणुष्व वरवर्मिनि॥ ४५.२५ ॥

आसीत्कल्पे समुत्पन्ने नष्टे स्थावरजङ्गमे।
प्रलीना देवगन्धर्वदैत्यविद्याधरोरगाः॥ ४५.२६ ॥

तमोभूतमिदं सर्वं न प्राज्ञायत किंचन।
तस्मिञ्जागर्ति बूतात्मा परमात्मा जगद्‌गुरुः॥ ४५.२७ ॥

श्रीमांस्त्रिमूर्तिकृद्‌देवो जगर्त्क्ता महेश्वरः।
वासुदेवेति विख्यातो योगात्मा हरिरीस्वरः॥ ४५.२८ ॥

सोऽसृजद्योगन्द्रान्ते नाब्यम्भोरुहमध्यगम्।
पद्मकेशरसंकाशं ब्रह्माणं भूतमव्ययम्॥ ४५.२९ ॥

तादृग्भूतस्ततो ब्रह्मा सर्वलोकमहेश्वरः।
पञ्चभूतसमायुक्तं सृजते च शनैः शनैः॥ ४५.३० ॥

मात्रायोनीनि भूतानि स्थूलसूक्ष्माणि यानि च।
चतुर्विधानि सर्वाणि स्थावराणि चराणि च॥ ४५.३१ ॥

ततः प्रजापतिर्ब्रह्मा चक्रे सर्वं चराचरम्‌।
संचिन्त्य मनसाऽऽत्मानं ससर्ज विविधाः प्रजाः॥ ४५.३२ ॥

मरीच्यादीन्मुनीन्सर्वान्देवासुरपितॄनपि।
यज्ञविद्याधरांश्चान्यान्गङ्गद्याः सरितस्तथा॥ ४५.३३ ॥

नरवारसिंहांश्च विविधांश्च विहंगमान्।
जरायूनण्डजान्देवि स्वेदजोभेद्‌जांस्तथा॥ ४५.३४ ॥

ब्रह्मक्षत्रं वैश्यं शूद्रं चैव चतुष्टयम्।
अन्त्यजातांश्च म्लेच्छांश्च ससर्ज विविधान्पृथक्॥ ४५.३५ ॥

यत्किंचिज्जीवसंज्ञं तु तृणगुल्मपिपीलिकम्।
ब्रह्मा भूत्वा जगत्सर्वं निर्ममे सचराचरम्॥ ४५.३६ ॥

दक्षिणाङ्गे तथाऽऽमानं संचिन्त्य पुरुषं स्वयम्।
वामे चैव तु नारीं स द्विधा भूतमकल्पयत्॥ ४५.३७ ॥

ततः प्रभृति लोकेऽस्मिन्प्रजा मैथुनसंभवाः।
अधमोत्तममध्याश्च वासुदेवात्मिकां तनुम्॥ ४५.३८ ॥

एवं संचिन्त्य देवोऽसौ पुरा सलिलयोनिजः।
जगाम ध्यानमास्थाय वासुदेवात्मिकां तनुम्॥ ४५.३९
ध्यानमात्रेण देवेन स्वयमेव जनार्दनः।
तस्मिन्क्षणे समुत्पन्नः सहस्राक्षः सहस्रपात्॥ ४५.४०॥
सहस्रशीर्षा पुरुषः पुण्डरीकनिभेक्षणः।
सलिलध्वान्तमेघाभः श्रीमाञ्छ्रीवत्सलक्षणः॥ ४५.४१ ॥

अपश्यत्सहसा तं तु ब्रह्मा लोकपितामहः।
आसनैर्ध्यपाद्यैश्च अक्षतैरभिनन्द्य च॥ ४५.४२ ॥

नष्टाव परमैः स्तोत्रैर्विरिञ्चिवः सुसमाहितः।
ततोऽहमुक्तवान्देवं ब्रह्माणं कमलोद्‌भवम्॥
कारणं वद मां तात मम ध्यानस्य सांप्रतम्॥ ४५.४३ ॥

'''ब्रह्मोवाच
जगद्धिताय देवेश मर्त्यलोकैश्च दुर्लभम्।
स्वर्गद्वारस्य मार्गाणि यज्ञदानव्रतानि च॥ ४५.४४ ॥

योगः सत्यं तपः श्रद्धा तीर्थानि विविधानि च।
विहाय सर्वमेतेषां सुखं तत्साधनं वद॥ ४५.४५ ॥

स्थानं जगत्पते मह्यामुत्कृष्टं च यदुच्यते।
सर्वेषामुत्तमं स्थानं ब्रूहि मे पुरुषोत्तम॥ ४५.४६ ॥

विधातुर्वचनं श्रुत्वा ततोऽहं प्रोक्तवान्प्रिये।
श्रृणु ब्रह्मान्प्रवक्ष्यामि निर्मलं भुवि दुर्लभम॥ ४५.४७ ॥

उत्तमं सर्वक्षेत्राणां धन्यं संसारतारणम्।
गोब्राह्मणहितं पुण्यं चातुर्वर्ण्यसुखोदयम्॥ ४५.४८ ॥

भुक्तिमुक्तिप्रदं नॄणं क्षेत्रं परमदुर्लभम्।
महापुण्यं तु सर्वेषां सिद्धिदं वै पितामह॥ ४५.४९ ॥

तस्मादासीत्समुत्पन्नं तीर्थराजं सनातनम्।
विख्यातं परमं क्षेत्रे चतूरायूगनिषेवितम्॥ ४५.५० ॥

सर्वेषामेव देवानामृषीणां ब्रह्मचारिणाम्।
दैत्यदानवसिद्धानां गन्धर्वोरगरक्षसाम्॥ ४५.५१ ॥

नानाविद्यादधेस्तीरे न्यग्रोधो यत्र तिष्ठति।
दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम्॥ ४५.५२ ॥

दक्षिमस्योदधेस्तीरे न्यग्रोधो यत्र तिष्ठति।
दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम्॥ ४५.५३ ॥

यस्तु कल्पे समुत्पन्ने महदु(त्यु) ल्कानिबर्हणे।
विनाशं नैवमभ्येति स्वयं तत्रैवमास्थितः॥ ४५.५४ ॥

दृष्टिमात्रे वटे तस्मिंश्छायामाक्रम्य चासकृत्।
ब्रह्महत्यात्प्रमुच्यते पापेष्वन्येषु का कथा॥ ४५.५५ ॥

प्रदक्षिणा कृता यैस्तु नमस्कारस्च जन्तुभिः।
सर्वे विधूतपाप्मानस्ते गतः केशवालयम्॥ ४५.५६ ॥

न्यग्रोधस्योत्तरे किंचिद्‌दक्षिणे केशवस्य तु।
प्रासादस्तत्र तिष्ठेत्तु पदं धर्ममयं हि तत्॥ ४५.५७ ॥

प्रतिमां तत्र वै दृष्ट्वा स्वयं देवेन निर्मिताम्।
अनायासेन वै यानति भुवनं मे ततो नराः॥ ४५.५८ ॥

गच्छमानांस्तु तान्प्रेक्ष्य एकदाधर्मराट् प्रिये।
मदन्तिकमनुप्राप्य प्रणम्य शिरसाऽब्रवीत्॥ ४५.५९ ॥

नमस्ते भगवन्देव लोकनाथ जगत्पते।
क्षीरोदवासिनं देवं शेषभोगानुशायिनम्॥ ४५.६० ॥

वरं वरेण्यं वरदं कर्तारमकृतं प्रभुम्।
विश्वेश्वरमजं विष्णुं सर्वज्ञमपराजितम्॥ ४५.६१ ॥

नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणम्।
सर्वज्ञं निर्गुणं शान्तं जगद्धातारमव्ययम्॥ ४५.६२ ॥

सर्वलोकविधातारं सर्वलोकसुखावहम्।
पुराणं वुरुषं वेद्यं व्यक्ताव्यतं सनातनम्॥ ४५.६३ ॥

परावराणां स्रष्टारं लोकनाथं जगद्‌गुरुम्।
श्रीवत्सोरस्कसंयुक्तं वनमालाविभुषितम्॥ ४५.६४ ॥

पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम्।
हारकेयूरसंयुक्तं मुकुटाङ्गदधारिणम्॥ ४५.६५ ॥

सर्वलक्षणसंपूर्णं सर्वेन्द्रियविवर्जितम्।
कूटस्तमचलं सूक्ष्मं ज्योतीरूपं सनातनम्॥ ४५.६६ ॥

भावाभावविनिर्मुक्तं व्यापिनं प्रकृतेः परम्।
नमस्यामि जगन्नाथमीस्वरं सुखदंप्रभुम्॥ ४५.६७ ॥

इत्येवं धर्मराजस्तु पुरा न्यग्रोधसंनिधौ।
स्तुत्वा नानाविधैः स्तोत्रैः प्रणाममकरोत्तदा॥ ४५.६८ ॥

दुष्ट्वा तु महाभागे प्रणतं प्राञ्जलिस्थितम्।
स्तोत्रस्य कारणं देवि पृष्टवानहमन्तकम्॥ ४५.६९ ॥

दैवस्वत महाबाहो सर्ववोत्तमो ह्यसि।
किमर्थं स्तुतवान्मां त्वं संक्षेपात्तद्‌ब्रवीहि मे॥ ४५.७० ॥

'''धर्मराज उवाच
अस्मिन्नायतने पुण्ये विख्याते पुरुषोत्तमे।
इन्द्रनीलमयी श्रेष्ठा प्रतिमा सार्वकामिकी॥ ४५.७१ ॥

तां दुष्ट्वा पुण्डरीकाक्ष भावेनैकेन श्रद्धया।
श्वेताख्यं भवनं यान्ति निष्कामाश्चैव मानवाः॥ ४५.७२ ॥

अतः कर्तु न शवनोमि व्यापारमरिसूदन।
प्रसीद सुमहादेव संहर प्रतिमां विभो॥ ४५.७३ ॥

श्रुत्वा वैवस्वतस्यैतद्वाक्यमेतदुवाच ह।
यम तां गोपयिष्यामि सिकताभिः समनन्ततः॥ ४५.७४ ॥

ततः सा प्रतिमा देवि वल्लिभिर्गोपिता मया।
यथा तत्र न पस्यन्ति मनुजाः स्वर्गकाड्क्षिणः॥ ४५.७५ ॥

प्रच्छाद्य वल्लिकैर्देवि जातरूपपरिच्छदैः।
यमं प्रस्थापयामास स्वां पुरीं दक्षिणां दिशम्॥ ४५.७६ ॥

'''ब्रह्मोवाच
लुप्तायां प्रतिमायां तु इन्द्रनीलस्य भो द्विजाः।
तस्मिन्क्षेत्रवरै पुण्ये विख्याते पुरुषोत्तमे॥ ४५.७७ ॥

यो भूतस्तत्र वृत्तान्तो देवदेवो जनार्दनः।
तं सर्वं कथयामास स तस्यै भगवान्पुरा॥ ४५.७८ ॥

इन्द्रद्युम्नस्य गमनं क्षेत्रसंदर्शनं तथा।
क्षेत्रस्य वर्णनं चैव प्रासादकरणं तथा॥ ४५.७९ ॥

हयमेधस्य यजनं स्वप्नदर्शनमेव च।
लवणस्योदधेस्तीरे काष्ठस्य दर्शनं तथा॥ ४५.८० ॥

दर्शनं वासुदेवस्य शिल्पिराजस्य च द्विजाः।
निर्माणं प्रतिमायास्तु यथावर्णं विशेषतः॥ ४५.८१ ॥

स्थापनं चैव सर्वेषां प्रासादे भुवनोत्तमे।
यात्राकाले च विप्रेन्द्राः कल्पसंकीर्तनं तथा॥ ४५.८२ ॥

मार्कण्डेयस्य चरितं स्तापनं शंकरस्य च।
पञ्चतीर्थस्य महात्म्यं दर्शनं शूलपाणिनः॥ ४५.८३ ॥

वटस्य दर्शनं चैव व्युष्टिं तस्य च भो द्विजाः।
दर्शनं बलदेवस्य कृष्णस्य च विशेषतः॥ ४५.८४ ॥

सुभद्रायाश्च तत्रैव माहात्म्यं चैव सर्वशः।
दर्शनं नरसिंहस्य व्यष्टिसंकीर्तनं तथा॥ ४५.८५ ॥

अनन्तवासुदेवस्य दर्शनं सुणकीर्तनम्।
श्वेतमाधवमाहत्म्यं स्वर्गद्वारस्य दर्शनम्॥ ४५.८६ ॥

उदधेर्दर्शनं चैव स्नानं तर्पणमेव च।
समुद्रस्नानमाहात्म्यमिन्द्रद्युम्नस्य च द्विजाः॥ ४५.८७ ॥

पञ्चतीर्थफलं चैव महाज्येष्ठं तथैव च।
स्थानं कृष्णस्य हलिनः पर्वयात्राफलं तथा॥ ४५.८८ ॥

वर्णनं विष्णुलोकस्य क्षेत्रस्य च पुनः पुनः।
पूर्वं कथितवान्सर्वं तस्यै स पुरुषोत्तमः॥ ४५.८९ ॥

इति श्रीमहापुराणे आदिब्राह्मेस्वयंभुऋषिसंवादे पूर्ववृत्तानुवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः॥ ४५ ॥

</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/25806" इत्यस्माद् पुनः प्राप्तिः

सञ्चरणावलिः