"गरुडपुराणम्/आचारकाण्डः/अध्यायः ६३" इत्यस्य संस्करणे भेदः
new page |
adding contents |
||
पङ्क्तिः १०: | पङ्क्तिः १०: | ||
<poem> |
<poem> |
||
॥हरिरुवाच ॥ |
|||
नरस्त्रीलक्षणं वक्ष्ये संक्षपाच्छृणु शङ्कर ॥ |
|||
अस्वेदिनौ मृदुतलौ कमलोदरसन्निभौ ॥ 63.1 ॥ |
|||
श्लिष्टाङ्गुली ताम्रनखौ सुगुल्फौ शिरयोज्झितौ ॥ |
|||
कूर्मोन्नतौ च चरणौ स्यातां नृपवरस्य हि ॥ 63.2 ॥ |
|||
विरूक्षपाण्डुरनखौ वक्रौ चैव शिरानतौ ॥ |
|||
सूर्पाकारौ च चरणौ संशुष्कौ विरलाङ्गुली ॥ 63.3 ॥ |
|||
दुः खदारिद्यदौ स्याता नात्र कार्य्यां विचारणा ॥ |
|||
अल्परोमयुता श्रेष्ठा जङ्घा हस्तिकरोपमा ॥ 63.4 ॥ |
|||
रोमैकैकं कूपके स्याद्भूपानां तु महात्मनाम् ॥ |
|||
द्वेद्वे रोम्णी पण्डितानां श्रोत्रियाणां तथैव च ॥ 63.5 ॥ |
|||
रोमत्रयं दरिद्राणां रोगी निर्मांसजानुकः ॥ |
|||
अल्पलिङ्गी च धनवान्स्याच्च पुत्रादिवर्जितः ॥ 63.6 ॥ |
|||
स्थूललिङ्गो दरिद्रः स्यादुख्येकवृष्णी भवेत् ॥ |
|||
विषमेस्त्रीचञ्चलो वै नृपः स्याद्वृषणे समे ॥ 63.7 ॥ |
|||
प्रलम्बवृषणोऽल्पायुर्निर्द्रव्यः कुमणिर्भवेत् ॥ |
|||
पाण्डुरैर्मलिनैश्चैव मणिभिश्च सुखी नरः ॥ 63.8 ॥ |
|||
निः स्वाः सशब्दमूत्राः स्युर्नृपा निश्शब्दधारया ॥ |
|||
भोगाढ्याः समजठरा निः स्वाः स्युर्घटसन्निभाः ॥ 63.9 ॥ |
|||
सर्पोदरा दरिद्राः स्यू रेखाभिस्चायुरुच्यते ॥ |
|||
ललाटे यस्य दृश्यन्ते तिस्त्रो रेखाः समाहिताः ॥ 63.10 ॥ |
|||
सुखी पुत्रसमायुक्तः स षष्टिं जीवते नरः ॥ |
|||
चत्वारिंशच्च वर्षाणि द्विरेखादर्शनान्नरः ॥ 63.11 ॥ |
|||
विंशत्यब्दं त्वेकरेखा आकर्णान्ताः शतायुषः ॥ 63.12 ॥ |
|||
सप्तत्यायुर्द्विरेखा तु षष्ट्यायुस्तिसृभिर्भवेत् ॥ |
|||
व्यक्ताव्यक्ताभी रेखाभिर्विंशत्यायुर्भवेन्नरः ॥ 63.13 ॥ |
|||
चत्वारिंशच्च वर्षाणि हीनरेखस्तु जीवति ॥ |
|||
भिन्नाभिश्चैव रेखाभिरपमृत्युर्नरस्य हि ॥ 63.14 ॥ |
|||
त्रिशूलं पट्टिशं वापि ललाटे यस्य दृश्यते ॥ |
|||
धनपुत्र समायुक्तः स जीवेच्छरदः शतम् ॥ 63.15 ॥ |
|||
तर्जन्या मध्यमाङ्गुल्या आयूरेखा तु मध्यतः ॥ |
|||
संप्राप्ता या भवेद्रुद्र ! स जीवेच्छरदः शतम् ॥ 63.16 ॥ |
|||
प्रथमा ज्ञानरेखा तु ह्यंगुष्ठादनुवर्त्तते ॥ |
|||
मध्यमामूलगा रेखा आयूरेखा अतः परम् ॥ 63.17 ॥ |
|||
कनिष्ठिकां समाश्रित्य आयूरेखा समाविशेत् ॥ |
|||
अच्छिन्ना वा विभक्ता वा स जीवेच्छरदः शतम् ॥ 63.18 ॥ |
|||
यस्य पाणितले रेखा आयुस्तस्य प्रकाशयेत् ॥ |
|||
शतवर्षाणि जीवेच्च भोगी रुद्र ! न संशयः ॥ 63.19 ॥ |
|||
कनिष्ठिकां समाश्रित्य मध्यमायामुपागता ॥ |
|||
षष्ठिवर्षायुषं कुर्य्यादायूरेखा तु मानवम् ॥ 63.20 ॥ |
|||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे सामुद्रिके पुँल्लक्षणनिरूपणं नाम त्रिषष्टितमोऽध्यायः ॥ 63 ॥ |
|||
</poem> |
</poem> |
१०:०३, २३ जनवरी २०१२ इत्यस्य संस्करणं
← आचारकाण्डः, अध्यायः ६२ | गरुडपुराणम् अध्यायः ६३ वेदव्यासः |
आचारकाण्डः, अध्यायः ६४ → |
॥हरिरुवाच ॥
नरस्त्रीलक्षणं वक्ष्ये संक्षपाच्छृणु शङ्कर ॥
अस्वेदिनौ मृदुतलौ कमलोदरसन्निभौ ॥ 63.1 ॥
श्लिष्टाङ्गुली ताम्रनखौ सुगुल्फौ शिरयोज्झितौ ॥
कूर्मोन्नतौ च चरणौ स्यातां नृपवरस्य हि ॥ 63.2 ॥
विरूक्षपाण्डुरनखौ वक्रौ चैव शिरानतौ ॥
सूर्पाकारौ च चरणौ संशुष्कौ विरलाङ्गुली ॥ 63.3 ॥
दुः खदारिद्यदौ स्याता नात्र कार्य्यां विचारणा ॥
अल्परोमयुता श्रेष्ठा जङ्घा हस्तिकरोपमा ॥ 63.4 ॥
रोमैकैकं कूपके स्याद्भूपानां तु महात्मनाम् ॥
द्वेद्वे रोम्णी पण्डितानां श्रोत्रियाणां तथैव च ॥ 63.5 ॥
रोमत्रयं दरिद्राणां रोगी निर्मांसजानुकः ॥
अल्पलिङ्गी च धनवान्स्याच्च पुत्रादिवर्जितः ॥ 63.6 ॥
स्थूललिङ्गो दरिद्रः स्यादुख्येकवृष्णी भवेत् ॥
विषमेस्त्रीचञ्चलो वै नृपः स्याद्वृषणे समे ॥ 63.7 ॥
प्रलम्बवृषणोऽल्पायुर्निर्द्रव्यः कुमणिर्भवेत् ॥
पाण्डुरैर्मलिनैश्चैव मणिभिश्च सुखी नरः ॥ 63.8 ॥
निः स्वाः सशब्दमूत्राः स्युर्नृपा निश्शब्दधारया ॥
भोगाढ्याः समजठरा निः स्वाः स्युर्घटसन्निभाः ॥ 63.9 ॥
सर्पोदरा दरिद्राः स्यू रेखाभिस्चायुरुच्यते ॥
ललाटे यस्य दृश्यन्ते तिस्त्रो रेखाः समाहिताः ॥ 63.10 ॥
सुखी पुत्रसमायुक्तः स षष्टिं जीवते नरः ॥
चत्वारिंशच्च वर्षाणि द्विरेखादर्शनान्नरः ॥ 63.11 ॥
विंशत्यब्दं त्वेकरेखा आकर्णान्ताः शतायुषः ॥ 63.12 ॥
सप्तत्यायुर्द्विरेखा तु षष्ट्यायुस्तिसृभिर्भवेत् ॥
व्यक्ताव्यक्ताभी रेखाभिर्विंशत्यायुर्भवेन्नरः ॥ 63.13 ॥
चत्वारिंशच्च वर्षाणि हीनरेखस्तु जीवति ॥
भिन्नाभिश्चैव रेखाभिरपमृत्युर्नरस्य हि ॥ 63.14 ॥
त्रिशूलं पट्टिशं वापि ललाटे यस्य दृश्यते ॥
धनपुत्र समायुक्तः स जीवेच्छरदः शतम् ॥ 63.15 ॥
तर्जन्या मध्यमाङ्गुल्या आयूरेखा तु मध्यतः ॥
संप्राप्ता या भवेद्रुद्र ! स जीवेच्छरदः शतम् ॥ 63.16 ॥
प्रथमा ज्ञानरेखा तु ह्यंगुष्ठादनुवर्त्तते ॥
मध्यमामूलगा रेखा आयूरेखा अतः परम् ॥ 63.17 ॥
कनिष्ठिकां समाश्रित्य आयूरेखा समाविशेत् ॥
अच्छिन्ना वा विभक्ता वा स जीवेच्छरदः शतम् ॥ 63.18 ॥
यस्य पाणितले रेखा आयुस्तस्य प्रकाशयेत् ॥
शतवर्षाणि जीवेच्च भोगी रुद्र ! न संशयः ॥ 63.19 ॥
कनिष्ठिकां समाश्रित्य मध्यमायामुपागता ॥
षष्ठिवर्षायुषं कुर्य्यादायूरेखा तु मानवम् ॥ 63.20 ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे सामुद्रिके पुँल्लक्षणनिरूपणं नाम त्रिषष्टितमोऽध्यायः ॥ 63 ॥