"अग्निपुराणम्/अध्यायः ३४६" इत्यस्य संस्करणे भेदः
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
<poem> |
<poem> |
||
काव्यगुणविवेकः । |
|||
अग्निरुवाच । |
|||
अलंकृतमपि प्रीत्यै न काव्यं निर्गुणं भवेत् । |
|||
वपुष्य ललिते स्त्रीणां हारो भारयते परं ।। ३४६.१ ।। |
|||
न च वाच्यं गुणो दोषो भाव एव भविष्यति । |
|||
गुणाः श्लेषादयो दोषा गुढ़ार्थाद्याः पृथक् कृताः ।। ३४६.२ ।। |
|||
यः काव्ये महतीं छायामनुगृह्णात्यसौ गुणः । |
|||
सम्भवत्येष सामान्यो वैशेषिक इति द्विधा ।। ३४६.३ ।। |
|||
सर्व्वंसाधारणीभूतः सामान्य इति मन्य्ते । |
|||
शव्दमर्थमुभौ प्राप्तः सामान्यो भवति त्रिधा ।। ३४६.४ ।। |
|||
शब्दमाश्रयते काव्यं शरीरं यः स तद्गुणः । |
|||
श्लेषो लालित्यगाम्भीर्य्यसौकुमार्य्यमुदारता ।। ३४६.५ ।। |
|||
सत्येव यौगिकी चेति गुणाः शब्दस्य सप्तधा । |
|||
सुश्लिष्टसन्निवेशत्वं शब्दानां श्लेष उच्यते ।। ३४६.६ ।। |
|||
गुणादेशादिना पूर्व्वं पदसम्बद्धमक्षरं । |
|||
यत्र सन्धीयते नैव तल्लालित्यमुदाहृतं ।। ३४६.७ ।। |
|||
विशिष्टलक्षणोल्लेखलेख्यमुत्तानशब्दकम् । |
|||
गाम्भीर्य्यं कथयन्त्यार्य्यास्तदेवान्येषु शब्दतां ।। ३४६.८ ।। |
|||
अनिष्ठुराक्षरप्रायशब्दता सुकुमारता । |
|||
उत्तानपदतौदार्य्ययुतश्लाघ्यैर्विशेषणैः ।। ३४६.९ ।। |
|||
ओजः समासभूयस्त्वमेतत्पद्यादिजीवितं । |
|||
आब्रह्म स्तम्भपर्य्यन्तमोजसैकेन पौरुषं ।। ३४६.१० ।। |
|||
उच्यमानस्य शब्देन येन केनापि वस्तुनः । |
|||
उत्कर्षमावहन्नर्थो गुण इत्यबिधीयते ।। ३४६.११ ।। |
|||
माधुर्य्यं सम्बिधानञ्च कोमलत्वमूदारता । |
|||
प्रौढ़िः सामयिकत्वञ्च तद्भेदाः षट्चकाशति ।। ३४६.१२ ।। |
|||
क्रोधेर्ष्याकारगाम्भीर्य्यान्माधुर्य्यं धैर्य्यगाहिता । |
|||
सम्बिधानं परिकरः स्यादपेक्षइतसिद्धये ।। ३४६.१३ ।। |
|||
यत्काठिन्यादिनिर्मुक्तसन्निवेशविशिष्टता । |
|||
तिरस्कृत्यैव मृकदुता भाति कोमलतेति सा ।। ३४६.१४ ।। |
|||
लक्ष्यते स्थूललक्षत्वप्रवृत्तेर्यत्र लक्षणम् । |
|||
गुणल्य तदुदारत्वमाशयस्यातिसौष्ठवं ।। ३४६.१५ ।। |
|||
अभिप्रेतं प्रति यतो निर्व्वाहस्योपपादिकाः । |
|||
युक्तयो हेतुगर्भिण्यः प्रौढाप्रौढिरुदाहृता ।। ३४६.१६ ।। |
|||
स्वतन्त्रस्यान्यतन्त्रस्य वाह्यान्तः समयोगतः । |
|||
तत्र व्युत्पत्तिरर्थस्य या सामयिकतेति सा ।। ३४६.१७ ।। |
|||
शब्दार्थावुपकुर्व्वाणो नाम्नोभयगुणः स्मृतः । |
|||
तस्य प्र्सादः सौभाग्यं यथासङ्ख्यं प्रशस्तता ।। ३४६.१८ ।। |
|||
काको राग इकति प्राज्ञैः षट् प्रपञ्चविपञ्चिताः । |
|||
सुप्रसिद्धार्थपदता प्रसाद इति गीयते ।। ३४६.१९ ।। |
|||
उत्कर्षवान् गुणः कश्चिद्यस्मिन्नुक्तेप्रतीयते । |
|||
तत्सौभाग्यमुदारत्वं प्रवदन्ति मनीषिणः ।। ३४६.२० ।। |
|||
यथासङ्ख्यमनुद्देशः सामान्यमतिदिश्यते । |
|||
समये वर्णनीयस्य दारुणस्यापि वस्तुनः ।। ३४६.२१ ।। |
|||
अदारुणेन शब्देन प्राशसत्यमुपवर्णनं । |
|||
उच्चैः परिणतिः कापि पाक इत्यभिधीयते ।। ३४६.२२ ।। |
|||
मृद्वीकानारिकेलाम्बुपाकभेदाच्चतुव्विधः । |
|||
आदावन्ते च सौरस्यं मृद्वीकापाक एव सः ।। ३४६.२३ ।। |
|||
काव्येच्छया विशेषो यः स राग इति गीयते । |
|||
अब्यासोपहितः कान्तिं सहजामपि वर्त्तते ।। ३४६.२४ ।। |
|||
हारिद्रश्चैव कौसुम्भो नीली रागश्च स त्रिधा । |
|||
वैशेषिकः परिज्ञेयो यः स्वलक्षणगोचरः ।। ३४६.२५ ।। |
|||
इत्यादिमहापुराणे आग्नेये काव्यगुणविवेको नाम षट्चत्बारिंशदधिकत्रिशततमोऽध्यायः ।। |
|||
</poem> |
</poem> |
०६:५९, २० डिसेम्बर् २०११ इत्यस्य संस्करणं
काव्यगुणविवेकः ।
अग्निरुवाच ।
अलंकृतमपि प्रीत्यै न काव्यं निर्गुणं भवेत् ।
वपुष्य ललिते स्त्रीणां हारो भारयते परं ।। ३४६.१ ।।
न च वाच्यं गुणो दोषो भाव एव भविष्यति ।
गुणाः श्लेषादयो दोषा गुढ़ार्थाद्याः पृथक् कृताः ।। ३४६.२ ।।
यः काव्ये महतीं छायामनुगृह्णात्यसौ गुणः ।
सम्भवत्येष सामान्यो वैशेषिक इति द्विधा ।। ३४६.३ ।।
सर्व्वंसाधारणीभूतः सामान्य इति मन्य्ते ।
शव्दमर्थमुभौ प्राप्तः सामान्यो भवति त्रिधा ।। ३४६.४ ।।
शब्दमाश्रयते काव्यं शरीरं यः स तद्गुणः ।
श्लेषो लालित्यगाम्भीर्य्यसौकुमार्य्यमुदारता ।। ३४६.५ ।।
सत्येव यौगिकी चेति गुणाः शब्दस्य सप्तधा ।
सुश्लिष्टसन्निवेशत्वं शब्दानां श्लेष उच्यते ।। ३४६.६ ।।
गुणादेशादिना पूर्व्वं पदसम्बद्धमक्षरं ।
यत्र सन्धीयते नैव तल्लालित्यमुदाहृतं ।। ३४६.७ ।।
विशिष्टलक्षणोल्लेखलेख्यमुत्तानशब्दकम् ।
गाम्भीर्य्यं कथयन्त्यार्य्यास्तदेवान्येषु शब्दतां ।। ३४६.८ ।।
अनिष्ठुराक्षरप्रायशब्दता सुकुमारता ।
उत्तानपदतौदार्य्ययुतश्लाघ्यैर्विशेषणैः ।। ३४६.९ ।।
ओजः समासभूयस्त्वमेतत्पद्यादिजीवितं ।
आब्रह्म स्तम्भपर्य्यन्तमोजसैकेन पौरुषं ।। ३४६.१० ।।
उच्यमानस्य शब्देन येन केनापि वस्तुनः ।
उत्कर्षमावहन्नर्थो गुण इत्यबिधीयते ।। ३४६.११ ।।
माधुर्य्यं सम्बिधानञ्च कोमलत्वमूदारता ।
प्रौढ़िः सामयिकत्वञ्च तद्भेदाः षट्चकाशति ।। ३४६.१२ ।।
क्रोधेर्ष्याकारगाम्भीर्य्यान्माधुर्य्यं धैर्य्यगाहिता ।
सम्बिधानं परिकरः स्यादपेक्षइतसिद्धये ।। ३४६.१३ ।।
यत्काठिन्यादिनिर्मुक्तसन्निवेशविशिष्टता ।
तिरस्कृत्यैव मृकदुता भाति कोमलतेति सा ।। ३४६.१४ ।।
लक्ष्यते स्थूललक्षत्वप्रवृत्तेर्यत्र लक्षणम् ।
गुणल्य तदुदारत्वमाशयस्यातिसौष्ठवं ।। ३४६.१५ ।।
अभिप्रेतं प्रति यतो निर्व्वाहस्योपपादिकाः ।
युक्तयो हेतुगर्भिण्यः प्रौढाप्रौढिरुदाहृता ।। ३४६.१६ ।।
स्वतन्त्रस्यान्यतन्त्रस्य वाह्यान्तः समयोगतः ।
तत्र व्युत्पत्तिरर्थस्य या सामयिकतेति सा ।। ३४६.१७ ।।
शब्दार्थावुपकुर्व्वाणो नाम्नोभयगुणः स्मृतः ।
तस्य प्र्सादः सौभाग्यं यथासङ्ख्यं प्रशस्तता ।। ३४६.१८ ।।
काको राग इकति प्राज्ञैः षट् प्रपञ्चविपञ्चिताः ।
सुप्रसिद्धार्थपदता प्रसाद इति गीयते ।। ३४६.१९ ।।
उत्कर्षवान् गुणः कश्चिद्यस्मिन्नुक्तेप्रतीयते ।
तत्सौभाग्यमुदारत्वं प्रवदन्ति मनीषिणः ।। ३४६.२० ।।
यथासङ्ख्यमनुद्देशः सामान्यमतिदिश्यते ।
समये वर्णनीयस्य दारुणस्यापि वस्तुनः ।। ३४६.२१ ।।
अदारुणेन शब्देन प्राशसत्यमुपवर्णनं ।
उच्चैः परिणतिः कापि पाक इत्यभिधीयते ।। ३४६.२२ ।।
मृद्वीकानारिकेलाम्बुपाकभेदाच्चतुव्विधः ।
आदावन्ते च सौरस्यं मृद्वीकापाक एव सः ।। ३४६.२३ ।।
काव्येच्छया विशेषो यः स राग इति गीयते ।
अब्यासोपहितः कान्तिं सहजामपि वर्त्तते ।। ३४६.२४ ।।
हारिद्रश्चैव कौसुम्भो नीली रागश्च स त्रिधा ।
वैशेषिकः परिज्ञेयो यः स्वलक्षणगोचरः ।। ३४६.२५ ।।
इत्यादिमहापुराणे आग्नेये काव्यगुणविवेको नाम षट्चत्बारिंशदधिकत्रिशततमोऽध्यायः ।।