३८,०१३
सम्पादन
{{header
<poem><span style="font-size: 14pt; line-height: 200%">रौद्रं गवि वायव्यम् उपसृष्टम् आश्विनं दुह्यमानम् अग्नीषोमीयं दुग्धं पौष्णाः प्रेन्दवो मैत्रश् शरो वारुणम् ओधश्रितं वैष्णवं प्रतिष्ठाप्यमानं वैश्वदेवम् उन्नीतं सवितुः प्रक्रान्तं द्यावापृथिव्योर् उपसन्नम् इन्द्राग्न्योः पूर्वाहुतिः प्रजापतेर् उत्तरा। तद् एतत् सप्तदशम् अग्निहोत्रम्। सप्तदश उ एवा वाजपेयः। स य एवं विद्वान् अग्निहोत्रं जुहोत्य् उभाव् एव लोकाव् अभिजयति यश् चाग्निहोत्रहुतो यश् च वाजपेययाजिनः॥▼
| title = जैमिनीयं ब्राह्मणम्/काण्डम् १|काण्डम् १]]
| author =
| translator =
| section = कण्डिका ०२१-०३०
| previous = [[जैमिनीयं ब्राह्मणम्/काण्डम् १/०११-०२०|कण्डिका ११-२०]]
| next = [[जैमिनीयं ब्राह्मणम्/काण्डम् १/०३१-०४०|कण्डिका ३१-४०]]
| notes =
▲}}<poem><span style="font-size: 14pt; line-height: 200%">रौद्रं गवि वायव्यम् उपसृष्टम् आश्विनं दुह्यमानम् अग्नीषोमीयं दुग्धं पौष्णाः प्रेन्दवो मैत्रश् शरो वारुणम् ओधश्रितं वैष्णवं प्रतिष्ठाप्यमानं वैश्वदेवम् उन्नीतं सवितुः प्रक्रान्तं द्यावापृथिव्योर् उपसन्नम् इन्द्राग्न्योः पूर्वाहुतिः प्रजापतेर् उत्तरा। तद् एतत् सप्तदशम् अग्निहोत्रम्। सप्तदश उ एवा वाजपेयः। स य एवं विद्वान् अग्निहोत्रं जुहोत्य् उभाव् एव लोकाव् अभिजयति यश् चाग्निहोत्रहुतो यश् च वाजपेययाजिनः॥
त्रयो ऽग्निहोत्रे स्थाणव इति ह स्माह शाण्डिल्यः। यद् अप्रदीप्तायां समिधि जुहोति स स्थाणुः। यद् एनाम् अपराध्नोति स स्थाणुः। यद् एने संसृजति स स्थाणुः। आदीप्तायै समिधस् समुन्मुखे जुहोति। एतिहायोत्तराम् आहुतिं जुहोति। प्र ह सप्तदश -- सप्तदश सहस्रपोषान् पुष्यति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.21॥
|
सम्पादन