"अग्निपुराणम्/अध्यायः ३११" इत्यस्य संस्करणे भेदः
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
===त्वरितामूलमन्त्रादिः=== |
|||
<poem> |
<poem> |
||
अग्निरुवाच |
|||
दीक्षादि वक्ष्ये विन्यस्य सिंहवज्राकुलेऽब्जके । |
|||
हे हुति वज्रदन्त पुरु लुलु गर्ज्ज इह सिंहासनाय नमः । |
|||
तिर्य्यगूद्र्ध्वगता रेखाश्चत्वारश्चतुरो भवेत् ।। ३११.१ ।। |
|||
नवभागविभागेन कोष्ठकान् कारयेद्बुधः । |
|||
ग्राह्या दिशागताः कोष्ठा विदिशासु विनाशयेत् ।। ३११.२ ।। |
|||
वाह्ये वै कोष्ठकोणेषु वाह्यरेखाष्टकं स्मृतम् । |
|||
वाह्यरेखा भवेद्वका द्विभङ्गा कारयेद्बुधः ।। ३११.३ ।। |
|||
वज्रस्य मध्यमं श्रृङ्गं द्विधार्धतः । |
|||
वाह्यरेखा भवेद्वक्रा द्विभङ्गा कारयेद्बुधः ।। ३११.४ ।। |
|||
मध्यकोष्ठं भवेत्पद्मं पीतकर्णिकमुज्ज्वलम् । |
|||
कृष्णेन रजसा लिख्य कुलिशासिशिरोद्र्ध्वता ।। ३११.५ ।। |
|||
वाह्यतश्चतुरस्रन्तु वज्रसम्पुटलाञ्छितम् । |
|||
द्वारे प्रदापयेन्मन्त्री चतुरो वज्रसम्पुटान् ।। ३११.६ । |
|||
पद्मनाम भवेद्वामवीथी चैव समा भवेत् । |
|||
गर्भं रक्तं केशराणि मण्डले दीक्षिताः स्त्रियः ।। ३११.७ ।। |
|||
जयेच्च परराष्ट्राणि क्षइप्रं राज्यमवाप्नुयात् । |
|||
मूर्त्ति प्रणवसन्दीप्तां हूँकारेण नियोजयेत् ।। ३११.८ ।। |
|||
मूलविद्यां समुच्चार्य्यं मरुद्व्योमगतां द्विज । |
|||
प्रथमेन पुनश्चैव कणिकायां प्रपूजयेत् ।। ३११.९ ।। |
|||
एवं प्रदक्षिणं पूज्य एकैकं वीजमादितः । |
|||
दलमध्ये तु विद्याङ्गा आग्नेय्यां पञ्च नैर्ऋतम् ।। ३११.१० ।। |
|||
मध्येनेत्रं दिशारूञ्च स्वैः स्वैर्म्मन्त्रैः प्रपूजयेत् । |
|||
मध्येनेत्रं दिशारूञ्च गुह्यकाङ्गे तु रक्षणम् ।। ३११.११ ।। |
|||
पञ्च पञ्च प्रपूज्यास्तु स्वैः स्वैर्म्मन्त्रैः प्रपूजयेत् । |
|||
लोकपालान्न्यसेदष्टौ वाह्यतो गर्भमण्डले ।। ३११.१२ ।। |
|||
वर्णान्तमग्निमारूढं षष्ठस्वरविभेदितं । |
|||
पञ्चदशेन चाक्रान्तं स्वैः स्वैर्नामभि योजयेत् ।। ३११.१३ ।। |
|||
शीघ्रं सिंहे कर्णिकायां यजेद् गन्धादिभिः श्रिये । |
|||
अष्टाभिर्वेष्टयेत् कुम्भैर्म्मन्त्राष्टशतमन्त्रितैः ।। ३११.१४ ।। |
|||
मन्त्रमष्टसहस्रन्तु जप्त्वाङ्गानां दशांशकम् । |
|||
होमं कुर्य्यादग्निगुण्डे वह्निमन्त्रेण चालयेत् ।। ३११.१५ ।। |
|||
निक्षिपेद् हृदयेनाग्निं शक्तिं मध्येऽग्निगां स्मरेत् । |
|||
गर्भाधानं पुंसवनं जातकर्म्म च होमयेत् ।। ३११.१६ ।। |
|||
हृदयेन शतं ह्येकं गुह्याङ्गे जनयेच्छिखिम् । |
|||
पूर्णाहुत्या तु विद्यायाः शिवाग्निर्ज्वलियो भवेत् ।। ३११.१७ ।। |
|||
होमयेन्मूलमन्त्रेण शतञ्चाङ्गं दशांशतः । |
|||
निवेदयेत्ततो देव्यास्ततः शिष्यं प्रवेशयेत् ।। ३११.१८ ।। |
|||
अस्त्रेण ताडनं कृत्वा गुह्याङ्गानि ततो न्यसेत् । |
|||
विद्याङ्गैश्चेव सन्नद्धं विद्याङ्गेषु नियोजयेत् ।। ३११.१९ ।। |
|||
पुष्पं क्षिपाययेच्छिष्यमानयेदग्निकुण्डकम् । |
|||
यवैर्द्वान्यैस्तिलैराज्यैर्मूलविद्याशतं हुनेत् ।। ३११.२० ।। |
|||
स्थावरत्वं पुरा होमं सरीसृपमतः परं । |
|||
पक्षिमृगपशुत्वञ्च मानुषं ब्राह्ममेव च ।। ३११.२१ ।। |
|||
विष्णुत्वञ्चैव रुद्रत्वमन्ते पूर्णाहुतिर्भवेत् । |
|||
एकया चैव ह्याहुत्या शिष्यः स्याद्दीक्षितो भवेत् ।। ३११.२२ ।। |
|||
अधिकारो भवेदेवं श्रृणु मोक्षमतः परम् । |
|||
सुमेरुस्थो यदा मन्त्री सदाशिवपदे स्थितः ।। ३११.२३ ।। |
|||
परे च होमयेत् स्वस्थोऽकर्म्मकर्म्मशतान् दश । |
|||
पूर्णाहुत्या तु तद्योगी धर्म्माधर्मैर्न लिप्यते ।। ३११.२४ ।। |
|||
मोक्षं याति परंस्थानं यद्गत्वा न निवर्त्तते । |
|||
यथा जले जले क्षिप्तं जलं देही शिरस्तथा ।। ३११.२५ ।। |
|||
कुम्भैः कुर्य्याच्चाभिषेकं जयराज्यादिसर्वभाक् । |
|||
कुमारी ब्राह्मणी पूज्या गुर्व्वादेर्दक्षिणं ददेत् ।। ३११.२६ ।। |
|||
यजेत् सहस्रमेकन्तु पूकजां कृत्वा दिने दिने । |
|||
तिलाज्यपुरहोमेन देवी श्रीः कामदा भवेत् ।। ३११.२७ ।। |
|||
ददाति विपुलान् भोगान् यदन्यच्च समीहते । |
|||
जप्त्वा ह्यक्षरलक्षन्तु निधानाधिपतिर्भवेत् ।। ३११.२८ ।। |
|||
द्विगुणेन भवेद्राज्यं त्रिगुणेन च यक्षिणी । |
|||
चतुर्गुणेन ब्रह्मत्वं ततो विष्णुपदं भवेत् ।। ३११.२९ ।। |
|||
षड्गुणेन महासिद्धिर्ल्लक्षेणैकेन पापहा । |
|||
दश जप्त्वा देहशुद्ध्यै तीर्थस्नानफलं शतात् ।। ३११.३० ।। |
|||
पटे वा प्रतिमायां वा शीघ्रां वै स्थण्डिले यजेत् । |
|||
शतं सहस्रमयुतं जपे होमे प्रकीर्त्तितम् ।। ३११.३१ ।। |
|||
एवं विधानतो जप्त्वा लक्षमेकन्तु होमयेत् । |
|||
महिषाजमेषमांसेन नरजेन पुरेण वा ।। ३११.३२ ।। |
|||
तिलैर्यवैस्तथा लाजैर्ब्रीहिगोधूमकाम्रकैः । |
|||
श्रीफलैराज्यसंयुक्तैर्होमयित्वा व्रतञ्चरेत् ।। ३११.३३ ।। |
|||
अर्द्धरात्रेषु सन्नद्धः खड्गचापशरादिमान् । |
|||
एकवासा विचित्रेण रक्तपीतासितेन वा ।। ३११.३४ ।। |
|||
नीलेन वाथ वस्त्रेण देवीं तैरेव चार्च्चयेत् । |
|||
व्रजेद्दक्षिणदिग्भागं द्वारे दद्याद्बलिं बुधः ।। ३११.३५ ।। |
|||
दूतीमन्त्रेण द्वारादौ एकवृक्षे श्मशानके । |
|||
एवञ्च सर्व्वकामाप्तिर्भुङ्क्ते सर्व्वां महीं नृपः ।। ३११.३६ ।। |
|||
इत्यादिमहापुराणे आग्नेये त्वरितामूलमन्त्रो नामैकादशाधिकत्रिशततमोऽध्यायः ।। |
|||
</poem> |
</poem> |
१०:४०, १९ डिसेम्बर् २०११ इत्यस्य संस्करणं
त्वरितामूलमन्त्रादिः
अग्निरुवाच
दीक्षादि वक्ष्ये विन्यस्य सिंहवज्राकुलेऽब्जके ।
हे हुति वज्रदन्त पुरु लुलु गर्ज्ज इह सिंहासनाय नमः ।
तिर्य्यगूद्र्ध्वगता रेखाश्चत्वारश्चतुरो भवेत् ।। ३११.१ ।।
नवभागविभागेन कोष्ठकान् कारयेद्बुधः ।
ग्राह्या दिशागताः कोष्ठा विदिशासु विनाशयेत् ।। ३११.२ ।।
वाह्ये वै कोष्ठकोणेषु वाह्यरेखाष्टकं स्मृतम् ।
वाह्यरेखा भवेद्वका द्विभङ्गा कारयेद्बुधः ।। ३११.३ ।।
वज्रस्य मध्यमं श्रृङ्गं द्विधार्धतः ।
वाह्यरेखा भवेद्वक्रा द्विभङ्गा कारयेद्बुधः ।। ३११.४ ।।
मध्यकोष्ठं भवेत्पद्मं पीतकर्णिकमुज्ज्वलम् ।
कृष्णेन रजसा लिख्य कुलिशासिशिरोद्र्ध्वता ।। ३११.५ ।।
वाह्यतश्चतुरस्रन्तु वज्रसम्पुटलाञ्छितम् ।
द्वारे प्रदापयेन्मन्त्री चतुरो वज्रसम्पुटान् ।। ३११.६ ।
पद्मनाम भवेद्वामवीथी चैव समा भवेत् ।
गर्भं रक्तं केशराणि मण्डले दीक्षिताः स्त्रियः ।। ३११.७ ।।
जयेच्च परराष्ट्राणि क्षइप्रं राज्यमवाप्नुयात् ।
मूर्त्ति प्रणवसन्दीप्तां हूँकारेण नियोजयेत् ।। ३११.८ ।।
मूलविद्यां समुच्चार्य्यं मरुद्व्योमगतां द्विज ।
प्रथमेन पुनश्चैव कणिकायां प्रपूजयेत् ।। ३११.९ ।।
एवं प्रदक्षिणं पूज्य एकैकं वीजमादितः ।
दलमध्ये तु विद्याङ्गा आग्नेय्यां पञ्च नैर्ऋतम् ।। ३११.१० ।।
मध्येनेत्रं दिशारूञ्च स्वैः स्वैर्म्मन्त्रैः प्रपूजयेत् ।
मध्येनेत्रं दिशारूञ्च गुह्यकाङ्गे तु रक्षणम् ।। ३११.११ ।।
पञ्च पञ्च प्रपूज्यास्तु स्वैः स्वैर्म्मन्त्रैः प्रपूजयेत् ।
लोकपालान्न्यसेदष्टौ वाह्यतो गर्भमण्डले ।। ३११.१२ ।।
वर्णान्तमग्निमारूढं षष्ठस्वरविभेदितं ।
पञ्चदशेन चाक्रान्तं स्वैः स्वैर्नामभि योजयेत् ।। ३११.१३ ।।
शीघ्रं सिंहे कर्णिकायां यजेद् गन्धादिभिः श्रिये ।
अष्टाभिर्वेष्टयेत् कुम्भैर्म्मन्त्राष्टशतमन्त्रितैः ।। ३११.१४ ।।
मन्त्रमष्टसहस्रन्तु जप्त्वाङ्गानां दशांशकम् ।
होमं कुर्य्यादग्निगुण्डे वह्निमन्त्रेण चालयेत् ।। ३११.१५ ।।
निक्षिपेद् हृदयेनाग्निं शक्तिं मध्येऽग्निगां स्मरेत् ।
गर्भाधानं पुंसवनं जातकर्म्म च होमयेत् ।। ३११.१६ ।।
हृदयेन शतं ह्येकं गुह्याङ्गे जनयेच्छिखिम् ।
पूर्णाहुत्या तु विद्यायाः शिवाग्निर्ज्वलियो भवेत् ।। ३११.१७ ।।
होमयेन्मूलमन्त्रेण शतञ्चाङ्गं दशांशतः ।
निवेदयेत्ततो देव्यास्ततः शिष्यं प्रवेशयेत् ।। ३११.१८ ।।
अस्त्रेण ताडनं कृत्वा गुह्याङ्गानि ततो न्यसेत् ।
विद्याङ्गैश्चेव सन्नद्धं विद्याङ्गेषु नियोजयेत् ।। ३११.१९ ।।
पुष्पं क्षिपाययेच्छिष्यमानयेदग्निकुण्डकम् ।
यवैर्द्वान्यैस्तिलैराज्यैर्मूलविद्याशतं हुनेत् ।। ३११.२० ।।
स्थावरत्वं पुरा होमं सरीसृपमतः परं ।
पक्षिमृगपशुत्वञ्च मानुषं ब्राह्ममेव च ।। ३११.२१ ।।
विष्णुत्वञ्चैव रुद्रत्वमन्ते पूर्णाहुतिर्भवेत् ।
एकया चैव ह्याहुत्या शिष्यः स्याद्दीक्षितो भवेत् ।। ३११.२२ ।।
अधिकारो भवेदेवं श्रृणु मोक्षमतः परम् ।
सुमेरुस्थो यदा मन्त्री सदाशिवपदे स्थितः ।। ३११.२३ ।।
परे च होमयेत् स्वस्थोऽकर्म्मकर्म्मशतान् दश ।
पूर्णाहुत्या तु तद्योगी धर्म्माधर्मैर्न लिप्यते ।। ३११.२४ ।।
मोक्षं याति परंस्थानं यद्गत्वा न निवर्त्तते ।
यथा जले जले क्षिप्तं जलं देही शिरस्तथा ।। ३११.२५ ।।
कुम्भैः कुर्य्याच्चाभिषेकं जयराज्यादिसर्वभाक् ।
कुमारी ब्राह्मणी पूज्या गुर्व्वादेर्दक्षिणं ददेत् ।। ३११.२६ ।।
यजेत् सहस्रमेकन्तु पूकजां कृत्वा दिने दिने ।
तिलाज्यपुरहोमेन देवी श्रीः कामदा भवेत् ।। ३११.२७ ।।
ददाति विपुलान् भोगान् यदन्यच्च समीहते ।
जप्त्वा ह्यक्षरलक्षन्तु निधानाधिपतिर्भवेत् ।। ३११.२८ ।।
द्विगुणेन भवेद्राज्यं त्रिगुणेन च यक्षिणी ।
चतुर्गुणेन ब्रह्मत्वं ततो विष्णुपदं भवेत् ।। ३११.२९ ।।
षड्गुणेन महासिद्धिर्ल्लक्षेणैकेन पापहा ।
दश जप्त्वा देहशुद्ध्यै तीर्थस्नानफलं शतात् ।। ३११.३० ।।
पटे वा प्रतिमायां वा शीघ्रां वै स्थण्डिले यजेत् ।
शतं सहस्रमयुतं जपे होमे प्रकीर्त्तितम् ।। ३११.३१ ।।
एवं विधानतो जप्त्वा लक्षमेकन्तु होमयेत् ।
महिषाजमेषमांसेन नरजेन पुरेण वा ।। ३११.३२ ।।
तिलैर्यवैस्तथा लाजैर्ब्रीहिगोधूमकाम्रकैः ।
श्रीफलैराज्यसंयुक्तैर्होमयित्वा व्रतञ्चरेत् ।। ३११.३३ ।।
अर्द्धरात्रेषु सन्नद्धः खड्गचापशरादिमान् ।
एकवासा विचित्रेण रक्तपीतासितेन वा ।। ३११.३४ ।।
नीलेन वाथ वस्त्रेण देवीं तैरेव चार्च्चयेत् ।
व्रजेद्दक्षिणदिग्भागं द्वारे दद्याद्बलिं बुधः ।। ३११.३५ ।।
दूतीमन्त्रेण द्वारादौ एकवृक्षे श्मशानके ।
एवञ्च सर्व्वकामाप्तिर्भुङ्क्ते सर्व्वां महीं नृपः ।। ३११.३६ ।।
इत्यादिमहापुराणे आग्नेये त्वरितामूलमन्त्रो नामैकादशाधिकत्रिशततमोऽध्यायः ।।